श्रीभक्तिचन्द्रिका/चतुर्थः पटलः
← तृतीयः पटलः | श्रीभक्तिचन्द्रिका चतुर्थः पटलः [[लेखकः :|]] |
पञ्चमः पटलः → |
चतुर्थः पटलः
अथ भक्तिमतीं दीक्षां मन्त्रसिद्ध्यर्थहेतवे ।
वक्ष्ये शिष्येष्टसिद्ध्यर्थं भगवत्प्रीतिकारिणीम् ॥१॥
यामृते मन्त्रसिद्धिर्न भवेत्कोटिजपादिभिः ।
कल्पे दृष्ट्वा न कदापि जपेन्मन्त्रं विवक्षणः ॥२॥
यथास्वं दक्षिणावस्तु नेह ब्रह्माण्डगोचरे ।
तत्रैवं दक्षिणा देहसमर्पणविधिर्विधिः ॥३॥
ततः प्रथमतः शिष्यगुरुलक्षणमुच्यते ॥४॥
भक्तं भक्तिविधानतत्त्वकथने निष्णातमेवान्वहम्
ब्रह्माख्यानपरायणं भगवतस्तत्त्वैकनिष्ठापनम् ।
शान्तं दान्तमनन्यसाधनपरं सद्वासनासंयुतं
भक्त्या श्रीगुरुमाश्रयेदनुगतोऽमायी सुशान्तोऽनिशम् ॥५॥
प्रपद्यमानो गुरुमाह वाक्यं
प्रणम्य भक्त्या निजकर्मदर्शी ।
अहं सदा दुःसहदुःखभागी
दयां कुरुस्वेति दयानिधे मे ॥६॥
संसारमग्नं प्रणतं दयाम्बुधे
त्रायस्व मां नित्यमनन्यदर्शिनम् ।
स्वाभीष्टसेवाविधिमेव देहि मे
शिष्यं प्रपन्नं कुरुशासनं हितम् ॥७॥
मासर्क्षतिथिवारे च शुभे लग्ने समाहितः ।
देशिकः संयमी दीक्षाविधिमारभते स्वयम् ॥८॥
वृतः शिष्येण वासोभिर्भूषणैः पुष्पचन्दनैः ।
एतैरलङ्कृतो धीरो भूमिं संशोध्य यत्नवान॥९॥
तत्रासनं पातयित्वा चैलाजिनकुशोत्तरम् ।
तदेव शोधयेन्मन्त्रैर्मन्त्री बद्धाञ्जलिः शुचिः ॥१०॥
मेरुपृष्ठादिभिश्चात्र मन्त्रिते स्वस्तिकासनम् ।
बद्धोपविश्य प्राचीदिग्वदनः सोर्ध्वपूण्ड्रकः ॥११॥
संमन्त्र्य गन्धपुष्पादीन्करौ ताभ्यां च शोधयेत।
प्रणम्य वामभागे च गुरुपङ्क्तीर्गणाधिपम् ॥१२॥
दक्षेऽग्रतो भगवतीं क्षेत्रपालं च पश्चिमे ।
निर्विघ्नो विधिवत्कृत्वा तालदिग्बन्धनादिकम् ॥१३॥
भूतशुद्धिक्रमेणैव देहशोधनमाचरन।
संस्थाप्य देहे जीवादीन्कृतन्यासविधिक्रमात॥१४॥
स्वदेहे पीथमभ्यर्च्य ध्यानादेव महाप्रभुम् ।
तत्र संस्थाप्य मूलेन सम्पूज्य मनसा क्रमात॥१५॥
तस्याहं तन्मयो भूत्वा बहिः पूजां समाचरन।
अर्घ्यसंस्थापनं कुर्याद्यथाक्रममतन्द्रितः ॥१६॥
त्रिषट्चतुष्कोणयुतं मण्डलत्रयमुत्तमम् ।
उपर्युपरिभागेन भुवि वामे लिखेत्सुधीः ॥१७॥
प्रक्षाल्य त्रिपदीमस्त्रमनुना तत्र मण्डले ।
संस्थाप्य पूजयेद्भक्त्या गन्धाद्यैः सुसमाहितः ।
वह्निमण्डलरूपां तां वह्निमण्डलमन्त्रतः ॥१८॥
ततोऽस्त्रमनुना शङ्खं प्रक्षाल्य स्थापयेत्ततः ।
पूजयेत्सूर्यरूपं तं सूर्यमण्डलमन्त्रतः ॥१९॥
गन्धं पुष्पं यवं दूर्वां हृदा शङ्खे च निक्षिपेत।
दक्षिणस्थजले धीमान्विलोमेनैव मातृकाः ॥२०॥
तेजः स्वरूपाविज्ञाय प्रजपन्निन्दुनिःसृताः ।
तद्युक्तामृतबुद्ध्याब्जं शिरसा पूरयेज्जलैः ॥२१॥
तद्भागं सोमबुद्ध्या च सोममण्डलमन्त्रतः ।
सम्पूज्य तत्र तीर्थानि स्थापयेत्सूर्यमण्डलात।
तन्मन्त्रेण समानीय हृत्पद्याच्च महाप्रभुम् ॥२२॥
प्रदर्श्य गालिनीं मुद्रां शिखया नेत्रमन्त्रतः ।
स्वयं वीक्ष्य वर्मणा च जलं तदवगुण्ठयेत॥२३॥
अथ गुण्ठनमुद्राभिः पुनस्तस्याग्निकोणतः ।
हृदयापि कवचान्ते नेत्रमग्रे च विन्यसेत॥२४॥
दिक्ष्वस्त्रमङ्गमन्त्रैस्तु पूजयेत्तज्जलं क्रमात।
अमृतीकरणं धेनुमुद्रया शङ्खमुद्रिकाम् ॥२५॥
प्रदर्श्याच्छाद्य यत्नेन तज्जलं मत्स्यमुद्रया ।
प्रजपन्नष्टधा मूलमन्त्रमैक्यं च भावयेत॥२६॥
जलाब्जदेवतानां च प्रसन्नात्मा ततः परम् ।
शङ्खस्थजलबिन्दुं च दक्षिणस्थजले क्षिपेत॥२७॥
तच्छेषेणोक्षयेत्पूजाद्रव्यमात्मानमेव च ।
वारत्रयं ततो मन्त्री घटं मण्डलमध्यतः ॥२८॥
गुरुविघ्नेश्वपीठार्चान्विते शालिकुशोपरि ।
संवेष्ट्य क्षौमयुग्मेन सतारं विधिवन्न्यसेत॥२९॥
पञ्चरत्नं पञ्चगव्यं पञ्चामृतमतः परम् ।
कुशकूर्चास्तथा श्वेतप्रसूनाक्षतपल्लवान॥३०॥
प्रत्येकमेव मन्त्रेण मूलेन निक्षिपेद्घटे ।
कर्पूरावासिनं नीरं मातृकामयमुत्तमम् ॥३१॥
सुधास्वरूपकं स्वच्छं त्रिश्च जप्तं स्वमन्त्रतः ।
क्षीरद्रुमादिक्वथम्बा नीत्वा शङ्खान्तरं पुनः ॥३२॥
तेन सम्पूर्य मूलेन त्रिपदां तत्र सम्जपेत।
गङ्गादिसर्वतीर्थानि समुद्रान्सर्वदेवताः ।
आवाह्य स्थापयेत्तत्र क्षिप्त्वा गन्धाष्टकं कलाः ॥३३॥
सम्पूज्य विधिवत्सर्वाघटे सर्वं पयः क्षिपेत।
आच्छाद्य विधिनाभ्यर्चेद्घटं सर्वमयं ततः ॥३४॥
यन्त्रस्वर्णादिपात्रस्थं लिखितं सुमनोहरम् ।
घटे संस्थाप्य तत्रैवाधारादींश्चाभिपूजयेत॥३५॥
वसुयुग्मदलोपेतं कमलं केशरान्वितम् ।
सकर्णिकं चतुर्द्वारतोरणाञ्चितमुत्तमम् ॥३६॥
रेखात्रयसमायुक्तं वसुवज्रसमन्वितम् ।
चन्दनालिप्तपात्रे च लिखेत्स्वर्णशलाकया ॥३७॥
चतुरस्रं कर्णिकायामासनं मध्यदेशतः ।
प्रेमबीजं लिखेत्तत्र बहिः षट्कोणमुत्तमम् ॥३८॥
षड्गह्वरे कामबीजं चतुष्कोणे भुवः पुनः ।
चैतन्यानन्दनामानमिमं यन्त्रं विलिख्य च ॥३९॥
स्वर्णपात्रे कुङ्कुमेन धारयेद्यः समाहितः ।
भक्तिर्भागवती प्रेमलक्षणा तस्य सिध्यति ॥४०॥
उपर्युपरि तत्रैव क्रमादाधारशक्तिकान।
सम्पूज्य पूर्ववद्ध्यात्वा भगवन्तं हृदिस्थितम् ॥४१॥
मूलहृद्भालकमले तेजस्त्रयमनुत्तमम् ।
तडिल्लताभं तत्रैकीकृत्य प्रेम्ना ततो बहिः ॥४२॥
निःसार्य किंचित्संस्थाप्य भक्त्या पूजासने ततः ।
मूलेन मूर्तिं सङ्कल्प्य तत आवाहयेत्पुनः ॥४३॥
आवाहन्यादिभिर्मन्त्रीमुद्राभिरष्टभिस्तथा ।
संस्थाप्य मूलमन्त्रेण दद्यादर्घ्यं प्रकल्पितम् ॥४४॥
ततः पाद्यादिभिर्देवं सम्पूज्य विधिवत्सुधीः ।
तत्रैव अञ्जलिभिः षड्भिः पादहृद्मस्तके पुनः ॥४५॥
वक्षे वामे च सर्वाङ्गे तुलस्यादिभिरर्चयेत।
करवीराम्बुजैः शुक्लै रक्तै तच्चन्दनान्वितैः ॥४६॥
एवं सम्पूज्य विधिवदङ्गाद्यावरणं ततः ।
पूजयेद्गन्धपुष्पाद्यैः क्रमेण विधिवन्नरः ।
तत्रानुज्ञां प्रभोः प्रार्थ्य क्षिपेत्त्र्यञ्जलिमूलतः ॥४७॥
आग्नेयादिचतुष्कोणे चतुरस्रासनस्य च ।
सम्पूज्य पुष्पगन्धाभ्यां हृदयाद्यङ्गदेवताः ॥४८॥
नेत्रमग्रे चतुर्दिक्षु पूर्वादिष्वस्त्रदेवताः ।
रक्तश्यामपाठलाभशुक्लकृष्णानलप्रभाः ॥४९॥
सुवर्णवसनालेपयुक्ता दिव्यविभूषणाः ।
वराभीतिकराध्येयाः प्रेमस्निग्धेक्षणाः शुभाः ॥५०॥
तद्बहिः षट्सु कोणेषु पूज्योऽग्रे द्विजनन्दनः ।
गदाधरो दक्षभागे न्यासी दामोदरस्तथा ॥५१॥
वामे श्रीमन्नरहरिः पश्चाद्दासो गदाधरः ।
दक्षे दत्तो वासुदेवः शिवानन्दश्च वामतः ॥५२॥
प्रेम्ना प्रभुमुखाम्भोजप्रेक्षकाः पुलकाकुलाः ।
दिव्यमाल्यकराम्भोजा एते पूज्या विधानतः ॥५३॥
तद्बहिः केशरेष्वग्रे नित्यानन्दो जगत्पतिः ।
आचार्याद्वैतनामापि मुरारिश्रीनिवासकौ ॥५४॥
पुरी स्यान्माधवो ज्ञेयः परमानन्द एव च ।
ब्रह्मानन्दोऽपि सन्न्यासी नृसिंहानन्द इत्यपि ॥५५॥
भारती केशवो ज्ञेयः सर्वविद्याविशारदः ।
गोविन्दानन्दो गोविन्ददासो वक्रेश्वरस्ततः ॥५६॥
हरिदासो मुकुन्दश्च रामः सङ्गीततत्परः ।
हरिदासो द्विजवरः सर्वे चन्दनमालिनः ॥५७॥
हरिनामपराः केचित्केचित्तन्नामतत्पराः ।
प्रेमाङ्कुरसमायुक्ताः प्रेमाश्रुनयनोज्ज्वलाः ॥५८॥
तद्बहिः पत्रमध्ये च सार्वभौमस्ततः परम् ।
वल्लभो जगदानन्दो मुकुन्दो रघुनन्दनः ॥५९॥
जगन्नाथः शचीदेवी गोविन्दघोष एव च ।
काशीश्वरः कृष्णदासः श्रीदामदास एव च ॥६०॥
सुन्दरानन्दनामादि परमेश्वरदासकः ।
पुरुषोत्तमदासः स्याद्गौरीदासस्ततः परम् ॥६१॥
कमलाकरस्ततोऽभ्यर्चः सर्वे दिव्यानुलेपनाः ।
ध्येया दिव्याम्बराः प्रेमरसविह्वलचेतसः ॥६२॥
पत्रे तद्बहिःपूज्या ज्ञानानन्दस्ततः परम् ।
घोषश्रीवासुदेवश्च प्रतापरुद्र एव च ॥६३॥
रामानन्दो राघवश्च प्रद्युम्नः श्रीसुदर्शनः ।
वाणीनाथो विष्णुदासो दामोदरपुरन्दरौ ॥६४॥
आचार्यचन्द्रो भगवान्चन्द्रशेखर एव च ।
चन्दनेश्वरनामापि पण्डितः श्रीधनञ्जयः ॥६५॥
सर्वे भागवता गौरप्रेमविह्वलमानसाः ।
हरिनामरता ध्येया दिव्यमाल्यकराम्बुजाः ॥६६॥
तद्बहिर्दिक्षु दिक्पालाः पूज्या भक्तिपरायणाः ।
तत्तद्बीजादियुक्ताश्च तत्तद्वर्णविभूषणाः ॥६७॥
इन्द्रोऽग्निर्यम इत्येव नैरृतो वरुणस्तथा ।
वायुः कुवेर ईशानो दिक्ष्वनन्तोऽध ऊर्ध्वतः ॥६८॥
लोकेशस्तद्बहिर्दिक्षु तदस्त्राणि प्रपूजयेत।
वज्रादीन्यष्टमूर्तानि चक्राब्जे त्वध ऊर्ध्वयोः ॥६९॥
प्रभोः पार्षदरूपाणि स्वलक्ष्माढ्यानि मौलिषु ।
ततो नामाष्टकेनापि तस्मै पुष्पाञ्जलीन्दिशेत॥७०॥
इति सम्पूज्य धूपं च दीपं नैवेद्यमग्रतः ।
स्थापयित्वास्त्रमन्त्रेण सम्प्रोक्ष्य शोषणादिभिः ॥७१॥
वायुबीजादिभिर्वामपाणिना शोधयेत्पुनः ।
संरक्ष्य चक्रमुद्राभिर्धेनुमुद्रामृतीकृतम् ॥७२॥
जप्तं मूलेनाष्टकृत्वस्तुलस्या पूजितं कृती ।
निवेद्य मूलमन्त्रेण घण्टां तन्मन्त्रमन्त्रिताम् ॥७३॥
वादयन्वामहस्तेन नीचैर्दद्यात्पुनः पुनः ।
धूपमापादमामौलि सप्तवारं प्रदर्शयेत॥७४॥
दीपं गृहीत्वा नैवेद्यं तन्निवेदनमुद्रया ।
तन्मन्त्रेणैव परया भक्त्या श्रीप्रभवेऽर्पयेत॥७५॥
निवेदयामि भवते जुषाणेदं हविर्हरे ।
स्थापयित्वा पुनर्भूमौ कर्पूरवासितं परम् ॥७६॥
गण्डूषं दत्त्वा मन्त्रेण ग्रासमुद्रां प्रदर्शयेत।
सव्येन चोत्पलाकारं दक्षेण पञ्चमुद्रिकाः ॥७७॥
यथाक्रमं भोजयित्वा हुत्वा च विधिवद्बलिम् ।
ग्रहादिभ्यः समर्प्याथ पुनर्गण्डूषमादरात।
दत्त्वाग्रे त्रिः कर्म कुर्यात्स्वार्पणान्तं ततो न्यसेत॥७८॥
संहारमुद्रया देवं हृदि संस्थाप्य यत्नवान।
विष्वक्सेनाय निर्माल्यं दत्त्वा किंचित्स्वयं ततः ॥७९॥
गृहीत्वा तन्मयो भूत्वा सर्वं स्मृत्वा चिदात्मकम् ।
घटे संयोज्य तं स्पृष्ट्वा शतमष्टोत्तरं जपन॥८०॥
कृतोपवासं पूर्वेद्युः शिष्यमानीय वामतः ।
भूतशुद्ध्यादिकं कृत्वा घटं नीत्वा तथान्तिके ॥८१॥
देवं प्रार्थ्यमन्त्रपूतैश्चाभिसिञ्चेद्घटोदकैः ॥८२॥
धृत्वांशुके अथाचम्य भक्त्यासीनस्य सन्निधौ ।
विचिन्त्य देवं हृदये देशिकसुप्रसन्नधीः ॥८३॥
पूजयित्वा अर्घ्यपाद्याद्यैरात्मानं शिष्यमेव च ।
वाससाच्छाद्य रुद्राक्षं दिव्यदृष्ट्यावलोकयन॥८४॥
न्यस्य मूर्ध्नि करं तस्य दक्षकर्णे मनुं वदेत।
विधिवद्वारत्रितयं स चैक्यं भावयन्पठेत॥८५॥
गुरुदैवतमन्त्राणां ततस्तस्य करेऽर्पयेत।
समानफलदोऽस्त्वेष आवयोर्मन्त्र इत्यपि ॥८६॥
तुलसीसहितं नीरं शिष्यः स्वस्ति ब्रवीत्विति ।
लब्ध्वा शुभ्राशिषोऽन्यच्च जायते पूर्वमानसः ॥८७॥
यथाशक्ति जपेन्मन्त्रं गुरुः शिष्यश्च शान्तधीः ।
विनयावनतस्तस्माच्छिक्षेत समयादिकम् ॥८८॥
ततः शिष्यो गुरुभक्त्या काञ्चनादिधनेन च ।
सन्तोष्य विधिवद्भूमौ प्रणमेत्पुनः पुनः ।
देहसमर्पणं कृत्वा तोषयेद्गुरुमादरात॥८९॥
गुरुर्ब्रह्मा गुरु विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुरेव परं ब्रह्म तस्मादादौ तमर्चयेत॥९०॥
अज्ञानतिमिरान्धस्येत्यादिना प्रणमेत्सद।
एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत॥९१॥
यत्किंचिदन्नपानादिप्रियं द्रव्यं मनोरमम् ।
निवेद्य गुरवे पश्चात्स्वयं भुञ्जीत प्रत्यहम् ॥९२॥
शिष्यः शान्तो यतात्मा च गुरु भक्तिरतः सदा ।
व्रती सत्यवचानित्यं जपेन्मन्त्रं प्रयत्नतः ॥९३॥
एतेषां मन्त्रचर्याणां दशलक्ष्यं जपेत्सुधीः ।
होमस्तस्य दशांशेन तर्पणं तद्दशांशतः ॥९४॥
अभिषेकस्तद्दशांशो ब्राह्मणं भोजयेत्ततः ।
दशांशविधिना युक्तः पुरश्चर्याविधैः क्रमात॥९५॥
इति भक्तिचन्द्रिकायां चतुर्थः पटलः