← चतुर्थः पटलः श्रीभक्तिचन्द्रिका
पञ्चमः पटलः
[[लेखकः :|]]
षष्ठः पटलः →

पञ्चमः पटलः
अथ स्तोत्रं प्रवक्ष्यामि प्रत्यङ्गवर्णनं प्रभोः ।
त्रिकालं पठनादेव प्रेमभक्तिं लभेन्नरः ॥१॥

कश्चिच्छ्रीकृष्णचैतन्यस्मरणाकुलमानसः ।
पुलकावचिताङ्गोऽपि सकम्पाश्रुविलोचनः ॥२॥

कथंचित्स्थैर्यमालम्ब्य प्रणम्य गुरुमादरात।
स्तोतुमारब्धवान्भक्त्या द्विजचन्द्रं महाप्रभुम् ॥३॥

तप्तहेमद्युतिं वन्दे कलिकृष्णं जगद्गुरुम् ।
चारुदीर्घतनुं श्रीमच्छचीहृदयनन्दनम् ॥४॥

लसन्मुक्तालतानद्धचारुकुञ्चितकुन्तलम् ।
शिखण्डाक्षतगन्धाढ्य पुष्पगुच्छावतंसकम् ॥५॥

अर्धचन्द्रोल्लसद्भालकस्तूरीतिलकाङ्कितम् ।
भङ्गुरभ्रूलताकेलिजितकामशरासनम् ॥६॥

प्रेमप्रवाहमधुररक्तोत्पलविलोचनम् ।
तिलप्रसूनसुस्निग्धनूतनायतनासिकम् ॥७॥

श्रीगण्डमण्डलोल्लासिरत्नकुण्डलमण्डितम् ।
सव्यकर्णसुविन्यस्तस्फुरच्चारुशिखण्डकम् ॥८॥

मधुरस्मितसुस्निग्धप्रारक्ताधरपल्लवम् ।
ईषद्दन्तुरितस्निग्धस्फुरन्मुक्तारदोज्ज्वलम् ॥९॥

सप्रेममधुरालापवशीकृतजगज्जनम् ।
त्रिकोणचिबुकं कोटिशरदिन्दुप्रभाननम् ॥१०॥

सिंहग्रीवं महामत्तद्विरदोल्लासिकन्धरम् ।
आरक्तरेखात्रययुक्कम्बुकण्ठमनोहरम् ॥११॥

मुक्ता प्रबालकलितहारोज्ज्वलितवक्षसम् ।
कङ्कणाङ्गदविद्योतिजानुलम्बितभुजद्वयम् ॥१२॥

यवचक्राङ्कितारक्तश्रीमत्पाणितलोज्ज्वलम् ।
स्वर्णमुद्रालसच्छ्रीमद्विमलाङ्गुलिपल्लवम् ॥१३॥

चन्दनागुरुसुस्निग्धं पुलकावलिचर्चितम् ।
चारुनाभिलसन्मध्यं सिंहमध्यकृशोदरम् ॥१४॥

विचित्रचित्रवसनमध्यबन्धोल्लसद्वलिम् ।
सुचारुनूपुरोल्लासिकूजच्चरणपल्लवम् ॥१५॥

शरच्चन्द्रप्रतीकाशनखराजत्पदाङ्गुलिम् ।
अङ्कुशध्वजवज्रादिलसत्तलपदाम्बुजम् ॥१६॥

कोटिसूर्यप्रतीकाशं कोटीन्दुललितद्युतिम् ।
कोटिकन्दर्पलावण्यं कोटिलीलामनोरमम् ॥१७॥

साक्षाल्लीलातनुं केलितनुं शृङ्गारविग्रहम् ।
क्वचिद्भावकलामूर्तिं प्रस्फुरत्प्रेमविग्रहम् ॥१८॥

नामात्मकं नामतनुं परमानन्दविग्रहम् ।
भक्त्यात्मकं भक्तितनुं भक्त्याचारविहारिणम् ॥१९॥

अशेषकेलिलावण्यं लीलाताण्डवपण्डितम् ।
शचीजठररत्नाब्धिसमुद्भूतसुधानिधिम् ॥२०॥

अशेषजगदानन्दकन्दमद्भुतमङ्गलम् ।
स्फुरद्रासरसावेशमदालसविलोचनम् ॥२१॥

क्वचिद्भक्तजनैर्दिव्यमाल्यगन्धानुलेपनैः ।
वेष्टितं रससङ्गीतं गायद्भी रसलालसम् ॥२२॥

क्वचिद्बाल्यरसावेशगङ्गातीरे विहारिणम् ।
क्वचिद्गायति गायन्तं नृत्यन्तं करशब्दितैः ॥२३॥

वदन्तं शब्दमत्युच्चैः कुर्वन्तं सिंहविक्रमम् ।
क्वचिदास्फोटहुङ्कारकम्पिताशेषभूतलम् ॥२४॥

सुगुप्तगोपिकाभावप्रकाशितजगत्त्रयम् ।
प्रापिताशेषपुरुषस्त्रीस्वभावमनाकुलम् ॥२५॥

निजभावरसास्वादविवशैकादशेन्द्रियम् ।
विदग्धनागरीभावकलाकेलिमनोरमम् ॥२६॥

गदाधरप्रेमभावकलाक्रान्तमनोरथम् ।
नरहरिप्रेमरसास्वादविह्वलमानसम् ॥२७॥

सर्वभागवताहूतकान्ताभावप्रकाशकम् ।
प्रेमप्रदानललितद्विभुजं भक्तवत्सलम् ॥२८॥

प्रेमाख्यपदद्वन्द्वं श्रीप्रेमभक्तिमन्दिरम् ।
निजभावरसोल्लासमुग्धीकृतजगत्त्रयम् ॥२९॥

स्वनामजपसङ्ख्याभिर्वैष्णवीकृतभूतलम् ।
नवद्वीपजनानन्दं भूदेवजनमङ्गलम् ॥३०॥

अशेषजीवसद्भाग्यक्रमसम्भूतसत्फलम् ।
भयानुरागसुस्नेहभक्तिगम्यपदाम्बुजम् ॥३१॥

नटराजशिरोरत्नं श्रीनागरशिरोमणिम् ।
अशेषरसिकस्फूर्यन्मौलिभूषणभूषणम् ॥३२॥

रसिकानुगतस्निग्धवदनाब्जमधुव्रतम् ।
श्रीमद्द्विजकुलोत्तंसं नवद्वीपविभूषणम् ॥३३॥

प्रेमभक्तिरसोन्मत्ताद्वैतसेव्यपदाम्बुजम् ।
नित्यानन्दप्रियतमं सर्वभक्तमनोरथम् ॥३४॥

भक्ताराध्यं भक्तिसाध्यं भक्तरूपिणमीश्वरम् ।
श्रीनिवासादिभक्ताग्रैः स्तूयमानं मुहुर्मुहुः ।
सार्वभौमादिभिर्वेदशास्त्रागमविशारदैः ॥३५॥

य एवं चिन्तयेद्देवदेवेशं प्रयतोऽनिशम् ।
संस्तौति भक्तिभावेन त्रिसन्ध्यं नित्यमेव च ॥३६॥

धर्मार्थी लभते धर्मं श्रीभागवतमुत्तमम् ।
अर्थार्थी लभते चार्थं कृष्णसेवाविधौ रतिम् ॥३७॥

कामार्थी लभते कामं प्रेमभक्तिविधानतः ।
संसारवासनामुक्तिं मोक्षार्थी विगतस्पृहः ॥३८॥

विद्यार्थी लभते विद्यां कामसंसारकृन्तनीम् ।
काव्यार्थी कविताशक्तिं कृष्णवर्णनशालिनीम् ॥३९॥

अपुत्रो वैष्णवं पुत्रं लभते लोकवन्दितम् ।
आश्रयार्थी लभेच्छान्तं श्रीमद्भागवतं गुरुम् ॥४०॥

श्रीमच्छ्रीकृष्णचैतन्यपादाम्बुजे भृशम् ।
प्रेमानुरागललितां सद्भक्तिं लभते नरः ॥४१॥

इति भक्तिचन्द्रिकायां प्रत्यङ्गवर्णनो नाम
पञ्चमः पटलः