श्रीभागवतसन्दर्भः/पञ्चमः सन्दर्भः

← चतुर्थः सन्दर्भः श्रीभागवतसन्दर्भः
पञ्चमः सन्दर्भः
[[लेखकः :|]]
षष्ठः सन्दर्भः →

श्रीभक्तिसन्दर्भः

तौ सन्तोषयता सन्तौ श्रीलरूपसनातनौ ।
दाक्षिणात्येन भट्टेन पुनरेतद्विविच्यते ॥ो॥
तस्याद्यं ग्रन्थनालेखं क्रान्तमुत्क्रान्तखण्डितम् ।
पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ॥ो॥
[१]

तत्र पूर्वसन्दर्भचतुष्टयेन सम्बन्धो व्याख्यातः । तत्र पूर्ण
सनातनपरमानन्दलक्षणपरतत्त्वरूपं सम्बन्धि च ब्रह्म
परमात्मा भगवानिति त्रिधाविर्भावतया शब्दितमिति निरूपितम् । तत्र च
भगवत्त्वेनैवाविर्भावस्य परमोत्कर्षः प्रतिपादितः । प्रसङ्गेन विष्ण्व्
आद्याश्चतुःसनाद्याश्च तद्अवतारा दर्शिताः । स च भगवान् स्वयं श्री
कृष्ण एव इति निर्धारितम् ।

परमात्मवैभवगणने च तटस्थशक्तिरूपाणां चिद्एकरसानामपि
अनादिपरतत्त्वज्ञानसंसर्गाभावमयतद्वैमुख्यलब्धच्छिद्रया
तन्माययावृतस्वरूपज्ञानानां तयैव सत्त्वरजस्तमोमये जडे
प्रधाने रचितात्मभावानां जीवानां संसारदुःखं च ज्ञापितम् । तथा
चोक्तमेकादशे श्रीभगवता

आत्मा परिज्ञानमयो विवादो
ह्यस्तीति नास्तीति भिदात्मनिष्ठः ।
व्यर्थोऽपि नैवोपरमेत पुंसां
मत्तः परावृत्तधियां स्वलोकात् ॥ [भागवतम् ११.२२.३४] इति ।

अतस्तद्अर्थं परमकारुणिकं शास्त्रमुपदिशति । तत्र ये जीवा ये केचित्
जन्मान्तरावृत्ततद्अर्थानुभवसंस्कारवतो ये च तदैव वा लब्ध
महत्कृपातिशयदृष्टिप्रभृतयस्तेषां तादृशपरतत्त्वलक्षण
वस्तूपदेशश्रवणारम्भमात्रेणैव तत्कालमेव युगपदेव तत्
साम्मुख्यं तद्अनुभवोऽपि ज्ञायते । यथोक्तं किं वा परैरीश्वरः
सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणातिति [भागवतम् १.१.१] ।

अतस्तेषां नोपदेशान्तरापेक्षा । यादृच्छिकमुपदेशान्तरश्रवणं तु तत्
तल्लीलाश्रवणवत्तदीयरसस्यैवोद्दीपकं, यथा श्रीप्रह्लादादीनाम् ।
तथान्येषां तादृशत्वं बीजायमानमपि कामादिवैगुण्येन तद्इतर
दोषेणैव प्रतिहतं तिष्ठति ।

[पगे २]

नैतन्मनस्तव कथासु विकुण्ठनाथ
सम्प्रीयते दुरितदुष्टमसाधु तीव्रम् ।
कामातुरं हर्षशोकभयैषणार्तं
तस्मिन् कथं तव गतिं विमृशामि दीनः ॥ [भागवतम् ७.९.३९]

इति दीनंमन्यश्रीप्रह्लादवचनानुसारेणान्येषामेव तत्प्राप्तेः ।
अतएवोक्तं ब्रह्मवैवर्ते
यावत्पापैस्तु मलिनं हृदयं तावदेव हि ।
न शास्त्रे सत्यबुद्धिः स्यात्सद्बुद्धिः सद्गुरौ तथा ॥
अनेकजन्मजनितपुण्यराशिफलं महत् ।
सत्सङ्गशास्त्रश्रवणादेव प्रेमादि जायते ॥ इति ।

ततो मुख्येन तात्पर्येण परतत्त्वे पर्यवसितेऽपि तेषां परतत्त्वाद्य्
उपदेशस्य किमभिधेयं प्रयोजनं चेत्यपेक्षायां तद्अवान्तर
तात्पर्येण तद्द्वयमुपदेष्टव्यम् । तत्राभिधेयं तद्वैमुख्य
विरोधित्वात्तत्साम्मुख्यमेव । तच्च तद्उपासनालक्षणं यत एव तज्
ज्ञानमाविर्भवति । प्रयोजनं च तद्अनुभवः । स चान्तर्बहिः
साक्षात्कारलक्षणः यत एव स्वयं कृत्स्नदुःखनिवृत्तिर्भवति ।

तदेतद्द्वयं यद्यपि पूर्वत्र सिद्धोपदेश एव अभिप्रेतमस्ति, यथा तव
गृहे निधिरस्ति इति श्रुत्वा कश्चिद्दरिद्रस्तद्अर्थं प्रयतते लभते च तम्
इति । तद्वत्तथापि तच्छैथिल्यनिरासाय पुनस्तद्उपदेशः । तदेवं तान्
प्रति अनादिसिद्धतज्ज्ञानसंसर्गाभावमयतद्वैमुख्यादिकं
दुःखहेतुं वदन् व्याधिनिदानवैपरीत्यमयचिकित्सानिभं तत्
साम्मुख्यादिकमुपदिशति ।

भयं द्वितीयाभिनिवेशतः स्याद्
ईशादपेतस्य विपर्ययोऽस्म्र्तिः ।
तन्माययातो बुध आभजेत्तम्
भक्त्यैकयेश गुरुदेवतात्मा ॥ [भागवतम् ११.२.३७]

टीका च ननु किमेवं परमेश्वरभजनेनाज्ञानकल्पितभयस्य
ज्ञानैकनिवर्तकत्वादित्याशङ्क्याह भयमिति । यतो भयं तन्मायया
भवेत्ततो बुद्धिमान् तमेव आभजेदुपासीत । ननु भयं
द्वितीयाभिनिवेशत’य्स्यात् । स च देहाद्य्अहङ्कारतः । स च
स्वरूपास्फुरणात्किमत्र तस्य माया करोति । अत आह ईशादपेतस्येति । ईश
विमुखस्य तन्मायया अस्मृतिः स्वरूपस्फूर्तिर्भवति ततो विपर्ययो
देहोऽस्मीति । ततो द्वितीयाभिनिवेशाद्भयं भवति । एवं हि प्रसिद्धं
लौकिकीष्वपि मायासु । उक्तं च भगवता

दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ [गीता ७.१४] इति । [पगे ३]

एकया अव्यभिचारिण्या भजेत् । किं च गुरुदेवतात्मा गुरुरेव देवता ईश्वर
आत्मा प्रेष्ठश्च यस्य तथादृष्टिः सन्नित्यर्थः । इत्येषा ॥

॥११.२॥ कविर्विदेहम् ॥१॥

[२]

किं च

एवं स्वचित्ते स्वत एव सिद्ध
आत्मा प्रियोऽर्थो भगवाननन्तः ।
तं निर्वृतो नियतार्थो भजेत
संसारहेतूपरमश्च यत्र ॥ [भागवतम् २.२.६]

टीका च तदा अनेन किं कर्तव्यं, हरिस्तु सेव्य इत्याह । एवं विरक्तः सन्
तं भजेत । भजनीयत्वे हेतवः स्वचित्ते स्वत एव सिद्धः । यत आत्मा
अतएव प्रियः । प्रियस्य च सेवा सुखरूपैव । अर्थः सत्यः । न तु अनात्मवत्
मिथ्या । भगवान् भजनीयगुणश्च अनन्तश्च नित्यः । यत एवम्भूतस्
तं भजेत । नियतार्थश्निश्चितस्वरूपः । भगवद्अनुभवानन्देन
निर्वृतः सन्, इति स्वतः सुखात्मकत्वं दर्शितम् । किं यत्र यस्मिन् भजने
सति संसारहेतोरविद्याया उपरमो नाशो भवति इत्येषा । अत्र चकारात्तत्
प्राप्तिर्ज्ञेया ॥

॥२.२॥ श्रीशुकः ॥२॥

[३]

तत्र यद्यपि श्रवणमननादिकं ज्ञानसाधनमपि तत्साम्मुख्यम्
एव । ब्रह्माकारस्यानुभवहेतुत्वात्, अतएव तत्परम्परोपयोगित्वात्
साङ्ख्याष्टाङ्गयोगकर्माण्यपि तत्साम्मुख्यान्येव । तथा तेषां
कथञ्चिद्भक्तित्वमपि जायते । कर्मणस्तद्आज्ञापालनरूपत्वेन तद्
अर्पितत्वादिना च करणात् । ज्ञानादीनां चान्यत्रानासक्तिहेतुत्वादिद्वारा
भक्तिसचिवतया विधानात्तथापि पूर्वं भक्त्या भजेतेत्यनेन कर्म
ज्ञानादिकं नादृतं किन्तु साक्षाद्भक्त्या श्रवणकीर्तनादिलक्षणयैव
भजेत इत्युक्तम् । तथैव सहेतुकं श्रीसूतोपदेशोपक्रमत एव दृश्यते ।

यथाह द्वाविंशत्या स वै इत्य्आदिना अतो वै कवय इत्यन्तेन ग्रन्थेन

स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे ।
अहैतुक्यप्रतिहता ययात्मा सुप्रसीदति ॥३॥ [भागवतम् १.२.६]

यत्खलु महापुराणारम्भे पृष्टं सर्वशास्त्रसारमैकान्तिकं श्रेयो
ब्रूहीति तत्रोत्तरं स वै इत्य्आदि । यतो धर्मादधोक्षजे भक्तिस्तत्कथा
श्रवणादिषु रुचिर्भवति । धर्मः स्वनुष्ठित इत्य्आदौ [भागवतम् १.२.८]
व्यतिरेकेण दर्श्यैष्यमाणत्वात् । स वै स एव स्वनुष्ठितस्य धर्मस्य
संसिद्धिर्हरितोषणमिति [भागवतम् १.२.१३] वक्ष्यमाणरीत्या तत्सन्तोषार्थम्
एव कृतो धर्मः परः सर्वतः श्रेष्ठः न निवृत्तिमात्रलक्षणोऽपि,
वैमुख्याविशेषात् । तथा च श्रीनारदवाक्यम् नैष्कर्म्यमप्यच्युत
भाववर्जितमित्य्आदौ कुतः पुनः शश्वदभद्रमीश्वरे न चार्पितं
कर्म यदप्यकारणमिति [भागवतम् १.५.१२] । अतो वक्ष्यते अतः पुम्भिरित्य्[भागवतम्
१.२.१३] आदि । ततः स एवैकान्तिकं श्रेयः इत्यर्थः । अनेन भक्तेस्तादृश
धर्मतोऽपि अतिरिक्तत्वम् । तस्याः भक्तेः स्वरूपगुणमाह, स्वत एव
सुखरूपत्वादहैतुकी फलान्तरानुसन्धानरहिता । अप्रतिहता तद्उपरि
सुखदपदार्थान्तराभावात्केनापि व्यवधातुमशक्या च । जातायां च
तस्यां रुचिलक्षणायां भक्त्या तयैव श्रवणादिलक्षणो भकियोगः
प्रवर्तितः स्यात् ।
[४]

ततश्च यस्यास्ति भक्तिर्भगवत्यकिञ्चना सर्वैर्गुणैस्तत्र समासते
सुराः [भागवतम् ५.१८.१२] इत्य्आद्य्अनुसारेण भगवत्स्वरूपादिज्ञानं ततोऽन्यत्र
वैराग्यं च तद्अनुगाम्येव स्यादित्याह

वासुदेवे भगवति भक्तियोगः प्रयोजितः ।
जनयत्याशु वैराग्यं ज्ञानं च यदहैतुकम् ॥ [भागवतम् १.२.७]

अहैतुकं शुष्कतर्काद्य्अगोचरमौपनिषदं ज्ञानमाशु ईषत्श्रवण
मात्रेण जनयतीत्यर्थः । व्यतिरेकेणाह

धर्मः स्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः ।
नोत्पादयेद्यदि रतिं श्रम एव हि केवलम् ॥ [भागवतम् १.२.८]

वासुदेवालम्बनाभावेन यदि तत्कथासु तल्लीलावर्णनेषु रतिं रुचिं
नोत्पादयेत्तदा श्रमः स्यान्न तु फलम् । कथारुचेः सर्वत्रैवाद्यत्वात्
श्रेष्ठत्वाच्च सैवोक्ता । तद्उपलक्षणत्वेन भजनान्तररुचिरप्य्
उपदिष्ठा । एवशब्देन प्रवृत्तिलक्षणकर्मफलस्य स्वर्गादेः
क्षयिष्णुत्वं, हिशब्देन तत्रैव च तद्यथेह कर्मजितो लोकः क्षीयते
[Cहा ८.१.६] इति सोपपत्तिकश्रुतिप्रमाणत्वम् । केवलशब्देन निवृत्तिमात्र
लक्षणधर्मफलस्यासाध्यत्वं, सिद्धस्यापि नश्वरत्वम् । तत्रापि
तेनैव हिशब्देन यस्य देवे परा भक्तिर्[श्वेत्६.२३] इत्य्आदि, श्रेयःसृतिं
भक्तिमुदस्य ते विभो क्लिश्यन्ति ये केवलबोधलब्धये इत्य्आदि [भागवतम्
१०.१४.४], आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्यधोऽनादृतयुष्मद्
अङ्घ्रयः [भागवतम् १०.२.३२] इत्य्आदि वचनप्रमाणत्वं च सूचितम् । श्लोक
द्वयेन भकिर्निरपेक्षा, ज्ञानवैराग्ये तु तत्सापेक्षे इति लभ्यते । तद्
एवं भक्तिफलत्वेनैव धर्मस्य साफल्यमुक्तम् ।
[५६]

तत्र यदन्ये मन्यन्ते धर्मस्यार्थः फलं, तस्य कामस्तस्य चेन्द्रिय
प्रीत्स्तत्प्रीतेश्च पुनरपि धर्मादिपरम्परेति तच्चान्यथैवेत्याह
द्वाभ्यां

धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायोपकल्पते ।
नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः ॥
कामस्य नेन्द्रियप्रीतिर्लाभो जीवेत यावता ।
जीवस्य तत्त्वजिज्ञासा नार्थो यश्चेह कर्मभिः ॥ [भागवतम् १.२.९१०]

आपवर्गस्य यथावर्णविधान अपवर्गश्च भवति । योऽसौ भगवति
सर्वात्मन्यनात्म्येऽनिरुक्तेऽनिलयने परमात्मनि वासुदेवेऽनन्यनिमित्त
भक्तियोगलक्षणो नानागतिनिमित्ताविद्याग्रन्थिबन्धनद्वारेण यदा
हि महापुरुषपुरुषप्रसङ्ग इति [भागवतम् ५.१९.१९२०] पञ्चमस्कन्ध
गद्यानुसारेण अपवर्गो भक्तियोगः । तथा च स्कान्दे रेवाखण्डे

निश्चला त्वयि भक्तिर्या सैव मुक्तिर्जनार्दन ।
मुक्ता एव हि भक्तास्ते तव विष्णो यतो हरे ॥ इति ।

अत उक्तरीत्या भक्तिसम्पादकस्येत्यर्थः । अर्थाय फलत्वाय ।
तथार्थस्याप्येवम्भूतधर्माव्यभिचारिणः कामो लाभाय फलत्वाय
न हि स्मृतस्तत्त्वविद्भिः । कामस्य विषयभोगस्येन्द्रियप्रीतिलाभः
फलं न भवति किन्तु यावता जीवेत तावानेव कामस्य लाभः । तादृश
जीवनपर्यन्त एव कामः सेव्य इत्यर्थः । जीवस्य जीवनस्य च पुनर्
धर्मानुष्ठानद्वारा कर्मभिर्य इह प्रसिद्धः स्वर्गादिः सोऽर्थो न
भवति, किन्तु तत्त्वजिज्ञासैवेति । तदेवं तत्त्वज्ञानं यस्या भक्तेर्
अवान्तरफलमुक्तं सैव परमं फलमिति भावः ।

[७]

किं तत्त्वमित्यपेक्षायां पद्यमेकं तूदाहृतम्

वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् ।
ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥ [भागवतम् १.२.११] इति ।

अद्वयमिति तस्याखण्डत्वं निर्दिश्यान्यस्य तद्अनन्यत्वविवक्षया तच्
छक्तित्वमेवाङ्गीकरोति । तत्र शक्तिवर्गलक्षणतद्धर्मातिरिक्तं
केवलं ज्ञानं ब्रह्मेति शब्द्यते । अन्तर्यामित्वमयमायाशक्तिप्रचुर
चिच्छक्त्य्अंशविशिष्टं परमात्मेति । परिपूर्णसर्वशक्तिविशिष्टं
भगवानिति । विवृतं चैतत्प्राक्तनसन्दर्भत्रयेण । तच्च
त्रिधाविर्भावयुक्तमेव तत्त्वं भक्त्यैव साक्षात्क्रियत इत्याह

तच्छ्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया ।
पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतगृहीतया ॥ [भागवतम् १.२.१२]

भक्त्या तत्कथारुचेरेव परावस्थारूपया प्रेमलक्षणया तत्
पूर्वोक्ततत्त्वमात्मनि शुद्धे चेतसि पश्यन्ति च । ज्ञानमात्रस्य का
वार्ता । साक्षादपि कुर्वन्तीत्यर्थः । कीदृशं तद्आत्मानम् । स्वरूपाख्य
जीवाख्यमायाशक्तीनामाश्रयम् । ज्ञानवैराग्ययुक्तया ज्ञानं च
वैराग्यं च, ताभ्यां युक्तया स्वात्मजाभ्यां ताभ्यां सेवितया । अतएव ते
मुनयः पृथक्च विशिष्टं च स्वेच्छया पश्यन्तीत्यायाति । तदेवं श्रुत
गृहीतया मुनयः श्रद्दधाना इति पदत्रयेण तस्या एव भक्तेर्
दौर्लभ्यं दर्शितम् । सद्गुरोः सकाशाद्वेदान्ताद्य्अखिलशास्त्रार्थ
विचारश्रवणद्वारा यदि स्वावश्यकपरमकर्तव्यत्वेन ज्ञायते । पुनश्


भगवान् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया
तदध्यवस्यत्कूटस्थो रतिरात्मन् यतो भवेत् ॥ [भागवतम् २.२.३४]

इतिवद्यदि विपरीतभावनात्याजकौ मननयोग्यतामननाभिनिवेशौ
स्यातां, ततः च्रद्दधानैश्च सा भक्तिरुपासनाद्वारा लभ्यते इति ।
[८]

अतः श्रुतिरपि तद्अर्थमागृह्णाति । आत्मा वारे द्रष्टव्यः श्रोतव्यो
मन्तव्यो निदिध्यासितव्य इति [Bऋहदू २.४.४.६] इति । अत्र निदिध्यासनम्
उपासनम् । दर्शनं साक्षात्कार उच्यते । सा चैवं दुर्लभा भक्तिः हरि
तोषणे प्रयुक्तात्स्वाभाविकधर्मादपि लभ्यते इति । तस्माद्धरि
तोषणमेव तस्य परमफलमित्याह

[पगे ६]
अतः पुम्भिर्द्विजश्रेष्ठा वर्णाश्रमविभागशः ।
स्वनुष्ठितस्य धर्मस्य संसिद्धिर्हरितोषणम् ॥ [भागवतम् १.२.१३]

स्वनुष्ठितस्य बहुप्रयत्नेनाच्छिद्रमुपार्जितस्य इति तुच्छे स्वर्गादिफले
तत्प्रयोगोऽतीवायुक्त इति भावः । यद्येवं श्रीहरिसन्तोषकस्यापि
धर्मस्य फलं श्रवणादिरुचिलक्षणा भक्तिरेव तत्प्रवर्तिताया भक्तेश्
चानुगता ज्ञानवैराग्यादिगुणा इत्यायातं तदा साक्षाच्छ्रवणादिरूपा
भक्तिरेव कर्तव्या ।

[९]

किं तत्तद्आग्रहेणेत्याह

तस्मादेकेन मनसा भगवान् सात्वतां पतिः ।
श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च नित्यदा ॥ [भागवतम् १.२.१४]

एकेन कर्माद्याग्रहशून्येन । श्रवणमत्र नामगुणादीनां तथा
कीर्तनं च ।
[१०]

तत्रैवान्तिमभूमिकापर्यन्तां सुगमां शैलीं वक्तुं धर्मादिकष्ट
निरपेक्षेण युक्तिमात्रेण तत्प्रथमभूमिकां श्रीहरिकथारुचिम्
उत्पादयन् तस्य गुणं स्मारयति

यद्अनुध्यासिना युक्ताः कर्मग्रन्थिनिबन्धनम् ।
छिन्दन्ति कोविदास्तस्य को न कुर्यात्कथारतिम् ॥ [भागवतम् १.२.१५]

कोविदा विवेकिनो युवताः संयतचित्ता यस्य हरेरनुध्या अनुध्यानं
चिन्तनमात्रमेवासिः खड्गस्तेन ग्रन्थिं नानादेहेष्वहङ्कारं
निबध्नाति यत्तत्कर्म छिन्दन्ति । तस्यैवम्भूतस्य परमदुःखाद्
उद्वर्तुः कथायां रतिं को नु कुर्यात् ।

[११]

नन्वेवमपि तस्य कथारुचिर्मन्दभाग्यानां न जायत इत्याशङ्क्य
तत्रोपायान् वदन् तामारभ्य नैष्ठिकभक्तिपर्यन्तां भक्तिमुपदिशति
पञ्चभिः ।

शुश्रूषोः श्रद्दधानस्य वासुदेवकथारुचिः ।
स्यान्महत्सेवया विप्राः पुण्यतीर्थनिषेवणात् ॥ [भागवतम् १.२.१६]

भुवि पुरुपुण्यतीर्थसदनान्यृषयो विमदाः इत्य्आद्य्अनुसारेण [भागवतम्
१०.८७.३५] प्रायस्तत्र महत्सङ्गो भवतीति तदीयटीकानुमत्या च पुण्य
तीर्थनिषेवणाद्धेतोर्लब्धा यदृच्छया या महत्सेवा तया वासुदेव
कथारुचिः स्यात् । कार्यान्तरेणापि तीर्थे भ्रमतो महतां प्रायस्तत्र
भ्रमतां तिष्ठतां वा दर्शनस्पर्शनसम्भाषणादिलक्षणा सेवा स्वत
एव सम्पद्यते । तत्प्रभावेण च तदीयाचरणे श्रद्धा भवति । तदीय
स्वाभाविकपरस्परभगवत्कथायां किमेते सङ्कथयन्ति तत्शृणोमीति
तच्इच्छा जायते । तच्छ्रवणेन च तस्यां रुचिर्जायते इति । तथा च
महद्भ्य एव श्रुता झटिति कार्यकरीति भावः । तथा च कपिलदेव
वाक्यम् सतां प्रसङ्गान्मम वीर्यसंविदो भवन्ति हृत्कर्ण
रसायनाः कथाः [भागवतम् ३.२५.२२] इत्य्आदि ।

[१२]

ततश्च,

शृण्वतां स्वकथाः कृष्णः पुण्यश्रवणकीर्तनः ।
हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम् ॥ [भागवतम् १.२.१७]

कथाद्वारा अन्तःस्थो भावनापदवीं गतः सन् हरिरभद्राणि वासनाः ।
[पगे ७]

[१३]

ततश्च,

नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया ।
भगवत्युत्तमश्लोके भक्तिर्भवति नैष्ठिकी ॥ [भागवतम् १.२.१८]

नष्टप्रायेषु न तज्ज्ञानमिव सम्यङ्नष्टेष्वेवेति भक्तेर्निरर्गल
स्वभावत्वमुक्तम् । भागवतानां भागवतशास्त्रस्य वा सेवया भक्तिर्
अनुध्यानरूपा नैष्ठिकी सन्तता एव भवति ।

[१४]

तदैव त्रिभुवनविभवहेतवेऽप्यकुण्ठस्मृतिर्[भागवतम् ११.२.५३] इत्य्आद्य्
उक्तरीत्या सर्ववासनानाशात्चित्तं शुद्धसत्त्वमग्रं सत्भगवत्
तत्त्वसाक्षात्कारयोग्यं भवतीत्याह

तदा रजस्तमोभावाः कामलोभादयश्च ये ।
चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदति ॥ [भागवतम् १.२.१९]

रजस्तमश्च ये च तत्प्रभावा भावाः कामादय एतैरित्यन्वयः ।

[१५]

एवं प्रसन्नमनसो भगवद्भक्तियोगतः ।
भगवत्तत्त्वविज्ञानं मुक्तसङ्गस्य जायते ॥ [भागवतम् १.२.२०]

एवं पूर्वोक्तप्रकारेण प्रसन्नमनसस्ततो मुक्तसङ्गस्य त्यक्त
कामादिवासनस्य भक्तियोगतः पुनरपि क्रियमाणात्तस्माद्विज्ञानं
साक्षात्कारो मनसि बहिर्वा भावनां विनैवानुभवो यः स जायते ।

[१६]
तस्य च परमानन्दैकरूपत्वेन स्वतःफलरूपस्य साक्षात्
कारस्यानुषङ्गिकं फलमाह

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ॥ [भागवतम् १.२.२१]

हृदयग्रन्थिरूपोऽहङ्कारः । सर्वसंशयाश्छिद्य्नते इति श्रवण
मननादिप्रधानानामपि तस्मिन् दृष्ट एव सर्वे संशयाः समाप्यन्ते इत्य्
अर्थः । तत्र श्रवणेन तावज्ज्ञेयगतासम्भावनाश्छिद्यन्ते इति ।
मननेन तद्गतविपरीतभावनाः । साक्षात्कारेण
त्वात्मयोग्यतागतासम्भावनाविपरीतभावने इति ज्ञेयम् । क्षीयन्ते तद्
इच्छामात्रेण तद्आभासः किञ्चिदेव तेष्ववशिष्यत इत्यर्थः ।
[१७]

अत्र प्रकरणार्थे सद्आचारं दर्शयन्नुपसंहरति ।

अतो वै कवयो नित्यं भक्तिं परमया मुदा ।
वासुदेवे भगवति कुर्वन्त्यात्मप्रसादनीम् ॥ [भागवतम् १.२.२२]

आत्मप्रसादनीं मनसः शोधनीम् । न केवलमेतावद्गुणत्वं तस्याः ।
किं च परमया मुदेति कर्मानुष्ठानवन्न साधनकाले साध्यकाले
वा भक्त्य्अनुष्ठानं दुःखरूपं प्रत्युत सुखरूपमेवेत्यर्थः ।
अतएव नित्यं साधकदशायां सिद्धदशायां च तावत्कुर्वन्तीत्युक्तम् ॥

॥१.२॥ श्रीसूतः ॥ ३१७ ॥

[१८]

तदेवं कर्मज्ञानवैराग्ययत्नपरित्यागेन भगवद्भक्तिरेव
कर्तव्येति मतम् । कर्मविशेषरूपं देवतान्तरभजनमपि न
कर्तव्यमित्याह सप्तभिः । तत्रान्येषां का वार्ता । सत्यपि श्रीभगवत
(पगे ८) एव गुणावतारत्वे श्रीविष्णुवत्साक्षात्परब्रह्मत्वाभावात्
सत्त्वमात्रोपकारकत्वाभावाच्च प्रत्युत रजस्तमोबृंहणत्वाच्च
ब्रह्मशिवावपि श्रेयोऽर्थिभिर्नोपास्यावित्यत्र द्वौ श्लोकौ परमात्म
सन्दर्भे एवोदाहृतौ

सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्
युक्तः परमपुरुष एक इहास्य धत्ते ।
स्थित्य्आदये हरिविरिञ्चिहरेति संज्ञाः
श्रेयांसि तत्र खलु सत्त्वतनोर्नॄणां स्युः ॥ [भागवतम् १.२.२३]

पार्थिवाद्दारुणो धूमस्तस्मादग्निस्त्रयीमयः ।
तमसस्तु रजस्तस्मात्सत्त्वं यद्ब्रह्मदर्शनम् ॥ [भागवतम् १.२.२४] इति ।

सत्त्वतनोः सत्त्वशक्तेः । त्रयीमयस्त्रय्युक्तकर्मप्रचुरः ।
दारुस्थानीयं तमः । धूमस्थानीयं रजः । अग्निस्थानीयं सत्त्वम् ।
त्रय्युक्तकर्मस्थानीयं ब्रह्म । ततश्च त्रय्य्उक्तकर्म यथाग्नाव्
एव साक्षात्प्रवर्तते नान्ययोस्तद्वत्परब्रह्मभूतो भगवानपि सत्त्व
एवेत्यर्थः ।

देवतान्तरपरित्यागेनापि भगवद्भक्तौ सद्आचारं प्रमाणयति

भेजिरे मुनयोऽथाग्रे भगवन्तमधोक्षजम् ।
सत्त्वं विशुद्धं क्षेमाय कल्पन्ते येऽनु तानिह ॥ [भागवतम् १.२.२५]

अथ अतो हेतोः । अग्रे पुरा । सत्त्वं विशुद्धं विशुद्धसत्त्वात्मकमूर्तिं
भगवन्तम् । प्रकृतसत्त्वातीतत्वं च तस्य विवृतं भगवत्सन्दर्भे । अतो
ये तामनुवर्तन्ते त इह संसारे क्षेमाय कल्पन्ते ।

[१९]

नन्वन्यान् भैरवादीन् देवानपि केचिद्भजन्तो दृश्यन्ते । सत्यं यतस्ते
सकामाः । किन्तु मुमुक्षवोऽप्यन्यान्न भजन्ते । किमुत तद्भक्तियिक
पुरुषार्था इत्याह

मुमुक्षवो घोररूपान् हित्वा भूतपतीनथ ।
नारायणकलाः शान्ता भजन्ति ह्यनसूयवः ॥ [भागवतम् १.२.२६]

भूतपतीनिति पितृप्रजेशादीनामुपलक्षणम् । अनसूयवो देवतान्तर
निन्दकाः सन्तः ।

[२०]

ननु कामलोभोऽपि लक्ष्मीपतिभजने भवत्येव तर्हि कथमन्यांस्ते
भजन्ते ?

रजस्तमःप्रकृतयः समशीला भजन्ति वै ।
पितृभूतप्रजेशादीन् श्रियैश्वर्यप्रजेप्सवः ॥ [भागवतम् १.२.२७]

तत्राह, रजस्तमःप्रकृतित्वेनैव पित्रादिभिः समं शीलं येषां, सम
शीलत्वादेवं तद्भजने प्रवृत्तिरित्यर्थः ।

[२१]

ततो वासुदेव एव भजनीय इत्युक्तम् । सर्वशास्त्रतात्पर्यं च तत्रैवेत्य्
आह द्वाभ्याम् ।

वासुदेवपरा वेदा वासुदेवपरा मखाः ।
वासुदेवपरा योग वासुदेवपराः क्रियाः ॥
वासुदेवपरं ज्ञानं वासुदेवपरं तपः ।
वासुदेवपरो धर्मो वासुदेवपरा गतिः ॥ [भागवतम् १.२.२८९]

(पगे ९)
टीका च वासुदेवपरस्तात्पर्यगोचरो येषां ते । ननु वेदा मखपरा
दृश्यन्ते इत्याशङ्क्य तेऽपि तद्आराधनार्थत्वात्तत्परा एवेत्युक्तम् । योगा
योगशास्त्राणि । तेषामप्यासनप्राणायामादिक्रियापरत्वमाशङ्क्य
तासामपि तत्प्राप्त्य्उपायत्वात्तत्परत्वमुक्तम् । ज्ञानं ज्ञानशास्त्रम् ।

ननु तज्ज्ञानपरमेवेत्याशङ्क्य ज्ञानस्यापि तत्परत्वमुक्तम् । तपोऽत्र
ज्ञानम् । धर्मो धर्मशास्त्रं दानव्रतादिविषयम् ।

ननु तत्स्वर्गादिपरमित्याशङ्क्य गम्यते इति गतिः स्वर्गादिफलम् । सापि
तदानन्दांशरूपत्वात्तत्परैवेत्युक्तम् । यद्वा वेदा इत्यनेनैव तन्
मूलत्वात्सर्वशास्त्राणि वासुदेवपराणीत्युक्तम् ।

ननु तेषां मखयोगक्रियादिनानार्थपरत्वान्न तद्एकपरत्वमित्य्
आशङ्क्य मखादीनामपि तत्परत्वमुक्तमिति द्रष्टव्यमित्येषा ।

अत्र योगादीनां कथञ्चिद्भक्तिसचिवत्वेनैव तत्परत्वं मुख्यं
द्रष्टव्यम् ।
[२२]

वेदाश्च कर्मकाण्डपरा एव ज्ञेयाः केषाञ्चित्साक्षाद्भक्तिपरत्वमपि
दृश्यत इति

यस्य देवे परा भक्तिः यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ [श्वेतू ६.२३] इत्य्आदेः ।

तदेवं द्वात्रिंश्या तद्भजनस्यैवाभिधेयत्वं दर्शयित्वा पूर्वोक्तं
सर्वशास्त्रसमन्वयमेव स्थापयति

स एवेदं ससर्जाग्रे भगवानात्ममायया ।
सद्असद्रूपया चासौ गुणमय्यगुणो विभुः ॥ [भागवतम् १.२.३०]

टीका च ननु जगत्सर्गप्रवेशनियमनादिलीलायुक्ते वस्तुनि सर्व
शास्त्रसमन्वयो दृश्यते, कथं वासुदेवपरत्वं सर्वस्य । तत्राह स एवेति
चतुर्भिरित्येषा । इदं महद्आदिविरिञ्चिपर्यन्तम् । एवं प्रवेशादिकाप्य्
उत्तरश्लोकेषु द्रष्टव्या ॥

॥१.२॥ श्रीसुतः श्रीशौनकम् ॥१९२२॥

[२३]

श्रीभागवतादिर्भावकारणे श्रीनारदव्याससंवादेऽपि

नैष्कर्म्यमप्यच्युतभाववर्जितं
न शोभते ज्ञानमलं निरञ्जनम्
कुतः पुनः शश्वदभद्रमीश्वरे
न चार्पितं कर्म यदप्यकारणम् ॥ [भागवतम् १.५.१२]

इत्य्आद्युदाहृतम् । टीका च निष्कर्म ब्रह्म तद्एकाकारत्वान्निष्कर्मता
रूपं नैष्कर्म्यम् । अज्यते अनेनेत्यञ्जनमुपाधिस्तन्निवर्तकं
निरञ्जनमेवम्भूतमपि ज्ञानमुच्यते भावो भक्तिस्तद्वर्जितं चेद्
अलमत्यर्थं न शोभते सम्यगपरोक्षाय न कल्पते इत्यर्थः । तदा
शश्वत्साधनकाले फलकाले च अभद्रं दुःखरूपं यत्काम्यं कर्म
यदप्यकारणमकाम्यं तच्चेति चकारस्यान्वयः । तदपि कर्म ईश्वरे
नार्पितं चेत्कुतः पुनः शोभते, बहिर्मुखत्वेन सत्त्व
शोधकत्वाभावादित्येषा ।

तदेवं ज्ञानस्य भक्तिसंसर्गं विना कर्मणश्तद्उपपादकत्वं विना
व्यर्थत्वं व्यक्तम् । (पगे १०) किं च

जुगुप्सितं धर्मकृतेऽनुशासतः
स्वभावरक्तस्य महान् व्यतिक्रमः ॥ [भागवतम् १.५.१५]

इत्य्आदिकमुक्त्वाह

त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेर्
भजन्नपक्वोऽथ पतेत्ततो यदि ।
यत्र क्व वाभद्रमभूदमुष्य किं
को वार्थ आप्तोऽभजतां स्वधर्मतः ॥ [भागवतम् १.५.१७]

टीका च इदानीं तु नित्यनैमित्तिकस्वधर्मनिष्ठामप्यनादृत्य
केवलं हरिभक्तिरेवोपदेष्टव्या इत्याशयेनाह त्यक्त्वेति । ननु
स्वधर्मत्यागेन भजन् भक्तिपरिपाकेन यदि कृतार्थो भवेत्तदा न
काचिच्चिन्ता । यदि पुनरपक्व एव म्रियेत भ्रश्येद्वा तदा तु स्वधर्म
त्यागनिमित्तोऽनर्थः स्यादित्याशङ्क्याह, ततो भजनात्पतेत्कथञ्चिद्
भ्रश्येन्म्रियेत वा यदि तदापि भक्तिरसिकस्य कर्मानधिकारान्
नानर्थशङ्का । अङ्गीकृत्याप्याह, वाशब्दः कटाक्षे, यत्र क्व वा
नीचयोनावपि अमुष्य भक्तिरसिकस्य अभद्रमभूत्किम्? नाभूदेवेत्य्
अर्थः । भक्तिवासनासद्भावादिति भावः । अभजतामभजद्भिस्तु
केवलं स्वधर्मतः को वार्थ आप्तः । अभजतामिति षष्ठी सम्बद्न
मात्रविवक्षयेत्येषा ।

॥ १.५ ॥ श्रीनारदः श्रीव्यासम् ॥२३॥

[२४]

तदेवं भक्तिरेवाभिधेयं वस्त्वित्युक्तम् । तथैव श्रीशुकपरीक्षित्
संवादोपक्रमेऽपि

श्रोतव्यादीनि राजेन्द्र नृणां सन्ति सहस्रशः ।
अपश्यतामात्मतत्त्वं गृहेषु गृहमेधिनाम् ॥ [भागवतम् २.१.२] इत्य्आदि ।

गृहेष्वित्य्आदिकमुपलक्षणं बहिर्मुखानाम् । आत्मतत्त्वं भगवत्
तत्त्वं, तथा निगमयिष्यमानत्वात् ।

[२५]

निगमयति

तस्माद्भारत सर्वात्मा भगवानीश्वरो हरिः ।
श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चेच्छताभयम् ॥ [भागवतम् २.१.५]

टीका च सर्वात्मेति प्रेष्ठत्वमाह, भगवानिति सौन्दर्यम् । ईश्वर इत्य्
आवश्यकत्वं हरिरिति बन्धहारित्वमभयं मोक्षमिच्छतेत्येषा ।
मोक्षस्तु सर्वक्लेशशान्तिपूर्वकभगवत्प्राप्तिरेवेति ज्ञेयम् ।

[२६]

एतद्अनन्तरं विराड्धारणामुक्त्वा तद्अपवादेनापि भक्तिं तामाह

स सर्वधीवृत्त्य्अनुभूतसर्व
आत्मा यथा स्वप्नजनेक्षितैकः ।
तं सत्यमानन्दनिधिं भजेत
नान्यत्र सज्जेद्यत आत्मपातः ॥ [भागवतम् २.१.३९]

टीका च सर्वेषां श्रीवृत्तिभिरनुभूतं सर्वं येन स एक एव
सर्वान्तरात्मा । तमेव सत्यं भजेत । अन्यत्रोपलक्षणे न सज्जेत । यत
आसङ्गादात्मनः पातः संसारो भवति । एकस्य तत्तद्इन्द्रियैः
सर्वानुभूतौ दृष्टान्तः स्वप्नजनानामीक्षिता यथेति । स्वप्नेऽपि कदाचिद्
बहून् देहान् प्रकल्प्य जीवस्तत्तद्इन्द्रियैः सर्वं पश्यति तद्वदीश्वरस्य
तु विद्याशक्तित्वान्न बन्ध इत्येषा ।

अत्र स्वधीवृत्तिभिः पश्यन्नेव सर्वेषां धीवृत्तिभिरपि सर्वं पश्यतीत्य्
एवं तथोक्तम् । स ऐक्षत इत्यत्र सर्वधीवृत्तिसृष्टेः पूर्वमपि तच्
छ्रवणात् । तथा स्वप्नदेहानामीश्वरकर्तृकत्वेऽपि जीवकर्तृक
प्रकल्पनकथनं तत्सङ्कल्पद्वारैवेश्वरः करोतीत्यपेक्षायाम्
उक्तम् । यः सर्वधीत्यनुक्तत्वात्सत्यं भजेतेति योजयितव्यस्य कर्तुर्
विद्यमानत्वादयमेवार्थः । स तथाभूतो दृष्टान्तः आत्मा स्वप्न
द्रष्टा जीवो यथा स्वप्नगतानां सर्वेषां जनानां तद्उपलक्षितानां
वस्तूनां च एक एव ईक्षिता भवतीति तद्वत् । अत्र तमित्यनेन स ऐक्षतेति
[आइतू १.१.२] स्वाभाविकी ज्ञानबलक्रिया च इति [श्वेतू ६.८], श्रुतिप्रसिद्ध
परानपेक्षज्ञानादिसिद्धेस्तथा सन्ध्ये सृष्टिराह हि [Vस्३.२.१],
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वाद्[Vस्३.२.३] इति न्याय
प्राप्तेन स्वप्नस्यापि कर्तृत्वेन जाग्रद्आदिमयजगत्कर्तृत्वस्य पूर्णत्व
प्राप्ते वैलक्षण्यं दर्शितं सत्यादिद्वयेन परमपुरुषार्थत्वं चेति
ज्ञेयम् ।

॥२.१॥ श्रीशुकः ॥ २४२६ ॥
[२७]

एतद्अनन्तराध्यायेऽपि तथैवाह

यावन्न जायेत परावरेऽस्मिन्
विश्वेश्वरे द्रष्टरि भक्तियोगः ।
तावत्स्थवीयः पुरुषस्य रूपं
क्रियावसाने प्रयतः स्मरेत ॥ [भागवतम् २.२.१४]

परे ब्रह्मादयोऽवरे यस्मात् । विश्वेश्वरे द्रष्टरि न तु दृश्ये चैतन्य
घनत्वात् । भक्तियोगः केचित्स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं
पुरुषं वसन्तं चतुर्भुजमित्य्आदि नोक्त्साधनलक्षणाभिनिवेशः ।
क्रियावसाने आवश्यककर्मानुष्ठानानन्तरम् । अनेन कर्मापि भक्ति
योगपर्यन्तमित्युक्तम् ।

[२८]

अनन्तरं च स्थिरं सुखं चासनमास्थितो यतिर्यदा जिहासुर्[भागवतम् २.२.१५]
इत्य्आदिना, यदि प्रयास्यन्नृप पारमेष्ठ्यं वैहायसानामुत यद्
विहारमित्य्[भागवतम् २.२.२२] आदिना च, क्रमेण सद्योमुक्तिक्रममुक्त्य्उपायौ
ज्ञानयोगावुक्त्वा ततोऽपि श्रेष्ठत्वं भक्तियोगहेतुभगवद्अर्पित
कर्मणः एवोक्त्वा साक्षाद्भक्तियोगस्य कैमुत्यमेवानीतम् । यथा

न ह्यतोऽन्यः शिवः पन्था विशतः संसृताविह ।
वासुदेवे भगवति भक्तियोगो यतो भवेत् ॥ [भागवतम् २.२.३३]

टीका च सन्ति संसरतः पुंसो बहवो मोकमार्गास्तपोयोगादयः ।
समीचीनस्त्वयमेवेत्य् आह न हीति । यतोऽनुष्ठिताद्भक्तियोगो भवेद्
अतोऽन्यः शिवः सुखरूपो निर्विघ्नश्च नास्त्येव इत्येषा । यच्छब्देनात्र
भगवत्सन्तोषार्थकं कर्मोच्यते स वै पुंसां परो धर्म इत्युक्तेः ।

[२९]

स च भक्तियोगः सर्ववेदसिद्ध इत्याह

भगवान् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया ।
तदध्यवस्यत्कूटस्थो रतिरात्मन्यतो भवेत् ॥ [भागवतम् २.२.३४]

भगवान् ब्रह्मा । कूटस्थः निर्विकार एकाग्रचित्तः सन्नित्यर्थः । त्रिस्
त्रीन् वारान् कार्त्स्न्येन साकल्येन ब्रह्म वेदमन्वीक्ष्य विचार्य यत
आत्मनि हरौ रतिर्भवेत्तदेव भक्तियोगाख्यं वस्तु
मनीषयाध्यवस्यत्निश्चितवान् । अत्राप्युपसंहारानुरोधेन आत्म
शब्दस्य हरिवाचकता । निरुक्तं च आतत्वाच्च मातृत्वादात्मा हि परमो
हरिरिति । अथवा भगवान् स्वप्रकाशसार्वज्ञ्यादिगुणः परमेश्वरोऽपि
सर्ववेदाभिधेयसाराकर्षणलीलार्थमन्वीक्ष्य तत्र शास्त्र
विदन्तराणामीक्षणमनुकृत्य अनन्तवैकुण्ठवैभवादिमयानाम्
अनन्तविरिञ्चपाठ्यभेदानां वेदानां तथेक्षणं च तेनैव
सम्भवतीत्याह कूटस्थ एकरूपतयैव कालव्यापीति । अतएवोक्तं स्वयम्
एव

किं विधत्ते किमाचष्टे किमनूद्य विकल्पयेत् ।
इत्यस्या हृदयं लोके नान्यो मद्वेद कश्चन ॥ [भागवतम् ११.२१.४२] इति ।
[३०]

तथैव यच्छ्रोतव्यम् [भागवतम् १.१९.३८] इत्य्आदिना प्रश्नस्योत्तरत्वेनोपसंहरति


तस्मात्सर्वात्मना राजन् हरिः सर्वत्र सर्वदा ।
श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यो भगवान्नृणाम् ॥ [भागवतम् २.२.३६]

चकारात्पादसेवादयोऽपि गृह्यन्ते । अनन्तरं च श्रवणादिफलं यद्
दर्शितं तत्तूदाहृतम्

पिबन्ति ये भगवत आत्मनः सतां
कथामृतं श्रवणपुटेषु सम्भृतम्
पुनन्ति ते विषयविदूषिताशयं
व्रजन्ति तच्चरणसरोरुहान्तिकम् ॥ [भागवतम् २.२.३७] इति ।

अत्र पूनन्तीयनेन पूर्वोक्तः स्थूलधारणमार्गः परिहृतः । भक्ति
योगस्यैव स्वतः पावनत्वादलं तत्प्रयासेनेति ॥

॥ २.२ ॥ श्रीशुकः ॥ २८३० ॥

[३१]

एवं प्राक्तनाध्यायाभ्यां कर्मयोगज्ञानेभ्यः श्रेष्ठत्वमुक्त्वा तद्
उत्तराध्यायेऽपि सर्वदेवतोपासनेभ्यः श्रेष्ठत्वप्रवचनेन भगवद्
भक्तियोगस्यैवाभिधेयत्वमाह ब्रह्मवर्चसकामस्तु यजेत
ब्रह्मणः पतिम् [भागवतम् २.३.२] इत्य्आद्य्अनन्तरम्

अकामः सर्वकामो वा मोक्षकाम उदारधीः ।
तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥ [भागवतम् २.३.१०]

टीका च अकाम एकान्तभक्तः उक्तानुक्तकामो वा सर्वकामो वा ।
पुरुषं पूर्णं निरुपाधिमित्येषा । तीव्रेण दृढेन स्वभावत एव
अनुपघात्येनेति विघ्नानवकाशतोक्ता । कामना तु यथा कथञ्चित्कृतेनापि
स्यात् । यथोक्तं भारते

भक्तक्षणः क्षणो विष्टोः स्मृतिः सेवा स्ववेश्मनि ।
स्वभोग्यस्यार्पणं दानं फलमिन्द्रादिदुर्लभम् ॥[*Eण्ड्ण्Oट्E ॰१]

(पगे १३)

तदुक्तं श्रीकपिलेन श्रीकर्दमं प्रति । न वै जातु मृषैव स्यात्
प्रजाध्यक्ष मद्अर्हणमिति [भागवतम् ६.२१.२४] ।

अथवा यत्तत्कामस्तीव्रेणैव यजेत ततश्च शुद्धभक्ति
सम्पादनायैवान्ते पर्यवसिष्यतीत्यभिप्रायेण सविशेषणमुपदिष्टम् ।
तदनेन एकान्तभक्तेषु मुमुक्षौ वा तद्भक्तियोगस्यैवाभिधेयत्वं
किं वक्तव्यमपि तु सर्वकामेष्वपीति तदेव सर्वथापि निर्णीतम् ।
[३२]
किं च

एतावानेव यजतामिह निःश्रेयसोदयः ।
भगवत्यचलो भावो यद्भागवतसङ्गतः ॥ [भागवतम् २.३.११]
टीका च पूर्वोक्तनानादेवतायजनस्यापि संह्योगपृथक्त्वेन
भक्तियोगफलत्वमाह एतावानिति । इन्द्रादीनपि यजतामिह तत्तद्यजने
भागवतानां सङ्गतो भावो भक्तिर्भवतीति यदेतावानेव निःश्रेयसस्य
परमपुरुषार्थसोदयः लाभः अन्यत्तु सर्वं तुच्छमित्यर्थमित्य्
एषा ।

अत्र इन्द्रमिन्द्रियकामस्त्वित्य्आद्युक्तम् । इन्द्रियपाटवादिकं
पृथक्त्वेन फलम् । भागवतेन संयोगे तु भावः फलं
खादिरयूपसंयोगे यागस्य फलवैशिष्ट्यवदिति ज्ञेयम् ॥

॥२.३॥ श्रीशुकः ॥ ३१३२ ॥
[३३]

अनन्तरं श्रीशौनकेनापि व्यतिरेकोक्त्या तस्यैवाभिधेयत्वं दृढीकृतम् ।
यथाह

आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ ।
तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया ॥ [भागवतम् २.३.१७]

असौ सूर्यः यनुद्गच्छनस्तं च यन् गच्छन् हरति वृथागामित्वाद्
आच्छिनत्तीव । यत्क्षणोऽपि येन नीतः उत्तमः श्लोकवार्तया तस्यायुः ऋते
वर्जयित्वा । तावतैव सर्वसाफल्यादिति भावः ।
[३४]

ननु जीवनादिकमेव तेषामायुषः फलमस्तु । तत्राह

तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्युत ।
न खादन्ति न मेहन्ति किं ग्रामे पशवोऽपरे ॥ [भागवतम् २.३.१८]

न मेहन्ति न मैथुनं कुर्वन्ति । तमपि नराकारं पशुं मत्वाह अपरे
इति ।
[३५]

तदेवाह

श्वविड्वराहोष्ट्रखरैः संस्तुतः पुरुषः पशुः ।
न यत्कर्णपथोपेतो जातु नाम गदाग्रजः ॥ [भागवतम् २.३.१९]

श्वादितुल्यैस्तत्परिकरैः सम्यक्स्तुतोऽप्यसौ पुरुषः पशुः । तेषामेव
मध्ये श्रेष्ठश्चेत्तर्हि महापशुरेवेत्यर्थः ।
[३६४०]

तस्याङ्गानि निष्फलानीत्याह पञ्चभिः

बिले बतोरुक्रमविक्रमान् ये
न शृण्वतः कर्णपुटे नरस्य ।
जिह्वासती दार्दुरिकेव सूत
न चोपगायत्युरुगायगाथाः ॥ [भागवतम् २.३.२०]
न शृण्वतः अशृण्वतो नरस्य ये कर्णपुटे ते बिले ते वृथारन्ध्रे इत्य्
अर्थः । असती दुष्टा ।

भारः परं पट्टकिरीटजुष्टम्
अप्युत्तमाङ्गं न नमेन्मुकुन्दम् ।
शावौ करौ नो कुरुते सपर्यां
हरेर्लसत्काञ्चनकङ्कणौ वा ॥ [भागवतम् २.३.२१]

पट्टवस्त्रौष्णीषेण किरीटेन वा जुष्टमपि । अप्यर्थे वा शब्दः ।

बर्हायिते ते नयने नराणां
लिङ्गानि विष्णोर्न निरीक्षतो ये ।
पादौ नृणां तौ द्रुमजन्मभाजौ
क्षेत्राणि नानुव्रजतो हरेर्यौ ॥ [भागवतम् २.३.२२]

द्रुमवज्जन्मभाजाविति तथा वृक्षमूलतुल्यावित्यर्थः ।

जीवञ्छवो भागवताङ्घ्रिरेणुं
न जातु मर्त्योऽभिलभेत यस्तु ।
श्रीविष्णुपद्या मनुजस्तुलस्याः
श्वसञ्छवो यस्तु न वेद गन्धम् ॥ [भागवतम् २.३.२३]

जात्वपि श्रीविष्णुपद्यास्तत्पादलग्नायाः ।

तदश्मसारं हृदयं बतेदं
यद्गृह्यमाणैर्हरिनामधेयैः
न विक्रियेताथ यदा विकारो
नेत्रे जलं गात्ररुहेषु हर्षः ॥ [भागवतम् २.३.२४]

अश्मवत्सारो बलं काठिन्यं यस्य । विक्रियालक्षणमथेति । यदा तद्
विकारो भवेत्तदा नेत्रादौ जलादिकं भवतीत्यर्थः । इदमेवान्वयेन
श्रीमता राज्ञा दृढीकरिष्यते । सा वाग्यया तस्य गुणान् गृणीते इत्य्
आदिभ्याम् [भागवतम् १०.८०.३४] । तदेवं श्रीशुकवाक्यारम्भाध्याय
एवाभिधेयत्वेन श्रीभक्तिरेव लब्धा ।

टीका च
तत्रतु प्रथमेऽध्याये कीर्तणश्रवणादिभिः ।
स्थविष्ठे भगवद्रूपे मनसो धारणोच्यते ॥
द्वितीये तु ततः स्थूलधारणातो जितं मनः ।
सर्वसाक्षिणि सवशे विष्णौ धार्यमितीर्यते ॥
तृतीये विष्णुभक्तेस्तु वैशिष्ट्यं शृण्वतो मुनेः ।
भत्य्उद्रेकेण तत्कर्मश्रवणादर ईर्यते ॥ इत्येषा ॥

॥ २.३ ॥ श्रीशौनकः ॥ ३३४० ॥

[४१]

श्रीब्रह्मनारदसंवादेऽपि
सम्यक्कारुणिकस्येदं वत्स ते विचिकित्सितम् ।
यदहं चोदितः सौम्य भगवद्वीर्यदर्शने ॥ [भागवतम् २.५.९]

अग्रे च सर्वशास्त्रसमन्वयेन नारायणपरा वेदा इत्य्आदि [भागवतम् २.५.१५]

श्रीनारायण एवोपास्यत्वेन परः तात्पर्यविषयो येषां ते वेदाः । नन्व्
अन्येऽपि देवास्तत्रोपास्यत्वेनाभिधीयन्ते । सत्यं तेऽपि नारायणाङ्ग
प्रभवत्वेनैव तथा वर्ण्यन्त इत्यर्थः । येऽपि तद्आश्रयाः [पगे १५] लोकास्
तत्पदप्राप्तिहेतवोऽन्ये मखाश्च ते तत्परा एव । तद्आनन्दांशाभास
रूपत्वात्तत्साधनत्वाच्चेति भावः ।

तथा योगोऽष्टाङ्गः साङ्ख्यं च । तत्साध्यं तपश्चित्तैकाग्र्यम् । तत्
साध्यं ब्रह्मज्ञानं च तत्परम् । तदीयसामान्याकारप्रकाशत्वात्तज्
ज्ञानस्य ।

योगतपसोस्तत्साधनत्वाच्चेति भावः । किं बहुना । गतिस्तत्प्राप्यं
ब्रह्मापि तत्परा तदीयसामान्याकारप्रकाशत्वेन तद्
अधीनाविर्भावत्वात् । तदुक्तं श्रीमत्स्यदेवेन सत्यव्रतं प्रति

मदीयं महिमानं च परं ब्रह्मेति शब्दितम् ।
वेत्स्यस्यनुगृहीतं मे सम्प्रश्नैर्विवृतं हृदि ॥ इति [भागवतम् ८.२४.३८]

॥ २.५ ॥ श्रीब्रह्मा नारदम् ॥ ४१४२ ॥
[४३]

श्रीविदुरमैत्रेयसंवादेऽपि । तत्र प्रश्नो यथा

तत्साधुवर्यादिश वर्त्म शं नः
संराधितो भगवान् येन पुंसाम् ।
हृदि स्थितो यच्छति भक्तिपूते
ज्ञानं सतत्त्वाधिगमं पुराणम् ॥ [भागवतम् ३.५.४]

अत्र शं सुखरूपं वर्त्मेति । टीका च भक्तिपूते प्रेमविमले । स
तत्त्वं तत्त्वं तच्च ब्रह्मभगवत्परमात्मेत्य्आद्य्आविर्भावः ॥

॥ ३.५ ॥ श्रीविदुरः श्रीमैत्रेयम् ॥ ४३ ॥
[४४]

तत्राजानजदेवस्तुतिद्वारैवोत्तरम्

पानेन ते देव कथासुधायाः
प्रवृद्धभक्त्या विशदाशया ये ।
वैराग्यसारं प्रतिलभ्य बोधं
यथाञ्जसान्वीयुरकुण्ठधिष्ण्यम् ॥

तथापरे चात्मसमाधियोग
बलेन जित्वा प्रकृतिं बलिष्ठाम् ।
त्वामेव धीराः पुरुषं विशन्ति
तेषां श्रमः स्यान्न तु सेवया ते ॥ [भागवतम् ३.५.४५४६]

अकुण्ठधिष्ण्यं वैकुण्ठलोकमिति । टीका विशदाशयाः प्रोज्झित
कैतवाः सेवैकपुरुषार्थाः । अपरे मोक्षमात्रकामाः । तन्मात्र
पुरुषार्थेऽपि तेषां श्रमः स्यात् । ये तु सेवैकपुरुषार्थास्तेषां सेवया
श्रमो न स्यात् । सदैव सेवया परमानन्दमनुभवतामानुषङ्गिकत्या
मोक्षश्च स्यादित्यर्थः ।

॥ ३.५ ॥ अजानजदेवाः श्रीपरमात्मानम् ॥ ४४ ॥
[४५]

अतएव स्वयं तत्श्लाघ्यते

सत्सेवनीयो बत पूरुवंशो
यल्लोकपालो भगवत्प्रधानः ।
बभूविथेहाजितकीर्तिमालां
पदे पदे नूतनयस्यभीक्ष्णम् ॥ [भागवतम् ३.८.१]

तस्मात्कथोपलक्षिता भक्तिरेव परं श्रेय इति भावः ।

॥ ३.८ ॥ श्रीमैत्रेयः ॥ ४५ ॥
[४६४७]

श्रीकापिलेयेऽपि यथाह

न युज्यमानया भक्त्या भगवत्यखिलात्मनि ।
सदृशोऽस्ति शिवः पन्था योगिनां ब्रह्मसिद्धये ॥ [भागवतम् ३.२५.१९]

ब्रह्मसिद्धिः परतत्त्वाविर्भावः । यथा

एतावानेव लोकेऽस्मिन् पुंसां निःश्रेयसोदयः ।
तीव्रेण भक्तियोगेन मनो मय्यर्पितं स्थिरम् ॥ [भागवतम् ३.२५.४१]

भक्तियोगेन श्रवणादिना मय्यर्पितं सत्मनः स्थिरं भवतीति यद्
एतावानेव । अत्रास्मिनित्यनेनान्यस्मिंस्तु एतावतोऽप्यधिको नास्तीति
व्यज्यते ॥

॥३.२५॥ श्रीकपिलदेवः ॥४६४७॥
[४८]

श्रीकुमारोपदेशेऽपि ज्ञानोपदेशानन्तरम्

यत्पादपङ्कजपलाशविलासभक्त्या
कर्माशयं ग्रथितमुद्ग्रथयन्ति सन्तः ।
तद्वन्न रिक्तमतयो यतयोऽपि रुद्ध
स्रोतोगणास्तमरणं भज वासुदेवम् ॥

कृच्छ्रो महानिह भवार्णवमप्लवेशां
षड्वर्गनक्रमसुखेन तितीर्षन्ति ।
तत्त्वं हरेर्भगवतो भजनीयमङ्घ्रिं
कृत्वोडुपं व्यसनमुत्तर दुस्तरार्णम् ॥ [भागवतम् ४.२२.३७३८}

टीका च तमवेहीति ज्ञानमुपदिष्टम् । तस्य तु दुष्करत्वेन भक्तिम्
उपदिशति द्वाभ्यां यत्पादपङ्कजेत्य्आदिकमारभ्य । ननु ब्रह्मविद्
आप्नोति परमिति श्रुतेः [टैत्तू २.१.१] । कथं यतयो नोद्ग्रथयन्तीत्युच्यते
तत्राह कृच्छ्र इति । अप्लवेशां न प्लवस्तरणहेतुरीड, ईशो येषां, तेषाम्
इह तरणे महान् कृच्छ्रः क्लेशः । ते हि असुखेन इन्द्रियषड्वर्गग्राहं
भवार्णवं तितीर्षन्ति ।तस्मादुडुपं प्लवं दुस्तरार्णं दुस्तरार्णवमित्य्
एषा ।

समानप्राप्ययोरपि पथोरेकस्य दुर्गमत्व
कथनेनान्यस्याभिधेयत्वं स्वत एव सिध्यति । अत्र तितीर्षन्ति मात्रं न तु
तरन्तीत्यर्थो ज्ञेयः ।

॥४.२२॥ श्रीसनत्कुमारः श्रीपृथुम् ॥४८॥
[४९]

अतो यच्च ज्ञानमुपदिष्टं तदपि तद्उपदेशाव्यर्थतासम्पादनेच्छा
मात्रेणानुष्ठीयमानं तेन भक्तिरसादेव कृतमित्याह

सनत्कुमारो भगवान् यदाहाध्यात्मिकं परम्
योगं तेनैव पुरुषमभजत्पुरुषर्षभः ।
भगवद्धर्मिणः साधोः श्रद्धया यततः सदा
भक्तिर्भगवति ब्रह्मण्यनन्यविषयाभवत् ॥ [भागवतम् ४.२३.७८]

तेनैव द्वारीकृतेन ॥

॥४.२३॥ श्रीमैत्रेयः ॥४९॥
[५०]

श्रीरुद्रगीतेऽपि

इदं जपत भद्रं वो विशुद्धा नृपनन्दनाः ।
स्वधर्ममनुतिष्ठन्तो भगवत्यर्पिताशयाः ॥
तमेवात्मानमात्मस्थं सर्वभूतेष्ववस्थितम् ।
पूजयध्वं गृणन्तश्च ध्यायन्तश्चासकृद्धरिम् ॥ [भागवतम् ४.२४.६४६५]

अथ तमेव पूजयध्वं न तु स्वधर्मानुष्ञ्हानाग्रहादिकमपि
कुरुध्वमित्येवकारार्थः । आत्मस्थं स्वान्तर्यामित्वेन स्थितम् । तद्वद्
अपरेष्वपि भूतेष्ववस्थितमात्मानं परमात्मानं गृणन्तः कीर्तयन्तो
ध्यायन्तश्चेत्यन्यत्र मनोवचो व्यापारोऽपि निषिद्धः । असकृदिति एकस्यां
पूजायां समाप्यमानायामेवान्यारभ्द्यव्या न तु कर्माद्याग्रहेण
विच्छेदः कर्तव्य इत्यर्थः ॥

॥ ४.२४ ॥ श्रीरुद्रः प्रचेतसः ॥ ५० ॥
(पगे १७) [५१]
एतदेव श्रीनारदेनापि स्फुटीकरिष्यते अन्वयव्यतिरेकाभ्याम् । यथाह


तज्जन्म तानि कर्माणि तदायुस्तन्मनो वचः ।
नॄणां येन हि विश्वात्मा सेव्यते हरिरीश्वरः ॥
किं जन्मभिस्त्रिभिर्वेह शौक्रसावित्रयाज्ञिकैः ।
कर्मभिर्वा त्रयीप्रोक्तैः पुंसोऽपि विबुधायुषा ॥
श्रुतेन तपसा वा किं वचोभिश्चित्तवृत्तिभिः ।
बुद्ध्या वा किं निपुणया बलेनेन्द्रियराधसा ॥
किं वा योगेन साङ्ख्येन न्यासस्वाध्याययोरपि ।
किं वा श्रेयोभिरन्यैश्च न यत्रात्मप्रदो हरिः ॥
श्रेयसामपि सर्वेषामात्मा ह्यवधिरर्थतः ।
सर्वेषामपि भूतानां हरिरात्मात्मदः प्रियः ॥ [भागवतम् ४.३१.९१३]

शौक्रं शुक्रसम्बन्धि जन्म विशुद्धमातापितृभ्यामुत्पत्तिः ।
सावित्रमुपनयनेन । याज्ञिकं दीक्षया । इन्द्रियराधसा तत्पाटवेन ।
अत्र साङ्ख्येन देहादिव्यतिरिक्तात्मज्ञानमात्रेणेति टीका ।

अथ श्रेयसामित्य्आदिटीका च नन्वेषां नानाफलसाधनानां हरि
सेवनाभावमात्रेण कुतो वैयर्थ्यम् । तत्राह, श्रेयसां फलानाम्
आत्मैवावधिः पराकाष्ठा । अर्थतः परमार्थतः
आत्मार्थत्वेनैवान्येषां प्रियत्वादित्यर्थः । भवत्वात्मावधिः । हरेः
किमायातम् । तत्राह सर्वेषामपीति । आत्मदश्च अविद्यानिरासेन
स्वरूपाभिव्यञ्जकः । ऐश्वरेणापि रूपेण बलिप्रभृतिभ्य इव आत्मप्रदः ।
प्रियश्च परमानन्दरूपत्वादित्येषा ।

अत्र सर्वेषां भूतानां शुद्धजीवानामपि आत्मा परमात्मेति ज्ञेयम् ।
रश्मिस्थानीयानां जीवानां सूर्यस्थानीयत्वात्तस्य । तदुक्तम्

तस्मात्प्रियतमः स्वात्मा सर्वेषामेव देहिनाम् ।
तदर्थमेव सकलं जगच्चैतच्चराचरम् ।
कृष्णमेनमवेहि त्वमात्मानमखिलात्मनाम् ॥ [भागवतम् १०.१४.५४] इति ।

आत्मानौ जीवतादात्म्यापन्नब्रह्मेश्वराख्यौ ददाति यथायथं
स्फोरयति वशीकारयति च यः स आत्मद इति स्वाम्य्अभिप्रायः ॥

[५२]

किं च

यथा तरोर्मूलनिषेचनेन
तृप्यन्ति तत्स्कन्धभुजोपशाखाः ।
प्राणोपहाराच्च यथेन्द्रियाणां
तथैव सर्वार्हणमच्युतेज्या ॥ [भागवतम् ४.३१.१२]

टीका च किं च नानाकर्मभिस्तत्तद्देवताप्रीतिनिमित्तान्यपि फलानि
हरिप्रीत्या भवन्ति । केवलतत्तद्देवताराधनेन तु न किञ्चिदिति
सदृष्टान्तमाह यथेत्य्आदिना ॥
॥ ४.३१ ॥ श्रीनारदः प्रचेतसः ॥५२॥

[५३]

श्र्यृषभदेवकृतस्वपुत्रशिक्षणेऽपि ये वा मयीशे [भागवतम् ५.५.३] इत्य्
आदिकं, मत्तोऽप्यनन्तादित्य्आदिकं [भागवतम् ५.५.२५] चाग्रे दर्शनीयम् ।
ब्राह्मणरहूगणसंवादान्तेऽपीदमस्ति

रहूगण त्वमपि ह्यध्वनोऽस्य;
सन्न्यस्तदण्डः कृतभूतमैत्रः ।
असज्जितात्मा हरिसेवया शितं;
ज्ञानासिमादाय तरातिपारम् ॥ [भागवतम् ५.१३.२०] (पगे १८)

ज्ञानमत्र भवत्याश्रयमेव । तथोक्तमेतद्अनन्तरं श्री
रहूगणेनैव

अहो नृजन्माखिलजन्मशोभनं
किं जन्मभिस्त्वपरैरप्यमुष्मिन्
न यद्धृषीकेशयशःकृतात्मनां
महात्मनां वः प्रचुरः समागमः ॥ [भागवतम् ५.१३.२१]

न ह्यद्भुतं त्वच्चरणाब्जरेणुभिर्
हतांहसो भक्तिरधोक्षजेऽमला ।
मौहूर्तिकाद्यस्य समागमाच्च मे
दुस्तर्कमूलोऽपहतोऽविवेकः ॥ [भागवतम् ५.१३.२१]

स्पष्टम् ।

॥५.१३॥ श्रीब्राह्मणो रहूगणम् ॥५३॥
[५४]

तथा चित्रकेतुं प्रति श्रीसङ्कर्षणोपदेशान्तेऽपि दृष्टश्रुताभिर्मात्राभिर्
इत्य्[भागवतम् ६.१६.६२] आदौ मद्भक्तः पुरुषो भवेदित्यग्रत उदाहार्यम् ।

असुरबालानुशासनेऽपि
कौमार आचरेत्प्राज्ञो धर्मान् भागवतानिह ।
दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम् ॥
यथा हि पुरुषस्येह विष्णोः पादोपसर्पणम् ।
यदेष सर्वभूतानां प्रिय आत्मेश्वरः सुहृत् ॥ [भागवतम् ७.६.१२]

इहैव मानुषजन्मनि भागवतान् धर्मानाचरेत्यतोऽर्थदमेतज्
जन्म । देवादिजन्मनि महाविषयावेशात्पश्व्आदिजन्मनि विवेकाभावाच्
च, मानुषं जन्म च प्राप्य न विलम्बेतेत्याह कौमारे, कौमारम्
आरभ्य इत्यर्थः । यतस्तदपि जन्म ध्रुवं पुनर्दुर्लभं च ।
शास्त्रस्य च प्राधान्येन मनुष्यमधिकृत्य प्रवृत्तत्वात्तद्
अनुवादेनोक्तिरियम् । तद्बुद्ध्य्आदिसाम्येन मानुषत्वमारोप्यैवेति
ज्ञेयम् । तत्र भागवतधर्माचरणस्यैव युक्तत्वं दर्शयति यथा हीत्य्
आदि । इह पुरुषस्य च विष्णोः पादोपसर्पणमेव यथानुरूपं योग्यमित्य्
अर्थः । यद्यस्मादेव भूतानां स्वभावत एव प्रियः प्रीतिविषयः प्रेम
कर्ता । तत्र हेतुः आत्मा परमात्मा । पादोपसर्पणे हेत्व्अन्तरं यस्माच्
चैष ईश्वरः कर्तुमकर्तुमन्यथाकर्तुं समर्थः । सुहृत्सर्वेषां
हितं चिकीर्षुश्चेति ।
[५५]
तदेतदुपक्रम्योपसंहरति ।

धर्मार्थकाम इति योऽभिहितस्त्रिवर्ग
ईक्षा त्रयी नयदमौ विविधा च वार्ता ।
मन्ये तदेतदखिलं निगमस्य सत्यं
स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः ॥ [भागवतम् ७.६.२४]

ईक्षा आत्मविद्या । तदेतत्सर्वं निगमस्यार्थजातं स्वसुहृदः
स्वान्तर्यामिनः परमस्य पुंसस्तस्मै स्वात्मार्पणसाधनं चेत्तर्हि
सत्यं मन्ये सत्यफलत्वात् । यद्वा, सत्यमर्थक्रियाकारकं सफलम्
इति यावत् । अन्यथा धर्मादीनां निष्फलत्वमेवेति भावः ॥

॥ ७.६ ॥ श्रीप्रह्लादोऽसुरबालकान् ॥५४५५॥
[५६]

अग्रे च

तत्रोपायसहस्राणामयं भगवतोदितः ।
यदीश्वरे भगवति यथा यैरञ्जसा रतिः ॥ [भागवतम् ७.७.२४]

तत्र पूर्वोक्ते त्रिगुणात्मककर्मणां बीजनिर्हरणेऽपि उपायसहस्राणां
मध्ये अयमेव उपायः भगवता श्रीनारदेन मां प्रत्युपदिष्टः । यैर्
उपायसहस्रैः सिद्धाद्यद्यस्मादुपायाद्यथा यथावदीश्वरे
भगवति अञ्जसा व्यवधानानन्तरं विनैव रतिः प्रीतिर्भवति । अतः
कर्मबीजनिर्हरणमपि तस्यानुषङ्गिकमेव फलमिति भावः । (पगे
१९)
[५७]

अग्रे च गुरुशुश्रूषया भक्त्या [भागवतम् ७.७.३०] इत्य्आदिभिस्
तस्यैवोपायस्याङ्गान्युक्त्वाह

एवं निर्जितषड्वर्गैः क्रियते भक्तिरीश्वरे ।
वासुदेवे भगवति यया संलभ्यते रतिः ॥ [भागवतम् ७.७.३३]

एवं पूर्वोक्तगुरुशुश्रूषादिप्रकारेणैव, न तु तद्अर्थे पृथक्
प्रयत्नेन । निर्जितकर्मबीजलक्षणकामक्रोधलोभमोहमद
मात्सर्यैर्जनैः पुनरपि भक्तिः क्रियत एव । यथा वासुदेवे रतिरपि
संलभ्यत इत्यर्थः ॥

॥ ७.७ ॥ प्रह्लादस्तान् ॥५६५७॥
[५८]

वर्णाश्रमाचारकथनारम्भे नरमात्रधर्मकथनेऽपि
धर्ममूलं हि भगवान् सर्ववेदमयो हरिः ।
स्मृतं च तद्विदां राजन् येन चात्मा प्रसीदति ॥ [भागवतम् ७.११.७]

धर्मस्य मूलं प्रमाणं भगवान् । यतः सर्ववेदमयः । स्मृतं
स्मृतिश्च, तद्विदां वेदमयभगवद्विदां, तस्य प्रमाणम् । आभ्यां
तद्बहिर्मुखधर्मस्यापार्थत्वं भगवद्धर्मस्यैवावश्यकत्वं
चोक्तम् । अतएव

वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥ [ंनु २.६]

इति मनुस्मृतिवाक्यादप्यत्र विशिष्टतयोपदिष्टं, तच्च युक्तम्
धर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां
वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् । [भागवतम् १.१.२] इत्य्
उक्तत्वात् ।

येनैव धर्मेण मनः प्रसीदतीत्यनेन येनात्मा सुप्रसीदतीतिवत्सु
शब्दविशिष्टतयानुक्तत्वात्तच्छ्रवणादिलक्षणसाक्षाद्भक्तेरेव
प्रशस्तत्वं च बोधितम् । तत्तत्सर्वधर्मकथनान्ते तु स्वयमेव
स्वस्य तृतीये गन्धर्वजातौ जन्मानुषङ्गिकं भगवत्तत्त्वज्ञान
मात्रं सत्कर्मोक्त्वा द्वितीये च शूद्रजातौ जन्मनि सत्सङ्गजश्रवणादि
मात्रं तदुक्त्वा, स्वस्य तादृशभगवत्पार्षदत्वपर्यन्तफलप्राप्तौ
तथाविधमपि स्वधर्मलक्षणं कारणान्तरं नादृतवान् ।

तथा हि तत्रैव यूयमित्य्[भागवतम् ७.१०.४८] अस्य टीका च एतच्च सर्व
साधारणमुक्तं भक्तस्य तु भक्तिरेव सर्वपुरुषार्थत्वे हेतुरिति
पाण्डवानेव लक्ष्यीकृत्याह यथा हीत्येषा । तस्मादत्रापि साक्षात्भक्ताव्
एव तात्पर्यम् । अथात्र त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेर्भजन्न्
अपक्वोऽथ पतेत्ततो यदि [भागवतम् १.५.१७] इत्य्आदौ भक्तेर्धर्मातिरिक्तत्वेऽपि
श्रवणं कीर्तनं चास्य स्मरणं महतां गता [भागवतम् ७.११.१०] इत्य्आदिनोत्तर
ग्रन्थे धर्मत्वविधानं सर्वेष्वप्पि प्राणिष्वावश्यकत्वापेक्षया
परमश्रेयोरूपत्वापेक्षया च लाक्षणिकमेव । वस्तुतस्तु पञ्चमे
तत्रापीत्यादिगद्ये [भागवतम् ५.९.३] भगवतः कर्मबन्धविध्वंसन
श्रवणस्मरणेत्यादिना श्रीजडभरतस्य या भक्तिनिष्ठोक्ता तस्या पितर्य्
उपरत इत्य्आदिगद्ये [भागवतम् ५.९.७] त्रय्यां विद्यायामेव पर्यवसितमतयो न
परविद्यायामित्य्आदिना तद्अवज्ञातॄणां तद्भ्रातॄणामज्ञत्वबोधनेन
धर्मातिरिक्तत्वं परविद्यात्वं च बोधितम् । अतएवोक्तं श्रीनारसिंहे
(पगे २०)
सनकादयो निवृत्ताख्ये ते च धर्मे नियोजिताः ।
प्रवृत्ताख्ये मरीचाद्यामुक्त्वैकं नारदं मुनिम् ॥ इति । [णार्ড়् ४.४]

तेन ब्रह्मणेति प्राकरणिकम् । तथा लक्षणामयकष्ठकल्पनया
श्रवणादीनां स्वधर्मान्तर्गणना च बहिर्मुखानामपि साक्षाद्भक्ति
प्रवर्तनायैव । एवमन्यत्राप्यन्यमिश्रभक्त्य्उदेशवाक्येषु ज्ञेयम् ।
तस्मादपि भक्तावेव तात्पर्यमिति ॥

॥ ७.११ ॥ श्रीनारदो युधिष्ठिरम् ॥५८॥
[५९६०]

जायन्तेयोपाख्यानेऽपि अत आत्यन्तिकं क्षेमं पृच्छाम [भागवतम् ११.२.२८] इत्य्
अस्योत्तरम्

मन्येऽकुतश्चिद्भयमच्युतस्य
पादाम्बुजोपासनमत्र नित्यम् ।
उद्विग्नबुद्धे रसदात्मभावाद्
विशात्मना यत्र निवर्तते भीः ॥ [भागवतम् ११.२.३३]

टीका च प्रथममात्यन्तिकं क्षेमं कथयति मन्ये इत्य्आदिका । पुनश्
च धर्मान् भागवतान् ब्रूते [भागवतम् ११.२.३१] इत्युत्तरत्वेन ये वै भगवता
प्रोक्ता उपाया ह्यात्मलब्धये [भागवतम् ११.२.३४] इत्य्आदिपद्यत्रयमुक्त्वा
भयं द्वितीयाभिनिवेशतः स्यादित्य्आदिपद्ये बुध आभजेत्तम्
भक्त्यैकयेशम् [भागवतम् ११.२.३७] इत्यत्र भक्त्येत्यनेन तस्या ज्ञानाद्य्अमिश्र
श्रवणकीर्तनादिलक्षणत्वम् । एकयेत्यनेन नैरन्तर्यलक्षणम्
अव्यभिचारित्वं चोपदिष्टम् । तत्र यद्यपि कायेन वाचा मनसेन्द्रियैर्वेत्य्
आदिप्राक्तनवाक्ये [भागवतम् ११.२.३६] लौकिकस्यापि कर्मणो भगवद्अर्पणाद्
भागवतधर्मत्वं सिध्यतीति यथोक्तं तस्य नैरन्तर्यमपि
सम्भवति । तथापि श्रवणकीर्तनादिलक्षणमात्रत्वं व्याहन्येत, तस्मात्
तत्राव्यभिचारित्वं, तन्मात्रत्वं च यथा भवेत्तथोपायं तद्अनन्तरम्
आह द्वाभ्याम् । तत्र प्रथममव्यभिचारित्वोपायमाह प्रथमेन

अविद्यमानेऽप्यवभाति हि द्वयो
ध्यातुर्धिया स्वप्नमनोरथौ यथा ।
तत्कर्मसंकल्पविकल्पकं मनो
बुधो निरुन्ध्यादभयं ततः स्यात् ॥ [भागवतम् ११.२.३८]

द्वयः प्रधानादिद्वैतपञ्चः । यद्यप्यविद्यमान आत्मनि शुद्धे न
विद्यत एवेत्यर्थस्तथापि ध्यातुरविद्यामयध्यानयुक्तस्य सतस्तस्य
धियावभाति, तस्मिन् शुद्धेऽपि कल्पत एवेत्यर्थः । यथा स्वप्नो
मनोरथश्च तथेत्यर्थः । तत्तस्मात्कर्माणि सङ्कल्पयति विकल्पयति च
यन्मनस्तन्नियच्छेत् । ततश्चाव्यभिचारिण्या भक्त्या भजनादभयं
स्यादिति भावः ।
[६१]

ननु तथापि मनोनिरोधरूपेण योगाभ्यासेन भक्तिकैवल्यव्यभिचारः
स्यादित्याशङ्क्य भक्त्यैव क्रियमाणया तद्आसक्तत्वेन स्वत एव मनो
निरोधोऽपि स्यादिति । तन्मात्रत्वोपायमाह द्वितीयेन

शृण्वन् सुभद्राणि रथाङ्गपाणेर्
जन्मानि कर्माणि च यानि लोके ।
गीतानि नामानि तद्अर्थकानि
गायन् विलज्जो विचरेदसङ्गः ॥ [भागवतम् ११.२.३९]

तद्अर्थकाणि तानि जन्मानि कर्माणि चार्थो येषां तानि नामानि । एतान्यपि
साकल्येन ज्ञातुमशक्यानीत्याशङ्क्याह यानि लोके गीतानि प्रसिद्धानि, तानि
शृण्वन् गायंश्च विचरेत् । असङ्गो निःस्पृहः ॥

॥ ११.२ ॥ श्रीकविर्विदेहम् ॥ ५९६१ ॥
[६२]

अग्रे च कर्मादीन् परिहरन् साक्षाद्भक्तिमेव विधत्ते

परोक्षवादो वेदोऽयं बालानामनुशासनम् ।
कर्ममोक्षाय कर्माणि विधत्ते ह्यगदं यथा ॥
नाचरेद्यस्तु वेदोक्तं स्वयमज्ञोऽजितेन्द्रियः ।
विकर्मणा ह्यधर्मेण मृत्योर्मृत्युमुपैति सः ॥
वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे ।
नैष्कर्म्यं लभते सिद्धिं रोचनार्था फलश्रुतिः ॥
य आशु हृदयग्रन्थिं निरिजिहीर्षुः परात्मनः ।
विधिना च यजेद्देवं तन्त्रोक्तेन च केशवम् ॥ [भागवतम् ११.३.४४४७] इत्यादि ।

परोक्षेति टीका च यत्रान्यथा स्थितोऽर्थः सङ्गोपयितुमन्यथा कृत्वोच्यते
स परोक्षवादः । तथा च श्रुतिः तं वा एतं चतुर्छुतं (?) सन्तं
चतुर्होतेत्याचक्षते परोक्षेण परोक्षप्रिया एव हि वेदा इति । परोक्ष
वादमेवाह कर्ममोक्षायेति । ननु स्वर्गाद्य्अर्थं कर्माणि विधत्ते न
कर्ममोक्षार्थं तत्राह बालानामनुशासनं यथा तथा । अत्र
दृष्टान्तः अगदमौषधं यथा पिता बालमगदं पाययन् खण्ड
लड्डुकादिभिः प्रलोभ्यन् पाययति ददाति च तानि खण्डलड्डुकादीनि ।
नैतावता अगदस्य तल्लाभः प्रयोजनमपित्वारोग्यम् । तथा वेदोऽप्य्
अवान्तरफलैः प्रलोभयन् कर्ममोक्षायैव कर्माणि विधत्त इत्येषा ।

अज्ञो न विद्यते ज्ञा श्रीभगवतः कथाश्रवणादौ श्रद्धालक्षणा धी
वृत्तिर्यस्य सः । अतएव तस्मिन्न प्रवर्तत इत्यर्थः । तथैवाजितेन्द्रियो
ब्रह्मजिज्ञासुः सन् पारमेष्ठ्यपर्यन्तभोगे विरक्तो वा न भवतीत्य्
अर्थः । तावत्कर्माणि कुर्वीत इत्य्आदौ [भागवतम् ११.२.९] परसपरनिरपेक्षयोः
श्रद्धाविरक्तयोर्द्वयोरेव तत्तन्मर्यादात्वेनोक्तेः । विकर्मणा
विहिताकरणरूपेण मृत्योरनन्तरं मृत्युं मरणतुल्यां यातनाम्
उपैति । पुनः पुनर्मरणमुपैत्यातनान् चोपैतीत्यर्थः । अतस्तेषां
विहितकर्मत्यागे कथञ्चिन्न निस्तारः । ईश्वरप्रयोजककर्तृकस्य
कर्मणः ईश्वरार्पणलक्षणयथार्थानुष्ठानेन तत्प्रसादे त्वसौ
सुतरामेवं स्यादित्याह वेदोक्तमिति । तस्माद्वेदोक्तमेव कुर्वाणो न
तु निषिद्धम् । नैष्कर्म्यां कर्मबन्धागोचरतारूपां सिद्धिं लभते ।

ननु कर्मणि क्रियमाणे तस्मिन्नासक्तिस्तत्फलं च स्यान्न तु नैष्कर्म
रूपा सिद्धिरत आह निःसङ्गोऽनभिनिवेशवान् । ईश्वरे तन्निमित्तमेव
तत्रार्पितं न तु फलोद्देशेन ।

ननु फलस्य श्रुतत्वात्कर्मणि कृते फलं भवेदेव । न, रोचनार्थेति
कर्मणि रुच्य्उत्पादनार्था अगदपाने खण्डलड्डुकादिवत् । ततश्च (पगे
२२) कर्माभिरुच्या वेदार्थं सम्यग्विचारयति । अथ च यो वा एतद्
अक्षरमविदित्वा गार्ग्यस्माल्लोकात्प्रैति स कृपण [Bऋहद्३.८.१०] इत्य्
अनेनाब्रह्मज्ञस्य कृपणतां, तमेतं वेदानुवचनेन बाह्मणा
विविदिषन्ति ब्रह्मचर्येण [Bऋहद्४.४.२२] इत्यादिना यज्ञादीनां ज्ञानशेषतां
चावधार्य निष्कामेषु कर्मसु प्रवर्तते । ततः स्वर्गकामो यजेत इत्य्
आदिभिः कामितस्यैव स्वर्गादेः फलत्वेनावगमादकामितोऽसौ न भवतीति
नैष्कर्म्यसिद्धिः स्वत एव भवतीति स्थिते किमुत श्रीमद्ईश्वरार्पणेन
तत्प्रसादे सतीत्यर्थः ।

तदेवं विलम्बेनैव नैष्कर्म्यसिद्धेर्हेतुमुक्त्वा यथा तरोर्मूल
निषेचनेन [भागवतम् ४.३१.१४] इति न्यायेन सर्वधर्मपर्याप्तिहेतुंनैष्कर्म
सिद्धिसाध्यहृदयग्रन्थिभेदस्यापि शीघ्रोपायं स्वातन्त्र्येनाह य आश्व्
इति । य आशु शीघ्रमेव देहद्वयात्परस्य आत्मनो जीवस्य हृदयग्रन्थिं
देहाहङ्कारं निरह्र्तुमिच्छुर्भवति स त्वन्यत्कर्मादिक्ं स्वरूपत एव
त्यक्त्वा तन्त्रोक्तेनागममार्गेण चकारात्वेदोक्तेन च विधिना प्रकारेण
केशवं देवमर्चयेत् ।
[६३]

अन्यदेवदृष्टिपरित्यागार्थस्तथोपसहारश्च ।

एवमग्न्य्अर्कतोयादतिथौ हृदये च यः ।
यजतीश्वरमात्मानमचिरान्मुच्यते हि सः ॥ [भागवतम् ११.३.५५]

आत्मानं परमात्मानम् ॥

॥११.३॥ श्रीमद्आविर्होत्रो विदेहम् ॥६३॥
[६४]

अग्रे च व्यतिरेकमुखेन

भगवन्तं हरिं प्रायो न भजन्त्यात्मवित्तमाः ।
तेषामशान्तकामानां का निष्ठा विजितात्मनाम् ॥ [भागवतम् ११.५.१]

इत्य्एतत्प्रश्नोत्तरम्

मुखबाहूरुपादेभ्यः पुरुषस्याश्रमैः सह ।
चत्वारो जज्ञिरे वर्णा गुणैर्विप्रादयः पृथक् ॥
य एवं पुरुषं साक्षादात्मप्रभवमीश्वरम् ।
न भजन्त्यवजानन्ति स्थानाद्भ्रष्टाः पतन्त्यधः ॥ [भागवतम् ११.५.२३]

पूर्वं श्रीद्रविडोपदेशेऽपि देवकृतश्रीनारायणस्तुतौ

त्वां सेवतां सुरकृता बहवोऽन्तरायाः
स्वौको विलङ्घ्य परमं व्रजतां पदं ते ।
नान्यस्य बर्हिषि बलीन् ददतः स्वभागान्
धत्ते पदं त्वमविता यदि विघ्नमूर्ध्नि ॥ [भागवतम् ११.४.१०] इत्युक्तम् ।

तत्र च यज्ञे स्वभागान् ददतः सुरकृता विघ्ना न भवन्ति । त्वां
सेवमानानां तु मात्सर्येण तत्कृतास्ते भवन्ति किन्तु यदीति निश्चये यदि
वेदाः प्रमाणमितिवन्निश्चितमेव त्वं तेषामवितेति । त्वां सेवमानो
विघ्नमूर्ध्नि पदं च धत्ते प्रतुत तमेव सोपानमिव कृत्वा व्रजतीत्य्
अर्थः । तदेवं श्रुत्वा संसार एव तिष्ठतां यत्पर्यवसानं भवेत्तत्
पृष्ठं भगवन्तमित्यादिना तत्रोत्तरयन् प्रथमं तेषां
प्रत्यवायित्वमाह मुखेति पादोनद्वयेन । पर्यवसानमाह स्थानाद्
इति पादेन ॥

॥ ११.५ ॥ श्रीचमसो विदेहम् ॥६४॥
[६५]

अग्रे च पूर्वोक्तप्रकारेण भक्तेरेवाभिहितत्वे भवेत्तस्य तद्विशेष
प्रश्नोऽपि युक्तः । कस्मिन् काल इत्यादिना [भागवतम् ११.५.१८] तथैवोत्तरितम् ।

कृतं त्रेता द्वापरं च कलिरित्येषु केशवः ।
नानावर्णाभिधाकारो नानैव विधिनेज्यते ॥ [भागवतम् ११.५.२०]

नानैव विधिना विविधेन मार्गेन ॥

॥ ११.५ ॥ श्रीकरभाजनो विदेहम् ॥६५॥
[६६]

श्रीभगवद्उद्धवसंवादेऽपि

त्वं तु सर्वं परित्यज्य स्नेहं स्वजनबन्धुषु
मय्यावेश्य मनः सम्यक्समदृग्विचरस्व गाम् ॥ [भागवतम् ११.७.६]

नोद्धवोऽण्वपि मन्न्यून [भागवतम् ३.४.३१] इत्य्आदिभिः श्रीमद्उद्ध्वस्य
सिद्धत्वेनैव प्रसिद्धत्वात्तं लक्ष्यीकृत्य तद्द्वारान्येभ्य
एवोपदेशोऽयम् । एवमन्यत्र ज्ञेयम् । ततश्च जहल्लक्षणया त्वं त्वदीय
मार्गानुगतो भक्तो विचरस्व विचरत्वित्येवार्थः । समदृक्त्वं च मां
विनान्यत्र हेयोपादेयत्वाभावात् । तुशब्दो बहिर्मुखनिवृत्त्य्अर्थः ।
तेनापि पूर्वमिदमभिप्रेतम् ।

त्वयोपयुक्तस्रग्गन्धवासोऽलङ्कारचर्चिताः ।
उच्छिष्टभोजिनो दासास्तव मायां जयेमहि ॥
मुनयो वातवासनाः[*Eण्ड्ण्Oट्E ॰२] श्रमणा ऊर्ध्वमन्थिनः ।
ब्रह्माख्यं धाम ते यान्ति शान्ताः सन्न्यासिनोऽमलाः ॥
वयं त्विह महायोगिन् भ्रमन्तः कर्मवर्त्मसु ।
त्वद्वार्तया तरिष्यामस्तावकैर्दुस्तरं तमः ॥
स्मरन्तः कीर्तयन्तश्च कृतानि गदितानि ते ।
गत्य्उत्स्मितेक्षितक्ष्वेलि यन्नृलोकविडम्बनम् ॥ [भागवतम् ११.६.४६५०] इति ।

॥ ११.७ ॥ श्रीभगवान् ॥६६॥
[६७]
अग्रे च ज्ञानयोगस्य केवलयासाध्यत्वं भक्तियोगस्य तु सुख
साध्यत्वमानुषाङ्गिकतया ज्ञानजनकत्वं स्वयमपि पुरुषार्थत्वं
चेति । यथा
न कुर्यान्न वदेत्किञ्चिन्न ध्यायेत्साध्वसाधु वा ।
आत्मारामोऽनया वृत्त्या विचरेज्जडवन्मुनिः ॥ [भागवतम् ११.११.१७]
इत्यन्तेन ज्ञानयोगमुक्त्वा भक्तियोगमुद्द्भावयितुमाह

शब्दब्रह्मणि निष्णातो निष्णायात्परे यदि ।
श्रुतस्तस्य श्रमफलो ह्यधेनुमिव रक्षत ॥ [भागवतम् ११.११.१८]

अत्र परब्रह्मपदेन परतत्त्वमात्रमुच्यते ।न तु ब्रह्मत्व
भगवत्त्वादिविवेकेनेति ज्ञेयम्, सर्वत्र तत्साम्यात् । तदेवं शब्द
ब्रह्माभ्यासस्य परब्रह्माभ्यासः प्रयोजनमित्युक्तम् । तत्र सर्वेष्व्
एवांशेषु विशेषतः उपनिषद्भागेषु शब्दब्रह्मणस्तत्प्रतिपादकत्वे
स्थितेऽपि तद्विचारकोटिभिरपि परब्रह्मनिष्ठा न जायते, किन्तु तस्मिन्
यस्मिन्नंशे श्रीभगवद्आकारपरब्रह्मलीलादिकं प्रतिपाद्यते तद्
अभ्यासेनैव भगवद्आकारे च निष्ठा जायते । तदुक्तम्

संसारसिन्धुमतिदुस्तरमुत्तितीर्षोर्
नान्यः प्लवो भगवतः पुरुषोत्तमस्य ।
लीलाकथारसनिषेवणमन्तरेण
पुंसो भवेद्विविधदुःखदवार्दितस्य ॥[भागवतम् १२.४.४०] (पगे२४)

श्रेयःसृतिं भक्तिमुदस्य ते विभो
क्लिश्यन्ति ये केवेलबोधलब्धये ।
तेषामसौ क्लेशल एव शिष्यते
नान्यद्यथा स्थूलतुषावघातिनाम् ॥ [भागवतम् १०.१४.४] इत्य्आदि च ।
[६८६९]

अतएव मदीयलीलाशून्यां वैदिकीमपि वाचं नाभसेदित्याह द्वाभ्याम्


गां दुग्धदोहामसतीं च भार्यां
देहं पराधीनमसत्प्रजां च ।
वित्तं त्वत्तीर्थीकृतमङ्ग वाचं
हीनां मया रक्षति दुःखदुःखी ॥ [भागवतम् ११.११.१९]

मया श्रीभगवता हीनां मम लीलादिशून्याम् । मया हीनां वाचमित्य्
उक्तं विवृणोति

यस्यां न मे पावनमङ्ग कर्म
स्थितुद्भवप्राणनिरोधमस्य ।
लीलावतारेप्सितजन्म वा स्याद्
बन्ध्यां गिरं तां विभृयान्न धीरः ॥ [भागवतम् ११.११.२०]

यस्यां मे जगतः शोधकं चरितं न स्यात्किं तदस्य विश्वस्य स्थित्य्आदि
रूपं तद्धेतुरित्यर्थस्ततोऽप्युत्कृष्टतमत्वेन विमृष्याह लीलावतारेषु
ईप्सितं जगतः प्रेमास्पदं श्रीकृष्णरामादिजन्म वा न स्यात्, तां
निष्फलां गिरं वेदलक्षणामपि धीरो धीमान्न धारयेत् । तदुक्तं
श्रीनारदेन इदं हि पुंसस्तपमः श्रुतस्य वा [Bह्य्ড়् १.५.२२] इत्यादि ।
अतएव गीतं कलियुगपावनावतारेण श्रीभगवता

श्रुतमप्यौपनिषदं दूरे हरिकथामृतम् ।
यन्न सन्ति द्रवच्चित्तकम्पाश्रुपुलकादयम् ॥ [ড়द्यावली, ३९] इति ।
[७०]

तदेवं भक्त्यैव ज्ञानं सिध्यतीत्युक्त्वा तं च ज्ञानमार्गम्
उपसंहरति

एवं जिज्ञासयापोह्य नानात्वभ्रममात्मनि ।
उपारमेत विरजं मनो मय्यर्प्य सर्वगे ॥ [भागवतम् ११.११.२१]

जिज्ञासया बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः [भागवतम् ११.११.१] इत्य्
आदिपूर्वोक्तप्रकारकविचारेण । आत्मनि शुद्धजीवे । नानात्वं देवत्व
मनुष्यत्वादिभेदमपोह्य । एवं मल्लीलादिश्रवणेन मनो मयि
ब्रह्माकारे सर्वगे अर्प्य धारयित्वा उपारमेत ।
[७१]

तदेवं ज्ञानमिश्रां भक्तिमुपदिश्य तद्अनादरेणानुषङ्गसिद्ध
ज्ञानगुणां शुद्धामेव भक्तिमुपदिशति चतुर्भिः

यद्यनीशो धारयितुं मनो ब्रह्मणि निश्चलम् ।
मयि सर्वाणि कर्माणि निरपेक्षः समाचर ॥ [भागवतम् ११.११.२२]

यदीति निश्चये । टीकायां धत्ते पदं त्वमविता यदि विघ्नमूर्ध्नि [भागवतम्
११.४.१०] इत्य्आदिवत् । अत्र ज्ञानेच्छुरेव प्रकृतेः । श्रीमद्उद्धवं प्रति च
तादृशत्वमारोप्यैवेदमुच्यते । ततश्च श्रेयःसृतिं भक्तिमुदस्य ते
विभो क्लिश्यन्ति [भागवतम् १०.१४.४] इत्य्आदिप्रमाणेन भक्तिं विना केवलज्ञान
मार्गेण मनो ब्रह्मणि धारयितुं निश्चितमेवानीशो भवसि । ततोऽपि स्वतो
ज्ञानादिसर्वगुणसेवितं भक्तियोगमेवाश्रयेति तत्सोपानमुपदिशति
मयीत्य्आदिना ।
[७२]

अथवा प्राक्तनभक्ति(पगे २५) बलाभावाद्ब्रह्मज्ञानेच्छुर्यदि तत्र
मनो धारयितुमनीशः स्यात्, तदाधुनाप्येवं कुर्वीतेति योज्यम् ।
समाचर अर्पय । निरपेक्षो वाञ्छान्तररहितः ।

श्रद्धालुर्मत्कथाः शृण्वन् सुभद्रा लोकपावनीः ।
गायन्ननुस्मरन् कर्म जन्म चाभिनयन्मुहुः ॥
मद्अर्थे धर्मकामार्थानाचरन्मद्अपाश्रयः ।
लभते निश्चलां भक्तिं मय्युद्धव सनातने ॥ [भागवतम् ११.११.२३४]

टीका च मद्अर्पणः कर्मभिर्विशुद्धसत्त्वस्यान्तरङ्गां भक्तिमाह
श्रद्धालुरितीत्येषा ।

अभिनयन् जन्मकर्मलीलयोर्मध्ये येऽंशा निजाभीष्टभावभक्ति
गतास्तान् स्वयमनुकुर्वन् भगवद्गतां भक्तान्तरगतांश्च तानन्य
द्वारानुकुर्वन्नित्यर्थः । किं च, यो धर्मो गोदानादिलक्षणस्तमपि
मद्अर्थे मदीयजन्मादिमहोत्सवाङ्गत्वेनैव । यश्च कामो महा
प्रासादवासादिलक्षणस्तमपि मद्अर्थे मदीयसेवाद्य्अर्थे मन्
मन्दिरवासादिलक्सणत्वेनैव । यश्चार्थो धनसङ्ग्रहस्तमपि मद्
अर्थे मत्सेवामात्रोपयोगित्वेनैवाचरन् सेवमानः । मद्अपाश्रयः मद्
अर्थे आश्रयान्तरशून्यचेताश्च सन् तामेव कथाश्रवणादिलक्षणां
भक्तिं मयि निश्चलां कालत्रयेऽप्यव्यभिचारिणीं लभते, तत्सुखेन
कैवल्यादावप्यनादरात् । न च भजनीयस्य चलतया वा सा चलिष्यतीति
मन्तव्यमित्याह सनातन इति ।
[७३७४]

नन्वेवम्भूतभक्तिमार्गप्रवृत्तिर्निष्ठा वा कथं स्यादित्याशङ्क्य
तत्र हेतुमाह

सत्सङ्गलब्धया भक्त्या मयि मां स उपासिता ।

इति भक्त्या भक्तिरुच्या स भक्तो मामुपासिता भजमानो भवति । तस्य
च भक्तस्य मदीयं ब्रह्माकारं भगवद्आकारं च सर्वमपि स्वरूप
विज्ञानमनायासेनैव भवतीत्याह

स वै मे दर्शितं सद्भिरञ्जसा विन्दते पदम् ॥ [भागवतम् ११.११.२५] इति ।

अञ्जसा भक्त्य्अनुषङ्गेनैव । पदं स्वरूपम् ॥

॥ ११.११ ॥ श्रीभगवान् ॥ ६७७५ ॥
[७५]

अग्रे च भक्तियोगस्यैव प्राक्सिद्धता, साक्षात्श्रीभगवत्प्रवर्तितता
स्वयमेव मुख्यता । परेषामर्वाचीनता यथारुचिनानआजनप्रवर्तितता
तुच्छता चेति । यथा, श्रीमद्उद्धव उवाच

वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिनः ।
तेषां विकल्पप्राधान्यमुताहो एकमुख्यया ॥
भवतोदाहृतः स्वामिन् भक्तियोगोऽनपेक्षितः ।
निरस्य सर्वतः सङ्गं येन त्वय्याविशेन्मनः ॥ [भागवतम् ११.१४.१२]

टीका च श्रेयांसि श्रेयःसाधनानि । किं विकल्पेन प्राधान्यमुताहो किं
वा एकस्यैव मुख्यता, एकमुख्यतापेक्षोत्थापने कारणं भवतेति । न
अपेक्षितमनपेक्षा यस्मिन् स अहैतुकः । अयमर्थो भवता यो भक्ति
योग उक्तः, अन्ये च यानि निःश्रेयससाधनानि वदन्ति त्तेषां किं फल
साधनत्वेन प्राधान्यमेव सर्वेषामुताङ्गाङ्गित्वम् । प्राधान्येनापि
सर्वेषां किं विकल्पेन तुल्यफलत्वं यद्वा कश्चिद्विशेष इत्येषा ।
[७६]

अत्रोत्तरं श्रीभगवानुवाच

कालेन नष्टा प्रलये वाणीयं वेदसंज्ञिता ।
मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मद्आत्मकः ॥ [भागवतम् ११.१४.३]
(पगे २६)

टीका च तत्र भक्तिरेव महाफलत्वेन मुख्या, अन्यानि तु स्वस्व
प्रकृत्य्अनुसारेण खपुष्पस्थानीयस्वर्गादिफलबुद्धिभिः प्राणिभिः
प्राधान्येन परिकल्पितानि क्षुल्लकफलानीति विवेक्तुं प्रकृत्य्अनुसारेण
बहुधा प्रतिपत्तिमाह कालेनेति सप्तभिः । मद्अत्मको मय्येवात्मा चित्तं
येन स इत्येषा ।

यद्वा मदात्मको मत्स्वरूपभूतो निर्गुणत्वास्मत्स्वरूपभूतो भक्ति
लक्षणो धर्मः प्रोक्तः सर्वसमन्वये प्रतिपादितमित्यर्थः ।
[७७८०]

तदेवं सति तस्यामेवानेकविधश्रेयोवदने हेतुमाह

मन्मायामोहितधियः पुरुषाः पुरुषर्षभ ।
श्रेयो वदन्त्यनेकान्तं यथाकर्म यथरुचि ॥ [भागवतम् ११.१४.९]

तत्प्रकृतीनां मायागुणमूलत्वाद्मन्मायामोहितधियः । अनेकान्तं
नानाविधम् । श्रेयः पुरुषार्थं तत्साधनं च । यतः

न साधयति मां योगो न साङ्ख्यं धर्म उद्धव ।
न स्वाध्यायस्तपस्त्यागो यथा भक्तिर्ममोर्जिता ॥ [भागवतम् ११.१४.२०]

न साधयति न वशीकरोति । तपो ज्ञानम् । त्यागः सन्न्यासः ।

धर्मः सत्यदयोपेतो विद्या वा तपसान्विता ।
मद्भक्त्यापेतमात्मानं न सम्यक्प्रपुनाति हि ॥ [भागवतम् ११.१४.२२]

धर्मो निष्कामः । विद्या शास्त्रीयं ब्रह्मज्ञानम् । तपस्तद्ईक्षणम् ।
भक्तिलक्षणैस्तु

यथा यथात्मा परिमृज्यतेऽसौ
मत्पुण्यगाथाश्रवणाभिधानैः ।
तथा तथा पश्यति वस्तु सूक्ष्मं
चक्षुर्यथैवाञ्जनसम्प्रयुक्तम् ॥ [भागवतम् ११.१४.२६]

टीका च ननु ब्रह्मविदाप्नोति परम् [टैत्तू २.१.१] तमेव
विदित्वातिमृत्युमेति [श्वेतू ६.१५] इत्यादिश्रुतिभ्यो ज्ञानादेवाविद्यानिवृत्त्या
त्वत्प्राप्तिरवगम्यते कुतो भक्तियोगेनेत्युच्यते । अत्राह यथा यतेति ।
आत्मा चित्तं परिमृज्यते शोद्यते मत्पुण्यगाथानां श्रवणैरभिधानैश्
च । भक्तरेवावान्तरव्यापारो ज्ञानं न पृथगित्यर्थम् । इत्येषा ।

॥ ११.१४ ॥ श्रीभगवान् ॥७७८०॥
[८१८३]

अग्रे च कर्मज्ञानभक्तियोगान् तत्तद्अधिकारितायां पृथघेतूंश्
चोक्त्वा ज्ञानकर्मानादरेण (पगे २७) भक्तेरेवाभिधेयत्वमाह
पञ्चभिः । तत्र ज्ञानाभ्यासानादरं वक्तुं तद्अधिकारहेतु
वैराग्याभ्यासानादरं विधत्ते

प्रोक्तेन भक्तियोगेन भजतो मासकृन्मुनेः ।
कामा हृदय्या नश्यन्ति सर्वे मयि हृदि स्थिते ॥ [भागवतम् ११.२०.२९]
ज्ञानाभ्यासानादरं विधत्ते

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि मयि दृष्टेऽखिलात्मनि ॥ [भागवतम् ११.२०.३०]

भक्त्यैव दृष्टे साक्षात्कृते । तथैवाह

तस्मान्मद्भक्तियुक्तस्य योगिनो वै मद्आत्मनः ।
न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह ॥ [भागवतम् ११.२०.३१]

टीका च तदेवं व्यवस्ह्तयाधिकारित्रयमुक्तम् । तत्र भक्तेरन्य
निरपेक्षत्वादन्यस्य च तत्सापेक्षत्वाद्भक्तियोग एव श्रेष्ठ इत्य्
उपसंहरति तस्मादिति त्रिभिः ।मद्आत्मनो मयि आत्मा चित्तं यस्य तस्य
श्रेयःसाधनमित्येषा ।

अत्र प्रायोग्रहणस्यायं भावः । भजतां ज्ञानवैराग्याभ्यासेन
प्रयोजनं नास्त्येव । तत्र यथास्थितेऽपि सद्यो मुक्तिमार्गे केषांचित्
क्रममुक्तिमार्गे प्रवृत्तिर्जायते । तथा ब्रह्मभूतः प्रसन्नात्मा
[गीता १८.५४] इत्यादि श्रीगीतानुसारेण यदि क्रमभक्तिमार्गे प्रवृत्तिः स्यात्
तदा भवत्विति । तदेवं भक्तेः प्रेमलक्षणे सर्वफलराजे स्वफले
नास्त्येव ज्ञानाद्य्अपेक्षा ।

[८४]

पृथक्पृथक्ज्ञानादिफलेऽपि साध्ये नास्तीत्याह

यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यत् ।
योगेन दामधर्मेण श्रेयोभिरितरैरपि ॥
सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा ।
स्वर्गापवर्गं मद्धाम कथञ्चिद्यदि वाञ्छति ॥ [भागवतम् ११.२०.३२३३]

इतरैस्तीर्थयात्राव्रतादिभिरपि यद्भाव्यं तत्सर्वं मद्भक्तियोगेन
मद्भक्तौ लभते । तत्राप्यञ्जसा अनायासेनैव किं तत्सर्वम् । तदाह
स्वर्गावर्गमिति । स्वर्गः प्रापञ्चिकसुखं सत्त्वशुद्ध्य्आदि
क्रमेणापवर्गो मोक्षसुखं च । तद्अतिक्रमिसुखं च भवतीत्याह
मद्धाम वैकुण्ठं चेति । कथञ्चिद्भक्त्य्उपकरणत्वेनैव यदि
वाञ्छति कश्चित्, तत्र श्रीचित्रकेत्व्आदिवत्स्वर्गवाञ्छा । तस्य भक्त्य्
उपकरणत्वं चोक्तं रेमे विद्याधरस्त्रीभिर्गापयन् हरिमीश्वरम्
[भागवतम् ६.१७.३] इति । श्रीशुकादिवद्अपवर्गवाञ्छा । तत्प्रार्थनया गो
शृङ्गोपरिसर्षपस्थितिकालं व्याप्य श्रीकृष्णेन दूरीकृतायां मायायां
सत्यां मातृगर्भाद्बहिर्बभूव इति ब्रह्मवैवर्तकथा । तत्र च
भक्त्य्उपकरणत्वं ब्रह्मभूतः प्रसन्नात्मा इत्य्आदिगीतावचनात् ।
तथा प्राप्तभगवत्पार्षदतदीयवृन्दविशेषवद्वैकुण्ठेच्छा । ते
हि प्रेम्णा साक्षात्श्रीभगवच्चरणारविन्दसेवेच्छयैव तत्प्रार्थ्यं
(पगे २८) प्राप्तवन्तः । यच्च व्रजन्त्यनिमिषामृषभानुवृत्त्या [भागवतम्
३.१५.२५]

॥ ११.२० ॥ श्रीभगवान् ॥ ८१८४॥
[८५]
अन्ते च

एषा बुद्धिमतां बुद्धिर्मनीषा च मनीषिणाम् ।
यत्सत्यमनृतेनेह मर्त्येनाप्नोति मामृतम् ॥ [भागवतम् ११.२९.२२]

टीका च अतो मद्भजनमेव बुद्धेर्विवेकस्य मनीषायाश्चातुर्यस्य
च फलमित्याह एषेति । तामेव दर्शयति सत्यममृतं च मा माम्
अनृतेनासत्येन मर्त्येन विनाशिना मनुष्यदेहेन इह अस्मिन्नेव जन्मनि
प्राप्नोतीति यत्सैव बुद्धिर्मनीषा चेति । बुद्धिर्विवेको मनीषा चातुर्यम्
इत्येषा ।

पूर्वं भक्तिप्रकरणस्य गतत्वादित्यतो हेतूपन्यासः कृतः

हरिश्चन्द्रो रन्तिदेव उञ्छवृत्तिः शिविर्बलिः ।
व्याधः कपोतो बहवो ह्यध्रुवेण ध्रुवं गताः ॥ [भागवतम् १०.७२.१९] इति ।

॥ ११.२९ ॥ ८५ ॥
[८६]

श्रीशुकोपदेशोपसंहारे च श्रवणमुपलक्ष्य

संसारसिन्धुमतिदुस्तरमुत्तितीर्षोर्
नान्यः प्लवो भगवतः पुरुषोत्तमस्य ।
लीलाकथारसनिषेवणमन्तरेण
पुंसो भवेद्विविधदुःखदवार्दितस्य ॥ [भागवतम् १२.४.४०]

टीका च अन्यः प्लव उत्तरणसाधनं न भवेदुपायान्तराभावादित्य्
एषा । अन्यासामपि भक्तीनां तत्पूर्वकत्वेनैव प्रवृत्तेर्
उपायान्तरासम्भवत्वमुक्तम् । एतद्अनन्तराध्यायश्च
तादृशोपक्रमोपसंहारमय एव ।

अत्रानुगीयतेऽभीक्ष्णं भगवान् हरिरीश्वरः ।
यस्य प्रसादजो ब्रह्मा रुद्रः क्रोधसमुद्भवः ॥ [भागवतम् १२.५.१]

इत्युपक्रम्य, एतत्कथितं तात यदात्मा पृष्टवान्नृपः [भागवतम् १.१९.५] हरेर्
विश्वात्मनश्चेष्टां किं भूयः श्रोतुमिच्छसि [भागवतम् १२.५.१४] इत्य्
उपसंहारेऽपि । तादृशमहिमत्वेन पूर्वोक्तलीलाकथाश्रवणस्यैव
प्राधान्यातत उपक्रमोपसंहारनिर्दिष्टत्वात्श्रवणोपलक्षितभक्तेर्
एवात्रापि प्राधान्यम् । यस्तु तन्मध्ये त्वं तु राजन्मरिष्यति [भागवतम् १२.५.२]
इत्यादिना ज्ञानोपदेशः स च तस्य या प्रागवगता भक्तिनिष्ठाया एव
स्वयं दर्शयिष्यमाणत्वात् । तत्र प्राचीना तन्निष्ठा यथा प्रथमे
कृष्णाङ्घ्रिसेवामधिमन्यमानः [भागवतम् १.१९.५] इति । दध्यौ
मुकुन्दाङ्घ्रिमनन्यभावः [भागवतम् १.१९.७] इत्यादि तन्निष्ठतैव । तद्
भयपरित्यागो यथा तद्वाक्ये (पगे २९)

द्विजोपसृष्टः कुहकस्तक्षको वा
दशत्वलं गायत विष्णुगाथाः ॥ [भागवतम् १.१९.१५] इति ।
तज्ज्ञानोपदेशमबहु मत्वा श्रवणलक्षणया भक्त्यैव स्व
कृतार्थत्वमुक्तम् ।

सिद्धोऽस्म्यनुगृहीतोऽस्मि भवता करुणात्मना ।
श्रावितो यच्च मे साक्षादनादिनिधनो हरिः ॥
नात्यद्भुतमहं मन्ये महतामच्युतात्मनाम् ।
अज्ञेषु तापतप्तेषु भूतेषु यद्अनुग्रहः ॥
पुराणसंहितामेतामश्रौष्म भवतो वयम् ।
यस्यां खलूत्तमःश्लोको भगवाननुवर्ण्यते ॥ [भागवतम् १२.६.२४] इति ।

पुनश्चैकेन पद्येन तद्वाक्यगौरवमात्रेणाङ्गीकृतस्य ब्रह्म
ज्ञानस्य तक्षकादिभयनिवृत्तिहेतुत्वमुक्त्वाप्यन्येन तद्ऊर्ध्वम्
अधोक्षज एव वाक्चेतसोस्तन्नामकीर्तनध्यानावेशानुज्ञा प्रार्थिता ।

भगवंस्तक्षकादिभ्यो मृत्युं यो न बिभेम्यहम् ।
प्रविष्टो भ्रमनिर्वाणमभयं दर्शितं त्वया ॥
अनुजानीहि मां ब्रह्मन् वाचं यच्छाम्यधोक्षजे ।
मुक्तकामाशयं चेतः प्रवेश्य विसृजाम्यसून् ॥ [भागवतम् १२.६.५६] इति ।

अथ पुनरन्येन पद्येनाज्ञाननिरासकज्ञानविज्ञानसिद्धिश्च भगवत्
पदारविन्ददर्शनानन्दान्तर्भूतैव मम स्फुरतीति विज्ञापितम् । यथा


अज्ञानं च निरस्तं मे ज्ञाविज्ञाननिष्ठया ।
भवता दर्शितं क्षेमं परं भगवतः पदम् ॥ [भागवतम् १२.६.७] इति ।

अत्र पदशब्दस्य चरणारविन्दाभिधायकत्वे ज्ञानेन वैयासकिशब्दितेन
भेजे खगेन्द्रध्वजपादमूलम् [भागवतम् १.१८.१६] इत्येवास्ति प्रथमे
साधकम् । तदेतत्प्रकरणार्थस्तत्र श्रीसूतेनैव स्पष्टीकृतः ।

ब्रह्मकोपोत्थिताद्यस्तु तक्षकात्प्राणविप्लवात् ।
न सम्मुमोहोरुभयाद्भगवत्यर्पिताशयः ॥ [भागवतम् १.१८.२]
नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् ।
स्यात्सम्भ्रमोऽन्तकालेऽपि स्मरतां तत्पदाम्बुजम् ॥ [भागवतम् १.१८.४] इति ।

तथा पूर्वं द्वादशस्यैव तृतीये प्रथमस्कन्धान्तःस्थस्य

अतः पृच्छामि संसिद्धिं योगिनां परमं गुरुम् ।
पुरुषस्येह यत्कार्यं म्रियमाणस्य सर्वथा ॥ [भागवतम् १.१९.३४]

इत्यस्य राजप्रश्नस्योत्तरत्वेन भगवद्ध्यानकीर्तने एव स्वयं श्री
शुकदेवेनाप्युपदिष्टे

तस्मात्सर्वात्मना राजन् हृदिस्थं कुरु केशवम् ।
म्रियमाणो ह्यवहितस्ततो याति परां गतिम् ॥
म्रियमाणैरभिध्येयो भगवान् परमेश्वरः ।
आत्मभावं नयत्यङ्ग सर्वात्मा सर्वसम्भवः ॥
कलेर्दोषनिधे राजन्नस्ति ह्येको महान् गुणः
कीर्तनादेव कृष्णस्य मुक्तसङ्गः परं व्रजेत् ॥ [भागवतम् १२.३.४८५०]

इत्यादिना ततस्तत्र केशव अवहितः कृतावधान आत्मभावमात्मनो
भक्तिम् । अस्तु तावदायास(पगे ३०) साध्यं ज्ञानम् । हि यस्मादनायास
साध्यात्कीर्तनादेवेत्यर्थः । द्वितीयस्कन्धेऽपि न ह्यतोऽन्यः शिवः
पन्था [भागवतम् २.२.३३] इत्यादिना एवमेतन्निगदितम् [भागवतम् २.३.१] इत्यन्तेन
ग्रन्थेन नानाङ्गवान् शुद्धभक्तियोग एव तत्रोत्तरत्वेन पर्यवसितः ।
तत्रापि पिबन्ति ये भगवतः [भागवतम् २.२.३७] इत्यादिना लीलाकथाश्रवण एव
परमपर्यवसानं दृश्यते । तस्मात्साधूक्तं त्वं तु राजन्मरिष्येति इत्य्
आदिकं तद्भक्तिनिष्ठाप्रकटनार्थमेवेति । यथो भक्तावेव तद्
उपदेशस्य तात्पर्यम् ।

अतएव द्वितीयस्याष्टमे राजप्रार्थना च नान्यथा स्यात् । कृष्णे निवेश्य
निःसङ्गं मनस्त्यक्ष्ये कलेवरम् [भागवतम् २.८.२] इत्यादि ।

॥ १२.४ ॥ श्रीशुकः ॥ ८६ ॥

[८७९१]

श्रीसूतोपदेशान्तेऽपि पञ्चभिः

नैष्कर्म्यमप्यच्युतभाववर्जितं
न शोभते ज्ञानमलं निरञ्जनम् ।
कुतः पुनः शश्वदभद्रमीश्वरे
न चार्पितं कर्म यदप्यकारणम् ॥ [भागवतम् १२.१२.५२]

टीका च इदानीं ज्ञानकर्मादरादपि भगवत्कीर्तनादिष्वेवादरः
कर्तव्य इत्याह नैष्कर्म्यं तत्प्रकाशकं यज्ज्ञानं यतो निरञ्जनम्
उपाधिनिवर्तकं, तदपि अच्युतभक्तिवर्जितं चेन्न शोभते नापरोक्ष
पर्यन्तं भवतीत्यर्थ इत्यादिका ।

यशःश्रियामेव परिश्रमः परो
वर्णाश्रमाचारतपःश्रुतादिषु ।
अविस्मृतिः श्रीधरपादपद्मयोर्
गुणानुवादश्रवणादिभिर्हरेः ॥ [भागवतम् १२.१२.५३]

टीका च किं च वर्णाश्रमाचारादिषु यः परो महान् परिश्रमः स यशो
युक्तायां श्रियामेव कीर्तो सम्पदि वा केवलं न परमपुरुषार्थः ।
गुणानुवादादिभिस्तु श्रीधरपादपद्मयोरविस्मृतिर्भवति इत्येषा ।
तथा

अविस्मृतिः कृष्णपदारविन्दयोः
क्षिणोत्यभद्राणि च शं तनोति च ।
सत्त्वस्य शुद्धिं परमां च भक्तिं
ज्ञानं च विज्ञानविरागयुक्तम् ॥ [भागवतम् १२.१२.५४]

स्पष्टम् । तथा

यूयं द्विजाग्र्या बत भूरिभागा
यच्छश्वद्आत्मन्य्अखिलात्मभूतम् ।
नारायणं देवमदेवमीशम्
अजस्रभावा भजताविवेश्य ॥ [भागवतम् १२.१२.५५]

टीका च तदेवं श्रोतॄणात्मानं चाभिनन्दयन्नाह । तथा यूयमिति
द्वाभ्याम् । त्था हि द्व्जाग्र्या यद्यस्मादात्मन्यन्तःकरणे श्री
नारायणमाविवेश्य शश्वद्भजत । सम्भावनायां लोट् । अतो भूरिभागा
बहुपुण्यवन्तः कथम्भूतमखिलात्मभूतं सर्वानर्यामिणमत एव
देवं सर्वोपास्यम् । अदेवं न देवोऽन्यो यस्य तम् । कुत ईशम् । यद्वा
यस्माद्यूयं भूरिभागास्तप आदिना सम्पन्नास्ततो नारायणं भजतेति
विधिः इत्येषा । (पगे ३१)

अत्र तपादिसम्पत्तेः सार्थकत्वं नारायणभजनेन भवतीति स्वाम्य्
अभिप्रायः । तथा

अहं च संसारित आत्मतत्त्वं
श्रुतं पुराणे परमर्षिवक्त्रात् ।
प्रायोपवेशे नृपतेः परीक्षितः सदस्य्
ऋषीणां महतां च शृण्वताम् ॥ [भागवतम् १२.१२.५६]

एतत्प्रसङ्गेनाहं चात्मतत्त्वमखिलात्मभूतं नारायणं स्मारितः ।
तं प्रति परमोत्कण्ठितीकृतोऽस्मीत्यर्थः । यदात्मतत्त्वं मे मया
महर्षिवक्त्राच्छ्रुतम् ॥

॥ १२.१२ ॥ श्रीसूतः ॥ ८७९१ ॥
[९२]

तदेवमस्मिन् श्रीमति महापुराणे गुरुशिष्यभावेन प्रवृत्तानाम्
उपदेशशिक्षावाक्येषु हक्तेरेवाभिधेयत्वं साधितम् । तथा

तत्कथ्यतां महाभाग यदि कृष्णकथाश्रयम् ।
अथवास्य पदाम्भोज मकरन्दलिहां सताम् ॥ [भागवतम् १.१६.६]

इत्यनुसारेण सर्वेषामितिहासानामपि तन्मात्रतात्पर्यत्वं ज्ञेयम् ।
विस्तरभिया तु न विव्रियते । अन्यत्र च तदेव दृश्यते । तत्रान्वयेन यथा


एतावानेव लोकेऽस्मिन् पुंसां धर्मः परः स्मृतः ।
भक्तियोगो भगवति तन्नामग्रहणादिभिः ॥ [भागवतम् ६.३.२२]

पुंसां जीवमात्राणां परः धर्मः सार्वभौमो धर्म एतावानेव
स्मृतो नैतदधिकः । एतावत्त्वमेवाह तन्नामग्रहणादिभिर्यो
भक्तियोगः साक्षाद्भक्तिरिति । एवकारेणान्यव्यावृत्तत्वं स्पष्टयति
भवतीति । नामग्रहणादीन्यपि यदि कर्मादौ तत्साद्गुण्याद्य्अर्थं
प्रयुज्यन्ते । तदा तस्य परत्वं नास्ति । तुच्छफलार्थप्रयोज्यत्वेन तद्
अपराधादित्यर्थः । तथैव क्षयिष्णुफलदातृत्वं च भवतीति भावः ।
॥ ६.३ ॥ श्रीयमः स्वभटान् ॥ ९२ ॥

[९३]
तथा च

सध्रीचीनो ह्ययं लोके पन्थाः क्षेमोऽकुतोभयः ।
सुशीलाः साधवो यत्र नारायणपरायणाः ॥ [भागवतम् ६.१०.१७]

अयं पन्थाः श्रीनारायणभक्तिमार्गः ॥

॥ ६.१ ॥ श्रीशुकः ॥ ९३ ॥
[९४]

तत्रैवान्वयेन सर्वशास्त्रफलत्वं सकैमुत्यमाह

श्रुतस्य पुंसां सुचिरश्रमस्य
नन्वञ्जसा सूरिभिरीडितोऽर्थः ।
तत्तद्गुणानुश्रवणं मुकुन्द
पादारविन्दं हृदयेषु येषाम् ॥ [भागवतम् ३.१३.४] (पगे ३२)

पुंसां श्रुतस्य वेदार्थावगतेरयमेवार्थः प्रयोजनमीडितः
श्लाघितः । कोऽसौ ? मुकुन्दस्य पादारविन्दं येषां हृदयेषु वर्तते तेषां
तद्गुणानां भगवद्भक्त्य्आत्मकानामनुस्मरणं तत्सोऽयमिति । ततः
सुतरामेव श्रीमुकुन्दस्येत्यर्थः । एवमेवोक्तं वासुदेवपरा वेदाः
[भागवतम् २.२.२८] इत्यादि ।

भगवान् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया ।
तदध्यवस्यत्कूटस्थो रतिरात्मन् यतो भवेत् ॥ [भागवतम् २.२.३४]

तथा च पाद्मे बृहत्सहस्रनाम्नि
स्मर्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित् ।
सर्वे विधिनिषेधाः स्युरेतयोरेव किङ्कराः ॥

स्कान्दे प्रभासखण्डे, लिङ्गपुराणे च
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।
इदमेव सुनिष्पन्नं ध्येयो नारायणः सदा ॥ [ळिড়् २.७.११]

अत एव वेदाद्य्अर्पणमन्त्र इति
विद्यातपोध्यानयोनिरयोनिर्विष्णुरीडितः ।
ब्रह्मयज्ञस्ततो देवः प्रीयतां मे जनार्दनः ॥

॥ ३.१३ ॥ श्रीविदुरः ॥९४॥
[९५]

यतो यश्च शास्त्रे वर्णाश्रमाचारो विधीयते तस्याप्यनुपमचरितं फलं
भक्तिरेव । यथा

दानव्राततपोहोम जपस्वाध्यायसंयमैः ।
श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यते ॥ [भागवतम् १०.४७.२१]

दानादिभिः श्रीकृष्णसन्तोषार्थेरिति ज्ञेयम् । तज्जन्म तानि कर्माणि तद्
आयुस्तन्मनः [भागवतम् ४.३१.७] इत्यादि । बृहन्नारदीये (१.३९.५१)

जन्मकोटिसहस्रेषु पुण्यं यैः समुपार्जितम् ।
तेषां भक्तिर्भवेच्छुद्धा देवदेवे जनार्दने ॥ इति ।
अगस्त्यसंहितायाम्

व्रतोपवासनियमजन्मकोट्याप्यनुष्ठितैः ।
यज्ञैश्च विविधैः सम्यग्भक्तिर्भवति माधवे ॥ इति ।

एतदेव व्यतिरेकेणोक्तं धर्मः स्वनुष्ठितः पुंसाम् [भागवतम् १.२.८] इत्यादौ ।
यशः श्रियामेव [भागवतम् १२.१२.४] इत्यादौ च ।

॥ १०.४७ ॥ उद्धवः श्रीव्रजदेवीम् ॥९५॥

[९६]

यच्च यत्र ज्ञानमभिधीयते तदपि भक्त्य्अन्तर्भूततयिअव लभ्यम् ।
यथा

पुरेह भूमन् बहवोऽपि योगिनस्
त्वद्अर्पितेहा निजकर्मलब्धया ।
विबुध्य भक्त्यैव कथोपनीतया
प्रपेदिरेऽञ्जोऽच्युत ते गतिं पराम् ॥ [भागवतम् १०.१४.५]

हे भूमन्, इह लोके पूर्वं बहवो योगिनोऽपि सन्तो योगैर्ज्ञानमप्राप्य
पश्चात्त्वयि अर्पितेहा लौकिक्यप्पि चेष्टा । तथार्पितानि यानि निजानि कर्माणि
तैर्लब्धया कथारुचिर्रूपया, पुनश्च (पगे ३३) कथोपनीतया त्वत्
समीपं प्रापितया भक्त्यैवाञ्जसा सुखेन विभुध्यात्मतत्त्वमारभ्य
श्रीभगवत्तत्त्वपर्यन्तमनुभूय तव परामन्तरङ्गां गतिं
प्राप्ताः । श्रीगीतोपनिषत्सु च अहं सर्वस्य प्रभवो मत्तः [गीता १०.८] इत्य्
आदिभिः शुद्धां भक्तिमुपदिश्याह

तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ [गीता १०.११] इति ।

॥ १०.१४ ॥ ब्रह्मा श्रीभगवन्तम् ॥ ९६ ॥

[९७]

यान्यन्यानि सर्वाणि तत्र पुरुषार्थसाधनान्युच्यन्ते तान्यपि तथैव
भक्तिमूलान्येव । यथा

स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् ।
सर्वासामपि सिद्धीनां मूलं तच्चरणार्चनम् ॥ [भागवतम् १०.८१.१९]

मन्त्रतस्तन्त्रतश्छिद्रम् [भागवतम् ८.२३.१६] इत्यादिन्यायेन मुखबाहूरु
पादेभ्यः [भागवतम् ११.५.२] इत्याद्य्उक्तनित्यत्वेन च सर्वथा तद्
बहिर्मुखानां तु तत्तद्अलाभ एव स्यादित्यर्थः । यथा स्कान्दे

विष्णुभक्तिविहीनानां श्रौताः स्मार्ताश्च याः क्रियाः ।
कायक्लेशः फलं तासां स्वैरिणीव्यभिचारवत् ॥ इति ।

तदुक्तं श्रीयुधिष्ठिरेण

त्वत्पादुके अविरतं परि ये चरन्ति
ध्यायन्त्यभद्रनशने शुचयो गृणन्ति ।
विन्दन्ति ते कमलनाभ भवापवर्गम्
आशासते यदि त आशिष ईश नान्ये ॥ [भागवतम् १०.७२.४] इति ।

अत उक्तं बृहन्नारदीये (१.४.४)

यथा समस्तलोकानां जीवनं सलिलं स्मृतम् ।
तथा समस्तसिद्धीनां जीवनं भक्तिरिष्यते ॥

॥ १०.८२ ॥ श्रीदामविप्रः ॥९७॥

[९८]

तदेवं तानि साधनानि भक्तिजीवनान्येवेति भक्तेरेव
सर्वत्राभिधेयत्वम् । तानि विनापि भक्तेरेव

श्रीविष्णुपुराणे (१.११.४८) पुलहवाक्यम्
यो यज्ञपुरुषो यज्ञे योगे च परमः पुमान् ।
तस्मिंस्तुष्टे यदप्राप्यं किं तदस्ति जनार्दने ॥

अतएव मोक्षधर्मे
या वै साधनसम्पत्तिः पुरुषार्थचतुष्टये ।
तया विना तदाप्नोति नरो नारायणाश्रयः ॥ इति ।

तस्मात्साधूक्तं सर्वशास्त्रश्रवणफलत्वेन तद्अभिधेयत्वम् । अतएव
प्रथमं स्वयं भगवता सैव प्रवर्तितेत्युक्तं कालेन नष्टा प्रलये
वाणीयं वेदसंज्ञिता मया [भागवतम् ११.१४.३] इत्य्आदिना ।


तदेवं सति ये तु नातिकोविदास्ते तत्तद्अर्थं कर्माद्य्अङ्गत्वेनैव श्री
विष्णूपासनं कुर्वते । (पगे ३४) ततस्तद्अपराधेन निजकामनामात्र
फलप्रदत्वम् । न च तत्तन्मात्रदानेन पर्याप्तिः किन्तु पर्यावसाने
परमफलप्रदत्वमेवेति । ततस्तस्या एव परमहितत्वेनाभिधेयत्वम्
आह

सत्यं दिशत्यर्थितमर्थितो नृणां
नैवार्थदो यत्पुनरर्थिता यतः ।
स्वयं विधत्ते भजतामनिच्छताम्
इच्छापिधानं निजपादपल्लवम् ॥ [भागवतम् ५.१९.२८]

अर्थितः प्रार्थितः सन्नॄणामर्थितं सत्यमेव ददाति । न तत्र कदाचिद्
व्यभिचार इत्यर्थः । किन्तु तथापि तन्मन्त्रेणार्थदो न भवति, तन्
मात्रं दत्त्वा निवृत्तो न भवतीत्यर्थः । यत उपासकस्तत्रापूर्णत्वाद्
भोगक्षये सति तदैव पुनरर्थिता भवति । न जातु कामः कामानां
[ंनुष्२.९४] इत्यादेः । तदेवमभिप्रेत्य स तु परमकारुणिकस्तत्पाद
पल्लवमेव विधत्ते तेभ्यो ददातीत्यर्थः । यथा माता चर्व्यमाणां
मृत्तिकां बालकमुखादपसार्य तत्र खण्डं ददाति तद्वदिति भावः ।
एवमप्युक्तमकामः सर्वकामो वा [भागवतम् २.३.१०] इत्यादौ तीव्रत्वं
भक्तेः । तथोक्तं गारुडे

यद्दुर्लभं यदप्राप्तं मनसो यन्न गोचरम् ।
तदप्यप्रार्थितं ध्यातो ददाति मधुसूदनः ॥ [ङर्ড়् २.२३४.१२] इति ।

एवं श्रीसनकादीनामपि ब्रह्मज्ञानिनां भक्त्य्अनुवृत्त्या तत्पाद
पल्लवप्राप्तिर्ज्ञेया ॥

॥ ५.१९ ॥ देवाः परस्परम् ॥९८॥

[९९]

अथ व्यतिरेके कर्मानादरेणाह । तत्र कर्मणः फलप्राप्ताव्
अनिश्चयवत्त्वं दुःखरूपत्वं च भक्तेस्तु तस्यामावश्यकत्वं,
साधकदशायामपि सुखरूपत्वं चेत्याहुः

कर्मण्यस्मिन्ननाश्वासे धूमधूम्रात्मनां भवान् ।
आपाययति गोविन्द पादपद्मासवं मधु ॥ [भागवतम् १.१८.१२]

अस्मिन् कर्मणि सत्र अनाश्वास अविश्वसनीये वैगुण्यबाहुल्येन कृषिवत्
फलनिश्चयाभावादनेन भक्तेर्विश्वसनीयत्वं ध्वनितम् । धूमेन
धूम्रो विरञ्जितौ आत्मानौ शरीरचित्ते येषां, कर्मणि षष्ठी, तानस्मान्
इत्यर्थः । पादपद्मस्य यशोरूपमासवं मकरन्दं मधु
मधुरम् । अत्र सत्रवत्कर्मान्तरम्, यशःश्रवणवद्भक्त्य्अन्तरं चेति
ज्ञेयम् ।

तदेवं भक्तिं विना कर्मादिभिरस्माकं दुःखमेवासीदिति
व्यतिरेकत्वमत्र गम्यते । तदुक्तं यशःश्रियामेव परिश्रमः परः
[भागवतम् १२.१२.४०] इत्यादि । अतो वै कवयो नित्यम् [भागवतम् १.२.२२] इत्यादि च । ब्रह्म
वैवर्ते च शिवं प्रति श्रीविष्णुवाक्यम्

यदि मां प्राप्तुमिच्छन्ति प्रापुन्वन्त्येव नान्यथा ।
कलौ कलुषचित्तानां वृथायुःप्रभृतीनि च ।
भवन्ति वर्णाश्रमिणां न तु मच्छरणार्थिनाम् ॥ इति ।

॥ १.१८ ॥ श्र्यृषयः सूतम् ॥ ९९ ॥

[१००]
तथा त्यक्ता स्वधर्मं [भागवतम् १.५.१७] इत्यादिकमनुसन्धेयम् । एवं महा
वित्तमहायासादिसाध्येन कर्मादिना तुच्छं स्वर्गादिफलं स्वल्पायास
स्वल्पवित्तादिसाध्यया भक्त्या (पगे ३५) तद्आभासेन च परममहत्
फलं तत्र तत्रानुसन्धाय भक्तावेव शास्त्रतात्पर्यं पर्यालोचनीयम् ।
तस्मात्तत्तच्छास्त्राणामपि भक्तिविधेयतद्अनुवादेन प्रवृत्तत्वान्न
वैफल्यमित्यपि ज्ञेयम् । किं च

विप्राद्द्विषड्गुणयुतादरविन्दनाभ
पादारविन्दविमुखात्श्वपचं वरिष्ठम् ।
मन्ये तद्अर्पितमनोवचनेहितार्थ
प्राणं पुनाति स कुलं न तु भूरिमानः ॥ [भागवतम् ७.९.१०]

टीका च भक्त्यैव केवलया हरेस्तोषः सम्भवतीत्युक्तम् । इदानीं
भक्तिं विना नान्यत्किञ्चित्तत्तोषहेतुरित्याह विप्रादिति ।

मन्ये धनाभिजनरूपतपःश्रुतौजस्
तेजःप्रभावबलपौरुषबुद्धियोगाः ॥ [भागवतम् ७.९.९]

इत्यादौ पूर्वोक्ता ये धनादयो द्विषड्द्वादशगुणास्तैर्युक्ताद्विप्राद्
अपि श्वपचं वरिष्ठं मन्ये । यद्वा सनत्सुजातोक्ता द्वादश धर्मादयो
गुणा द्रष्टव्याः

धर्मं च सत्यं च दमस्तपश्च
विमत्सरं ह्रीस्तितिक्षानसूया ।
यज्ञश्च दानं च धृतिः श्रुतं च
व्रतानि वै द्वादश ब्राह्मणस्य ॥ इति ।

कथम्भूतं श्वपचं, तस्मिन्नरविन्दनाभेऽर्पिता मन आदाय येन तम् ।
ईहितं कर्म । वरिष्ठत्वे हेतुः स एवम्भूतः श्वपचः सर्वकुलं
पुनाति । भूरिमानो गर्वो यस्य स तु विप्र आत्मानमपि न पुनाति, कुतः
कुलम् । यतो भक्तिहीनस्यैते गुणा गर्वायैव भवन्ति, न तु शुद्धये । अतो
हीन इति भावः । इत्येषा ॥

मुक्ताफलटीका द्विषट्द्वादशगुणा धनाभिजनादयः । यद्वा

शमो दमस्तपः शौचं क्षान्त्य्आर्जवविरक्तयः ।
ज्ञानविज्ञानसन्तोषः सत्यास्तिक्यं द्विषड्गुणाः ॥ इत्यत्रोक्ता इत्येषा ।

स्कान्दे श्रीनारदवाक्यम्
कुलाचारविहीनोऽपि दृढभक्तिर्जितेन्द्रियः ।
प्रशस्तं सर्वलोकानां न त्वष्टादशविद्यकः ।
भक्तिहीनो द्विजः शान्तः सज्जातिधर्मिकस्तथा ॥

काशीखण्डे च
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा यदि वेतरः ।
विष्णुभक्तिसमायुक्तो ज्ञेयः सर्वोत्तमोत्तमः ॥

बृहन्नारदीये
विष्णुभक्तिविहीना ये चण्डालाः परिकीर्तिताः ।
चण्डाला अपि वै श्रेष्ठा हरिभक्तिपरायणाः ॥ [णार्ড়् १.३७.१२]

नारदीये च
श्वपचोऽपि महीपाल विष्णोर्भक्तो द्विजाधिकः ।
विष्णुभक्तिविहीनो यो द्विजातिः श्वपचाधमः ॥ [णार्ড়् १.३३.४१] इति ।

अत्र मूलपद्ये स कुलं पुनातीत्युक्ते स्वं पुनातीति सुतरामेव सिद्धम् ।
यथोक्तं

किरातहूणान्ध्रपुलिन्दपुल्कशा
आभीरशुम्भा यवनाः खसादयः ।
येऽन्ये च पापा यद्अपाश्रयाश्रयाः
शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥ [भागवतम् २.४.१८] इति ।

॥ ७.९ ॥ प्रह्लादः श्रीनृसिंहम् ॥

[१०१]

अतएवाहुः (पगे ३६)

धिग्जन्म नस्त्रिवृद्विद्यां धिग्व्रतं धिग्बहुज्ञताम् ।
धिक्कुलं धिक्क्रियादीक्षां विमुखा ये त्वधोक्षजे ॥ [भागवतम् १०.२३.४०]

टीका च त्रिवृत्शौक्रं सावित्रं दैक्षमिति त्रिगुणितं जन्म । व्रतं
ब्रह्मचर्यम् । क्रियाः कर्माणि दाक्ष्यं चेत्यादिका । तथोक्तं किं
जन्मभिस्त्रिभिः [भागवतम् ४.३१.८] इत्यादि ॥

॥ १०.१३ ॥ याज्ञिकविप्राः ॥ १०१ ॥

[१०२]

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम्
अभ्यासयोगेन ततो मामिच्छाप्तुं धनंजय
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव
मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ [गीता १२.८११]

अत्र पाद्मे कार्त्तिकमाहात्म्येतिहासोऽनुसन्धेयः । यथा चोलदेशराजस्य
कस्यचिद्विष्णुदासनाम्ना विप्रेण शुद्धमर्चनमेव कुर्वता सह
कस्य पूर्वं भगवत्प्राप्तिः स्यादिति स्पर्धया बहून् यज्ञान् भगवद्
अर्पितानपि सुष्ठु विदधतो न भगवत्प्राप्तिरभूत् । किन्तु विप्रस्य
भगवत्प्राप्तौ दृष्टायां तान् परित्यज्य

यत्स्पर्धया मया चैतद्यज्ञदानादिकं कृतम् ।
स विष्णुरूपधृग्विप्रो याति वैकुण्ठमन्दिरम् ॥[ড়द्मড়् ६.१०९.२२]
तस्माद्दानैश्च यज्ञैश्च नैव विष्णुः प्रसीदति ।
भक्तिरेव परं तस्य निदानं दर्शने विभोः ॥[ড়द्मড়् ६.१०९.२५]
इति मुद्गलं प्रत्युक्ता ।

विष्णो भक्तिं स्थिरां देहि मनोवाक्कायकर्मभिः ।
इत्युक्त्वा सोऽपतद्वह्नौ सर्वेषामेव पश्यताम् ॥[ড়द्मড়् ६.१०९.२९]

इत्युक्ता शुद्धभक्तिशरणतामेव मुहुर्दैन्येनाङ्गीकृत्य होमकुण्डे
देहं त्येजतः पश्चादेव तत्प्राप्तिरिति ।

योगानादरेणाह

युञ्जानानामभक्तानां प्राणायामादिभिर्मनः
अक्षीणवासनं राजन् दृश्यते पुनरुत्थितम् ॥ [भागवतम् १०.५१.६०]

उत्थितं विषयाभिमुखम् ॥

॥ १०.५१ ॥ श्रीभगवान्मुचुकुन्दम् ॥१०२॥
[१०३]

तथा
यमादिभिर्योगपथैः कामलोभहतो मुहुः ।
मुकुन्दसेवया यद्वत्तथात्माद्धा न शाम्यति ॥ [भागवतम् १.६.३६]

(पगे ३७) अतः सुतरामेव न साधयति मां योगः [भागवतम् ११.१४.२०] इत्य्आदिकम्
इति भावः ।

॥ १.६ ॥ श्रीनारदो व्यासम् ॥१०३॥

[१०४]

अथ ज्ञानानादरेणोदाह्रियते । तत्र तस्य कृच्छ्रसाधनत्वेनानादरो
दर्शित एव पानेन ते देवकथासुधायाः [भागवतम् ३.५.४४] इत्य्आदिभ्याम् । श्री
गीतासु च

श्री अर्जुन उवाच
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥
श्रीभगवानुवाच
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥
संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ [गीता १२.१५]
भक्तिमार्गे तु श्रमो न स्यात् । तद्वशीकारितारूपं फलं चापूर्वमित्य्
आह

ज्ञाने प्रयासमुदपास्य नमन्त एव
जीवन्ति सन्मुखरितां भवदीयवार्ताम् ।
स्थाने स्थिताः श्रुतिगतां तनुवाङ्मनोभिर्
ये प्रायशो ञ्जित जितोऽप्यसि तैस्त्रिलोक्याम् ॥ [भागवतम् १०.१४.३]

उदपास्य इषदप्यकृत्वा स्थाने निवास एव स्थिता अपि यदृच्छया सङ्गतैः
सद्भिर्मुखरितां स्वत एव नित्यं प्रकटितां भवदीयवार्तां तत्स्वत
एव श्रुतिगतां श्रवणं प्राप्तां तनुवाङ्मनोभिर्नमन्तः सन्निधि
मात्रेण कुर्वन्तो ये जीवन्ति केवलं यद्यपि नान्यत्कुर्वन्ति तैः प्रायशस्
त्रिलोक्यामन्यैरजितोऽपि त्वं जितोऽसि वशीकृतोऽसि । अतएवोक्तं श्रीनृसिंह
पुराणे

पत्रेषु पुष्पेषु फलेषु तोयेष्व्
अक्रीतलभ्येषु सदैव सत्सु ।
भक्त्या सुलभ्ये पुरुषे पुराणे
मुक्तौ किमर्थं क्रियते प्रयत्नः ॥ इति ।

वस्तुतस्तु

श्रेयःसृतिं भक्तिमुदस्य ते विभो
क्लिश्यन्ति ये केवेलबोधलब्धये ।
तेषामसौ क्लेशल एव शिष्यते
नान्यद्यथा स्थूलतुषावघातिनाम् ॥ [भागवतम् १०.१४.४]

टीका च भक्तिं विना नैव ज्ञानं सिध्यतीत्याह श्रेय इति । श्रेयसाम्
अभ्युदयापवर्गलक्षणानां सृतिर्यस्याः सरस इव निर्झराणां तां ते तव
भक्तिमुदस्य त्यक्त्वा तेषां क्लेशल एवावशिष्यते । अयं भावः । यथाल्प
प्रमाणं धान्यं परित्यज्यान्तःकणहीनान् स्थूलधान्याभासान्
येऽवघ्नन्ति तेषां न किञ्चित्फलम् । एवं भक्तिं तुच्छिकृत्य ये केवल
बोधाय प्रयतन्ते
(पगे ३८) तेषामपि । इत्येषा ।

अत्र विभो इतिवत्केवलशुद्ध इत्यपि सम्बोधनम् । असौ दृश्यमानः
क्लेशलः सन्न्यासादीन्येवेति च ज्ञेयम् । श्रीगीतासु च श्रीभगवानुवाच
अमानित्वमदम्भित्वम् [गीता १३.७] इत्य्आदिकं ज्ञानयोगमार्गम्
उपक्रम्य, मध्ये तत्त्वज्ञानार्थदर्शनम् [गीता १३.११] इति समाप्याह
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा [गीता १३.११] इति । ततो भक्ति
योगं विना ज्ञानं न भवतीत्यर्थः । ततोऽनेत्ऽप्युक्तं मद्भक्त एतद्
विज्ञाय मद्भावायोपपद्यते [गीता १३.१८] इति । अन्यत्र च

अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ [गीता ९.३] इति ।

अस्य सततं कीर्तयन्तो मां [गीता ९.१४] इत्य्आदिपूर्वोक्तलक्षणस्येत्यर्थः ।
अत एवास्फुटभक्तीनां मुद्गलादीनामपि कृतचरी साधनभक्तिर्
अनुसन्धेया ॥

॥ १०.१४ ॥ ब्रह्मा श्रीभगवन्तम् ॥ १०५ ॥

[१०६]

आश्रयान्तरस्वातन्त्र्यानादरेणाह

अविस्मितं तं परिपूर्णकामं
स्वेनैव लाभेन समं प्रशान्तम् ।
विनोपसर्पत्यपरं हि बालिशः
श्वलाङ्गुलेनातितितर्ति सिन्धुम् ॥ [भागवतम् ६.९.२२]

अविस्मितं ततोऽन्यस्यापूर्ववस्तुनोऽसद्भावाद्विस्मयरहितम् । अतः
स्वेनैव स्वीयेनैव स्वस्यैव कर्मभूतस्य क्रियाभूतेन लाभेन
परिपूर्णकामं नान्यस्येत्यर्थः । अतः सर्वत्र समं प्रशान्तं चित्त
दोषरहितम् । अतितितर्ति अतितर्तुमिच्छतीत्यर्थः । तथोक्तं रजस्तमः
प्रकृतयः [भागवतम् १.२.२७] इत्यादि ।

स्कान्दे श्रीब्रह्मनारदसंवादे
वासुदेवं परित्यज्य योऽन्यं देवमुपासते ।
स्वमातरं परित्यज्य श्वपचीं वन्दते हि सः ॥

तथैवान्यत्र च
वासुदेवं परित्यज्य योऽन्यं देवमुपासते ।
त्यक्त्वामृतं स मूढात्मा भुङ्क्ते हलाहलं विषम् ॥

महाभारते
यस्तु विष्णुं परित्यज्य मोहादन्यमुपासते ।
स हेमराशिमुत्सृज्य पांशुराशिं जिघृक्षति ॥ इति ।

(पगे ३९)

अतएवोक्तं श्रीसत्यव्रतेन
न यत्प्रसादायुतभागलेशम्
अन्ये न देवा गुरवो जनाः स्वयम् ।
कर्तुं समेताः प्रभवन्ति पुंसस्
तमीश्वरं वै शरणं प्रपद्ये ॥ इति ।

श्रीब्रह्मशिवावपि वैष्णवत्वेनैव भजेत । स आदिदेवो जगतां परो
गुरुः [भागवतम् २.९.५] वैष्णवानां यथा शम्भुः [भागवतम् १२.१३.१६] इत्य्आद्य्
अङ्गीकारात् । अतएव द्वादशे श्रीशिवं प्रति मार्कण्डेयवचनम्

वरमेकं वृणेऽथापि पूर्णात्कामाभिवर्षणात् ।
भगवत्यच्युतां भक्तिं तत्परेषु तथा त्वयि ॥ [भागवतम् १२.१०.३४]

त्वय्यपि त्वपर इत्यर्थः । अतएवाष्टमे प्रजापतिकृतश्रीशिवस्तुतौ ये
त्वात्मरामगुरुभिर्हृदि चिन्तिताङ्घ्रिद्वन्द्वम् [भागवतम् ८.७.२६] इति । चतुर्थे
श्रीमद्अष्टभुजं प्रति श्रीप्रचेतोभिरपि

वयं तु साक्षाद्भगवन् भवस्य
प्रियस्य सख्युः क्षणसङ्गमेन । [भागवतम् ४.३०.३८] इति ।

वैष्णवस्य सतः समदर्शिनस्तु न भक्तिलाभः प्रत्यवायश्च । यथा
वैष्णवतन्त्रे

न लभेयुः पुनर्भक्तिं हरेरैकान्तिकीं जडाः ।
एकाग्रमनसश्चापि विष्णुसामान्यदर्शिनः ॥
यस्तु नारायणं देवं ब्रह्मरुद्रादिदैवतैः ।
समत्वेनैव वीक्षेत स पाषण्डी भवेद्ध्रुवम् ॥ इति ।

अतएवाभेददृष्टिवचनं समभक्तज्ञान्य्आदिपरमेव । यथा श्री
मार्कण्डेयोपाख्याने द्वादश एव श्रीशिववाक्यम्

ब्राह्मणाः साधवः शान्ता निःसङ्गा भूतवत्सलाः ।
एकान्तभक्ता अस्मासु निर्वैराः समदर्शिनः ॥
सलोका लोकपालास्तान् वन्दन्त्यर्चन्त्युपासते ।
अहं च भगवान् ब्रह्मा स्वयं च हरिरीश्वरः ॥
न ते मय्यच्युतेऽजे च भिदामण्वपि चक्षते ।
नात्मनश्च जनस्यापि तद्युष्मान् वयमीमहि ॥ [भागवतम् १२.१०.२०२२] इति ।

तत्ततोऽपि तानप्यतिक्रम्य युष्मान्मार्कण्डेयादीन् शुद्धवैष्णवान्
वयमीमहि भजामित्यर्थः । तदुक्तं श्रीशिवेनैव प्रचेतसं प्रति

अथ भागवता यूयं प्रियाः स्थ भगवान् यथा ।
न मद्भागवतानां च प्रेयानन्योऽस्ति कर्हिचित् ॥ [भागवतम् ४.२४.२६] इति ।

अन्यत्र च प्रीते हरौ भगवति प्रीयेऽहं सचराचरः इति च । तस्य शुद्ध
वैष्णवत्वं चोक्तमेव तत्पूर्वं

नैवेच्छत्याशिषः क्वापि ब्रह्मर्षिर्मोक्षमप्युत ।
भक्तिं परां भगवति लब्धवान् पुरुषेऽव्यये ॥ [भागवतम् १२.१०.६] इति ।

श्रीमार्कण्डेयमुद्दिश्य श्रीशिवेन । तथा श्रीशिवस्य तच्चेतस्य्
आविर्भावात्समाधिविरामेण तदेव व्यञ्जितम् । यथा किमिदं कुत एवेति
समाधेर्विरतो मुनिः [भागवतम् १२.१०१.६] इति । (पगे ४०) किं च ब्राह्मणाः
साधवः [भागवतम् १२.१०.१६] इत्यादावभेदाददृष्टिवचनेऽपि स्वयं च हरि
ईश्वरः [भागवतम् १२.१०.१६] इत्यनेन तस्यैव प्राधान्यमुक्तम् । तस्यैव स्वयं
चेश्वरत्वमुक्तं पार्थिवाद्दारुणः [भागवतम् १.२.२४] इत्यादिना । ब्रह्मपुराणे
श्रीशिववाक्यमपि तथैव

यो हि मां द्रष्टुमिच्छेत ब्रह्माणं वा पितामहम् ।
द्रष्टव्यस्तेन भगवान् वासुदेवः प्रतापवान् ॥ [Bरह्मড়् २२६.४६] इति ।

तद्विज्ञानेन सर्वविज्ञानादिति भावः । तदेवं वैष्णवत्वेनैव शिव
भजनं युक्तम् । केचित्तु वैष्णवास्तत्पूजनमावश्यकत्वेनोपस्थितं चेत्
तर्हि तस्मिन्नधिष्ठाने श्रीभगवन्तमेव पूजयन्ति । यथा श्रीविष्णु
धर्मान्तिमोऽयमितिहासः विष्वक्सेननामा कश्चिद्विप्र एकान्त
भागवतः पृथिवीं विचरन्नासीत् । स कदाचिदेक एव वनान्त उपविष्टः ।
तथार्थ ग्रामाध्यक्षसुतः कश्चिदागतस्तमुवाच कोऽसीति । ततः कृत
स्वाख्यानं तमुवाच मम शिरःपीडाद्या जातेति निजेष्टदेवं शिवं
पूजयितुं न शक्नोमि, ततो मम प्रतिनिधित्वेन त्वमेव तं पूजयेति । एतद्
अनन्तरं च तत्रत्यं सार्धं पद्यम्

एतदुक्तं प्रत्युवाच वयमेकान्तिनः श्रुताः ।
चतुरात्मा हरिः पूज्यः प्रादुर्भावगतोऽथवा ।
पूजयामश्च नैवान्यं तस्मात्त्वं गच्छ मा चिरम् ॥ [Vइढ्ড়् ३.३५४.१२१३]
इति ।

ततस्तस्मिंस्तद्अङ्गीकृतवति स खड्गमुन्नमितवान् शिरश्छेत्तुम् । ततश्
चासौ विप्रस्तद्धस्तेन मृत्युमनभीप्सन् विचार्योक्तवान् भद्रं तत्र
गच्छाम इति । गत्वा चेदं मनसि चिन्तितम् अयं रुद्रः प्रलयहेतुतया
तमोवर्धनत्वात्तमोभावः । श्रीनृसिंहदेवश्च तामसदैत्यगण
विदारकतया तमोभञ्जनकर्तृत्वात्तद्भञ्जनार्थमेव तत्रोदयेत
सूर्य इव तमोराशेः । अतो रुद्राकाराधिष्ठानेऽपि तद्उपासकानामेषां
तद्भजनकृते श्रीनृसिंहपूजामेवास्मिन् करिष्यामीति ।

अथ श्रीनृसिंहाय नम इति गृहीतपुष्पाञ्जलौ तस्मिन् पुनः क्रोधाविष्टेन
ग्रामाध्यक्षपुत्रेण खड्गः समुद्यमितः । ततश्चाकस्मात्तदेव
लिङ्गं स्फोटयित्वा श्रीनृसिंहदेवः स्वयमाविर्भूय तं ग्रामाध्यक्ष
पुत्रं सपरिकरं जघान । दक्षिणस्यां दिशि लिङ्गस्फोटनामा स्वयं च
तत्र स्थितवानिति । केचित्कदाचित्तद्अधिष्ठानत्वेनैव वा । अतएवोक्तमादि
वाराहे

जन्मान्तरसहस्रेषु समाराध्य वृषध्वजम् ।
वैष्णवत्वं लभेद्धीमान् सर्वपापक्षये सति ॥ इति ।

अतएव श्रीनृसिंहशिवभक्त्योरनन्तरं बृहदेव श्रीनृसिंहतापन्यां
श्रुतौ

अनुपनीतशतमेकमेकेनोपनीतेन तत्समम् । उपनीतशतमेकमेकेन
गृहस्थेन तत्समम् । गृहस्थशतमेकमेकेन वानप्रस्थेन तत्समम् ।
वानप्रस्थशतमेकमेकेन यतिना तत्समम् । यतीनां तु शतं पूर्णम्
एकमेकेन रुद्रजापकेन तत्समम् । रुद्रजापकशतमेकमेकेन
अथर्वशिरःशिखाध्यापकेन[*Eण्ड्ण्Oट्E ॰३] तत्समम् । अथर्वशिरः
शिखाध्यापकशतमेकमेकेन तापनीयोपनिषद्अध्यापकेन तत्समम् ।
तापनीयोपनिषद्अध्यापकशतमेकमेकेन मन्त्रराजाध्यापकेन तत्
समम् । [ण्टू ५.८] इति । (पगे ४१)

मन्त्रराजश्च तत्र श्रीनृसिंहमन्त्र एवेति । स्वतन्त्रत्वेन भजने तु
भृगुशापो दुरत्ययः । यथा चतुर्थे
भृगुः प्रत्यसृजच्छापं ब्रह्मदण्डं दुरत्ययम् ।
भवव्रतधरा ये च ये च तान् समनुव्रताः ।
पाषण्डिनस्ते भवन्तु सच्छास्त्रपरिपन्थिनः ॥ [भागवतम् ४.२.२७२८] इत्य्आदि ।

वेदविहितमेवात्र भवव्रतमनूद्यते अन्यविहितत्वे पाषण्डिनत्व
विधानायोगः स्यात् । पूर्वत एव पाषण्डित्वसिद्धेः । अथ तत्परिपन्थिनां
श्रीभागवतादीनां सच्छास्त्रत्वमायातम् । तत्पुरस्कृतानां सूत
संहितादीनामसच्छास्त्रत्वं स्पष्टमेव । तस्मात्
स्वतन्त्रत्वेनैवोपासनायामयं दोषः । यतश्च तत्रैव तेन श्री
जनार्दनस्यैव वेदमूलत्वमुक्तम्

एष एव हि लोकानां शिवः पन्थाः सनातनः ।
यं पूर्वे चानुसन्तस्थुर्यत्प्रमाणं जनार्दनः ॥ [भागवतम् ४.२.३१] इति ।

एष वेदलक्षणो यत्प्रमाणं यत्र मूलमियर्थः । अत एवान्वयेनापि
श्रीविष्णुभक्तिर्दृढीकृता सत्त्वं रजस्तमः [भागवतम् १.२.२३] इत्यादिना । तथा
श्रीहरिवंशे शिववाक्यम्

हरिरेव सदा ध्येयो भवद्भिः सत्त्वसंस्थितैः ।
विष्णुमन्त्रं सदा विप्राः पठध्वं ध्यात केशवम् ॥ इति ।

तस्मात्श्रीशिवभक्तेरप्येवम्भूते स्थिते पराणामपि देवतानां
वैष्णवागमादौ तद्बहिरङ्गावरणसेवकत्वेनाप्राकृतानामेव पूजा
विधानं श्रीभगवल्लोकसङ्ग्रहपराणां तल्लीलौपायिकनरलीला
पार्षदानां वा श्रीभगवत्प्रीणनयज्ञादौ तु युधिष्ठिरराजसूयवद्
अन्यासामपि तद्विभूतित्वेनैवेति ज्ञेयम् ।

ततः सम्पूज्य शिरसा ववन्दे परमेष्ठिनम् ।
भवं प्रजापतीन् देवान् प्रह्रादो भगवत्कलाः ॥ [भागवतम् ७.१०.३२] इति ।

तदुक्तं श्रीयुधिष्ठिरेणैव
क्रतुराजेन गोविन्द राजसूयेन पावनीः
यक्ष्ये विभूतीर्भवतस्तत्सम्पादय नः प्रभो ॥ [भागवतम् १०.७२.३१]

विभूतित्वेनैवमुक्तं पाद्मे कार्त्तिकमाहात्म्ये श्रीसत्यभामां प्रति
श्रीभगवता

शैवाः सौराश्च गाणेशा वैष्णवाः शक्तिपूजकाः ।
मामेव प्राप्नुवन्तीह वर्षाम्भः सागरं यथा ॥
एकोऽहं पञ्चधा जातः क्रीडयन्नामभिः किल ।
देवदत्तो यथा कश्चित्पुत्राद्य्आह्वाननामभिः ॥ [ড়द्मড়् ६.८८.४३४४] इति ।

वस्तुतस्तु सर्वापेक्षया श्रीवैष्णवा एव श्रेष्ठाः । तदुक्तं स्कान्दे
ब्रह्मनारदसंवादे तथैवान्यत्र प्रह्लादसंहितायामेकादशी
जागरणप्रसङ्गे च

न सौरो न च शैवो वा न ब्राह्मो न च शाक्तिकः ।
न चान्यदेवताभक्तेः भवेद्भागवतोपमः ॥ इति ।
तादृशसौरादीनां तत्प्राप्तिश्च न केवलं तद्धेतुत्वेन किन्तु भगवत्
प्रीत्य्अर्थकृतजपतपस्तज्जात(पगे ४२) शुद्धभक्तिद्वारा श्री
विस्णुक्षेत्रमरणादिप्रभावेण वा । यथा तत्रैव वर्णितयोर्देवशर्म
चन्द्रशर्मनाम्नोः सूर्यमाराधयतोः । तदुक्तं श्रीभगवता

तत्क्षेत्रस्य प्रभावेण धर्मशीलतया पुनः ।
वैकुण्ठभवनं नीतौ मत्परौ मत्समीपगैः ॥
यावज्जीवन्तु यत्ताभ्यां सूर्यपूजादिकं कृतम् ।
तेनाहं कर्मणा ताभ्यां सुप्रीतो ह्यभवं किल ॥ इति ।

तत्क्षेत्रं मायापुरी । तौ च श्रीकृष्णावतारे सत्राजिद्अक्रूराख्यौ जाताव्
इति च तत्र प्रसिद्धिः । एवं पुण्डरीकस्यापि पितृसेवया तत्प्राप्तिश्च
योजनीया ।

स्वतन्त्रोपासनायां तत्प्राप्तिः श्रीगीतोपनिषदि निषिद्धः

येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥
यान्ति देवव्रता देवान् पितॄन् यान्ति पितृव्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ [गीता ९.२३२५]

तस्मात्तदीयत्वेनोपासनायां कश्चिद्गुणोऽपि भवति ।

अवज्ञादौ तु दोषः श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हि
[भागवतम् ११.३.२६] इतिवत् । यथा पाद्मे

हरिरेव सदाराध्यः सर्वदेवेश्वरेश्वरः ।
इतरे ब्रह्मरुद्राद्या नावज्ञेयाः कदाचन ॥ इति ।

गौतमीये च
गोपालं पूजयेद्यस्तु निन्दयेदन्यदेवताम् ।
अस्तु तावत्परो धर्मः पूर्वधर्मोऽपि नश्यति ॥ [ङौतमीयट्३३.८४] इति ।

अतएव हयशीर्षा मां पथि देवहेलनात्[भागवतम् ६.८.१५] इति श्रीनारायण
वर्मणि तद्आगःप्रायश्चित्तम् ।

विष्णुधर्मे चायमितिहासः पूर्वं श्र्मद्अम्बरीषो बहुदिनं श्री
भगवद्आराधनं तओप्ऽनुष्ठितवान् । तद्अन्ते च भगवानेवेद्न्र
रूपेणैरावतीकृतं गरुडमारुह्य तं वरेण छन्दयामास । स चेन्द्र
रूपं दृष्ट्वा तं नमस्कारादिभिरादृत्यापि तस्माद्वरं नेष्टवान् ।
उक्तवांश्च ममाराध्याकारो यः स एव मम वरदाता भवेन्नान्य
इति । अथ तद्देयवरमहमेव दास्यामीति पुनरुक्त्य्वत्यपीन्द्रे तं
नेष्टवन्तं तं प्रति वज्रं समुद्यतवान् । तदापि तं वरं नाङ्गीकृतवति
तस्मिन् सुप्रसन्नो भूवा तद्रूपमन्तर्धाप्य स्वरूपमाविर्भावयन्न्
अनुजग्राहेति ।
तत्र च शिवावज्ञादौ महानेव दोषः । यथा चतुर्थे एव नन्दीश्वर
शापः । संसरन्त्विह ये चामुमनु शर्वावमानिनम् [भागवतम् ४.२.२४] इति । इदम्
अपि यत्किञ्चिदेव, श्रीशिवस्य महाभागवतत्वेन दोषस्य स्वयमेव
सिद्धत्वात् । हेलनं गिरिशभ्रातुर्धनदस्य त्वया कृतम् [भागवतम् ४.११.३२] इत्य्
उक्तरीत्या नूनं तत्सख्यमनुस्मृत्यैव कुबेरादपि श्रीध्रुवेण
भगवद्भक्तिस्वभावकृतसर्वविषयकविनयपुनःपुनर्भ्भक्त्य्
अभिलाषाभ्यां युक्तेन सता कृतं भगवद्भक्तिवरप्रार्थनमिति
चतुर्थाभिप्रायः । अतएवोक्तं (पगे ४३)

यो मां समर्चयेन्नित्यमेकान्तं भावमाश्रितः ।
विनिन्दन् देवमीशानं स याति नरकं ध्रुवम् ॥ इति ।

दृष्टं च यथा चित्रकेतुचरिते । श्रीकपिलदेवेन साधारणानामपि
प्राइनामवमानादिकं निन्दितं किमुत तद्विधानाम् । तथा हि

अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा
तमवज्ञाय मां मर्त्यः कुरुतेऽर्चाविडम्बनम् ॥ [भागवतम् ३.२९.२१]

भूतेषु वक्ष्यमाणरीत्या प्राणभृज्जीवमारभ्य भगवद्अर्पितात्म
जीवपर्यन्तेषु भूतात्मा तद्अन्तर्यामी । तं मामवज्ञाय तेषाम्
अवज्ञया तद्अधिष्ठानकस्य ममैवावज्ञां कृत्वेत्यर्थः । ततस्तां
कृत्वा योऽर्चां मत्प्रतिमां कुरुते स तद्विडम्बनं तस्या अवज्ञामेव
कुरुत इत्यर्थः । यतः

यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम् ।
हित्वार्चां भजते मौढ्याद्भस्मन्येव जुहोति सः ॥ [भागवतम् ३.२९.२२]

मौढ्यात्शैली दारुमयो वा काचित्प्रतिमेयमिति मूढबुद्धित्वाद्यं
सर्वेषु भूतेषु वर्तमानं परमात्मानमीश्वरं मां हित्वा तस्या
मयैक्यमविभाव्यार्चां मदीयां प्रतिमां भजते केवललोकरीतिदृष्ट्या
तस्यै जलादिकमर्पयति । यथाग्निपुराणे दशरथमारितपुत्रस्य
तपस्विनो विलापे

शिलाबुद्धिः कृता किं वा प्रतिमायां हरेर्मया ।
किं मया पथि दृष्टस्य विष्णुभक्तस्य कर्हिचित् ॥
तन्मुद्राङ्कितदेहस्य चेतसानादरः कृतः ।
येन कर्मविपाकेन पुत्रशोको ममेदृशः ॥ इति ।

यथा चोक्तं
विष्ण्व्अर्चायां शिलाधीर्गुरुषु नरमतिर्वैष्णवे जातिबुद्धिर्
विष्णोर्वा वैष्णवानां कलिमलमथने पादतीर्थेऽम्बुबुद्धिः ।
श्रीविष्णोर्नाम्नि मन्त्रे सकलकलुषहे शब्दसामान्यबुद्धिर्
विष्णौ सर्वेश्वरेशे तद्इतरसमधीर्यस्य वा नारकी सः ॥ [ড়्व्११४] इति ।

तस्य च मूढस्य मद्दृष्ट्य्अभावात्सर्वभूतावज्ञापि भवति । ततस्तद्
दोषेण भस्मनि यथा जुहोति कश्चित्तथा तस्याश्रद्दधानस्य फलाभाव
इत्यर्थः । ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः [गीता १७.१] इत्य्
आद्य्उक्तरीत्या लोकपरम्परामात्रजाते यत्किञ्चिच्छ्रद्धासद्भावे तु
कनिष्ठभागवतत्वमेव ।

अर्चायामेव हरये पूजां यः श्रद्धयेहते ।
न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ [भागवतम् ११.२.४७] इत्य्
उक्तेः ।

यद्यपि यथाकथञ्चिद्भजनस्यैवावश्यकफलावसानतास्त्येव तथापि
झटिति न भवतीत्येव तथोक्तम् । वक्ष्यते च साफल्यमर्चादावर्चयेत्
तावद्[भागवतम् ३.२९.२०] इत्यादिना । अवज्ञामात्रस्य तादृशत्वे सुतरां तु

द्विषतः परकाये मां मानिनो भिन्नदर्शिनः ।
भूतेषु बद्धवैरस्य न मनः शान्तिमृच्छति ॥ [भागवतम् ३.२९.१८] इत्युक्तेः ।

(पगे ४४)

भिन्नदर्शिनः सर्वत्रान्तर्याम्य्एकदृष्टिरहितस्य अतएव मानिन अतएव
तद्धवैरस्य च । तथा च महाभारते

पितेव पुत्रं करुणो नोद्वेजयति यो जनः ।
विशुद्धस्य हृषीकेशस्तस्य तूर्णं प्रसीदति ॥

किं च
अहमुच्चावचैर्द्रव्यैः क्रिययोत्पन्नयानघे ।
नैव तुष्येऽर्चितोऽर्चायां भूतग्रामावमानिनः ॥ [भागवतम् ३.२९.२४]

अवमानिनो निन्दाकर्तुः । निन्दापि द्वेषसमा । किं वा

न तथा तप्यते विद्धः पुमान् बाणैर्हि मर्मगैः ।
यथा तुदन्ति मर्मस्था असतां पुरुषेषवः ॥

इत्य्आद्य्उक्तरीत्या ततोऽधिका इति नायं व्युत्क्रम्य इत्यभिप्रेत्य न द्वेषात्
पूर्वमसौ पठिता ।

तदेवमीश्वरज्ञानाभावाद्भक्तावश्रद्दधानस्य दोष उक्तः । अथ
तच्छ्रद्धाहेतुतज्ज्ञानस्य स्वधर्मसंयुक्तं तद्अर्चनमेव
कारणमुपदिशन् तादृशार्चनस्याप्यव्यर्थतामङ्गीकरोति

अर्चादावर्चयेत्तावदीश्वरं मां स्वकर्मकृत् ।
यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितम् ॥ [भागवतम् ३.२९.२५]

तावदेव स्वकर्मकृत्सनर्चादावर्चयेद्यावत्सर्वभूतेष्ववस्थितम्
ईश्वरं मां न वेद न जानाति । अत्र स्वकर्मसहायत्वमजातश्रद्धस्य
शुद्धभक्तावनधिकारात्तत्प्रतिपादयिष्यते जातश्रद्धो मत्कथासु
[भागवतम् ११.२०.२७] इत्यादिना । अतो भगवज्ज्ञानादूर्ध्वं जातश्रद्धस्तु स्व
कर्मकृत्सन्नार्चयेत्किन्तु शुद्धमर्चादिकमेव कुर्वीतेत्यायातम् । तच्
च प्रतिपादयिष्यते तावत्कर्माणि कुर्वीत [भागवतम् ११.२०.९] इत्यादिना, न त्वर्चां
परित्यजेदित्यर्थः ।
प्रतिष्ठितार्चा न त्याज्या
यावज्जीवं समर्चयेत् ।
वरं प्राणपरित्यागः
शिरसो वापि कर्तनम् ॥ इति श्रीहयशीर्षपञ्चरात्रविरोधात् ।

अथ स्वधर्मपूर्वकमर्चनं कुर्वंश्च भूतदयां विना न
सिद्ध्यतीत्याह

आत्मनश्च परस्यापि यः करोत्यन्तरोदरम् ।
तस्य भिन्नदृशो मृत्युर्विदधे भयमुल्बणम् ॥ [भागवतम् ३.२९.२६]

अन्तरोदरमुदरभेदेन भेदं करोति न तु मद्अधिष्ठानत्वेनात्म
समं पश्यति । ततश्च क्षुधितादिकमपि दृष्ट्वा स्वोदरादिकमेव केवलं
बिभर्तीत्यर्थः । तस्य भिन्नदृशो मृत्युरूपोऽहमुल्बणं भयं
संसारम् । निगमयति

अथ मां सर्वभूतेषु भूतात्मानं कृतालयम् ।
अर्हयेद्दानमानाभ्यां मैत्र्याभिन्नेन चक्षुषा ॥ [भागवतम् ३.२९.२७]

अथ अतो हेतोः यथायुक्तं यथाशक्ति दानेन तद्अभावे मानेन
चाभिन्नेन चक्षुषेति पूर्ववत् । तथोक्तं सनकादीन् प्रति श्रीवैकुण्ठ
देवेन

ये मे तनूर्द्विजवरान् दुहतीर्मदीया
भूतान्यलब्धशरणानि च भेदबुद्ध्या ॥ [भागवतम् ३.१६.१०] इत्यादि ।

यद्वाभिन्नेन चक्ष्षान्यत्र या दृष्टिस्ततोऽतिविलक्षणया दृष्ट्या
सर्वोत्कृष्टदृष्ट्येत्यर्थः । तत्र सर्वेषां साधारण्येनेवार्हणे प्राप्ते
विशेषयति (पगे ४५)

जीवाः श्रेष्ठा ह्यजीवानां ततः प्राणभृतः शुभे ।
ततः सचित्ताः प्रवरास्ततश्चेन्द्रियवृत्तयः ॥
तत्रापि स्पर्शवेदिभ्यः प्रवरा रसवेदिनः ।
तेभ्यो गन्धविदः श्रेष्ठास्ततः शब्दविदो वराः ॥
रूपभेदविदस्तत्र ततश्चोभयतोदतः ।
तेषां बहुपदाः श्रेष्ठाश्चतुष्पादस्ततो द्विपात् ॥
ततो वर्णाश्च चत्वारस्तेषां ब्राह्मण उत्तमः ।
ब्राह्मणेष्वपि वेदज्ञो ह्यर्थज्ञोऽभ्यधिकस्ततः ॥
अर्थज्ञात्संशयच्छेत्ता ततः श्रेयान् स्वकर्मकृत् ।
मुक्तसङ्गस्ततो भूयानदोग्धा धर्ममात्मनः ॥
तस्मान्मय्यर्पिताशेष क्रियार्थात्मा निरन्तरः ।
मय्यर्पितात्मनः पुंसो मयि सन्न्यस्तकर्मणः ।
न पश्यामि परं भूतमकर्तुः समदर्शनात् ॥ [भागवतम् ३.२९.२८३३]

पुर्वस्मादुत्तरोत्तरस्मिनेकैकगुणाधिक्येनाधिक्यम् । धर्मम्
अदोग्धा निष्कामकर्मा । निरन्तरो ज्ञानाद्य्अव्यवहितभक्तिः । अकर्तुर्
अर्पितात्मत्वेन स्वभरणादिकर्मानपेक्षमाणात् । यद्भगवति भक्तिः
क्रियते तत्रापि स्वस्य भगव्दधीनत्वं ज्ञात्वा तद्अभिमानशून्याच्च ।
समदर्शनाद्भगवद्अधिष्ठातृत्वसाम्येनात्मवत्परेष्वपि हितम्
आशंसनेन श्रवणादिकर्मापेक्षमाणात्जीवाः श्रेष्ठा ह्यजीवानामित्य्
आदिना भेदो हि विवक्षितः । ततो मद्भक्तेष्वेवादरबाहुल्यं कर्तव्यम्
अन्यत्र च यथाप्राप्तं यथाशक्ति चेति भावः । तथैवोक्तम्

मनसैतानि भूतानि प्रणमेद्बहुमानयन् ।
ईश्वरो जीवकलया प्रविष्टो भगवानिति ॥ [भागवतम् ३.२९.३४]

जीवकलया तत्कलनया तद्अन्तर्यामितयेत्यर्थः । तदेवं
प्रथमोपासकानां सर्वभूतादरो विहितः । सश्रद्धसाधकानां तु
भगवद्वैभवस सार्वत्रिकतास्फूर्त्या भवत्येवासौ । यथोक्तं स्कान्दे


एतेन ह्यद्भुता व्याध तवाहिंसादयो गुणाः ।
हरिभक्तौ प्रवृत्ता ये न ते स्युः परतापिनः ॥ इति ।

वक्ष्यमाणरीत्या शुद्धबन्धुत्वादिभावसाधकानामपि शुद्ध
बन्धुभावसिद्धश्रीगोकुलवास्य्अनुशीलनानुसारेण तादृशभगवद्
गुणानुस्मरणेन चासौ जायते । जातभावानां त्वहिंसोपरमश्च स्वीय
एव स्वभावः । यथा

यत्रानुरकात्ः सहसैव धीरा
व्यपोह्य देहादिषु सङ्गमूढम् ।
व्रजन्ति तत्पारमहंस्यमन्त्यं
यस्मिन्न हिंसा परमः स्वधर्मः ॥

इत्यनुसारेण सिद्ध एव सः । तत्र परमसिद्धानां च सर्वभूतेषु यः
पश्येद्भगवद्भावमात्मनः [भागवतम् ११.२.४५] इत्य्आद्य्अनुसारेण सिद्ध एव
सः । तत्र साधकानां यत्तु यथा तरोर्मूलनिषेचनेन [भागवतम् ४.३१.१२] इत्य्
आदौ तद्अन्योपासनानां पुनरुक्तत्वमुपलभ्यते, तत्पुनः केवल
स्वतन्त्रतत्तद्दृष्ट्योपासनानामेव । अत्र तु तत्तद्अधिष्ठानक
भगवद्उपासनमेव विधीयते । तद्आदरावश्यकत्वं च तत्
सम्बन्धेनैव सम्पाद्यत इति भेदः । तच्चान्यत्र झटिति रागद्वेष
विश्लेषार्थमिति ज्ञेयम् । अतएव केवलभूतानुकम्पया भगवद्अर्चनं
त्यक्तवतो भरतस्यान्तरायः । तस्माद्भूतदयैव भगवद्भक्तिर्
मुख्या नार्चनमिति निरस्तम् । तथा वैतदव्यवहितपूर्वं निर्गुण
भक्त्य्अपायत्वेन (पगे ४६) क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः इत्य्
अत्र अतिशब्देन पाञ्चरात्रिकार्चनलक्षणक्रियायोगार्था पत्र
पुष्पावचयादिलक्षाणा किञ्चिद्धिंसापि विहिता । तस्मादनादरो न कर्तव्यस्
तत्सम्बन्धेनादरादिकं च कर्तव्यम् । स्वातन्त्र्येणोपासनं तु धिक्कृतम्
इति साध्वेवोक्तमविस्मितं तं परिपूर्णकाममित्यादि ।

॥ ६.९ ॥ देवाः श्रीमद्आदिपुरुषम् ॥ १०६ ॥

[१०७]

तथा
कः पण्डितस्त्वदपरं शरणं समीयाद्
भक्तप्रियादृतगिरः सुहृदः कृतज्ञात् ।
सर्वान् ददाति सुहृदो भजतोऽभिकामान्
आत्मनमप्युपचयापचयौ न यस्य ॥ [भागवतम् १०.४८.२६]

सुहृदो हितकारिस्वभावात्तत्रापि कृतज्ञादुपकाराभासेऽपि बहुमाननात् ।
यो भजतो भजमानाय सर्वान् कामानभीष्टानभि सर्वतोभावेन
ददाति । अत्र सुहृदः सुहृदे प्रीतये त्वात्मानमपि ददाति । न च सर्वतो
भावेन दाने तादृशेभ्यो बहुभ्यो दाने वा समावेशाभावः स्यादित्याह
उपचयेति ॥

॥ १०.४८ ॥ अक्रूरः श्रीभगवन्तम् ॥ १०७ ॥

[१०८]

तद्अभक्तमात्रानादरेणाह

येऽभ्यर्थितामपि च नो नृगतिं प्रपन्ना
ज्ञानं च तत्त्वविषयं सहधर्मं यत्र ।
नाराधनं भगवतो वितरन्त्यमुष्य
सम्मोहिता विततया बत मायया ते ॥ [भागवतम् ३.१५.२४]

यत्र यस्यां भगवद्धर्मपर्यन्तो धर्मो भवति भगवत्पर्यन्तस्य
तत्त्वस्य ज्ञानं च भवतीत्यर्थः । तां प्राप्ता अपि सर्वेषां धर्माणां
ज्ञानानां च मूलं ये भगवद्आराधनं न वितरन्ति न कुर्वन्ति । तद्
उक्तं बिले बतोरुक्रमविक्रमान् ये [भागवतम् २.३.२०] इत्यादि । तथा च ब्रह्म
वैवर्ते

प्राप्यापि दुर्लभतरं मानुष्यं विबुधेप्सितम् ।
यैराश्रितो न गोविन्दस्तैरात्मा वञ्चितश्चिरम् ॥
अशीतिचतुरश्चैव लक्षांस्तान् जीवजातिषु ।
भ्रमद्भिः पुरुषैः प्राप्य मानुष्यं जन्मपर्ययात् ॥
तदप्यफलतां जातं तेषामात्माभिमानिनाम् ।
वराकानामनाश्रित्य गोविन्दचरणद्वयम् ॥ इति ।

॥ ३.१५ ॥ श्रीब्रह्मा देवान् ॥ १०८ ॥

[१०९]

तथा
यस्यास्ति भक्तिर्भगवत्यकिञ्चना
सर्वैर्गुणैस्तत्र समासते सुराः ।
हरावभक्तस्य कुतो महद्गुणा
मनोरथेनासति धावतो बहिः ॥ [भागवतम् ५.१८.१२]

अकिञ्चना निष्कामा । गुणैर्ज्ञानवैराग्यादिभिः सह सर्वे ब्रह्मादयो
देवाः सम्यगासते ।

॥ ५.१८ ॥ भद्रश्रवः श्रीहयशीर्षम् ॥ १०९ ॥
[११०]

अतएव तत्तन्मार्गसिद्धमुनीनामप्यनादरः

अह्न्यापृतार्तकरणा निशि निःशयाना
नानामनोरथधिया क्षणभग्ननिद्राः ।
दैवाहतार्थरचना ऋषयोऽपि देव
युष्मत्प्रसङ्गविमुखा इह संसरन्ति ॥ [भागवतम् ३.९.१०]
(पगे ४७)

अह्न्यापृतार्त इत्यादिस्वभावा युष्मद्भजनविमुखाः संसारिणो
भवन्ति । किं बहुना, तत्तन्मार्गसिद्धा मुनयोऽपि युष्मत्प्रसङ्ग
विमुखाश्चेदिह जगति तद्वदेव संसरन्ति । अथवा मुनयोऽपि त्वद्
विमुखाश्चेत्तर्हि संसरन्त्येव । कथम्भूताः सन्तः संसरन्ति इत्यत्राह
अह्न्यापृतेत्यादि । आरुह्य कृच्छ्रेण परं पदम् [भागवतम् १०.२८.३२] इत्यादेः । अत
उक्तं श्रीधर्मेण

धर्मं तु साक्षाद्भगवत्प्रणीतं
न वै विदुरृषयो नापि देवाः ।
न सिद्धमुख्या असुरा मनुष्याः
कुतो नु विद्याधरचारणादयः ॥

स्वयम्भूर्नारदः शम्भुः कुमारः कपिलो मनुः ।
प्रह्लादो जनको भीष्मो बलिर्वैयासकिर्वयम् ॥
द्वादशैते विजानीमो धर्मं भागवतं भटाः ।
गुह्यं विशुद्धं दुर्बोधं यं ज्ञात्वामृतमश्नुते ॥
एतावानेव लोकेऽस्मिन् पुंसां धर्मः परः स्मृतः । [भागवतम् ६.३.१९२२]

एते धर्मप्रवर्तका विजानीम एव न तु स्वस्मृत्य्आदिषु प्रायेणोपदिशाम
इत्यर्थः । यतो गुह्यमप्रकाश्यं दुर्बोधमन्यैस्तथा ग्रहीतुम्
अशक्यं च । गृह्यत्वे हेतुर्यज्ज्ञात्वेति । अतएव वक्ष्यते प्रायेण वेद तद्
इदं न महाजनोऽयम् [भागवतम् ६.३.२५] इत्यादि । महाजनो द्वादशभ्यस्तद्
अनुगृहीतसम्प्रदायिभ्यश्चान्यो महागुणयुक्तोऽपीत्यर्थः । तस्मात्
साधूक्तमह्न्यापृच्छतार्तेत्यादि ।

॥ ३.९ ॥ ब्रह्मा गर्भोदशायिनम् ॥११०॥

[१११]

तदेवं श्रीभगवद्उक्तेरेव सर्वोर्ध्वमभिधेयत्वं स्थितम्

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ [गीता ६.४६४७] इति ।

अत्र योगिनामपि सर्वेषामिति च पञ्चम्यर्थ एव षष्ठी, तपस्विभ्य इत्य्
आदिना तथैवोपक्रमाद्भजतः सर्वाधिक्य एव विख्यातस्य । सर्व
शब्दोऽत्र देवमेवापरे यज्ञं योगिनः पर्युपासते [गीता ४.२५] इत्यादिना
पूर्वपूर्वोक्तं न सर्वानुपायिनो गृह्णातीति ज्ञेयम् ।

तदेवमभक्तनिन्दाश्रवणात्श्रीमद्भगवद्भक्तेः सर्वेषु
नित्यत्वमपि सिद्धम् । उक्तं च श्रीभगवता उद्धवं प्रति भिक्षोर्
धर्मः शमोऽहिंसा तप ईक्षा वनौकसः [भागवतम् ११.१८.४४] इत्यादौ सर्वेषां
मद्उपासनम् [भागवतम् ११.१८.४३] इति । तथा नारदेन च सार्ववर्णिकस्वधर्म
कथने, श्रवणं कीर्तनं चास्य [भागवतम् ७.११.१०] इत्यादि ।

तथा च महाभारते
मातृवत्परिरक्षन्तं सृष्टिसंहारकारकम् ।
यो नार्चयति देवेशं प्तं विद्याद्ब्रह्मघातकम् ॥ इत्यादि ।

श्रीगीतोपनिषत्सु
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥ [गीता ७.१५] (पगे ४८)
इत्यादि ।

आग्नेये विष्णुधर्मे च
द्विविधो भूतसर्गोऽयं दैव आसुर एव च ।
विष्णुभक्तिपरो दैव आसुअरस्तद्विपर्ययः ॥

अन्यदप्युदाहृतम् विप्राद्द्विषड्गुणयुतादरविन्दनाभ
पादारविन्दविमुखात्[भागवतम् ७.९.१०] इति श्वपचोऽपि महीपालः इत्यादि च ।

तथा गारुडे
अन्तं गतोऽपि वेदानां सर्वशास्त्रार्थवेद्यपि ।
यो न सर्वेश्वरे भक्तस्तं विद्यात्पुरुषाधमम् ॥ [ङर्ড়् १.२३१.१७]

बृहन्नारदीये
हरिपूजाविहीनाश्च वेदविद्वेषिणस्तथा ।
गोद्विजद्वेषनिरता राक्षसाः परिकीर्तिता ॥ [णार्ড়् १.३७.५] इति ।

अपरं च
येऽन्येऽरविन्दाक्ष विमुक्तमानिनस्
त्वय्यस्तभावादविशुद्धबुद्धयः ।
आरुह्य कृच्छ्रेण परं पदं ततः
पतन्त्यधोऽनादृतयुष्मद्अङ्घ्रयः ॥ [भागवतम् १०.२.३२] इति ।

प्रथमतस्तावत्त्वय्यस्तभावादविशुद्धबुद्धयः ।

धर्मः सत्यदयोपेतो
विद्या वा तपसान्विता ।
मद्भक्त्यापेतमात्मानं
न सम्यक्प्रपुनाति हि ॥ [भागवतम् ११.१४.२२] इत्य्आद्य्उक्तेः ।

तथा ज्ञानमार्गमाश्रित्य विमुक्तमानिनो देहद्वयातिरिक्तत्वेनात्मानं
भावयन्तः, ततः क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् [गीता १२.५]
इत्य्आद्य्उक्तेः कृच्छ्रेण जीवन्मुक्तिरूपामारुह्य प्राप्यापि ततोऽधः
पतन्ति भ्रश्यन्ति । कदेत्यपेक्षायामाह नादृतेति । यदीति शेषः । तेषां
भक्तिप्रभावस्याननुवृत्तेरबुद्धिपूर्वकस्य त्वद्अनादरस्य
निवर्तकाभावात् । तथापि दग्धानामपि पापकर्मणां महाशक्तिश्री
भगवत्पादपद्मावज्ञया पुनर्विरोहात् । तथा च वासना
भाष्योत्थापितं भगवत्परिशिष्टवचनम्

जीवन्मुक्ता अपि पुनर्बन्धनं यान्ति कर्मभिः ।
यद्यचिन्त्यमहाशक्तौ भगवत्यपराधिनः ॥

अतएव तत्रैव
जीवन्मुक्ताः प्रपद्यन्ते क्वचित्संसारवासनाम् ।
योगिनो वै नो लिप्यन्ते कर्मभिर्भगवत्पराः ॥ इति ।

तथा रथयात्राप्रसङ्गे विष्णुभक्तिचन्द्रोदयादिधृतं पुराणान्तर
वचनम्

नानुव्रजति यो महाद्व्रजन्तं परमेश्वरम् ।
ज्ञानाग्निदग्धकर्मापि स भवेद्ब्रह्मराक्षसः ॥ इति ।

एवमुक्तं यो नादृती नरकभाग्भिरसत्प्रसङ्गैः [भागवतम् ३.९.४] इति ।
अतएवोपदिष्टम्

तस्माज्ज्ञानेन सहितं ज्ञात्वा स्वात्मानमुद्धव ।
ज्ञानविज्ञानसम्पन्नो भज मां भक्तिभावतः ॥ [भागवतम् ११.१९.५]

तस्मात्सुतरामेव सर्वेषां श्रीहरिभक्तिर्नित्येत्यायातम् ॥

॥ १०.२ ॥ देवाः श्रीभगवन्तम् ॥१११॥

[११२]
(पगे ४९)
प्रेमकृतकर्माशयनिधूननातरमपि भक्तिः श्रूयते

यथाग्निना हेम मलं जहाति
ध्मातं पुनः स्वं भजते च रूपम् ।
आत्मा च कर्मानुशयं विधूय
मद्भक्तियोगेन भजत्यथो माम् ॥ [भागवतम् ११.१४.२५]

तथैवात्मा जीवो मत्प्रेम्णा कर्माशयं विधूय ततः शुद्धस्वरूपं
च प्राप्य मां भजतीत्यर्थः । तदुक्तं मुक्ता अपि लीलया विग्रहं कृत्वा
भगवन्तं भजन्ते इति ।

॥ ११.१४ ॥ श्रीभगवान् ॥११२॥

एवमप्युक्तं स्कान्दे रेवाखण्डे

इन्द्रो महेश्वरो ब्रह्मा परं ब्रह्म तदैव हि ।
श्वपचोऽपि भवत्येव यदा तुष्टोऽसि केशव ॥
श्वपचादपकृष्टत्वं ब्रह्मेशानादयः सुराः ।
तदैवाच्युत यान्त्येते यदैव त्वं पराङ्मुखः ॥ इति ।

तथैवाह
यच्छौचनिःसृतसरित्प्रवरोदकेन
तीर्थेन मूर्ध्न्यधिकृतेन शिवः शिवोऽभूत् । [भागवतम् ३.२८.२२] इति । स्पष्टम् ।

तस्माद्भक्तेर्महानित्यत्वेनाप्यभिधेयत्वमायातम् । अग्रे स्वकृत
पुरेषु [भागवतम् १०.८७.२०] इत्यादौ जीवानां स्वभावसिद्धा सेवेति व्याख्येयम् ॥

॥ ३.२८ ॥ श्रीकपिलदेवः ॥ ११३ ॥

[११४]

तदेवमवान्तरतात्पर्येण भक्तेरेवाभिधेयत्वं षड्विधैरपि लिङ्गैर्
अवगम्यते । तत्रोपक्रमोपसंहारयोरेक्तवेन यथा जन्माद्यस्य यतः
[भागवतम् १.१.१] इत्यादावुपक्रमपद्ये सत्यं परं धीमहि इति । अत्र श्री
गीतासु एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते [गीता १२.१] इत्यादौ
श्रीभगवत्येव ध्यानस्याकष्टार्थत्वेन तद्ध्यानिनो युक्ततमत्वेन
चोक्तत्वात् । ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.७] इत्यादौ परत्वस्य श्री
भगवद्रूप एव पर्यवसानात् । तस्यैव सर्वज्ञत्वसर्वशक्तित्वाभ्यां
जगज्जन्मादिहेतुत्वात्तत्र श्रीभगवत्येव ध्यानमभिधीयते ।
तथैव हि तत्पद्यं परमात्मसन्दर्भे विवृतमस्ति । कस्मै येन
विभाषितोऽयमतुलो ज्ञानप्रदीपः पुरा [भागवतम् १२.१३.१४] इत्यादावुपसंहार
पद्येऽपि सत्यं परं धीमहि [भागवतम् १.१.२] इति । अतएव स्पष्टमेवास्य श्री
भगवत्त्वं श्रीभागवतवक्तृत्वात् । पूर्वं च तेने ब्रह्म हृदा य आदि
कवये इत्युक्तम् । अभ्यासेनोदाहरणं पूर्वं दर्शितमदर्शितं चानेक
विधमेव । अपूर्वतया फलेन च दर्शितं श्रीव्याससमाधौ
अनर्थोपशमं साक्षात्[भागवतम् १.७.६] इत्यादि । प्रशंसालक्षणेनार्थवादेन
चाभ्यासवद्बहुविधमेव तत्रास्ति । उपपत्त्या च भयं
द्वितीयाभिनिवेशतः स्यात्[भागवतम् ११.२.३५] इत्याद्यनेकमिति । अत्र गतिसामान्ये
च इदं हि पुंसस्तपसः श्रुतस्य वा [भागवतम् १.५.२२] इत्यादि । तथाह

मुनिर्विवक्षुर्भगवद्गुणानां
सखापि ते भारतमाह कृष्णः ॥ [भागवतम् ३.५.१२] इत्यादि । स्पष्टम् ।

॥ ३.५ ॥ श्रीविदुरः ॥ ११४ ॥
(पगे ५०)
[११५]

इयमेव भक्तिः धर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सताम्
[भागवतम् १.१.२] इत्यत्रोक्ता । अत्र सर्गो विसर्गश्च [भागवतम् २.१०.१] इत्यादौ दश
लक्षण्यामपि सद्धर्म इत्येकलक्षणत्वेनोक्ता । तस्या अभिधेयत्वं श्री
भागवतबीजरूपायां चतुःश्लोक्यामप्युदाहृतम् ।

एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनात्मनः ।
अन्वयव्यतिरेकाभ्यां यत्स्यात्सर्वत्र सर्वदा ॥ [भागवतम् २.९.३५]
पूर्वं हि ज्ञानविज्ञानरहस्यतद्अङ्गानि वक्तव्यत्वेन चत्वार्येव
प्रतिज्ञातानि । तत्र चतुःश्लोक्यां प्राक्तनास्त्रयोऽर्था अपि क्रमेणैव
प्राक्तनश्लोकत्रये व्याख्याताः । रहस्यशब्देनात्र प्रेमभक्तिः तद्
अङ्गशब्देन साधनभक्तिरुच्यते । टीका च रहस्यं भक्तिस्तद्अङ्गं
साधनमित्येषा ।

ततः क्रमप्राप्तत्वेन
कालेन नष्टा प्रलये वाणीयं वेदसंज्ञिता ।
मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मद्आत्मकः ॥ [भागवतम् ११.१४.३]

इति भगवद्वाक्यानुसारेण च चतुर्थेऽस्मिन् पद्ये साधनभक्तिरेव
व्याख्याता । अत्र च पुनर्व्याख्याविवरणायोत्थाप्यते । तथा हि आत्मनो
मम भगवतः तत्त्वजिज्ञासुना प्रेमरूपं रहस्यमनुभवैतुम्
इच्छुना एतावन्मात्रं जिज्ञासितव्यं, श्रीगुरुचरणेभ्यः शिक्षणीयम् । किं
तत्? यदेकमेव अन्वयेन विधिमुखेन व्यतिरेकेण निषेधमुखेन च
स्यादुपपद्यते । तत्रान्वयेन यथा एतावानेव लोकेऽस्मिन् [भागवतम् ६.३.२२] इत्य्
आदि, मन्मना भव मद्भक्तः [गीता ९.२४] इत्यादि च । व्यतिरेकेण यथा


मुखबाहूरुपादेभ्यः पुरुषस्याश्रमैः सह ।
चत्वारो जज्ञिरे वर्णा गुणैर्विप्रादयः पृथक् ॥
य एषां पुरुषं साक्षादात्मप्रभवमीश्वरम् ।
न भजन्त्यवजानन्ति स्थानाद्भ्रष्टाः पतन्त्यधः ॥ [भागवतम् ११.५.२३]

न मां दुष्कृतिनो मूढा [गीता ७.१५] इत्यादि ।

यावज्जनो भजति नो भुवि विष्णुभक्ति
वार्तासुधारसमशेषरसैकसारम् ।
तावज्जरामरणजन्मशताभिघात
दुःखानि तानि लभते बहुदेहजानि ॥ [ড়द्मড়् ५.८५.३३] इति पद्मपुराणात् ।

कुत्र कुत्रोपपद्यते ? सर्वत्र शास्त्रकर्तृदेशकरणद्रव्यक्रियाकार्य
फलेषु समस्तेष्वेव । तत्र समस्तशास्त्रेषु यथा स्कान्दे ब्रह्मनारद
संवादे

संसारेऽस्मिन्महाघोरे जन्ममृत्युसमाकुले ।
पूजनं वासुदेवस्य तारकं वादिभिः स्मृतम् ॥

तत्राप्यन्वयेन यथा भगवन् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य
मनीषया [भागवतम् २.२.३४] इत्यादि । तथा पाद्मे स्कान्दे च

आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।
इदमेकं सनिष्पन्नं ध्येयो नारायणः सदा ॥ (पगे ५१) इति ।

व्यतिरेकेण यथा पारङ्गतोऽपि वेदानामित्यादिकं सर्वमवगन्तव्यम् ।
तच्चान्ते दर्शयिष्यते । सर्वकर्तृषु, यथा

ते वै विदन्त्यतितरन्ति च देवमायां
स्त्रीशूद्रहूणशबरा अपि पापजीवाः ।
यद्यद्भुतक्रमपरायणशीलशिक्षास्
तिर्यग्जना अपि किमु श्रुतधारणा ये ॥ [भागवतम् २.७.४६] इति ।

गारुडे
कीटपक्षिमृगाणां च हरौ सन्न्यस्तचेतसाम् ।
ऊर्ध्वमेव गतिं मन्ये किं पुनर्ज्ञानिनां नॄणाम् ॥ [ङर्ড়् १.२३४.३१]

अत्रैव साचारे दुराचारे, ज्ञानिन्यज्ञानिनि, विरक्ते रागिणि, मुमुक्षौ मुक्ते,
भक्त्य्असिद्धे भक्तिसिद्धे, तस्मिन् भगवत्पार्षदतां प्राप्ते तस्मिन्
नित्यपार्षदे च सामान्येन दर्शनादपि सार्वत्रिकता ।

तत्र साचारे दुराचारे यथा
अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ [गीता ९.३०] इति ।

सद्आचारस्तु किं वक्तव्य इत्यपेरर्थः ।

ज्ञानिन्यज्ञानिनि च ज्ञात्वाज्ञात्वाथ ये वै माम् [भागवतम् ११.११.३३] इत्यादि ।
हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः इत्यादि ।

विरक्ते रागिणि च
बाध्यमानोऽपि मद्भक्तो विषयैरजितेन्द्रियः ।
प्रायः प्रगल्भया भक्त्या विषयैर्नाभिभूयते ॥ [भागवतम् ११.१४.१७] इति ।

अबाध्यमानस्तु सुतरां नाभिभूयत इत्यपेरर्थः ।

मुमुक्षौ मुक्ते च मुमुक्षवो घोररूपान् [भागवतम् १.२.२६] इत्यादि ।
आत्मारामाश्च मुनयः [भागवतम् १.७.१०] इत्यादि ।

भक्त्य्असिद्धे भक्तिसिद्धे च
केचित्केवलया भक्त्या वासुदेवपरायणाः ।
अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्करः ॥ [भागवतम् ६.१०.१५] इति ।

न चलति भगवत्पदारविन्दाल्
लवनिमिषार्धमपि स वैष्णवाग्र्यः ॥ [भागवतम् ११.२.५१] इति ।

भगवत्पार्षदतां प्राप्ते
मत्सेवया प्रतीतं ते सालोक्यादिचतुष्टयम् ।
नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत्कालविप्लुतम् ॥ [भागवतम् ९.४.६७] इति ।

नित्यपार्षदे
वापीषु विद्रुमतटास्वमलामृताप्सु
प्रेष्यान्विता निजवने तुलसीभिरीशम् ।
अभ्यर्चती स्वलकमुन्नसमीक्ष्य वक्त्रम्
उच्छेषितं भगवतेत्यमताङ्ग यच्छ्रीः ॥ [भागवतम् ३.१५.२२]

सर्वेषु वर्षेषु भुवनेषु ब्रह्माण्डेषु तेषां बहिश्च तैस्तैः श्री
भगवद्उपासनायाः क्रियमाणायाः श्रीभागवतादिषु प्रसिद्धिः
सिद्धैवेति सर्वदेशोदाहरणं ज्ञेयम् । सर्वेषु करणेषु यथा

मानसेनोपचारेण परिचर्य हरिं मुदा ।
परेऽवाङ्मनसागम्यं तं साक्षात्प्रतिपेदिरे ॥ इत्यादि ।

एवम्भूतवचने ह्यस्तु तावद्बहिर्इन्द्रियेण मनसा वचसापि तत्सिद्धिर्
इति प्रसिद्धिः । सर्वद्रव्येषु यथा

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्य्उपहृतमश्नामि प्रयतात्मनः ॥ [गीता ९.२६, भागवतम् १०.८१.४]
इति ।
(पगे ५२)
सर्वक्रियासु यथा
श्रुतोऽनुपठितो ध्यात आदृतो वानुमोदितः ।
सद्यः पुनाति सद्धर्मो देवविश्वद्रुहोऽपि हि ॥ [भागवतम् ११.२.११]

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ [गीता ९.२७]

एवं भक्त्य्आभासेषु भक्त्याभासापराधेष्वपि अजामिलमूषिकादयो
दृष्टान्ता गम्याः ।

सर्वेषु कार्येषु यथा
यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।
नूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ इति ।

सर्वफलेषु यथा अकामः सर्वकामो वा मोक्षकाम उदारधीः [भागवतम्
२.३.१०] इत्यादि । यथा तरोर्मूलनिषेचनेन [भागवतम् ४.३१.१२] इत्यादिवाक्येन हरि
परिचर्यायां क्रियमाणायां सर्वेषामन्येषामपि देवादीनामुपासना
स्वत एव सिध्यतीत्यतोऽपि सार्वत्रिकता । यथोक्तं स्कान्दे ब्रह्मनारद
संवादे

अर्चिते देवदेवेश शङ्खचक्रगदाधरे ।
अर्चिताः सर्वदेवाः स्युर्यतः सर्वगतो हरिः ॥

एवं यो भक्तिं करोति यद्गवादिकं भगवते दीयते येन द्वारभूतेन
भक्तिः क्रियते, यस्मै श्रीभगवत्प्रीणनार्थं दीयते, यस्माद्गवादिकात्
पयादिकमादाय भगवते निवेद्यते, यस्मिन् देशादौ कुले वा कश्चिद्
भक्तिमनुतिष्ठति तेषामपि कृतार्थत्वं पुराणेषु दृश्यते इति कारक
गता । एवं सार्वत्रिकत्वं साधितम् ।

सदातनत्वमाह सर्वदेति । तत्र सर्गादौ यथा कालेन नष्टा प्रलये
वाणीयं वेदसंज्ञिता [भागवतम् ११.१४.३] इति विदुरप्रश्ने ।

सर्वेषु युगेषु
कृते यद्ध्यायतो विष्णुं त्रेतायां यजतो मखैः ।
द्वापरे परिचर्यायां कलौ तद्धरिकीर्तनात् ॥ [भागवतम् १२.३.५२] इति ।

किं बहुना
सा हानिस्तन्महच्छिद्रं स मोहः स च विभ्रमः ।
यन्मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते ॥ इति वैष्णवे ।

सर्वावस्थास्वपि गर्भे श्रीनारदकारितश्रवणे प्रह्लादे प्रसिद्धम् ।
बाल्ये श्रीध्रुवादिषु । यौवने श्रीमद्अम्बरीषादिषु । वार्धक्ये
धृतराष्ट्रादिषु । मरणेऽजामिलादिषु । स्वर्गितायां श्रीचित्रकेत्व्आदिषु ।
नारकितायामपि

यथा यथा हरेर्नाम
कीर्तयन्ति स्म नारकाः ।
तथा तथा हरौ भक्तिम्
उद्वहन्तो दिवं ययुः ॥ [णृसिंहড়् ८.३१] इति श्रीनृसिंहपुराणात् ।

अतएवोक्तं दुर्वाससा मुच्येत यन्नाम्न्युदिते नारकोऽपि [भागवतम् ९.४.४५] इति ।
यथा

एतन्निर्विद्यमानानामिच्छतामकुतोभयम् ।
योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् ॥ [भागवतम् २.१.११] इत्यत्रापि ।
(पगे ५३)

तत्र तत्र व्यतिरेकोदाहरणानि च कियन्ति दर्श्यन्ते
किं वेदैः किमु शास्त्रैर्वा किं वा तीर्थनिषेवणैः ।
विष्णुभक्तिविहीनानां किं तपोभिः किमध्वरैः ॥ [णारदড়् १.३०.१११] इति ।

किं तस्य बहुभिः शास्त्रैः किं तपोभिः किमध्वरैः ।
वाजपेयसहस्रैर्वा भक्तिर्यस्य जनार्दने ॥
इति बृहन्नारदीयपाद्मवचनादीनि ।

तपस्विनो दानपरा यशस्विनो
मनस्विनो मन्त्रविदः सुमङ्गलाः ।
क्षेमं न विन्दन्ति विना यद्अर्पणं
तस्मै सुभद्रश्रवसे नमो नमः ॥ [भागवतम् २.४.१७]

न यत्र वैकुण्ठकथासुधापगा
न साधवो भागवतास्तदाश्रयाः ।
न यत्र यज्ञेशमखा महोत्सवाः
सुरेशलोकोऽपि न वै स सेव्यताम् ॥ [भागवतम् ५.१९.२४]

ययाच आनम्य किरीटकोटिभिः
पादौ स्पृशन्नच्युतमर्थसाधनम् ।
सिद्धार्थ एतेन विगृह्यते महान्
अहो सुराणां च तमो धिगाठ्यताम् ॥ [भागवतम् १०.५९.४१]

सालोक्यसार्ष्टिसालोक्य [भागवतम् ३.२९.११] इत्यादि, नो दानं नो तपो नेज्या [भागवतम्
७.७.४४] इत्यादि । नैष्कर्म्यमप्यच्युतभाववर्जितम् [भागवतम् १.५.१२] इत्यादि ।
नात्यन्तिकं विगणयन्त्यपि ते [भागवतम् ३.१५.४८] इत्यादि च ।

अथ सदा सर्वत्र यदुपपद्यते [भागवतम् २.९.३५] इत्यादि योजनिकार्थो युगपद्
यथा तस्मात्सर्वात्मना राजन् हरिः सर्वत्र सर्वदा [भागवतम् २.२.३६] इत्यादि ।
अन्वयव्यतिरेकाभ्यां सदा सर्वत्र यदुपपद्यते इत्यादि । यथा

स्मर्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित् ।
सर्वे विधिनिषेधाः स्युरेतस्यैव विधिङ्कराः ॥ [ড়द्मড়् ६.७१.१००] इति ।

अन्वयव्यतिरेकाभ्यां सदा सर्वत्र यदुपपद्यते इति साकल्येन यथा न
ह्यतोऽन्यः शिवः पन्थाः [भागवतम् २.२.३३] इत्युपक्रम्य, तद्उपसंहारे

तस्मात्सर्वात्मना राजन् हरिः सर्वत्र सर्वदा ।
श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यो भगवान्नॄणाम् ॥ [भागवतम् २.२.३६] इति ।

नॄणां जीवानामिति नृगतिं विविच्य कवयः [भागवतम् १०.८७.१६] इतिवत् । एतदुक्तं
भवति यत्कर्म तत्सन्न्यासभोगशरीरप्राप्त्य्अवधि योगः सिद्ध्य्
अवधिः । साङ्ख्यमात्मज्ञानावधि । ज्ञानं मोक्षावधि । तथा तथा तत्
तद्योग्यतादिकानि च सर्वाणि । एवं तेषु कर्मादिषु शास्त्रादिव्यभिचारिता
ज्ञेया । हरिभक्तेस्तु अन्वयव्यक्तिरेकाभ्यां सदा सर्वत्र तत्तन्
महिमभिरुपपन्नत्वात्तथाभूतस्य रहस्यस्याङ्गत्वं युइक्तम् । यतो
रहस्याङ्गत्वेन च ज्ञानरूपार्थान्तराच्छन्नतयैवेदमुक्तमिति ।

तदेवं श्रीभागवतं सङ्क्षेपेणोपदेक्ष्यन्तं श्रीनारदं श्रीब्रह्मापि
तथैव सङ्कल्पं कारितवान्

यथा हरौ भगवति नृणां भक्तिर्भविष्यति
सर्वात्मन्यखिलाधारे इति सङ्कल्प्य वर्णय ॥ [भागवतम् २.७.५२] (पगे ५४)

भविष्यति अवश्यं भवेदितीमं प्रकारं सङ्कल्प्य नियमेनाङ्गीकृत्य ।

॥ २.७ ॥ श्रीब्रह्मा नारदम् ॥ ११५ ॥

[११६]

श्रीनारदेनापि तन्महापुराणाविर्भावार्थं तथैवोपदिष्टम्

अथो महाभाग भवानमोघदृक्
शुचिश्रवाः सत्यरतो धृतव्रतः ।
उरुक्रमस्याखिलबन्धमुक्तये
समाधिनानुस्मर तद्विचेष्टितम् ॥ [भागवतम् १.५.१३]

अथो अतो नैष्कर्म्यमप्यच्युतभाववर्जितम् [भागवतम् १.५.१२] इत्यादि
कारणात् ।

[११७]
अन्ते च

त्वमप्यदभ्रश्रुत विश्रुतं विभोः
समाप्यते येन विदां बुभुत्सितम् ।
प्राख्याहि दुःखैर्मुहुरर्दितात्मनां
सङ्क्लेशनिर्वाणमुशन्ति नान्यथा ॥ [भागवतम् १.५.४०]

विदां विदुषाम् ।

॥ १.५ ॥ श्रीनारदः श्रीव्यासम् ॥ ११६११७ ॥

[११८]

श्रीव्यासोऽपि तन्महापुराणप्रचारणारम्भे भक्तिमेव परमश्रेयः
प्रदत्वेन समाधावनुभूतवानिति प्रथमसन्दर्भे दर्शितं भक्ति
योगेन मनसि [भागवतम् १.७.४] इत्य्आदिप्रकरणे । तथैव को लाभ इति
प्रश्नान्तरं ११.१९.२८] श्रीभगवतैव सम्मतम् । भगो मे [भागवतम् ११.१९.३७]
इत्यादौ लाभो मद्भक्तिरुत्तमः [भागवतम् ११.१९.३७] इति । स्पष्टम् ॥

॥ ११.१९ ॥ श्रीभगवान् ॥ ११८ ॥

[११९]

अतएव स्वगतं विचारयति स्म

किं वा भागवता धर्मा न प्रायेण निरूपिताः ।
प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः ॥ [भागवतम् १.४.३१]

स्पष्टम् ।

॥ १.४ ॥ श्रीव्यासः ॥ ११९ ॥

[१२०]

अशेषोपदेष्टुरपि तद्उपदेशेनैव भगवतः परम उत्कर्ष उच्यते ।
यथा जितमजित तदा भवता यदाह भागवतं धर्ममनवद्यम्
[भागवतम् ६.१६.४०] इति । जितमित्यत्र भवतेति ज्ञेयम् । आहेत्यत्र भगवानिति ।

॥ ६.१६ ॥ चित्रकेतुः श्रीसङ्कर्षणम् ॥ १२० ॥

[१२१]

तदेवं भक्तेरेवाभिधेयत्वं स्थितम् । तत्र यद्बहुत्र कर्मादि
मिश्रत्वेन तद्धर्म उपदिश्यते, तत्तु तत्तन्मार्गनिष्ठान् भक्ति
सम्बन्धेन कृतार्थयितुं तानेव कांश्चिद्भक्त्य्आस्वादनेन शुद्धायाम्
एव भक्तौ प्रवर्तयितुं चेति ज्ञेयम् । पुनश्च सर्वत्र तस्या
एवाभिधेयत्वं वक्तुं तदीयो महिमा पूर्वत्र व्याख्यातोऽपि क्रमेण
व्याख्यायते सर्वैरेव । विशेषतो भक्तेरन्यत्तु न कर्तव्यमित्य्
अभिप्रायेण । तत्र तस्याः परमधर्मत्वं सर्वकामप्रदत्वं च
एतावानेव लोकेऽस्मिन् [भागवतम् ३.२५.४१] इत्यादौ । अकामः सर्वकामो वा [भागवतम्
२.३.१०] इत्यादौ, सर्वासामपि सिद्धानां [भागवतम् १०.८१.१६] इत्यादौ च दर्शितम्
एव । स्कान्दे च श्रीसनात्कुमारमार्कण्डेयसंवादे

विशिष्टः सर्वधर्माणां धर्मो विष्ण्व्अर्चनं नृणाम् ।
सर्वयज्ञतपोहोमतीर्थस्नानैश्च यत्फलम् ॥ (पगे ५५)
तत्फलं कोटिगुणितं विष्णुं सम्पूज्य चाप्नुयात् ।
तस्मात्सर्वप्रयत्नेन नारायणमिहार्चयेत् ॥

बृहन्नारदीये च
अश्वमेधसहस्राणां सहस्रं यः करोति वै ।
न तत्फलमवाप्नोति मद्भक्तैर्यदवाप्यते ॥ इति ।

अशुभघ्नत्वमपि सध्रीचीनो ह्ययं लोके पन्थाः [भागवतम् ६.१.१५] इत्यादौ
दर्शितम् । टीका च अतो न ज्ञानमार्ग इवासहायतानिमित्तं भयं नापि
कर्ममार्गवन्मत्सरादियुक्तेभ्यो भयमिति भावः इत्येषा ।

तथा च स्कान्दे द्वारकामाहात्म्ये परमेश्वरवाक्यम्
मद्भक्तिं वहतां पुंसामिह लोके परेऽपि वा ।
नाशुभं विद्यते लोके कुलकोटिं नयेद्दिवम् ॥ इति ।

श्रीविष्णुपुराणे
स्मृते सकलकल्याणभाजनं यत्र जायते ।
पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥ [Vइড়् ५.१७.१७]

सर्वान्तरायनिवारकत्वमाहुः

तथा न ते माधव तावकाः क्वचिद्
भ्रश्यन्ति मार्गात्त्वयि बद्धसौहृदाः ।
त्वयाभिगुप्ता विचरन्ति निर्भया
विनायकानीकपमूर्धसु प्रभो ॥ [भागवतम् १०.२.३३]

पूर्वं येऽन्येऽरविन्दाक्ष [भागवतम् १०.२.२६*] इत्यादिना मुक्तानामपि भगवद्
अनादरेण पारमार्थिको भ्रंश उक्तः । भक्तानां स नास्तीत्याह तथेति ।
तथा पूर्वमारूढपरमपदत्वावस्थातोऽपि भ्रश्यन्ति तथा तावका
मार्गात्साधनावस्थातोऽपि न भ्रश्यन्तीत्यर्थः । श्रीवृत्रगजेन्द्र
भरतादीनां सज्जन्मतो भ्रंशेऽपि भक्तिवासनानुगतिदर्शनात् ।

मुक्ता अपि प्रपद्यन्ते पुनः संसारवासनाम् ।
यद्यचिन्त्यमहाशक्तौ भगवत्यपराधिनः ॥

तेषां तु पुनः संसारवासनानुगतेः । यतस्त्वयि बद्धसौहृदाः ।
सौहृदमत्र श्रद्धा । मार्गादिति साधकत्वप्रतीतेरेव । त्वद्बद्ध
सौहृदत्वादेव त्वयेत्यादि । तथोक्तं त्वां सेवतां सुरकृताः [भागवतम् ११.४.१०]
इत्यादौ । धावन्निमील्य वा नेत्रे न स्खलेन्न पतेत्[भागवतम् ११.२.३३] इत्यादौ
च ।

॥ १०.२ ॥ श्रीब्रह्मादयः श्रीभगवन्तम् ॥ १२१ ॥

[१२२]

न वै जातु मृषैव स्यात्प्रजाध्यक्ष मद्अर्हणम् ।
भवद्विधेष्वतितरां मयि सङ्गृभितात्मनाम् ॥ [भागवतम् ३.२१.२४]

मयि संगृभितः संगृहीतो बद्ध आत्मा येषाम् । तथा बाध्यमानोऽपि [भागवतम्
११.१४.१७] इत्यादिकमत्रोदाहरणीयम् । अत्र प्रायो बाध्यमानत्वं कदाचित्
तद्ध्यानादित आकृष्यमाणत्वमेव गम्यते । तथाप्यनभिभूतत्वं वेद
दुःखात्मकान् कामान् परित्यागेऽप्यनीश्वरः [भागवतम् ११.२०.२७] इत्य्आदि
न्यायेन । तत्रापि भगवन्तं प्रति निजदैन्यादिवेदनादिना भक्तेर्
एवानुवृत्तिरिति ज्ञेयम् ।

॥ ३.२१ ॥ श्रीशुकः कर्दमम् ॥ १२२ ॥

[१२३]

दुष्टजीवादिभयनिवारकत्वमाह

दिग्गजैर्दन्दशूकेन्द्रैरभिचारावपातनैः ।
मायाभिः सन्निरोधैश्च गरदानैरभोजनैः ॥ (पगे ५६)
हिमवाय्व्अग्निसलिलैः पर्वताक्रमणैरपि ।
न शशाक यदा हन्तुमपापमसुरः सुतम् ॥
चिन्तां दीर्घतमां प्राप्तस्तत्कर्तुं नाभ्यपद्यत । [भागवतम् ७.५.४३४५]

अत्र दन्ता गजानां कुलिशास्त्रनिष्ठुराः [Vइড়् १.१७.४४] इत्यादिकं वैष्णव
वचनजातमनुसन्धेयम् । न यत्र श्रवणादीनि [भागवतम् १०.६.३] इत्यादिकं च ।
यथा बृहन्नारदीये

यत्र पूजापरो विष्णोर्वह्निस्तत्र न बाधते ।
राजा वा तस्करो वापि व्याधयश्च न सन्ति हि ॥
प्रेताः पिशाचाः कूष्माण्डग्रहा बालग्रहास्तथा ।
डाकिन्यो राक्षसाश्चैव न बाधन्तेऽच्युतार्चकम् ॥ [णार्ড়् १.१०.८९]

॥ ७.५ ॥ श्रीनारदः श्रीयुधिष्ठिरम् ॥ १२३ ॥

[१२४]

तथा

शारीरा मानसा दिव्या वैयासे ये च मानुषाः ।
भौतिकाश्च कथं क्लेशा बाधन्ते हरिसंश्रयम् ॥ [भागवतम् ३.२२.३७]

एवमप्युक्तं गारुडे
न च दुर्वाससः शापो वज्रं चापि शचीपतेः ।
हन्तुं समर्थं पुरुषं हृदिस्थे मधुसूदने ॥ [ङर्ড়् १.२३४.३३] इति ।

॥ ३.२२ ॥ श्रीमैत्रेयो विदुरम् ॥ १२४ ॥

[१२५]

अथ पापघ्नत्वे तावदप्रारब्धपापघ्नत्वमाह

यथाग्निः सुसमृद्धार्चिः करोत्येधांसि भस्मसात् ।
तथा मद्विषया भक्तिरुद्धवैनांसि कृत्स्नशः ॥ [भागवतम् ११.१४.१९]

टीका च पादाद्य्अर्थं प्रज्वालितोऽग्निर्यथा काष्ठानि भस्मीकरोति तथा
रागादिनापि कथञ्चिन्मद्विषया भक्तिः समस्तपापानीति । भगवानपि
स्वभक्तिमहिमाश्चर्येण सम्बोधयति अहो उद्धव । विस्मयं शृणु इत्य्
एषा ।

पाद्मपातालखण्डस्थवैशाख्यमाहात्म्ये च

यथाग्निः सुसमृद्धार्चिः करोत्येधांसि भस्मसात् ।
पापानि भगवद्भक्तिस्तथा दहति तत्क्षणात् ॥ [ড়द्मড়् ५.८५.३१] इति ।

यद्यî हरिरित्यवशेनापि पुमान्नार्हति यातनार्थम् [भागवतम् ६.२.१५] इत्यादौ
लिङ्गादिप्रत्ययविरहेऽपि पूषाप्रविष्टभागो यदाग्नेयाष्टाकपालो
भवति इत्यादिवद्विधित्वमस्ति ।

तस्माद्भारत सर्वात्मा भगवानीश्वरो हरिः ।
श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चेच्छताभयम् ॥ [भागवतम् २.१०.५]
इत्यादौ साक्षाद्विधित्वश्रवणमप्यस्ति । तस्मादिति हेतुर्निर्देशश्
चाकरणे दोषं क्रोडीकरोति । तथापि विधिसापेक्षेयं न भवतीति
तथाभूतस्वभावाग्निलक्षणवस्तुदृष्टान्तेन सूचितम् । अतएव यान्
आस्थाय नरो राजन् [भागवतम् ११.२.३३] इत्यादिकमपि दृश्यते । सुसमिद्धार्चिरित्य्
अनेन साधनान्तरसापेक्षत्वमशक्यसाध्यत्वं विलम्बितत्वं च
निराकृतम् । तदेव व्यक्तं पाद्मात्तत्क्षणादिति ।

॥ ११.१४ ॥ श्रीभगवान् ॥ १२५ ॥
(पगे ५७)

[१२६]

तथा च

केचित्केवलया भक्त्या वासुदेवपरायणाः ।
अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्करः ॥ [भागवतम् ६.१.१५]

टीका च केचिदित्यनेनैवम्भूता भक्तिप्राधाना विरला इति दर्शयति ।
केवलया तपादिनिरपेक्षया वासुदेवपारायणा इति नाधिकारिविशेषणम्
एतत्किन्तु अन्येषामश्रद्धया तत्र प्रवृत्तेरर्थात्तेष्वेव पर्यवसानाद्
अनुवादमात्रमित्येषा ।

अत्र भास्करोऽपि केवलेन स्वरश्मिना स्वस्व्>अवत एव नीहारं निःशेषं
धुनोति । न तदर्थं प्रयत्नतस्तथा वासुदेवपरायणा अपि भक्त्येति
ज्ञेयम् ।

[१२७]

किं च

न तथा ह्यघवान् राजन् पूयेत तपादिभिः ।
यथा कृष्णार्पितप्राणस्तत्पुरुषनिषेवया ॥ [भागवतम् ६.१.१६]

टीका च एतच्च ज्ञानमार्गादपि श्रेष्ठमित्याह न तथा पूयेत
शुध्येत् । तत्पुरुषनिषेधया कृष्णे अर्पिताः प्राणा येन इत्येषा ।

अत्र प्रायश्चित्तं विमर्शनम् [भागवतम् ६.१.१०] इति ज्ञानस्यापि प्रायश्चित्तत्वं
पूर्वमुक्तम् । अतएव टीकोक्तमेतच्चेत्यादि । तदेवमृतम्भरध्यान
निवारिताघः [भागवतम् ६.१३.१३] इत्याद्य्उक्त्या भगवद्ध्याननिवारितवृत्र
हत्यापापस्येन्द्रस्य तं च [भागवतम् ६.१३.१४] इत्यादौ पुनरश्वमेध
विधानं साधारणलोके पापप्रसिद्धेरेव निवारणार्थमिति ज्ञेयम् ।
ननु कथं तदानीमप्याविर्भूतभगवत्प्रेमत्वात्परम
भागवतस्य वृत्रस्य हत्या भगवद्आराधनेनापि गच्छतु । महद्
अपराधमात्रमपि भोगैकनाश्यं तत्प्रसादनाश्यं वेति मतम् ।
उच्यते, तथापि भगवत्प्रेरणया तत्र प्रवृत्तस्येन्द्रस्य न तादृशो दोष इति
तद्आराधनमेवात्र प्रायश्चित्तं विहितम् । श्रीभगवतापि तद्आसुर
भवनिवारणायैव तथोपदिष्टमित्यनवद्यम् ।

॥ ६.१ ॥ श्रीशुकः ॥ १२६१२७ ॥

[१२८]

क्वचित्प्रारब्धपापहार्त्वमप्याह द्वाभ्याम्

यन्नामधेयश्रवणानुकीर्तनाद्
यत्प्रह्वणाद्यत्स्मरणादपि क्वचित् ।
श्वादोऽपि सद्यः सवनाय कल्पते
कुतः पुनस्ते भगवन्नु दर्शनात् ॥

अहो बत श्वपचोऽतो गरीयान्
यज्जिह्वाग्रे वर्तते नाम तुभ्यम् ।
तेपुस्तपस्ते जुहुवुः सस्नुरार्या
ब्रह्मानूचुर्नाम गृणन्ति ये ते ॥ [भागवतम् ३.३३.६७]

श्वादत्वमत्र श्वभक्षकजातिविशेषत्वमेव श्वानमत्तीति निरुक्तेर्
वर्तमानप्रयोगात्क्रव्यादवत्तच्छीलत्वप्राप्तेः । कादाचित्कभक्षण्
प्रायश्चित्तविवक्षायां त्वतीतः प्रयोगः क्रियेत । रूढिर्योगमपहरतीति
न्यायेन च तद्विरुध्यते । अतएव श्वपच इति तैर्व्याख्यातम् । सवनं चात्र
सोमयाग उच्यते । ततश्चास्य भगवन्नामश्रवणाद्य्एकतरात्सद्य एव
सवनयोग्यताप्रतिकूलदुर्जातित्वप्रारम्भकप्रारब्धपापनाशः
प्रतिपद्यते । उद्धवं प्रति भगवता च तस्मात्भक्तिः (पगे ५८) पुनाति
मन्निष्ठा श्वपाकानपि सम्भवात्[भागवतम् ११.१४.२०] इति कैमुत्यार्थमेव
प्रोक्तमित्यायाति । किन्तु योग्यत्वमत्र श्वपचत्वप्रापकप्रारब्धपाप
विच्छिन्नत्वमात्रमुच्यते । सवनार्थं तु गुणान्तराधानमपेक्षत
एव । ब्राह्मणकुमाराणां शौक्रे जन्मनि योग्यत्वे सत्यपि सावित्रदैक्स्य
जन्मापेक्षावत् । सावित्रादिजन्मनि तु सद्आचारप्राप्तेरिति सवने प्रवृत्तिर्
न युज्यते । तस्मात्पूज्यत्वमात्रे तात्पर्यमित्यभिप्रेत्य टीकाकृद्भिरप्य्
उक्तमनेन पूज्यत्वं लक्ष्यत इति । तथापि जातिदोषहरत्वेन प्रारब्ध
हारित्वं तु व्यक्तमेवायातम् ।

टीका च तदुपपादयति अहो बत आश्चर्ये, यस्य जिह्वाग्रे तव नाम वर्तते
श्वपचोऽपि । अतस्तस्मादेव हेतोर्गरीयान् यद्यस्माद्वर्तत इति वा कुत इत्य्
अत आह त एव तपस्तेपुरित्यादिका । त्वन्नामकीर्तने तपाद्य्अन्तर्
भूतं ततस्ते पुण्यतमा इत्यन्ता ।

उद्धवं प्रति श्रीभगवता चोक्तं भक्तिः पुनाति मन्निष्ठा श्वपाकान्
अपि सम्भवात्[भागवतम् ११.१४.२०] इति । अत्र जातिदोषहरत्वेन प्रारब्धहारित्वं
स्पष्टम् । एवं प्रारब्धहेतुव्याध्य्आदिहरत्वं च स्कान्दे

आधयो व्याधयो यस्य स्मरणान्नामकीर्तनात् ।
तदेव विलयं यान्ति तमनन्तं नमाम्यहम् ॥ इति ।

उक्तं च नामकौमुद्याम् प्रारब्धपापहरत्वं च क्वचिद्
उपासकेच्छावशातिति ।

॥ ३.३३ ॥ श्रीदेवहूतिः ॥ १२८ ॥

[१२९]

तद्वासनाहारित्वमाह

तैस्तान्यघानि पूयन्ते तपोदानव्रतादिभिः ।
नाधर्मजं तद्धृदयं तदपीशाङ्घ्रिसेवया ॥ [भागवतम् ६.२०.१७]

अधर्माज्जातं तेषामघानां हृदयं संस्काराख्येन शुद्ध्यति तद्
अपीशाङ्घ्रिसेवया शुद्ध्यतीत्यर्थः । पाद्मे च

अप्रारब्धफलं पापं कूटं बीजं फलोन्मुखम् ।
क्रमेणैव प्रलीयेत विष्णुभक्तिरतात्मनाम् ॥ इति ।

अप्रारब्धफलं वक्ष्यमाणेभ्योऽन्यत् । कूटं बीजत्वोन्मुखं बीजं
प्रारब्धोन्मुखं फलोन्मुखं प्रारब्धमित्यर्थः ।

॥ ६.२ ॥ श्रीविष्णुदूता यमदूतान् ॥ १२९ ॥

[१३०]

अविद्याहरत्वमाह
त्वं प्रत्यग्आत्मनि तदा भगवत्यनन्त
आनन्दमात्र उपपन्नसमस्तशक्तौ ।
भक्तिं विधाय परमां शनकैरविद्या
ग्रन्थिं विभेत्स्यसि ममाहमिति प्ररूढम् ॥ [भागवतम् ४.११.३०]

तथा च पाद्मे

कृतानुयात्राविद्याभिर्हरिभक्तिरनुत्तमा ।
अविद्यां निर्दहत्याशु दावज्वालेव पन्नगीम् ॥ इति ।

॥ ४.११ ॥ श्रीमनुर्ध्रुवम् ॥ १३० ॥

[१३१]

सर्वप्रीणनहेतुत्वमुक्तम् यथा तरोर्मूलनिषेचनेन [भागवतम् ४.३१.१२] इत्य्
आदिना । तथाह सुरुचिस्तं समुत्थाप्यपादावनतमर्भकम् ।
परिष्वज्याह जीवेति बाष्पगद्गदया गिरा । (पगे ५९)

यस्य प्रसन्नो भगवान् गुणैर्मैत्र्य्आदिभिर्हरिः ।
तस्मै नमन्ति भूतानि निम्नमाप इव स्वयम् ॥ [भागवतम् ४.९.४७]

सुरुचिर्निजविद्वेषिणी मातुः सपत्न्यपि त॰ भगवद्आराधनत आयातं
श्रीध्रुवम् । यथा पाद्मे

येनार्चितो हरिस्तेन तर्पितानि जगन्त्यपि ।
रज्यन्ति जन्तवस्तत्र जन्गमाः स्थावरा अपि ॥ इति ।

॥ ४.९ ॥ श्रीमैत्रेयः ॥ १३१ ॥

[१३२]

ज्ञानवैराग्यादिसद्गुणहेतुत्वमुक्तं यस्यास्ति भक्तिर्भगवत्य्
अकिञ्चना [भागवतम् ५.१८.१२] इत्यादिना । स्वर्गापवर्गभगवद्धामादि
सर्वानन्दहेतुत्वमप्युक्तं यत्कर्मभिर्यत्तपसा [भागवतम् ११.२०.३२] इत्य्
आदिना । स्वतः परमसुखदानेन कर्मादिज्ञानानन्तसाधनसाध्य
वस्तूनां हेयत्वकारितामाह

न पारमेष्ठ्यं न महेन्द्रधिष्ण्यं
न सार्वभौमं न रसाधिपत्यम् ।
न योगसिद्धीरपुनर्भवं वा
मय्यर्पितात्मेच्छति मद्विनान्यत् ॥ [भागवतम् ११.१४.१४]

रसाधिपत्यं पातालादिस्वाम्यम् । अपुनर्भवं ब्रह्मकैवल्यरूपं
मोक्षम् । किं बहुना यत्किञ्चिदपि साध्यजातं तत्सर्वं नेच्छत्येव,
किन्तु मद्मां विना तादृशभक्तिसाध्यं मामेव सर्व
पुरुषार्थाधिकमिच्छतीत्यर्थः । मय्यर्पितात्मा कृतात्मनिवेदनः ।

॥ ११.१४ ॥ श्रीभगवान् ॥ १३२ ॥
[१३३]

अथ साक्षाद्भक्तेर्निर्गुणत्वं वक्तुं भगवद्अर्पितकर्मारभ्य
सर्वेषां कर्मणां तावत्सगुणत्वमाहैकेन

मद्अर्पणं निष्फलं वा सात्त्विकं निजकर्म तत् ।
राजसं फलसङ्कल्पं हिंसाप्रायादि तामसम् ॥ [भागवतम् ११.२५.२३]

मयि अर्पणं यस्य मद्अर्पितमित्यर्थः । निष्फलं निष्कामम् । फलं
सङ्कल्प्यते यस्मिन् तत् । आदिशब्दाद्दम्भमात्सर्यादिभिः कृतम् ।

[१३४]

अथानुष्ठानान्तराणां त्रिगुणान्तर्गतत्वं वदन् चतुर्थकक्षायां
साक्षाद्भक्तेर्निर्गुणत्वमाह चतुःषु

कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं तु यत् ।
प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् ॥ [भागवतम् ११.२५.२३]

प्राकृतं बालमूकादिज्ञानतुल्यम् । वैकल्पिकं देहादिविषयं यत्तद्रजो
राजसम् । केवलस्य निर्विशेषस्य ब्रह्मणः शुद्धजीवभेदेन ज्ञानं
कैवल्यं, त्वत्पदार्थमात्रज्ञानस्य केवलत्वानुपपत्तिः । तत्पदार्थ
ज्ञानसापेक्षत्वात् । सत्त्वयुक्ते हि चित्ते प्रथमतः शुद्धं सूक्स्मं जीव
चैतन्यं प्रकाशते । ततश्चिद्एकाकारत्वाभेदेन तस्मिन् शुद्धं पूर्णं
ब्रह्मचैतन्यमप्यनुभूयते । ततः सत्त्वगुणस्यैव तत्र कारणता
प्राचुर्यात्सात्त्विकत्वम् । तथा च श्रीगीतोपनिषदः सत्त्वात्सञ्जायते
ज्ञानं [गीता १४.१७] इति । भगवज्ज्ञानस्य तु

देवानां शुद्धसत्त्वानामृषीणां चामलात्मनाम् ।
भक्तिर्मुकुन्दचरणे न प्रायेणोपजायते ॥ [भागवतम् ६.१४.२]
मुक्तानामपि सिद्धानां नारायणपरायणः
सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥ [भागवतम् ६.१४.५]
(पगे ६०)
इत्याद्य्उक्त्या सत्त्वादिसद्भावेऽप्यभावात्

रजस्तमःस्वभावस्य ब्रह्मन् वृत्रस्य पाप्मनः ।
नारायणे भगवति कथमासीद्दृढा मतिः ॥ [भागवतम् ६.१४.१]

इत्य्उक्त्या तद्अभावेऽपि सद्भावान्न तत्कारणत्वम् । किन्तु तद्उत्तरत्वेन
तस्य पूर्वजन्मनि नारदादिसङ्गवर्णनया ।

नैषां मतिस्तावदुरुक्रमाङ्घ्रिं
स्पृशत्यनर्थापगमो यद्अर्थः ।
महीयसां पादरजोऽभिषेकं
निष्किञ्चनानां न वृणीत यावत् ॥ [भागवतम् ७.५.३२]

इत्युक्त्या च भगवत्कृपापरिमलपात्रभूतस्य श्रीमतो महतः सङ्ग
एव कारणम् । तत्सङ्गश्च
तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् ।
भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ [भागवतम् १.१८.१३, ४.३०.३३]

इत्युक्त्या निर्गुणावस्थातोऽप्यधिकत्वात्परमनिर्गुण एव । स तमस्य च
प्रथमे च समः प्रियः सुहृद्ब्रह्मन् [भागवतम् ७.१.१] इत्यादौ सगुणे
देवादौ तस्य कृपा वास्तवी न भवति, किन्तु श्रीमत्प्रह्लादादिष्वेवेति
प्रतिपादनान्महतां निर्गुणत्वाभिव्यक्त्या सत्सङ्गस्यापि निर्गुणत्वं
व्यक्तम् । तथा भक्तेरपि गुणसङ्गनिर्धूननानन्तरं चानुवृत्तिः
श्रूयते । यदुक्तमुद्धवं प्रति श्रीभगवता

तस्माद्देहमिमं लब्ध्वा ज्ञानविज्ञानसम्भवम् ।
गुणसङ्गं विनिर्धूय मां भजन्तु विचक्षणाः ॥ [भागवतम् ११.२५.३३] इति ।

परमेश्वरज्ञानस्य नैर्गुण्यहेतुत्वेन निर्गुणत्वोक्तिस्तु लक्षणामय
कष्टकल्पना । तथा कैवल्यज्ञानस्यापि नैर्गुण्यहेतुत्वाद्
अवैशिष्ट्येनोदाहरणभेदाप्रवृत्तिश्च स्यात् । तस्मात्स्वत एव निर्गुणं
भगवज्ज्ञानम् । अतएव

सात्त्विकं सुखमात्मोत्थं विषयोत्थं तु राजसम् ।
तामसं मोहदैन्योत्थं निर्गुणं मद्अपाश्रयम् ॥ [भागवतम् ११.२५.२९]

इत्यत्र तत्सुखस्यापि निर्गुणत्वं वक्ष्यते । श्रवणादिलक्षणक्रिया
रूपाया अपि भक्तेः शुश्रूषोः श्रद्दधानस्य वासुदेवकथारुचिः स्यान्
महत्सेवया [भागवतम् १.२.१३] इत्युक्त्या तद्एकनिदानत्वेन निर्गुणत्वमेव ।

ननु
मदीयं महिमानं च परं ब्रह्मेति शब्दितम् ।
वेत्स्यस्यनुगृहीतं मे सम्प्रश्नैर्विवृतं हृदि ॥ [भागवतम् ८.२४.३८] इति ।

श्रीमत्स्यदेववचनेन ब्रह्मज्ञानमपि श्रीभगवत्प्रसादोत्थं
श्रूयते, तत्कथं तस्य सगुणत्वम् ? उच्यते ब्रह्मज्ञानं द्विविधानां
जायते । तत्र भगवद्उपासकानामानुषङ्गिकत्वेन ब्रह्मोपासकानां
स्वतन्त्रत्वेन । भगवद्उपासकैस्तु भगवच्छक्तिरूपया भक्त्या
किञ्चिद्भेदेनैव गृह्यते तच्च ब्रह्मभूतः प्रसन्नात्मा [गीता १८.५४] इत्य्
आदिश्रीगीतोक्तानुसारेण आत्मारामाश्च (पगे ६१) मुनयः [भागवतम् १.७.१०] इत्य्
आद्य्अनुसारेण च भगवतः पराख्यभक्तिपरिकरो भवति ।
ब्रह्मोपासकैस्तु पूर्ववदभेदेनैव गृह्यते । तत्फलस्य नात्यन्तिकं
विगणयत्यपि ते प्रसादम् [भागवतम् ६.१५.४८] इत्य्उक्तदिशा परैरात्यन्तिकत्वेन
मतस्यापि परमविद्वद्भिरादृतत्वात् । तथा भक्तिविरुद्धत्वेन
स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः [भागवतम् ६.१७.२३] इत्युक्त्या
नरकवदपवर्गस्यापि हेयत्वात्प्रसादाभास एवासौ । स्वमत्य्अनुसारेण
प्रसादतया गृह्यमाणस्तन्मतिकल्पितत्वात्सगुण एव । ततः कैवल्य
ज्ञानमपि तथा । विशेषतस्तस्य सगुणसम्बन्धेन जन्माङ्गीकृतमस्ति ।


ननु अन्तर्बहिश्च करणं पुरुषस्य गुणमयमेव । तद्उद्भवयोर्
भक्तिरूपयोः कथं निर्गुणत्वम् ? उच्यते, ज्ञानशक्तिः क्रियाशक्तिर्वा न
तावज्जडस्य त्रैगुण्यस्य धर्मे घटस्येव । न च चिद्रूपस्यापि जीवस्य
ईश्वराधीनशक्तित्वेनामुख्यत्वाद्देवताविष्टपुरुषस्येवातः
परमात्मचैतन्यस्येइवेत्यायातम् । तथोक्तं

देहेन्द्रियप्राणमनोधियोऽमी
यद्अंशविद्धाः प्रचरन्ति कर्मसु । [भागवतम् ६.१६.२४] इति ।

तथा च श्रुतिः प्राणस्य प्राण उत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं
मनसो मन इति न ऋते तत्क्रियते किं च नारे इत्यादिका ।

[श्रोत्रस्य श्रोत्रं मनसो मनो यद्
वाचो ह वाचं स उ प्राणस्य प्राणः ।
चक्षुषश्चक्षुरतिमुच्य धीराः
प्रेत्यास्माल्लोकादमृता भवन्ति ॥ Kएनऊ १.२॥]

तदेवं सति त्रैगुण्यकार्यप्राधान्येन भवन्त्यौ ते
गुणमयत्वेनोच्येते । परमेश्वरप्राधान्येन तु स्वतो गुणातीते एव ते । तद्
उक्तं देवामृतपानाध्याये श्रीशुकेन

यद्युज्यतेऽसुवसुकर्ममनोवचोभिर्
देहात्मजादिषु नृभिस्तदसत्पृथक्त्वात् ।
तैरेव सद्भवति यत्क्रियतेऽपृथक्त्वात्
सर्वस्य तद्भवति मूलनिषेचनं यत् ॥ [भागवतम् ८.९.२९] इति ।

पृथक्त्वात्परमात्मेतराश्रयत्वात् । अपृथक्त्वात्तद्एकाश्रयत्वादित्य्
अर्थः । अतो युक्तमेव ज्ञानक्रियात्मिकाया हरिभक्तेर्निर्गुणत्वम् ।
विशेषतस्तस्य भक्तेर्गुणसम्बन्धेन जन्माभावश्चाङ्गीकृत इति न तु
ब्रह्मज्ञानस्येव गुणसम्बन्धेन जन्मभाव इति । ततोऽसौ भक्तिस्
तस्यापि प्रीणनत्वादिगुणैरुदाहरिष्यते । यत्तु श्रीकपिलदेवेन भक्तेर्
अपि निर्गुणसगुणावस्थाः कथितास्ताः पुनः पुरुषान्तःकरणगुणा एव
तस्यामुपचर्यन्त इति स्थितम् ।

तदेवमभिप्रेत्य ज्ञानरूपाया भक्तेर्निर्गुणत्वमुक्त्वा क्रियारूपाया
व्याचष्टे । तत्राप्यस्तु तावत्श्रवणकीर्तनादिरूपाया भगवत्
सम्बन्धेन वासमात्ररूपाया आह

वनं तु सात्त्विको वासो ग्रामो राजस उच्यते ।
तामसं द्यूतसदनं मन्निकेतं तु निर्गुणम् ॥ [भागवतम् ११.१५.२४]

वनं वास इति तत्सम्बन्धिनी वसनक्रियेत्यर्थो वानप्रस्थानामिति
ज्ञेयम् । एवं ग्राम्य इति गृहस्थानाम् । तामसमिति दुराचाराणाम् । द्यूत
सदनमित्युपलक्षणम् । मन्निकेतमिति (पगे ६२) मत्सेवापराणामिति
च । वनादीनां वासेन सह आयुर्घृतमितिवदेकाधिकरणत्वम् । वनस्य
वृक्षषण्डरूपस्य रजस्तमःप्राधान्यात् । अतएव विव्क्तत्वलक्षण
तदीयसात्त्विकगुणस्यापि तद्युगलमिश्रत्वेन गौणत्वम् । वासक्रियायास्
तु सत्त्वोपपन्नत्वात्तद्वर्धनत्वाच्च सात्त्विकत्वे मुख्यत्वमिति तस्या
एवाभिधेयत्वमुचितम् । अतएव ग्राम्य इति तद्धितान्त एव पठितः । एवं
द्यूतसदनमित्यत्र च वासक्रियैव विवक्षिता । मन्निकेतमित्यत्रापि ।
किन्तु भगवत्सम्बन्धमाहात्म्येन निकेतस्यापि निर्गुणत्वं भवेत्
स्पर्शमणिन्यायेन तादृशत्वं तु तादृशभक्तिचक्षुर्भिर्
एवोपलब्धव्यम् । दिविष्ठास्तत्र पश्यन्ति सर्वानेव चतुर्भुजानितिवत् ।
एवमेव टीका च भगवन्निकेतं तु साक्षात्तद्आविर्भावान्निर्गुणं
स्थानमित्येषा ।

[१३६]

एवं वासमात्रस्य तादृशत्वमुक्त्वा सर्वासामेव तत्क्रियाणां तादृशत्वम्
आह

सात्त्विकः कारकोऽसङ्गी रागान्धो राजसः स्मृतः ।
तामसः स्मृतिविभ्रष्टो निर्गुणो मद्अपाश्रयः ॥ [भागवतम् ११.२५.२६]

अत्र च क्रियायामेव तात्पर्यं न तद्आश्रिते द्रव्ये । सात्त्विककारकस्य
शरीरादिकं हि गुणत्रयपरिणतमेव ।

[१३७]

तदेवं क्रियामात्रस्य तादृशत्वमुक्त्वा तत्प्रवृत्तिहेतुभूतायाः
श्रद्धाया अप्याह

सात्त्विक्याध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी ।
तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा ॥ [भागवतम् ११.२५.२७]

अधर्मोऽत्र परधर्मः । अन्यत्पूर्ववत् ।

॥ ११.२५ ॥ श्रीभगवान् ॥ १३३१३७ ॥

[१३८]

अत आह धर्मं भागवतं शुद्धं त्रैविद्यं च गुणाश्रयम् । [भागवतम् ६.२.२४]
शुद्धं निर्गुणमिति । त्रैविद्यं वेदत्रयप्रतिपाद्यं गुणाश्रयमिति ।

टीका च वेदशब्देनात्र कर्मकाण्डमेवोच्यते एवं त्रयीधर्मम्
[गीता ९.२१] इत्यादेः ।

॥ ६.२ ॥ श्रीशुकः ॥ १३८ ॥

[१३९]

अतएव भक्तेः श्रीभगवत्स्वरूपशक्तिबोधकत्वं स्वयम्प्रकाशत्वम्
आह

यज्ञाय धर्मपतये विधिनैपुणाय
योगाय साङ्ख्यशिरसे प्रकृतीश्वराय ।
नारायणाय हरये नम इत्युदारं
हास्यन्मृगत्वमपि यः समुदाजहार ॥ [भागवतम् ५.१४.४५]
य आर्षभेयो भरतो मरणसमये तत्रापि मृगशरीरे तद्वचन
जन्मात्यन्तासम्भावात्स्वप्रकाशत्वमेव तस्याः कीर्तनलक्षणाया
भक्तेः सिध्यति । एवं गजेन्द्रेऽपि ज्ञेयम् ॥

॥ ५.१४ ॥ श्रीशुकः ॥ १३९ ॥

[१४०]

परमसुखरूपत्वं च दृश्यते । तत्र साधनदशायामतो वै कवयो
नित्यम् [भागवतम् १.२.१२] इत्यादौ कर्मण्यस्मिन्ननाश्वासे [भागवतम् १.१८.१२] इत्यादौ
च तद्रूपत्वाभिव्यक्तिर्दर्शितैव सिद्धदशायां तु सुतरां
प्रकटीभवति । यथा

(पगे ६३)

मत्सेवया प्रतीतं ते सालोक्यादिचतुष्टयम् ।
नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत्कालविप्लुतम् ॥ [भागवतम् ९.४.६७]

अत्रान्यस्य कालविप्लुतत्वमिति सेवायास्तद्अभावे निर्गुणित्वं सिद्धम् ।
अकालविप्लुतसालोक्यादिभ्योऽतिशये किमुतेति ।

॥ ९.४ ॥ श्रीविष्णुर्दुर्वाससम् ॥ १४० ॥

[१४१]

श्रीभगवद्विषयकरतिप्रदत्वमुक्तम् । एवं निर्जितषड्वर्गैः क्रियते
भक्तिरीश्वरे [भागवतम् ७.७.३३] इत्यादिना । यत्तु अस्त्वेवमङ्ग भगवान्
भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् [भागवतम् ५.६.१८]
इत्युक्त्यापि तद्रतिर्न प्राप्यत इति शङ्क्यते तत्खल्वविवेकादेव । कर्हिचिद्
इति भक्तियोगाख्यतद्रतिपुरुषार्थतायां शैथिल्ये सत्येवेत्यर्थलाभात्
कर्हिचिदप्यनुक्तत्वातसाकल्ये तु चिच्चनौ इत्यमरकोषाच्च । तथा यद्य्
अतिचिरमावृत्तिः स्यात्तदा रतिमपि ददाति सत्यं दिशत्यर्थितमर्थितो
नॄणाम् [भागवतम् ५.१९.२४] इत्यादेरिति च कर्हिचित्पदेन गम्यते । भक्तिविषयक
भगवत्प्रीत्य्एकहेतुत्वमप्युदाहृतम् । नालं द्विजत्वं देवत्वम् [भागवतम्
७.७.४३] इत्यादि ।

तथा चाह

मन्ये धनाभिजनरूपतपःश्रुतौजस्
तेजःप्रभावबलपौरुषबुद्धियोगाः ।
नाराधनाय हि भवन्ति परस्य पुंसो
भक्त्या तुतोष भगवान् गजयूथपाय ॥ [भागवतम् ७.९.९]

अभिजनः सत्कुलजन्म । बुद्धिर्ज्ञानयोगः । योगोऽष्टाङ्गः ॥

॥ ७.९ ॥ श्रीप्रह्लादः श्रीनृसिंहदेवम् ॥ १४१ ॥

[१४२]
ननु निरतिशयनित्यानन्दरूपस्य भगवतः कथं तया सुखमुत्पद्येत
निरतिशयत्वनित्यत्वयोर्विरोधात् । उच्यते शास्त्रे खलु निरतिशयानन्दत्वं
नित्यत्वं च भगवतः श्रूयते । भक्तेरपि तथा तत्प्रीतिहेतुत्वं श्रूयते ।
तत एवं गम्यते तस्य परमानन्दैकरूपस्य स्वपरानन्दिनी स्वरूप
शक्तिर्या ह्लादिनी नाम्नी वर्तते प्रकाशवस्तुनः स्वपरप्रकाशन
शक्तिवत्परमवृत्तिरूपैवैषा । तां च भगवान् स्ववृन्दे निक्षिपन्नेव
नित्यं वर्तते । तत्सम्बन्धेन च स्वयमतितरां प्रीणातीति । अतएव तस्य
प्रीतिरूपस्यापि भक्तिप्रीणनीयत्वमाह

यत्प्रीणनाद्बर्हिषि देवतिर्यङ्
मनुष्यवीरुत्तृणमाविरिञ्चात् ।
प्रीयेत सद्यः स ह विश्वजीवः
प्रीतः स्वयं प्रीतिमगाद्गयस्य ॥ [भागवतम् ५.१५.१३]

विश्वबीजः सर्वजीवनहेतुः । देवादीनां द्वन्द्वैक्यम् । प्रीतिः सुख
रूपोऽपि ॥

॥ ५.१५ ॥ श्रीशुकः ॥ १४१ ॥

अतएव तथाभूतत्वेनात्मारामस्य पूर्णकामस्यापि तस्य क्षुद्रगुणवस्त्व्
अपि कल्पत इति दृष्टानेनाह
(पगे ६४)

तत्रोपनीतबलयो रवेर्दीपमिवादृताः
आत्मारामं पूर्णकामं निजलाभेन नित्यदा ।
प्रीत्य्उत्फुल्लमुखाः प्रोचुर्हर्षगद्गदया गिरा
पितरं सर्वसुहृदमवितारमिवार्भकाः ॥ [भागवतम् १.११.४५]

अत्र श्रीद्वारकायां रवेरुपहाररूपं दीपमादृतवन्तो जना इवेत्य्
अर्थः । एवं स्तुत्यादिकमपि तत्प्रीणनतामर्हतीत्याह प्रीत्येति । पितरम्
अर्भका इवेति दृष्टान्तः । तस्य प्रीतावसाधारणगुणविशेषमप्याह
सर्वसुहृदमिति । सर्वसुहृत्त्वे लिङ्गमवितारमिति । तथा आत्माराम
पूर्णकामत्वेऽपि तादृशस्य स्वसम्बन्धाभिमानिप्रीतिमत्पुत्रादिषु
प्रीतिविशेषोदयो यथा दृश्यते तेषु तं प्रीतिमन्तमित्यर्थः । एवं
कल्पतरुदृष्टान्तेऽपि भगवतो भक्तिविषयिका कृपा यथार्थम्
एवोपपद्यते ये खलु स्हजतत्प्रीतिमेवात्मनि प्रार्थयमाना भजन्ते
तेभ्यस्तद्दानयाथार्थ्यअस्यावश्यकत्वात् । तस्मादस्त्येवानन्द
रूपस्यापि भक्तावानन्दोल्लास इति ।

॥ १.११ ॥ श्रीसूतः ॥ १४३ ॥

[१४४]

एवं भक्तिरूपायास्तच्छक्तेर्जीवेऽभिव्यक्तौ भगवानेव कारणम् । तद्
इन्द्रियादिप्रवृत्तऔ स च एवेति । तस्मिंस्तया जीवस्योपकाराभासत्वमेव ।
तथापि भक्तानुरज्यदात्मत्वे भगवतः स्वकृपाप्राबल्यमेव कारणम्
इति वदन् पूर्वार्थमेव साधयति

किं वर्णये तव विभो यद्उदीरितोऽसुः
संस्पन्दते तमनु वाङ्मनेन्द्रियाणि ।
स्पन्दन्ति वै तनुभृतामजशर्वयोश्च
स्वस्याप्यथापि भजतामसि भावबन्धुः ॥ [भागवतम् १२.८.४०]

हे विभो । तव किमहं वर्णये । त्वत्कृपालुतायाः कियन्तमंशं
वर्णयेयमित्यर्थः । यतो येन त्वयैव उदीरितः प्रेरितोऽसुः प्राणः
संस्पन्दन्ते प्रवर्तते, तमसुमनु च वाग्आदयः स्पन्दन्ति तत्र हेतुर्
वै अन्वयव्यतिरेकाभ्यां श्रोत्रस्य श्रोत्रम् [Kएनऊ १.२] इत्य्आदिश्रुतिभ्यश्
च तत्प्रसिद्ध इत्यर्थः । न केवलं प्राकृतानां तनुभृतां किन्तु अज
शर्वयोश्च । अतः स्वस्य ममापि तथैव । एवं सत्यपि न क्वचिदपि कस्यापि
स्वातन्त्र्यम् । तथापि दारुयन्त्रवत्प्रवर्तितैरपि वाग्आदिभिर्भजतां
पुंसां भावेन स्वदत्तयैव भक्त्या बन्धुरसीति ।

॥ १२.८ ॥ मार्कण्डेयः श्रीनरनारायणौ ॥ १४४ ॥

[१४५]

श्रीभगवद्अनुभवकर्तृत्वेऽनन्यहेतुत्वमाह

शृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः
स्मरन्ति नन्दन्ति तवेहितं जनाः ।
त एव पश्यन्त्यचिरेण तावकं
भवप्रवाहोपरमं पदाम्बुजम् ॥ [भागवतम् १.८.३६]

स्पष्टम् ॥ १.८ ॥ श्रीकुन्ती श्रीभगवन्तम् ॥ १४५ ॥

[१४६]

श्रीभगवत्प्रापकत्वमाह

भक्त्योद्धवानपायिन्या सर्वलोकमहेश्वरम् ।
सर्वोत्पत्त्य्अप्ययं ब्रह्म कारणं मोपयाति सः ॥ [भागवतम् ११.१८.४५]

(पगे ६५) टीका च महेश्वरत्वे हेतुः सर्वोत्पत्त्य्अप्ययं सर्वस्योत्पत्त्य्
अप्ययौ यस्मात्तम् । अतएव तत्कारणं मां ब्रह्मस्वरूपं वैकुण्ठ
निवासिनम् । यद्वा ब्रह्मणो वेदस्य कारणं मामुपयाति सामीप्येन
प्राप्नोति इत्येषा । श्रीगीतासु च पुरुषः स परः पार्थ भक्त्या लभ्यस्त्व्
अनन्यया [गीता ८.२२] इति ।

॥ ११.१८ ॥ श्रीभगवान् ॥ १४६ ॥

[१४७]

तथा मनसोऽप्यगोचरफलदाने श्रीध्रुवचरितं प्रमाणं परम
भक्तिसंवलितस्वलोकदानात् । तद्वशीकारित्वं तूदाहृतं न साधयति
मां योगो [भागवतम् ११.१४.२०] इत्यादि । तथा तत्पद्यान्ते भक्त्याहमेकया
ग्राह्यः श्रद्धयात्मा प्रियः सताम् [भागवतम् ११.१४.२१] इति ।
अत्रैव विवेचनीयम् । यद्यप्यस्य वाक्यस्यैकादशचतुर्दशाध्याय
प्रकरणे साध्यसाधनभक्त्योरविविक्ततयैव महिमनिरूपणमिति
साधनपरत्वं दुर्निर्णेयं, तथापि फलभक्तिमहिमद्वारापि
साधनमहिमपरत्वमेव यत्रेदृशमपि फलं भवतीति । वदन्ति
कृष्ण श्रेयांसि [भागवतम् ११.१४.१] इत्यादिप्रश्नमारभ्य
साधनस्योपक्रान्तत्वात् । यथा यथात्मा परिमृज्यतेऽसौ मत्पुण्यगाथा
श्रवणाभिधानैः । [भागवतम् ११.१४.२६] इत्यादिना तस्यैवोपसंहृतत्वाच्च ।

विशेषस्तु तत्र बाध्यमानोऽपि मद्भक्तो [भागवतम् ११.१४.१८] इत्यादिकं धर्मः
सत्यदयोपेतः [भागवतम् ११.१४.२२] इत्य्आद्य्अन्ततदीयमुक्तप्रकरणं प्राय
साधनमहिमपरमेव । तत्र बाध्यमानोऽपि इति पद्यं साध्यभक्तौ
जातायां बाध्यमानत्वायोगात्

दधति सकृन्मनस्त्वयि य आत्मनि नित्यसुखे
न पुनरुपासते पुरुषसारहरावसथान् ॥ [भागवतम् १०.८७.३५] इत्युक्तेः ।

विषयाविष्टचित्तानां विष्ण्व्आवेशः सुदूरतः ।
वारुणीदिग्गतं वस्तु व्रजन्नैन्द्रीं किमाप्नुयात् ॥

इति विष्णुपुराणाच्च तन्महिमपरत्वेन गम्यते । अत्रैव तद्वक्ष्यते

कथं विना रोमहर्षं द्रवता चेतसा विना ।
विनानन्दाश्रुकलया शुध्येद्भक्त्या विनाशयः ॥ [भागवतम् ११.१४.२३] इत्यनेन,

मद्भक्तियुक्तो भुवनं पुनाति [भागवतम् ११.१४.२४] इति कैमुत्यवाक्येन च
साध्यभक्तेः संस्कारहारित्वम् । ततो विषया एव बाध्यमाना
भवन्तीति ।

अथ यथाग्निः सुसमृद्धार्चिः [भागवतम् ११.१४.१९] इति पद्यं नामाभासादेः
सर्वपापक्षयकारित्वप्रसिद्धेस्तत्परम् । अथ न साधयति मां योगः
इत्येतत्सार्धपद्यं योगादीनां साधनरूपाणां प्रतियोगित्वेन
निर्दिष्टत्वात्श्रद्धासहायत्वेन विधानाच्च तत्परम् । साध्यायां
श्रद्धोल्लेखः पुनर्उक्त इति । यद्यपि फलभक्तिद्वारैव तद्
वशीकारित्वं तस्यास्तथाप्यत्र साधकरूपाया मुख्यत्वेन प्रातत्वात्
तत्रैवोदाहृतम् ।

किं वा (पगे ६६)

अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो
मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् [भागवतम् ५.६.१८]

इति न्यायेन नावशः सन् प्रेमाणं ददातीति तस्या एव साक्षात्तद्गुणकत्वं
ज्ञेयम् । अथ धर्मः सत्यदयोपेतः [भागवतम् ११.१४.२१] इति पद्यं च धर्मादि
साधनप्रतियोगित्वेन निर्देशात् । साध्यभक्तेरेवान्यत्रापि तत्
फलतयोदाहृतत्वाच्च तत्परम् । यत्तु कथं विना [भागवतम् ११.१४.२२] इत्यादिकं
तच्च साधनभक्तिफलस्य शोधकत्वातिशयप्रतिपादनेन तत्परमिति ।
तस्मात्साध्वेव बाध्यमानोऽपि [भागवतम् ११.१४.१७] इत्यादिपद्यानि तत्प्रसङ्गे
दर्शितानि ।
॥ ११.१४ ॥ श्रीभगवान् ॥ १४७ ॥

[१४८]

तथास्तु तस्याः साक्षाद्भक्तेः परधर्मत्वादिकम् । भगवद्अर्पण
सिद्धतद्अनुगतिकस्य लौकिककर्मणोऽपि परधर्ममुदाहरिष्यते यो
यो मयि परे धर्मः [भागवतम् ११.२९.२१] इत्यादौ । तथा पापघ्नत्वादिकं
तस्याः श्रवणादिनापि भवतीत्युक्तं श्रुतोऽनुपठितो ध्यातः [भागवतम् ११.२.३]
इत्यादौ । पाद्मे माघमाहात्म्ये देवदूतवाक्यं च

प्राहास्मान् यमुनाभ्राता सादरं हि पुनः पुनः ।
भवद्भिर्वैष्णवस्त्याज्यो विष्णुं चेद्भजते नरः ॥
वैष्णवो यद्गृहे भुङ्क्ते येषां वैष्णवसङ्गतिः ।
तेऽपि वः परिहार्याः स्युस्तत्सङ्गहतकिल्बिषाः ॥ इति ।

बृहन्नारदीये यज्ञमाल्य्उपाख्यानान्ते

हरिभक्तिपराणां तु सङ्गिनां सङ्गमात्रतः ।
मुच्यते सर्वपापेभ्यो महापातकवानपि ॥ [णार्ড়् १.३६.६१] इति ।

ततः सुतरामेवेदमादिदेश

जिह्वा न वक्ति भगवद्गुणनामधेयं
चेतश्च न स्मरति तच्चरणारविन्दम् ।
कृष्णाय नो नमति यच्छिर एकदापि
तानानयध्वमसतोऽकृतविष्णुकृत्यान् ॥ [भागवतम् ६.३.२९]

आस्तां तावत्तानानयध्वमित्यादिकेनैतत्पूर्वद्वितीयपद्येनोक्तानां
मुकुन्दपादारविन्दविमुखानामानयनवार्ता । तथा ते देवसिद्धः
[भागवतम् ६.३.२७] इत्यादिकेन तत्पूर्वतृतीयपद्येनोक्तानां देवसिद्धपरिगीत
पवित्रगाथानां साधूनां समदृशां भगवत्पराणां निकटगमन
निषेधवार्तापि । यद्यस्य जिह्वापि श्रीभगवतो गुणं च नामधेयं
चैकदा जन्ममध्ये यदा कदाचिदपि न वक्ति । जिह्वाया अभावे चेतश्च
तच्चरणारविन्दमेकदापि न स्मरति । चेतसो विक्षिप्तत्वे शिरश्च कृष्णाय
कृष्णं लक्षीकृत्य न नमतीति । (पगे ६७)

शठेनापि नमस्कारं कुर्वतः शार्ङ्गधन्विने ।
शतजन्मार्जितं पापं तत्क्षणादेव नश्यति ॥

इति स्कान्दोक्तमहिमानं नमस्कारं न करोति तानानयध्वम् । तत्र हेतुर्
असतः । असत्त्वे हेतुरकृतविष्णुकृत्यान् । यथा स्कान्दे रेवाखण्डे श्री
ब्रह्मोक्तौ

स कर्ता सर्वधर्माणां भक्तो यस्तव केशव ।
स कर्ता सर्वपापानां यो न भक्तस्तवाच्युत ॥
पापं भवति धर्मोऽपि तवाभक्तैः कृतो हरे ।
निःशेषधर्मकर्ता वाप्यभक्तो नरके हरे ।
सदा तिष्ठति भक्तस्ते ब्रह्महापि विमुच्यते ॥
पाद्मे (?) च
मन्निमित्तं कृतं पापमपि क्षेमाय कल्पते ।
मामनादृत्य धर्मोऽपि पापं स्यान्मत्प्रभावतः ॥

युक्तं चैतत्श्रवणं कीर्तनं चास्य [भागवतम् ७.११.१०] इत्यादिना । मुख
बाहूरुपादेभ्यः [भागवतम् ११.५.२] इत्यादिना । सर्वविधिनिषेधाः स्युः इत्य्
आदिना च परमनित्यत्वादिप्रतिपादनात् । एषां कीर्तनादीनां त्रयाणामपि
सुकराणामभावे परेषां सुतरामेवाभावो भवेदिति सामान्येनैव
विष्णुकृत्यरहितत्वमुक्तम् । जिह्वादीनां करणभूतानामपि कर्तृत्वेन
निर्देशः पुरुषानिच्छयापि यथा कथञ्चित्कीर्तनादिकमादत्ते ।
चरणारविन्दमिति विशेषाङ्गनिर्देशः श्रीयमस्य भक्तिख्यापक एव न
तु तन्मात्रस्मरणनियामकः । अत्राभक्तानामानयनेन भक्तानाम्
आनयनमेव विधीयते । आनयनस्योत्सर्गसिद्धत्वात्वैवस्वतं
संयमनं प्रजानामिति श्रुतेः ।

सकृन्मनः कृष्णपदारविन्दयोर्
निवेशितं तद्गुणरागि यैरिह ।
न ते यमं पाशभृतश्च तद्भटान्
स्वप्नेऽपि पश्यन्ति हि चीर्णनिष्कृताः ॥ [भागवतम् ६.१.१९]

इत्यत्र तद्गुणरागीति विशेषणं तु तेषां तद्दृष्टिपथगमन
सामर्थ्यस्यापि घातकं तादृशतत्स्मरणस्य प्रभावविशेषमेव
बोधयतीति ज्ञेयम् । यथैव नारसिंहे

अहममरगणार्चितेन धात्रा
यम इति लोकहिताहिते नियुक्तः ।
हरिगुरुविमुखान् प्रशास्मि मर्त्यान्
हरिचरणप्रणतान्नमस्करोमि ॥ [णृसिंहড়् ९.२] इति ।

तथैवामृतसारोद्धारे स्कान्दवचनम्
न ब्रह्मा न शिवाग्नीन्द्रा नाहं नान्ये दिवौकसः ।
शक्तास्तु निग्रहं कर्तुं वैष्णवानां महात्मनाम् ॥ इति ॥

॥ ६.३ ॥ श्रीयमस्तद्दूतान् ॥ १४८ ॥

[१४९]

तथा सकृद्भजनेनैव सर्वमप्यायुः सफलमित्युदाहृतमेव श्री
शौनकवाक्येन आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ [भागवतम्
२.३.१७] इत्यादिग्रन्थेन । एवं भक्त्य्आभासेनाप्यजामिलादेः पापघ्नत्वं
च दृश्यते । तथा सर्वकर्मादिविध्वंसपूर्वकपरमगतिप्राप्तावपि
स्वलायासेनैव भक्तेः कारणत्वं च श्रूयते । लघुभागवते

वर्तमानं च यत्पापं यद्भूतं यद्भविष्यति ।
तत्सर्वं निर्दयत्याशु गोविन्दानलकीर्तनात् ॥ इति ।

(पगे ६८)

तथैव च तत्र यथा कथञ्चित्तद्भक्तिसम्बन्धस्य कारणत्वं दृश्यते ।
ब्रह्मवैवर्ते

स समाराधितो देवो मुक्तिकृत्स्याद्यथा तथा ।
अनिच्छयापि हृतभुक्संस्पृष्टो दहति द्विज ॥ इति ।

स्कान्दे उमामहेश्वरसंवादे
दीक्षामात्रेण कृष्णस्य नरा मोक्षं लभन्ति वै ।
किं पुनर्ये सदा भक्त्या पूजयन्त्यच्युतं नराः ॥

बृहन्नारदीये
अकामादपि ये विष्णोः सकृत्पूजां प्रकुर्वते ।
न तेषां भवबन्धस्तु कदाचिदपि जायते ॥ [णार्ড়् ३६.५८]

पाद्मे देवद्युतिस्तुतौ
सकृदुच्चारयेद्यस्तु नारायणमतन्द्रितः ।
शुद्धान्तःकरणो भूत्वा निर्वाणमधिगच्छति ॥

तथान्यत्र
सम्पर्काद्यदि वा मोहाद्यस्तु पूजयते हरिम् ।
सर्वपापविनिर्मुक्तः प्रयाति परमं पदम् ॥

इतिहाससमुच्चये श्रीनारदपुण्डरीकसंवादे
ये नृशंसा दुराचाराः पापाचाररताः सदा ।
तेऽपि यान्ति परं धाम नारायणपदाश्रयाः ॥
लिप्यन्ते न च पापेन वैष्णवा वीतकल्मषाः ।
पुनन्ति सकलान् लोकान् सहस्रांशुरिवोदितः ॥
जन्मान्तरसहस्रेषु यस्य स्यान्मतिरीदृशी ।
दासोऽहं वासुदेवस्य सर्वान् लोकान् समुद्धरेत् ॥
स याति विष्णुसालोक्यं पुरुषो नात्र संशयः ।
किं पुनस्तद्गतप्राणाः पुरुषाः संयतेन्द्रियाः ॥

अतएव
सकृदेव प्रपन्नो यस्तवास्मीति च याचते ।
अभयं सर्वदा तस्मै ददाम्येतद्व्रतं हरेः ॥

इति च गरुडपुराणे । तथा चाह

आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् ।
ततः सद्यो विमुच्येत यद्बिभेति स्वयं भयम् ॥ [भागवतम् १.१.१४] इति ।

स्पष्टम् ॥ १.१ ॥ श्रीशौनकः ॥ १४९ ॥

[१५०]

तथा

न हि भगवन्नघटितमिदं
त्वद्दर्शनान्नृणामखिलपापक्षयः ।
यन्नाम सकृच्छ्रवणात्
पुक्कशोऽपि विमुच्यते संसारात् ॥ [भागवतम् ६.१६.४४]

स्पष्टम् ॥ ६.१६ ॥ चित्रकेतुः श्रीसङ्कर्षणम् ॥ १५० ॥

[१५१]

अतएवोक्तं श्रीविष्णुधर्मोत्तरे
जीवितं विष्णुभक्तस्य वरं पञ्च दिनानि वै ।
न तु कल्पसहस्राणि भक्तिहीनस्य केशवे ॥ इति ।

अत्र यत्तृतीये गर्भस्थस्य जीवस्य स्तुतिः श्रूयते । तस्यैव संसारोऽपि
वर्ण्यते । तत्रोच्यते जात्य्एकत्वेनैकवर्णनमिति । वस्तुतस्तु कश्चिदेव जीवो
भाग्यवान् भगवन्तं स्तौति । स च (पगे ६९) निस्तरत्यपि । न तु सर्वस्यापि
भगवज्ज्ञानं भवति । तथा च नैरुक्ताः पठन्ति नवमे सर्वाङ्ग
सम्पूर्णो भवतीति पठित्वामृतश्चाहं पुनर्जातो जातश्चाहं पुनर्
मृतः इत्यादितद्भावनापाठान्तरं

अवाङ्मुखः पीड्यमानो जन्तुभिश्च समन्वितः ।
साङ्ख्ययोगं समभ्यसेत्पुरुषं वा पञ्चविंशकम् ॥
ततश्च दशमे मासि प्रजायते इत्यादि ।

अत्र पुरुषं वेति वाशब्दात्कस्यचिदेव भगवज्ज्ञानमिति गम्यते । सर्वाव्
अप्यवस्थासु भक्तेः समर्थत्वं च वर्णितम् । भेदेऽप्येकवद्वर्णनम्
अन्यत्रापि दृश्यते । तृतीये यथा पादकल्पसृष्टिकथनेऽपि श्रीसनकादीनां
सृष्टिः कथ्यत इति । टीकायां च ब्रह्मकृतसृष्टिमात्रकथन
साम्येनैकीकृत्योरियमिति योजितं श्रीवराहावतारवच्च । तत्र प्रथम
मन्वन्तरस्यादौ पृथिवीमज्जने ब्रह्मनासिकातोऽवतीर्णः श्रीवराहस्
तामुद्धरन् हिरण्याक्षेण संग्रामं कृतवानिति वर्ण्यते । हिरण्याक्षश्
च षष्ठमन्वन्तरावसानजातप्राचेतसदक्षकन्याया दितेर्जातः ।
तस्मात्तथा वर्णनं तद्अवतारमात्रत्वपृथिवीमज्जनमात्रत्वैक्य
विवक्षयैव घटते तद्वदत्रापीति ।

कश्चिदेवान्यो जीवः स्तौत्यन्यः संसरतीत्येव मन्तव्यम् । अत्र पूर्ववत्
परमगतिप्राप्तौ भक्तेः परम्पराकारणत्वं च दृश्यते । बृहन्
नारदीये ध्वजारोपणमाहात्म्ये

यतीनां विष्णुभक्तानां परिचर्यापरायणाः ।
ते दूताः सहसा यान्ति पापिनोऽपि परां गतिम् ॥ [णारदড়् १.२०.७३]

श्रीविष्णुधर्मे
कलानां शतमागामि समतीतं तथा शतम् ।
कारयन् भगवद्धाम नयत्यच्युतलोकताम् ॥
ये भविष्यन्ति येऽतीता आकल्पात्पुरुषाः कुले ।
तांस्तारयति संस्थाप्य देवस्य प्रतिमां हरेः ॥

दूतान् प्रति यमाज्ञा चेयम्
येनार्चा भगवद्भक्त्या वासुदेवस्य कारिता ।
नवायुतं तत्कुलजं भवतां शासनातिगम् ॥ इति ।

यथाह
त्रिःसप्तभिः पिता पूतः पितृभिः सह तेऽनघ ।
यत्साधोऽस्य कुले जातो भवान् वै कुलपावनः ॥ [भागवतम् ७.१०.१८]
त्रिःसप्तभिः प्राचीनकल्पागततदीयपूर्वजन्मसम्बन्धिभिः पितृभिः
सह अस्मिन् जन्मनि हिरण्यकशिपुमरीचिब्रह्माण एव तत्पितर इति ॥

॥ ७.१० ॥ श्रीनृसिंहः प्रह्लादम् ॥ १५१ ॥

[१५२]

तथा भक्त्य्आभासस्यापि सर्वपापक्षयपूर्वकश्रीविष्णुपद
प्रापकत्वं यथा बृहन्नारदीये कोकिलमानिनोर्मदिरोन्मत्तयोर्धृत
चीरखण्डदण्डयोर्जीर्णभगवन्मन्दिरे नृत्यतोर्ध्वजारोपणफल
प्राप्त्या तादृशत्वं जातम् । तथा व्याघतस्य पक्षिणः कुक्कुरमुख
गतस्य तत्पलायनवृत्त्या भगवन्मन्दिरपरिक्रमणफलप्राप्त्या
तादृशत्वप्राप्तिरिति । क्वचित्तत्र महाभक्तिप्राप्तिश्च । यथा बृहन्
नारदीयपुराण श्रीप्रह्लादस्य । तस्य प्राग्जन्मनि वेश्यया सह विवादेन
श्रीनृसिंहचतुर्दश्यां दैवादुपवासः सम्पन्नो जागरणं चेति । तथा
चाह

यस्यावतारगुणकर्मविडम्बनानि
नामानि येऽसुविगमे विवशा गृणन्ति ।
तेऽनैकजन्मशमलं सहसैव हित्वा
संयान्त्यपावृतामृतं तमजं प्रपद्ये ॥ [भागवतम् ३.९.१५]

(पगे ७०) असुवगमेऽपीति तदानीन्तननाममात्रत्वमशुद्धवर्णत्वं
च व्यञ्जितम् । विवशा इति तद्इच्छां विनापि केनचित्कारणान्तरेणापीत्यर्थः ।
वशकान्तौ इत्यमरः । तादृशशक्तित्वे हेतुमाहावतारेति । अवतारादि
सदृशानि तत्तुल्यशक्तीनीत्यर्थः । कर्मविडम्बनानि तद्विषय
प्रयुक्तानि गिरिधरेत्यादीनि तान्यपि । किमुत साक्षात्तन्नामानि कृष्ण
गोविन्देत्य्आदीनीत्यर्थः ।

॥ ३.९ ॥ ब्रह्मा श्रीगर्भोदकशायिनम् ॥ १५२ ॥

[१५३]

अस्तु तावत्शुद्धभक्त्य्आभासस्य वार्ता । अपराधत्वेन दृश्यमानोऽप्य्
असौ महाप्रभावो दृश्यते । यथा विष्णुधर्मे भगवन्मन्त्रेण कृत
निजरक्षं विप्रं प्रति राक्षसवाक्यं

त्वामत्तुमागतः क्षिप्तौ रक्षया कृतया त्वया ।
तत्संस्पर्शाच्च मे ब्रह्मन् साध्वेतन्मनसि स्थितम् ॥
का सा रक्षा न तां वेद्मि वेद्मि नास्याः परायणम् ।
किन्त्वस्याः सङ्गमासाद्य निर्वेदं प्रापितः परम् ॥ इति ।

यथा वा विष्णुधर्माद्य्उदाहृतायाः श्रीभगवद्गृहदीपतैलं
पिबन्त्याः कस्याश्चिन्मूषिकाया दैवतो मुखोद्धृतवर्तौ दीपे समुज्ज्वलिते
सति मुखदाहेन मरणात्राजीत्वं प्राप्य दीपदानादिलक्षणभक्ति
निष्ठाप्राप्तिरन्ते परमपदप्राप्तिश्च । यथा ब्रह्माण्डपुराणे
जन्माष्टमीमाहात्म्ये कृतजन्माष्टमीकाया दास्या दुःसङ्गेनापि
कस्यचित्तत्फलप्राप्तिः । तथा च बृहन्नारदीये तादृशदुष्टकार्यार्थम्
अपि भगवन्मन्दिरं मार्जयित्वा कश्चिदुत्तमां गतिमवाप । न त्व्
ईदृशत्वं ब्रह्मज्ञानस्यापि ।

यथोक्तं ब्रह्मवैवर्ते
दृष्टः पश्येदहरहः संश्रितः प्रतिसंश्रयेत् ।
अर्चितश्चार्चयेन्नित्यं स देवो द्विजपुङ्गव ॥ इति ।

यथा च श्रीविष्णुधर्मे श्रीनारदवाक्यम्
तुलसीदलमात्रेण जलस्य चुलुकेन च ।
विक्रीणीते स्वमात्मानं भक्तेभ्यो भक्तवत्सलः ॥ इति ।

तदीदृशं माहात्म्यवृन्दं न प्रशंसामात्रमजामिलादौ
प्रसिद्धत्वात् । दर्शिताश्च न्यायाः श्रीभगवन्नामकौमुद्य्आदौ ।

तथैव नाम्न्यर्थवादकल्पनायां दोषोऽपि श्रूयते तथार्थवादो हरि
नाम्नि [ःBV ११.२८४] इति नामापराधगणने ।

अर्थवादं हरेर्नाम्नि
सम्भावयति यो नरः ।
स पापिष्ठो मनुष्याणां
निरये पतति स्फुटम् ॥ इति कात्यायनसंहितायाम् । (पगे ७१)

मन्नामकीर्तनफलं विविधं निशम्य
न श्रद्दधाति मनुते यदुतार्थवादम् ।
यो मानुषस्तमिह दुःखचये क्षिपामि
संसारघोरविविधार्तिनिपीडिताङ्गम् ॥

इति ब्रह्मसंहितायां बोधायनं प्रति श्रीपरमेश्वरोक्तौ । ततोऽन्तर्भूत
नामानुसन्धानेष्वन्येषु तद्भजनेषु च सुतरामेवार्थवादे
दोषोऽवगम्यते तदेवं यथार्थ एव तन्माहात्म्ये सत्यपि यत्र सम्प्रति
तद्भजने फलोदयो न दृश्यते। कुत्रचिच्छास्त्रे च पुरातनानामप्य्
अन्यथा श्रूयते तत्र नामार्थवादकल्पना वैष्णवानादरादयो दुरन्ता
अपराधा एव प्रतिबन्धकारणं वक्तव्यम् । अतएवोक्तं श्रीशौनकेन

तदश्मसारं हृदयं बतेदं
यद्गृह्यमाणैर्हरिनामधेयैः ।
न विक्रियेताथ यदा विकारो
नेत्रे जलं गात्ररुहेषु हर्षः ॥ [भागवतम् २.३.२४] इति ।

यथा प्रायेणाधुनिकानाम्

ब्रह्मण्यस्य वदान्यस्य तव दासस्य केशव ।
स्मृतिर्नाद्यापि विध्वस्ता भवत्सन्दर्शनार्थिनः ॥ [भागवतम् १०.६४.२५]

तद्उक्तरीत्याध्यवसितभक्तेरपि नृगस्य जिह्वा न वक्ति [भागवतम् ६.३.२९] इत्य्
आदियमवाक्यविरुद्धं यमलोकगमनं प्राप्तवतो विना चार्थवाद
कल्पनामयं भावं श्रुतशास्त्रस्यापि तस्य सत्यां तादृशमाहात्म्यायां
भक्तौ श्रीमद्अम्बरीषादिवत्सेवाग्रहं परित्यज्य दानकर्माग्रहो न
स्यात् । तादृशापराधे भक्तिस्तम्भश्च श्रूयते । यथा पाद्मे
नामापराधभञ्जनस्तोत्रे

नामैकं यस्य वाचि स्मरणपथगतं श्रोत्रमूलं गतं वा
शुद्धं वाशुद्धवर्णं व्यवहितरहितं तारयत्येव सत्यम् ।
तच्चेद्देहद्रविणजनतालोभपाषण्डमध्ये
निक्षिप्तं स्यान्न फलजनकं शीघ्रमेवात्र विप्र ॥

देहादिलोभार्थं ये पाषण्डा गुर्व्अवज्ञादिदशापराधयुक्तास्तन्
मध्य इत्यर्थः । स्कान्दे प्रह्लादसंहितायां द्वारकामाहात्म्ये

पूजितो भगवान् विष्णुर्जन्मान्तरशतैरपि ।
प्रसीदति न विश्वात्मा हरिस्तस्य पूजां द्वादशवर्षिकीम् ॥
दृष्ट्वा भागवतं विप्रं नमस्कारेण नार्चयेत् ।
देहिनस्तस्य पापस्य न च वै क्षमते हरिः ॥ इति ।

एवं बहून्येवापराधान्तराण्यपि दृश्यते ।

एवमेव श्रीविष्णुपुराणे शतधनुर्नाम्नो राज्ञो भगवद्आराधन
तत्परस्यापि वेदवैष्णवनिन्दकाल्पसम्भाषयैव कुक्कुरादियोनि
प्राप्तिरुक्ता । अतः शुश्रूषोः श्रद्दधानस्य [भागवतम् १.२.१६] इत्यादौ आवृत्तिर्
असकृद्उपदेशात्[Vस्४.१.१] इत्यादौ च पुरुषाणां प्रायः सापराधत्वाभि
(पगे ७२) प्रायेणैवावृतिविधानम् । सापराधानामावृत्त्य्अपेक्षा चोक्ता
पाद्मे नामापराधभञ्जनस्तोत्रे नामोपलक्ष्य

नामापराधयुक्तानां नामान्येव हरन्त्यघम् ।
अविश्रान्तिप्रयुक्तानि तान्येवार्थकराणि च ॥ इति ।

एतद्अपेक्षयैव त्रैलोक्यसम्मोहनतन्त्रादावष्टादशाक्षरादेरावृत्ति
विधानम् । यथा

इदानीं शृणु देवि त्वं केवलस्य मनोर्विधिम् ।
दशकृत्वो जपेन्मन्त्रमापत्कल्पेन मुच्यते ॥
सहस्रजप्तेन यथा मुच्यते महतैनसा ।
अयुतस्य जपेनैव महापातकनाशनम् ॥ इत्यादि ।

तथा ब्रह्मवैवर्ते नामोपलक्ष्य

हनन् ब्राह्मणमत्यन्तं कामतो वा सुरां पिबन् ।
कृष्ण कृष्णेत्यहोरात्रं सङ्कीर्त्य शुचितामियात् ॥ इत्यादि ।

अत्रापराधालम्बनत्वेनैव वर्तमानानां पापवासनानां
सहैवापराधेन नाश इति तात्पर्यम् । एतादृशप्रतिबन्धोपेक्षयैवोक्तं
विष्णुधर्मे

रागादिदूषितं चित्तं नास्पदं मधुसूदने ।
बध्नाति न रतिं हंसः कदाचित्कर्दमाम्बुनि ॥
न योग्या केशवं स्तोतुं वाग्दुष्टा चानृतादिना ।
तमसो नाशनायालं नेन्दोर्लेखा घनावृता ॥ इति ।

सिद्धानामावृत्तिस्तु प्रतिपदमेव सुखविशेषोदयार्था । असिद्धानाम्
आवृत्तिनियमः फलपर्यापित्पर्यन्तः । तद्अन्तरायेऽपराधावस्थिति
वितर्कात् । यतः कौटिल्यमश्रद्धा भगवन्निष्ठाच्यावकस्त्व्
अन्तराभिनिवेशो भक्तिशैथिल्यं स्वभक्त्य्आदिकृतमानित्वमित्येवम्
आदीनि महत्सङ्गादिलक्षाणभक्त्यापि निवर्तयितुं दुष्कराणि चेत्तर्हि
तस्यापराधस्यैव कार्याणि । तान्येव च प्राचीनस्य तस्य लिङ्गानि । अतएव
कुटिलात्मनामुत्तममपि नानोपचारादिकं नाङ्गीकरोति भगवान् यथा
दूत्यगतो दुर्योधनस्य । आधुनिकानां च श्रुतशास्त्राणामपराध
दोषेन भगवति श्रीगुरौ तद्भक्तादिषु चान्तरानादरादावपि सति बहिस्
तद्अर्चनाद्य्आरम्भः कौटिल्यम् । अतएवाकुटिलमूढानां
भजनाभासादिनापि कृतार्थत्वमुक्तम् । कुटिलानां तु भक्त्य्अनुवृत्तिरपि
न सम्भवतीति । स्कान्दे श्रीपराशरवाक्ये दृश्यते

अपुण्यवतां लोके मूढानां कुटिलात्मनाम् ।
भक्तिर्भवति गोविन्दे कीर्तनं स्मरणं तथा ॥ इति ।

तदपेक्षयैवोक्तं विष्णुधर्मे
सत्यं शतेन विघ्नानां सहस्रेण तथा तपः ।
विघ्नायुतेन गोविन्दे नॄणां भक्तिर्निवार्यते ॥ इति ।

अतएवाह
तं सुखाराध्यमृजुभिरनन्यशरणैर्नृभिः ।
कृतज्ञः को न सेवेत दुराराध्यमसाधुभिः ॥ [भागवतम् ३.१९.३६]
(पगे ७३)
स्पष्टम् ॥ ३.११ । श्रीसूतः ॥ १५३ ॥

[१५४]

यथैव भगवद्भक्ता अप्यकुटिलात्मनोऽज्ञाननुगृह्णन्ति न तु
कुटिलात्मनो विज्ञानिति दृश्यते । यथा

दूरे हरिकथाः केचिद्दूरे चाच्युतकीर्तनाः
स्त्रियः शूद्रादयश्चैव तेऽनुकम्प्या भवादृशाम् ।
विप्रो राजन्यवैश्यौ वा हरेः प्राप्ताः पदान्तिकम्
श्रौतेन जन्मनाथापि मुह्यन्त्याम्नायवादिनः ॥ [भागवतम् ११.५.५]

टीका च तत्र येऽज्ञास्ते भवद्विधानामनुग्राह्या इत्याह दूर इति ।
ज्ञानबलदुर्विदग्धास्त्वचिकित्स्यत्वादुपेक्ष्या इत्याशयेत्नाह विप्र इति ।
इत्येषा ।
॥ ११.५ ॥ चमसो निमिम् ॥ १५४ ॥

[१५५]

अथाश्रद्धा दृष्टे श्रुतेऽपि तन्महिमादौ विपरीतभावनादिना
विश्वासाभावः । यथा दुर्योधनस्यैव विश्वरूपदर्शनादावपि । अतएव
यथा आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् [भागवतम् १.१.१४] इत्यादि
शौनकस्य, दन्ता गजानां कुलिशाग्रनिष्ठुराः [Vइড়् १.१७.४४] इति श्री
प्रह्लादस्यानुभवसिद्धं न तथा सर्वेषाम् । ईदृशमानुषङ्गिकं
फलं तु शुद्धभक्तैर्भगवन्महिमख्यापनेच्छा यदि स्यात्
तदैवेष्यते न तु स्वरक्षणाय स्वमहिमदर्शनाय वा । यथैवोक्तं

दन्ता गजानां कुलिशाग्रनिष्ठुराः
शीर्णा यदेते न बलं ममैतत् ।
महाविपत्पातविनाशनोऽयं
जनार्दनानुस्मरणानुभावः ॥ [Vइড়् १.१७.४४]

श्रीपरीक्षित्प्रभृतिभिस्तु तदपि नेष्टं, यथा

द्विजोपसृष्टः कुहकस्तक्षको वा
दशत्वलं गायत विष्णुगाथाः ॥ [भागवतम् १.१९.१५]

॥ स्पष्टम् । १.१९ ॥ राजा ॥ १५५ ॥

[१५६]

अतएवाधुनिकेषु महानुभावलक्षणवत्सु तद्अदर्शनेऽपि नाविश्वासः
कर्तव्यः । कुत्रचिद्भगवद्उपासनाविशेषेणैव तादृशमानुषङ्गिकं
फलमुदयते । यथा

यदैकपादेन स पार्थिवार्भकस्
तस्थौ तद्अङ्गुष्ठनिपीडिता मही ।
ननाम तत्रार्धमिभेन्द्रधिष्ठिता
तरीव सव्येतरतः पदे पदे ॥ [भागवतम् ४.८.७९]

अत्र सर्वात्मकतयैव विष्णुसमाव्धिना तादृक्फलमुदितम् । एतादृश्य्
उपासना चास्य भाविज्योतिर्मण्डलात्मकविश्वचालनपदोपयोगितयोदितेति
ज्ञेयम् ॥

॥। ४.९ ॥ श्रीमैत्रेयः ॥ १५६ ॥

[१५७]

अथ भगवन्निष्ठाच्यावकवस्त्व्अन्तराभिनिवेशो यथा

एवमघटमानमनोरथाकुलहृदयो मृगदारकाभासेन स्वारब्ध
कर्मणा योगारम्भणतो विभ्रंशितः स योगतापसो भगवद्आराधन
लक्षणाच्च । [भागवतम् ५.८.२६] इति । (पगे ७४)

स श्रीभरतः । अत्रैवं चिन्त्यं भगवद्भक्त्य्अन्तरायकं सामान्यम्
आरब्धकर्म न भवितुमर्हति दुर्बलत्वात् । ततः
राचीनापराधात्मकमेव तल्लभ्यत इन्द्रद्युम्नादीनामिवेति ॥

॥ ५.८ ॥ श्रीशुकः ॥ १५७ ॥

[१५८]

केचित्तु साधारणस्यैव प्रारब्धस्य तादृशेषु भक्तेषु प्राबल्यं तद्
उत्कण्ठावर्धनार्थं स्वयं भगवतैव क्रियत इति मन्यन्ते । सा च
वर्णिता मृगदेहं प्राप्तस्य तस्य । तथैव श्रीनारदस्य पूर्वजन्मनि
जातरतेरपि कषायरक्षणमाह

हन्तास्मिन् जन्मनि भवान्मा मां द्रष्टुमिहार्हति ।
अविपक्वकषायाणां दुर्दर्शोऽहं कुयोगिनाम् ॥ [भागवतम् १.६.२२]

स्पष्टम् ॥ १.६ ॥ श्रीभगवान् ॥ १५८ ॥

[१६०]

तदेवमपराधहेतुकतद्अभिनिवेशोदाहरणं गजेन्द्रादीनां
विषयावस्थायां कार्यम् । अथ भक्तिशैथिल्यं येनाध्यात्मिकादिसुख
दुःखनिष्ठैवोल्लसति । भक्तितत्पराणां तु तत्रानादरो भवति । यथा
सहस्रनामस्तोत्रे

न वासुदेवभक्तानामशुभं विद्यते क्वचित् ।
जन्ममृत्युजराव्याधिभयं चाप्युपजायते ॥ इति ।

या तु सत्साधकस्य मनुष्यदेहरिरक्षिषा जायते साप्युपासनावृद्धि
लोभेन न तु देहमात्ररिरक्षिषयेति । न तया च भक्तितात्पर्यहानिः ।
तदेवं विवेकसामर्थ्ययुक्तस्यापि भक्तितात्पर्यव्यतिरेकगम्यं तच्
छैथिल्यं मध्ये मध्ये रुच्यमानया भक्त्या यद्दूरीक्रियते तद्
अपराधालम्बनमे एवेति गम्यते । अतएवापराधानुमानाप्रवृत्तेर्मूढे
चासमर्थे चाल्पेन सिद्धिः समर्थेव । तत्र दीनदयालोः श्रीभगवतः
कृपा चाधिका प्रवर्तते ।

किं च विवेकसामर्थ्ययुक्ते स्मप्रत्यपि योऽपराधापातो भवति सोऽत्यन्त
दौरात्म्यादेव तद्विपरीते तु नातिदौरात्म्यादिति विदुषः समर्थस्य
शतधनुपोऽन्तरायोऽनन्तरविहितभगवद्उपासनस्यापि युक्त एव ।
मूढानां तु मूषिकादीनामपराधेऽपि सिद्धिस्तथैव युक्ता ।
दौरात्म्याभावेन भजनस्वरूपप्रभावस्यापराधमतिक्रम्योदयात् ।

अथ भक्त्यादिकृताभिमानत्वं चापराधकृतमेव वैष्णवावमानादि
लक्सणापराधान्तरजनकत्वात् । यथा दक्षस्य प्राक्तनश्री
शिवापराधेन प्राचेतसत्वावस्थायां श्रीनारदापराधजन्मापि दृश्यते ।
तदेवं यः सकृद्भजनादिनैव फलोदय उक्तस्तद्यथावदेव, यदि
प्राचीनोऽर्वाचीनो वापराधो न स्यात् । मरणे तु सर्वथा सकृदेव यथा
कथञ्चिदपि भजनमपेक्षते, तत्र हि तस्यैव सकृदपि भगवन्नाम
ग्रहणादिकं जायते, यस्य पूर्वत्र वात्र वा जन्मनि सिद्धेन भगवद्
आराधनादिना तदानीं स्वीयप्रभावं प्रकटयतानन्तरमेव भगवत्
साक्षात्कारो गम्यते ।

यं यं वापि स्मरन् भावं
त्यजन्त्यन्ते कलेवरम् ।
तं तमेवैति कौन्तेय
सदा तद्भावभावितः ॥ [गीता ८.६] (पगे ७५) इति श्रीगीतोपनिषद्भ्यः ।

ततोऽपराधाभावा तत्क्षयार्थं न तत्रावृत्त्य्अपेक्षया । यथाजामिलस्य
न तथा कृततन्नामश्रवणादीनामपि यमदूतानाम् । यथाह

अथापि मे दुर्भगस्य विबुधोत्तमदर्शने ।
भवितव्यं मङ्गलेन येनात्मा मे प्रसीदति ॥ [भागवतम् ६.२.३२]

पूर्वेण मङ्गलेन महता पुण्येनेति टीका च ।

[१६०]

व्यतिरेकेणाह

अन्यथा म्रियमाणस्य नाशुचेर्वृषलीपतेः ।
वैकुण्ठनामग्रहणं जिह्वा वक्तुमिहार्हति ॥ [भागवतम् ६.२.३३]

स्पष्टम् ॥ ६.२ ॥ श्रीमानजामिलः ॥ १५९१६० ॥

[१६१]

यत्तु श्रीभरतस्य मृगशरीरं त्यजतो नामानि गृहीत्वापि शरीरान्तर
प्राप्तिस्तत्रापि साक्षाद्भावप्राप्तिरेव तादृशानां हृदि सदाविर्भावात् ।
एवमजामिलस्य पूर्वशरीरस्थितावपि ज्ञेयम् । ततो मरणसमये सकृद्
भजनस्यानन्तरमेव कृतार्थत्वप्रापणे व्यभिचारो न स्यात् । अतएवाह


एतावान् साङ्ख्ययोगाभ्यां स्वधर्मपरिनिष्ठया ।
भगवत्यचलो भावो यद्भागवतसङ्गतः ॥ [भागवतम् २.३.११]

टीका च एतावानेव जन्मनो लाभः फलम् । तमाह नारायणस्मृतिरिति ।
साङ्ख्यादिभिः साध्य इति तेषां स्वातन्त्र्येण लाभत्वं वारयति । अन्ते च
स्मृतिः परो लाभो न तन्महिमा वक्तुं शक्यते इत्येषा ।

नामकौमुदीकारैश्चान्तिमप्रत्ययोऽभ्यर्हित इत्युक्तम् ॥

॥ २.१ ॥ श्रीशुकः ॥ १६१ ॥
[१६२]

अतएवाजामिलस्यान्यदापि पुत्रोपचारितं नारायणनाम गृह्णतः

प्रयाणे चाप्रयाणे च यन्नाम स्मरतां नॄणाम् ।
सद्यो नश्यति पापौघो नमस्तस्मै चिद्आत्मने ॥

इति पाद्मदेवद्युतिस्तोत्रानुसारेण जरामरणदशायामपि सकल
कश्मलनिरसनानि तव गुणकृतनामधेयानि [भागवतम् ५.३.१४] इति पञ्चमोक्त
स्थितापिशब्देन च प्रथमनामग्रहणादेव क्षीणसर्वपापस्यापि
मरणे यन्नामग्रहणं तत्प्रशंसैव श्रूयते । तत्राप्यावृत्त्या

अथैनं मापनयत कृताशेषाघनिष्कृतम् ।
यदसौ भगवन्नाम म्रियमाणः समग्रहीत् ॥ [भागवतम् ६.२.१३]

इत्यादि । अशेषशब्दोऽत्र वासनापर्यन्तः । अघशब्दश्चापराधपर्यन्त
इति । अत्र मरणे सर्वेषां दैन्यादयोऽपि श्रीभगवत्कृपातिशयद्वारमिति
द्रष्टव्यम् ।

॥ ६.१ ॥ श्रीविष्णुदूताः यमदूतान् ॥ १६२ ॥

[१६३]

तदेवमधिकारिविशेषं प्राप्यैव तत्तत्फलोदयो द्रष्टव्यः । यथैव
पूर्वमुदाहृतम् । यथा च जातरुचिं प्राप्य (पगे ७६)

तव विक्रीडितं कृष्ण नृणां परममङ्गलम् ।
कर्णपीयूषमासाद्य त्यजन्त्यन्यस्पृहां जनाः ॥ [भागवतम् ११.६.४४]

अतएवोक्तम्
न क्रोधो न च मात्सर्यं न लोभो न शुभा मतिः ।
भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तम ॥ इति ॥

॥ ११.६ ॥ श्रीमद्उद्धवः ॥ १६३ ॥

[१६४]

जातप्रेमाणं प्राप्य

नैषातिदुःसहा क्षुन्मां त्यक्तोदमपि बाधते ।
पिबन्तं त्वन्मुखाम्भोज च्युतं हरिकथामृतम् ॥ [भागवतम् १०.१.१३]

स्पष्टम् ॥ १०.१ ॥ श्रीराजा ॥ १६४ ॥

[१६५]

व्याख्याते यथा कथञ्चिद्भजनसम्यग्भजनावृत्ती । तदेवं भगवद्
अर्पितधर्मादिसाध्यत्वात्तां विनान्येषामकिञ्चित्करत्वात्तस्याः स्वत एव
समर्थत्वात्स्वलेशेन स्वाभासादिनापि परमार्थपर्यन्तप्रापकत्वात्
सर्वेषां वर्णानां नित्यत्वात्साक्षाद्भक्तिरूपं तत्साम्मुख्यम्
एवात्राभिधेयं वस्त्विति स्थितम् । इयमेव केवलत्वादनन्यताख्या ।

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥
येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ [गीता ९.२२२३]

इति वाक्यद्वयेऽन्वयव्यतिरेकोक्त्या । अनन्यत्वं नाम ह्यन्योपासना
राहित्येन तद्भजनमुच्यते । इत्थमेवाङ्गीकृतम् अपि चेत्सुदुराचारो
भजते मामनन्यभाक्[गीता ९.३०] इत्यादौ । तस्याश्च महादुर्बोधत्वं
महादुर्लभत्वं चोक्तम् धर्मं तु साक्षाद्भगवत्प्रणीतं न वै
विदुरृषयो नापि देवाः [भागवतम् ६.३.१९] इत्यादौ, येऽभ्यर्थितामपि च नो नृ
गतिं प्रपन्ना [भागवतम् ३.१५.२४] इत्यादौ च ।

तदेवं तस्याः श्रवणादिरूपायाः साक्षाद्भक्तेः सर्वविघ्ननिवारण
पूर्वकसाक्षाद्भगवत्प्रेमफलदत्वे स्थिते परमदुर्लभत्वे च सत्य्
अन्यकामनया च नाभिधेयत्वम् । तथा चतुर्थे

तं दुराराध्यमाराध्य सतामपि दुरापया ।
एकान्तभक्त्या को वाञ्छेत्पादमूलं विना बहिः ॥ [भागवतम् ४.२४.५५] इति ।

तन्मात्रकामनायां च भक्तेरेवाकिञ्चनत्वमकामत्वं च
संज्ञापितम् ।

मत्तोऽप्यनन्तात्परतः परस्मात्
स्वर्गापवर्गाधिपतेर्न किञ्चित् ।
येषां किमु स्यादितरेण तेषाम्
अकिञ्चनानां मयि भक्तिभाजाम् ॥ [भागवतम् ५.५.२५]

इति श्र्यृषभदेववाक्यात् । अकामः सर्वकामो वा इत्यादेश्च । तथा इयम्
एवैकान्तितेत्युच्यते

एकान्तिनो यस्य न कञ्चनार्थं
वाञ्छन्ति ये वै भगवत्प्रपन्नाः [भागवतम् ८.३.२०] इति गजेन्द्रवाक्यम् ।

(पगे ७७)
एवं प्रलोभ्यमानोऽपि
वरैर्लोकप्रलोभनैः ।
एकान्तित्वाद्भगवति
नैच्छत्तानसुरोत्तमः ॥ [भागवतम् ७.९.५५] इति नारदवाक्याच्च ।

अतएवोक्तं गारुडे
एकान्तेन सदा विष्णौ यस्मादेव परायणाः ।
तस्मादेकान्तिनः प्रोक्तास्तद्भागवतचेतसः ॥ [ङर्ড়् १.२३१.१४] इति ।

एषैवोपदिष्टा श्रीगीतोपनिषत्सु
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ [गीता ११.५४५५]

मत्कर्म श्रवणकीर्तनादि । अहमेव परमः साधनत्वेन साध्यत्वेन
च यस्य । अतएव साधनसाध्यान्तरसङ्गविवर्जित इति व्याख्येयम् । इमाम्
एव भक्तिमाह

तस्मादर्थाश्च कामाश्च धर्माश्च यद्अपाश्रयाः ।
भजतानीहयात्मानमनीहं हरिमीश्वरम् ॥ [भागवतम् ७.७.४८]

यद्अपाश्रया यद्अधीनाः । तं हरिमित्यन्वयः । अनीहया कामना
त्यागेन । अनीहं तथैव कामनाशून्यम् । इच्छाकाङ्क्षास्पृहेहातृङित्य्
अमरः ।

॥ ७.७ ॥ श्रीप्रह्लादोऽसुरबालकान् ॥ १६५ ॥

[१६६]

तथैवोभयोः कामनाशून्यत्वं स्वयमेवाह

आशासानो न वै भृत्यः स्वामिन्याशिष आत्मनः ।
न स्वामी भृत्यतः स्वाम्यमिच्छन् यो राति चाशिषः ॥
अहं त्वकामस्त्वद्भक्तस्त्वं च स्वाम्यनपाश्रयः ।
नान्यथेहावयोरर्थो राजसेवकयोरिव ॥ [भागवतम् ७.१०.५]

स्पष्टम् ॥ ७.१० ॥ श्रीप्रह्लादः श्रीनृसिंहदेवम् ॥ १६६ ॥

[१६७]

एवमेवाह

नैवात्मनः प्रभुरयं निजलाभपूर्णो
मानं जनादविदुषः करुणो वृणीते ।
यद्यज्जनो भगवते विदधीत मानं
तच्चात्मने प्रतिमुखस्य यथा मुखश्रीः ॥ [भागवतम् ७.९.११]

अयं प्रभुरात्मनो मानं जनान्निजभक्तान्न वृणीते नेच्छति । तत्र
हेतुर्निजस्य भक्तस्यैव लाभेन पूर्णः परमसन्तुष्टः । हेत्व्अन्तरं
करुणः पूजार्थं तत्प्रयासादावसहिष्णुः । कथम्भूताज्जनाद्
अविदुषः । पितुरग्रे बालकवत्तस्याग्रे न किञ्चिदपि जानतः । एषा स्वस्य
जनैकवर्गत्वेन दैन्योक्तिः यद्वा तद्आवेशेनान्यत्किञ्चिदपि न जानत इत्य्
अर्थः । उभयत्र पक्षेऽपि तच्च तस्य कारुण्यहेतुरिति भावः । तर्हि किं
जनस्तस्य पूजां न कुरुत इत्याशङ्क्याह यदिति । स च (पगे ७८) जनो यं
यं मानं भगवते विदधीत सम्पादयति स सर्वोऽप्यात्मार्थमेव । तत्
सम्भावनामात्रेणैव स्वसम्माननाभिमननात्सुखं मन्यमानस्
तन्मानं करोत्येवेत्यर्थः । तत्सम्मानमात्रेण स्वसम्मानश्च ।
तद्एकजीवनस्य तज्जनस्य युक्त एवेति दृष्टान्तमाह यथा मुखे या
शोभा क्रियते तन्मात्रमेव प्रतिमुखस्य शोभैव भवति नान्यदिति ॥

॥ ७.९ ॥ श्रीप्रह्लादः श्रीनृसिंहम् ॥ १६७ ॥

[१६८]

अतएवाह

नालं द्विजत्वं देवत्वमृषित्वं वासुरात्मजाः ।
प्रीणनाय मुकुन्दस्य न वृत्तं न बहुज्ञता ॥
न दानं न तपो नेज्या न शौचं न व्रतानि च ।
प्रीयतेऽमलया भक्त्या हरिरन्यद्विडम्बनम् ॥ [भागवतम् ७.७.५१५२]

अमलया निष्कामया विडम्बनं नटनमात्रम् । अतः सकामभक्तस्यापि
भक्तेर्नटनमात्रत्वात् । यथा परेषामपि नटानां क्वचित्तद्
अनुकरणं तथैवेति । तत्र सकामत्वमैहिकं पारलौकिकं चेति द्विविधं
तत्सर्वमेव निषिध्यते । श्रीनागपत्नीवचनादौ न पारमेष्ठ्यं न
महेन्द्रधिष्ण्यमित्यादिना । तस्माद्वैवस्वतमनुपुत्रस्य पृषध्रस्य
तु मुमुक्षोरपि एकान्तित्वव्यपदेशो गौण एव बोद्धव्यः ।

मा मां प्रलोभयोत्पत्त्या सक्तंकामेषु तैर्वरैः ।
तत्सङ्गभीतो निर्विण्णो मुमुक्षुस्त्वामुपाश्रितः ॥ [भागवतम् ७.१०.२]

इत्यत्र श्रीप्रह्लादवाक्ये मुमुक्षा तु कामत्यागेच्छैव ।

यदि दास्यसि मे कामान् वरांस्त्वं वरदर्षभ ।
कामानां हृद्यसंरोहं भवतस्तु वृणे वरम् ॥ [भागवतम् ७.१०.७] इति
वक्षमाणात् ।

भक्तियोगस्य तत्सर्वमन्तरायतयार्भकः [भागवतम् ७.१०.१] इति श्रीनारदेन
प्रागुक्तत्वाच्च । एवं श्रीमद्अम्बरीषस्य यज्ञविधानमपि लोक
सङ्ग्रहार्थकमेव ज्ञेयम् । तमुद्दिश्याप्येकान्तभक्तिभावेनेत्य्
उक्तमस्ति । तत्र चैहिकं निष्कामत्वं भक्त्या जीविकाप्युपार्जनं यत्तद्
अभावमयमपि बोद्धव्यम् । विष्णुं यो नोपजीवति इत्गारुडे शुद्ध
भक्तलक्षणम् ।

मौनव्रतश्रुततपोऽध्ययनस्वधर्म
व्याख्यारहोजपसमाधय आपवर्ग्याः ।
प्रायः परं पुरुष ते त्वजितेन्द्रियाणां
वार्ता भवन्त्युत न वात्र तु दाम्भिकानाम् ॥ [भागवतम् ७.९.४६]

इति श्रीप्रह्लादवाक्यवत् । मौनादय एवाजितेन्द्रियाणां वार्ता जीवनोपाया
भवन्ति । दाम्भिकानां तु वार्ता अपि भवन्ति न वा दम्भस्यानियत
फलत्वादित्यर्थः । अतएवोक्तं

आराधनं भगवत ईहमाना निराशिषः ।
ये तु नेच्छन्त्यपि परं ते स्वार्थकुशलाः स्मृताः ॥ [भागवतम् ६.१८.७४] इति ।
(पगे ७९)
परं मोक्षमपीति टीका च । तस्मात्साधूक्तं नालं द्विजत्वमित्यादि ।

॥ ७.७ ॥ श्रीप्रह्लादोऽसुरबालकान् ॥ १६८ ॥

[१६९]

ततोऽस्या एव भक्तेः सर्वशास्त्रसारत्वमाह

श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् ।
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥
इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा ।
क्रियेत भगवत्यद्धा तन्मन्येऽधीतमुत्तमम् ॥ [भागवतम् ७.५.२३२४]

श्रवणकीर्तने तदीयनामादीनां स्मरणं च । पादसेवनं परिचर्या ।
अर्चनं विध्य्उक्तपूजा । वन्दनं नमस्कारः । दास्यं तद्दासोऽस्मीत्य्
अभिमानम् । सख्यं बन्धुभावेन तदीयहिताशंसनम् । आत्म
निवेदनं गवाश्वादिस्थानीयस्य स्वदेहादिसङ्घातस्य तद्एक
भजनार्थं विक्रयस्थानीयं तस्मिन्नर्पणं, यत्र तद्भरणपालन
चिन्तापि स्वयं न क्रियते । उदाहृतानि चैतानि प्राचीनैः ।

श्रीविष्णोः श्रवणे परीक्षिदभवद्वैयासकिः कीर्तने
प्रह्लादः स्मरणे तद्अङ्घ्रिभजने लक्ष्मीः पृथुः पूजने ।
अक्रूरस्त्वभिवन्दने कपिपतिर्दास्येऽथ सख्येऽर्जुनः
सर्वस्वात्मनिवेदने बलिरभूत्कृष्णाप्तिरेषां परा ॥ [ড়द्यावली ५३]

इति नवलक्षणानि यस्याः सा भगवति तद्विषयिका । अद्धा साक्षाद्रूपां
न तु कर्माद्य्अर्पणरूपा पारम्परिकी भक्तिरियम् । तत्रापि श्रीविष्णाव्
एवार्पिता तद्अर्थमेवेदमिति भाविता । न तु धर्मार्थादिष्वर्पिता ।
एवम्भूता चेत्क्रियते तदा तेन कर्त्रा यदधीतं तदुत्तमं मन्य इत्य्
अर्थम् । तथा च श्रीगोपालतापनीश्रुतिः

भक्तिरस्य भजनम् । तदिहामुत्रोपाधिनैरास्येनैवामुष्मिन्मनः
कल्पनम् । एतदेव च नैष्कर्म्यम् ॥ [ङ्टू १.१४]

अतएव नवलक्षणेति समुच्चयो नावश्यकः । एकेनैवाङ्गेन
साध्याव्यभिचारश्रवणात् । क्वचिदन्याङ्गमिश्रणं तु तथापि भिन्न
श्रद्धारुचित्वात् । ततो नवलक्षणशब्देन भक्तिसामान्योक्त्या तन्
मात्रानुष्ठानं विधीयत इति ज्ञेयम् । ततो नवलक्षणत्वं चास्या अन्येषाम्
अप्यङ्गानां तद्अन्तर्भावादुक्तम् ॥

॥ ७.५ ॥ श्रीप्रह्लादः स्वपितरम् ॥ १६९ ॥

[१७०]

अथास्या अकिञ्चनाख्याया भक्तेः सर्वोर्ध्वभूमिकावस्थितिः । अधिकारि
विशेषनिष्ठत्वं च दर्शयितुं प्रक्रियान्तरम् । तत्र परतत्त्वस्य
वैमुख्यस्य परिहाराय यथाकथञ्चित्साम्मुख्यमात्रं कर्तव्यत्वेन
लभ्यते । तच्च त्रिधा निर्विशेषरूपस्य तदीयब्रह्माख्याविर्भावस्य
ज्ञानरूपम् । सविशेषरूपस्य च तदीयभगवद्आख्याविर्भावस्य
भक्तिरूपमिति द्वयम् । तृतीयं च तस्य द्वयस्यैव द्वारं कर्मार्पण
रूपमिति । तदेतत्त्रयं पुरुषयोग्यता भेदेन व्यवस्थापयितुं लोके
ज्ञानकर्मभक्तीनामेवोपायत्वं नान्येषामित्यनुवदति (पगे ८०)

योगास्त्रयो मया प्रोक्ता नॄणां श्रेयोविधित्सया ।
ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित् ॥ [भागवतम् ११.२०.६]

योगाः उपायाः । मया शास्त्रयोनिना श्रेयांसि मुक्तित्रिवर्गप्रेमाणि । अनेन
भक्तेः कर्मत्वं च व्यावृत्तम् ।

[१७१]

तेष्वधिकारिहेतूनाह द्वाभ्याम्

निर्विण्णानां ज्ञानयोगो न्यासिनामिह कर्मसु ।
तेष्वनिर्विण्णचित्तानां कर्मयोगस्तु कामिनाम् ॥
यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् ।
न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः ॥ [भागवतम् ११.२०.७८]

इह एषां मध्ये निर्विण्णामैहिकपारलौकिकविषयप्रतिष्ठासुखेषु
विरक्तानामत एव तत्साधनभूतेषु लौकिकवैदिककर्मसु न्यासिनां
तानि त्यक्तवतामित्यर्थः । पदद्वयेन दृढजातमुमुक्षूणाम्
अत्राभिप्रेतम् । एषां ज्ञानयोगः सिद्धिद इत्युत्तरेणान्वयः । कामिनां तत्
तत्सुखेषु रागिणामतएव तेषु कर्मसु अनिर्विण्णचित्तानां तानि त्यक्तम्
असमर्थानां कर्मयोगः सिद्धिदः तत्सङ्कल्पानुरूपफलदः ।

अथ ते वै विदन्त्यतितरन्ति न देवमायाम् [भागवतम् २.५.४५] इत्यादौ तिर्यग्जना
अपि इत्यनेन भक्त्य्अधिकारे कर्मादिवत्जात्यादिकृतनियमातिक्रमात्
श्रद्धामात्रं हेतुरित्याह यदृच्छयेति । यदृच्छया केनापि परम
स्वतन्त्रभगवद्भक्तसङ्गतत्कृपाजातमङ्गलोदयेन । यदुक्तं
शुश्रूषोः श्रद्दधानस्य [भागवतम् १.२.१६] इत्यादि । तदेतत्पद्यं स्वयमेवाग्रे
व्याख्यास्यते द्वाभ्यां

जातश्रद्धो मत्कथासु निर्विण्णः सर्वकर्मसु
वेद दुःखात्मकं कामान् परित्यागेऽप्यनीश्वरः
ततो भजेत मां प्रीतः श्रद्धालुर्दृठनिश्चयः
जुषमाणश्च तान् कामान् दुःखोदर्कांश्च गर्हयन् ॥ [भागवतम् ११.२०.२७२८]

कथेत्युपलक्षणं मत्कथादिषु एतदेव केवलं परमं श्रेय इति जात
विश्वासः । अतएवान्येषु कर्मसु उद्विग्नः किन्तु वर्तमानेषु प्राचीनपुण्य
कर्मफलभागेषु एवम्भूत इत्याह वेदेति ।

ततस्तान् वेदेत्य्आदिव्याख्या । तान्न निर्विण्णो नातिसक्त इत्येवंलक्षणाम्
अवस्थामारभ्यैवेत्यर्थः । मां भजेत मदीयानन्याख्यभक्त्य्
अधिकारी स्यात्, न तु ज्ञानवज्जाते सम्यग्वैराग्य एव तस्याः स्वतः
शक्तिमत्त्वेनान्यनिरपेक्षत्वादित्यर्थः अनन्तरं च वक्ष्यते
तस्मान्मद्भक्तियुक्तस्य योगिनो वै मद्आत्मनः ।
न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह ॥
यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यत् । [भागवतम् ११.२०.३१३२] इत्यादि ।

न च कर्मनिर्वेद सापेक्षत्वमापतितम् । स तु भक्तेः सर्वोत्तमत्व
विश्वासेन स्वत एव प्रवर्तते । निर्विण्ण इत्यनुवादमात्रम् । अतएव यद्यपि
ज्ञानकर्मणोरपि श्रद्धापेक्षास्त्येव (पगे ८१) तां विना बहिरन्तः
सम्यक्प्रवृत्त्य्अनुपपत्तेस्तथाप्यत्र श्रद्धामात्रस्य कारणत्वेन
विशेषतस्तद्अङ्गीकारः । अत्रापि च तद्अपेक्षा पूर्ववत्सम्यक्प्रवृत्त्य्
अर्थैव, तां विना अनन्यताख्यभक्तिस्तथा न प्रवर्तते । कदाचित्किञ्चित्
प्रवृत्त्या च नश्यतीति । अतएव न निर्विण्णो नातिसक्तः [भागवतम् ११.२०.८] इत्य्
अस्यानन्तरमपि मत्कथाश्रवणादौ वा [भागवतम् ११.२४.९] इत्यत्र श्रद्धायां
जातायामेव कर्मपरित्यागो विहितः । भक्तिमात्रं तु तां विना सिद्ध्यति ।

सकृदपि परिगीतं श्रद्धया हेलया वा
भृगुवर नरमात्रं तारयेत्कृष्णनाम । इत्यादौ ।

सतां प्रसङ्गान्मम वीर्यसंविदो
भवन्ति हृत्कर्णरसायनाः कथाः ।
तज्जोषणादाश्वपवर्गवर्त्मनि
श्रद्धा रतिर्भक्तिरनुक्रमिष्यति ॥ [भागवतम् ३.२५.२५]

इत्यादौ च तत्पूर्वतोऽपि तस्याः फलदातृत्वश्रवणात् ।

म्रियमाणो हरेर्नाम गृणन् पुत्रोपचारितम् ।
अजामिलोऽप्यगाद्धाम किमुत श्रद्धया गृणन् ॥ [भागवतम् ६.२.४९}

इत्यादौ तथा फलदातृत्वसौष्ठवश्रवणाच्च । सा च श्रद्धा
शास्त्राभिधेयावधारणस्यैवाङ्गं तद्विश्वासरूपत्वात् । ततो
नानुष्ठानाङ्गे प्रविशति । भक्तिश्च फलोत्पादने विधिसापेक्षापि न स्याद्
दाहादिकर्मणि वह्न्य्आदिवत् । भगवच्छ्रवणकीर्तनादीनां स्वरूपस्य
तादृशशक्तित्वात् । ततस्तस्याः श्रद्धाद्य्अपेक्षा कुतः स्यात् । अतः श्रद्धां
विना च क्वचिन्मूढादावपि सिद्धिर्दृश्यते श्रद्धया हेलया वा इत्यादौ ।
हेला त्वपराधरूपाद्य्अबुद्धिपूर्वककृता चेद्दौरात्म्याभावे न
भक्त्या बाध्यत इत्युक्तमेव । ज्ञानबलदुर्विदग्धादौ तु तद्
वैपरीत्येन बाध्यते । यथा मत्सरेण नामादिकं गृह्णाति वेणे । क्वचिद्
वस्तुशक्तिर्बाधिता दृश्यते । आर्द्रेन्धनादौ वह्निशक्तिरिव ।

श्रद्धयोपाहृतं प्रेष्ठं भक्तेन मम वार्यपि ।
भूर्यप्यभक्तोपहृतं न मे तोषाय कल्पते ॥ [भागवतम् ११.२७.१८]

इत्यत्र श्रद्धाभक्तिशब्दाभ्यामादर एवोच्यते । स तु भगवत्तोष
लक्षणफलविशेषस्योत्पत्तावनादरलक्षणतद्विघातकापराधस्य
निरसनपरः । तस्मात्श्रद्धा न भक्त्य्अङ्गं किन्तु कर्मण्यर्थि
समर्थविद्वत्तावदनन्यताख्यायां भक्तौ अधिकारिविशेषणमेवेत्य्
अतएव तद्विशेषणत्वेनैवोक्तं यदृच्छया मत्कथादौ जातश्रद्धस्तु
यः पुमान् [भागवतम् ११.२०.८] इति, जातश्रद्धो मत्कथासु [भागवतम् ११.२०.२७] इति च ।

अत्र तामारभ्येत्यर्थेन ल्यब्लोपे पञ्चम्य्अन्तेन तत इति
पदेनानवधिकनिर्देशेनात्मारामतावस्थायामपि सा केषांचित्प्रवर्तत
इति तस्याः साम्राज्यमभिप्रेतम् । अनन्तरं च वक्ष्यते न किञ्चित्साधवो
धीराः [भागवतम् ११.२०.३४] इति । अतः साम्राज्यज्ञापनया तां विना कर्मज्ञाने अपि
न सिध्यत इति च ज्ञापितम् । तदेवमनन्यभक्त्य्अधिकारे हेतुं श्रद्धा
मात्रमुक्त्वा स यथा भजेत्तथा शिक्षयति स श्रद्धालुर्विश्वासवान् ।
प्रीतो जातायां रुचावासक्तः । दृढनिश्चयः साधनाध्यवसायभङ्ग
रहितः सन् सहसा त्यक्तुम् (पगे ८२) असमर्थत्वात्कामान् जुषमाणश्च
गर्हयंश्च । गर्हणे हेतुः दुःखोदर्कान् शोकादिकृद्उत्तरकालानिति ।
अत्र कामा अपापकरा एव ज्ञेयाः । शास्त्रे कथञ्चिदप्य्
अन्यानुविधानायोगात् । प्रत्युत

परपत्नीपरद्रव्यपरहिंसासु यो मतिम् ।
न करोति पुमान् भूप तोष्यते तेन् केशवः ॥ [Vइড়् ३.८.१४]

इति विष्णुपुराणवाक्यादौ कर्मार्पणात्पूर्वमेव तन्निषेधात् । अत्रैव
च निष्कामकर्मण्यपि यद्यन्यन्न समाचरेत्[भागवतम् ११.२०.१०] इति
वक्ष्यमाणनिषेधात् । कर्मपरित्यागविधानेन सुतरां दुष्कर्म
परित्यागप्रत्यासत्तेः । विष्णुधर्मे

मर्यादां च कृतां तेन यो भिनत्ति स मानवः ।
न विष्णुभक्तो विज्ञेयः साधुधर्मार्चितो हरिः ॥

इति वैष्णवेष्वपि तन्निषेधात् ।

यत्पादसेवाभिरुचिस्तपस्विनाम्
अशेषजन्मोपचितं मलं धियः ।
सद्यः क्षिणोत्यन्वहमेधती सती
यथा पदाङ्गुष्ठविनिःसृता सरित् ॥ [भागवतम् ४.२१.३१]

इत्यत्र सद्यःशब्दप्रयोगेण जातमात्ररुचीनाम्

यदा नेच्छति पापानि यदा पुण्यानि वाञ्छति ।
ज्ञेयस्तदा मनुष्येण हृदि तस्य हरिः स्थितः ॥ इति विष्णुधर्मे ।

नियमेन विकर्म य चोत्पतितं कथञ्चिद्धुनोति सर्वं हृदि सन्निविष्टः
[भागवतम् ११.५.३८] इत्यत्रापि कथञ्चित्शब्दप्रयोगेण लब्धभक्तीनां च स्वतस्
तत्प्रवृत्त्य्अयोगात् । नाम्नो बलाद्यस्य हि पापबुद्धिर्न विद्यते तस्य
यमैर्हि शुद्धिः इति पाद्मे नामापराधभञ्जनस्तोत्रादौ हरिभक्ति
बलेनापि तत्प्रवृत्तावपराधापाताच्च । अपि चेत्सुदुराचारः [गीता ९.३०] इति
तु तद्अनादरदोषपर एव, न तु दुराचारताविधानपरः । क्षिप्रं
भवति धर्मात्मा [गीता ९.३१] इत्यनन्तरवाक्ये दुराचारतापगमस्य
श्रेयस्त्वनिर्देशादिति ॥

॥ ११.२० ॥ श्रीभगवान् ॥ १७२ ॥

[१७३]

नन्वेवं केवलानां कर्मज्ञानभक्तीनां व्य्वस्थोक्ता । नित्यनैमित्तिकं
कर्म तु सर्वेष्वावश्यकं, तर्हि साङ्कर्ये कथं शुद्धे ज्ञानभक्ती
प्रवर्तेयातां तदेतदाशङ्क्य तयोः कर्माधिकारितां वारयति ।

तावत्कर्माणि कुर्वीत न निर्विद्येत यावता ।
मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ॥ [भागवतम् ११.२०.९]

कर्माणि नित्यनैमित्तिकादीनीति टीका च । अतएव

श्रुतिस्मृती ममैवाज्ञे यस्ते उल्लङ्घ्य वर्तते ।
आज्ञाच्छेदी मम द्वेषी मद्भक्तोऽपि न वैष्णवः ॥

इत्युक्तदोषोऽप्यत्र नास्ति आज्ञाकरणात् । प्रत्युत तयोरपि निर्वेद
श्रद्धयोस्तत्करण एवाज्ञाभङ्गः स्यात् । यथा च व्याख्यातमाज्ञायैव
गुणान् दोषान् [भागवतम् ११.११.३२] इत्यस्य (पगे ८३) टीकायां भक्तिदार्ढ्येन
निवृत्ताधिकारतया सन्त्यज्येति । निवृत्ताधिकारित्वं चोक्तं श्रीकरभाजनेन


देवर्षिभूताप्तनृणां पितॄणां
न किङ्करो नायमृणी च राजन् ।
सर्वात्मना यः शरणं शरण्यं
गतो मुकुन्दं परिहृत्य कर्तम् ॥ [भागवतम् ११.५.४१]

इति तेषां न किङ्करः किन्तु श्रीभगवत एव इत्यनधिकारित्वम् । कर्तं
कृत्यम् । कर्तं भेदमित्यर्थे ततो देवतादीनां स्वातन्त्र्यमिति यावत् ।
एवमेवोक्तं गारुडे

अयं देवो मुनिर्वन्द्य एष ब्रह्मा बृहस्पतिः ।
इत्याख्या जायते तावद्यावन्नार्चयते हरिम् ॥ [ङर्ড়् १.२३५.२०]

न च विकर्मप्रायश्चित्तरूपं कर्मान्तरं कर्तव्यं तस्य तच्छरणस्य
विकर्मप्रवृत्त्य्अभावात् । कथञ्चिदापतितेऽपि विकर्मणि तद्
अनुस्मरणेनैव प्रायश्चित्तस्याप्यानुषङ्गिकसिद्धिरित्यप्युक्तम्
अनन्तरपद्येनैव

स्वपादमूलं भजतः प्रियस्य
त्यक्तान्यभावस्य हरिः परेशः ।
विकर्म यच्चोत्पतितं कथञ्चिद्
धुनोति सर्वं हृदि सन्निविष्टः ॥ [भागवतम् ११.५.४२] इति ।

त्यक्तोऽन्यत्र देवतान्तरे भगवतीव भावो भक्तिर्येनेति व्याख्येयम् । अत्र
कर्मपरित्यागहेतुत्वेनाभिधानात्श्रद्धाशरणापत्त्योरैकार्थ्यं
लभ्यते, तच्च युक्तम् । श्रद्धा हि शास्त्रार्थविश्वासः । शास्त्रं च तद्
अशरणस्य भयं तच्छरणस्याभयं वदति । ततो जातायाः श्रद्धायाः
शरणापत्तिरेव लिङ्गम् । न च वेदादीनां तर्पणमात्रतात्पर्येणापि
पृथक्पृथग्आराधनं कर्तव्यम् । यथा तरोर्मूलनिषेचनेन [भागवतम्
४.३१.१२] इत्यादौ तत्पौनरुक्त्यप्राप्तेः । न च त्यक्तकर्मणो मध्ये
विघ्नस्थगितायामपि भक्तौ तत्त्यागानुतापो युज्यते त्यक्त्वा स्व
धर्मं [भागवतम् १.५.१७] इत्य्आद्य्उक्तेः । श्रीगीतासु

सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ [गीता १८.६६]
इत्यस्य देवर्षिभूताप्तनॄणां [भागवतम् ११.५.३७] इत्यादिद्वयेनैकार्थ्यं
दृश्यते । अतो भक्त्य्आरम्भ एव तु स्वरूपत एव कर्मत्यागः कर्तव्यः ।
परित्यज्येत्यत्र परिशब्दस्य हि तथैवार्थः । गौतमीये च

न जपो नार्चनं नैव ध्यानं नापि विधिक्रमः ।
केवलं सततं कृष्णचरणाम्भोजभाविनाम् ॥ [ङौतमीयट्३३.५७]

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । [गीता ९.३४] इत्य्
आदिना चानन्यामेव भक्तिमुपदिदेश । यथा विष्णुपुराणेऽपि भरतम्
उद्दिश्य

यज्ञेशाच्युत गोविन्द माधवानन्त केशव ।
कृष्ण विष्णो हृषीकेशेत्याह राजा स केवलम् ।
नान्यज्जगाद मैत्रेय किञ्चित्स्वप्नान्तरेष्वपि ॥ [Vइড়् ?]

अत्र वचनान्तरस्यानवकाशात् । सुतरामेव तद्वचनमयकर्मान्तर
परित्यागोऽङ्गीकृतः । कथञ्चित्(पगे ८४) क्रियमाणमपि तन्नाम्नैव
कृतमित्यवगतेश्च सर्वत्र तद्ईक्षणाच्छुद्धभक्तित्वम्
एवाङ्गीकृतम् । यथोक्तं पाद्मे

सर्वधर्मोज्झिता विष्णोर्नाममात्रैकजल्पकः ।
सुखेन यां गतिं यान्ति न तां सर्वेऽपि धर्मिकाः ॥ [ড়द्मড়् ६.७१.९९] इति ।

तस्मान्मतान्तरेणाप्युचितः श्रद्धावतोऽनन्यभक्त्य्अधिकारः कर्माद्य्
अनधिकारश्चेति । किन्तु श्रद्धासद्भाव एव कथं जायते इति विचार्यम् ।
तत्र च लिङ्गत्वेन पूर्वं शरणापत्तिरुपदिष्टैव । यस्माच्च शरणापत्तौ
वक्ष्यमाणानि आनुकूल्यस्य सङ्कल्पः इत्यादीनि लिङ्गानि । तथा व्यवहार
कार्पण्याद्य्अभावोऽपि श्रद्धालिङ्गं ज्ञेयम् । शास्त्रं हि तथैव श्रद्धाम्
उत्पादयति ।

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ [गीता ९.२२]

किं च श्रद्धावतः पुरुषस्य भगवत्सम्बन्धिद्रव्यजातिगुण
क्रियाणां शास्त्रे श्रूयमाणेष्वैहिकव्यवहारिकप्रभावेष्वपि न
कथञ्चिदनाश्वासो भवति । ततस्तासु प्राकृतद्रव्यादिसाधारणदृष्ट्या
दोषविशेषानुसन्धानतो न कदाचिदप्रवृत्तिः स्यात् । ते च तादृश
प्रभावाः

अकालमृत्युशमनं सर्वव्याधिविनाशनम् ।
सर्वदुःखोपशमनं हरिपादोदकं स्मृतम् ॥ [णार्ড়् ३७.१६] इत्यादयः ।

केचित्तु तत्र श्रद्धावन्तोऽपि स्वापराधदोषेण सम्प्रति तत्फलं
नोदेष्यतीति स्थगितायन्ते । यत्तु यः स्मरेत्पुण्डरीकाक्षं स
बाह्याभ्यन्तरशुचिः इत्यादौ श्रद्दधाना अपि स्नानादिकमाचरन्ति । तत्
खलु श्रीमन्नारदव्यासादिसत्परम्पराचारगौरवादेव । अन्यथा तद्
अतिक्रमेऽप्यपराधः स्यात् । ते च तथा मर्यादां लोकस्य कदर्यवृत्त्यादि
निरोधायैव स्थापितवन्त इति ज्ञेयम् ।

किं च, जातायां श्रद्धायां सिद्धे वासिद्धौ च स्वर्णसिद्धिलिप्सोरिव सदा
तद्अनुगतिचेष्टैव स्यात् । सिद्धिश्चात्रान्तःकरणकामादिदोषक्षयकारि
परमानन्दपरमाकाष्ठागामिश्रीहरिस्फुरणरूपैव ज्ञेया । तस्यां
स्वार्थसाधनानुप्रवृत्तौ च दम्भप्रतिष्ठादिलिप्सादिमयचेष्टा
लेशोऽपि न भवति । न तेषां सुतरां ज्ञानपूर्वकं महद्
अवज्ञादयोऽपराधाश्चापतन्ति, विरोधादेव । अतएव चित्रकेतोः श्री
महादेवापराधः तस्य स्वचेष्टान्तरेणाच्छन्नस्वभावस्य भागवत
तत्त्वज्ञानादेव मन्तव्यः । यदि वा श्रद्धावतोऽपि प्रारब्धादिवशेन
विषयसम्बन्धाभ्यासो भवति । तथापि तद्बाधया विषयसम्बन्ध
समयेऽपि दैन्यात्मिका भक्तिरेवोच्छलिता स्यात् । यथोक्तं जुषमाणश्च
तान् कामान् दुःखोदर्कांश्च गर्हयेत्[भागवतम् ११.१४.१७] इत्यत्र बाध्यमानोऽपि
मद्भक्तः [भागवतम् ११.१४.१८] इत्यादौ च ।

अपि चेत्सुदुराचारः [गीता ९.३०] इत्य्आद्य्उक्तस्यानन्यभाक्त्वेन लक्षिता तु
या श्रद्धा सा खलु ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः [गीता
१७.१] इतिवल्लोकपरम्पराप्राप्ता, न तु शास्त्रावधारणजाता । शास्त्रीय
श्रद्धायां तु जातायां सुदुराचारत्वायोगः स्यात् । परपत्नीपरद्रव्य
[Vइড়् ३.८.१४] (पगे ८५) इत्य्आदिविष्णुतोषणशास्त्रविरोधात् । मर्यादां कृतां
तेन इत्यादिना तद्भक्तत्वविरोधाच्च । न तु सा दुराचारता तद्भक्ति
महिमश्रद्धाकृतैव । अपिशब्देन दुराचारत्वस्य हेयत्वव्यञ्जनात् ।
तथा क्षिप्रं भवति धर्मात्मा इत्य्उत्तराप्रतिपत्तेः । नाम्नो बलाद्यस्य
हि पापबुद्धिः इत्यादिनापराधापाताच्च ।

ततः सा श्रद्धा न शास्त्रीयभक्त्य्अधिकारिणां विशेषणत्वे प्रवेशनीया,
किन्तु भक्तिप्रशंसायामेव । तादृश्यापि श्रद्धया भक्तेः सत्त्वहेतुत्वं
न तु देवान्तरयजनवत् । ये शास्त्रविधिमुत्सृज्य [गीता १७.१] इत्य्आदाव्
एवोक्तमन्यादृशत्वमिति ।

अस्याः श्रद्धायाः पूर्णतावस्था तु ब्रह्मवैवर्ते

किं सत्यमनृतं चेति विचारः सम्प्रवर्तते ।
विचारेऽपि कृते राजन्नसत्यपरिवर्जनम् ।
सिद्धं भवति पूर्णा स्यात्तदा श्रद्धा महाफला ॥

तदेवंलक्सणेषु श्रद्धोत्पत्तिलक्षणेषु सत्सु विधीयते । मत्कथा
श्रवणादौ वा [भागवतम् ११.२०.९] इत्यादि च । अतएवानधिकार्य्अधिकारिविषयत्व
विवक्षयैव श्रीभगवन्नारदयोर्वाक्ये व्यवतिष्ठते

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
जोषयेत्सर्वकर्माणि विद्वान् युक्तः समाचरन् ॥ [गीता ३.२६] इत्यादि ।

जुगुप्सितं धर्मकृतेऽनुशासतः
स्वभावरक्तस्य महान् व्यतिक्रमः ।
यद्वाक्यतो धर्म इतीतरः स्थितो
न मन्यते तस्य निवारणं जनः ॥ [भागवतम् १.५.१५] इति च ।

एवमजितवाक्यं च तद्अधिकारिविषयमेव
स्वयं निःश्रेयसं विद्वान्न वक्त्यज्ञाय कर्म हि ।
न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषक्तमः ॥ इति ।

अत्र यद्यप्यधिकारितायां श्रद्धैव हेतुः सा चाज्ञस्य न सम्भवतीति
नैतत्तद्विषयं स्यात् । तथापि कथमपि प्राचीनसंस्कारवितर्केण तद्
अधिकारित्वनिर्णयान्न दोष इति ज्ञेयम् । अन्यथोपदेष्टुरेव दोषापातः
स्यात् । अश्रद्दधाने विमुखेऽप्यशृण्वति यश्चोपदेशः इति
वक्ष्यमाणापराधश्रवणात् ।

अथ प्रकृतमनुसरामः । तदेवं योगत्रयं तद्अधिकारहेतुश्चोक्त्वा
कर्मणोऽपि यथा भगवत्सम्मुख्यरूपत्वं स्यात्तथाह

स्वधर्मस्थो यजन् यज्ञैरनाशीःकाम उद्धव ।
न याति स्वर्गनरकौ यद्यन्यन्न समाचरेत् ॥
अस्मिŸ लोके वर्तमानः स्वधर्मस्थोऽनघः शुचिः ।
ज्ञानं विशुद्धमाप्नोति मद्भक्तिं वा यदृच्छया ॥ [भागवतम् ११.२०.१२१३]

अनाशीः कामोऽफलकामः । अन्यन्निषिद्ध्॰॰ । नरकयानं हि द्विधैव
भवति विहितान्तिक्रमान्निषिद्धाचरणाद्वा । अतः स्वधर्मस्थत्वान्
निषिद्धवर्जनाच्च नरकं न याति । अफलकामत्वान्न स्वर्गमपीत्य्
अर्थः । किन्त्वस्मिन् लोके अस्मिन्नेव देहे अनघो निषिद्धपरित्यागी । अतः
शुचिर्निवृत्तरागादिमलः । यदृच्छयेति केवलज्ञानादपि भक्ते
दुर्लभतां द्योतयतीत्येषा ।(पगे ८६)

अत्राफलकामत्वं केवलेश्वराज्ञाबुद्ध्या कुर्वाणत्वम् । अत्र ज्ञानिसङ्गे
सति तन्मात्रत्वमेव भगवद्अर्पणं भवेत् । भक्तसङ्गे तु
सतोषमयत्वमतो यदृच्छयेति पूर्ववद्भक्तसङ्गतत्कृपालक्षणं
भाग्यं बोधितम् । यदुक्तमेतावानेव यजताम् [भागवतम् २.३.११] इत्यादि । तद्
एवं कर्मार्पणकेवलज्ञानकेवलभक्तयोऽधिकारिभेदेन
व्यवस्थापिताः ।

अतः स्वाधिकारानुसारेणैव स्थातव्यमित्याह
स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः [भागवतम् ११.२१.२] स्पष्टम् ।

॥ ११.२१ ॥ श्रीभगवान् ॥ १७५ ॥

[१७६]

तत्र साम्मुख्यद्वारभूतस्य कर्मणः साक्षात्साम्मुख्यरूपज्ञान
भक्त्य्उदयपर्यन्तत्वात्स्वयमेव ताभ्यां न्यक्कारः । तत्र साक्षात्
साम्मुख्ये च निर्विशेषसाम्मुख्यं ज्ञानम् । सविशेषस्यापि तत्त्वस्य
भगवत्त्वं परमात्मत्वं चेति मुख्यमाविर्भावद्वयमिति । सविशेष
साम्मुख्यरूपाया भक्तेस्तु मुख्यं भेदद्वयं च भगवन्
निष्ठत्वं परमात्मनिष्ठत्वं च । तदेतत्त्रयं तत्र श्रीगीतासूक्तम् ।
तत्र अक्षरं ब्रह्म परमम् [गीता ८.३] इत्यक्षरशब्देन पूर्वोक्तं
ब्रह्म । तत्साम्मुख्यरूपं ज्ञानात्मकमुपासनं चोत्तरोक्तं यथा
यदक्षरं वेदविदो वदन्ति [गीता ८.११] इत्यादि । यथा परमात्मानमपि
पुरुषश्चाधिदैवतम् [गीता ८.४] इति, अधियज्ञोऽहमेवात्र देहे देहभृतां
वर [गीता ८.४] इति च, विराड्व्यष्टिरूपाधिष्ठानद्वयभेदेन भिन्न
प्रायमुक्त्वा भक्तिरीतिद्वयी तयोरेकप्राया दर्शिता । अभ्यासयोग
युक्तेन [गीता ८.८] इत्य्आदिनैका । कविपुराणमनुशासितारम् [गीता ८.९] इत्य्
आदिनान्या । तथा मत्शब्दोक्तश्रीकृष्णाख्यस्य भगवद्भक्तिप्रकाशश्
चायम्

अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ [गीता ८.१४]

तदेतत्साम्मुख्यत्रयं श्रीकपिलदेवेनाप्युक्तम् ।

ज्ञानमात्रं परं ब्रह्म परमात्मेश्वरः पुमान् ।
दृश्य्आदिभिः पृथग्भावैर्भगवानेक ईयते ॥ [भागवतम् ३.३२.२६] इति ।

दृशिर्ज्ञानं पृथक्परम्परमन्यादृशो भावो भावना । येष्यु
तथाविधैर्ज्ञानादिभिरेक एव परिपूर्णस्वरूपगुणः परं ब्रह्मेयते
परमात्मेयते भगवांश्चेयते । तत्र ज्ञानेन परब्रह्मतया ज्ञायते ।
भक्तिविशेषेण परमात्मतया पूर्णया भक्त्या भगवत्तयेति ज्ञेयम् ।
परब्रह्मणः स्वरूपलक्षणं ज्ञानमात्रमिति परमात्मन ईश्वरः
पुमानिति । भगवतो भगवानित्येव । विवृतं चैतत्साम्मुख्यत्रयं
भगवत्परमात्मसन्दर्भयोः । ब्रह्मणः तथापि भूमन् [भागवतम् १०.१४.६]
इत्यादिना । परमात्मनः केचित्स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं
पुरुषं वसन्तम् [भागवतम् २.२.८] इत्यादिना । भगवतो भक्तियोगेन मनसि
[भागवतम् १.७.४] इत्यादिना च ।

तथा च यद्यपि साम्मुख्यत्वेनाविशिष्टं ज्ञानादित्रयमपि तद्
वैमुख्यप्रतियोगि भवेत् । तथापि (पगे ८७) श्रेयःसृतिं भक्तिमुदस्य
ते विभो [भागवतम् १०.१४.४] इत्यादिना भक्तिं विना केवलज्ञानस्याकिञ्चित्करत्वात्
तत्रापि च तस्मान्मद्भक्तियुक्तस्य [भागवतम् ११.२०.३१] इत्यादौ भक्तेस्तन्
निरपेक्षत्वात्यत्कर्मभिर्यत्तपसा [भागवतम् ११.२०.३२] इत्यादावानुसङ्गिक
सर्वफलत्वाच्च ज्ञानमपि न्यक्कृतम् ।

ततोऽवशिष्टायां सविशेषोपासनरूपायां, भक्तौ च श्रीविष्णुरूपम्
अबहुमन्यमानाः केचिन्निराकारेश्वरस्य वोपासनां यां मन्यन्ते सापि
न्यक्कृतास्ति । यतो हिरण्यकशिपोरपि नित्य आत्माव्ययः शुद्धः [भागवतम् ७.२.१८]
इत्यादितद्वाक्येन यदृच्छयेशः सृजतीदमव्ययः [भागवतम् ७.२.३४] इत्य्आदितद्
उदाहृतेतिहासवाक्येन तत्कृतब्रह्मस्तवेन च ब्रह्मज्ञानं
निराकारेश्वरज्ञानमन्याकारेश्वरज्ञानं तस्यास्तीति वर्ण्यते । श्रीविष्णौ
देवतासामान्यदृष्टेर्निन्द्यते च स इति । तथान्यत्राहंग्रहोपासना च
न्यक्कृता, पौण्ड्रकवासुदेवादौ यदुभिरिव शुद्धभक्तैर्
उपहास्यत्वात् । सालोक्यसार्ष्टिसारूप्य [भागवतम् ३.२९.११] इत्य्आदिषु तत्फलस्य
हेयतया निर्देशात् । तदुक्तं श्रीहनुमता को मूढो दासतां प्राप्य
प्राभवं पदमिच्छति इति । तदेतत्सर्वमभिप्रेत्य्निष्किञ्चनां भक्तिम्
एव तादृशभक्तप्रशंसाद्वारेण सर्वोर्ध्वमुपदिशति,

न किञ्चित्साधवो धीरा भक्ता ह्येकान्तिनो मम ।
वाञ्छन्त्यपि मया दत्तं कैवल्यमपुनर्भवम् ॥ [भागवतम् ११.२०.३४]

टीका च धीरा धीमन्तो यतो ममैकान्तिनो मय्येव प्रीतियुक्ताः । अतो
मया दत्तमपि न गृह्णन्ति, किं पुनर्वक्तव्यं न वाञ्छन्तीत्यर्थः ।
अपुनर्भवमात्यन्तिककैवल्यमित्येषा ।

ईदृशामेकान्तिनामेव परममहिमा गारुडे
ब्राह्मणानां सहस्रेभ्यः सत्रयाजी विशिष्यते ।
सत्रयाजिसहस्रेभ्यः सर्ववेदान्तपारगः ॥
सर्ववेदान्तवित्कोट्यां विष्णुभक्तो विशिष्यते ।
वैष्णवानां सहस्रेभ्यः एकान्त्येको विशिष्यते ॥ इति ।

यस्मादेवं सर्वानन्दातिक्रमलिङ्गेन परमानन्दस्वरूपासौ भक्तिस्
तस्मात्तत्र स्वभावत एव प्रवृत्तिर्गुणः । तथाभूतामपि तन्माधुरीं
स्वदोषेणानुभवितुमसमर्थानां तु केवलविधिनिषेधसम्भवगुण
दोषदृष्ट्यैवप्रवृत्तिरपि पूर्वापेक्षया दोष एव । यथोक्तमेतत्
पूर्वाध्याये शमो मन्निष्ठताबुद्धिः [भागवतम् ११.१९.३३] इत्यादौ, साक्षाद्
भक्तेरपि विधानाविधानयोर्गुणदोषतां किं वर्णितेन बहुना [भागवतम्
३.२९.११] इत्यन्तेन ग्रन्थेन प्रतिपाद्य गुणदोषदृशिर्दोषो गुणस्तूभय
वर्जितः [भागवतम् ११.१९.४३] इति । अतएव लब्धतन्माधुर्यानुभावनां तद्विधि
निषेधकृतगुणदोषौ नस्त एवेत्याह न मय्येकान्तभक्तानां गुण
दोषोद्भवा गुणाः [भागवतम् ११.२०.३६] ।

टीका च गुणदोषैर्विहितप्रतिषिद्धैरुद्भवा येषां ते गुणाः पुण्य
पापादय इत्येषा ।

॥ ११.२० ॥ श्रीभगवान् ॥ १७७ ॥

[१७८]
इयमकिञ्चनाख्या भक्तिरेव जीवानां स्वभावत उचिता । स्वाभाविकतद्
आश्रया हि जीवाः । स कारणं कारणाधिपाधिपः इति श्रुतेः । अंशत्वेऽपि
बहिरङ्गवस्वीकारात्तद्आश्रयत्वं सूर्यमण्डलबहिर्आतप
परमाणूनामिव । अतएव पाद्मोत्तरखण्डे प्रणवव्याख्याने (पगे
८८)

अकारश्चाप्युकारश्च मकारश्च ततः परम् ।
वेदत्रयात्मकं प्रोक्तं प्रणवं ब्रह्मणः पदम् ॥२२॥
अकारेणोच्यते विष्णुः श्रीरुकारेण चोच्यते ।
मकारस्त्वनयोर्दासः पञ्चविंशः प्रकीर्तितः ॥ [ড়द्मড়् ६.२२६.२२२३]

अन्ते चबहगवच्छेषरूपोऽसौ मकाराख्यः सचेतनः इति । तथा

अवधारणवाच्येवमुकारः कैश्चिदुच्यते ।
श्रीश्च तत्पक्षपातित्वादकारेणैव चोच्यते ।
भास्करस्य प्रभा यद्वत्तस्य नित्यानपायिनी ॥ [ড়द्मড়् ६.२२६.२९३०] इत्य्
आदि ।

अतएव श्रीवैष्णवानां प्रणव एव महावाक्यमिति स्थितम् ।
तथाष्टादशाक्षरव्याख्याने

श्रीमते विष्णवे तस्मै दास्यं सर्वं करोम्यहम् ।
देशकालाद्य्अवस्थासु सर्वासु कमलापतेः ॥
इति स्वरूपसंसिद्धं सुखं दास्यमवाप्नुयात् ।
एवं विदित्वा मन्त्रार्थं तद्भक्तिं सम्यगाचरेत् ॥
दासभूतमिदं तस्य जगत्स्थावरजङ्गमम् ।
श्रीमन्नारायणः स्वामी जगतां प्रभुरीश्वरः ॥ [ড়द्मড়् ६.२२६.३६३८] इति ।

तदेतदाहुः
स्वकृतपुरेष्वमीष्वबहिर्अन्तरसंवरणं
तव पुरुषं वदन्त्यखिलशक्तिधृतोऽंशकृतम् ।
इति नृगतिं विविच्य कवयो निगमावपनं
भवत उपासतेऽङ्घ्रिमभवं भुवि विश्वसिताः ॥ [भागवतम् १०.८७.२०]

स्वयेन त्वा कृतेषु परेषु देहेषु वर्तमानं पुरुषं जनं तवैवांश
रूपेण कृतं नित्यसिद्धं वदन्ति । तत्राखिलशक्तिधृतस्तव इत्युक्त्वा तद्
अखिलशक्तिगुणान्तःपातिजीवाख्यतटस्थशक्तिविशिष्टस्यैव तवांशो न
तु स्वरूपशक्तिविशिष्टस्य केवलस्वरूपस्येत्यायातम् । ततो मूलमण्डल
स्थानीयत्वद्आश्रयकस्त्वदेवजीवनश्चासौ जीव इति तत्त्वं विविच्य ज्ञात्वा
कवयः पण्डिताः विश्वसिताः श्रद्दधाना भवत एवाङ्घ्रिमुपासते ।
विश्वासे हेतुर्निगमावपनं सकलवेदबीजोज्जीवनैकाश्रयक्सेत्रं शास्त्र
योनिमित्यर्थः । अतो नित्यत्वाश्रयैकजीवनानामपि तेषां त्वद्
वैमुख्येन यत्संसारदुःखं भवति तदपि स्वयमेव पलायत इत्य्
आहुः अभवमिति । न विद्यते भवः संसारो यत्रेति । अथवा भजनीयस्य
नित्यत्वेन भक्तेरप्यनश्वरत्वं प्रतिपादयन्ति अभवं जन्मरहितम्
अङ्घ्रिमिति । तस्मादकिञ्चानाख्या भक्तिरेव सर्वोर्ध्वमभिधेया ॥

॥ १०.८७ ॥ श्रुतयः श्रीभगवन्तम् ॥ १७८ ॥

[१७९]

अथ तस्या एव प्रकारान्तरेण स्थापनाय प्रकरणान्तरं यावत्तल्लक्षण
प्रकरणम् । तदेवं परमदुर्लभस्वरूपं परमदुर्लभफलं
चाकिञ्चनाख्यसाक्षाद्भक्तिरूपं साम्मुख्यं कथं स्यादिति वक्तुं
साम्मुख्यमात्रस्य निदानमुपलक्षयति । (पगे ८९)

भवापवर्गो भ्रमतो यदा भवेज्
जनस्य तर्ह्यचुत सत्समागमः ।
सत्सङ्गमो यर्हि तदैव सद्गतौ
परावरेशे त्वयि जायते मतिः ॥ [भागवतम् १०.५१.५३]

यदा भ्रमतः संसरतो भवापवर्गो भवेत्सम्प्राप्तकालः स्यात्, तदा
सत्सङ्गमो भवेत् । तदा भवापवर्गो भवेदिति वक्तव्ये वैपरीत्येन
निर्देशस्तत्र सत्सङ्गमस्य श्रीघ्रतयावश्यकतया च हेतुताविवक्षया
तथोक्तं नलकूवरमणिग्रीवौ प्रति श्रीभगवता

साधूनां समचित्तानां सुतरां मत्कृतात्मनाम् ।
दर्शनान्नो भवेद्बन्धः पुंसोऽक्ष्णोः सवितुर्यथा ॥ [भागवतम् १०.१०.४१] इति ।

अतएवातिशयोक्तिनामालङ्कारस्य चतुर्थो भेदोऽयमित्यालङ्कारिकाः । तद्
उक्तं तद्विवृत्तौ

चतुर्थी सा कारणस्य गदितुं शीघ्रकारिताम् ।
या हि कार्यस्य पूर्वोक्तिः इति ।

तत्र हेतुर्यर्हि यदा सत्सङ्गमस्य दैवपरावरेशे त्वयि मतिर्भवति
तद्वैमुख्यकरानादिसिद्धतज्ज्ञानसंसर्गाभावान्ते तत्
साम्मुख्यकरं तज्ज्ञानं जायत इत्यर्थः । अतएवोक्तं श्रीविदुरेण

जनस्य कृष्णाद्विमुखस्य दैवाद्
अधर्मशीलस्य सुदुःखितस्य ।
अनुग्रहायेह चरन्ति नूनं
भूतानि भव्यानि जनार्दनस्य ॥ [भागवतम् ३.५.३] इति ।

अत्र दैवात्प्राचीनकर्मणो हेतोस्तदावेशादधर्मशीलस्य भगवद्
धर्मरहितस्येत्यर्थः । मूलपद्ये यर्हि यदेति निर्देशान्न काल
विलम्बेन । तत्र चैवकारान्नान्यदा कदाचिदपीत्यर्थः । तेन तन्मतौ
हेतुः सद्गतौ यत्र यत्रसन्तः सङ्गच्छन्ते तत्र तत्र गतिः स्फुरणं
यस्य तस्मिंस्त्वयीति । तथा च इतिहाससमुच्चये

यत्र रागादिरहिता वासुदेवपरायणाः ।
तत्र सन्निहितो विष्णुर्नृपतेर्नात्र संशयः ॥ इति ।

सतां गतावित्यत्र व्याखानेऽपि असतां त्वसौ न गतिः । अतस्तद्
द्वारैवान्येषां तल्लाभो युक्त इति पूर्ववदेव । पिङ्गलाया अपि सत्सङ्गे
विदेहानां पुरे ह्यस्मिन्नहमेकैव मूढधीः [भागवतम् ११.८.३३] इत्यत्र
व्यक्तोऽस्ति । टीका च सत्सङ्गतौ सत्यामप्यहो मे मोह इत्याह
विदेहानामिति इत्येषा ।

तदेवं यत्र नोपलभ्यते सत्सङ्गस्तत्राप्याधुनिकः प्राक्तनो वा
पारम्परिको वानुमेय एव । अत्र कृतश्रीनारदादिदर्शनादेरपि
देवतादेः श्रीनलकूवरादिवत्तादृशत्वप्राप्तिर्न श्रूयत इत्यत एवं
विवेचनीयम् । यद्यप्यपराधसद्भावो वर्तते पुरुषे तदा तद्दोषेण
सत्सु निरादराणां साधारणपुण्यादिदृष्टीनां च तद्दोषशान्त्य्अर्थं
सत्सङ्गस्य भगवत्साम्मुख्यकारणत्वेऽपि तत्कृपासाहाय्यमपेक्षते ।
निरपराधत्वे सति तत्सङ्गेनैव जातपरमोत्तमदृष्टीनां तेषु
मनोऽवधानाभावेऽपि सत्सङ्गमात्रं तत्कारणमिति । अतः सापराधान्
एवाधिकृत्योक्तमजानजदेवैः

(पगे ९०)

तान् वै ह्यसद्वृत्तिभिरक्षिभिर्ये
पराहृतान्तर्मनसः परेश ।
अथो न पश्यन्त्युरुगाय नूनं
ये ते पदन्यासविलासलक्ष्याः ॥ [भागवतम् ३.५.४४]

ते तव पदन्यासविलासक्षण्याः सम्बन्धिओ ये भक्ता इत्यर्थः । ते तान्
नूनं प्रायो न पश्यन्ति न कृपादृष्टिविषयीकुर्वन्तीत्यर्थः । कान् ? य
असद्वृत्तिभिः सापराधचेष्टैरक्षिभिरिन्द्रियैः परकृतान्तर्मनसो
दूरीकृतान्तर्मुखचित्तवृत्तयो बहिर्मुखा इत्येवं व्याख्यानमत्राप्य्
अनुसन्धेयम् । अत्र साधारणासद्वृत्तित्वं न गृह्यते । सर्वस्य तत्कृपायाः
प्राक्तथाभूतत्वात् । जनस्य कृष्णाद्विमुखस्य दैवाद्[भागवतम् ३.५.३] इत्य्
आदिकविषयं स्यादिति तस्मादपराधासद्वृत्तौ तेषां कृपा प्रवर्तत एव ।
कथञ्चिदपराधाभावेन तद्अप्रवृत्तावपि सङ्गमात्रेणैव तेषां
सम्मतिः स्यात् । यत्र तु सापराधेऽपि स्वैरतयैव कृपां कुर्वन्ति तस्यैव
तन्मतिः स्यान्नान्यस्य नलकूवरवत्साधारणदेवतावच्चेति । तथा श्री
भरतस्य रहूगणे यथा चोपरिचर वसोर्वृत्तं विष्णुधर्मेस हि देव
साहाय्यायैव दैत्यान् हत्वा विरज्य च भगवद्अनुध्यानाय पातालं च
प्रविष्टवान् । तं च निवृत्तमपि हन्तुं लब्धच्छिद्रा दैत्याः समागत्य
तत्प्रभावेणोद्यतशस्त्रा एवातिष्ठन् । ततश्च व्यर्थोद्यमाः पुनः
शक्रोपदेशेन तं प्रति पाषण्डमार्गमुपदिशन्तोऽपि जातया तत्कृपया
भगवद्भक्ता बभूवुः [Vइढ्ড়् ३.३४६] इति ।

अत उक्तं विष्णुधर्म एव

अनेकजन्मसंसाररचिते पापसमुच्चये ।
नाक्षीणे जायते पुंसां गोविन्दाभिमुखी मतिः ॥ इति ।

ननु, नैतान् विहाय कृपणान् विमुमुक्ष एको नान्यं त्वदस्य शरणं
भ्रमतोऽनुपश्ये ॥ [भागवतम् ७.९.४४] इत्येवं श्रीप्रह्लादस्य सर्वस्मिन्नपि
संसारिणि कृपा जाता तर्हि कथं न सर्वमुक्तिः स्यात्? उच्यते, जीवानाम्
अनन्तत्वान्न ते सर्वे मनसि तस्यारूढा यावन्तो दृष्ट्वा श्रुतास्तच्
चेतस्यारूढास्तावतां तत्प्रसादाद्भविष्यत्येव मोक्षः । नैतानित्येतच्
छब्दप्रयोगात् । ये चान्ये तेषामपि तत्कीर्तनस्मरणमात्रेणैव
कृतार्थतावरं स्वयमेव कृपया दत्तवान् श्रीनृसिंहदेवः

य एतत्कीर्तयेन्मह्यं त्वया गीतमिदं नरः ।
त्वां च मां च स्मरन् काले कर्मबन्धात्प्रमुच्यते ॥ [भागवतम् ७.१०.१४] इति ।

यस्त्वां कीर्तयेदपि किं पुनस्त्वं यान् कृपया स्मरसीति भावः । तस्मात्
साधूक्तं भवापवर्गो भ्रमतो यदा भवेदिति ।

॥ १०.५१ ॥ मुचुकुन्दः श्रीभगवन्तम् ॥ १७९ ॥

[१८०]

ततः सत्सङ्गस्यैव तत्र निदानत्वं सिद्धम् । तच्च युक्तमनादिसिद्ध
तज्ज्ञानमयतद्वैमुख्यवताम् । अन्यथा हि तद्असम्भवः । तदुक्तम्


तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना
नासावृषिः यस्य मतं न भिन्नम् ।
धर्मस्य तत्त्वं निहितं गुहायां
महाजनो येन गतः स पन्थाः ॥ [ंभ्३.३१३.११७]

(पगे ९१)

तथैव श्रीप्रह्लादवाक्यम्
मतिर्न कृष्णे परतः स्वतो वा
मिथोऽभिपद्येत गृहव्रतानाम् । [भागवतम् ७.५.३०]

इत्युपक्रम्य
नैषां मतिस्तावदुरुक्रमाङ्घ्रिं
स्पृशत्यनर्थापगमो यद्अर्थः ।
महीयसां पादरजोऽभिषेकं
निष्किञ्चनानां न वृणीत यावत् ॥ [भागवतम् ७.५.३२]

तथा तद्विमुखकर्मादिभिस्तत्साम्मुख्यप्रतिपत्तेश्चात्यान्तायोगः ।
कृताकृतादन्यत्र भूताच्च भव्याच्च इति श्रुत्य्आदेः । तमेतमात्मानं
वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानशकेन [Bआऊ
४.४.२] इति श्रुत्य्आदिकं तु तत्साम्मुखेनैव प्रयुक्तानि कर्माण्य्
अभिदधाति । तर्हि तदेव साम्मुख्यं कथं स्यादिति पुनरपि हेतुरेव
प्रष्टव्यः स्यात् ।

अथ भगवत्कृपैव तत्साम्मुख्ये प्राथमिकं कारणमिति च गौणम् ।
सा हि संसारदुरन्तानन्तसन्तापसन्तप्तेष्वपि तद्विमुखेषु स्वतन्त्रा
न प्रवर्तते तद्असम्भवात् । कृपारूपश्चेतोविकारो हि परदुःखस्य स्व
चेतसि पर्श सत्येव जायते । तस्य तु सदा परमानन्दैकरसत्वेनापहत
कल्मषत्वेन च श्रुतौ जीवविलक्षणत्वसाधनात् । तेजोमालिनस्
तिमिरायोगवत्तच्चेतस्यपि तमोमयदुःखस्पर्शनासम्भवेन । तत्र
तस्या जन्मासम्भवः अतएव सर्वदा विराजमाणेऽपि कर्तुमकर्तुमन्यथा
कर्तुं समर्थे तस्मिंस्तद्विमुखानां न संसारसन्तापाः सन्ति । अतः सत्
कृपैकावशिष्यते । सन्तोऽपि तदानीं यद्यपि सांसारिकदुःखैर्न स्पृश्यन्त
एव तथापि लब्धजागराः स्वप्नदुःखवत्ते कदाचित्स्मरेयुरपीत्यतस्
तेषां संसारिकेऽपि कृपा भवति । यथा श्रीनारदस्य नलकूवर
मणिग्रीवयोः । तस्मात्प्रस्तुतेऽपि संसारिकदुःखस्य तद्धेतुत्वाभावात् ।
परमेश्वरकृपा तु स एवात्र मम शरणमित्यादिदैन्यात्मिका भक्ति
सम्बन्धेनैव जायते, यथा गजेन्द्रादौ व्यतिरेके नारक्यादौ । भक्तिर्हि
भक्तकोटिप्रविष्टतद्आर्द्रीभावयितृतच्छक्तिविशेष इति विवृतं
विवरिष्यते च । दैन्यसम्बन्धेन च साध्वियमुच्छलिता भवतीति तत्र
तद्आधिक्यम् । तस्माद्या कृपा तस्य सत्सु वर्तते सा सत्सङ्गवाहनैव वा
सत्कृपावाहनैव वा सती जीवान्तरे सङ्क्रमते न स्वतन्त्रेति स्थितम् ।
तथैव चाहुः

स्वयं समुत्तीर्य सुदुस्तरं द्युमन्
भवार्णवं भीममदभ्रसौहृदाः ।
भवत्पदाम्भोरुहनावमत्र ते
निधाय याताः सद्अनुग्रहो भवान् ॥ [भागवतम् १०.२.३१]

हे द्युमन् स्वप्रकाश भवत्पदाम्भोरुहलक्षणा या नौर्भवार्णव
तरणोपायस्तामत्र भवार्णवपारे निधाय उत्तरोत्तरजनेषु प्रकाश्येत्य्
अर्थः । ननु कथं तां न स्वयं प्रकाशयामि । कथमिव तेषामपेक्षा ।
तत्र सद्भिरेव द्वारभूतैरन्याननुगृह्णाति यः स सद्अनुग्रहो भवान्
इति । यद्वा सन्त एवानुग्रहो यस्य सः । तवानुग्रहो यः प्रापञ्चिके चरति
स तद्आकारतयैव चरति नान्यरूपतयेत्यर्थः । तथोक्तं श्रीरुद्रगीते
 (पगे ९२)

अथानघाङ्घ्रेस्तव कीर्तितीर्थयोर्
अन्तर्बहिःस्नानविधूतपाप्मनाम् ।
भूतेष्वनुक्रोशसुसत्त्वशीलिनां
स्यात्सङ्गमोऽनुग्रह एष नस्तव ॥ [भागवतम् ४.२४.५८] इति ।

सत्स्वनुग्रहो यस्येति व्याख्यानेऽपि तद्विमुखेष्वसत्सु तवानुग्रहो
नास्तीति प्राप्तेः सद्द्वारैव तत्प्रकाशनमुचितमित्येवायाति । तदेवं

जायमानं हि पुरुषं यं पश्येन्मधुसूदनः ।
सात्त्विकस्तु स विज्ञेयो भवेन्मोक्षे च निश्चितः ॥ [ंभ्१२.३३६.६८]

इति मोक्षधर्मवचनमपि सत्सङ्गानन्तरजन्मपरमेव
बोद्धव्यम् ।

॥ १०.२ ॥ देवाः भगवन्तम् ॥ १८० ॥

[१८१]

ततः सत्सङ्गहेतुश्च सतां स्वैरचारितैव नान्यः । यथाह

त एकदा निमेः सत्रमुपजग्मुर्यदृच्छया । [भागवतम् ११.२.२४]

ते नवयोगेश्वरा यदृच्छया स्वैरतया न तु हेत्व्अन्तरप्रयुक्तेत्यर्थः ।
यदृच्छा स्वैरिता इत्यमरः । सत्सु परमेश्वरप्रयोक्तृत्वं च सद्
इच्छानुसारेणैव । तदुक्तं स्वेच्छामयस्य [भागवतम् १०.१४.२] इति । अहं भक्त
पराधीनः [भागवतम् ९.४.४६] इति च ।

॥ ११.२ ॥ श्रीनारदः ॥ १८१ ॥

[१८२]

तथा

तस्यैकदा तु भवनमङ्गिरा भगवानृषिः ।
लोकाननुचरन्नेतानुपागच्छद्यदृच्छया ॥ [भागवतम् ६.१४.१४]
तस्य चित्रकेतोः । अत्रापि तदैव तस्य साम्मुख्यं जायम् । कालान्तरे तु
प्रादुर्भूतमिति मन्तव्यम् । अतएव तद्विलापसमये श्रीमताङ्गिरसैव
ब्रह्मण्यो भगवद्भक्तो नावसीदितुमर्हति [भागवतम् ६.१५.१२] इत्युक्तम् ।

॥ ६.१४ ॥ श्रीशुकः ॥ १८२ ॥

[१८३]

सतां कृपा च दुरवस्थादर्शनमात्रोद्भवा न स्वोपासनाद्य्अपेक्षा,
यथा श्रीनारदस्य नलकूवरमणिग्रीवयोः । तदाह

भजन्ति ये यथा देवान् देवा अपि तथैव तान् ।
छायेव कर्मसचिवाः साधवो दीनवत्सलाः ॥ [भागवतम् ११.२.६] इति ।

स्पष्टम् ॥ ११.२ ॥ श्रीमानानकदुन्दुभिः ॥ १८३ ॥

[१८४]

तदेवं सत्सङ्गमात्रस्य तत्साम्मुख्यमात्रे निदानत्वमुक्तम् । एतद्
एव व्यक्तिरेकेणाह

न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।
ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥ [भागवतम् १०.८४.११]

ते कथं नाद्रियन्ते गौणत्वादित्याह ते पुनन्तीति ।

॥ १०.८४ ॥ श्रीभगवान्मुनिवर्गम् ॥ १८४ ॥

[१८५]

तदेवं सत्सङ्गमात्रस्य तत्साम्मुख्यमात्रे निदानत्वमुक्तम् । एतद्
एव व्यतिरेकेणाह

ज्ञानं विशुद्धं परमार्थमेकम्
अनन्तरं त्वबहिर्ब्रह्म सत्यम् ।
प्रत्यक्प्रशान्तं भगवच्छब्दसंज्ञं
यद्वासुदेवं कवयो वदन्ति ॥

रहूगणैतत्तपसा न याति
न चेज्यया निर्वपणाद्गृहाद्वा । (पगे ९३)
न च्छन्दसा नैव जलाग्निसूर्यैर्
विना महत्पादरजोऽभिषेकम् ॥ [भागवतम् ५.१२.१२]

तर्हि किं सत्यम् ? ज्ञानं सत्यम् । व्यावहारिकसत्यत्वं व्यावर्तयति ।
परमार्थम् । वृत्तिज्ञानव्यवच्छेदार्थानि षड्विशेषणानि । विशुद्धं तत्
तु आविद्यकम् । एकं तत्तु नानारूपम् । अनन्तरं तु बहिर्बाह्याभ्यन्तर
शून्यं तत्तु विपरीतं ब्रह्म परिपूर्णं तत्तु परिच्छिन्नम् । प्रत्यक्तत्
तु विषयाकारम् । प्रशान्तं निर्विकारं, तत्तु सविकारम् । तदेवं स्वरूपं
ज्ञानं सत्यमित्युक्तम् । कीदृशं तत्? ऐश्वर्यादिषड्गुणत्वेन भगवच्
छब्दः संज्ञा यस्य । यच्च ज्ञानं वासुदेवं वदन्ति । तत्प्राप्तिश्च
महत्सेवां विना न भवतीत्याह हे रहूगण । एतज्ज्ञानं तपसा पुरुषो
न याति इज्यया वैदिककर्मणा निर्वपणादन्नादिसंविभागेन गृहाद्वा
तन्निमित्तपरोपकारेण छन्दसा वेदाभ्यासेन जलाग्न्य्आदिभिरुपासितैर्
इत्येषा ।

अत्र ब्रह्मत्वादिना जीवस्वरूपं सूक्ष्मत्वादिधर्मकं ज्ञानमपि
निरस्तं वेदितव्यम् ॥

॥ ५.१२ ॥ श्रीब्राह्मणो रहूगणम् ॥ १८५ ॥

[१८६]

तदेवं सत्सङ्ग एव तत्साम्मुख्ये द्वारमित्युक्तम् । ते च सन्तस्तत्
सम्मुखा एवात्र गृह्यन्ते । न तु वैदिकाचारमात्रपरा अनुपयोगित्वात् ।
तत्र यादृशः सत्सङ्गस्तादृशमेव साम्मुख्यं भवतीति वक्तुं तेषु
सत्सु ये महान्तस्तेषां द्वैविध्यमाह सार्धेन ।

महान्तस्ते समचित्ताः प्रशान्ता
विमन्यवः सुहृदः साधवो ये ।
ये वा मयीशे कृतसौहृदार्था
जनेषु देहम्भरवार्तिकेषु ॥
गृहेषु जायात्मजरातिमत्सु
न प्रीतियुक्ता यावद्अर्थाश्च लोके ॥ [भागवतम् ५.५.२३]

ये समचित्ता निर्विशेषब्रह्मनिष्ठास्ते महान्तस्तेषां शीलमाह
प्रशान्ता इत्यादि । महद्विशेषमाह ये वेति । वाशब्दः पक्षान्तरे ।
उत्तरपक्षत्वादस्यैव श्रेष्ठत्वं मयि कृतं सिद्धं यत्सौहृदं प्रेम
तदेव अर्थः पुरुषार्थो येषां यथाभूता ये ते महान्त इति
पूर्वेणान्वयः । यतो मयि सौहृदार्थास्तत एव देअम्भअरवार्तिकेषु
विषयवार्तानिष्ठेषु जनेषु तथा गेहेषु जायात्मजबन्धुवर्गयुक्तेषु
न प्रीतियुक्ताः, किन्तु यावद्अर्थः यावानर्थः श्रीभगवद्
भजनानुरूपं प्रयोजनं तावानर्थो धनं येषां तथाभूता इत्यर्थः ।
उभयोर्महत्त्वं च महाज्ञानित्वान्महाभागवतत्वाच्च, न तु द्वयोः
साम्याभिप्रायेण । मुक्तानामपि सिद्धानां नारायणपरायणः [भागवतम्
६.१४.५] इत्याद्य्उक्तेः । अत्र ज्ञानमार्गे ब्रह्मानुभविनो महान्तो भक्ति
मार्गे लब्धभगवत्प्रेमाणो महान्त इति लक्षणसामान्यमिति ज्ञेयम् ।

॥ ५.५ ॥ श्र्यृषभः स्वपुत्रान् ॥ १८६ ॥

[१८७]

अत्र चैवं विवेचनीयम् । तत्तन्मार्गे सिद्धा महान्तो द्विविधा दर्शिताः ।
अत्र च ज्ञानसिद्धाः । देहं च नश्वरमवस्थितमुत्थितं वा सिद्धो न
पश्यति यतोऽध्यगमत्स्वरूपम् [भागवतम् ११.१३.३५] इत्यादौ वर्णिताः । (पगे ९४)

अत्र भक्तसिद्धास्त्रिविधाः । प्राप्तभगवत्पार्षददेहा निर्धूत
कषाया मूर्च्छितकषायाश्च । यथा श्रीनारदादयः श्रीशुकादयः प्राग्
जन्मगतनारदादयः ।

प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् ।
आरब्धकर्मनिर्वाणो न्यपतत्पाञ्चभौतिकः ॥ [भागवतम् १.६.२९] इत्यादौ ।

स्वसुखनिभृतचेतास्तद्व्युदस्तान्यभावोऽप्यजितरुचिरलीलाकृष्टसारः
[भागवतम् १२.१२.५२] इत्यादौ ।

हन्तास्मिन् जन्मनि भवान्
मा मां द्रष्टुमिहार्हति ।
अविपक्वकषायाणां
दुर्दर्शोऽहं कुयोगिनाम् ॥ [भागवतम् १.६.२२] इत्यादौ च प्रसिद्धेः ।

श्रीनारदस्य पूर्वजन्मनि स्थितकषायस्य प्रेम वर्णितं स्वयमेव ।
प्रेमातिभरनिर्भिन्न पुलकाङ्गोऽतिनिर्वृतः ।
आनन्दसम्प्लवे लीनो नापश्यमुभयं मुने ॥ [भागवतम् १.६.१८] इत्यादौ ।

श्रीभरत एवात्रोदाहरणीयः । तस्य च भूतपिपालयिषारूपः
प्रारब्धालम्बनः सात्त्विककषायो निगूढ आसीत्प्रेमा च वर्णित इति । तद्
एवं ¨समानप्रेम्णि त्रिविधे पूर्वपूर्वाधिक्यं ज्ञेयम् । क्वचित्स्थ्तितेऽपि
प्राकृतदेहादित्वे यदि प्रेम्णः परिणामतः स्वरूपतो वाधिक्यं दृश्यते
तदा प्रेमाधिक्येनैवाधिक्यं ज्ञेयम् । तच्च भजनीयस्य
भगवतोऽंशांशित्वभेदेन भजतश्च दास्यसख्यादिभेदेन
स्वरूपाधिक्यं, प्रेमाङ्कुरप्रेमादिभेदेन परिमाणाधिक्यं च प्रीति
सन्दर्भे विवृत्य दर्शयिष्यामः । साक्षात्कारमात्रस्यापि यद्यपि पुरुष
प्रयोजनत्वं तथापि तस्मिन्नपि साक्षात्कारे यावान् यावान् श्रीभगवतः
प्रियत्वदर्मानुभवस्तावांस्तावानुत्कर्षः । निरुपाधि
प्रीत्यास्पदतास्वभावस्य प्रियत्वधर्मानुभवं विना तु साक्षात्कारोऽप्य्
असाक्षात्कार एव माधुर्यं विना दुष्टजिह्वया खण्डस्येव । अतएवोक्तं
श्र्यृषभदेवेन

प्रीतिर्न यावन्मयि वासुदेवे; न मुच्यते देहयोगेन तावत् । [भागवतम् ५.५.६] इति ।

ततः प्रेमतारतम्येनैव भक्तमहत्त्वतारतम्यं मुख्यम् । अतएव
मयीशे कृतसौहृदार्थाः [भागवतम् ५.५.३] इत्येव तल्लक्षणत्वेनोक्तम् । यत्र तु
प्रेमाधिक्यं साक्षात्कारः कषायादिराहित्यादिकमप्यस्ति स परमो
मुख्यः । तत्रैकैकाङ्गवैकल्ये न्यून इति ज्ञेयम् । तदेवं ये वा मयीशे
[भागवतम् ५.५.३] इत्यादिना ये उक्तास्ते तु प्राप्तपार्षददेहा न भवन्ति, तथा
विषयवैराग्येऽपि गूढसंस्कारवन्तोऽपि सम्भवन्ति । अतस्तद्विवेचनाय
प्रकरणान्तरमुत्थाप्यते । यथा राजोवाच

अथ भागवतं ब्रूत यद्धर्मो यादृशो नृणाम् ।
यथार्चरति यद्ब्रूते यैर्लिङ्गैर्भगवत्प्रियः ॥ [भागवतम् ११.२.४४]

अथानन्तरं भागवतं ब्रूत तज्ज्ञानार्थम् । स च ब्रूणां मध्ये यद्
धर्मो यत्स्वभावस्तं स्वभावं ब्रूत । यथा च स आचरति अनुतिष्ठति
तद्अनुष्ठानं ब्रूत । यद्ब्रूते तद्वचनं च ब्रूतेति मानसकायिक
वाचिकलिङ्गपृच्छा ।

[१८८]

ननु पूर्वं शृण्वन् सुभद्राणि रथाङ्गपाणेः [भागवतम् ११.२.३७] इत्यादिना
(पगे ९५) ग्रन्थेन तत्तल्लिङ्गं श्रीकविर्नैवोक्तम् । सत्यम् । तथापि
पुनस्तद्अनुवादेन तेषु लिङ्गेषु यैर्लिङ्गैर्भगवत्प्रियो यादृश उत्तम
मध्यमतादिभेदविविक्तो भवति तानि लिङ्गानि विविच्य ब्रूतेत्यर्थः ।
तत्रोत्तरं श्रीहरिरुवाच

सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः ।
भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥ [भागवतम् ११.२.४५]

तत्र तत्तद्अनुभवद्वारावगम्येन मानसलिङ्गेन महाभागवतं
लक्षयति सर्वभूतेष्वित्यादि । एवंव्रतिः स्वप्रियनामकीर्त्या जातानुरागो
द्रुतचित्त उच्चैः [भागवतम् ११.२.३८] इति श्रीकविवाक्योक्तरीत्या यश्चित्तद्रव
हासरोदनाद्य्अनुभावकानुरागवशत्वात्खं वायुमग्निम् [भागवतम् ११.२.३९]
इत्यादितद्उक्तप्रकारेणैव चेतनाचेतनेषु सर्वभूतेषु आत्मनो
भगवद्भावमात्माभीष्टो यो भगवद्आद्य्अनुभवस्तमेवेत्यर्थः
पश्येदनुभवति । अतस्तानि च भूतानि आत्मनि स्वचित्ते तथा स्फुरति यो
भगवान् तस्मिन्नेव तद्आश्रितत्वेनैव अनुभवति । एष भागवतोत्तमो
भवति । इदमेव श्रीव्रजदेवीभिरुक्तम् वनलतास्तरव आत्मनि विष्णुं
व्यञ्जयन्त्य इव पुष्पफलाढ्याः [भागवतम् १०.३५.५]

यद्वा आत्मनो यो भगवति भावः प्रेमा, तमेव चेतनाचेतनेषु भूतेषु
पश्यति । शेषं पूर्ववत् । अतएव भक्तरूपाधिष्ठानबुद्धिजातभक्त्या
तानि नमस्करोतीति खं वायुमित्यादौ पूर्वमुक्तमिति भावः । तथैव
चोक्तं ताभिरेव

नद्यस्तदा तदुपधार्य मुकुन्दगीतम्
आवर्तलक्षितमनोभवभग्नवेगाः ॥ [भागवतम् १०.२१.१५] इत्यादि ।

श्रीपट्टमहिषीभिरपि कुररि विलपसि त्वम् [भागवतम् १०.९०.७] इत्यादि । अत्र न
ब्रह्मज्ञानान्यभिधीयन्ते भागवतैस्तज्ज्ञानस्य तत्फलस्य च
हेयत्वेन जीवभगवद्विभागाभावेन च भागवत्वविरोधात् । अहैतुक्य्
अव्यवहिता [भागवतम् ३.२९.१०] इत्यादौ ह्यैकान्तिकभक्तिलक्षणानुसारेण
सुतरामुत्तमत्वविरोधाच्च । न च निराकारेश्वरज्ञानं प्रणय
रशनया धृताङ्घ्रिपद्मः [भागवतम् ११.२.५३] इत्युपसंहारगतलक्षण
परमकाष्ठाविरोधादेवेति विवेचनीयम् ।

[१८९]

अथ मानसलिङ्गविशेषणेनैव मध्यमभागवतं लक्षयति

ईश्वरे तद्अधीनेषु बालिशेषु द्विषत्सु च ।
प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥ [भागवतम् ११.२.४६]

परमेश्वरे प्रेम करोति । तस्मिन् भक्तियुक्तो भवतीत्यर्थः । तथा तद्
अधीनेषु भक्तेषु च मैत्रीं बन्धुभावम् । बालिशेषु तद्भक्तिम्
अजानत्सु उदासीनेषु कृपाम् । यथोक्तं श्रीप्रह्लादेन

शोचे ततो विमुखचेतस इन्द्रियार्था
मायासुखाय भरमुद्वहतो विमूढान् । [भागवतम् ७.९.४२] इति ।

आत्मनो द्विषत्सु उपेक्षाम् । तदीयद्वेषे चित्ताक्षोभेनोदासीन्यमित्यर्थः ।
तेष्वपि बालिशत्वेन कृपांशसद्भावात् । यथैव श्रीप्रह्लादो
हिरण्यकशिपौ । भगवतो भागवतस्य वा द्विषत्सु तु सत्यपि चित्तक्षोभे
तत्रानभिनिवेश इत्यर्थः । अस्य बालिशेषु कृपायाः स्फुरणं
द्विषत्सूपेक्षाया एव । न तु प्राग्वत्सर्वत्र प्रेम्णा वा स्फुरणम् । ततो
मध्यमत्वम् । अथोत्तमस्यापि (पगे ९६) तद्अधीनदर्शनेन तत्
स्फुरणानन्दोदयो विशेषत एव । ततश्च तस्मिन्नधिकैव मत्री यद्
भवति तन्न निषिध्यते किन्तु सर्वत्र तद्भावावश्यकता विधीयते ।
परमोत्तमेऽपि तथा दृष्टम्

क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम् ।
भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ [भागवतम् ४.२४.५७]

अथ भागवता यूयं प्रियाः स्थ भगवान् यथा [भागवतम् ४.२५.३०] इति च रुद्र
गीतात् ।

हरेर्गुणाक्षिप्तमतिर्
भगवान् बादरायणिः ।
अध्यगान्महदाख्यानं
नित्यं विष्णुजनप्रियः ॥ [भागवतम् १.७.११] इति सूतवाक्याच्च ।

एवं भोजानां कुलपांसनाः [भागवतम् १०.१.२४] इत्यादौ तत्र बादरायणि
प्रभृतीनां द्वेषोऽपि दृश्यते । किन्तु मध्यमानां तत्रानाभिनिवेश एव
स्फुरति । तेषां तु तत्रापि तद्विधशास्तृत्वेन निजाभीष्टदेवपरिस्फूर्तिर्
न व्याहन्येत इति विशेषः । तद्दृष्ट्यैव च श्रीमद्उद्धवादीनामपि श्री
दुर्योधनादौ नमस्कारः ।

सत्त्वं विशुद्धं वसुदेवशब्दितं
यदीयते तत्र पुमानपावृतः । [भागवतम् ४.३.२१] इत्यादि श्रीशिववाक्यवत् ।

उक्तं च लक्ष्मणाहरणे सोऽभिवन्द्याम्बिकापुत्रम् [भागवतम् १०.६८.१७] इत्य्
आदौ दुर्योधनश्चेति । यत्र पक्षे च स्वकीयभावस्यैव सर्वत्र
परिस्फूर्तेः श्रीभगवद्आदिद्विषत्स्वपि सा पर्यवस्यति, तत्र च
नायुक्तता, यतस्ते निजप्राणकोटिनिर्मञ्छनीयतच्चरणपङ्कज
परागलेशास्तेषां दुर्व्यवहारदृष्ट्या क्षुभ्यन्ति । स्वीयभावानुसारेण
त्वेवं मन्यन्ते अहो ईदृशश्चेतनो वा कः स्याद्यः पुनरस्मिन्
सर्वानन्दकदम्बके निरुपाधिपरमप्रेमास्पदे सकललोकप्रसादक
सद्गुणमणिभूषिते सर्वहितपर्यवसायिचर्यामृते श्रीपुरुषोत्तमे तत्
प्रियजने वा प्रीतिं न कुर्वीत । तद्द्वेषकारणं तु सुतरामेवास्मद्
बुद्धिपद्धतिमतीतम् । तस्माद्ब्रह्मादिस्थावरपर्यन्ता अदुष्टा
दुष्टाश्च तस्मिन् बाढं रज्यन्त एवेति । तदुक्तं श्रीशुकेन
गोविन्दभुजगुप्तायां द्वारवत्यां कुरूद्वह ।
अवात्सीन्नारदोऽभीक्ष्णंकृष्णोपासनलालसः ॥
को नु राजन्निन्द्रियवान्मुकुन्दचरणाम्बुजम् ।
न भजेत्सर्वतोमृत्युरुपास्यनमरोत्तमैः ॥ [भागवतम् ११.२.१२] इति ।

[१९०]

अथ भगवद्धर्माचरणरूपेण कायिकेन किञ्चिन्मानसेन च लिङ्गेन
कनिष्ठं लक्षयति

अर्चायामेव हरये पूजां यः श्रद्धयेहते ।
न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ [भागवतम् ११.२.४७]

अर्चायां प्रतिमायामेव तद्भक्तेषु अन्येषु च सुतरां न भगवत्
प्रेमाभावद्भक्तमाहात्म्यज्ञानाभावात्सर्वादरलक्षणभक्त
गुणानुदयाच्च । स प्राकृतः प्रकृतिप्रारब्धोऽधुनैव प्रारब्धभक्तिर्
इत्यर्थः । इयं च श्रद्धा न शास्त्रार्थावधारणजाता ।

यस्यात्मबुद्धिः कुणपे त्रिधातुके
स्वधीः कलत्रादिषु भौम इज्यधीः ।
यत्तीर्थबुद्धिः सलिले न कर्हिचिज्[भागवतम् १०.८४.१३] (पगे ९७) इत्यादि शास्त्र
ज्ञानात् ।

तस्माल्लोकपरम्पराप्राप्तैवेति पूर्ववत् । अतश्चाजातप्रेमाशास्त्रीय
श्रद्धायुक्तः साधकस्तु मुख्यो कनिष्ठो ज्ञेयः ।

[१९१]

अथ टीका पुनरष्टभिः श्लोकैरभ्यर्हितत्वादुत्तमस्यैव लक्षणान्य्
आह गृहीत्वा इत्येषा । तथा हि

गृहीत्वापीन्द्रियैरर्थान् यो न द्वेष्टि न हृष्यति ।
विष्णोर्मायामिदं पश्यन् स वै भागवतोत्तमः ॥ [भागवतम् ११.२.४८]

पूर्वोक्तप्रकारेण तदाविष्टचित्तो न गृह्णाति तावद्इन्द्रियैरर्थान्
गृहीत्वापीत्यपिशब्दार्थः । इदं विश्वं मायां बहिरङ्गशक्तिविलासत्वाद्
धेयमित्यर्थः । अत्रापि कायिकमानसयोः साङ्कर्यम् ।

[१९२]

अथ केवलमानसलिङ्गेनाह यावत्प्रकरणम्

देहेन्द्रियप्राणमनोधियां यो
जन्माप्ययक्षुद्भयतर्षकृच्छ्रैः ।
संसारधर्मैरविमुह्यमानः
स्मृत्या हरेर्भागवतप्रधानः ॥ [भागवतम् ११.२.४९]

यो हरेः स्मृत्या देहादीनां संसारधर्मैर्जन्माप्ययादिभिर्
अविमुह्यमानो भवति स भागवतप्रधानः उक्तं च श्रीगीतासु

येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ [गीता ७.२८]

[१९३]

तथा

न कामकर्मबीजानां यस्य चेतसि सम्भवः ।
वासुदेवैकनिलयः स वै भागवतोत्तमः ॥ [भागवतम् ११.२.५०]

बीजानि वासनाः । वासुदेवमत्राश्रयः ।

[१९४]

तथा

न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः ।
सज्जतेऽस्मिन्नहम्भावो देहे वै स हरेः प्रियः ॥ [भागवतम् ११.२.५१]

जन्म सत्कुलम् । कर्म तपादि । जातयः अनुलोमजा मूर्धाभिषिक्तादयः ।
एताभिर्यस्यास्मिन् देह अहम्भावो न सज्जते किन्तु भगवत्सेवौपयिक
साध्यदेह एव सज्जत इत्यर्थः स हरेः प्रियो भागवतोत्तम इति
पूर्वेणान्वयः । प्रकरणार्थत्वाद्धरेः प्रिय इति भागवतमात्रवाचि
भागवतत्वादेव ।

[१९५]

तथा

न यस्य स्वः पर इति वित्तेष्वात्मनि वा भिदा ।
सर्वभूतसमः शान्तः स वै भागवतोत्तमः ॥ [भागवतम् ११.२.५२]

वित्तेषु ममतास्पदमात्रेषु स्वीयं परकीयमिति आत्मनि स्वः पर इति । अत्र
वित्तवदात्मनि च स्वपक्षपातमात्रं निषिध्यते न व्यक्तिभेदः ।
तथोक्तं स्कान्दे मार्कण्डेयभगीरथसंवादे

परदुःखेनात्मदुःखं मन्यन्ते ये नृपोत्तम ।
भगवद्धर्मनिरतास्ते नरा वैष्णवोत्तमाः ॥

[१९६]

किं च

त्रिभुवनविभवहेतवेऽप्यकुण्ठ
स्मृतिरजितात्मसुरादिभिर्विमृग्यात् ।
न चलति भगवत्पदारविन्दाल्
लवनिमिषार्धमपि यः स वैष्णवाग्र्यः ॥ [भागवतम् ११.२.५३]

अचलेन हेतुस्त्रिभुवनेति । तत्र हेतुरजिते हरावेव आत्मा येषां तैर्
ब्रह्मेशप्रभृतिभिः सुरादिभिरपि विमृग्याद्दुर्लभादित्यर्थः । (पगे
९८)

[१९७]

अपि च विषयाभिसन्धिना चलनं कामेनातिसन्तापे सति भवेत् । स तु
भगवत्सेवानिर्वृतौ न सम्भवतीत्याह

भगवत उरुविक्रमाङ्घ्रिशाखा
नखमणिचन्द्रिकया निरस्ततापे ।
हृदि कथमुपसीदतां पुनः स
प्रभवति चन्द्र इवोदितेऽर्कतापः ॥ [भागवतम् ११.२.५४]

उरुविक्रमौ च तावङ्घ्री । तयोः शाखा अङ्ग लयः । चन्द्रिका तापहारिणी
दीप्तिः । तापः कामादिसन्तापः ।

[१९८]

तथा

विसृजति हृदयं न यस्य साक्षाद्
धरिरवशाभिहितोऽप्यघौघनाशः ॥ [भागवतम् ११.२.५५]

टीका च उक्तसमस्तलक्षणसारमाह विसृजतीति । हरिरेव स्वयं
साक्षाद्यस्य हृदयं न विसृजति न मुञ्चति । अवशेनाप्यभिहितमात्रोऽप्य्
अघौघं नाशयति यः सः । तत्किं न विसृजति । यतः प्रणयरशनया
धृतं हृदये बद्धमङ्घ्र्पद्मं यस्य स भागवतप्रधान उक्तो
भवति इत्येषा ।

अत्र कामादीनामसम्भवे हेतुः साक्षादिति पदमुत्तरकालत्वात्
साक्सात्कारस्य । तथा हरिरवशाभिहितोऽपीत्यादिना यत्तादृशप्रणयवांस्
तेनानेन तु सर्वदा पर्मावेशेनैव कीर्त्यमानः सुतरामेवाघौघ
नाशः स्यादित्यभिहितम् । उक्तं च एतन्निर्विद्यमानानामिच्छतामकुतो
भयम् [भागवतम् २.१.११] इत्यादि । तत उभयथैव तेषामघसंस्कारोऽपि न
स्थातुमिष्ट इति ध्वनितम् । अनेन वाचिकलिङ्गमपि निर्दिश्य यद्ब्रूते [भागवतम्
११.२.४२] इत्यस्योत्तरमुक्तम् । प्रकरणेऽस्मिन् गृहीत्वापि [भागवतम् ११.२.४३] इत्य्
आदीनामुत्तमभागवतलक्षणपद्यानाममीषामपृथक्पृथक्च
वाक्यत्वं ज्ञेयम् । तथाभूतभगवद्वशीकारवति भागवतोत्तमे तत्तल्
लक्षणानामन्तर्भावात् । क्वचित्द्वित्रादिमात्रलक्षणदर्शनाच्च ।
तत्रापृथग्वाक्यतायामेकैकवाक्यगतेनैकैकेनैव लक्षणेन अयमेव
सर्वभूतेषु इत्य्आद्य्उक्तो महाभागवतो लक्ष्यते । तत्तद्धर्म
हेतुत्वेन तु विसृततीत्यादिना सर्वलक्ष्णसारोपन्यासः । या च तत्रापि
स्मृत्या हरेरित्यादिना हेतुत्वेन स्मृतिरुक्ता । तस्या एव विवरणमिदम्
अन्तिमवाक्यमिति समर्थनीयम् । अतएव पृथक्पृथग्भागवतोत्तम इत्य्
आद्य्अनुवादोऽपि सङ्गच्छते । पृथग्वाक्यतायां यत्र साक्षाद्भगवत्
सम्बन्धो न श्रूयते । तत्र भागवतपदबलेनैव प्रकरणबलेनैव
वा ज्ञेयः । पूर्वोत्तरपद्यस्थस्मृत्येत्यादिपदं वा योजनीयम् । तथात्र
पक्षे चापेक्षिकमेवान्यत्रअ भागवतोत्तमत्वम् । तत्रोत्तरश्रैष्ठ्य
क्रमोऽयम् । अर्चायामेव इति । न यस्य जन्मकर्माभ्यामिति । न यस्य स्वः
परः इति । गृहीत्वापीन्द्रियैः इति । देहेन्द्रियप्राण इति । अस्य संस्कारोऽस्ति ।
किन्तु तेन विमोहो न स्यादिति मूर्च्छितसंस्कारोऽयं जातनवीन
प्रेमाङ्कुरः स्यात् । तथा न कामकर्मबीजानामित्यस्यैव विवरणं
त्रिभुवनविभवहेतवेऽपि इति । इयमेव नैष्ठिकी (पगे ९९) भक्तिर्
ध्यानाख्या धुर्वानुस्मृतिरित्युच्यते । अस्य प्रेमाङ्कुरोऽप्य्
अनाच्छाद्यतया जातोऽस्ति । अन्यथा तादृशस्मरणसातत्यभावः स्यात् । अयं
हि निर्धूतकषायो निरूद्ःप्रेमाङ्कुर इति लभ्यते । अत ऊर्ध्वं साक्षात्
प्रेमजन्मतः ईश्वरे तद्अधीनेषु इति । अस्य मैत्र्य्आदिकं त्रयमपि
भक्तिहेतुकमेवेति न कषायस्थितिरवगन्तव्या । निर्धूतकषायमहा
प्रेमसूचकस्य सर्वभूतेषु इत्यस्य तु विवरणं विसृजति इति ।

तापादिपञ्चसंस्कारो
नवेज्याकर्मकारकः ।
अर्थपञ्चकविद्विप्रो
महाभागवतः स्मृतः ॥ [ড়द्मড়् ६.२५३.२७] इति पाद्मोत्तरखण्ड
वचनम् ।

महत्त्वं चार्चनमार्गपराणां मध्य एव ज्ञेयमसिद्धप्रेमत्वात् ।
अत्र तापादिपञ्चसंस्कारादि तापः पुण्ड्रं तथा नाम [ড়द्मড়् ६.२२६.६] इत्य्
आदिना तत्रैव दर्शितम् । नवेज्याकर्मकारकत्वं चानेन वचनेन दृश्यते


अर्चनं मन्त्रपठनं योगो यागो हि वन्दनम् ।
नामसङ्कीर्तनं सेवा तच्चिह्नेरङ्कनं तथा ॥
तदीयाराधनं चेज्या नवधा भिद्यते शुभे ।
नवकर्मविधानेज्या विप्राणां सततं स्मृता ॥ इति ।

अर्थपञ्चकवित्त्वं तु श्रीभगवान् तत्परमंपदं तद्द्रव्यं तन्
मन्त्रो जीवात्मा चेति पञ्चतत्त्वज्ञातृत्वम् । तच्च श्रीहायशीर्षे विवृतं
सङ्क्षिप्य लिख्यते

एक एवेश्वरः कृष्णः सच्चिद्आनन्दविग्रहः ।
पुण्डरीकविशालाक्षः कृष्णच्छुरितमूर्धजः ॥
वैकुण्ठाधिपतिर्देव्या लीलया चित्स्वरूपया ।
स्वर्णकान्त्या विशालाख्या स्वभावाद्गाढमाश्रितः ॥
नित्यः सर्वगतः पूर्णो व्यापकः सर्वकारणम् ।
वेदगुह्यो गभीरात्मा नानाशक्त्योदयो नरः ॥ इत्यादि ।

स्थानतत्त्वमतो वक्ष्ये प्रकृतेः परमव्ययम् ।
शुद्धसत्त्वमयं सूर्यचन्द्रकोटिसमप्रभम् ॥
चिन्तामणिमयं साक्षात्सच्चिद्आनन्दलक्षणम् ।
आधारं सर्वभूतानां सर्वप्रलयवर्जितम् ॥ इत्यादि ।

द्रव्यतत्त्वं शृणु ब्रह्मन् प्रवक्ष्यामि समासतः ।
सर्वभोगप्रदा यत्र पादपाः कल्पपादपाः ॥
भवन्ति तादृशा वल्ल्यस्तद्भवं चापि तादृशम् ।
गन्धरूपं स्वादुरूपं द्रव्यं पुष्पादिकं च यत् ॥
हेयांशानामभावाच्च रसरूपं भवेद्धि तत् ।
त्वग्बीजं चैव हेयांशं कठिनांशं च यद्भवेत् ॥
सर्व तद्भौतिकं विद्धि न ह्यभूतमयं च तत् ।
रसस्य योगतो ब्रह्मन् भौतिकं स्वादुवद्भवेत् ॥
तस्मात्साध्यो रसो ब्रह्मन् रसः स्याद्व्यापकः परः ।
रसवद्भौतिकं द्रव्यमत्र स्याद्रसरूपकम् ॥ इति ।

वाच्यत्वं वाचकत्वं च देवतन्मन्त्रयोरिह ।
अभेदेनोच्यते ब्रह्मंस्तत्त्वविद्भिर्विचारितः ॥ इत्यादि ।

मरुत्सागरसंयोगे तरङ्गात्कणिका यथा ।
जायन्ते तत्स्वरूपाश्च तद्उपाधिसमावृताः ॥
आश्लेषादुभयोस्तद्वदात्मनश्च सहस्रशः ।
सञ्जाताः सर्वतो ब्रह्मन्मूर्तामूर्तस्वरूपतः ॥ (पगे १००) इत्याद्यपि ।

किन्तु श्रीभगवद्आविर्भावादिषु स्वस्वोपासनाशास्त्रानुसारेणापरोऽपि
भेदः कश्चिज्ज्ञेयः ।

जीवनिरूपणं चेदम् । न घटत उद्भवः [भागवतम् १०.८७.३१] इत्याद्य्
अनुसारेणोपाधिसहितमेव कृतम् । निरुपाधिकं तु

विष्णुशक्तिः परा प्रोक्ता
क्षेत्रज्ञाख्या तथापरा ।
अविद्याकर्मसंज्ञान्या
तृतीया शक्तिरिष्यते ॥ [Vइড়् ६.७.६१] इति विष्णुपुराणानुसारेण ।

तथा
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ [गीता ७.५] इति ।

ममैवांशो जीवलोके जीवभूतः सनातनः [गीता १५.७] इति च गीतानुसारेण ।
तथा

यत्तटस्थं तु चिद्रूपं
स्वसंवेद्याद्विनिर्गतम् ।
रञ्जितं गुणरागेण
स जीव इति कथ्यते ॥ इति श्रीनारदपञ्चरात्रानुसारेण ज्ञेयम् ॥

॥ ११.२ ॥ हरियोगेश्वरो निमिम् ॥ १८७१९८ ॥

[१९९]

तदेवमुपदिष्टा भागवतसत्सु मूर्च्छितकषायादया महद्भेदां
भागवतसन्मात्रभेदाश्च तत्सन्मात्रभेदेषु अर्चायामेव हरये
[भागवतम् ११.२.४५] इत्यादिना तत्तद्गुणाविर्भावतारतम्याल्लब्धतारतम्याः
कतिचिद्दर्शिताः ।

अथ साधनतारतम्येनापि तेषां तारतम्यमाह पञ्चभिः । तत्रावरं
मिश्रभक्तिसाधकमाह त्रिभिः

कृपालुरकृतद्रोहस्तितिक्षुः सर्वदेहिनाम् ।
सत्यसारोऽनवद्यात्मा समः सर्वोपकारकः ॥
कामैरहतधीर्दान्तो मृदुः शुचिरकिञ्चनः ।
अनीहो मितभुक्शान्तः स्थिरो मच्छरणो मुनिः ॥
अप्रमत्तो गभीरात्मा धृतिमाञ्जितषड्गुणः ।
अमानी मानदः कल्यो मैत्रः कारुणिकः कविः ॥ [भागवतम् ११.११.२९३१]

टीका च कृपालुः परदुःखासहिष्णुः । सर्वदेहिनां केषाञ्चिदप्यकृत
द्रोहः । तितिक्षुः क्षमावान् । सत्यं सारं स्थिरं बलं वा यस्य सः ।
अनवद्यात्मा असूयादिरहितः । सुखदुःखयोः समः । यथाशक्ति
सर्वेषामप्यकारकः । कामैरक्षुभितचित्तः । दान्तः संयत
बाह्येन्द्रियः । मृदुरकठिनचित्तः । अकिञ्चनः अपरिग्रहः । अनीहो दृष्ट
क्रियाशून्यः । मितभुक्लघ्व्आहारः । शान्तो नियतान्तःकरणः स्थिरः
स्वधर्मे । मच्छरणो मद्एकाश्रयः । मुनिर्मननशीलः । अप्रमत्तः
सावधानः । गभीरात्मा निर्विकारः । धृतिमान् विपद्यप्यकृपणः । जित
षड्गुणः शोकमोहौ जरामृत्यू क्ष्त्पिपासे षड्ऊर्मय एते जिता येन सः ।
अमानी न मानाकाङ्क्षी । अन्येभ्यो मानदः । कल्यः परबोधने दक्षः
मैत्रः अवञ्चकः । कारुणिकः करुणयैव प्रवर्तमानो न तु दृष्ट
लोभेन । कविः सम्यक्ज्ञानी इत्येषा ।

अत्र मच्छरण इति विशेष्यम् । उत्तरत्र स च सत्तम (पगे १०१) इति चकारेण
तु पूर्वोक्तो यथा सत्तमः तथायमपि सत्तम इति व्यक्तिरेवमेवम्भूतो
मच्छरणः सत्तम इत्याक्षिप्यते ।

[२००]

मध्यमममिश्रसाक्षाद्भक्तिसाधकमाह

आज्ञायैवं गुणान् दोषान्मयादिष्टानपि स्वकान् ।
धर्मान् सन्त्यज्य यः सर्वान्मां भजेत स तु सत्तमः ॥ [भागवतम् ११.११.३२]

टीका च मया वेदरूपेणादिष्टानपि स्वधर्मान् सन्त्यज्य यो मां
भजत्सोऽप्येवं पूर्वोक्तवत्सत्तमः । किमज्ञानाद्नास्तिक्याद्वा ? न ।
धर्माचरणे सत्त्वशुद्ध्य्आदीन् गुणान् विपक्षे सन्त्यज्य । यद्वा भक्ति
दार्ढ्येन निवृत्ताधिकारतया सन्त्यज्य इत्येषा । यथा हायशीर्ष
पञ्चरात्रोक्तनारायणव्यूहस्तवे

ये त्यक्तलोकधर्मार्था विष्णुभक्तिवशं गताः ।
ध्यायन्ति परमात्मानं तेभ्योऽपीह नमो नमः ॥ इति ।

अत्र त्वेवं व्याख्या यदि च स्वात्मनि तत्तद्गुणयोगाभावस्तथाप्य्
एवं पूर्वोक्तप्रकारेण गुणान् कृपालत्वादीन् दोषांस्तद्विपरीतांश्
चाज्ञाय हेयोपादेयत्वेन निशिच्त्यापि यो मया तेषु गुणेषु मध्ये
तत्रादिष्टानपि स्वकान्नित्यनैमित्तिकलक्षणान् सर्वानेव वर्णाश्रम
विहितान् धर्मान् तद्उपलक्षणं ज्ञानमपि मद्अनन्यभक्ति
विघातकतया सन्त्यज्य मां भजेत्स च सत्तमः । चकारात्पूर्वोक्तोऽपि
सत्तम इत्युत्तरस्य तत्तद्गुणाभावेऽपि पूर्वसाम्यं बोधयति । ततो यस्
तु तत्तद्गुणान् लब्ध्वा धर्मज्ञानपरित्यागेन मां भजति केवलं स
तु परमसत्तम एवेति व्यक्त्य्अनन्यभक्तस्य पूर्वत आधिक्यं दर्शितम् ।
अत्र अद्वेष्टा सर्वभूतानां [गीता १२.१२] इत्यादि श्रीगीताद्वादशाध्याय
प्रकरणमप्यनुसन्धेयम् । सत्तम इत्यनेन तदवरत्रापि समत्वम्
अप्यस्तीति दर्शितम् । अस्तु तावत्सदाचारस्य तद्भक्तस्य सत्त्वम् । अनन्य
देवताभक्तत्वमात्रेणापि दुराचारस्यापि सत्तान्यार्यायं साधुत्वं
विधीयते अपि चेत्सुदुराचारः [गीता ९.३०] इत्यादौ । अत्र साधुसङ्ग
प्रस्तावे यत्तादृशं लक्षणं नोत्थापितं तत्खलु तादृशसङ्गस्य भक्त्य्
उन्मुखेऽनुपयुक्तताभिप्रायेण । यथोक्तं श्रीप्रह्लादेन सङ्गेन
साधुभक्तानाम् [भागवतम् ७.७.२५] इति । साधुरत्र सद्आचारः । तदेवमीश्वर
बुद्ध्या विधिमार्गभक्तयोस्तारतम्यमुक्तम् ।
तत्रैवोत्तरस्यानन्यत्वेन श्रेष्ठत्वं दर्शितम् । तत्रैवार्चनमार्गे
त्रिविधत्वं लभ्यते पाद्मोत्तरखण्डात् । तत्र महत्त्वं तापादिपञ्च
संस्कारी इत्यादौ ।

मध्यमत्वम्

तापं पुण्ड्रं तथा नाम मन्त्रो यागश्च पञ्चमः ।
अमी पञ्चैव संस्काराः परमैकान्तिहेतवः ॥ इत्यत्र ।

कनिष्ठत्वं

शङ्खचक्राद्य्ऊर्ध्वपुण्ड्रधारणाद्य्आत्मलक्षणम् ।
तन्नमस्करणं चैव वैष्णवत्वमिहोच्यते ॥ इत्यत्र । (पगे १०२)

[२०१]

अथ शुद्धदास्यसख्यादिभावमात्रेण योऽनन्यः स तु सर्वोत्तम इत्य्
आह

ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः ।
भजन्त्यनन्यभावेन ते मे भक्ततमा मताः ॥ [भागवतम् ११.११.३३]

यावान् देशकालाद्य्अपरिच्छिनः । यश्च सर्वात्मा । यादृशः सच्चिद्आनन्द
रूपः । तं मां ज्ञात्वाज्ञात्वा वा ये केवलमनन्यभावेन श्रीव्रजेन्द्र
नन्दन आलम्बनो यः स्वभीप्सितो दास्यादीनामेकतरो भावस्तेनैव
भजन्ति न कदाचिदन्येन इत्यर्थः । ते तु मया भक्ततमा मताः । अतएव
चतुर्थे श्रीयोगेश्वरैरपि प्रार्थितम्

प्रेयान्न तेऽन्योऽस्त्यमुतस्त्वयि प्रभो
विश्वात्मनीक्षेन्न पृथग्य आत्मनः ।
अथापि भक्त्येश तयोपधावताम्
अनन्यवृत्त्यानुगृहाण वत्सल ॥ [भागवतम् ४.७.३८] इति ।
श्रीगीतासु
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ [गीता ७.२] इत्युक्त्वाह

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥
एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥
मत्तः परतरं नान्यत्किं चिदस्ति धनंजय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ [गीता ७.४७] इति ।

प्रधानाख्यजीवाक्यनिजशक्तिद्वारा जगत्कारणत्वम् । तच्
छक्तिमयत्वेन जगतस्तद्अनन्यत्वम् । स्वस्य तु तयोः परत्वं तद्
आश्रयत्वं च वदन्निजज्ञानमुपदिष्टवान् । प्रसङ्गेन जीवस्वरूप
ज्ञानं च । स चैवम्भूतो ज्ञानीमत्स्वरूपमन्
महिमानुसन्धानकृत्त्वाद्ज्ञानिभक्तार्तभक्तादीनतिक्रम्य मत्प्रियो
भवतीत्यप्यन्तेऽभिहितवान्

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ [गीता ७.१६१८] इति ।

ततश्चायमर्थः । यस्त्वयि विश्वात्मन्यात्मनि जीवानीक्षेत्त्वच्छक्त्त्वाद्
अनन्यत्वेनैव जानाति न तु पृथक्स्वतन्त्रत्वेनेक्षेत । मौत अमुष्माद्
यद्यपि ते प्रेयान्नास्ति तथापि हे वत्सल हे भृत्यप्रिय भृत्येशभावेन ये
भजन्ति तेषां यानन्या वृत्तिरव्यभिचारिणी निजा भक्तिस्तयैवानुगृहाण ।
प्रस्तुतत्वेनास्मान् ज्ञानिभक्तानिति लभ्यत इति ।

अथ मूलपद्ये ज्ञात्वाज्ञात्वेत्यत्र ज्ञानाज्ञानयोर्हेयोपादेयत्वं
निषिद्धम् । भक्ततमा इत्यत्र पूर्ववाक्यस्थसत्पदमतिक्रम्य
विशेषतो (पगे १०३) भक्तपदनिर्देशाद्भक्तेः स्वरूपाधिक्यमत्रैव
विवक्षितम् । ते मे मता इत्यत्र मम तु विशिष्टा सम्मतिरत्रैवेति सूचितम्
ईदृशानुक्तचरत्वात् । अतएव प्रकरणप्राप्तिमेकवचननिर्देशमप्य्
अतिक्रम्य गौरवेणैव ये त इति बहुवचनं निर्दिष्टम् । ततः किमुत तद्
भावसिद्धप्रेमाण इति भावः । एषां भावभजनविवृत्तिरग्रे
रागानुगाकथने ज्ञेया ।

॥ ११.११ ॥ श्रीभगवान् ॥ २००२०१ ॥

[२०२]

एते हि वैष्णवाः सन्तो महत्त्वेन सन्मात्रत्वेन च विभिद्य निर्दिष्टाः ।
सन्मात्रभेदे तारतम्यं चात्र यदविविक्तं तद्भक्तिभेदनिरूपणे
पुरतो विवेचनीयम् । अन्ये तु स्वगोष्ठ्य्अपेक्षया वैष्णवाः । तत्र कर्मिषु
तद्अपेक्षया यथा स्कान्दे मार्कण्डेयभगीरथसंवादे

धर्मार्थं जीवितं येषां सन्तानार्थं च मैथुनम् ।
पचनं विप्रमुख्यार्थं ज्ञेयास्ते वैष्णवा नराः ॥ इत्यादि ।

अत्र श्रीविष्णोराज्ञाबुद्ध्यैव तत्तत्क्रियत इति वैष्णवपदेन गम्यते ।
श्रीविस्णुपुराणे च

न चलति निजवर्णधर्मतो यः
सममतिरात्मसुहृद्विपक्षपक्षे ।
न हरति न हन्ति किञ्चिदुच्चैः
स्थितमनसं तमवेहि विष्णुभक्तम् ॥ [Vइড়् ३.७.२०] इति ।

तद्अर्पणे तु सुतरामेव वैष्णवत्वम् । यथा पातालखण्डे वैशाख
माहात्म्ये


जीवितं यस्य धर्मार्थं धर्मो हर्य्अर्थमेव च ।
अहोरात्राणि पुण्यार्थं तं मन्ये वैष्णवं भुवि ॥ [ড়द्मড়् ५.९४.८] इति ।

तथैव शैवेषु तद्अपेक्षया यथा बृहन्नारदीये

शिवे च परमेशाने विष्णौ च परमात्मनि ।
समबुद्ध्या प्रवर्त्तन्ते ते वै भागवतोत्तमाः ॥ [णार्ড়् १.५.७२] इति ।
शैवगोष्ठीषु भागवतोत्तमत्वं तत्रैव प्रसिद्धमिति तथोक्तम् ।
वैष्णवतन्त्रे तु तन्निन्दैव

यस्तु नारायणं देवं ब्रह्मरुद्रादिदैवतैः ।
समत्वेनैव वीक्षेत स पाषण्डी भवेद्ध्रुवम् ॥ इति ।

तदेवं तेषां बहुभेदेषु सत्सु तेषामेव प्रभावतारतम्येन कृपा
तारतम्येन भक्तिवासनातारतम्येन सत्सङ्गात्कालशैघ्र्यस्वरूप
वैशिष्ट्याभ्यां भक्तिरुदयते । एवं ज्ञानिसङ्गाच्च ज्ञानं ज्ञेयम् । अत्र
यद्यप्यकिञ्चना भक्तिरेवाभिधेयेति तत्कारणत्वेन तद्भक्तसङ्ग
एवाभिधेये भक्तोऽपि स एव लक्षयितव्यस्तथापि तत्परीक्षार्थमेव तत्
तद्अनुवादः क्रियते । तत्र प्रथमं तावत्तत्तत्सङ्गाज्जातेन तत्तच्
छ्रद्धातत्तत्कथारुच्य्आदिना जातभगवत्साम्मुख्यस्य तत्तद्
अनुषङ्गेनैव तत्तद्भजनीये भगवद्आविर्भावविशेषे तत्तद्भजन
मार्गविशेषे च रुचिर्जायते । ततश्च विशेषबुभुत्सायां सत्यान्तेष्व्
एकतोऽनेकतो वा श्रीगुरुत्वेनाश्रिताच्छ्रवणं क्रियते । तच्
चोपक्रमोपसंहारादिभिरर्थावधारणं पुनश्चासम्भावनाविपरीत
भावनाविशेषेवता स्वयं तद्विचाररूपं मननमपि क्रियते । ततो
भग्वतः सर्वस्मिन्नेवाविर्भावे तथाविधोऽसौ सदा सर्वत्र विराजत इत्य्
एवंरूपा श्रद्धा जायते । तत्रैकस्मिंस्त्वनया प्रथमजातया रुच्या सह
निजाभीष्टदानसार्थ्याद्य्अतिशयवतानिर्धाररूपत्वेन सैव श्रद्धा
समुल्लसति । तत्र यद्यप्येकत्रैवातिशयितापर्यवसानं सम्भवति न तु
सर्वत्र, तथापि केषांचित्ततो विशिष्टस्याज्ञानादन्यत्रापि तथाबुद्धिरूपा
श्रद्धा सम्भवत्येवं भजनमार्गविशेषश्च व्याख्यातव्यः । तदेवं
सिद्धे ज्ञानविज्ञानार्थं निदिध्यासनलक्षणतत्तद्उपासनामार्ग
भेदोऽनुष्ठीयत इत्येवं विचारप्रधानानां मार्गो दर्शितः ।

रुचिप्रधानां तु न तादृग्विचारापेक्षा जायते । किन्तु साधुसङ्गलीला
कथनश्रवणरुचि (पगे १०४) श्रद्धाश्रवणाद्य्आवृत्तिरूप एवासौ
मार्गो यथा शुश्रूषोः श्रद्दधानस्य [भागवतम् १.२.१६] इत्यादिना पूर्वं
दर्शितः । सतां प्रसङ्गात्मम वीर्यसंविदः [भागवतम् ३.२५.२२] इत्यादौ च
द्रष्टव्यः । प्रीतिलक्षणभक्तीच्छानां तु रुचिप्रधानमार्ग एव
श्रेयान् । नाजातरुचीनामिव विचारप्रधानः । यथोक्तं प्रह्लादेन

नैते गुणा न गुणिनो महद्आदयो ये
सर्वे मनः प्रभृतयः सहदेवमर्त्याः ।
आद्य्अन्तवन्त उरुगाय विदन्ति हि त्वाम्
एवं विमृश्य सुधियो विरमन्ति शब्दात् ॥

तत्तेऽर्हत्तम नमः स्तुतिकर्मपूजाः
कर्म स्मृतिश्चरणयोः श्रवणं कथायाम् ।
संसेवया त्वयि विनेति षड्अङ्गया किं
भक्तिं जनः परमहंसगतौ लभेत ॥ [भागवतम् ७.९.४९५०] इति ।

कर्म परिचर्या । कर्मस्मृतिर्लीलास्मरणम् । चरणयोरिति सर्वत्रान्वितं
भक्तिव्यञ्जकम् ।

तदेतदुभयस्मिन्नपि तद्भजनविधिशिक्षागुरुः । प्राक्तनः श्रवण
गुरुरेव भवति तथाविदस्य प्राप्तत्वात् । प्राक्तानां बहुत्वेऽपि प्रायस्तेष्व्
एवान्यतरोऽभिरुचितः । पूर्वस्मादेव हेतोः श्रीमन्त्रगुरुस्त्वेक एव
निषेत्स्यमानत्वाद्बहूनाम् । अथात्र प्रमाणानि । तत्र तदाविर्भावविशेषे
रुचिः महापुरुषमभ्यर्चेन्मूर्त्याभिमतयात्मनः [भागवतम् ११.३.४८] इत्य्
आदौ श्रीमद्आविर्होत्रादिनाभ्प्रेता । भजनविशेषरुचिश्च

वैदिकस्तान्त्रिको मिश्र इति मे त्रिविधो मखः ।
त्रयाणामीप्सितेनैव विधिना मां समर्चयेत् ॥ [भागवतम् ११.२७.७]

इत्यादौ श्रीभगवताभिप्रेता । अथ श्रवणगुरुमाह

तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ।
शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम् ॥ [भागवतम् ११.३.२२]

शाब्दे ब्रह्मणि वेदे विचारतात्पर्येण । परे ब्रह्मणि भगवद्आदि
रूपाविर्भावेऽपरोक्षानुभवेन निष्णातं तथैव निष्ठां प्राप्तम् ।
यथोक्तं श्रीपुरञ्जनोपाख्याद्य्उपसंहारे श्रीनारदेन

स वै प्रियतमश्चात्मा यतो न भयमण्वपि ।
इति वेद स वै विद्वान् यो विद्वान् स गुरुर्हरिः ॥ [भागवतम् ४.२९.५१] इति ।

॥ ११.३ ॥ श्रीप्रबुद्धो निमिम् ॥ २०२ ॥
[२०३]

अत्र ब्रह्मवैवर्ते विशेषः

वक्ता सरागो नीरागो द्विविधः परिकीर्तितः ।
सरागो लोलुपः कामी तदुक्तं हृन् न संस्पृशेत् ॥
उपदेशं करोत्येव न परीक्षां करोति च ।
अपरीक्ष्योपदिष्टं यल्लोकनाशाय तद्भवेत् ॥

किं च
कुलं शीलमथाचारमविचार्य परं गुरुम् ।
भजेत श्रवणाद्य्अर्थी सरसं सारसागरम् ॥

सरसत्वादिकं च व्यञ्जितं तत्रैवान्यत्र । (पगे १०५)

कामक्रोधादियुक्तोऽपि कृपणोऽपि विषादवान् ।
श्रुत्वा विकाशमायाति स वक्ता परमो गुरुः ॥ इति ।

एवम्भूतगुरोरभावाद्युक्तिभेदबुभुत्सया बहूनप्याश्रयन्ते
केचित् । यथा

न ह्येकस्माद्गुरोर्ज्ञानं सुस्थिरं स्यात्सुपुष्कलम् ।
ब्रह्मैतदद्वितीयं वै गीयते बहुधर्षिभिः ॥ [भागवतम् ११.९.३१]

स्पष्टम् ॥ ११.९ ॥ श्रीदत्तात्रेयो यदुम् ॥ २०३ ॥

[२०४]

तत्र रुचिप्रधानानां श्रवणादिकम्

तत्रान्वहं कृष्णकथाः प्रगायताम्
अनुग्रहेणाशृणवं मनोहराः ।
ताः श्रद्धया मेऽनुपदं विशृण्वतः
प्रियश्रवस्यङ्ग ममाभवद्रुचिः ॥ [भागवतम् १.५.२६] इत्य्आद्य्उक्तप्रकारम् ।

विचारप्रधानानां श्रवणं यथा चतुःश्लोक्यादीनाम् । मननं यथा
भगवान् ब्रह्म कार्त्स्न्येन [भागवतम् २.२.३४] इत्यादौ ।

अथ तज्जाता भगवति श्रद्धा, यथा

अस्ति यज्ञपतिर्नाम केषाञ्चिदर्हसत्तमाः ।
इहामुत्र च लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद्भुवः ॥
मनोरुत्तानपादस्य ध्रुवस्यापि महीपतेः ।
प्रियव्रतस्य राजर्षेरङ्गस्यास्मत्पितुः पितुः ॥
ईदृशानामथान्येषामजस्य च भवस्य च ।
प्रह्लादस्य बलेश्चापि कृत्यमस्ति गदाभृता ॥
दौहित्रादीनृते मृत्योः शोच्यान् धर्मविमोहितान् ।
वर्गस्वर्गापवर्गाणां प्रायेणैकात्म्यहेतुना ॥ [भागवतम् ४.२१.२७३०]
हे अर्हसत्तमाः यज्ञपतिर्नाम सर्वकर्मफलदातृत्वेन श्रुति
प्रतिपादितः परमेश्वरः केषांचित्श्रुत्य्अर्थतत्त्वविज्ञानां मते तावद्
अस्ति तथापि विप्रतिपत्तेर्न तत्सिद्धिरित्याशङ्क्य तत्र जगद्
वैचित्र्यान्यथानुपपत्तिप्रमाणमप्युपोद्वलकमित्याह । इह
प्रत्यक्षेणामुत्रशास्त्रेण तद्वदित्यनुमानेन च ज्योत्स्नावत्यः
कान्तमत्यो भुवो भोगभूमयो देहाश्च क्वचिदेवोपलभ्यन्ते न
सर्वत्रेत्ययं भावः । न तावज्जडस्य कर्मणस्तत्तत्फलदातृत्वं
घञते फलमत उपपत्तेः [Vस्३.२.३८] इति न्यायात् । न चार्वाग्देवतानां
स्वातन्त्र्यमन्तर्यामिश्रुतिः । न च कर्मसाम्ये फलतारतम्यं क्वचिच्
च तद्असिद्धिः सम्भवति । अतः स्वतन्त्रेण परमेश्वरेण भाव्यम् ।

अत्र विद्वद्अनुभवोऽपि प्रमाणमित्याह मनोरिति त्रिभिः । अस्मत्
पितामहस्याङ्गस्य । प्रह्लादबली तदानीं शास्त्रादेव ज्ञात्वा गणितौ ।
गदाभृता परमेश्वरेण कृत्यमस्ति हृदये बहिरप्याविर्भूय तेषां
मुहुः कृत्यसम्पादनात्तेन यत्कृत्यं करणीयं तत्तेषामस्तीत्यर्थः ।
तेषामेव तेन सह कृत्यमस्ति नान्येषामित्यर्थो वा । तद्अन्यांस्तु
निन्दितत्वेनाह मृत्योर्दौहित्रादीन् वेणप्रभृतीन् धर्मविमोहितान् । (पगे
१०६)

गदाभृच्छब्देन तन्नाम्ना प्रसिद्धात्श्रीविष्णोरन्यत्र
परमेश्वरत्वं वारयति । श्रुतियुक्तिविद्वद्अनुभवेषु तं गदाभृतं
विशिनष्टि । वर्गेति वर्गोऽत्र त्रिवर्गः । स्वर्गो धर्धरस्य फलम् । अपवर्गो
मोक्षः । तेषामैकात्म्येनैकरूपेण सर्वान्तर्गतेन हेतुना । तत्रापि
प्रायेण प्रचरेण हेतुना । तदुक्तं स्कान्दे

बन्धको भवपाशेन भवपाशाच्च मोचकः ।
कैवल्यदः परं ब्रह्म विष्णुरेव सनातनः ॥ इति ।

[२०५]

अथ भजनश्रद्धा

यत्पादसेवाभिरुचिस्तपस्विनाम्
अशेषजन्मोपचितं मलं धियः ।
सद्यः क्षिणोत्यन्वहमेधती सती
यथा पदाङ्गुष्ठविनिःसृता सरित् ॥

विनिर्धुताशेषमनोमलः पुमान्
असङ्गविज्ञानविशेषवीर्यवान् ।
यद्अङ्घ्रिमूले कृतकेतनः पुनर्
न संसृतिं क्लेशवहां प्रपद्यते ॥ [भागवतम् ४.२१.३१३२]

तपस्विनां संसारतप्तानम् । तत्पादसम्बन्धस्यैवेष महिमेति
दृष्टान्तेनाह यथेति । असङ्गस्ततोऽन्यत्रानासक्तिस्तेन विज्ञानविशेषो
भगवतो नानाविर्भावत्वात्तेषां मध्ये कस्याप्याविर्भावस्य
साक्षात्कारस्तदेव वीर्यं विद्यते यस्य सः । यस्याङ्क्घ्रिमूले कृताश्रमः
सन् ।

॥ ४.२१ ॥ श्रीपृथुराजः सभ्यान् ॥ २०४२०५ ॥

[२०६]

अथ श्रवणगुरुभजनशिक्षागुर्वोः प्रायिकमेकत्वमिति तथैवेत्याह


तत्र भागवतान् धर्मान् शिक्षेद्गुर्व्आत्मदैवतः ।
अमाययानुवृत्त्या यैस्तुष्येदात्मात्मदो हरिः ॥ [भागवतम् ११.३.२२]

तस्माद्गुरुं प्रपद्येत इति पूर्वोक्तेस्तत्र श्रवणगुरौ । गुरुरेवात्मा
जीवनं दैवतं निजेष्टदेवततयाभिमतश्च यस्य तथाभूतः सन् ।
अमायया निर्दम्भयानुवृत्त्या तद्अनुगत्या शिक्षेत् । यैर्धर्मैः । आत्मा
परमात्मा । भक्तेभ्यः आत्मप्रदः श्रीबलिप्रभृतिभ्य इव । अस्य शिक्षा
गुरोर्बहुत्वमपि प्राग्वज्ज्ञेयम् ।

॥ ११.३ ॥ श्रीप्रबुद्धो निमिम् ॥ २०६ ॥

[२०७]

मन्त्रगुरुस्त्वेक एवेत्याह

लब्ध्वानुग्रह आचार्यात्तेन सन्दर्शितागमः ।
महापुरुषमभ्यर्चेन्मूर्त्याभिमतयात्मनः ॥ [भागवतम् ११.३.४८]

अनुग्रहो मन्त्रदीक्षारूपः । आगमो मन्त्रविधिशास्त्रम् । अस्यैकत्वम्
एकवचनत्वेन बोध्यते ।

बोधः कलुषितस्तेन दौरात्म्यं प्रकटीकृतम् ।
गुरुर्येन परित्यक्तस्तेन त्यक्तः पुरा हरिः ॥

इति ब्रह्मवैवर्तादौ तत्त्यागनिषेधात् । तद्अपरितोषेणाप्यन्यो गुरुः
क्रियते ततोऽनेकगुरुकरणे पूर्वत्याग एव सिद्धः । एतच्चापवादवचन
द्वारापि श्रीनारदपञ्चरात्रे बोधितम्

अवैष्णवोपदिष्टेन मन्त्रेण निरयं व्रजेत् ।
पुनश्च विधिना सम्यग्ग्राहयेद्वैष्णवाद्गुरोः ॥ इति ।[*Eण्ड्ण्Oट्E ॰४]

॥ ११.३ ॥ श्र्याविर्होत्रो निमिम् ॥ २०७ ॥

[२०८]

तत्र श्रवणगुरुसंसर्गेणैव शास्त्रीयविज्ञानोत्पत्तिः स्यात्नान्यथेत्याह


आचार्योऽरणिराद्यः स्यादन्तेवास्युत्तरारणिः ।
तत्सन्धानं प्रवचनं विद्यासन्धिः सुखावहः ॥ [भागवतम् ११.१०.१२]
(पगे १०७)
आद्योऽधरः । तत्सन्धानं तयोर्मध्यमं मन्थनकाष्ठं
प्रवचनमुपदेशः । विद्या शास्त्रोक्तज्ञानं तु सन्धौ भवोऽग्निरिव ।
तथा च श्रुतिः आचार्यः पूर्वरूपमित्यादि । अतएव तद्विज्ञानार्थं स
गुरुमेवाभिगच्छेद्[ंुण्डू १.१.१२] इति, आचार्यवान् पुरुषो वेद [Cहाऊ
६.१४.२] इति, नैषा तर्केण मतिरपनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठा
[Kअठू १.२.९] इति ।

॥ ११.१० ॥ श्रीभगवान् ॥ २०८ ॥

[२०९]

शिक्षागुरोरप्यवश्यकत्वमाहुः

विजितहृषीकवायुभिरदान्तमनस्तुरगं
य इह यतन्ति यन्तुमतिलोलमुपायखिदः ।
व्यसनशतान्विताः समवहाय गुरोश्चरणं
वणिज इवाज सन्त्यकृतकर्णधरा जलधौ ॥ [भागवतम् १०.८७.३३]

ये गुरोश्चरणं समवहाय अतिलोलमदान्तमदमितं मन एव तुरगं
विजितैरिन्द्रियैः प्राणैश्च कृत्वा यन्तुं भगवदुन्मुखीकर्तुं
प्रयतन्ते ते उपायखिदः । तेषु तेषु उपायेषु खिद्यन्ते । अतो व्यसन
शतान्विता भवन्ति । अतएव इह संसारे तिष्ठन्त्येव । हे अज अकृत
कर्णधरा अस्वीकृतनाविका जलधा यथा तद्वत् । श्रीगुरुपददर्शित
भगवद्भजनप्रकारेण भगवद्वर्त्मज्ञाने सति तत्कृपया
व्यसनानभिभूतौ सत्यां शीघ्रमेव मनो निश्चलं भवतीति भावः । अतो
ब्रह्मवैवर्ते

गुरुभक्त्या स मिलति स्मरणात्सेव्यते बुधैः ।
मिलितोऽपि न लभ्येत जीवैरहमिकापरैः ॥

श्रुतिश्च
यस्य देवे परा भक्तिर्यथा देवे तथा गुरुः ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ [श्वेतू ६.२३]

॥ १०.८७ ॥ श्रुतयः ॥ २०९ ॥

[२१०]

अतो मन्त्रगुरोरावश्यक्तवं सुतरामेव । तदेतत्परमार्थगुर्व्
आश्रयो व्यवहारिकगुर्व्आदित्यागेनापि कर्तव्य इत्याह

गुरुर्न स स्यात्स्वजनो न स स्यात्
पिता न स स्याज्जननी न सा स्यात् ।
दैवं न तत्स्यान्न पतिश्च स स्यान्
न मोचयेद्यः समुपेतमृत्युम् ॥ [भागवतम् ५.५.१८]

समुपेतः सम्प्राप्तो मृत्युः संसारो येन तम् । अत उक्तं श्रीनारदेन

जुगुप्सितं धर्मकृतेऽनुशासतः
स्वभावरक्तस्य महान् व्यतिक्रमः । [भागवतम् १.५.१५] इत्यादि ।

तस्मात्तावदेव तेषां गुर्व्आदिव्यवहारो यावत्मृत्युमोचकं श्रीगुरु
चरणं नाश्रियत इत्यर्थः ।

॥ ५.५ ॥ श्र्यृषभदेवः स्वपुत्रान् ॥ २१० ॥

[२११]

अन्यदा स्वगुरौ कर्मिभिरपि भगवद्दृष्टिः कर्तव्येत्याह

आचार्यं मां विजानीयान्नावमन्येत कर्हिचित् ।
न मर्त्यबुद्ध्यासूयेत सर्वदेवमयो गुरुः ॥ [भागवतम् ११.१७.२७]

ब्रह्मचारिधर्मान्तःपठितमिदम् ।

॥ ११.१७ ॥ श्रीभगवान् ॥ २११ ॥

[२१२]

अतः सुतरामेव परमार्थिभिस्तादृशे गुरावित्याह (पगे १०८)

यस्य साक्षाद्भगवति ज्ञानदीपप्रदे गुरौ ।
मर्त्यासद्धीः श्रुतं तस्य सर्वं कुञ्जरशौचवत् ॥
एष वै भगवान् साक्षात्प्रधानपुरुषेश्वरः ।
योगेश्वरैर्विमृग्याङ्घ्रिर्लोको यं मन्यते नरम् ॥ [भागवतम् ७.१५.२६२७]

एष श्रीकृष्णलक्षणोऽपि । ततः प्राकृतदृष्टिर्न भगवत्तत्त्वग्रहणे
प्रमाणमिति भावः ।

॥ ७.१५ ॥ श्रीनारदो युधिष्ठिरम् ॥ २१२ ॥

[२१३]

शुद्धभक्तास्त्वेके श्रीगुरोः श्रीशिवस्य च भगवता सहाभेददृष्टिं
तत्प्रियतमत्वेनैव मन्यन्ते । यथा

वयं तु साक्षाद्भगवन् भवस्य
प्रियस्य सख्युः क्षणसङ्गमेन ।
सुदुश्चिकित्स्यस्य भवस्य मृत्योर्
भिषक्तमं त्वाद्य गतिं गताः स्म ॥ [भागवतम् ४.३०.३८]

टीका च तव यः प्रियः सखा तस्य भवस्य । अत्यन्तमचिकित्सस्य भवस्य
जन्मनो मृत्योश्च भिषक्तमं सद्वैद्यं त्वां गतिं प्राप्ता इत्येषा । श्री
शिवो ह्येषां वकृणां गुरुः ।

॥ ४.३० ॥ श्रीप्रचेतसः श्रीअद्अष्टभुजपुरुषम् ॥ २१३ ॥
[२१४]

तदेवं रुच्य्आदिना गुर्व्आश्रयान्ते उपासनापूर्वाङ्गरूपः साम्मुख्य
भेदो बहुविधो दर्शितः । अथ साक्षादुपासनालक्षणस्तद्भेदोऽपि
बहुविधो दर्श्यते । अत्र साम्मुख्यं द्विविधं निर्विशेषमयं सविशेष
मयं च । अत्र पूर्वं ज्ञानम् । उत्तरं तु द्विविधम् अहङ्ग्रहोपासना
रूपं भक्तिरूपं च । अस्य ज्ञानस्य लक्षणं ज्ञानं चैकात्म्यदर्शनम्
[भागवतम् ११.१९.२५] इति । अभेदोपासनं ज्ञानमित्यर्थः ।

॥ ११.१९ ॥ श्रीभगवान् ॥ २१४ ॥

[२१५]

तत्साधनप्रकारं चैवं बहुविधस्तत्र तत्रोक्तिः । स च ज्ञानम्
एवोच्यते । तत्र श्रवणं श्रीपृथुसनत्कुमारसंवादादौ द्रष्टव्यम् ।

तद्अनुसारेण मननं च ज्ञेयम् । प्रथमतः श्रोतॄणां हि विवेकस्तावान्
एव यावता जडातिरिक्तचिन्मात्रं वस्तूपस्थितं भवति । तस्मिंश्चिन्
मात्रेऽपि वस्तुनि ये विशेषाः स्वरूपभूतशक्तिसिद्धा भगवत्तादिरूपा
वर्तन्ते तांस्तु ते विवेक्तुं न क्षमन्ते, यथा दिवारजनीखण्डिनि ज्योतिषि
ज्योतिर्मात्रत्वेऽपि ये मण्डलान्तर्बहिश्च दिव्यविमानादिपरस्परपृथग्
भूतरश्मिपरमाणुरूपा विशेषास्तांश्चर्मचक्षुषो विवेक्तुं न
क्षमन्ते तद्वत् । पूर्ववच्च यदि महत्कृपाविशेषणदिव्यदृष्टिता
भवति तदा विशेषोपलब्धिश्च भवेत् । न चेन्निर्विशेषचिन्मात्र
ब्रह्मानुभवेन तल्लीनमेव भवति । तथैव निदिध्यासनमपि तेषाम् ।
तद्यथा

स्थिरं सुखं चासनमास्थितो यतिर्
यदा जिहासुरिममङ्ग लोकम् ।
काले च देशे च मनो न सज्जयेत्
प्राणान्नियच्छेन्मनसा जितासुः ॥

मनः स्वबुद्ध्यामलया नियम्य
क्षेत्रज्ञ एतां निनयेत्तमात्मनि ।
आत्मानमात्मन्यवरुध्य धीरो
लब्धोपशान्तिर्विरमेत कृत्यात् ॥ [भागवतम् २.२.१५१६]

एतां बुद्धिं क्षेत्रज्ञे बुद्ध्यादिद्रष्टरि निलयेत्प्रविलापयेत् । तं च
क्षेत्रज्ञं स्वरूपभूतया बुद्ध्या आत्मनि तद्द्रष्टृत्वादिरहिते शुद्धे
जीवे, तं च शुद्धमात्मानमात्मनि ब्रह्मण्यवरुध्य तद्एकत्वेन
विचिन्त्य लब्धोपशान्तिः प्राप्तनिर्वृतिः सन् कृत्याद्विरमेत्, तस्य ततः परं
प्राप्याभावात् ।

॥ २.२ ॥ श्रीशुकः ॥ २१५ ॥
(पगे १०९)

तदेवं ज्ञानमुक्तिमिदमेव स्वाभावोऽध्यात्ममुच्यते इत्यनेन श्री
गीतासूक्तम् । स्वस्य शुद्धस्यात्मनो भावो भावना आत्मन्यधिकृत्य
वर्तमानत्वादध्यात्मशब्देनोच्यत इत्यर्थः ।

अथाहंग्रहोपासनं तच्छक्तिविशिष्ट ईश्वर एवाहमिति चिन्तनम् । अस्य
फलं स्वस्मिंस्तच्छक्त्य्आद्य्आविर्भावः यथा विष्णुपुराणे नागपाशादि
यन्त्रितः श्रीप्रह्लादस्तादृशमात्मानं स्मरन्नागपाशादिकम्
उत्सारितवान् । अत्रान्तिमफलं च कीटपेशस्कृत्न्न्यायेन सारूप्य
सार्ष्ट्यादिकं ज्ञेयम् ।

अथ भक्तिः । तस्यास्तटस्थलक्षणं स्वरूपलक्षणं च यथा गरुड
पुराणे

विष्णुभक्तिं प्रवक्ष्यामि यया सर्वमवाप्यते ।
यथा भक्त्या हरिस्तुष्येत तथा नान्येन केनचित् ॥

इत्युक्त्वाह
भज इत्येष वै धातुः सेवायां परिकीर्तितः ।
तस्मात्सेवा बुधैः प्रोक्ता भक्तिः साधनभूयसी ॥ इति ।

यया सर्वमवाप्यते इति तटस्थलक्सणम् । अत्र च अकामः सर्वकामो वा
इत्यादिसिद्धत्वादव्याप्त्य्अभावः । यथा भक्त्या इत्य्आद्य्उक्तत्वाद्
अतिव्याप्त्य्अभाव । बुधैः प्रोक्तत्वादसम्भवाभावश्च । सेवाशब्देन
स्वरूपलक्षणम् । सा च सेवा कायिकवाचिकमासआत्मिका त्रिविधैवानुगतिर्
उच्यते । अतएव भयद्वेषादीनामहङ्ग्रहोपासनायाश्च व्यावृत्तिः ।
साधनभूयसी साधनेषु श्रेष्ठेत्यर्थः ।

तदेवं लक्षणद्वयं प्रकारान्तरेणाह

ये वै भगवता प्रोक्ता उपाया ह्यात्मलब्धये ।
अञ्जः पुंसामविदुषां विद्धि भागवतान् हि तान् ॥ [भागवतम् ११.२.३४]

अविदुषां पुंसां तन्माहात्म्यमविद्वद्भिरपि कर्तृभिः । आत्मनो ब्रह्म
परमात्मा भगवानित्याविर्भावभेदवतः स्वस्य धर्मभूतस्य अञ्जः
अनायासेनैव लब्धये लाभाय उपायाः साधनानि स्वयं भगवता

कालेन नष्टा प्रलये वाणीयं वेदसंज्ञिता ।
मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मद्आत्मकः ॥ [भागवतम् ११.१४.३]

इत्यनुसारेण प्रोक्ताः । तानुपायान् भागवतान् धर्मान् विद्धि भागवतीं
भक्तिं जानीहीत्यर्थः । हि प्रसिद्धौ । तत्र साक्षाद्भक्तेरपि भागवत
धर्माख्यत्वमेतावानेव लोकेऽस्मिन् [भागवतम् ११.३.२३] इत्यत्र परम
धर्मत्वख्यापनाय दर्शितम् । अत्र आत्मलब्धये प्रोक्ता इति तटस्थ
लक्सणम् । अन्येन तद्अलाभादव्यभिचारि । आत्मलब्धय उपाया इति
स्वरूपलक्षणम् । तल्लाभोपायो हि तद्अनुगतिरेव ।

॥ ११.२ ॥ श्रीकविर्निमिम् ॥ २१६ ॥

[२१७]

सा भक्तिस्त्रिविधा । आरोपसिद्धा, सङ्गसिद्धा, स्वरूपसिद्धा च ।
तत्रारोपसिद्धा स्वतो भक्तित्वाभावेऽपि भगवद्अर्पणादिना भक्तित्वं
प्राप्ता कर्मादिरूपा । सङ्गसिद्धा स्वतो भक्तित्वाभावेऽपि तत्परिकरतया
संस्थापनेन तत्र भागवतान् धर्मान् शिक्षेद्गुर्व्आत्मदैवतः [भागवतम्
११.३.२४] इत्यादिप्रकरणेषु सर्वतो मनसोऽसङ्गम् [भागवतम् ७.५.१८] इत्यादिना
लब्धतद्अन्तःपाता ज्ञानकर्मतद्अङ्गरूपा । स्वरूपसिद्धा
चाज्ञानादिनापि तत्प्रादुर्भावे भक्तित्वाव्यभिचारिणी साक्षात्तद्
अनुगत्यात्मा तदीयश्रवणकीर्तनादिरूपा । श्रवणं कीर्तनं विष्णोः
(पगे ११०) इत्यादौ विष्णोः श्रवणं विष्णोः कीर्तनमिति विशिष्टस्यैव
विवक्षितत्वत्तेषामपि नारोपसिद्धत्वं प्रत्युत मूढप्रोन्म्मत्तादिषु
तद्अनुकर्तृष्वपि कथञ्चित्सम्बन्धेन फलप्रापकत्वात्स्वरूप
सिद्धत्वं, यथा श्रीप्रह्लादस्य पूर्वजन्मनि श्रीनृसिंहचतुर्दश्य्
उपवासः । यथा कुक्कुरमुखगतस्य श्येनस्य भगवन्मन्दिर
परिक्रमः । एवमन्यदृष्ट्यादिना मूढादिभिः कृतस्य वन्दनस्यापि
ज्ञेयम् ।

तदेवं त्रिविधापि सा पुनरकैतवा सकैतवा चेति द्विविधा ज्ञेया ।
तत्रारोपसङ्गसिद्धयोर्यस्या भक्तः सम्बन्धेन भक्तिपदप्राप्त्यां
सामर्थ्यं तन्मात्रापेक्षत्वं चेदकैतवत्वं स्वीयान्यदीयफलापेक्ष
परिकरत्वं चेदकैतवत्वं प्रयोजनान्तरापेक्षया कर्मज्ञान
परिकरत्वं चेत्सकैतवत्वम् । स्वरूपसिद्धायाश्च यस्य भगवतः
सम्बन्धेन तादृशं माहात्म्यं तन्मात्रापेक्षपरिकरत्वं चेद्
अकैतवत्वं प्रयोजनान्तरापेक्षया कर्मज्ञानपरिकरत्वं चेत्
सकैतवत्वम् । इयमेवाकैतवाकिञ्चनाख्यत्वेन पूर्वमुक्ता । धर्मः
प्रोज्झितकैतवोऽत्र परमः [भागवतम् १.१.२] इत्यत्र चास्यास्तद्उभयविधत्वे
प्रमाणं ज्ञेयम् । तथोक्तं प्रीयतेऽमलया भक्त्या हरिरन्यद्
विडम्बनम् [भागवतम् ७.७.५२] इति ।

अथारोपसिद्धा एतद्अर्थमेव नैष्कर्म्यमप्यच्युतभाववर्जितम्
[भागवतम् १.५.१२] इत्यादौ सकामनिष्कामयोर्द्वयोरपि कर्मणोर्निन्दा ।
भगवद्वैमुख्याविशेषात् ।

तत्र यादृच्छिकचेष्टाया अपि भगवद्अर्पितत्वे भगवद्धर्मत्वं
भवति किमुत वैदिककर्मण इति वक्तुं तस्या अपि तद्रूपत्वमाह

कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वानुसृतस्वभावात् ।
करोति यद्यत्सकलं परस्मै
नारायणायेति समर्पयेत्तत् ॥ [भागवतम् ११.२.३६]

पूर्वं हि धर्मान् भागवतान् ब्रूत [भागवतम् ११.२.३१] इति प्रश्नानन्तरं ये वै
भगवता प्रोक्ता [भागवतम् ११.२.३४] इत्यादिना मुख्यत्वेन साक्षात्तल्लब्धये
उपायभूताः श्रवणकीर्तनादयो भागवता धर्मा लक्षिताः ते चात्रैव
शृण्वन् सुभद्राणि रथाङ्गपाणेर्[भागवतम् ११.२.३९] इत्य्आदिना कतिचिद्दर्शिताः ।
उत्तराध्याये च तत्र भागवतान् धर्मान् शिक्षेद्गुर्व्आत्मदैवतः
[भागवतम् ११.३.२२] इत्युपक्रमवाक्यादनन्तरमिति भागवतान् धर्मान्
शिक्षयन् भक्त्या तद्उत्थया [भागवतम् ११.३.३३] इत्युपसंहारवाक्यस्य प्राग्
भागवतधर्मत्वेनान्यसङ्गत्यागादिकमपि वक्ष्यते । सर्वतो
मनसोऽसङ्गम् [भागवतम् ११.३.२३] इत्यादिना । तस्मात्लौकिककर्माद्य्अर्पणम्
इदं यथा कथञ्चित्तद्धर्मसिद्ध्य्अर्थमेवोच्यते ।

अर्थश्चायं टीकायाम् आत्मना चित्तेनाहङ्कारेण वा अनुसृतो यः स्वभावस्
तस्मात् । अयमर्थः न केवलं विधितः कृतमेवेति नियमः
स्वभावानुसारि लौकिकमपीति । श्रीगीतासु च

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मद्अर्पणम् ॥ [गीता ९.२७] इति ।

इतः पूर्वं प्राणबुद्धिधर्माधिकारतः इत्यादिमन्त्रश्च तथा । अत्र
स्वाभाविककर्मणोऽर्पणे दुष्कर्मणो द्विविधा गतिः । ज्ञानेच्छूनाम्
अविशेषेण । भक्तीच्छूनां तु अनेन दुर्वासनदुःखदर्शनेन च स
करुणामयः करुणां करोत्विति वा (पगे १११)

या प्रीतिरविवेकानां
विषयेष्वनपायिनी ।
त्वामनुस्मरतः सा मे
हृदयान्नापसर्पतु ॥ [Vइড়् १.२०.१९] इति विष्णुपुराणोक्तप्रकारेण ।

युवतीनां यथा यूनि यूनां च युवतौ यथा ।
मनोऽभिरमते तद्वन्मनोऽभिरमतां त्वयि ॥ [ড়द्मড়् ६.१२८.२५८]

इति पाद्मोक्तप्रकारेण च मम सुकर्मणि दुष्कर्मणि यद्रागसामान्यं
तत्सर्वतोभावेन भगवद्विषयमेव भवत्विति समाध्येयम् ।
कामिनां तु न सर्वथैव सर्वदुष्कर्मार्पणम् । वेदोक्तमेव कुर्वाणो
निःसङ्गोऽर्पितमीश्वरे [भागवतम् ११.३.४] इत्यत्र पुनर्वैदिकमेवेश्वरेऽर्पितं
कुर्वाण इत्युक्तम् ॥

॥ ११.२ ॥ श्रीकविर्निमिम् ॥ २१७ ॥

[२१८]

अथ वैदिककर्मार्पणस्य प्रशंसामाहुः

क्लेशभूर्य्अल्पसाराणि कर्माणि विफलानि वा ।
देहिनां विषयार्तानां न तथैवार्पितं त्वयि ॥ [भागवतम् ८.५.४७]

विषयार्तानां कर्माणि क्वचित्क्लेशो भूरिर्येषु तथाप्यल्पं फलं येषु
तथाप्यभूतानि भवन्ति, क्वचित्कृष्यादिवद्विफलानि वा भवन्ति, त्वय्य्
अर्पितं कर्म तु न तथा । किन्तु क्लेशं विना यथा कथञ्चित्कृतस्य
कामनयाप्यर्पणे तत्कामस्यावश्यकप्राप्तिः । सा च सर्वत उत्कृष्टा
भवति । तथा तन्मात्रफलेन च पर्याप्तिर्न भवति संसारविध्वंसादि
फलत्वादित्यर्थः । तदुक्तम्

यानास्थाय नरो राजन्न प्रमाद्येत कर्हिचित् ।
धावन्निमील्य वा नेत्रे न स्खलेन्न पतेदिह ॥ [भागवतम् ११.२.३५] इति ।

सत्यं दिशत्यर्थितमर्थितो नॄणाम् [भागवतम् ५.१९.२८] इत्यादि च । यथैव नाभिः
ऋषभदेवरूपं भगवन्तं पुत्रत्वेनापि लेभे । श्रीगीतासु च

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ [गीता २.४०] इति ।

॥ ८.५ ॥ देवाः श्रीमद्अजितम् ॥ २१८ ॥

[२१९]

तदेव कर्मार्पणमुपपादयति त्रिभिः

एतत्संसूचितं ब्रह्मंस्तापत्रयचिकित्सितम् ।
यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥ [भागवतम् १.५.३२]

ब्रह्मन् हे श्रीवेदव्यास एतत्तापत्रयस्य चिकित्सितं चिकित्सा तैश्
चातुर्मास्यवासिभिः परमहंसैः सूचितम् । किं तत्? भगवति कर्म यत्
समर्पितं भवति । तत्र कर्म समर्पणमेवेत्यर्थः । कथम्भूते ?
स्वयं भगवति पूर्णस्वरूपैक्श्वर्यादिमत्तया सर्वांशिन्येव केनचिद्
अंशेन जीवादिनियन्तृतया ईश्वरे परमात्मशब्दवाच्ये स्वरूपभूत
विशेषणेन विना केवलचिन्मात्रतया प्रतिपाद्यत्वेन ब्रह्मनि तच्छब्द
वाच्ये ।

[२२०]

ननु उत्पत्त्यैव तत्तत्सङ्कल्पेन विहितत्वात्संसारहेतोः कर्मणः कथं
तापत्रयनिवर्तकत्वम् । उच्यते सामग्रीभेदेन घटत इति यथा
(पगे ११२)

आमयो यश्च भूतानां जायते येन सुव्रत ।
तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम् ॥ [भागवतम् १.५.३३]

आमयो रोगो येन घृतादिना जायते तदेव केवलमामयकारणं द्रव्यं
तमामयं न निवर्तयति किन्तु चिकित्सितं द्रव्यान्तरैर्भावितं सत्
निवर्तयत्येव ।

[२२१]

एवं नृणां क्रियायोगाः सर्वे संसृतिहेतवः ।
त एवात्मविनाशाय कल्पन्ते कल्पिताः परे ॥ [भागवतम् १.५.३४]

परे भगवति कल्पिताः कामनयाप्यर्पिताः सन्तः संसारध्वंसपर्यन्त
फलत्वादात्मविनाशाय कर्मनिवृत्तये कल्पन्ते ।

॥ १.५ ॥ श्रीनारदो व्यासम् ॥ २१९२२१ ॥

[२२२]

किं च कर्मफलं वस्तुतो भगवद्आश्रयमेव । तत्तु दुर्बुद्धेरात्म
सात्कुर्वतो युक्त्यवतुछफलप्राप्तिः संसारश्च । सुधियस्तु तत्साक्षात्
कुर्वतस्तद्वैपरीत्यमित्याह गद्याभ्याम्

सम्प्रचरत्सु नानायागेषु विरचिताङ्गक्रियेष्वपूर्वं यत्तत्क्रियाफलं
धर्माख्यं परे ब्रह्मणि यज्ञपुरुषे सर्वदेवतालिङ्गानां
मन्त्राणामर्थनियामकतया साक्षात्कर्तरि परदेवतायां भगवति
वासुदेव एव भावयमान आत्मनैपुण्यमृदितकषायो हविःष्व्
अध्वर्युभिर्गृह्यमाणेषु स यजमानो यज्ञभाजो देवांस्तान्
पुरुषावयवेष्वभ्यध्यायत् । [भागवतम् ५.७.६] इति ।

टीका च सम्प्रचरत्सु प्रवर्तमानेषु विरचिता अनुष्ठिता अङ्गक्रिया
येषां तेषु यदपूर्वं तद्वासुदेव एव भावयमानश्चिन्तयन् स
यजमानो यज्ञभागभाजो ये देवास्तान् पुरुषस्य वासुदेवस्य आवयवेषु
चक्सुर्आदिषु अभ्यध्यायत्, न तु तत्पृथक्त्वेनेत्यन्वयः ।

अपूर्वे पक्षद्वयं मीमांसकानाम् । तदानीमेव सूक्ष्मत्वेनोत्पन्नं
फलमेवापूर्वं कालान्तरफलोत्पादिका कर्मशक्तिर्वेति । तदुक्तम्

यागादेव फलं तद्धि शक्तिद्वारेण सिध्यति ।
सूक्ष्मशक्त्य्आत्मकं वापि फलमेवोपजायते ॥ इति ।

तदेतदाह क्रियाफलं धर्माख्यम् [भागवतम् ५.७.६] इति च ।

ननु यद्यङ्गं देवता कर्म प्रधानमिति मतं तर्हि कर्तृनिष्ठम्
अपूर्वं स्यात् । तदुक्तम्

कर्मभ्यः प्रागयोग्यस्य कर्मणः पुरुषस्य वा ।
योग्यता शास्त्रगम्या या परा सापूर्वमिष्यते ॥ इति ।

अथ देवता प्रधानं कर्म तु देवताराधनार्थं, तदा देवताप्रसाद्
रूपत्वादपूर्वस्य देवताश्रत्वमेव युक्तं प्रोक्षणाद्य्अपूर्वस्येव
व्रीह्य्आद्य्आश्रयत्वम् । कुतो वासुदेवाश्रयमपूर्वं भावयति ? उच्यते ।
यदि कर्तृनिष्ठमपूर्वं स्यात्तर्हि वासुदेवस्यान्तर्यामिणः
प्रवर्तकत्वेन मुख्यकर्तृत्वात्तद्आश्रयमेवापूर्वं, न तु तत्प्रयोज्य
यजमानाश्रयं, शास्त्रफलं प्रयोक्तरीति न्यायात् । अन्यथा ऋत्विजामप्य्
अपूर्वाश्रयत्वप्रसङ्गात् । तदेवाह साक्षात्कर्तरीति । देवताश्रयत्वेऽपि
वासुदेवाश्रयत्वमेवेत्याह परदेवतायामिति । परदेवतात्वे हेतुः
सर्वदेवतालिङ्गानां तत्तद्देवताप्रकाशकानां मन्त्राणां येऽर्था
इन्द्रादिदेवतास्तेषां नियामकतया तस्यैव प्रसादनीयत्वात्फलदातृत्वाच्
च युक्तसेवाश्रयत्वमित्यर्थः । एवं भावनमेवात्मनो नैपुण्यं
कौशलं तेन मृदिताः क्षीणाः कषाया रागादयो यस्य । अध्वर्युभिरिति
बहुवचनं नानाकर्माभिप्रायेण इत्येषा ।

(पगे ११६)
अत्र विष्णोरङ्गित्वेन तद्भजनं च दोष इति लभ्यते । अत्र पाद्मोत्तर
खण्डे यथा

उद्दिश्य देवता एव जुहोति च ददाति च ।
स पाषण्डीति विज्ञेयः स्वतन्त्रो वापि कर्मसु ॥ [ড়द्मড়् ६.२३५.८] इति ।

पाषण्डत्वमत्र वैष्णवमार्गाद्भ्रष्टत्वमित्यर्थः । श्रीगीतासु

येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ [गीता ९.२३.२४]

अतो वास्तवविचारे सर्व एव वेदमार्गाः श्रीभगवत्येव पर्यवस्यन्तीत्य्
अभिप्रेत्योक्तं श्रीमद्अक्रूरेण

सर्व एव यजन्ति त्वां सर्वदेवमयेश्वरम् ।
येऽप्यन्यदेवताभक्ता यद्यप्यन्यधियः प्रभो ॥
यथाद्रिप्रभवा नद्यः पर्जन्यापूरिताः प्रभो ।
विशन्ति सर्वतः सिन्धुं तद्वत्त्वां गतयोऽन्ततः ॥ [भागवतम् १०.४०.९१०] इति ।

गतयो मार्गाः । अन्ततो विचारपर्यवसानेन । अथ द्वितीयं गद्यम्

एवं कर्मविशुद्ध्या विशुद्धसत्त्वस्यान्तर्हृदयाकाशशरीरे ब्रह्मणि
भगवति वासुदेवे महापुरुषरूपोपलक्षणे श्रीवत्सकौस्तुभवन
मालारिदरगदादिभिरुपलक्षिते निजपुरुषहृल्लिखितेनात्मनि पुरुष
रूपेण विरोचमान उच्चैस्तरां भक्तिरनुदिनमेधमानरयाजायत [भागवतम्
५.७.७] इति ।

एवं पूर्वोक्तप्रकारेण कर्मविशुद्ध्या विशुद्धसत्त्वस्य भक्तिः स
श्रद्धश्रवणकीर्तनादिलक्षणा जायतेत्यन्वयः । क्व ? भगवति
वासुदेवे पूर्णस्वरूपभगाभ्यां सर्वनिवासेन च तत्तन्नाम्ना
प्रसिद्धोऽन्तर्हृदये य आकाशः स एव शरीरं स्वस्यैवाविर्भाव
विशेषाधिष्ठानं यस्य तस्मिनन्तर्यामिणि परमात्माख्ये ब्रह्मणि
निर्विशेषाविर्भावात्तद्आख्ये च भगवतो निराकारत्वं वारयति महा
पुरुषस्य यद्रूपं शास्त्रे श्रूयते तद्रूपं लक्ष्यते दृश्यते यत्र तस्मिन् ।
किं च श्रीवत्सादिभिरपि चिह्निते । एधमानरया वर्धमानप्रकर्षा ।

॥ ५.७ ॥ श्रीशुकः ॥ २२३ ॥

[२२४]

तदेतत्कर्मार्पणं द्विविधम् । भगवत्प्रीणनरूपं, तस्मिंस्तत्त्याग
रूपं चेति । यथोक्तं कौर्मे

प्रीणातु भगवानीशः कर्मणानेन शाश्वतः ।
करोति सततं बुद्ध्या ब्रह्मार्पणमिदं परम् ॥
यद्वा फलानां सन्न्यासं प्रकुर्यात्परमेश्वरे ।
कर्मणामेतदप्याहुर्ब्रह्मार्पणमनुत्तमम् ॥ इति ।

अत्र निमित्तानि च त्रीणि कामना नैष्कर्म्यं भक्तिमात्रं चेति । निष्कामस्
तु केवलं न सम्भवति । यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम्
इत्युक्तेः । अत्र कामनानैष्कर्म्ययोः प्रायः कर्मत्यागः । प्रीणनं तु
तद्आभास एव स्वार्थपरत्वात् । भक्तौ पुनः प्रीणनमेव भक्तेस्तु
तद्एकजीवनत्वात् ।

कामनाप्राप्तिर्यथा क्लेशभूर्य्अल्पसाराणि इत्यादि । यथा चाङ्गस्य
राज्ञः पुत्राथके (पगे ११४) यज्ञे । नैष्कर्म्यप्राप्तिश्च

वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे ।
नैष्कर्म्यां लभते सिद्धिं [भागवतम् ११.३.४७] इत्यत्र ।

भक्तिप्राप्तिश्च एवं कर्मविशुद्धिं [भागवतम् ५.७.७] इत्य्आदिगद्ये दर्शितैव ।

यदत्र क्रियते कर्म भगवत्परितोषणम् ।
ज्ञानं यत्तदधीनं हि भक्तियोगसमन्वितम् ॥ [भागवतम् १.५.३५] इत्यत्र च ।

भक्तियोगसयचरअत्वाद्ज्ञानमत्र भगवज्ज्ञानम् । परमभक्तास्तु
भगवत्परितोषणं प्रीणनमेव प्रार्थयन्ते

यन्नः स्वधीतं गुरवः प्रसादिता
विप्राश्च वृद्धाश्च सद्आनुवृत्त्या ।
आर्या नताः सुहृदो भ्रातरश्च
सर्वाणि भूतान्यनसूययैव ॥ [भागवतम् ४.३०.३९]

ते तव परितोषणाय भवत्विति वृणीमहे ।

॥ ४.३० ॥ प्रचेतसः श्रीमद्अष्टभुजं पुरुषम् ॥ २२४ ॥

[२२५]

तदेवमारोपसिद्धा दर्शिता । अथ सङ्गसिद्धोदाहरणप्राप्ता मिश्रा
भक्तिर्दर्श्यते । स्वरूपसिद्धासङ्गेन ह्यन्येषामपि भक्तित्वं
दर्शितम् । तत्र भागवतान् धर्मानित्यादिश्रीप्रबुद्धवाक्यप्रकरणे
सर्वासङ्गदयामैत्रादीनामपि भागवतधर्मत्वाभिधानात् ।

तत्र कर्ममिश्रा त्रिविधा सम्भवति सकामा कैवल्यकामा, भक्ति
मात्रकामा च । यद्यपि कामवैकल्ये अपि

या वै साधनसम्पत्तिः पुर्षार्थचतुष्टये ।
तया विना तदाप्नोति नरो नारायणाश्रयः ॥

इत्युक्तेः केवलयैव भक्त्या सम्भवतस्तथापि तत्तद्वासनानुसारेण
तत्र तत्र रुचिर्जायते इत्येवं तत्तद्अर्थं तन्मिश्रता जायत इत्य्
अवगन्तव्यम् । ततः सकामा प्रायः कर्ममिश्रैव । तत्र कर्मशब्देन
धर्म एव गृह्यते । तल्लक्षणं च यमदूतैः सामान्यत उक्तं वेद
प्रणिहितो धर्मः [भागवतम् ६.२.३६] इति । वेदोऽत्र त्रैगुण्यविषयः त्रैगुण्य
विषया वेदाः [गीता २.४५] इति श्रीगीतोक्तेः । तत्प्रवर्तनमात्रत्वेन सिद्धः
न तु भक्तिवदज्ञानेनापीत्यर्थः । श्रीगीतास्वेवान्यत्र तस्य कर्म
संज्ञितत्वं चोक्तं भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः [गीता
८.३] इति । विसर्गो देवतोद्देशेन द्रव्यत्यागः । तद्उपलक्षितः सर्वोऽपि
धर्मः कर्मसंज्ञित इत्यर्थः । स च भूतानां प्राणिनां ये भावा
वासनास्तेषामुद्भवकर इति विशेषणाद्भगवद्भक्तिर्व्यावृत्ता ।

अथ भक्तिसङ्गाय धर्मस्य वैशेष्ट्यं चैकादशे । श्रीभगवतोक्तं
धर्मो मद्भक्तिकृत्प्रोक्तः [भागवतम् ११.१९.२५] इति । भगवद्अर्पणेन भक्ति
परिकरीकृतत्वेन च भक्तिकृत्त्वमुच्यते । तदेवमीदृशेन कर्मणा मिश्रा
सकामा भक्तिर्यथा
(पगे ११५)

प्रजाः सृजेति भगवान् कर्दमो ब्रह्मणोदितः ।
सरस्वत्यां तपस्तेपे सहस्राणां समा दश ॥
ततः समाधियुक्तेन क्रियायोगेन कर्दमः ।
सम्प्रपेदे हरिं भक्त्या प्रपन्नवरदाशुषम् ॥ [भागवतम् ३.२१.६७]

अत्र तद्दर्शनजातभगवद्अश्रुपातलिङ्गेन निष्कामस्याप्यस्य ।
ब्रह्मादेशगौरवेणैव कामना ज्ञेया ।

॥ ३.२१ ॥ श्रीमैत्रेयः ॥ २२५ ॥

[२२६]

अथ कैवल्यकामा क्वचित्कर्मज्ञानमिश्रा क्वचिद्ज्ञानमिश्रा च । तत्र
ज्ञानं ज्ञानं चैकात्म्यदर्शनमिति दर्शितम् । तदीयश्रवणादीनां
वैराग्ययोगसाङ्ख्यानां च तद्अङ्गत्वात्तद्अन्तःपातः । अथ कर्म
ज्ञानमिश्रा । यथा

अनिमित्तनिमित्तेन स्वधर्मेणामलात्मना ।
तीव्रया मयि भक्त्या च श्रुतसम्भृतया चिरम् ॥
ज्ञानेन दृष्टतत्त्वेन वैराग्येण बलीयसा ।
तपोयुक्तेन योगेन तीव्रेणात्मसमाधिना ॥
प्रकृतिः पुरुषस्येह दह्यमाना त्वहर्निशम् ।
तिरोभवित्री शनकैरग्नेर्योनिरिवारणिः ॥ [भागवतम् ३.२७.२१२३]

निमित्तं फलं न तन्निमित्तं प्रवर्तकं यस्मिन् तेन निष्कामेन ।
अमलात्मना निर्मलेन मनसा । ज्ञानेन शास्त्रोत्थेन । योगो जीवात्म
परमात्मनो ध्यानं योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु इति
नानार्थवर्गात् । ध्यानमेव ध्यातृध्येयविवेकरहितं समाधिः । अत्र
सर्वासामेव सिद्धीनां मूलं तच्चरणार्चनम् [भागवतम् १०.८१.१६] इत्युक्त्या
भक्तेरङ्गित्वेऽपि अङ्गवन्निर्देशस्तेषां तत्र साधनान्तरसामान्य
दृष्टिरित्यभिप्रायेण । अतएव तेषां मोक्षमात्रफलमिति ।

॥ ३.२७ ॥ श्रीकपिलदेवः ॥ २२६ ॥
[२२७]

ज्ञानमिश्रामाह

विविक्तक्षेमशरणो मद्भावविमलाशयः ।
आत्मानं चिन्तयेदेकमभेदेन मया मुनिः ॥ [भागवतम् ११.१८.२१]

भावो भावना ।

॥ ११.१८ ॥ श्रीभगवान् ॥ २२७ ॥

[२२८]

तदेवं कैवल्यकामायां ज्ञानमिश्रोक्ता । अथ भक्तिमात्रकामायां
कर्ममिश्रा यथा

श्रद्धामृतकथायां मे शश्वन्मद्अनुकीर्तनम् ।
परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम ॥ [भागवतम् ११.१९.२०] इति ।

मद्अर्थेऽर्थपरित्यागो भोगस्य च सुखस्य च ।
इष्टं दत्तं हुतं जप्तं मद्अर्थं यद्व्रतं तपः ॥
एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिनाम् ।
मयि सञ्जायते भक्तिः कोऽन्योऽर्थोऽस्यावशिष्यते ॥ [भागवतम् ११.१९.२३२४] (पगे ११६)
इत्यन्तम् ।

मद्अर्थे मद्भजनार्थं तद्विरोधितोऽर्थस्य परित्यागः । भोगस्य तत्
साधनस्य चन्दनादेः । सुखस्य पुत्रोपलालनादेः । इष्टादिवैदिकं यत्
कर्म तदपि मद्अर्थं कृतं भक्तेः कारणमित्यर्थः । धर्मैर्
भागवताभिधैः । एवं कायवाङ्मनोभिस्तद्अर्थमात्र
चेष्टावत्त्वेनानुष्ठितैर्भगवद्धर्मैरात्मनिवेदिनाम् । यस्यास्ति
भक्तिर्भगवत्यकिञ्चना [भागवतम् ५.१८.१२] इत्यादिन्यायेनास्य भक्तिमात्र
कामस्य अन्यः कोऽर्थः साधनरूपः साध्यरूपो वावशिष्यते ।
सर्वोऽस्यानादृतोऽपि तद्आश्रितो भवतीत्यर्थः ।

॥ ११.१९ ॥ श्रीभगवान् ॥ २२८ ॥

[२२९]
कर्मज्ञानमिश्रा यथा

निषेवितेनानिमित्तेन स्वधर्मेण महीयसा ।
क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः ॥
मद्धिष्ण्यदर्शनस्पर्श पूजास्तुत्य्अभिवन्दनैः ।
भूतेषु मद्भावनया सत्त्वेनासङ्गमेन च ॥
महतां बहुमानेन दीनानामनुकम्पया ।
मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च ॥
आध्यात्मिकानुश्रवणान्नामसङ्कीर्तनाच्च मे ।
आर्जवेनार्यसङ्गेन निरहङ्क्रियया तथा ॥
मद्धर्मणो गुणैरेतैः परिसंशुद्ध आशयः ।
पुरुषस्याञ्जसाभ्येति श्रुतमात्रगुणं हि माम् ॥ [भागवतम् ३.२९.१५१९]

निषेवितेन सम्यगनुष्ठितेन अनिमित्तेन च निषामेन स्वधर्मेण ।
महीयसा श्रद्धादियुक्तेन । क्रियायोगेन पञ्चरात्राद्य्उक्त
वैष्णवानुष्ठानेन । शस्तेन उत्तमदेशकालादिमता निष्कामेन च ।
नातिहिंस्रेण अतिहिंसारहितेन । अतिशब्दः प्राणादिपीडापरित्यागफल
पत्रादिजीवावयवस्वीकारार्थः । मद्धिष्ण्यं मद्अर्चादि । भूतेष्व्
अन्तर्यामित्वेन मद्भावनया । सत्त्वेन धैर्येण । असङ्गमेन वैराग्येण
च । अहिंसास्तेयब्रह्मचर्यपरिग्रहा यमाः । शौचसन्तोषतपः
स्वाध्याएश्वरप्रणिधानानि नियमाः । आध्यात्मिकमात्मानमात्म
विवेकशास्त्रम् । निरहङ्क्रियया गर्वराहित्येन । मद्धर्मणः मद्
धर्मानुष्ठातुः पुरुषस्याशयः । श्रुतमात्रगुणं मामञ्जसाभ्येति
मद्गुणश्रुतिमात्रेण मयि [भागवतम् ३.२९.११] इत्य्आद्य्उक्तलक्षणां
ध्रुवानुस्मृतिं प्राप्नोतीत्यर्थः । अत्राध्यात्मिकश्रवणादिना ज्ञान
मिश्रत्वमपि ।

॥ ३.२९ ॥ श्रीकपिलदेवः ॥ २२९ ॥

[२३०]

अथ ज्ञानमिश्रा

दृष्टश्रुताभिर्मात्राभिर्निर्मुक्तः स्वेन तेजसा ।
ज्ञानविज्ञानसन्तृप्तो मद्भक्तः पुरुषो भवेत् ॥ [भागवतम् ६.१६.६२]

दृष्टेति ऐहिकामुष्मिकविषयैः । स्वेन तेजसा विवेकबलेन ।

॥ ६.१६ ॥ श्रीसङ्कर्षणश्चित्रकेतुम् ॥ २३० ॥

[२३१]

अथ केवलस्वरूपसिद्धोदाह्रियते । तत्र सकामा कैवल्यकामा चोपासक
सङ्कल्पगुणैस्तत्तद्गुणत्वेनोपचर्यते । ततः सकामा द्विविधा तामसी
राजसी च । पूर्वा यथा

अभिसन्धाय यो हिंसां दम्भं मात्सर्यमेव वा ।
संरम्भी भिन्नदृग्भावं मयि कुर्यात्स तामसः ॥ [भागवतम् ३.२९.८]

अभिसन्धाय सङ्कल्प्य । संरम्भी सक्रोधः । भिन्नदृक्स्वस्मिन्निव
सर्वत्र यत्र सुखं दुःखं च तत्तद्देवता निरनुकम्प इत्यर्थः ।

[२३२]

उत्तरा यथा (पगे ११७)

विषयानभिसन्धाय यश ऐश्वर्यमेव वा ।
अर्चादावर्चयेद्यो मां पृथग्भावः स राजसः ॥ [भागवतम् ३.२९.९]

पृथक्मत्तोऽन्यत्र विषयादिष्वेव भावः स्पृहा यस्य न तु मयीति
राजसत्वहेतुता दर्शिता ।

[२३३]

अथ कैवल्यकामा सात्त्विक्येव । सा यथा

कर्मनिर्हारमुद्दिश्य परस्मिन् वा तद्अर्पणम् ।
यजेद्यष्टव्यमिति वा पृथग्भावः स सात्त्विकः ॥ [भागवतम् ३.२९.१०]

[२३४]

अथ यस्या एवोत्कर्षज्ञानार्थमेते भक्तिभेदा निरूपिताः सा भक्ति
मात्रकामत्वान्निष्कामा निर्गुणा केवला स्वरूपसिद्धा निरूप्यते । इयम्
एवाकिञ्चनाख्यत्वेन सर्वोर्ध्वं पूर्वमप्यभिहिता । तामाह

मद्गुणश्रुतिमात्रेण मयि सर्वगुहाशये ।
मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ ॥
लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम् ।
अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे ॥
सालोक्यसार्ष्टिसामीप्य सारूप्यैकत्वमप्युत ।
दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ॥
स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः ।
येनातिव्रज्य त्रिगुणं मद्भावायोपपद्यते ॥ [भागवतम् ३.२९.१११५]

मद्गुणश्रुतिमात्रेण न तु तत्रोद्देशान्तरसिद्ध्य्अभिप्रायेण । प्राकृत
गुणमयकरणानां सर्वेषां गुहा करणागोचरपदवी तस्यां शेते
गुह्यतया निश्चलतया च तिष्ठति यस्तस्मिन्मयि अविच्छिन्ना विषयान्तरेण
व्च्चेत्तुमशक्या या मनोगतिः सा । अविच्छिन्नत्वे दृष्टान्तो यथेति । गतिरिति
पूर्वस्मादाकृष्यते नित्यापेक्षात्वात् । लक्षणं स्वरूपम् ।

ननु तस्या गुणश्रुतेः का वार्ता उद्देश्यान्तराभावेन मनोगतित्वाभावेन
च द्विधापि निर्देष्टुमशक्त्यत्वात् । तत्राह अहैतुकी फलानुसन्धान
रहिता । अव्यवहिता स्वरूपसिद्धत्वेन साक्षाद्रूपा न त्वारोपसिद्धत्वेन
व्यवधानात्मिका । तादृशी या भक्तिः श्रोत्रादिना सेवनमात्रं सा च तस्य
स्वरूपमित्यर्थः । मात्रपदेनाविच्छिन्नेत्यनेन च मनोगतेर्
अहैतुकीत्वादिसिद्धेः पृथग्योजनानर्हत्त्वात् । सात्त्विकः कारकोऽसङ्गी [भागवतम्
११.२५.२५] इत्यादिषु निर्गुणो मद्अपाश्रयः [भागवतम् ११.२५.२५] इत्यादिभिस्तद्
आश्रयक्रियादीनां निर्गुणत्वस्थापनात्
(पगे ११८)

मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् ।
सुहृदं प्रियमात्मानं साम्यासङ्गादयोऽगुणाः ॥ [भागवतम् ११.१३.४०]

इत्यत्र तद्गुणानामप्यप्राकृतत्वश्रवणादहैतुकीत्वमेव विशेषतो
दर्शयति । जना मदीयाः । सालोक्यादिकमपि उत अपि दीयमानमपि न
गृह्णाति । मत्सेवनं विनेति गृह्णन्ति चेत्तर्हि मत्सेवार्थमेव गृह्णन्ति न
तु तद्अर्थमेवेत्यर्थः । सार्ष्टिः समानैश्वर्यम् । एकत्वं भगवत्
सायुज्यं ब्रह्मसायुज्यं च । अनयोस्तल्लीनात्मकत्वेन तत्
सेवनार्थत्वाभावादग्रहणावश्यकत्वमेवेति भावः । तस्मात्स एव
चात्यन्तिकफलतया भवतीत्यपवर्ग इत्यर्थः । नात्यन्तिकं विगणयन्ति
[भागवतम् ३.१५.४८] इत्यादेरात्यन्तिकप्रलयतया तत्प्रसिद्धेश्च ।

ननु गुणत्रयात्ययपूर्वकभगवत्साक्षात्कार एवापवर्ग इति चेत्तस्यापि
तादृशधर्मत्वं स्वतः सिद्धमेवेत्याह येनेति । येन कदाचिदप्य्
अपरित्याज्येन मम भावाय विद्यमानतायै साक्षात्कारायेत्यर्थः ।
उपपद्यते समर्थो भवति । यथोक्तं पञ्चमे यथा वर्णविधानम्
अपवर्गश्च भवति [भागवतम् ५.१९.१९] योऽसौ भगवति [भागवतम् ५.१९.२०] इत्यादिकम्
अनन्यनिमित्तभक्तियोगलक्षणो नानागतिनिमित्ताविद्याग्रन्थिरन्धन
द्वारेण [भागवतम् ५.१९.२०] इत्यन्तम् ।

अतो निर्गुणापि बहुधैवावगन्तव्या । एवमुक्तमेतत्प्रकरणारम्भे

भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते ।
स्वभावगुणमार्गेण पुंसां भावो विभिद्यते ॥ [भागवतम् ३.२९.७] इति ।

मार्गः प्रकारविशेषैः । अतः स्वस्य भक्तियोगस्यैव मार्गेण वृत्ति
भेदेन श्रवणादिना भावयाभिमानस्य तद्भेदेन दास्यादिना गुणानां
तमादीनां च तद्भेदेन हिंसादिना पुंसां भावोऽभिप्रायो विभिद्यत इत्य्
अर्थः ।

अत्र मुक्ताफलटीका च अयमात्यन्तिकस्ततः परं
प्रकारान्तराभावात् । अस्यैव भक्तियोग इत्याख्या । अन्वर्थेन भक्ति
शब्दस्यात्रैव मुख्यत्वात् । इतरेषु फल एवानुरागो न तु विष्णौ फल
लाभेन भक्तित्यागातित्येषा ।

श्रीगोपालतापनीश्रुतौ च भक्तिरस्य भजनम् । तदिहामुत्रोपाधि
नैरास्येनैवामुष्मिन्मनःकल्पनम् । एतदेव च नैष्कर्म्यम् [ङ्टू १.१४]
इति । शतपथश्रुतौ स होवाच याज्ञवल्क्यस्तत्पुमानात्महिताय
प्रेम्णा हरिं भजेतिति । प्रेम्णा प्रीतिमात्रकामनया यद्आत्महितं
तस्मै इत्यर्थः ।

॥ ३.२९ ॥ श्रीकपिलदेवः ॥ २३१२३४ ॥

(पगे ११९)

[२३५]

तदेवं बहुधा साधितैषाकिञ्चनात्यन्तिकीत्यादिसंज्ञा भक्तिर्द्विविधा
वैधी रागानुगा च इति । तत्र वैधी शास्त्रोक्तविधिना प्रवर्तिता । स च
विधिर्द्विविधः । तत्र प्रथमः प्रवृत्तिहेतुर्ः । तद्अनुक्रम
कर्तव्याकर्तव्यानां ज्ञानहेतुश्च । प्रथमस्तूदाहृतः

तस्मादेकेन मनसा भगवान् सात्वतां पतिः ।
श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च नित्यदा ॥ [भागवतम् १.२.१४] इत्यादिना ।

द्वितीयश्चार्चनव्रतादिगतः । तमाह
मामेव नैरपेक्ष्येण भक्तियोगेन विन्दति ।
भक्तियोगं स लभत एवं यः पूजयेत माम् ॥ [भागवतम् ११.२७.५३]

नैरपेक्ष्येण अहैतुकेन । अहैतुकभक्तियोग एव कथं स्यात्तत्राह
भक्तियोगमिति । एवं

यदा स्वनिगमेनोक्तं द्विजत्वं प्राप्य पूरुषः ।
यथा यजेत मां भक्त्या श्रद्धया तन्निबोध मे ॥ [भागवतम् ११.२७.८]

इत्याद्युक्तविधिना ।

॥ ११.२७ ॥ श्रीभगवान् ॥ २३५ ॥

[२३६]

एवमेकादशीजन्माष्टम्यादिगतोऽपि ज्ञेयः । अथ वैधीभेदाः
शरणापत्तिश्रीगुर्व्आदिसत्सेवाश्रवणकीर्तनादयः । एते च प्रत्येकम्
अपि द्वित्रादयः समुत्यापि कारणानि भवन्ति । तथा श्रवणात् । तत्र
प्रथमतः शरणापत्तिः । षड्वर्गाद्य्अविकृतसंसारभयबाध्यमान
एव हि शरणं प्रविशत्यनन्यगतिः । भक्तिमात्रकामोऽपि तत्कृत
भगवद्वैमुख्यबाध्यमानः ।

अनन्यगतित्वं च द्विधा दर्श्यते । आश्रयान्त्रस्याभावकथनेन अति
प्रज्ञया कथञ्चिदाश्रितस्यान्यस्य त्याजनेनअ च । पूर्वेण यथा

मर्त्यो मृत्युव्यालभीतः पलायन्
लोकान् सर्वान्निर्भयं नाध्यगच्छत् ।
त्वत्पादाब्जं प्राप्य यदृच्छयाद्य
सुस्थः शेते मृत्युरस्मादपैति ॥ [भागवतम् १०.३.२७]

उत्तरेण यथा

तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम् ।
प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतमेव च ॥
मामेकमेव शरणमात्मानं सर्वदेहिनाम् ।
याहि सर्वात्मभावेन मया स्या ह्यकुतोभयः ॥ [भागवतम् ११.१२.१४१५] इति ।

चोदनां श्रुतिं प्रतिचोदनां स्मृतिमिति टीका च ।

श्रीगीतासु च सर्वधर्मान् परित्यज्य [गीता १८.६६] इत्यादि । तस्या
शरणापत्तेर्लक्षणं वैष्णवतन्त्रे

आनुकूल्यस्य सङ्कल्पः प्रतिकूल्यविवर्जनम् ।
रक्षिष्यतीति विश्वासो गोप्तृत्वे वरणं तथा ।
आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः ॥ इति ।

अङ्गाङ्गिभेदेन षड्विधा । तत्र गोप्तृत्वे वरणमेवाङ्गि शरणागति
शब्देनैकार्थ्यात् । (पगे १२०) अन्यानि त्वङ्गानि तत्परिकरत्वात् । आनुकूल्य
प्रातिकूल्ये तद्भक्तादीनां शरणागतस्य भावस्य वा । रक्षिष्यतीति
विश्वासः । क्षेमं विधास्यति स नो भगवांस्त्र्य्अधीशस्तत्रास्मदीय
विमृशे न कियानिहार्थः [भागवतम् ३.१६.३५] इत्यादिप्रकारः ।

आत्मनिक्षेपः केनापि देवेन ऋदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि इति
गौतमीयतन्त्रोक्तप्रकारः । यथोक्तं पाद्मोत्तरखण्डे चाष्टाक्षरस्य
नमःशब्दव्याख्याने

अहङ्कृतिर्मकारः स्यान्नकारस्तन्निषेधकः ।
तस्मात्तु नमसा चात्र स्वातन्त्र्यं प्रतिषिध्यते ॥
भगवत्परतन्त्रोऽसौ तदा यत्तश्च जीवति ।
तस्मात्स्वसामर्थ्यविधिं त्यजेत्सर्वमशेषतः ॥
ईश्वरस्य तु सामर्थ्यान्नालभ्यं तस्य विद्यते ।
तस्मिन्न्यस्तभवः शेते तत्कर्मैव समाचरेत् ॥ [ড়द्मড়् ६.२२६.४१४६]

अतएव ब्रह्मवैवर्ते
अहैकारनिवृत्तानां केशवो न हि दूरगः ।
अहङ्कारयुतानां हि मध्ये पर्वतराशयः ॥ [भागवतम् ३.९.९] इति ।

कार्पण्यं परमकारुणिको न भवेत्परः परमशोच्यतमो न च मत्
पर इत्यादिप्रकारम् । गोप्तृत्वे वरणं च यथा नारसिंहे

त्वां प्रपन्नोऽस्मि शरणं देवदेवं जनार्दनम् ।
इति यः शरणं प्राप्तस्तं क्लेशादुद्धराम्यहम् ॥ इति प्रकारम् ।

तदपि त्रिप्रकारं कायिकत्वादिभेदेन यथोक्तं ब्रह्मपुराणे

कर्मणा मनसा वाचा येऽच्युतं शरणं गताः ।
न समर्थो यमस्तेषां ते मुक्तिफलभागिनः ॥ इति ।

व्याख्यातं श्रीहरिभक्तिविलासे
तवास्मीति वदन् वाचा तथैव मनसा विदन् ।
तत्स्थानमाश्रितस्तन्वा मोदते शरणागतः ॥ [ःBV ११.६७७] इति ।

तदेवं यस्य सर्वाङ्गसम्पन्ना शरणापत्तिस्तस्य झटित्येव सम्पूर्ण
फला अन्येषां तु यथासम्पत्ति यथाक्रमं चेति ज्ञेयम् । तामेतां
शरणापत्तिं श्लाघते

तापत्रयेणाभिहतस्य घोरे
सन्तप्यमानस्य भवाध्वनीश ।
पश्यामि नान्यच्छरणं तवाङ्घ्रि
द्वन्द्वातपत्रादमृताभिवर्षात् ॥ [भागवतम् ११.१९.९]

शरणागतानां सर्वदुःखदूरीकरणं निजमाधुरीणां सर्वतोवर्षं
चात्राभिहितम् ।

॥ ११.१९ ॥ उद्धवः श्रीभगवन्तम् ॥ २३६ ॥

[२३७]

तदेवं शरणापत्तिर्विवृता । अस्याश्च पूर्वत्वं तां विना तदीयत्वासिद्धिः ।
तत्र शरणापत्त्यैव यद्यपि सर्वं सिध्यति ।

शरणं तं प्रपन्ना ये ध्यानयोगविवर्जिताः ।
ते वै मृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदम् ॥ (पगे १२१) इति गारुडात् ।

तथापि वैशिष्ठ्यलिप्सुः शक्तश्चेत्ततो भगवच्छास्त्रोपदेष्टॄणां
भगवन्मन्त्रोपदेष्टॄणां वा श्रीगुरुचरणानां नित्यमेव विशेषतः
सेवां कुर्यात् । तत्प्रसादः स्वस्वनानाप्रतीकारदुस्त्यजानर्थहानौ
परमभगवत्प्रसादसिद्धौ च मूलम् । पूर्वत्र यथा सप्तमे श्री
नारदवाक्यम्

असङ्कल्पाज्जयेत्कामं क्रोधं कामविवर्जनात् ।
अर्थानर्थेक्षया लोभं भयं तत्त्वावमर्शनात् ॥
आन्वीक्षिक्या शोकमोहौ दम्भं महद्उपासया ।
योगान्तरायान्मौनेन हिंसां कामाद्य्अनीहया ॥
कृपया भूतजं दुःखं दैवं जह्यात्समाधिना ।
आत्मजं योगवीर्येण निद्रां सत्त्वनिषेवया ॥
रजस्तमश्च सत्त्वेन सत्त्वं चोपशमेन च ।
एतत्सर्वं गुरौ भक्त्या पुरुषो ह्यञ्जसा जयेत् ॥ [भागवतम् ७.१५.२२२५] इति ।

उत्तरत्र वामनकल्पे ब्रह्मवाक्यम्
यो मन्त्रः स गुरुः साक्षाद्यो गुरुः स हरिः स्वयम् ।
गुरुर्यस्य भवेत्तुष्टस्तस्य तुष्टो हरिः स्वयम् ॥ इति ।

अन्यत्र
हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ।
तस्मात्सर्वप्रयत्नेन गुरुमेव प्रसादयेत् ॥ इति ।

अतएव सेवामात्रं तु नित्यमेव । यथा चान्यत्र परमेश्वरवाक्यम्

प्रथमं तु गुरुः पूज्यः ततश्चैव ममार्चनम् ।
कुर्वन् सिद्धिमवाप्नोति ह्यन्यथा निष्फलं भवेत् ॥ इति ।

अतएव नारदपञ्चरात्रे
वैष्णवं ज्ञानवक्तारं यो विद्याद्विष्णुवद्गुरुम् ।
पूजयेद्वाङ्मनःकायैः स शास्त्रज्ञः स वैष्णवः ॥
श्लोकपादस्य वक्तापि यः पूज्यः स सदैव हि ।
किं पुनर्भगवद्विष्णोः स्वरूपं वितनोति यः ॥ इत्यादि ।

पाद्मे देवहूतिस्तुतौ
भक्तिर्यथा हरौ मेऽस्ति तद्वन्निष्ठा गुरौ यदि ।
ममास्ति तेन सत्येन स्वं दर्शयतु हरिः ॥ इति ।

तस्मादन्यद्भगवज्जनमपि नापेक्षते । यथोक्तमागमे पुरश्चरण
फलप्रसङ्गे

यथा सिद्धरसस्पर्शात्ताम्रं भवति काञ्चनम् ।
सन्निधानाद्गुरोरेवं शिष्यो विष्णुमयो भवेत् ॥ इति ।

तदेतदाह
नाहमिज्याप्रजातिभ्यां तपसोपशमेन वा ।
तुष्येयं सर्वभूतात्मा गुरुशुश्रूषया यथा ॥ [भागवतम् १०.८०.३४]

टीका च ज्ञानप्रदाद्गुरोरधिकः सेव्यो नास्तीत्युक्तम् । अतएव तद्
भजनादधिको धर्मश्च नास्तीत्याह नाहमिति । इज्या गृहस्थधर्मः ।
प्रजातिः प्रकृष्टं जन्म उपनयनं तेन ब्रह्मचारिधर्म उपलक्ष्यते
ताभ्याम् । तथा तपसा वनस्थधर्मेण । उपशमेन यतिधर्मेण वा ।
अहं परमेश्वरस्तथा न तुष्येय यथा सर्वभूतात्मापि गुरु
शुश्रूषया । इत्येषा ।

अत्र ज्ञानं ब्रह्मनिष्ठं भगवन्निष्ठं चेति द्विविधम् । तत्र पूर्वत्र
तथैव व्याख्या । उक्तं त्वेवम् (पगे १२२) इज्या पूजा । प्रजाति वैष्णव
दीक्षा । तपः समाधिः । उपशमो भगवन्निष्ठेति ॥

॥ १०.८० ॥ श्रीभगवान् श्रीदामविप्रम् ॥ २३७ ॥

[२३८]

श्रीगुर्व्आज्ञया तत्सेवनाविरोधेन चान्येषामपि वैष्णवानां सेवनं
श्रेयः । अन्यथा दोषः स्यात् । यथा श्रीनारदोक्तौ

गुरौ सन्निहिते यस्तु पूजयेदन्यमग्रतः ।
स दुर्गतिमवाप्नोति पूजनं तस्य निष्फलम् ॥ इति ।

यः प्रथमं शाब्दे परे च निष्णातं [भागवतम् ११.३.२१] इत्याद्युक्तलक्षणं
गुरुं नाश्रितवान् तादृशगुरोश्च मत्सरादितो महाभागवतसत्कारादाव्
अनुमतिं न लभते स प्रथमत एव त्यक्तशास्त्रो न विचार्यते । उभय
सङ्कटपातो हि तस्मिन् भवत्येव ।

एवम्आदिकाभिप्रायेणैव

यो वक्ति न्यायरहितमन्यायेन शृणोति यः ।
तावुभौ नरकं घोरं व्रजतः कालमक्षयम् ॥ इति नारदपञ्चरात्रे ।

अत एव दूरत एवाराध्यस्तादृशो गुरुः । वैष्णवविद्वेषी चेत्परित्याज्य एव ।


गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथप्रतिपन्नस्य कार्यं भवति शासनम् ॥ [ंभ्५.१७८.२४] इति स्मरणात् ।

तस्य वैष्णवभावराहित्येणावैष्णवतया अवैष्णवोपदिष्टेनेत्यादि
वचनविषयत्वाच्च । यथोक्तलक्षणस्य गुरोरविद्यमानायां तु तस्यैव
महाभागवतस्यैकस्य नित्यसेवनं परमश्रेयः । स च श्रीगुरुवत्
समवासनः स्वस्मिन् कृपालुचित्तश्च ग्राह्यः ।

यस्य यत्सङ्गतिः पुंसो मणिवत्स्यात्स तद्गुणः ।
स्वकुलर्द्ध्यै ततो धीमान् स्वयूथान्येव संश्रयेत् ॥

इति श्रीहरिभक्तिसुधोदयदृष्ट्या कृपां विना तस्मिन् चित्तारत्या च । अथ
सर्वस्यैव भागवतचिह्नधारिमात्रस्य तु यथायोग्यं सेवाविधानम् ।

तत्र महाभागवतसेवा द्विविधः प्रसङ्गरूपा परिचर्यारूपा च ।
तत्र प्रसङ्गरूपा यथा

नो रोधयति मां योगो न साङ्ख्यं धर्म एव च ।
न स्वाध्यायस्तपस्त्यागो नेष्टापूर्तं न दक्षिणा ॥
व्रतानि यज्ञश्छन्दांसि तीर्थानि नियमा यमाः ।
यथावरुन्धे सत्सङ्गः सर्वसङ्गापहो हि माम् ॥ [भागवतम् ११.१२.१२]

पूर्वाध्याये

इष्टापूर्तेन मामेवं यो यजेत समाहितः ।
लभते मयि सद्भक्तिं मत्स्मृतिः साधुसेवया ॥ [भागवतम् ११.११.४७]

इत्यनेन साधुसेवया भक्तिनिष्ठाजनने साधनानन्तरसेव्य्
अपेक्षत्वमिवोक्तम् ।

अत्रेष्टशब्देन सप्तमस्कन्धोक्तरीत्याग्निहोत्रदर्शपौर्णमास
चातुर्मास्ययागपशुयागवैश्वदेवबलिहरणान्युच्यन्ते [भागवतम् ७.१५.४८४९] ।
पूर्तशब्देन सुरालयारामकूपवापीतडागप्रपा । सत्राण्युच्यन्ते [भागवतम्
७.१५.४९]

अत्र तु इष्टं हविषाग्नौ यजेत माम् [भागवतम् ११.११.४२] (पगे १२३) । इत्यादौ
अग्निहोत्राद्युपलक्षितं पूर्तमुद्यानोपवनाक्रीडेत्याद्युपलक्षितं
ज्ञेयम् । एवं पूर्वोक्तप्रकारेणेष्टापूर्तेन यो मां यजेत स मत्स्मृतिस्
तत्र साधुसेवया सतां प्रसङ्गेन सभक्तिम् । अन्तरङ्गभक्तिनिष्ठां
प्राप्नोतीत्यर्थः । तत्राग्निहोत्रादीनां भक्तौ प्रवेशोऽग्न्य्अन्तर्यामि
रूपभगवद्अधिष्ठानत्वेनाग्न्यादिसन्तर्पणात् । कूपारामादीनां च तत्
परिचर्यार्थं क्रियमाणत्वात्तत्र प्रवेशः । तदेवं सत्सङ्गस्य
सर्वापेक्षत्वमुक्तम् । पुनश्च तत्र च तस्य स्वातन्त्र्येण यथेष्टफल
दातृत्वं सर्वापेक्षया परमसामर्थ्यं च वक्तुं परमगुह्यम्
उपदिष्टम् ।

अथैतत्परमं गुह्यं शृण्वतो यदुनन्दन ।
सुगोप्यमपि वक्ष्यामि त्वं मे भृत्यः सुहृत्सखा ॥ [भागवतम् ११.११.४९] इति ।

एतादृशमहिमत्वेनानूक्तत्वात्तदेतत्परमगुह्यत्वमाह न
रोध्यतीति । त्यागः सन्न्यासः । दक्षिणा दानमात्रम् । यज्ञो देवपूजा ।
छन्दांसि रहस्यमन्त्राः । यथा सत्सङ्गो मामवरुन्धे वशीकरोतीति
तथा योगो न वशीकरोति न च साङ्ख्यमित्यादिकोऽन्वयः । ततस्तेऽपि किञ्चिद्
वशीकुर्वन्तीत्यर्थलब्धेर्भगवत्परा एव ज्ञेया न च साधारणाः ।
अतएव च व्रतान्येकादश्यादीनीति टीकाकाराः । न चैतावतैषां नित्यानां
वैष्णवव्रतानामकर्तव्यत्वं प्राप्तमेकस्य फलातिशयसामर्थ्य
प्रशंसयेतरस्य नित्यत्वनिराकरणायोगात् । यथा कर्माधिकारिणः

न ह्यग्निमुखतोऽयं वै भगवान् सर्वयज्ञभुक् ।
इज्येत हविषा राजन् यथा विप्रमुखे हुतैः ॥ [भागवतम् ७.१४.१७]

इति श्रुत्वापि पूर्वोक्तमग्निहोत्रादिना यजेत इति विधिं न परित्यक्तुं
शक्नुवन्ति तद्वत्भक्त्य्अधिकारिणश्च यथा मद्भक्तपूजाभ्यधिका
[भागवतम् ११.१९.२९] इत्य्श्रुत्वापि दीक्षानन्तरं नित्यतया प्राप्तां भगवत्पूजां
त्यक्तुं न शक्नुवन्ति तद्वदिति । अत एव

षड्भिर्मासोपवासैस्तु यत्फलं परिकीर्तितम् ।
विष्णोर्नैवेद्यसिक्थेन तत्फलं भुञ्जतां कलौ ॥ इत्यपि न बाधकम् ।

एकादश्य्आदौ हि नित्यत्वेऽप्यानुषङ्गिकमेव महाफलकत्वं तत्र तत्र
मतम् । अतएव नित्यत्वरक्षणार्थमपि तादृशं वैष्णवं व्रतमवश्यम्
एव कर्तव्यमित्यागतम् । नित्यवैष्णवव्रतत्वादिकं चैकादश्यादेर्
अर्चनप्रसङ्गं किञ्चिद्दर्शयिष्यामः । अतएव पूर्वाध्याये टीकाकारैरपि
आज्ञायैव गुणान् दोषान् [भागवतम् ११.११.३२] इत्यत्र बिद्धैकादशीकृष्णैकादश्य्
उपवासानुपवासानिवेद्यश्राद्धादयो ये भक्तिविरुद्धा धर्मास्तान्
सन्त्यज्य इत्यर्थ इत्युक्तम् । प्रथमे च श्रीभीष्मयुधिष्ठिरसंवादे
भगवद्धर्मान् [भागवतम् १.९.२४] इत्यत्र हरितोषणाद्द्वादश्य्आदिनियम
रूपानित्य्व्याख्यातम् । व्रतानि चेरे हरितोषणानि [भागवतम् ३.१.१९] इत्यत्र तृतीय
एकादश्यादीनीति । अतएव भगवन्महाप्रसादैकव्रतस्य श्रीमद्
अम्बरीषस्य सच्छिरोमणे’राचारदर्शनाय तदेव निश्चीयत इति ।

अथ प्रस्तुतमनुसरामः । वशीकरणमत्र द्विविधम् मुख्यं गौणं
च । तत्र मुख्येन प्रेम लभ्यते । (पगे १२४)

अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो
मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् [भागवतम् ५.६.१८] इति न्यायेन ।

अतएव गौणेनान्यत्फलम् । अत्र मुख्यं श्रीगोप्यादौ । गौणं बाणादौ ।
उत्तरत्र वशीकरणत्वं फलदानोन्मुखीकरणतयोपचर्यते । तदेतद्
वशीकरणे दृष्टान्तमाह

सत्सङ्गेन हि दैतेया यातुधाना मृगाः खगाः ।
गन्धर्वाप्सरसो नागाः सिद्धाश्चारणगुह्यकाः ॥
विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियोऽन्त्यजाः ।
रजस्तमःप्रकृतय तस्मिंस्तस्मिन् युगे युगे ॥
बहवो मत्पदं प्राप्तास्त्वाष्ट्रकायाधवादयः ।
वृषपर्वा बलिर्बाणो मयश्चाथ विभीषणः ॥
सुग्रीवो हनुमानृक्षो गजो गृध्रो वणिक्पथः ।
व्याधः कुब्जा व्रजे गोप्यो यज्ञपत्न्यस्तथापरे ॥ [भागवतम् ११.१२.३६]

दैतेयास्तद्उपलक्षितासुरदानवाश्च । यातुधाना राक्षसाः । तज्जातिषु
दिग्दर्शनं त्वाष्ट्रेत्यादि । त्वाष्ट्रा वृत्रासुरः । वृतासुरस्य सत्सङ्गः
प्राग्जन्मनि श्रीनारदाङ्गिरसोः सङ्गः श्रीसङ्कर्षणसङ्गश्च
प्रसिद्धः ।

कायाधवः कयाधुपुत्रः प्रह्लादः । अस्य गर्भे श्रीनारदसङ्गः ।
आदिशब्दगृहीतान् पूर्वोक्तजातिक्रमेण कतिचिद्गणयति वृषेति । वृषपर्वा
दानवः । अयं हि जातमात्रमातृपरित्यक्तो मुनिपालिता विष्णुभक्तो
बभूवेति पुराणान्तरप्रसिद्धिः ।

बलेः श्रीप्रह्लादसङ्गः श्रीवामनसङ्गश्च । तद्अनन्तरमेव भक्त्य्
उद्बोधदर्शनात् । बाणस्य बलिमहेशभगवत्सङ्गः । अस्य भुज
कर्तनानन्तरं ज्ञातविष्णुमहिम्नो महाभागवतमहेशप्राप्तिरेव
स्वप्राप्तिरित्युच्यते । मयो दानवः । अस्य सभानिर्माणादौ पाण्डव
सङ्गो भगवत्सङ्गश्च । अन्ते तत्प्राप्तिस्तु ज्ञेया । विभीषणो यातुधानः ।
अस्य हनूमसङ्गो भगवत्सङ्गश्च ।

सुग्रीवाद्या गजान्ता मृगाः । तत्र ऋक्षो जाम्बवान् । अस्य भगवत्सङ्गः ।
गजो गजेन्द्रः । अस्य पूर्वजन्मनि सत्सङ्ग उन्नेयः । उत्तरजन्मान्ते
भगवत्सङ्गश्च । गृध्रो जटायुनामा खगः । अस्य श्रीगरुड
दशरथादिसङ्गः । श्रीसीतादर्शनं श्रीभगवद्दर्शनं च ।

गन्धर्वादीस्त्वनतिप्रसिद्धत्वेनानुदाहृत्य मनुष्येषु वैश्यादीन्
उदाहरति । वणिक्पथस्तुलाधारः । अस्य भारते जाजलिमुनिगन्धर्व
प्रसङ्गे प्रोक्तमहिम्नः सत्सङ्गोऽन्वेषणीयः ।

व्याधो धर्मव्याधः शूद्रोऽन्त्यजोऽपि । अत्र आदिवाराहे कथेयम् क्वचित्
प्राचीनकलियुगे वसुनाम्ना वैष्णवेन राज्ञा प्राग्जन्मनि मृग
भ्रान्त्या निहतो ब्राह्मणो ब्रह्मराक्षसतां प्राप्तस्तस्य राज्ञः
प्रापञ्चिकविष्णुलोकगमनसमये तच्छरीरं प्रविष्टः । पुनश्च
तस्य तद्भोगान्ते राजतां प्राप्तस्य देहात्तत्कर्तृकब्रह्म
पाराख्यस्तवपाठतेजसा निर्गतस्तत्कृतधर्मव्याधसंज्ञो
हिंसातिशयविमुखः पर्यवसाने दृष्टनीलाद्रिनाथस्तं च स्तुतवान् ।
प्राप्ततद्आलिङ्गनस्तत्सायुज्यमवापेति ।

कुब्जाया भगवत्सङ्गः पूर्वजन्मनि च नारदसङ्ग इति माथुरहरि
वंशप्रसिद्धम् । गोप्योऽत्र साधारण्यः श्रीकृष्णव्रजे तदानीं
विवाहादिना समागताः । आसां तन्नित्यप्रेयसीवृन्दसङ्गः श्रीकृष्ण
दर्शनादिरूपो भगवत्सङ्गश्च । यज्ञपत्नीनां श्रीकृष्णगुण
कथकलोकसङ्गस्तत्सङ्गश्च । अपरे दैतेयादयोऽनेय्च ।

[२४०]

तेषां सत्सङ्गव्यतिरिक्तसाधनाभावमाह


ते नाधीतश्रुतिगणा नोपासितमहत्तमाः ।
अव्रतातप्ततपसो मत्सङ्गान्मामुपागताः ॥ [भागवतम् ११.१२.७] (पगे १२५)

नाधीताः श्रुतिगणाः यैः । तद्अर्थं च नोपासिता महत्तमा यैः । किं च
अकृतव्रता अकृततपस्काश्च । पूर्ववदध्ययनादिकं भगवत्प्रीणनम्
एव ग्राह्यम् । अत्रैकेषां वृत्रादीनां प्राग्जन्मादौ साधनानन्तरं यत्
तदपि सत्सङ्गानुषङ्गसिद्धमित्यभिप्रेत्य सत्सङ्गस्यैव तत्तत्
फलमुक्तम् । धर्मव्याधादीनां तु केवलस्यैव तस्येति ज्ञेयम् ।

सत्सङ्गशब्देनात्र मम सङ्गो मदीयादीनां च सङ्ग इत्यभिधाप्यते ।
उभयतापि मत्सम्बन्धित्वादित्यभिप्रायेण । तत्र स्वस्यापि सत्त्वात्सत्
सङ्गोऽप्यन्त्रभावितः । यत्तु पुरा भागवतसङ्गेनैव भगवत्कृपा
भवतीत्युक्तं तत्तु तत्साम्मुख्यजन्मन्येव । अत्र तु स एव भागवत
सङ्गः साधनविशेषत्वेनोच्यत इति न दोषः । यदि वात्र कुत्रचित्
साम्मुख्यजन्मकारणमपि भगवत्सङ्गो भवेत्तदाप्येवम्
आचक्ष्महे । सच्छब्दार्थमवतारसङ्गीकृत्य यत्कदाचित्सर्वत्र कृपां
वितनोति भगवान् तच्च सत्सम्बन्धेनैवेत्यतो नाभ्युपगमहानिरिति ।

[२४१]

अथ मुख्यं वशीकरणमसम्भावितसाधनान्तरेण सत्सङ्गमात्रेण
श्रीगोप्य्आदीनां दर्शयति

केवलेन हि भावेन गोप्यो गावो नगा मृगाः ।
येऽन्ये मूठधियो नागाः सिद्धा मामीयुरञ्जसा ॥ [भागवतम् ११.१२.८]

भावेन प्रकरणप्राप्तमत्सङ्गमात्रजन्मना प्रीत्या । भावोऽत्र
वशीकारमुख्यत्वे चिह्नम् । वशे कुर्वन्ति मां भक्त्या सत्स्त्रियः सत्पतिं
यथा [भागवतम् ९.४.४८] इत्यादेः । भक्त्याहमेकया ग्राह्यः [भागवतम् ११.१४.२०] इत्य्
आदेश्च । गावोऽपि गोपीवदागन्तुक्य एव ज्ञेयाः । नगा यमलार्जुनादयः ।
मृगा अपि पूर्ववत् । नागाः कालियादयः । यमलार्जुनकालिययोः प्राप्तिस्
तदानीन्तनतत्क्षणिकभगवत्प्राप्त्य्आवश्यम्भाविनित्यप्राप्तिम्
अपेक्ष्योक्ता । सिद्धाः पूर्ववद्द्विविधात्सत्सङ्गात् । स तु तेषां भावो
योगादिभिरप्राप्य एवेति । यथावरुन्धे [भागवतम् ११.१२.२] इत्यत्र यथा
शब्दार्थस्य पराकाष्ठा ।

[२४२]

तामेव व्यनक्ति

यं न योगेन साङ्ख्येन दानव्रततपोऽध्वरैः ।
व्याख्यास्वाध्यायसन्न्यासैः प्राप्नुयाद्यत्नवानपि ॥ [भागवतम् ११.१२.९]

यं भावम् । अत्रापि योगादयो भगवत्परा एव । योगादिभिर्यत्नवानपीत्य्
अनेन तत्प्राप्त्य्अर्थं प्रयुज्यमानत्वावगमात् । एष्वपि श्रीगोपीनां
परमकाष्ठाप्राप्तिं दर्शयितुम् अस्यैतत्परमं गुह्यं शृण्वतो
यदुनन्दन इत्येतत्पूर्वोक्तपरमगुह्यत्वस्य [भागवतम् ११.११.४८] परम
काष्ठां दर्शयितुं रामेण सार्धं [भागवतम् ११.१२.९]इत्य्आदिप्रकरणम्
अनुसन्धेयम् ।

॥ ११.१२ ॥ श्रीभगवान् ॥ २३८२४२ ॥

[२४३]

एष च सत्सङ्गो ज्ञानं विनापि कृतोऽर्थद एव स्यादित्याह

सङ्गो यः संसृतेर्हेतुरसत्सु विहितोऽधिया ।
स एव साधुषु कृतो निःसङ्गत्वाय कल्पते ॥ [भागवतम् ३.२३.५५]

अधिया अज्ञानेन । यत्तु पूर्वं श्रीनारदादौ मुन्यन्तरसाधारण
दृष्टिर्निन्दिता तदिहास्निग्धे ज्ञानलवदुर्विदग्धे च ज्ञेयम् ।

॥ ३.२३ ॥ श्रीदेवहूतिः ॥ २४३ ॥

[२४४]

तदेवं महाभागवतप्रसङ्गफलमुक्तम् । तत्परिचर्याफलमाह


यत्सेवया भगवतः कूटस्थस्य मधुद्विषः ।
रतिरासो भवेत्तीव्रः पादयोर्व्यसनार्दनः ॥ [भागवतम् ३.७.१९] (पगे १२६)

येषां युष्माकं महाभागवतानां सेवया परिचर्यया कूटस्थस्य
नित्यस्य भगवतः पादयो रतिरासः प्रेमोत्सवो भवेत् । तीव्र इति विशेषणं
प्रसङ्गमात्रात्परिचर्यायां विशिष्टं फलं द्योतयति । आनुषङ्गिकं
फलमाह व्यसनार्दन इति । व्यसनं संसारः । यत एवोक्तं मद्भक्त
पूजाभ्यधिका [भागवतम् ११.१९.१९] इति । मम पूजातोऽप्यभि सर्वतोभावेनाधिका
अधिकमत्प्रीत्यकरीत्यर्थः ।

एवं पाद्मोत्तरखण्डे
आराधनानां सर्वेषां विष्णोराराधनं परम् ।
तस्मात्परतरं देवि तदीयानां समर्चनम् ॥ [ড়द्मড়् ६.२५३.१७६] इति ।

॥ ३.७ ॥ विदुरः श्रीमैत्रेयम् ॥ २४४ ॥

[२४५]

व्यतिरेकेणाह
यस्यात्मबुद्धिः कुणपे त्रिधातुके
स्वधीः कलत्रादिषु भौम इज्यधीः ।
यत्तीर्थबुद्धिः सलिले न कर्हिचिज्
जनेष्वभिज्ञेषु स एव गोखरः ॥ [भागवतम् १०.८४.१३]

जडत्वात्कुणपे स्वयं मृततुल्ये शरीरे । चिद्योगेऽपि त्रिभिर्वातपित्तादिभिर्
दूषित इत्यर्थः । भौमे देवताप्रतिमादौ । यत्यस्य । अभिज्ञेषु
तत्त्ववित्सु ता बुद्धयो न सन्ति । तत्रात्मबुद्धिः परमप्रीत्यास्पदत्वम् ।
स एव गोखरो गोनिकृष्ट उच्यते । यद्वा सिन्धुसौवीरप्रसिद्धो वन्य
गर्दभजातिविशेषो म्लेच्चजातिविशेषो वा स न त्वन्यः प्रसिद्धः ।
विवेकित्वाभिमानितायां सत्यामप्यविवेकित्वात्ततोऽपि निकृष्टत्वं तस्येति ।
भौम इज्यधीरिति साधारणदेवताविषयकमेव पूर्वं
तथैवोपक्रान्तत्वात् । अर्चायामेव हरये [भागवतम् ११.२.४५] इत्यादिविरोधाच्च ।
तदेवं यथा तरोर्मूलनिषेचनेन [भागवतम् ४.३१.१२] इत्यादिवाक्यमत्र
नावतार्यितवम् ॥

॥ १०.८४ ॥ भगवान्मुनिवृन्दम् ॥ २४५ ॥

[२४६]

अथ महाभागवतसेवासिद्धलक्षणम्

ते न स्मरन्त्यतितरां प्रियमीश मर्त्यं
ये चान्वदः सुतसुहृद्गृहवित्तदाराः ।
ये त्वब्जनाभ भवदीयपदारविन्द
सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गाः ॥ [भागवतम् ४.९.१२]

परमप्रियमपि मर्त्यं वपुः । ये चादो वपुरनुलक्षीकृत्य सुतादयो
वर्तन्ते तानपि न स्मरन्ति । के त इत्यपेक्षायामाह ये त्विति ।

॥ ४.९ ॥ ध्रुवः श्रीध्रुवप्रियम् ॥ २४६ ॥

[२४७]

वैष्णवमात्राणां च यथायोग्यमाराधनं यथा इतिहाससमुच्चये

तस्माद्विष्णुप्रसादाय वैष्णवान् परितोषयेत् ।
प्रसादसुमुखो विष्णुस्तेनैव स्यान्न संशयः ॥ इति ।

तत्र
सर्वत्रास्खलितादेशः सप्तद्वीपैकदण्डधृक् ।
अन्यत्र ब्राह्मणकुलादन्यत्राच्युतगोत्रतः ॥ [भागवतम् ४.२१.१२]

इति श्रीपृथुचरितानुसारेण यत्किञ्चिज्जातावप्युत्तमत्वमेव मन्तव्यम् ।

यस्य यल्लक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम् ।
यदन्यत्रापि दृश्येत तत्तेनैव विनिर्दिशेत् ॥ [भागवतम् ७.११.३५]

(पगे १२७) इति नारदोक्तिदृष्टान्तेन वा । यथोक्तं पाद्ममाघमाहात्म्ये


श्वपाकमिव नेक्षेत लोके विप्रमवैष्णवम् ।
वैष्णवो वर्णबाह्योऽपि पुनाति भुवनत्रयम् ॥
न शूद्रा भगवद्भक्तास्ते तु भागवता नराः ।
सर्ववर्णेषु ते शूद्रा ये न भक्ता जनार्दने ॥

इतिहाससमुच्चये
स्मृतः सम्भाषितो वापि पूजितो वा द्विजोत्तम ।
पुनाति भगवद्भक्तश्चाण्डालोऽपि यदृच्छया ॥

अन्यथा दोषश्रवणं च तत्रैव
शूद्रं वा भगवद्भक्तं निषादं श्वपचं तथा ।
वीक्षते जातिसामान्यात्स याति नरकं ध्रुवम् ॥ इति ।

भक्तिवैशिष्ट्येन तु वैशिष्ट्यमपि दृश्यते । यथा गारुडे
मद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् ।
मत्कथाश्रवणे प्रीतिः स्वरनेत्रादिविक्रिया ॥
विष्णोश्च कारणं नृत्यं तद्अर्थे दम्भवर्जनम् ।
स्वयमभ्यर्चनं चैव यो विष्णुं नोपजीवति ॥
भक्तिरष्टविधा ह्येषा यस्मिन्म्लेच्छेऽपि वर्तते ।
स विप्रेन्द्रो मुनिश्रेष्ठः स ज्ञानी स च पण्डितः ।
तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा हरिः ॥ इति ।

अत एवाह भगवान्
न मे भक्तश्चतुर्वेदी मद्भक्तः श्वपचः प्रियः ।
तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् ॥ इति ।

अतएव भक्तिमहिम्ना सता दुर्वाससापि श्रीमद्अम्बरीषस्य तत्रैव
वन्दनाच्च पादग्रहणमप्याचरितम् । किन्तु अम्बरीषस्यानभीष्टम्
एव तदिति तत्रैव व्यक्तत्वात्श्रीभगवता श्रीमद्उद्धवादिभिश्च
ब्राह्मणमात्रस्य वन्दनाच्च इतरवैष्णवैस्तु तत्सर्वथा न
मन्तव्यम् ।

विप्रं कृतागसमपि नैव द्रुह्यत मामकाः ।
घ्नन्तं बहु शपन्तं वा नमस्कुरुत नित्यशः ॥ [भागवतम् १०.६४.४१]

इति भगवद्आदेशभङ्गप्रसङ्गाच्च । श्वपाकमिव नेक्षेत इत्यादिकं
तु तद्दर्शनासक्तिनिषेधपरत्वेन समाधेयम् । दृश्यते युधिष्ठिर
द्रौपद्य्आदीनामश्वत्थाम्नि तथा व्यवहारः । वैष्णवपूजकैस्तु
वैष्णवानामाचारोऽपि न विचारणीयः । अपि चेत्सुदुराचारः [गीता ९.३०] इत्य्
आदेः । यथोक्तं गारुडे

विष्णुभक्तिसमायुक्तो मिथ्याचारोऽप्यनाश्रमी ।
पुनाति सकलान् लोकान् सहस्रांशुरिवोदितः ॥ इति ।

तदेतदुदाहृतमेव अहो बत श्वपचोऽतो गरीयान् यज्जिह्वाग्रे वर्तते
नाम तुभ्यम् [भागवतम् ३.३३.७] इत्यादौ । अत्र श्वपचशब्दो यौगिकार्थ
पुरस्कारेणैव वर्तते । ततो दुर्जातित्वेन दुराचारत्वेनापि नावमन्तव्यस्
तद्भक्तजनः । स्ववमन्तृत्वे तु सुतराम् । अतएवोक्तं गारुडे

रुक्षाक्षरं तु शृण्वन् वै तथा भागवतेरितम् ।
प्रणामपर्वं तं क्षान्त्या यो वदेद्वैष्णवो हिस्सः ॥ इति । (पगे १२८)
तदेवं महद्आदिसेवा दर्शिता । अस्याश्च श्रवणादितः पूर्वत्वं महत्
सेवां द्वारमाहुर्विमुक्तेस्तमोद्वारं योषितां सङ्गिसङ्गम् [भागवतम् ५.५.२]
इत्युक्तेः तेभ्यो महद्भ्यस्त्वन्यदपि किमपि परममङ्गलायनं
जायते । यथा

तेषु नित्यं महाभाग महाभागेषु मत्कथाः ।
सम्भवन्ति हि ता न्.णां जुषतां प्रपुनन्त्यघम् ॥
ता ये शृण्वन्ति गायन्ति ह्यनुमोदन्ति चादृताः ।
मत्पराः श्रद्दधानाश्च भक्तिं विन्दन्ति ते मयि ॥
भक्तिं लब्धवतः साधोः किमन्यदवशिष्यते ।
मय्यनन्तगुणे ब्रह्मण्यानन्दानुभवात्मनि ॥
यथोपश्रयमाणस्य भगवन्तं विभावसुम् ।
शीतं भयं तमोऽप्येति साधून् संसेवतस्तथा ॥ [भागवतम् ११.२६.२८३१]

तेषु सन्तोऽनपेक्षा मच्चित्ताः [भागवतम् ११.२६.२७] इत्य्आद्य्उक्तलक्षणेषु । भक्तिं
प्रेम । अतएवोक्तं श्रीरुद्रेण

क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम् ।
भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ [भागवतम् ४.२४.५७] इति ।

श्रीशौनकेनापि तुलयाम लवेनापि न स्वर्गमित्यादि पूर्ववत् ।
ततानुषङ्गिकं फलं सदृष्टान्तमाह यथेति । विभावसुमग्निम् ।
उपास्यबुद्ध्या श्रयमानस्य होमाद्य्अर्थं ज्वालयत इत्यर्थः । तस्य
तथा शीतादिकमपैति । भयं दुष्टजीवादिकृतम् । तथा साधून्
सेवमानस्य कर्मादिजाड्यम् । आगामि संसारभयं तन्मूलमज्ञानं
च नश्यतीत्यर्थः ।

॥ ११.२६ ॥ श्रीभगवान् ॥ २४७ ॥

[२४८]

अथ क्रमप्राप्तं श्रवणम् । तच्च नामरूपगुणलीलामयशब्दानां
श्रोत्रस्पर्शः । तत्र नामश्रवणं यथा

न हि भगवन्नघटितमिदं
त्वद्दर्शनान्नृणामखिलपापक्षयः ।
यन्नाम सकृच्छ्रवणात्
पुक्कशोऽपि विमुच्यते संसारात् ॥ [भागवतम् ६.१६.४४]

तादृशस्यापि सकृच्छ्रवणेऽपि मुक्तिफलप्राप्तेरुत्तमस्य तच्छ्रवणे तु
परमभक्तिरेव फलमित्यभिप्रेतम् ।

॥ ६.१६ ॥ चित्रकेतुः श्रीसङ्कर्षणम् ॥ २४८ ॥

[२४९]

अथ रूपश्रवणम्

ये तु त्वदीयचरणाम्बुजकोशगन्धं
जिघ्रन्ति कर्णविवरैः श्रुतिवातनीतम् ।
भक्त्या गृहीतचरणः परया च तेषां
नापैषि नाथ हृदयाम्बुरुहात्स्वपुंसाम् ॥ [भागवतम् ३.९.५]

तुशब्दो यो नादृतो नरकभाग्भिरसत्प्रसङ्गैः [भागवतम् ३.९.४] इति पूर्वोक्त
निन्दितानां भगवद्रूपानादरवतां प्रतियोग्य्अर्थनिर्देशे निर्दिष्टः ।
अनेन येऽत्र एतद्विरोधिनो भवन्ति त एव (पगे १२९) पूर्वोक्ता असत्प्रसङ्गा
इति गम्यते । चरणमात्रनिर्देशो भक्त्य्अतिशयेन । गन्धं वर्णाकारादि
माधुर्यं कर्णविवरैर्जिघ्रन्ति नासाविवरैः परमामोदमिव तैर्
आस्वादयन्तीत्यर्थः । श्रुतिर्वेदस्तद्अनुगामिशब्दान्तरं च सैव वातस्
तेन प्रापितम् । ततः परया च भक्त्या प्रेमलक्षणया गृहीतचरणस्त्वं
नापयातुं शक्नोषि ।

॥ ३.९ ॥ ब्रह्मा श्रीगर्भोदशायिनम् ॥ २४९ ॥

[२५०]

अथ गुणश्रवणम्

कथा इमास्ते कथिता महीयसां
विताय लोकेषु यशः परेयुषाम् ।
विज्ञानवैराग्यविवक्षया विभो
वचोविभूतीर्न तु पारमार्थ्यम् ॥

यत्तूत्तमःश्लोकगुणानुवादः
सङ्गीयतेऽभीक्ष्णममङ्गलघ्नः ।
तमेव नित्यं शृणुयादभीक्ष्णं
कृष्णेऽमलां भक्तिमभीप्समानः ॥ [भागवतम् १२.३.१४१५]

टीका च राजवंशानुकीर्तनस्य तात्पर्यमाह कथा इमा इति । विज्ञानं
विषयासारताज्ञानम् । ततो वैराग्यम् । तयोर्विवक्षया । परेयुषां मृतानां
वचोविभूतीर्वाग्विलासमात्ररूप्¸अः । पारमार्थ्यं परमार्थयुक्तं
कथनं न भवतीत्यर्थ । कस्तर्हि पुरुषाणामुपादेयः परमार्थस्
तमाह यस्त्विति । नित्यं प्रत्यहम् । तत्र्¨¨अप्यभीक्ष्णमित्येषा ।

अत्र यत क्वचिच्छ्रीरामलक्ष्मणादयोऽपि तेषां राज्ञां मध्ये
वैराग्यार्थअ छत्रिन्यायेन पठ्यन्ते तन्निरस्यते । अतो यद्यपि निगम
कल्पतरोरित्याद्य्अनुसारेण सर्वस्यैव प्रसङ्गस्य रसरूपत्वं तथापि
क्वचित्साक्षाद्भक्तिमयशान्तादिरसरूपत्वं क्वचित्तद्उपकरण
शान्तादिरसरूपत्वं च समर्थनीयम् । अस्ति हि तत्र तत्र भक्तिरसेष्वपि
तारतम्यमिति । गुणाः कारुण्यादयः । तद्गुणकीर्तिः स्वभाव एवासाविति
श्रीगीतास्वपि दृष्टम् स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्य्
अनुरज्यते च [गीता ११.३६] इत्यादौ ।

अत्र महाभागवतानामपि भगवत इव गुणश्रवणं मतम्
तत्कथ्यतां महाभाग यदि कृष्णकथाश्रयम् ।
अथवास्य पदाम्भोज मकरन्दलिहां सताम् ॥ [भागवतम् १.१६.६]

इति शौनकोक्तेः । यद्यप्यत्र गुणशब्देन रूपलीलयोरपि सौष्ठवं
गृह्यते तथापि तत्प्राधान्यनिर्देशात्पृथग्ग्रहणम् । एवमुत्तरत्रापि
ज्ञेयम् । भक्तिं प्रेमाणम् । अमलां कैवल्यादीच्छारहिताम् ।

॥ १२.३ ॥ श्रीशुकः ॥ २५० ॥

[२५१]

किं च

यत्रोत्तमश्लोकगुणानुवादः
प्रस्तूयते ग्राम्यकथाविघातः ।
निषेव्यमाणोऽनुदिनं मुमुक्षोर्
मतिं सतीं यच्छति वासुदेवे ॥ [भागवतम् ५.१२.१३]

मुमुक्षोरपि किं पुनर्भक्तिमात्रेच्छोः । सतीं मुमुक्षाद्य्अन्य
कामनारहिताम् । तदन्या तु व्यभिचारिणीति भावः ।

॥ ३.९ ॥ श्रीब्राह्मणो रहूगणम् ॥ २५१ ॥ (पगे १३०)

[२५२]

व्यतिरेकेण च

निवृत्ततर्षैरुपगीयमानाद्
भवौषधाच्छ्रोत्रमनोऽभिरामात् ।
क उत्तमश्लोकगुणानुवादात्
पुमान् विरज्येत विना पशुघ्नात् ॥ [भागवतम् १०.१.४]

निवृत्त्य्आदिविशेषणत्रयेण मुक्तमुमुक्षुविषयिजनानां ग्रहणम् ।
पशुघ्नो व्याधः । तस्य हि

राजपुत्र चिरं जीव
मा जीव मुनिपुत्रक ।
जीव वा मर वा साधो
व्याधो मा जीव मा मर ॥ इति न्यायेन विषयसुखेऽपि तात्पर्यं नास्ति ।

न च तद्अभिज्ञत्वमस्ति विशेषतस्तु कथारसज्ञाने । परममूढत्वात्
सामर्थ्यं नास्त्येव । यद्वा दैत्यस्वभावस्य यस्य निन्दामात्र
तात्पर्यं स एव हिंसकत्वेन पश्यघ्नशब्देनोच्यते । पशुघ्नो व्याधः ।
सोऽपि मृगादीनां सौन्दर्यादिकगुणमगणयन्नेव हिंसामात्रतत्पर
इति । ततो रसग्रहणाभावाद्युक्तमुक्तं विना पशुघ्नादिति । उभयथापि
तद्बहिर्मुखेभ्यो गालिप्रदान एव तात्पर्यम् । यथा तृतीये श्री
मैत्रेयस्य

को नाम लोके पुरुषार्थसारवित्
पुराकथानां भगवत्कथासुधाम् ।
आपीय कर्णाञ्जलिभिर्भवापहाम्
अहो विरज्येत विना नरेतरम् ॥ [भागवतम् ३.१३.५१] इति ।

॥ १०.१ ॥ श्रीराजा श्रीशुकम् ॥ २५२ ॥

[२५३]
अथ लीलाश्रवणम्

ज्ञानं यदाप्रतिनिवृत्तगुणोर्मिचक्रम्
आत्मप्रसाद उत यत्र गुणेष्वसङ्गः ।
कैवल्यसम्मतपथस्त्वथ भक्तियोगः
को निर्वृतो हरिकथासु रतिं न कुर्यात् ॥ [भागवतम् २.३.१२]

यत्यासु कथासु ज्ञानं भवति । कीदृशं ? आ सर्वतः प्रतिनिवृत्तमुपरतं
गुणोर्मीआं रागादीनां चक्रं समूहो यस्मात् । यतो यत्र यासु कथासु तद्
धेतुरात्मप्रसादश्च तत्प्रसादहेतुर्विषयानासक्तिश्च । किं बहुना ?
तत्फलं यत्कैवल्यं तदपि । ब्रह्मभूतः प्रसन्नात्मा इत्याद्य्
उक्तानुसारेण । सम्मतः पन्थाः प्राप्तिद्वारं यत्र स प्रेमाख्यो भक्ति
योगोऽपि । यास श्रुतमात्रासु तत्तद्अनपेक्ष्यैव भवति तासु हरिकथासु
तच्चरितेषु कं श्रवणसुखेन निर्वृतः सनन्यत्रानिर्वृतो वा रतिं रागं
न कुर्यात् ।

॥ २.३ ॥ श्रीशुकः ॥ २५३ ॥

[२५४]

किं बहुना, एतद्अर्थमेवास्य महापुराणाविर्भाव इति भवतानुदित
प्रायं यशो भगवतोऽमलम् [भागवतम् १.५.८] इत्यादौ समाधिनानुस्मर तद्
विचेष्टितम् [भागवतम् १.५.१६] इत्यादौ च वर्णितम् ।

सा च लीला द्विविधा सृष्ट्य्आदिरूपा लीलावतारविनोदरूपा च । तयोरुत्तरा
तु प्रशस्ततरेत्याशयेनाह

प्राधान्यतो यानृष आमनन्ति
लीलावतारान् पुरुषस्य भूम्नः ।
आपीयतां कर्णकषायशोषान्
अनुक्रमिष्ये त इमान् सुपेशान् ॥ [भागवतम् २.६.४६]

यद्यपि पूर्वमाद्योऽवतारः पुरुषः परस्य [भागवतम् २.६.४०] इत्यादिग्रन्थेन
पुरुषं कालादि (पगे १३१) तच्छक्तिं मन आदितत्कार्यं ब्रह्मादितद्
गुणावतारान् दक्षादितत्तद्विभूतींश्चोक्तवानस्मि, तेन च सृष्ट्य्आदि
लीलाः, तथापि यान् हे ऋषे पुरुषस्य भूम्नो लीलावतारान् प्राधान्येन
आमनन्ति तानेव इमान्मम हृदयाधिरूढान् कर्णकषायशोषान् तद्
इतरश्रवणरागहन्तॄन् किं च सुपेशाम् । परममनोहरान्
अनुक्रमिष्ये । तद्अनुक्रमेण आ सम्यक्पीयताम् ।

॥ २.६ ॥ श्रीब्रह्मा नारदेन ॥ २५४॥
[२५५]

एवं दुरवगमात्मतत्त्वनिगमाय [भागवतम् १०.८७.१७] इत्यादौ वेदस्तुतावपि
तच्छ्लाघा द्रष्टव्या । अतएव प्रथमे भावयत्येषः [भागवतम् १.२.३३] इत्य्
आदौ, लीलावतारानुरत [भागवतम् १.२.३३] इति तद्विशेषणं दत्तम् । तथा च श्री
भगवद्गीतासु

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ [गीता ४.९] इति ।

एषा खलु मर्त्यशरीरमपि पार्षदभावेन जितमृत्यकं विदधाति । यद्
आह

साधु वीर त्वया पृष्टमवतारकथां हरेः ।
यत्त्वं पृच्छसि मर्त्यानां मृत्युपाशविशातनीम् ॥
ययोत्तानपदः पुत्रो मुनिना गीतयार्भकः ।
मृत्योः कृत्वैव मूर्ध्न्यङ्घ्रिमारुरोह हरेः पदम् ॥ [भागवतम् ३.१४.५६]

मुनिना श्रीनारदेन । अतस्तेन भगवद्अवतारकथापि तं प्रति
श्रावितास्तीति गम्यते । तेन शरीरेणैव मृत्युजयः पार्षदत्वं चोक्तम्

परीत्याभ्यर्च्य धिष्ण्याग्र्यं पार्षदावभिवन्द्य च ।
इयेष तदधिष्ठातुं बिभ्रद्रूपं हिरण्मयम् ॥ [भागवतम् ४.१२.२९] इति ।

॥ ३.१४ ॥ श्रीमैत्रेयः ॥ २५५ ॥

[२५६]

तदेवं नामादिश्रवणमुक्तमत्र तत्परिकरश्रवणमपि ज्ञेयम्

श्रुतस्य पुंसां सुचिरश्रमस्य
नन्वञ्जसा सूरिभिरीडितोऽर्थः ।
तत्तद्गुणानुश्रवणं मुकुन्द
पादारविन्दं हृदयेषु येषाम् ॥ [भागवतम् ३.१३.४] इत्यादौ ।

तत्र यद्यप्येकतरेणापि व्युत्क्रमेणापि सिद्धिर्भवत्येव तथापि
प्रथमं नाम्नः श्रवणमन्तःकरणशुद्ध्य्अर्थमपेक्ष्यम् ।
शुद्धे चान्तःकरणे रूपश्रवणेन तद्उदययोग्यता भवति । सम्यग्
उदिते च रूपे गुणानां स्फुरणं सम्पद्यते । ततस्तेषु नामरूपगुणेषु
तत्परिकरेषु च सम्यक्स्फुरितेष्वेव लीलानां स्फुरणं सुष्ठु भवतीत्य्
अभिप्रेत्य साधनक्रमो लिखितः । एवं कीर्तनस्मरणयोर्ज्ञेयम् ।

इदं च श्रवणं श्रीमन्महन्मुखरितं चेन्महामाहात्म्यं जात
रुचीनां परमसुखदं च । तच्च द्विविधं महद्आविर्भावितं महत्
कीर्त्यमानं चेति । तत्र श्रीभागवतमुपलक्ष्य पूर्वं यथा

इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् ।
उत्तमश्लोकचरितं चकार भगवानृषिः ॥ [भागवतम् १.३.४०]

अत्र तन्माहात्म्यसूचनार्थमेव तत्कर्तृकत्ववचनम् ।

॥ १.३ ॥ श्रीसूतः ॥ २५६ ॥

[२५७]

यथा वा निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रव
संयुतम् [भागवतम् १.१.३] (पगे १३२) इत्यादौ । अत्र श्रीशुकमुखादमृत
द्रवसंयुतत्वेन परमसुखदत्वमुक्तम् । एतद्उपलक्षणत्वेन श्री
लीलाशुकाद्यार्भावितकर्णामृतादिग्रन्था अपि क्रोडीकर्तव्याः ।

अथ महत्कीर्त्यमानं यथा

स उत्तमश्लोक महन्मुखच्युतो
भवत्पदाम्भोजसुधा कणानिलः ।
स्मृतिं पुनर्विस्मृततत्त्ववर्त्मनां
कुयोगिनां नो वितरत्यलं वरैः ॥ [भागवतम् ४.२०.२५]

न कामये नाथ तदपि [भागवतम् ४.२०.२१] इत्यादि पूर्वोक्तानुसारात्स्व
सुखातिशयेन कैवल्यसुखतिरस्कारी महतां मुखाद्विगलितो भवत्
पादाम्भोजमाधुर्यलेशस्यापि सम्बन्धी शब्दात्मकोऽनिलो । विस्मृत
परमतत्त्वात्मकत्वदीयज्ञानानामस्माकं त्वदीयां स्मृतिमपि यच्
चेति । त्स्मात्तथाविधस्य तस्य परमसाध्यसाधनात्मकत्वादलम्
अन्यैर्वरैरित्यर्थः ।

॥ ४.२० ॥ पृथुः श्रीविष्णुम् ॥ २५७ ॥

[२५८२५९ ]

तदेव महामाहात्म्यं महासुखप्रदत्वं चोक्तम् । तदेतदुभयम्
अप्यत्राह द्वाभ्याम्

तस्मिन्महन्मुखरिता मधुभिच्
चरित्रपीयूषशेषसरितः परितः स्रवन्ति ।
ता ये पिबन्त्यवितृषो नृप गाढकर्णैस्
तान्न स्पृशन्त्यशनतृड्भयशोकमोहाः ॥ [भागवतम् ४.२९.४०]

अस्मिन् साधुसङ्गे । महद्भिर्मुखरिताः कीर्तिताः । शेषः सारः ।
अवितृषोऽलंबुद्धिशून्याः । गाढत्वं सावधानत्वम् । अशनं क्षुत् ।

एतैरुपद्रुतो नित्यं जीवलोकः स्वभावजैः ।
न करोति हरेर्नूनं कथामृतनिधौ रतिम् ॥ [भागवतम् ४.२९.४१]

यैरेतैरशनादिभिरुपद्रुतैः सन् कथामृतनिधौ रतिं न करोति तान्
एतान्महत्कीर्त्यमानानि भगवद्यशांसि स्वमाहात्म्येन दूरीकृत्य स्व
सुखमनुभावयन्तीति पद्यद्वययोजनार्थः ॥
॥ ३.२९ ॥ श्रीनारदः प्राचीनबर्हिषम् ॥ २५८२५९ ॥

[२६०]

तत्रापि श्रवणे श्रीभागवतश्रवणं तु परमश्रेष्ठम् । तस्य तादृश
प्रभावमयशब्दात्मकत्वात्परमरसमयत्वाच्च । तत्र पूर्वस्माद्
यथा

श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः
सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् ॥ [भागवतम् १.१.२] इति ।

महामुनिः सर्वमहन्महनीयचरणपङ्कजः श्रीभगवान् । अत्र किं
वा परैरित्यादिना शब्दस्वाभाविकमाहात्म्यं दर्शितम् ।

॥ १.१ ॥ श्रीव्यासः ॥ २६० ॥

[२६१]

उत्तरस्माद्यथा

सर्ववेदान्तसारं हि श्रीभागवतमिष्यते ।
तद्रसामृततृप्तस्य नान्यत्र स्याद्रतिः क्वचित् ॥ [भागवतम् १२.१३.१२]

तद्रस एवामृतं तेन तृप्तस्य ।

॥ १२.१३ ॥ श्रीसूतः ॥ २६१ ॥

[२६२]

अत्रैव विवेचनीयम् श्रीभगवन्नामादेः श्रवणं तावत्परमं
श्रेयः । तत्रापि महद्आविर्भावित्प्रबन्धादेः । तत्र महत्कीर्त्यमानस्य
ततोऽपि श्रीभागवतस्य । तत्रापि च महत्कीर्त्यमानस्येति । अत्र
मूर्त्याभिमतयात्मनः इतिवत्निजाभीस्टनामादिश्रवणं तु मुहुर्
आवर्तयितव्यम् । (पगे १३३) तत्रापि सवासनमहानुभवमुखात्सर्वस्य
श्रीकृष्णनामादिश्रवणं तु परमभाग्यादेव सम्पद्यते तस्य पूर्ण
भगवत्त्वादिति । एवं कीर्तनादिष्वप्यनुसन्धेयम् । तत्र यत्स्वयं
सम्प्रति कीर्त्यते तदपि श्रीशुकदेवादि महत्कीर्तितचरत्वेनानुसन्धाय
कीर्तनीयमिति ।

तदेव श्रवणं दर्शितम् । अस्य च कीर्तनादितः पूर्वत्वं तद्विना तत्तद्
अज्ञानात् । विशेषतश्च यदि साक्षादेव महत्कृतस्य श्रवणभाग्यं न
सम्पद्यते तदैवं स्वयं पृथक्कीर्तनीयमिति तत्प्राधान्यात् । अतएवोक्तं
तद्वाग्विसर्गो जनताघविप्लवः [भागवतम् १.५.११, १२.१२.५२] इत्यादौ ।
टीकाकृद्भिः यद्यानि नामानि वक्तरि सति शृण्वन्ति श्रोतरि सति गृणन्ति
अन्यदा तु स्वयमेव गायन्ति इति ।

अथातः कीर्तनम् । तत्र पूर्ववन्नामादिक्रमो ज्ञेयः । नाम्नो यथा

सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् ।
नामव्याहरणं विष्णोर्यतस्तद्विषया मतिः ॥ [भागवतम् ६.२.१०]

टीका च सुनिष्कृतं श्रेष्ठं प्रायश्चित्तमिदमेव । तत्र हेतुः यतो
नामव्याहरणात्तद्विषया नामोच्चारकपुरुषविषया मदीयोऽयं मया
सर्वतो रक्षणीय इति विष्णोर्मतिर्भवति इत्येषा ।

अतः स्वाभाविकतदीयावेशहेतुत्वेन तदीयस्वरूपभूतत्वात्परम
भागवतानां तद्एकदेशश्रवणमपि प्रीतिकरम् । यथा पाद्मोत्तर
खण्डे श्रीरामाष्टोत्तरशतनामस्तोत्रे श्रीशिववाक्यम्

रकारादीनि नामानि शृण्वतो देवि जायते ।
प्रीतिर्मे मनसो नित्यं रामनामविशङ्कया ॥ [ড়द्मড়् ६.२५४.२१*] इति ।

तदेवं सति पापक्षयमात्रफलं कियदिति भावः ।

॥ ६.२ ॥ श्रीविष्णुदूता यमदूतान् ॥ २६२ ॥

[२६३]

फलं त्विदमेव, यदाह

एवंव्रतः स्वप्रियनामकीर्त्या
जातानुरागो द्रुतचित्त उच्चैः ।
हसत्यथो रोदिति रौति गायत्य्
उन्मादवन्नृत्यति लोकबाह्यः ॥ [भागवतम् ११.२.४०]

एवं शृण्वन् सुभद्राणि रथाङ्गपाणेः [भागवतम् ११.२.३८] इत्य्आद्य्उक्तप्रकारं
व्रतं वृत्तं यस्य तथाभूतोऽपि स्वप्रियाणि स्वाभीष्टानि यानि नामानि तेषां
कीर्तनेन जातानुरागस्तत एव चित्तद्रवाद्द्रुतचित्तः । तत्रोचितभाव
वैचित्रीभिर्हसतीत्यादि । अत्र तृतीयाश्रुत्या नामकीर्तनस्यैव
साधकत्वमत्वं लब्धम् । तदेवं व्रत इत्यत्रापि शब्दोऽप्यध्याहृतः ।
अतएव भक्तिः परेशानुभवो विरक्तिः [भागवतम् ११.२.४०] इत्याद्य्उत्तरपद्ये
टीकाचूर्णिका नन्वियमारूढयोगिनामपि बहुजन्मभिर्दुर्लभा
गतिः कथं नामकीर्तनमात्रेणैकास्मिन् जन्मनि भवेदित्याशङ्क्य स
दृष्टान्तमाह भक्तिरिति इत्येषा ।

इत्थमुत्थापितं च श्रीभगवन्नामकौमुद्यां सहस्रनामभाष्ये
च पुराणान्तरवचनम्

नक्तं दिवा च गतभीर्जितनिद्र एको
निर्विण्ण ईक्षितपथो मितभुक्प्रशान्तः ।
यद्यच्युते भगवति स मनो न सज्जेन्
नामानि तद्रतिकराणि पठेद्विलज्जः ॥ इति ।

अत्र गतभीत्यादयो गुणा नामैकतत्परतासम्पादनार्था न तु
कीर्तनाङ्गभूता । भक्ति (पगे १३४) मात्रस्य निरपेक्षत्वं तस्य तु
सुतरां तादृशत्वमिति । यथा विष्णुधर्मसर्वपातकातिपातक
महापातककारिद्वितीयक्षत्रबन्धूपाख्याने ब्राह्मण उवाच

यद्येतदखिलं कर्तुं न शक्नोषि ब्रवीमि ते ।
स्वल्पमनन्यन्मयोक्तं भो करिष्यति भवान् यदि ॥

क्षत्रबन्धुरुवाच
अशक्यमुक्तं भवता चञ्चलत्वाद्धि चेतसः ।
वाक्शरीरविनिष्पाद्यं यच्छक्यं तदुदीरय ॥

ब्राह्मण उवाच
उत्तिष्ठता प्रस्वपता प्रस्थितेन गमिष्यता ।
गोविन्देति सदा वाच्यं क्षुत्तृट्प्रस्खलितादिषु ॥ इति ।

॥ ११.३ ॥ श्रीकविर्विदेहम् ॥ २६३ ॥

[२६४]

अन्यत्र च

न निष्कृतैरुदितैर्ब्रह्मवादिभिस्
तथा विशुद्ध्यत्यघवान् व्रतादिभिः ।
यथा हरेर्नामपदैरुदाहृतैस्
तदुत्तमश्लोकगुणोपलम्भकम् ॥ [भागवतम् ६.२.११]

[२६५]

अतएव प्रथमस्कन्धान्तस्थितानां राज्ञः श्रेयोविविदिषावाक्यानाम्
अनन्तरं द्वितीयस्कन्धारम्भे सर्वोत्तममुत्तरं वक्तुम्

इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् ।
अधीतवान् द्वापरादौ पितुर्द्वैपायनादहम् ॥
परिनिष्ठितोऽपि नैर्गुण्य उत्तमश्लोकलीलया ।
गृहीतचेता राजर्षे आख्यानं यदधीतवान् ॥
तदहं तेऽभिधास्यामि महापौरुषिको भवान् ।
यस्य श्रद्दधतामाशु स्यान्मुकुन्दे मतिः सती ॥ [भागवतम् २.१.८१०]

इति श्रीभागवतस्य परममहिमानमुक्त्वा तद्अनन्तरं श्री
भागवतमुपक्रममाण एव तस्य नानाङ्गवतः श्रीभगवद्
उन्मुखतया तन्नामकीर्तनमेवोपदिशति । तत्रापि सर्वेषामेव परम
साधनत्वेन परमसाध्यत्वेन चोपदिशति

एतन्निर्विद्यमानानामिच्छतामकुतोभयम् ।
योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् ॥ [भागवतम् २.१.११]

टीका च साधकानां सिद्धानां च नातः परमन्यच्छ्रेयोऽस्तीत्याह एतद्
इति । इच्छतां कामिनां तत्तत्फलसाधनमेतदेव । निर्विद्यमानानां
मुमुक्षूणां मोक्षसाधनमेतदेव । योगिनां ज्ञानिनां फलं चैतद्
एव निर्णीतम् । नात्र प्रमाणं वक्तव्यमित्यर्थः । इत्येषा ।

नामकीर्तनं चेदमुच्चैरेव प्रशस्तम् नामान्यनन्तस्य हतत्रपः
पठन् [भागवतम् १.५.११] इत्यादौ ।

अथ पाद्मोक्ता दशाप्यपराधाः परित्याज्याः । यथा सनत्कुमारवाक्यम्


सर्वापराधकृदपि मुच्यते हरिसंश्रयात् ।
हरेरप्यपराधान् यः कुर्याद्द्विपदपांसवः ॥
नामाश्रयः कदाचित्स्यात्तरत्येव स नामतः ।
नाम्नोऽपि सर्वसुहृदो ह्यपराधात्पतत्यधः ॥ इति ।

अपराधाश्चैते
सतां निन्दा नाम्नः परममपराधं वितनुते
यतः ख्यातिं यातं कथमु सहते तद्विगर्हाम् ।
शिवस्य श्रीविष्णोर्य इह गुणनामादिसकलं
धिया भिन्नं पश्येत्स खलु हरिनामाहितकरः ॥
(पगे १३५)
गुरोरवज्ञा श्रुतिशास्त्रनिन्दनम्
तथार्थवादो हरिनाम्नि कल्पनम् ।
नाम्नो बलाद्यस्य हि पापबुद्धिर्
न विद्यते तस्य यमैर्हि शुद्धिः ॥

धर्मव्रतत्यागहुतादिसर्व
शुभक्रियासाम्यमपि प्रमादः ।
अश्रद्दधाने विमुखेऽप्यशृण्वति
यश्चोपदेशः शिवनामापराधः ॥

श्रुत्वापि नाममाहात्म्ये
यः प्रीतिरहितोऽधमः ।
अहंममादिपरमो
नाम्नि सोऽप्यपराधकृत् ॥ इति ।

अत्र सर्वापराधकृदपि इत्यादौ श्रीविष्णुयामलवाक्यमप्य्
अनुसन्धेयम्

मम नामानि लोकेऽस्मिन् श्रद्धया यस्तु कीर्तयेत् ।
तस्यापराधकोटीस्तु क्षमाम्येव न संशयः ॥ इति ।

सतां निन्दा इत्यनेन हिंसादीनां वचनागोचरत्वं दर्शितम् । निन्दादयस्
तु यथा स्कान्दे श्रीमार्कण्डेयभगीरथसंवादे

निन्दां कुर्वन्ति ये मूढा वैष्णवानां महात्मनाम् ।
पतन्ति पितृभिः सार्धं महारौरवसंज्ञिते ॥
हन्ति निन्दन्ति वै द्वेष्टि वैष्णवान्नाभिनन्दति ।
क्रुध्यते याति नो हर्षं दर्शने पतनानि षट् ॥ इति ।
तन्निन्दाश्रवणेऽपि दोष उक्तः
निन्दां भगवतः शृण्वन् तत्परस्य जनस्य वा ।
ततो नापैति यः सोऽपि यात्यधः सुकृताच्च्युतः ॥ [भागवतम् १०.७६.२६] इति ।

ततोऽपगमश्चासमर्थस्यैव । समर्थेन तु निन्दकजिह्वा छेत्तव्या ।
तत्राप्यसमर्थनस्वप्राणपरित्यागोऽपि कर्तव्यः । यथोक्तं देव्या

कर्णौ पिधाय निरयाद्यदकल्प ईशे
धर्मावितर्यसृणिभिर्नृभिरस्यमाने ।
छिन्द्यात्प्रसह्य रुशतीमसतीं प्रभुश्चेज्
जिह्वामसूनपि ततो विसृजेत्स धर्मः ॥ [भागवतम् ४.४.१७] इति ।

शिवस्य श्रीविष्णोरित्यत्रैवमनुसन्धेयम् । श्रूयतेऽपि

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोऽंशसंभवम् ॥ [गीता १०.४१] इति ।

ब्रह्मा भवोऽहमपि यस्य कलाः कलायाः [भागवतम् १०.६८.२६] इति ।

यत्पादनिःसृतसरित्प्रवरोदकेन
तीर्थेन मूर्ध्नाधिकृतेन शिवः शिवोऽभूत्[भागवतम् ३.२८.२२] इति ।

सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः ।
विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक् ॥ [भागवतम् २.६.३०]

तथा माध्वभाष्यदर्शितानि वचनानि ब्रह्माण्डे
रुजं द्रावयते यस्माद्रुद्रस्तस्माज्जनार्दनः ।
ईशनादेव चेशानो महादेवो महत्त्वतः ॥
पिबन्ति ये नरा नाकं मुक्ताः संसारसागरात् ।
तद्आधारो यतो विष्णुः पिनाकीति ततः स्मृतः ॥
शिवः सुखात्मकत्वेन सर्वसरोधनाद्धरः ।
कृत्यात्मकमिमं देहं यतो वस्ते प्रवर्तयन् ॥
कृत्तिवासास्ततो देवो विरिञ्चिश्च विरेचनात् ।
बृंहणाद्ब्रह्मनामासौ ऐश्वर्यादिन्द्र उच्यते ॥
एवं नानाविधैः शब्दैरेक एव त्रिविक्रमः ।
वेदेषु च पुराणेषु गीयते पुरुषोत्तमः ॥ इति ।

वामने
न तु नारायणादीनां नाम्नामन्यत्र संशयः ।
अन्यनाम्नां गतिर्विष्णुरेक एव प्रकीर्तितः ॥ इति ।

स्कान्दे
ऋते नारायणादीनि नामानि पुरुषोत्तमः ।
अदादन्यत्र भगवान् राजेवर्ते स्वकं पुरम् ॥ इति ।

ब्राह्मे
चतुर्मुखः शतानन्दो ब्रह्मणः पद्मभूरिति।
उग्रो भस्मधरो नग्नः कपालीति शिवस्य च ।
विशेष्नामानि ददौ स्वकीयान्यपि केशवः ॥ इति ।

तदेवं श्रीविष्णोः सर्वात्मकत्वेन प्रसिद्धत्वात्तस्मात्सकाशात्शिवस्य
गुणनामादिकं भिन्नं शक्त्य्अन्तरसिद्धमिति यो धियापि पश्येदित्य्
अर्थः । द्वयोरभेदतात्पर्येण षष्ठ्य्अन्तत्वे सति श्रीविष्णोश्चेत्य्
अपेक्ष्य चशब्दः क्रियेत । तत्प्राधान्यविवक्षयैव श्रीशब्दश्च तत्रैव
दत्तः । अतएव शिवनामापराध इति शिवशब्देन मुख्यतया श्रीविष्णुर्
एव प्रतिपादित इत्यभिप्रेतम् । सहस्रनामादौ च स्ह्ताणुशिवादिशब्दास्
तथैव ।

अथ श्रुतिशास्त्रनिन्दनम् यथा पाषण्डमार्गेण दत्तात्रेयर्षभ
देवोपासकानां पाषण्डिनाम् ।

तथार्थवादः स्तुतिमात्रमिदमिति मननम् । कल्पनं तन्माहात्म्य
गौणताकरणाय गत्य्अन्तरचिन्तनम् । यथोक्तं कौर्मे व्यासगीतायां

देवद्रोहाद्गुरुद्रोहः कोटिकोटिगुणाधिकः ।
ज्ञानापवादो नास्तिक्यं तस्मात्कोटिगुणाधिकम् ॥ इति ।

यत्तु श्रुतनाम्माहात्म्यस्याप्यजामिलस्य सोऽहं व्यक्तं पतिष्यामि
नरके भृशदारुणे [भागवतम् ६.२.२७] इत्येतद्वाक्यं तत्खलु स्वदौरात्म्य
मात्रदृष्ट्या । नाममाहात्म्यदृष्ट्या त्वग्रे वक्ष्यते तथापि मे
दुर्भगस्य [भागवतम् ६.२.३०] इत्यादि द्वयम् ।

नाम्नो बलादिति । यद्यî भवेन्नाम्नो बलेनापि कृतस्य पापस्य तेन
नाम्ना क्षयः । तथापि येन नाम्नो बलेन परमपुरुषार्थस्वरूपं सच्
चिद्आनन्दसान्द्रं साक्षाच्छ्रीभगवच्चरणारविन्दं साधयितुं
प्रवृत्तस्तेनैव परमघृणास्पदं पापविषयं साधयतीति परम
दौरात्म्यम् । ततः कदर्थयत्येव तं तन्नाम चेति तत्पापकोटि
महत्तमस्यापराधस्यापातो बाढमेव । ततो यमैर्बहुभिर्यम
नियमादिभिः कृतप्रायश्चित्तस्य क्रमेण पात्पाधिकारैरनेकैरपि दण्ड
धरैर्वा कृतदण्डस्य तस्य शुद्ध्य्अभावो युक्त एव । नामापराध
युक्तानामित्यादि वक्ष्यमाणानुसारेण पुनरपि सततनामकीर्तन
मात्रस्य तत्र प्रायश्चित्तत्वात् । सर्वापराधकृदपि इत्याद्युक्त्य्अनुसारेण
नामापराधयुक्तस्य भगवद्भक्तिमतोऽप्यधःपातलक्षणभोग
नियमाच्च । तत इन्द्रस्याश्वमेधाख्यभगवद्यजनबलेन वृत्रहत्या
प्रवृत्तिस्तु लोकोपद्रवशान्तिं तदीयासुरभावखण्डनं चेच्छूआम्
ऋषीणामङ्गीकृतत्वान्न दोष इति मन्तव्यम् । (प्१३७)

अथ धर्मव्रतत्यागेति धर्मादिभिः साम्यमननमपि प्रमादः ।
अपराधो भवतीत्यर्थः । अत एव च

वेदाक्षराणि यावन्ति पठितानि द्विजातिभिः ।
तावन्ति हरिनामानि कीर्तितानि न संशयः ॥

इत्यतिदेशेनापि नाम्न एव माहात्म्यमायाति । उक्तं हि मधुरमधुरम्
एतन्मङ्गलं मङ्गलानां सकलनिगमवल्लीसत्फलं चित्स्वरूपमिति ।

तथा श्रीविष्णुधर्मे
ऋग्वेदो हि यजुर्वेदः सामवेदोऽप्यथर्वणः ।
अधीतास्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥

स्कान्दे पार्वत्य्उक्तौ
मा ऋचो मा यजुस्तात मा साम पठ किञ्चन ।
गोविन्देति हरेर्नाम गेयं गायस्व नित्यशः ॥

पाद्मे श्रीरामाष्टोत्तरशतनामस्तोत्रे
विष्णोरेकैकनामैव सर्ववेदाधिकं मतम् [ড়द्मড়् ६.२५४.२७] इति ।

अथ अश्रद्दधाने इत्यादिनोपदेष्टुरपराधं दर्शयित्वोपदेशस्याह
श्रुत्वेति । यतः अहंममादिपरमः अहन्ताममताद्य्एकतात्पर्येण
तस्मिन्ननादरवानित्यर्थः । नामैकं यस्य वाचि स्मरणपथगतम्
इत्यादौ देहद्रविणादिनिमित्तकपाषण्डशब्देनन् च दशापराधा
लक्ष्यन्ते पाषण्डमयत्वात्तेषाम् । तथा तद्विधानामेवापराधान्तरम्
उक्तं पाद्मवैशाखमाहात्म्ये

अवमन्य च ये यान्ति भगवत्कीर्तनं नराः ।
ते यान्ति नरकं घोरं तेन पापेन कर्मणा ॥ [ড়द्मড়् ५.९६.६३] इति ।

एषां चापराधानामनन्यप्रायश्चित्तत्वमेवोक्तं तत्रैव
नामापराधयुक्तानां नामान्येव हरन्त्यघम् ।
अविश्रान्तप्रयुक्तानि तान्येवार्थकराणि च ॥ इति ।

अत्र स्तप्रभृतिष्वपराधे तु तत्सन्तोषार्थमेव सन्ततनाम
कीर्तनादिकं समुचितम् । अम्बरीषचरितादौ तद्एक
क्षम्यत्वेनापराधानां दर्शनात् । उक्तं च नामकौमुद्याम् महद्
अपराधस्य भोग एव निवर्तकः तद्अनुग्रहो वा इति । तस्मादगत्य्
अन्तराभावात्साधूक्तमेतन्निर्विद्यमानानाम् [भागवतम् २.१.११] इति ।

॥ २.१ ॥ श्रीशुकः ॥ २६५ ॥

[२६६]

एवं श्रीनारदेनोक्तं बृहन्नारदीये
महिम्नामपि यन्नाम्नः पारं गन्तुमनीश्वरः ।
मनवोऽपि मुनीन्द्राश्च कथं तं क्षुण्णधीर्भजे ॥ इति ।

अथ श्रीरूपकीर्तनम् । प्रत्याक्रष्टुं नयनमबला इत्यादौ
यच्छ्रीर्वाचां जनयति रतिं कीर्त्यमाना कवीनाम् ॥ [भागवतम् ११.३०.३] इति ।

यस्य श्रीकृष्णरूपस्य शोभासम्पत्तिः कीर्त्यमाना सती कवीनां तत्
कीर्तकानां वाचां तत्कीर्तनेष्वेव रागं जनयति । अथोक्तं श्री
चतुःसनेन कामं भवः सवृजिनैर्निरयेषु नस्तात्[भागवतम् ३.१५.४९] इत्यादौ ।
वाचश्च नस्तुलसिवद्यदि तेऽङ्घ्रिशोभाः इति ।

॥ ११.३० ॥ राजा श्रीशुकम् ॥ २६६ ॥
[२६७]

अथ गुणकीर्तनम्

इदं हि पुंसस्तपसः श्रुतस्य वा
स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोः ।
अविच्युतोऽर्थः कविभिर्निरूपितो
यदुत्तमःश्लोकगुणानुवर्णनम् ॥ २६७ ॥ [भागवतम् १.५.२२]

(प्१३८) श्रुतं वेदाध्ययनम् । स्विष्टं यागादि । सूक्तं मन्त्रादिजयः ।
बुद्ध’शास्त्रीयबोधः । दत्तं दानम् । एतेषां भगवद्अर्पितानां सताम्
एवाविच्युतोऽर्थः नित्यं फलम् । किं तत्? उत्तमःश्लोकस्य गुणानुकीर्तनं
यत् । जातायामपि गुणानुवर्णनसाध्यायां परमपुरुषार्थरूपायां
रतौ गुणानुवर्णनस्य प्रत्युत नित्यनित्योल्लासादविच्युतत्वमुक्तम् ।
तस्मादविच्युतत्वेन रतिमेवास्य फलं सूचयति ।

॥ १.५ ॥ श्रीनारदः श्रीव्यासम् ॥ २६७ ॥

[२६८]

अथ लीलाकीर्तनम्

शृण्वतः श्रद्धया नित्यं गृणतश्च स्वचेष्टितम् ।
कालेन नातिदीर्घेन भगवान् विशते हृदि ॥ [भागवतम् २.८.३]

नातिदीर्घेन स्वल्पेनैव । विशते स्फुरति ।

॥ २.८ ॥ श्रीपरीक्षित् ॥ २६८ ॥

[२६९]

तथा

मृषा गिरस्ता ह्यसतीरसत्कथा
न कथ्यते यद्भगवानधोक्षजः ।
तदेव सत्यं तदु हैव मङ्गलं
तदेव पुण्यं भगवद्गुणोदयम् ॥ [भागवतम् १२.१२.४९] इत्यादि ।

यदुत्तमःश्लोकयशोऽनुगीयते [भागवतम् १२.१२.५०]

असतीरसत्यः । असतां भगवतस्तद्भक्तेभ्यश्चान्येषां कथा यासु ताः ।
यद्यासु गीर्षु न कथ्यते । उत्तमःश्लोकस्य यशोऽनुगीयअ इति तु यत्तत्
तदीयलीलामयानुगानमेव । सत्यमित्यादि । कथं सत्यत्वं मङ्गलत्वं
च । तत्राह भगवद्गुणानामुदयो गायकहृदि स्फूर्तिर्यस्मात्तत् ।
तदीयरतिप्रदमित्यर्थः । स्कान्दे
यत्र यत्र महीपाल वैष्णवी वर्तते कथा ।
तत्र तत्र हरिर्याति गौर्यथा सुतवत्सला ॥

विष्णुधर्मे स्कान्दे च भगवद्उक्तौ
मत्कथावाचकं नित्यं मत्कथाश्रवणे रतम् ।
मत्कथाप्रीतिमनसं नाहं त्यक्ष्यामि तंनरम् ॥ इति ।

अत्र चानुगीयत इत्यनेन सुकण्ठता चेद्गानमेव कर्तव्यं तच्च
प्रशस्तमित्यायातम् । एवं नामादीनामपि । उक्तं च

गीतानि नामानि तद्अर्थकानि
गायन् विलज्जो विचरेदसङ्गः ।
एवंव्रतः स्वप्रियनामकीर्त्या
जातानुरागो द्रुतचित्त उच्चैः ॥ [भागवतम् १२.२.३७] इति ।

अन्यत्र च
यानीह विश्वविलयोद्भववृत्तिहेतुः
कर्माण्यनन्यविषयाणि हरिश्चकार ।
यस्त्वङ्ग गायति शृणोत्यनुमोदते वा
भक्तिर्भवेद्भगवति ह्यपवर्गमार्गे ॥ [भागवतम् १०.६९.२९] इति ।

गानशक्त्य्अभावे स्वस्मादुत्कृष्टतरस्य प्राप्तौ वा तच्छृणोति । तदा
शक्त्य्अभावे तदनुमोदतेऽपीत्यर्थः । श्रीविष्णुधर्मे श्रीविष्णूक्तौ


रागेणाकृष्यते चेतो गान्धर्वाभिमुखं यदि ।
मयि बुद्धिं समास्थाय गायेथा मम सत्कथाः ॥ इति ।

पाद्मे च कार्त्तिकमाहात्म्ये श्रीभगवद्उक्तौ
नाहं वसामि वैकुण्ठे योगिनां हृदये न च ।
मद्भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद ॥
तेषां पूजादिकं गन्धधूपाद्यैः क्रियते नरैः ।
तेन प्रीतिं परां यामि न तथा मम पूजनात् ॥ इति ।

ते च प्राणिमात्राणामेव परमोपकर्तारः किमुत स्वेषाम् । यथोक्तं
नारसिंहे श्रीप्रह्लादेन (पगे १३९)

ते सन्तः सर्वभूतानां निरुपाधिकबान्धवाः ।
ये नृसिंह भवन्नाम गायन्त्युच्चैर्मुदान्विताः ॥ इति ।

अत्र च बहुभिर्मिलित्वा कीर्तनं सङ्कीर्तनमित्युच्यते । त्त्तु चमत्कार
विशेषपोषात्पूर्वतोऽप्यधिकमिति ज्ञेयम् । अस्त्र च नामसङ्कीर्तने
यथोपदिष्टं कलियुगपावनावतारेण श्रीभगवता

तृणादपि सुनीचेन तरोरपि सहिष्णुना ।
अमानिना मानदेन कीर्तनीयः सदा हरिः ॥ [ড়द्यावली ३२] इति ।

॥ १२.१२ ॥ श्रीसूतः ॥ २६९ ॥

[२७०}

इयं च कीर्तनाख्या भक्तिर्भगवतो द्रव्यजातिगुणक्रियाभिर्दीन
जनैकविषयापारकरुणामयीति श्रुतिपुराणादिविश्रुतिः । कलौ च दीनत्वं
यथा ब्रह्मवैवर्ते

अतः कलौ तपोयोगविद्यायाज्ञादिकाः क्रियाः ।
साङ्गाः भवन्ति न कृताः कुशलैरपि देहिभिः ॥ इति ।

अतएव कलौ स्वभावत एवातिदीनेषु लोकेष्वाविर्भूय ताननायासेनैव तत्
तद्युगगतमहासाध्नानां सर्वमेव फलं ददाना सा कृतार्थयति ।
अतएव तयैव कलौ भगवतो विशेषतश्च सन्तोषो भवति ।

तथा चैवोत्तमं लोके तपः श्रीहरिकीर्तनम् ।
कलौ युगे विशेषेण विष्णुप्रीत्यै समाचरेत् ॥

इति स्कान्दचातुर्मास्यमाहात्म्यवचनानुसारेण । तदेवमाह

कृते यद्ध्यायतो विष्णुं त्रेतायां यजतो मखैः ।
द्वापरे परिचर्यायां कलौ तद्धरिकीर्तनात् ॥ [भागवतम् १२.३.५२]

यद्यत्कृतादिषु तेन तेन साधनेन स्यात्तत्सर्वं कलौ हरिकीर्तनाद्
भवतीति । अन्यत्र च [Vइড়् ६.२.१७]

ध्यायन् कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्चयन् ।
यदाप्नोति तदाप्नोति कलौ सङ्कीर्त्य केशवम् ॥ इति ।

॥१२.३॥ श्रीशुकः ॥ २७० ॥

[२७१]

अतएव
कलिं सभाजयन्त्यार्या गुणज्ञाः सारभागिनः ।
यत्र सङ्कीर्तनेनैव सर्वस्वार्थोऽभिलभ्यते ॥ [भागवतम् ११.५.३६]

गुणज्ञाः कीर्तनप्रचाररूपं तद्गुणं जानन्तः । अतएव तद्दोष
ग्रहणात्सारभागिनः सारमात्रग्रहणाः कलिं सभाजयन्ति । गुणमेव
दर्शयति यत्र प्रचारितेन सङ्कीर्तनेनैव साधनान्तरनिरपेक्षेण तेनेत्य्
अर्थः । सर्वो ध्यानादिभिः कृतादिषु साधनसहस्रैः साध्यः ।
[२७२]

कीर्तनस्यैव महिमानमाह

न ह्यतः परमो लाभो देहिनां भ्राम्यतामिह ।
यतो विन्देत परमां शान्तिं नश्यति संसृतिः ॥ [भागवतम् ११.५.३७]

अतः कीर्तनात् । यतो यस्मात्कीर्तनात् । परमां शान्तिं शमो मन्निष्ठता
बुद्धिः इति भगवद्वाक्यानुसारेण ध्यानादिभिरप्यसाध्यां
सर्वोत्कृष्टां भगवन्निष्ठां प्राप्नोति । अनुषङ्गेण (पगे १४०) संसारश्
च नश्यति । अत एव ध्याननिष्ठा अपि कृतादिप्रजा एतादृशीं भगवन्
निष्ठां न प्राप्तवत्यः । महाभागवता नित्यं कलौ कुर्वन्ति कीर्तनम्
इति स्कान्दाद्य्अनुसारेण कृतादिषु प्रजा राजन् कलाविच्छन्ति सम्भवम्
तादृशनिष्ठाकारणं कीर्तनमाहात्म्यं च । दीनैककृपातिशयशालिना
भगवता तदानीं तत्तत्सामर्थ्यावसरे यस्मात्न प्रकाशितं तस्मात्
ध्यानादिसमर्थास्ताः प्रजा जिह्वौष्ठस्पन्दनमात्रस्य
नातिसाधनत्वं भवेदिति मत्वा तन्न श्रद्धितवत्यश्च ।

[२७३]

ततः कलिप्रजानां परमभगवन्निष्ठतां श्रुत्वा तद्अर्थं कलावेव
केवलं निजजन्म प्रार्थयन्त इत्याह

कृतादिषु प्रजा राजन् कलाविच्छन्ति सम्भवम् ।
कलौ खलु भविष्यन्ति नारायणपरायणाः ॥ [भागवतम् ११.५.३५]

तत्परायणत्वमत्र तदीयप्रेमातिशयवत्त्वम् । एतदेव परमां शान्तिम्
इत्यनेन कार्यद्वारा व्यञ्जितं मुक्तानामपि सिद्धानां नारायण
परायणः सुदुर्लभः प्रशान्तात्मा [भागवतम् ६.१४.५] इत्यत्र यद्वत् ।

अत्र कलिसङ्गेन कीर्तनस्य गुणोत्कर्ष इति न वक्तव्यं भक्तिमात्रे काल
देशनियमस्य निषिद्धत्वात् । विशेषतो नामोपलक्ष्य च विष्णुधर्मे च
चक्रायुधस्य नामानि सदा सर्वत्र कीर्तयेतिति । स्कान्द एव च

न देशकालावस्थात्मशुद्ध्य्आदिकमपेक्षते ।
किन्तु स्वतन्त्रमेवैदं तन्नाम कामितकामदम् ॥ इति ।

विष्णुधर्मे च
कलौ कृतयुगं तस्य कलिस्तस्य कृते युगे ।
यस्य चेतसि गोविन्दो हृदये यस्य नाच्युत ॥ इति ।

न च कलावन्यसाधनसमर्थत्वादेव तेनाल्पेनापि महत्फलं भवति
न तु तस्य गरीयस्त्वेनेति मन्तव्यम् ।

यस्मिन्न्यस्तमतिर्न याति नरकं स्वर्गोऽपि यच्चिन्तने
विघ्नो यत्र निवेशितात्ममनसां ब्राह्मोऽपि लोकोऽल्पकः ।
मुक्तिं चेतसि यः स्थितोऽमलधियां पुंसां ददात्यव्ययः
किं चित्रं यदघं प्रयाति विलयं तत्राच्युते कीर्तिते ॥ [Vइড়् ६.८.५७}

इति समाधिपर्यन्तादपि स्मरणात्कौमुत्येन कीर्तनस्यैव गरीयस्त्वं
श्रीविष्णुपुराणे दर्शितम् । अतएवोक्तमेतन्निर्विद्यमानानां [भागवतम् २.१.११]
इत्यादि । तथा च

अघच्छित्स्मरणं विष्णोर्
बह्व्आयासेन साध्यते ।
ओष्ठस्पन्दनमात्रेण
कीर्तनं तु ततो वरम् ॥ इति वैष्णवचिन्तामणौ ।

येन जन्मशतैः पूर्वं वासुदेवः समर्चितः ।
तन्मुखे हरिनामानि सदा तिष्ठन्ति भारत ॥ इत्यन्यत्र ।

सर्वापराधकृदपि इत्यादिनामापराधभजनस्तोत्रे च । तस्मात्
सर्वत्रैव युगे श्रीमत्कीर्तनस्य समानमेव सामर्थ्यम् । कलौ च श्री
भगवता कृपया तद्ग्राह्यत इत्यपेक्षयैव तत्र तप्रशंसेति स्थितम् ।

अतएव यद्यपि अन्यभक्तिः कलौ कर्तव्या तदा तत्संयोगेनैवेत्युक्तम्
यज्ञैः सङ्कीर्तन(पगे १४१) प्रायैर्यजन्ति हि सुमेधसः [भागवतम् ११.५.२९] इति ।


अत्र च स्वतन्त्रमेव नामकीर्तनमत्यन्तप्रशस्तम्
हरेर्नाम हरेर्नाम हरेर्नामैव केवलम् ।
कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा ॥ इत्यादौ ।

तस्मात्साधूक्तं कलिं सभाजयन्त्यार्याः [भागवतम् ११.५.३] इत्यादित्रयम् ॥

॥११.५॥ श्रीकरभाजनो निमिम् ॥ २७१२७३ ॥

[२७४]

तदेवं कलौ नामकीर्तनप्रचारप्रभावेणैव परमभगवत्
परायणत्वसिद्धिर्दर्शिता । तत्र पाषण्डप्रवेशेन नामापराधिनो ये
तेषां तु तद्बहिर्मुखत्वमेव स्यादिति व्यतिरेकेण तद्द्रढयति

कलौ न राजन् जगतां परं गुरुं
त्रिलोकनाथानतपादपङ्कजम् ।
प्रायेण मर्त्या भगवन्तमच्युतं
यक्ष्यन्ति पाषण्डविभिन्नचेतसः ॥

यन्नामधेयं म्रियमाण आतुरः
पतन् स्खलन् वा विवशो गृणन् पुमान् ।
विमुक्तकर्मार्गल उत्तमां गतिं
प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः ॥ [भागवतम् १२.३.३७३८]

स्पष्टम् ॥

॥ १२.३ ॥ श्रीशुकः ॥ २७४ ॥

[२७५]

तदेवं कीर्तनं व्याख्यातम् । तत्रास्मिन् कीर्तने निजदैन्यनिजाभीष्ट
विज्ञप्तिस्तवपाठावप्यन्तर्भाव्यौ । तथा तत्र श्रीभागवतस्थित
नामादिकीर्तनं तु पूर्ववदन्यदीया नामादिकीर्तनादधिकं ज्ञेयम् ।
कलौ तु प्रशस्तं तत् ।

कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह ।
कलौ नष्टदृशामेष पुराणार्कोऽधुनोदितः ॥ [भागवतम् १.३.४२] इति ।

अथ शरणापत्त्य्आदिभिः शुद्धान्तःकरणश्चेतेतन्निर्विध्यमानानाम्
इच्छतामकुतोभयम् [भागवतम् २.१.११] इत्याद्य्उक्तत्वान्नाम
कीर्तनापरित्यागेन स्मरणं कुर्यात् । तच्च मनसानुसन्धानम् । यदेव
नामादिसम्बन्धित्वेन बहुविधं भवति । तत्र स्मरणसामान्यम्

एतावान् योग आदिष्टो मच्छिष्यैः सनकादिभिः ।
सर्वतोमन आकृष्य मय्यद्धावेश्यते यथा ॥ [भागवतम् ११.१३.१४]

यथा यथावत्मय्यावेश्यत इत्येतावानित्यर्थः । तथा च स्कान्दे
ब्रह्मोक्तौ आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः इत्यादि ॥

॥ ११.१३ ॥ श्रीभगवान् ॥ २७५ ॥

[२७६]

तत्र नामस्मरणम्

हरेर्नाम परं जप्यं ध्येयं गेयं निरन्तरम् ।
कीर्तनीयं च बहुधा निर्वृतीर्बहुधेय्च्छता ॥

इति जाबालिसंहिताद्य्अनुसारेण ज्ञेयम् । नामस्मरणं तु शुद्धान्तः
करणतामपेक्षते । तत्कीर्तनाच्चावरमिति मूले तु नोदाररणस्पष्टता ।
रूपस्मरणमाह

अविस्मृतिः कृष्णपदारविन्दयोः
क्षिणोत्यभद्राणि च शं तनोति ।
सत्त्वस्य शुद्धिं परमात्मभक्तिं
ज्ञानं च विज्ञानविरागयुक्तम् ॥ [भागवतम् १२.१२.५०]

(पगे १४२) परमात्मनि श्रीकृष्णे प्रेमलक्षणां भक्तिमिति मुख्यं
फलमन्यानि त्वानुषङ्गिकाणि ।

॥ १२.१२ ॥ श्रीसूतः ॥ २७६ ॥

[२७७]

किं च
स्मरतः पादकमलमात्मानमपि यच्छति ।
किं न्वर्थकामान् भजतो नात्य्अभीष्टान् जगद्गुरुः ॥ [भागवतम् १०.८०.११]

स्मरतः स्मरते । साक्षात्प्रादुर्भूय आत्मानं स्मर्तुर्वशीकरोतीत्य्
अर्थः । अर्थकामानिति बहुवचनं मोक्षमप्यन्तर्भावयैत्लिङ्ग
समवायन्यायेन । यस्मादेवं तन्माहात्म्यं तस्मादेव गारुडेऽपीदम्
उक्तम् ।

एकस्मिन्नप्यतिक्रान्ते मुहूर्ते ध्यानवर्जिते ।
दस्युभिर्मुषितेनैव युक्तमाक्रन्दितुं भृशम् ॥ इति ।

॥ १०.८० ॥ श्रीदामविप्रभार्या तम् ॥ २७७ ॥

[२७८]

अथ पूर्ववत्क्रमसोपानरीत्या सुखलभ्यं गुणपरिकरसेवालीला
स्मरणं चानुसन्धेयम् । तदिदं स्मरणं पञ्चविधम् । यत्किञ्चिद्
अनुसन्धानं स्मरणम् । सर्वतश्चित्तमाकृष्य सामान्याकारेण मनो
धारणं धारणा । विशेषतो रूपादिविचिन्तनं ध्यानम् । अमृतधारावद्
अविच्छिन्नं तद्ध्रुवानुस्मृतिः । ध्येयमात्रस्फुरणं समाधिरिति ।

तत्र स्मरणम्
येन केनाप्युपायेन
स्मृतो नारायणोऽव्ययः ।
अपि पातकयुक्तस्य
प्रसन्नः स्यान्न संशयः ॥ [णार्ড়् १.१.७७] इति बृहन्नारदीयादौ ।

धारणा
विषयान् ध्यायतश्चित्तं विषयेषु विसज्जते ।
मामनुस्मरतश्चित्तं मय्येव प्रविलीयते ॥ [भागवतम् ११.१४.२७] इत्यादौ ।

ध्यानम्
भगवच्चरणद्वन्द्वध्यानं निर्द्वन्द्वमीरितम् ।
पापिनोऽपि प्रसङ्गेन विहितं सुहितं परम् ॥ इति नारसिंहादौ ।

तत्र निर्द्वन्दवं शीतोष्णादिमयदुःखपरम्परातीतम् । ईरितं शास्त्र
विहितम् । तच्च पापिनोऽपि प्रसङ्गेनापि परमुत्कृष्टं सुहितं विहितं
तत्रैवेत्यर्थः ।

ध्रुवानुस्मृतिश्च मद्गुणस्मृतिमात्रेण [भागवतम् ३.२९.१०] इत्यादौ
त्रिभुवनविभवहेतवेऽप्यकुण्ठस्मृतिः [भागवतम् ११.२.५१] इत्यादौ च । एषैव
श्रीरामानुजभगवत्पादैः प्रथमसूत्रे दर्शितास्ति ।

समाधिमाह
तयोरागमनं साक्षादीशयोर्जगद्आत्मनोः ।
न वेद रुद्धधीवृत्तिरात्मानं विश्वमेव च ॥ [भागवतम् १२.१०.९]

तयो रुद्रतत्पत्न्योः । भगवद्अंशतच्छक्तित्वात्जगद्आत्मनोः तत्
प्रवर्तकयोरपि । तत्र हेतुः रुद्धधीवृत्तिर्भगवद्आविष्टचित्तः
भक्तिं परां भगवति लब्धवान् [भागवतम् १२.१०.६] इति पूर्वोक्तेः । तस्माद्
असम्प्रज्ञातनाम्नो ब्रह्मसमाधितो भिन्न एवासौ ।

॥ १२.१० ॥ श्रीसूतः ॥ २७८ ॥

[२७९]

क्वचिल्लीलादियुक्ते च तस्मिन्ननन्या स्फूर्तिः समाधिः स्यात् । यथाह

उरुक्रमस्याखिलबन्धमुक्तये
समाधिनानुस्मर तद्विचेष्टितम् ॥ [भागवतम् १.५.१३] (पगे १४३)

इति स्पष्टम् । एतद्रूपो दासादिभक्तानाम् । पूर्वं तु प्रायः शान्त
भक्तानाम् । स्वसुखनिभृतचेतास्तद्व्युदस्तान्यभावोऽप्यजितरुचिर
लीलाकृष्टसारः [भागवतम् १२.१२.६९] इत्याद्य्उक्तिभ्यः ।

॥ १.५ ॥ श्रीनारदो व्यासम् ॥ २७९ ॥

[२८०]

अथ रुचिः शक्तिश्च चेत्तद्अपरित्यागेन पादसेवा च कर्तव्या । सेवा
स्मरणसिद्ध्य्अर्थं च सा कैश्चित्क्रियते । तथा च विष्णुरहस्ये
परमेश्वरवाक्यम्

न मे ध्यानरताः सम्यग्योगिनः परितुष्टये ।
तथा भक्तिश्च देवर्षे क्रियायोगरता यथा ।
क्रियाक्रमेण योगोऽपि ध्यानिनः सम्प्रवर्तते ॥ इति ।

योगोऽत्र समाधिः । पादसेवायां पादशब्दो भक्त्यैव निर्दिष्टः । ततः
सेवायाः सादरत्वं विधीयते । सेवा च कालदेशाद्य्उचिता परिचर्यादि
पर्याया । सा यथा

यत्पादसेवाभिरुचिस्तपस्विनाम्
अशेषजन्मोपचितं मलं धियः ।
सद्यः क्षिणोत्यन्वहमेधती सती
यथा पदाङ्गुष्ठविनिःसृता सरित् ॥ [भागवतम् ४.२१.३१]

तपस्विनां संसारतप्तानामलं तत्तद्वासनाम् । तत्पादस्यैवैष
महिमेति दृष्टान्तेनाह यथेति ।

॥ ४.२१ ॥ पृथुः श्रीविष्णुम् ॥ २८० ॥

[२८१]

तथा
न कामयेऽन्यं तव पादसेवनाद्
अकिञ्चनप्रार्थ्यतमाद्वरं विभो ।
आराध्य कस्त्वां ह्यपवर्गदं हरे
वृणीत आर्यो वरमात्मबन्धनम् ॥ [भागवतम् १०.५१.५५]

अकिञ्चना मोक्षपर्यन्तकामनारहिताः । तत्र हेतुः त्वामाराध्य कस्
त्वामपवर्गदं सन्तमपवर्गदतयाविर्भवन्तं वृणीत समाश्रयेतेत्य्
अर्थः । वरमित्यव्ययमीषत्प्रिये । वरमात्मनो बन्धनमेव वृणीत ।
अनन्तरं चास्य तस्माद्विसृज्याशिषः [भागवतम् १०.५१.५६] इत्यादिवाक्ये निरञ्जनम्
इत्यादि ।

अत्र सेव्यपादत्वेनैव प्राप्तस्य तस्य पुरुषोत्तमस्य सच्चिद्आनन्दत्वम्
एवाभिप्रेतम् ।
॥ १०.५१ ॥ मुचुकुन्दः श्रीभगवन्तम् ॥ २८२ ॥

[२८३]

अत्र पादसेवायां श्रीमूर्तिदर्शनस्पर्शपरिक्रमानुव्रजनभगवन्
मन्दिरगङ्गापुरुषोत्तमद्वारकामथुरादितदीयतीर्थस्नान
गमनादयोऽप्यन्तर्भाव्याः । तत्परिकरप्रायत्वात् । यावज्जीवं तन्
मन्दिरादिनिवासस्तु शरणापत्तावन्तर्भवति । गङ्गादीनां तत्स्थप्राणि
वृन्दानां च परमभागवतत्वमेवेति । पक्षे तु तत्सेवादिकं महत्
सेवादावेव पर्यवस्यति । ततो गङ्गादिष्वपि भक्तिनिदानत्वं भवेत् ।
अतएव

शुश्रूषोः श्रद्दधानस्य वासुदेवकथारुचिः ।
स्यान्महत्सेवया विप्राः पुण्यतीर्थनिषेवणात् ॥ [भागवतम् १.२.१६] (पगे १४४)

इत्यत्र पुण्यतीर्थशब्दोक्तस्य गङ्गादेः पृथक्कारणत्वं व्याख्येयम् ।
यथा तृतीये यत्पादनिःसृतसरित्प्रवरोदकेन तीर्थेन मूर्ध्न्य्
अधिकृतेन शिवः शिवोऽभूत्[भागवतम् ३.२८.२२] इति । शिवत्वं नाम ह्यत्र परम
सुखप्राप्तिरिति टीकाकृन्मतम् । तादृशसुखत्वं च भक्तावेव
पर्यवसितम् । तत ऊर्ध्वं सुखान्तराभावात् । ब्राह्मे पुरुषोत्तमम्
उद्दिश्य

अहो क्षेत्रस्य माहात्म्यं समन्ताद्दशयोजनम् ।
दिविष्ठा यत्र पश्यन्ति सर्वानेव चतुर्भुजान् ॥

स्कान्दे
संवत्सरं वा षण्मासान्मासं मासार्धमेव वा ।
द्वारकावासिनः सर्वनरा नार्यश्चतुर्भुजाः ॥

पाद्मपातालखण्डे
अहो मधुपुरी धन्या वैकुण्ठाच्च गरीयसी ।
दिनमेकं निवासेन हरौ भक्तिः प्रजायते ॥

आदिवाराहे तामुद्दिश्य जन्मभूमिः प्रिया मम इति । एषु च स्वोपासना
स्थानमधिकं सेव्यम् । श्रीकृष्णस्य पूर्णभगवत्त्वात्तत्स्थानं तु
सर्वेषामेव पूर्णपुरुषार्थदं भवेत् । अतएव आदिवाराहे

मथुरां च परित्यज्य योऽन्यत्र कुरुते रतिम् ।
मूढो भ्रमति संसारे मोहितो मम मायया ॥ इति ।

तदेवं तुलसीसेवा च सत्सेवायामन्तर्भाव्या परमभगवत्प्रियत्वात्
तस्याः । यथा अगस्त्यसंहितायां गारुडसंहितायां च

विष्णोस्त्रैलोक्यनाथस्य रामस्य जनकात्मजा ।
प्रिया तथैव तुलसी सर्वलोकैकपावनी ॥ इति ।

स्कान्दे
रतिं बध्नाति नान्यत्र तुलसीकाननं विना ।
देवदेवो जगत्स्वामी कलिकाले विशेषतः ॥
निरीक्षिता नरैर्यैस्तु तुलसीवनवाटिका ।
रोपिता यैस्तु विधिना सम्प्राप्तं परमं पदम् ॥

स्कान्द एव तुलसीस्तवे तुलसीनाममात्रेण प्रीणात्यसुरदर्पहा इति ।
तदेवं पादसेवा व्याख्याता । प्रसङ्गसङ्गत्या गङ्गादिसेवा च ।

तच्चागमोक्तावाहनादिक्रमकम् । तन्मार्गे श्रद्धा चेदाश्रितमन्त्र
गुरुस्तं विशेषतः पृच्छेत् । तथोदाहृतम् लब्ध्वानुग्रह आचार्यात्तेन
सन्दर्शितागमः [भागवतम् ११.३.४८] इत्यादिना ।

यद्यपि श्रीभागवतमते पञ्चरात्रादिवदर्चनमार्गस्यावश्यकत्वं
नास्ति, तद्विनापि शरणापत्त्य्आदीनामेकतरेणापि पुरुषार्थसिद्धेर्
अभिहितत्वात्, तथापि श्रीनारदादिवर्त्मानुसरद्भिः श्रीभगवता सह
सम्बन्धविशेषं दीक्षाविधानेन श्रीगुरुचरणसम्पादितं
चिकीर्षद्भिः कृतायां दीक्षायामर्चनमवश्यं क्रियेतैव ।

दिव्यं ज्ञानं यतो दद्यात्कुर्यात्पापस्य सङ्क्षयम् ।
तस्माद्दीक्षेति सा प्रोक्ता देशिकैस्तत्त्वकोविदैः ॥
अतो गुरुं प्रणम्यैवं सर्वस्वं विनिवेद्य च ।
गृह्णीयाद्वैष्णवं मन्त्रं दीक्षापूर्वं विधानतः ॥ [ःBV २.९१०] (पगे
१४५) इत्यागमात् ।

दिव्यं ज्ञानं ह्यत्र श्रीमति मन्त्रे भगवत्स्वरूपज्ञानं, तेन
भगवता सम्बन्धविशेषज्ञानं च । यथा पाद्मोत्तरखण्डादाव्
अष्टाक्षरादिकमधिकृत्य विवृतमस्ति ये तु सम्पत्तिमन्तो गृहस्थास्तेषां
त्वर्चनमार्ग एव मुख्यः । यथोक्तं श्रीवासुदेवं प्रति मुनिभिः

अयं स्वस्त्य्अयनः पन्था द्विजातेर्गृहमेधिनः ।
यच्छ्रद्धयाप्तवित्तेन शुक्लेनेज्येत पूरुषः ॥ [भागवतम् १०.८४.३७] इति ।

तदकृत्वा हि निष्किञ्चनवत्केवलस्मरणादिनिष्ठत्वे वित्तशाठ्य
विप्रतिपत्तिः स्यात् । परद्वारा तत्सम्पादनं व्यवहार
निष्ठत्वस्यालसत्वस्य वा प्रतिपादकम् । ततोऽश्रद्धामयत्वाद्धिनमेव
तत् । ततश्च योऽमायया सततयानुवृत्त्या इत्याद्य्उपदेशाद्भ्रश्येत् ।

किं च गृहस्थानां परिचर्यामार्गे द्रव्यसाध्यतयार्चनमार्गाद्
अविशेषेण प्राप्तेऽप्यर्चनमार्गस्यैव प्राधान्यमत्यन्तविधि
सापेक्षत्वात्तेषाम् । तथा गार्हस्थ्यधर्मस्य देवतायागस्य शाखा
पल्लवादिसेकस्थानीयस्य मूलसेकरूपं तद्अर्चनमित्यपि तद्अकरणे
महान् दोषः । अतः स्कान्दे श्रीप्रह्लादवाक्यम्

केशवार्चा गृहे यस्य न तिष्ठति महीपते ।
तस्यान्नं नैव भोक्तव्यमभक्ष्येण समं स्मृतम् ॥ इति ।

दीक्षितानां तु सर्वेषां तद्अकरणे नरकपातः श्रूयते । यथा विष्णु
धर्मोत्तरे

एककालं द्विकालं वा त्रिकालं पूजयेद्धरिम् ।
अपूज्यभोजनं कुर्वन्नरकाणि व्रजेन्नरः ॥ इत्यादि ।

अशक्तमयोग्यं प्रति च आग्नेये
पूजितं पूज्यमानं वा यः पश्येद्भक्तिमतो हरिम् ।
श्रद्धया मोदयेद्यस्तु सोऽपि योगफलं लभेत् ॥ इति ।

योगोऽत्र पञ्चरात्राद्य्उक्तः क्रियायोगः । क्वचिदत्र मानसपूजा च
विहितास्ति । तथा च पाद्मोत्तरखण्डे साधारणं हि सर्वेषां मानसेज्या
नॄणां प्रिया इति ।

किं चास्मिन्नर्चनमार्गेऽवश्यं विधिरपेक्षणीयः । ततः पूर्वं दीक्षा
कर्तव्या । अथ शास्त्रीयं विधानं च शिक्षणीयम् ।

दीक्षा यथागमे
द्विजानामनुपेतानां स्वकर्माध्ययनादिषु ।
यथाधिकारो नास्तीह स्याच्चोपनयनादनु ॥
तथात्रादीक्षितानां तु मन्त्रदेवार्चनादिषु ।
नाधिकारोऽस्त्यतः कुर्यादात्मानं शिवसंस्तुतम् ॥ [ःBV २.३४] इति ।

शास्त्रीयविधानं च यथा विष्णुरहस्ये
अविज्ञाय विधानोक्तं हरिपूजाविधिक्रियाम् ।
कुर्वन् भक्त्या समाप्नोति शतभागं विधानतः ॥ इति ।

भक्त्या परमादरेणैव शतभागवं प्राप्नोति । अन्यथा तावन्तमपि
नेत्यर्थः । विधौ तु वैष्णवसम्प्रदायानुसार एव प्रमाणम् । यतो
विष्णुरहस्ये

अर्चयन्ति सदा विष्णुं मनोवाक्कायकर्मभिः ।
तेषां हि वचनं ग्राह्यं ते हि विष्णुसमा मताः ॥

कौर्मे
संस्पृष्ट्वा वैष्णवान् विप्रान् विष्णुशास्त्रविशारदान् ।
चीर्णव्रतान् सदाचारान् तदुक्तं यत्नतश्चरेत् ॥ (पगे १४६)

वैष्णवतन्त्रे
येषां गुरौ च जप्ये च विष्णौ च परमात्मनि ।
नास्ति भक्तिः सदा तेषां वचनं परिवर्जयेत् ॥ इति ।

तथाह एवं सदा इत्यादौ तन्निष्ठविप्राभिहितः शशास ह [भागवतम् ३.४.१८]
इति । अम्बरीष इति प्रकरणलब्धम् ॥

॥ ९.४ ॥ श्रीशुकः ॥ २८६ ॥

[२८७]

ननु भगवन्नामात्मका एव मन्त्राः । तत्र विशेषेण नमःशब्दाद्य्
अलंकृताः श्रीभगवता श्रीमद्ऋषिभिश्चाहितशक्तिविशेषाः श्रीभगवता
सममात्मसम्बन्धविशेषप्रतिपादकाश्च । तत्र केवलानि श्रीभगवन्
नामान्यपि निरपेक्षाण्येव परमपुरुषार्थफलपर्यन्तदान
समर्थानि । ततो मन्त्रेषु नामतोऽप्यधिकसामर्थ्ये लब्धे कथं
दीक्षाद्य्अपेक्षा । उच्यते । यद्यपि स्वरूपतो नास्ति तथापि प्रायः स्वभावतो
देहादिसम्बन्धेन कदर्थशीलानां विक्षिप्तचित्तानां जनानां तत्तत्
संकोचीकरणाय श्रीमद्ऋषिप्रभृतिभिरत्रार्चनमार्गे क्वचित्क्वचित्काचित्
काचिन्मर्यादा स्थापितास्ति । ततस्तद्उल्लङ्घने शास्त्रं प्रायश्चित्तम्
उद्भावयति ।

तत उभयमपि नासमञ्जसमिति तत्र तत्तद्अपेक्षा नास्ति । यथा श्री
रामचन्द्रमुद्दिश्य रामार्चनचन्द्रिकायां

वैष्णवेष्वपि मन्त्रेषु राममन्त्राः फलाधिकाः ।
गाणपत्य्आदिमन्त्रेभ्यः कोटिकोटिगुणाधिकाः ॥
विनैव दीक्षां विप्रेन्द्र पुरश्चर्यां विनैव हि ।
विनैव न्यासविधिना जपमात्रेण सिद्धिदाः ॥ इति ।

एवं साध्यत्वादिपरीक्षानपेक्षा च क्वचित्श्रूयते । यथोक्तं मन्त्रदेव
प्रकाशिकायाम्

सौरमन्त्राश्च येऽपि स्युर्वैष्णवा नारसिंहकाः ।
साध्यसिद्धसुसिद्धारिविचारपरिवर्जिताः ॥ इति ।

तन्त्रान्तरे
नृसिंहार्कवराहाणां प्रसादप्रवणस्य च ।
वैदिकस्य च मन्त्रस्य सिद्धादीन्नैव शोधयेत् ॥ इति ।

सनत्कुमारसंहितायाम्
साध्यः सिद्धः सुसिद्धश्च अरिश्चैव च नारद ।
गोपालेषु न बोद्धव्यः स्वप्रकाशो यतः स्मृतः ॥

अन्यत्र
सर्वेषु वर्णेषु तथाश्रमेषु
नारीषु नानाह्वयजन्मभेषु ।
दाता फलानामभिवाञ्छितानां
प्रागेव गोपालकमन्त्र एषः ॥ इत्यादि ।

मर्यादा यथा ब्रह्मयामले
श्रुतिस्मृतिपुराणादिप चरात्रविधिं विना ।
ऐकान्तिकी हरेर्भक्तिरुत्पातायैव कल्पते ॥

इत्थमभिप्रेतं श्रीपृथिव्या चतुर्थे
अस्मिन् लोकेऽथवामुष्मिन्मुनिभिस्तत्त्वदर्शिभिः ।
दृष्टा योगाः प्रयुक्ताश्च पुंसां श्रेयःप्रसिद्धये ॥
तानातिष्ठति यः सम्यगुपायान् पूर्वदर्शितान् ।
अवरः श्रद्धयोपेत उपेयान् विन्दतेऽञ्जसा ॥
ताननादृत्य योऽविद्वानर्थानारभते स्वयम् ।
तस्य व्यभिचरन्त्यर्था आरब्धाश्च पुनः पुनः ॥ [भागवतम् ४.१८.३५]
अतएवोक्तं पाद्मे श्रीनारायणनारदसंवादे (पगे १४७)
मद्भक्तो यो मद्अर्चां च करोति विधिवदृषे ।
तस्यान्तरायाः स्वप्नेऽपि न भवन्त्यभयो हि सः ॥ इति ।

तदेतद्अर्चनं द्विविधं केवलं कर्ममिश्रं च । तयोः पूर्वं
निरपेक्षाणां श्रद्धावतां दर्शितमाविर्होत्रेण य आशु हृदयग्रन्थिम्
इत्यादौ । उक्तं च श्रीनारदेन

यदा यस्यानुगृह्णाति भगवानत्मभावितः ।
न जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥ [भागवतम् ४.२९.४७] इति ।

अत्र श्रीमद्अगस्त्यसंहिता च
यथा विधिनिषेधौ च मुक्तं नैवोपसर्पतः ।
तथा न स्पृशतो रामोपासकं विधिपूर्वकम् ॥ इति ।

उत्तरं व्यवहारचेष्टातिशयवत्तायादृच्छिकभक्त्य्
अनुष्ठानवतादिलक्षणलक्षितश्रद्धानां तथा तद्वैपरीत्यलक्षित
श्रद्धानामै प्रतिष्ठितानां भक्तिवार्तानभिज्ञबुद्धिषु साधारण
वैदिककर्मानुष्ठानलोपोऽपि माभूदिति लोकसङ्ग्रहपराणां
गृहस्थानां दर्शितम् । यथा न ह्यन्तोऽनन्तपारस्य [भागवतम् ११.२७.६] इत्यादौ

सन्ध्योपास्त्यादिकर्माणि वेदेनाचोदितानि मे ।
पूजां तैः कल्पयेत्सम्यक्सङ्कल्पः कर्मपावनीम् ॥ [भागवतम् ११.२७.११] इत्य्
आदि ।

स्पष्टम् ।

॥ ११.२७ ॥ श्रीभगवान् ॥ २८४ ॥

[२८५]

श्रीनारदपञ्चरात्रे चैवमेव श्रीनारायणवाक्यं श्राद्ध
कथनारम्भे

नाचरेद्यस्तु सिद्धोऽपि लौकिकं धर्ममग्रतः ।
उपप्लवाच्च धर्मस्य ग्लानिर्भवति नारदः ॥
विवेकज्ञैरतः सर्वैर्लोकाचारो यथास्थितः ।
आदेहपाताद्यत्नेन रक्षणीयः प्रयत्नतः ॥ इति ।

एतेषां च द्विविधा कर्मव्यवस्था श्रीनारदपञ्चरात्रादौ अन्तर्यामि
श्रीभगवद्दृष्ट्यैव सर्वाराधानं विहितं विष्णुयामलादौ तु

विष्णुपादोदकेनैव पितॄणां तर्पणक्रिया ।
विष्णोर्निवेदितान्नेन यष्टव्यं देवतान्तरम् ॥ इत्यादिप्रकारेण विहितम्
इति ।

ये तु तत्र श्रीभगवत्पीठावरणपूजायां गणेशदुर्गाद्या वर्तन्ते ते
हि विष्वक्सेनादिवद्भगवतो नित्यवैकुण्ठसेवकाः । ततश्च ते गणेश
दुर्गाद्या, ये परे मायाशक्त्यात्मका गणेशदुर्गाद्यास्ते तु न भवन्ति ।
न यत्र माया किमुतापरे हरेः [भागवतम् २.९.१०] इति द्वितीयोक्तेः । ततो भगवत्
स्वरूपभूतशक्त्यात्मका एव ते । यत एव च श्रीकृष्णस्वरूपभूत
शक्तिवृत्तिविशेषस्याधिष्ठातृत्वं श्रूतितन्त्रादिष्वादिष्वपि दृश्यते । यथा
नारदपञ्चरात्रे श्रुतिविद्यासंवादे

भक्तिर्भजनसम्पत्तिर्भजते प्रकृतिः प्रियम् ।
ज्ञायतेऽत्यन्तदुःखेन सेयं प्रकृतिरात्मनः ॥
दुर्गेति गीयते सद्भिरखण्डरसवल्लभा ॥ इति ।

अतएव श्रीभगवद्अभेदेनोक्तं गौतमीयकल्पे यः कृष्णः सैव दुर्गा
स्याद्या दुर्गा कृष्ण एव सः इति । त्वमेव परमेशानि अस्याधिष्ठातृदेवता
इत्यादिकं तु विराट्पुरुषमहापुरुषयोरिव (पगे १४८) केषांचिद्
अभेदोपासनाविवक्षयैवोक्तम् । सा हि मायांशरूपा तद्अधीने
प्राकृतेऽस्मिन् लोके मन्त्ररक्षालक्षणसेवार्थं नियुक्ता चिच्छक्त्यात्मक
दुर्गाया दासीयते न तु सेवाधिष्ठात्री । मायातीतवैकुण्ठावरण
कथने पाद्मोत्तरखण्डे

सत्याच्युतानन्तदुर्गाविष्वक्सेनगजाननाः ।
शङ्खपद्मनिधी लोकाश्चतुर्थावरणं शुभम् ॥
ऐन्द्रपावकयाम्यानि नैरृतं वारुणं तथा ।
वायव्यं सौम्यमैशानं सप्तमं मुनिभिः स्मृतम् ॥
साध्या मरुद्गणाश्चैव विश्वेदेवास्तथैव च ।
नित्याः सर्वे परे धाम्नि ये चान्ये च दिवौकसः ॥
ते वै प्राकृतलोकेऽस्मिन्ननित्यास्त्रिदशेश्वराः ।
ते ह नाकं महिमानः सचन्त इति वै श्रुतिः ॥ [ড়द्मড়् ६.२२८.६०, ६४६६] इति ।

किं च भगवत्स्वरूपा एव ते । यथोक्तं त्रैलोक्यसम्मोहनतन्त्रे
अष्टादशाक्षरषड्अङ्गादिदेवताभेदकथनारम्भे

सर्वत्र देवदेवोऽसौ गोपवेशधरो हरिः ।
केवलं रूपभेदेन नामभेदः प्रकीर्तितः ॥ इति ।

अतो नाममात्रसाधारण्येनानन्यभक्तैर्न भेतव्यम् । किन्तु भगवतो
नित्यवैकुण्ठसेवकत्वाद्विष्वक्सेनादिवत्सत्कार्या एव ते । यस्यात्म
बुद्धिः कुणपे त्रिधातुके [भागवतम् १०.८४.८] इत्यादौ, अर्चयित्वा तु गोविन्दं
तदीयान्नार्चयेत्तु यः [ড়द्मড়् ६.२५३.१७७] इत्यादिपाद्मोत्तरखण्ड
वचनेन तद्असत्कारे दोषश्रवणात् । अतस्तानेवोद्धिश्याह

दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून् सुरान् ।
स्वे स्वे स्थाने त्वभिमुखान् पूजयेत्प्रोक्षणादिभिः ॥ [भागवतम् ११.२७.२९]

पाद्मोत्तरखण्ड एव च
तस्मादवैदिकानां च देवानामर्चनं त्यजेत् ।
स्वतन्त्रपूजनं यत्र वैदिकानामपि त्यजेत् ॥
अर्चयित्वा जगद्वन्द्यं देवं नारायणं हरिम् ।
तद्आवरणसंस्थानं देवस्य परितोऽर्चयेत् ॥
हरेर्भुक्तावशेषेण बलिं तेभ्यो विनिःक्षिपेत् ।
होमं चैव प्रकुर्वीत तच्छेषेणैव वैष्णवः ॥ [ড়द्मড়् ६.२५३.१०३६] इत्य्
आदि ।

॥ ११.२७ ॥ श्रीभगवान् ॥ २८५ ॥

[२८६]

भूतादिपूजा तु तत्पूजाङ्गत्वे विहितापि न कर्तव्या । तद्आवरण
देवतात्वाभावात् । निषिद्धं च तत्रैव

यक्षाणां च पिशाचानां मद्यमांसभुजां तथा ।
दिवौकसां तु भजनं सुरापानसमं स्मृतम् ॥ [ড়द्मড়् ६.२५३.९५] इति ।

अतएवावश्यकपूज्यानामन्येषां तत्स्वीकृतैरपि मद्यादिभिः पूजा
निषिद्धा । यथा सङ्कर्षणादीनाम् ।

अथ पीठपूजायां येऽप्यधर्माद्या वर्तन्ते गुणत्रयं च । तानि तु
पाद्मोत्तरखण्डे स्पष्टान्यपि न सन्ति । तथा स्वायम्भुवागमेऽपि ।
तस्मान्नादरणीयानि । केचित्तु नारदपञ्चरात्रदृष्ट्या तान्यन्यथैव
व्याचक्षते । यथोक्तं तत्रैव अधर्माद्य्आद्यचतुष्कं तु अश्रेयसि
नियोजनमिति अधार्मिकादिषु तत्तद्अन्तर्यामिशक्तिरधर्माद्यमित्य्
अर्थः । तथा पीठपूजायां भगवद्धामे श्रीगुरुपादुकापूजनम्
एवं सङ्गच्छते । यथा य एव भगवानत्र व्यष्टिरूपतया
भक्तावतारत्वेन श्रीगुरुरूपो वर्तते, स एव तत्र समष्टिरूपतया स्व
वामप्रदेशे साक्षाद्अवतारत्वेनापि तद्रूपो वर्तत इति ।

तथा (पगे १४९) ये चात्र श्रीरामाद्य्उपासनायामैन्द्रद्विविदादय
आवरणदेवतास्ते तु तदीयनित्यधामगता नित्याः शुद्धाश्च ज्ञेयाः ।
यथाक्रूराघमर्षणे तेन श्रीप्रह्लादादयो दृष्टाः । य एव श्रीप्रह्लादः
पृथ्वीदोहनेऽपि वत्सोऽभूत्, तदानीं तज्जन्माभावात् । चाक्षुषमन्वन्तर
एव हिरण्यकशिपोर्जातत्वात् ।

अन्ये तु स्वस्वधाम्नि नित्यप्राकट्यस्यैव श्रीरामादेः प्रपञ्च
प्राकाट्यावसरं प्राप्य तत्साहाय्यार्थं नित्यपार्षदमैन्द्रद्विविदादि
शक्त्यावेशिनो जीवाः सुग्रीवादिभागवतद्वेषिबालिप्रभृति=सम्बन्धाद्
उत्तरकाले भगवद्विद्वेषिनरकासुरादिसङ्गाच्च दुष्टभावा
भवन्तीत्यवधेयम् । प्रपञ्चलोकमिश्रत्वेनैव प्राकट्यसम्भवात् ।

अथ श्रीकृष्णगोकुलोपासनायामपि यत्श्रीरुक्मिण्य्आदीनामावरणत्वं
तत्तु तच्छक्तिविशेषरूपाणां तासां विमलादीनामिवान्तर्धान
गतत्वेनैव । न तु तत्तल्लीलागतप्राकट्येनेति ज्ञेयम् । अतएव ध्याने ता
नोक्ताः । केचित्तु रुक्मिण्य्आदिनामानि श्रीराधादिनामान्तरत्वेनैव
मन्यन्ते । यथा ते शङ्खचक्रगदामुद्रादिधारणं श्रीकृष्णचरण
चिह्नत्वेनैव स्वीकुर्वन्ति, यथा च द्वारान्तःपार्श्वयोर्गङ्गायमुनयोः
पूज्यमानयोर्गङ्गा श्रीगोवर्धने प्रसिद्धा मानसगङ्गेति मन्यन्ते ।
तथा च विष्वक्सेनादयो भद्रसेनादय इति । श्रीकृष्णपीठपूजायां
श्वेतद्वीपक्षीरसमुद्रपूजा च गोलोकाख्यस्य तद्धाम्नोऽपि
श्वेतद्वीपेतिनामत्वात् । कामधेनुकोटिनिःसृतदुग्धपरविशेषस्य च
तत्र स्थितत्वात् । यथोक्तं ब्रह्मसंहितायां तद्वर्णनान्ते

स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश्च सुमहान्
निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः ।
भजे श्वेतद्वीपं तमहमिह गोलोकमिति यं
विदन्तस्ते सन्तः क्षितिविरलचाराः कतिपये ॥ इति ।

एवमन्यत्रापि ज्ञेयम् । तथा सोमसूर्याग्निमण्डलान्यप्राकृतान्य्
अतिशैत्यतापगुणपरित्यागेनैव वर्तन्ते । तत्र सर्वकल्याणगुण
वस्तूनामेवाभिधानाय प्राकृतनिषेधात् । यथा नृसिंहतापन्याम् तद्
वा एतत्परमं धाम मन्त्रराजाध्यापकस्य यत्र न दुःखादि यत्र न
सूर्यस्तपति यत्र न वायुर्वाति यत्र न चन्द्रमा भाति यत्र न नक्षत्राणि
भान्ति यत्र नाग्निर्दहति यत्र न मृत्युः प्रविशति यत्र न दोषः ।
[णृसिंहटाप्५.९] इत्यादि ।

तदेवं कर्ममिश्रत्वादिनिरसनप्रसङ्गसङ्गत्या तत्परिकरा
व्याख्याताः ।

अथ तेषां शुद्धभक्तानां भूतशुद्ध्य्आदिकं यथामति व्याख्यायते ।
तत्र भूतशुद्धिर्निजाभिलषितभगवत्सेवौपयिकतत्पार्षददेह
भावनापर्यन्तैव तत्सेवैकपुरुषार्थिभिः कार्या निजनुकुल्यत् । एवं
यत्र यत्रात्मनो निजाभीष्टदेवतारूपत्वेन चिन्तनं विधीयते तत्र
तत्रैव पार्षदत्वे ग्रहणं भाव्यम् । अहङ्ग्रहोपासनायाः शुद्ध
भक्तैर्द्विष्टत्वात् । ऐक्यं च तत्र साधारण्यप्रायमेव । तदीयचिच्
छक्तिवृत्तिविशुद्धसत्त्वांशविग्रहत्वात्पार्षदानाम् । (पगे १५०)

अथ केशवादिन्यासादीनां यत्राधमाङ्गविषयत्वं तत्र तन्मूर्तिं
ध्यात्वा तत्तन्मन्त्रांश्च जप्त्वैव तत्तद्अङ्गस्पर्शमात्रं कुर्यात् ।
न तु तत्तन्मन्त्रदेवतास्तत्र तत्र न्यस्ता ध्यायेत् । भक्तानां तद्
अनौचित्यात् ।

अथ मुख्यं ध्यानं श्रीभगवद्धामगतमेव । हृदयकमल
गतं तु योगिमतम् । स्मरेद्वृन्दावने रम्ये इत्याद्य्उक्तत्वात् । अतएव
मानसपूजा च तत्रैव चिन्तनीया । कामगायत्रीध्यानं च यत्सूर्य
मण्डले श्रूयते तत्रैव चिन्त्यम् । गोलोक एव निवसत्यखिलात्मभूतः इत्य्
अत्रैवकारात् । तत्र श्रीवृन्दावननाथः साक्षान्न तिष्ठति किन्तु
तेजोमयप्रतिमाकारेणैवेति ।

अथ बहिरुपचारैरन्तःपूजायां वेण्व्आदिपूजा तद्अङ्गज्योतिर्
विलीनाङ्गस्य स्वस्याङ्गे तानि भाव्यन्त इति पूर्वहेतोरेव । तथा मानसादि
पूजायां भूतपूर्वतत्परिकरलीलासंवलितत्वमपि न कल्पनामयं
किन्तु यथार्थमेव । यतस्तस्य प्राकट्यसमये लीलास्तत्परिकराश्च ये
प्रादुर्बभूवुस्तादृशाश्चाप्रकटमपि नित्यं तदीये धाम्नि सङ्ख्यातीता
एव वर्तन्ते । असुरास्तु न तत्र चेतना किन्तु मन्त्रमयतत्प्रतिमानिभा
ज्ञेयाः । एवं विहारैः [भागवतम् १०.१४.५७] इत्यादौ, निलायनैः सेतुबन्धैर्
मर्कटप्लवनादिभिः [भागवतम् १०.१४.५७] इतिवत्तत्तल्लीलानां नानाप्रकाशैः
कौतुकेनानुक्रियमाणत्वाद्भगवत्सन्दर्भादौ हि तथा सन्यायं
दर्शितास्ति ।

अथ मानसपूजामाहात्म्यं यथा नारदपञ्चरात्रे श्रीनारायण
वाक्यम् अयं यो मानसो योगो जराव्याधिभयापहः इत्यादौ

यश्चैतत्परया भक्त्या सकृत्कुर्यान्महामते ।
क्रमोदितेन विधिना तस्य तुष्याम्यहं मुने ॥ इति ।

एषा क्वचित्स्वतन्त्रापि भवति । मनोमय्यां मूर्तेरष्टमतया
स्वातन्त्र्येण विधानात् अर्चादौ हृदये वापि यथोपलब्धोपचारकैः [भागवतम्
११.३.५१] इत्याविर्होत्रवचनेन वाशब्दात् ।

अथ पूजास्थानानि विचार्यन्ते । तानि च विविधानि । तत्र शालग्रामादिकं तत्
तद्भगवद्आकाराधिष्ठानमिति चिन्त्यम् । आकारवैलक्षण्यात् ।
शालग्रामशिला यत्र तत्र सन्निहितो हरिः इत्याद्य्उक्तेः । तत्र च
स्वेष्टाकारस्यैव भगवतोऽधिष्ठानं सुष्ठु सिद्धिकरम् । तस्मिन्न्
एवायत्नतस्तदीयप्राकट्यात् । मूर्त्याभिमतयात्मनः [भागवतम् ११.३.४९] इत्य्
उक्तेः । श्रीकृष्णादीनां तु मथुरादिक्षेत्रं महाधिष्ठानम् । मथुरा
भगवान् यत्र नित्यं सन्निहितो हरिः [भागवतम् १.१०.२८] इत्य्आद्य्उक्तेः । तथा तत्
तन्मन्त्रध्येयवैभवत्वेन मथुरावृन्दावनादीनां श्रीगोपाल
तापन्यादौ प्रख्यातत्वात् । मथुरादिक्षेत्राण्येवान्यत्राधिष्ठाने
ध्यानेन प्रकाश्य तेषु भगवांश्चिन्त्यते ।

अथ श्रीमत्प्रतिमायां तु तद्आकारकरूपतयैव चिन्तयन्ति आकारैक्यात् ।
शिलाबुद्धिः (पगे १५१) कृता किं वा प्रतिमायां हरेर्मया इति भावनान्तरे
दोषश्रवणाच्च । एवमेव श्रीभगवता चलाचलेति द्विविधा प्रतिष्ठा
जीवमन्दिरम् [भागवतम् ११.२७.१३] इत्युक्तम् । प्रतिष्ठा प्रतिमा जीवस्य जीवयितुः
परमात्मनो मम मन्दिरं मद्अङ्गप्रत्यङ्गैरेकाकारतास्पदमित्य्
अर्थः । यद्वा प्रतिष्ठालक्षणेन कर्मणा पूर्वोक्ता प्रतिमा मम तद्
आस्पदं भवतीत्यर्थः । तथा च श्रीहयशीर्षपञ्चरात्रे श्रीमूर्ति
प्रतिष्ठाप्रसङ्गे विष्णो सन्निहितो भव इति सान्निध्यकरणमन्त्र
विशेषानन्तरं मन्त्रान्तरम्

यच्च ते परमं तत्त्वं यच्च ज्ञानमयं वपुः ।
तत्सर्वमेकतो लीनमस्मिन् देहे विबुध्यताम् ॥ इति ।

अथवा जीवमन्दिरं सर्वजीवानां परमाश्रयः साक्षाद्भगवानेव
प्रतिष्ठेत्यर्थः । परमोपासकाश्च साक्षात्परमेश्वरत्वेनैव तां
पश्यन्ति । भेदस्फूर्तेर्भक्तिविच्छेदकत्वात्तथैव ह्युचितम् । इत्थम्
एवोक्तं भगवता

वस्त्रोपवीताभरण पत्रस्रग्गन्धलेपनैः ।
अलङ्कुर्वीत सप्रेम मद्भक्तो मां यथोचितम् ॥ [भागवतम् ११.२७.२८]

इत्यत्र मामिति सप्रेमेति च । अतएव विष्णुधर्मे तामधिकृत्य अम्बरीषं
प्रति श्रीविष्णुवाक्यम्

तस्यां चित्तं समावेश्य त्यज चान्यान् व्यापाश्रयान् ।
पूजिता सैव ते भक्त्या ध्याता चैवोपकारिणी ॥
गच्छंस्तिष्ठन् स्वपन् भुञ्जंस्तामेवाग्रे च पृष्ठतः ।
उपर्य्अधस्तथा पार्श्वे चित्नयंस्तामथात्मनः ॥ इत्यादि ।

अतएव तत्पूजायामावाहनादिकमित्थं व्याख्यातमागमे
आवाहनं चादरेण सम्मुखीकरणं प्रभोः ।
भक्त्या निवेशनं तस्य संस्थापनमुदाहृतम् ॥
तवास्मीति तदीयत्वदर्शनं सन्निधापनम् ।
क्रियासमाप्तिपर्यन्तस्थापनं सन्निबोधनम् ॥
सकलीकरणं प्रोक्तं तत्सर्वाङ्गप्रकाशनम् ॥ इति ।

अत्र शूद्रादिपूजितार्चापूजानिषेधवचनमवैष्णवशूद्रादिपरमेव

न शूद्रा भगवद्भक्तास्ते तु भागवता नराः ।
सर्ववर्णेषु ते शूद्रा ये न भक्ता जनार्दने ॥ इत्युक्तेः ।

अथ सप्तमे पात्रम् [भागवतम् ७.१४.२८] इत्यादौ श्रीनारदोक्तौ अधिष्ठान
विचारे श्रीमद्अर्चातोऽपि यः पूरुषमात्रातिशयस्तत्रापि ज्ञानिनः, स च
कैवल्यकामो भक्त्य्आश्रयः, तस्मिन् प्रकरणे ज्ञाननिष्ठाय देयानि
[भागवतम् ७.२५.१] इत्युपसंहारे ज्ञानिन एव दानपात्रत्वेन पर्मोत्कर्षोक्तेः ।
अन्यत्र तु न मे भक्तश्चतुर्वेदी, नायं सुखापो भगवानित्यादौ,
मुक्तानामपि सिद्धानाम् [भागवतम् ६.१४.४] इत्यादौ च भक्तस्यैव ततोऽप्य्
उत्कर्षः । किमुत तद्उपास्यायाः श्रीमद्अर्चायाः । अतएव तामुद्दिश्योक्तं
 नानुव्रजति यो मोहात्[भागवतम् ६.१४.४] इत्यादि । तथापि पात्रमित्यादीनाम्
अर्थोऽपि क्रमेण दर्श्यते (पगे १५२)

पात्रं त्वत्र निरुक्तं वै कविभिः पात्रवित्तमैः ।
हरिरेवैक उर्वीश यन्मयं वै चराचरम् ॥
देवर्ष्य्अर्हत्सु वै सत्सु तत्र ब्रह्मात्मजादिषु ।
राजन् यदग्रपूजायां मतः पात्रतयाच्युतः ॥ [भागवतम् ७.१४.३४३५]

[२८७]

तत्र राजसूये जीवराशिभिराकीर्ण [भागवतम् ७.१४.३६] इत्यादि ।

[२८८]

सर्वेषां जीवानामात्मनश्च तर्पणरूपा सैव भवतीत्यर्थः पुराण्य्
अनेन [भागवतम् ७.१४.३७] इत्यादि ।

[२८९]

जीवेन जीवयित्वा जीवान्तर्यामिरूपेणेत्यर्थः तेष्वेव भगवान् [भागवतम्
७.१४.३८] इत्यादि । तस्मात्तारतम्यवर्तनात्पुरुषः प्रायो मनुष्यः पात्रम् ।
तत्र ज्ञानादिकं विशिष्टमिति भगवद्वर्तनस्यातिशयात् । तत्रापि आत्मा
यावान् यथा ज्ञानादिपरिमाणादिकस्तथासौ पात्रमित्यर्थः ।

[२९०]

एवं स्थितेऽपि कालेनोपासकदोषोत्पत्तौ सत्यां भेददृष्ट्या विशिष्टम्
अधिष्ठानान्तरं प्रकाशितमित्याह

दृष्ट्वा तेषां मिथो नृणामवज्ञानात्मतां नृप ।
त्रेतादिषु हरेरर्चा क्रियायै कविभिः कृता ॥ [भागवतम् ७.१४.३८]

मिथोऽवज्ञानमसम्मानंस्तस्मिन्नात्मा बुद्धिर्येषां भावं दृष्ट्वा
क्रियायै पूजाद्य्अर्थमर्चा कृता तत्परिचर्यामार्गदर्शनाय सा
प्रकाशितेत्यर्थः । एतेन तादृशदोषयुक्तेष्वपि कार्यसाधकत्वात्
श्रीमद्अर्चाया आधिक्यमेव व्यञ्जितम् । प्रतिमा स्वल्पबुद्धीनामित्यत्र
च अल्पबुद्धीनामपीत्यर्थः । नृसिंहपुरानादौ
ब्रह्माम्बरीषादीनामपि तत्पूजाश्रवणात् ।

[२९१]

ततोऽर्चायां [भागवतम् ७.१४.४०] । तत एवं प्रभावात् । केचिदित्यधिष्ठान
वैशिष्ट्येन पूर्वतोऽप्युत्तमसाधनतत्परा इत्यर्थः । नन्ववज्ञावद्
द्वेषेऽपि सिद्धिः स्यादित्याशङ्क्यातिप्रसङ्गवारणेच्छया प्रस्तुतपुरुष
रूपाधिष्ठानादररक्षेच्छया च तं वारयति उपास्तापि इति ।

[२९२]

अथ पुरुषेषु पूर्वोक्तविशेषं जात्य्आदिना विवृणोति पुरुषेष्वपि [भागवतम्
७.१४.४१] इति । यो धत्ते तं सुपात्रं विदुः ।

[२९३]

पूर्वोक्तं ब्राह्मणरूपं पात्रमेव स्तौति नन्वस्य [भागवतम् ७.१४.४२] इत्य्
आदिना । जगद्आत्मनो जगति लोकसङ्ग्रहधर्माधिप्रवर्तनेन तन्
नियन्तुरित्यर्थः । दैवतं पूज्यत्वेन दर्शितम् ।

॥ ७.१४ ॥ श्रीनारदो युधिष्ठिरम् ॥ २८६२९३ ॥
[२९४]

अथ तद्अनन्तराध्यायस्यादावेव तेषु सर्वोत्कृष्टमाह द्वाभ्याम्
कर्मनिष्ठाः [भागवतम् ७.१५.१] इत्यादि ।

अनेन यथात्र मुमुक्षुप्रभृतीनां ज्ञानिपूजैव मुख्या, पुरुषान्तर
पूजा तु तद्अभाव एव तथा प्रेमभक्तिकामानां प्रेमभक्तपूजा
ज्ञेया । ततः प्रेमभक्तानामपि यच्चित्तस्य परमाश्रयरूपं (पगे १५३)
तदभिव्यक्तेः सुतरामेवार्चाया आधिक्यमपि । एवं तद्आश्रयरूपस्य
विलक्षणप्रकाशस्थानत्वादेव श्रीविष्णोर्व्यापकत्वेऽपि शालग्रामादिषु
निर्धारणम् । तच्च पुरुषवन्नान्तर्यामिदृष्ट्य्अपेक्षम् । किन्तु
स्वभावनिर्देशपरमेव । तन्निवासक्षेत्रादीनां महा
तीर्थत्वापादनादिना कीकटादीनामपि कृतार्तह्त्वकथनात् । तथा च
स्कान्दे
शालग्रामशिला यत्र तत्तीर्थं योजनत्रयम् ।
तत्र दानं जपो होमः सर्वं कोटिगुणं भवेत् ॥

पाद्मे
शालग्रामसमीपे तु क्रोशमात्रं समन्ततः ।
कीकटेऽपि मृतो याति वैकुण्ठभुवनं नरः ॥ इति ।

तस्मादर्चाया आधिक्यमेव हि स्थितम् ।

॥ ७.१५ ॥ श्रीनारदो युधिष्ठिरम् ॥ २९४ ॥

[२९५]

अथाधिष्ठानन्तराणि चैवम् । यथा

सूर्योऽग्निर्ब्राह्मणा गावो वैष्णवः खं मरुज्जलम् ।
भूरात्मा सर्वभूतानि भद्र पूजापदानि मे ॥
सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् ।
आतिथ्येन तु विप्राग्र्ये गोष्वङ्ग यवसादिना ॥
वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया ।
वायौ मुख्यधिया तोये द्रव्यैस्तोयपुरःसरैः ॥
स्थण्डिले मन्त्रहृदयैर्भोगैरात्मानमात्मनि ।
क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम् ॥
धिष्ण्येष्वित्येषु मद्रूपं शङ्खचक्रगदाम्बुजैः ।
युक्तं चतुर्भुजं शान्तं ध्यायन्नर्चेत्समाहितः ॥ [भागवतम् ११.११.४२४६]

टीका च इदानीमेकादश पूजाधिष्ठानान्याह सूर्य इति । हे भद्र !
अधिष्ठानभेदेन पूजासाधनभेदमाह सूर्य इति त्रिभिः । त्रय्या
विद्यया सूक्तैरुपस्थानादिना । अङ्ग हे उद्धव ! मुख्यधिया प्राण
दृष्ट्या । तोये तोयादिभिर्द्रव्यैस्तर्पणादिना । स्थण्डिले भुवि । मन्त्र
हृदयै रहस्यमन्त्रन्यासैः । सर्वाधिष्ठानेषु ध्येयमाह धिष्णेष्व्
एतेष्विति । इति अनेन प्रकारेण एष धिस्ण्येषु । इत्येषा ।

अत्र सर्वत्र चतुर्भुजस्यैवानुसन्धाने सत्यपि द्विधा गतिः ।
एकाधिष्ठानपरिचर्यैवाधिष्ठातुरुपासनालक्षणा । मन्दिर
लेपनादिना तद्अधिष्ठातृप्रतिष्ठाया इव । यथा वैष्णवे बन्धुसत्
कृत्या गोष्वङ्ग यवसादिनेत्यादि । यतो बन्धुसत्कारो वैष्णवविषयक
ईश्वरे तु प्रभुभाव उपदिश्यते । ईश्वरे तद्अधीनेषु [भागवतम् ११.२.४४] इत्य्
आदौ । तथा गोसम्प्रदानकमेव यवसादिभोजनदानं युज्यते । न तु
श्रीचतुर्भुजसमप्रदानकमभक्ष्यत्वात् ।

यद्यदिष्टतमं लोके यच्चातिप्रियमात्मनः ।
तत्तन्निवेदयेन्मह्यं तदानन्त्याय कल्पते ॥ [भागवतम् ११.११.४१]

इति तत्र च पूर्वमुक्तम् । अन्या तु साक्षादधिष्ठातुरुपासनालक्षणा ।
यथा हृदि खे ध्याननिष्ठया तोये द्रव्यैस्तोयपुरस्कृतैरित्यादि ।
अत्राग्न्य्आदौ तद्अन्तर्यामिरूपस्यैव चिन्तनं कार्यम् ।

न जातु निजप्रेमसेवाविशेषाश्रयस्वाभीष्टरूपविशेषस्य । स तु
सर्वथा परमसुकुमारत्वादिबुद्धिजनितया प्रीत्यैव सेवनीयः ।
यथोक्तं श्रीभगवतैव वस्त्रोपवीताभरणैः [भागवतम् ११.२७.२९] (पगे १५४)
इत्यादि । तेषां यथाभक्तिरीत्या परमेश्वरस्यापि तथाभावः श्रूयते ।
यथा नारदीये

भक्तिग्राह्यो हृषीकेशो न धनैर्धरणीधर ।
भक्त्या संपूजितो विष्णुः प्रददाति मनोरथम् ॥
तस्माद्विप्राः सदा भक्तिः कर्तव्या चक्रपाणिनः ।
जनेनापि जगन्नाथः पूजितः क्लेशहा भवेत् ॥ [णार्ড়् २.३.३४] इति ।

अत्र दृष्टान्त उपजीव्यः । वैपरीत्ये दोषश्च । यथा ग्रीष्मे जलस्य पूजा
प्रशस्ता वर्षासु निन्दिता । यदुक्तं गारुडे

शुचिशुक्रगते काले येऽर्चयिष्यन्ति केशवम् ।
जलस्थं विविधैः पुष्पैर्मुच्यन्ते यमताडनात् ॥
धनागमे प्रकुर्वन्ति जलस्थं वै जनार्दनम् ।
ये जना नृपतिश्रेष्ठ तेषां वै नरकं ध्रुवम् ॥ इति ।

एवमन्यत्रापि परिचर्याविधौ तद्देशकालसुखदानि शतशो विहितानि ।
तद्विपरीतानि निषिद्धानि च । विष्णुयामले विष्णोः सर्वर्तुचर्यामिति ।
अतएवोक्तं यद्यदिष्टतमो लोके [भागवतम् ११.११.४०] इत्यादि । तत्र तत्रेष्ट
मन्त्रध्यानस्थलं च सर्वर्तुमुखमयमनोहररूपरसगन्ध
स्पर्शशब्दमयत्वेनैव ध्यातुं विहितमस्ति । अन्यथा तत्तद्आग्रहस्य
वैयर्थ्यं स्यात् । तस्मादग्न्य्आदौ तत्तद्अन्तर्यामिरूप एव भाव्य इति
स्थितम् ।

॥ ११.११ ॥ श्रीभगवान् ॥ २९५ ॥

[२९६२९७]

अथ नैवेद्यार्पणप्रसङ्गे यः क्रमदीपिकादर्शितो निरुद्ध
नामात्मको मन्त्रस्तस्य स्थाने श्रीकृष्णैकान्तिकभक्तास्तु तन्मूल
मन्त्रमेवेच्छन्ति । तथा यच्च तन्मुखज्योतिर्अनुगतत्वेन ध्यातुं
विधीयते, तत्तु भोजनसमये तन्मुखप्रसादमेव मन्यन्ते ।
भोजनं तु यथा लोकसिद्धमेव नरलीलात्वात्श्रीकृष्णस्य ।

अथ जपे मन्त्रार्थस्य नानात्वेऽपि पुरुषार्थानुकूल एवासौ चिन्त्यः । यथा
श्रीमद्अष्टाक्षरादावात्मनिवेदनलक्षणचतुर्थ्याद्यभाववति मन्त्रे
तद्अनुसन्धानेनएति । एवमन्येऽपि पूजाविधयो यथायथं योजनीयाः ।

शुद्धभक्तिसिद्ध्य्अर्थं सर्वासां भक्तीनामेव शुद्धत्वाशुद्धत्व
रूपेण द्विविधो हि भेदः सम्मत इति । तदेतद्अर्चनं फलेनाह

एवं क्रियायोगपथैः पुमान् वैदिकतान्त्रिकैः ।
अर्चन्नुभयतः सिद्धिं मत्तो विन्दत्यभीप्सिताम् ॥ [भागवतम् ११.२७.४९]

उभयत इहामुत्र च । यथा

मामेव नैरपेक्ष्येण भक्तियोगेन विन्दति ।
भक्तियोगं स लभत एवं यः पूजयेत माम् ॥ [भागवतम् ११.२७.५३]

नैरपेक्ष्येण निरुपाधिना भक्तियोगेन प्रेम्णा । स च भक्तियोग एवं
पूजायाः स्यादित्याह भक्तीति ।

॥ ११.२७ ॥ श्रीभगवान् ॥ २९६२९७ ॥

[२९८]

यानि चात्र वैष्णवचिह्नान निर्माल्यधारणचरणामृतपानादीन्यङ्गानि
तेषां च पृथक्पृथक्माहात्म्यवृन्दं शास्त्रसहस्रेष्वनुसन्धेयम् ।

अथार्चनाधिकारिनिर्णयः ।

एतद्वै सर्ववर्णानामाश्रमाणां च सम्मतम् ।
श्रेयसामुत्तमं मन्ये स्त्रीशूद्राणां च मानद ॥ [भागवतम् ११.२७.४] (पगे
१५५)

सर्ववर्णानां त्रैवर्णिकानाम् । तथा च स्मृत्य्अर्थसारे पाद्मे च
वैशाखमाहात्म्ये

आगमोक्तेन मार्गेण स्त्रीशूद्रैरपि पूजनम् ।
कर्तव्यं श्रद्धया विष्णोश्चिन्तयित्वा पतिं हृदि ॥
शूद्राणां चैव भवति नाम्ना वै देवतार्चनम् ।
सर्वेऽप्यागममार्गेण कुर्युर्वेदानुकारिणा ॥
स्त्रीणामप्यधिकारोऽस्ति विष्णोराराधनादिषु ।
पतिप्रियरतानां च श्रुतिरेषा सनातनी ॥ [ড়द्मড়् ६.८४.४८, ५२४] इति ।

विष्णुधर्मे[*Eण्ड्ण्Oट्E ॰५]
देवतायां च मन्त्रे च तथा मन्त्रप्रदे गुरौ ।
भक्तिरष्टविधा यस्य तस्य कृष्णः प्रसीदति ॥
तद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् ।
सुमना अर्चयेन्नित्यं तद्अर्थे दम्भवर्जनम् ॥
तत्कथाश्रवणे रागस्तद्अर्थे चाङ्गविक्रिया ।
तद्अनुस्मरणं नित्यं यस्तन्नामोपजीवति ॥
भक्तिरष्टविधा ह्येषा यस्मिन्म्लेच्छेऽपि वर्तते ।
स मुनिः सत्यवादी च कीर्तिमान् स भवेन्नरः ॥ इति ।

किं च तत्त्वसागरे
यथा काञ्चनतां याति कांस्यं रसविधानतः ।
तथा दीक्षाविधानेन द्विजत्वं जायते नॄणाम् ॥ इति ।

अथ कृते शुक्लश्चतुर्बाहुः [भागवतम् ११.५.१९] इत्यादिना युगभेदे यश्
चोपासनायामाविर्भावभेद उच्यते, स च प्रायिक एव । तेभ्यश्
चतुर्भ्योऽन्येषामुपासना शास्त्रादेव । अन्यथेतरोपासनायाः
कालासमावेशः स्यात् । श्रूयन्ते च सर्वत्र युगे सर्वोपासकाः । तस्मात्सर्वैर्
अपि सर्वदापि यथेच्छं सर्व एवाविर्भावाः पूज्या इति स्थ्तिअम् । अत एतद्वै
सर्ववर्णानां [भागवतम् ११.२७.४] इत्यादिकं सर्वसम्मतमेव ॥

॥ ११.२७ ॥ उद्धवः श्रीभगवन्तम् ॥ २९८ ॥

[२९९]

तदेतद्अर्चनं व्याख्यातम् । अस्याङ्गानि चागमादौ ज्ञेयानि । तथा श्री
कृष्णजन्माष्टमीकार्त्तिकव्रतैकादशीमाघस्नानादिकमत्रैवान्तर
भाव्यम् । तत्र जन्माष्टमी यथा विष्णुरहस्ये ब्रह्मनारदसंवादे


तुष्ट्य्अर्थं देवकीसूनोर्जयन्तीसम्भवं व्रतम् ।
कर्तव्यं वित्ताशाठ्येन भक्त्या भक्तजनैरपि ।
अकुर्वन् याति निरयं यावदिन्द्राश्चतुर्दश ॥ इति ।

तथा
कृष्णजन्माष्टमीं त्यक्त्वा योऽन्यद्व्रतमुपासते ।
नाप्नोति सुकृतं किञ्चिद्दृष्टं श्रुतमथापि वा ॥ इति ।

वित्ताशाठ्यं चोक्तमष्टमे
धर्माय यशसेऽर्थाय कामाय स्वजनाय च ।
पञ्चधा विभजन् वित्तमिहामुत्र च मोदते ॥ [भागवतम् ८.१९.३७] इति ।

अथ कार्त्तिको यथा स्कान्दे एकतः सर्वतीर्थानि इत्यादिकमुक्त्वा
एकतः कार्त्तिको वत्स सर्वदा केशवप्रियः ।
यत्किञ्चित्क्रियते पुण्यं विष्णुमुद्दिश्य कार्त्तिके ।
तद्अक्षयं भवेत्सर्वं सत्योक्तं तव नारद ॥ इति ।

अव्रतेन क्षिपेद्यस्तु मासं दामोदरप्रियम् ।
तिर्यग्योनिमवाप्नोति सर्वधर्मबहिष्कृतः ॥ इति ।

अथैकादशी तत्र तावदस्या अवैष्णवेऽपि नित्यत्वम् । तत्र सामान्यतः
विष्णुधर्मे वैष्णवो वाथ सौरो वा कुर्यादेकादशीव्रतमिति ।

सौरपुराणे
वैष्णवो वाथ शैवो वा सौरोऽ (पगे १५६) प्येतत्समाचरेतिति । विशेषतश्च
नारदपञ्चरात्रे दीक्षानन्तरावश्यकृत्यकथने समयाश्च
प्रवक्ष्यामि इत्यादौ ।

एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि ।
जागरं निशि कुर्वीत विशेषाच्चार्चयेद्विभुम् ॥ इति ।

विष्णुयामलेऽपि तत्कथने दिग् । बिद्धैकादशीव्रतम्
शुक्लाकृष्णाविभेदश्चासद्व्यापारो व्रते तथा ।
शक्तौ फलादिभुक्तिश्च श्राद्धं चैकादशीदिने ॥
द्वादश्यां च दिवास्वापस्तुलस्यावचयस्तथा ॥

तत्र विष्णोर्दिवा स्नानमपि निषिद्धत्वेनोक्तम् । पाद्मोत्तरखण्डे च
वैष्णवधर्मकथने द्वादशीव्रतनिष्ठता इति । तथा स्कान्दे काशी
खण्डे सौपर्णद्वारकामाहात्म्ये चचन्द्रशर्मणो भगवद्धर्म
प्रतिज्ञा

अद्यप्रभृति कर्तव्यं यन्मया कृष्ण तच्छृणु ।
एकादश्यां न भोक्तव्यं कर्तव्यो जागरः सदा ॥
महाभक्त्यात्र कर्तव्यं प्रत्यहं पूजनं तव ।
पलार्धेनापि बिद्धं तु मोक्तव्यं वासरं तव ॥
त्वत्प्रीत्याष्टौ मया कार्या द्वादश्यां व्रतसंयुताः ॥ इत्यादिकाः ।

अत उक्तमाग्नेये एकादश्यां न भोक्तव्यं तद्व्रतं वैष्णवं महत् । इति ।

गौतमीये
वैष्णवो यदि भुञ्जीत एकादश्यां प्रमादतः ।
विष्ण्व्अर्चनं वृथा तस्य नरकं घोरमाप्नुयात् ॥

मत्स्यभविष्यपुराणयोः
एकादश्यां निराहारो यो भुङ्क्ते द्वादशीदिने ।
शुक्ला वा यदि वा कृष्णा तद्व्रतं वैष्णवं महत् ॥ इति ।

स्कान्दे
मातृहा पितृहा चैव भ्रातृहा गुरुहा तथा ।
एकादश्यां तु यो भुङ्क्ते विष्णुलोकच्युतो भवेत् ॥ इति ।

अत्र वैष्णवानां निराहारत्वं नाम महाप्रसादान्नपरित्याग एव ।
तेषामन्यभोजनस्य नित्यमेव निषिद्धत्वात् । यथोक्तं नारद
पञ्चरात्रे

प्रसादान्नं सदा ग्राह्यमेकादश्यां न नारद ।
रमादिसर्वभक्तानामितरेषां च का कथा ॥ इति ।

ब्रह्माण्डपुराणे
पत्रं पुष्पं फलं तोयमन्नपानाद्यमौषधम् ।
अनिवेद्य च भुञ्जीत यदाहाराय कल्पितम् ॥
अनिवेद्यं तु भुञ्जानः प्रायश्चित्ती भवेन्नरः ।
तस्मात्सर्वं निवेद्यैव विष्णोर्भुञ्जीत सर्वदा ॥ इति ।

जागरस्यापि नित्यत्वं यथा स्कान्दे उमामहेश्वरसंवादे
सम्प्राप्ते वासरे विष्णोर्ये न कुर्वन्ति जागरम् ।
भ्रश्यते सुकृतं तेषां वैष्णवानां च निन्दया ॥
मतिर्न जायते यस्य द्वादश्यां जागरं प्रति ।
न हि तस्याधिकारोऽस्ति पूजने केशवस्य हि ॥ इति ।

तद्वत्तस्य विष्णुप्रीतिदत्वं च श्रूयते पाद्मोत्तरखण्डे (पगे १५७)
शृणु देवि प्रवक्ष्यामि द्वादश्याश्च विधानकम् ।
तस्याः स्मरणमात्रेण सन्तुष्टः स्याज्जनार्दनः ॥ [ড়द्मড়् ६.२३४.३]

भविष्ये
एकादशी महापुण्या सर्वपापविनाशिनी ।
भक्तेस्तु दीपनी विष्णोः परमार्थगतिप्रदा ॥ इति ।

अतएव श्रीमद्अम्बरीषादीनां भक्त्य्एकनिष्ठानां महाप्रसादभुजां
तद्व्रतं दर्शयता श्रीभागवतेनापि तद्अन्तरङ्गवैष्णवधर्मत्वेन
सम्मतमिति दिक् । पाद्मे कार्त्तिकमाहात्म्ये च ब्राह्मणकन्यायाः
कार्त्तिकव्रतैकादशीव्रतप्रभावात्श्रीमत्सत्यभामाख्यभगवत्
प्रयसीपदप्राप्तिरपि श्रूयते । किं बहुना । अथ माघः सौपर्णे

दुर्लभो माघमासस्तु वैष्णवानामतिप्रियः ।
देवतानामृषीणां च मुनीनां सुरनायक ।
विशेषेण शचीनाथ माघवस्यातिवल्लभः ॥ इति ।

स्कान्दे ब्रह्मनारदसंवादे
सर्वपापविनाशाय कृष्णसन्तोषणाय च ।
माघस्नानं सदा कार्यं वर्षे वर्षे च नारद ॥ इति ।

भविष्योत्तरे
एकविंशगणैः सार्धं भोगान् त्यक्त्वा यथेप्सितम् ।
माघमास्युषसि स्नात्वा विष्णुलोकं स गच्छति ॥ इति ।

एवं श्रीरामनवमीवैशाखव्रतादयश्चात्र ज्ञेयाः । एतत्सर्वमपि
सद्आचारकथनद्वारा विधत्ते गां पर्यटन् [भागवतम् ३.१.१८] इत्यादौ
व्रतानि चेरे हरतोषणानि इति ॥

व्रतानि एकादश्यादीनीति । विदुर इति प्रकरणलब्धम् ।

॥ ३.१ ॥ श्रीशुकः ॥ २९९ ॥

[३००]

एवं तादृशव्रतेष्वपि तत्तद्उपासकानां स्वस्वेष्टदैवतव्रतं सुष्ठ्व्
एव विधेयमित्यागतम् । तथास्मिन् पादसेवार्चनमार्गे यानैर्वा
पादुकैर्वापि गमनं भगवद्गृहे इत्यादिना आगमोक्ता ये द्वात्रिंशद्
अपराधास्तथा राजन्नभक्षणं चैवमित्यादिना तद्उक्ता ये चान्ये
बहवस्ते सर्वे

ममार्चनापराधा ये कीर्त्यन्ते वसुधे मया ।
वैष्णवेन सदा ते तु वर्जनीयाः प्रयत्नतः ॥ इति वाराहानुसारेण ।

परित्याज्या इत्याशयेनाह

श्रद्धयोपाहृतं प्रेष्ठं भक्तेन मम वार्यपि ।
भूर्यप्यभक्तोपहृतं न मे तोषाय कल्पते ॥ [भागवतम् ११.२७.१८]
श्रद्धाभक्तिशब्दाभ्यामत्रादर एव विधीयते । अपराधास्तु
सर्वेऽनादरात्मका एव । प्रभुत्ववमानतश्च आज्ञावमानतश्च । तस्माद्
अपराधनिदानमत्रानादर एव परित्याज्य इत्यर्थः ।

॥ ११.२७ ॥ श्रीभगवान् ॥ ३०० ॥

[३०१]

महतामनादरस्तु सर्वनाशक इत्याह

न भजति कुमनीषिणां स इज्यां
हरिरधनात्मधनप्रियो रसज्ञः ।
श्रुतधनकुलकर्मणां मदैर्ये
विदधति पापमकिञ्चनेषु सत्सु ॥ [भागवतम् ४.३१.२१] (पगे १५८)

अधनाश्च ते आत्मधनाश्च ते प्रिया यस्य सः । रसज्ञो भक्तिरसिको
हरिः । के कुमनीषिण इत्यपेक्षायामाह श्रुतेति । पापमपराधम् ॥

॥ ४.३१ ॥ श्रीनारदः प्रचेतसः ॥ ३०१ ॥

[३०२]

किं च

न विक्रिया विश्वसुहृत्सखस्य
साम्येन वीताभिमतेस्तवापि ।
महद्विमानात्स्वकृताद्धि मादृङ्
नङ्क्ष्यत्यदूरादपि शूलपाणिः ॥ [भागवतम् ५.१०.२५]

स्पष्टम् ॥ ५.१० ॥ रहूगनः श्रीभरतम् ॥ ३०२ ॥

[३०३]

अथ तथापि प्रामादिके भगवद्अपराधे पुनर्भगवत्प्रसादनानि
कर्तव्यानि । यथा स्कान्दे अवन्तीखण्डे श्रीव्यासोक्तौ

अहन्यहनि यो मर्त्यो गीताध्यायं पठेत्तु वै ।
द्वात्रिंशद्अपराधांस्तु क्षमते तस्य केशवः ॥ इति ।

तत्रैव द्वारकामाहात्म्ये
सहस्रनाममाहात्म्यं यः पठेच्छृणुयादपि ।
अपराधसहस्रेण न स लिप्येत्कदाचन ॥ इति ।

तत्रैव रेवाखण्डे
द्वादश्यां जागरे विष्णोर्यः पठेत्तुलसीस्तवम् ।
द्वात्रिंशद्अपराधानि क्षमते तस्य केशवः ॥ इति ।

तत्रैवान्यत्र
तुलस्या रोपणं कार्यं श्रावणेषु विशेषतः ।
अपराधसहस्राणि क्षमते पुरुषोत्तमः ॥ इति ।

तत्र वान्यत्र कार्त्तिकमाहात्म्ये
तुलस्या कुरुते यस्तु शाग्रामशिलार्चनम् ।
द्वात्रिंशद्अपराधांश्च क्षमते तस्य केशवः ॥ इति ।

अन्यत्र
यः करोति हरेः पूजां कृष्णशत्राङ्कितो नरः ।
अपराधसहस्राणि नित्यं हरति केशवः ॥ इति ।

आदिवाराहे
संवत्सरस्य मध्ये तु तीर्थे शौकरके मम ।
कृतोपवासः स्नानेन गङ्गायां शुद्धिमाप्नुयात् ॥
मथुरायां तथाप्येवं सापराधः शुचि भवेत् ।
अनयोस्तीर्थयोरेकं यः सेवेत सुकृती नरः ॥
सहस्रजन्मजनितानपराधान् जहाति सः ॥ इति ।

शौकरके शूकरक्षेत्राख्ये । महद्अपराधस्तु चाटुकारादिना वा तत्
प्रीत्य्अर्थकृतेन निरन्तर=दीर्घकालीनभगवन्नामकीर्तनेन वा तं
प्रसाद्य क्षमापनीय इत्यवोचामैव । तत्प्रसादं विना तद्असिद्धेः ।
अतएवोक्तं श्रीशिवं दक्षेण

योऽसौ मयाविदिततत्त्वदृशा सभायां
क्षिप्तो दुरुक्तिविशिखैर्विगणय्य तन्माम् ।
अर्वाक्पतन्तमर्हत्तमनिन्दयापाद्
दृष्ट्यार्द्रया स भगवान् स्वकृतेन तुष्येत् ॥ [भागवतम् ४.७.१५] इति ।

एवमुत्तरत्रापि ज्ञेयम् ।

अथ वन्दनम् । तच्च यद्यप्यर्चनाङ्गत्वेनापि वर्तते तथापि कीर्तन
स्मरणवत्स्वातन्त्र्येणादीत्यभिप्रेत्य पृथग्विधीयते । एवमन्यत्रापि
ज्ञेयम् । वन्दनस्य पृथग्विधानं चानन्तगुणैश्वर्यश्रवणात्तद्
गुणानुसन्धानपादसेवादौ विधृतदैन्यानां नमस्कारमात्रे
कृताध्यवसायानामर्थे । स एव नमस्कारस्तस्यार्चनत्वेनाप्यतिदिष्टः ।
यथा नारसिंहे (पगे १५९)

नमस्कारः स्मृतो यज्ञः सर्वयज्ञेषु चोत्तमः ।
नमस्कारेण चकेन साष्टाङ्गेन हरिं व्रजेत् ॥ इति ।

तदेतद्वन्दनं यथा

तत्तेऽनुकम्पां सुसमीक्षमाणो
भुञ्जान एवात्मकृतं विपाकम् ।
हृद्वाग्वपुर्भिर्विदधन्नमस्ते
जीवेत यो मुक्तिपदे स दायभाक् ॥ [भागवतम् १०.१४.८]

यस्माद्गुणात्मनस्तेऽपि गुणान् विमातुम् [भागवतम् १०.१४.७] इत्यादिना तादृशत्वम्
उच्यते तत्तस्मात् । नमो नमस्कारम् । मुक्तिपदे नवमपदार्थस्य
मुक्तेरप्याश्रये परिपूर्णदशमपदार्थे । यद्वा मुक्तिरिह पञ्चम
स्थगद्यानुसारेण प्रेमैव तत्पदे तद्विषये परिपूर्णभगवल्लक्षणे
त्वयि दायभाग्भवति । भ्रातृवण्टन इव त्वं तस्य दायत्वेन वर्तस इत्य्
अर्थः । मुक्तिमात्रं तु सकृन्नमस्कारेणैवासन्नं स्यात् । यथा विष्णु
धर्मे

दुर्गसंसारकान्तारमपारमभिधावताम् ।
एकः कृष्णे नमस्कारो मुक्तितीरस्य देशिकः ॥ इति ।

तत्ते इत्यत्र सुसमीक्षमाणः इति टीका । यद्वा प्रतिक्षणं निरुपाधि
कृपयैव प्रभुणा तथा तथा क्रियमाणामनुकम्पां सुष्ठुरूपाम्
ईक्षमाणस्तत्रानन्दीभवन् तां सम्यक्पश्यन् विभावयन् तथा हृदा यद्
वा वाचा यद्वा वपुषा नमो विदधज्जन इत्यादि व्याख्या ज्ञेया ।
नमस्कारेऽप्यपराधाश्चैते परिहर्तव्याः विष्णुस्मृत्य्आदिदृष्ट्या । ये
खलु एकहस्तकृतत्ववस्त्रावृतदेहत्वभगवद्अग्रपृष्ठवाम
भागात्यन्तनिकटगर्भमन्दिरगतत्वादिमयाः ।

॥ १०.१४ ॥ श्रीब्रह्मा भगवन्तम् ॥ ३०३ ॥

[३०४]

अथ दास्यम् । तच्च श्रीविष्णोर्दासंमन्यत्वम् ।

जन्मान्तरसहस्रेषु यस्य स्यान्मतिरीदृशी ।
दासोऽहं वासुदेवस्य सर्वान् लोकान् समुद्धरेत् ॥ इत्युक्तलक्षणम् ।

अस्तु तावद्भजनप्रयासः केवलतादृशत्वाभिमानेनापि सिद्धिर्भवतीत्य्
अभिप्रेत्यैवोत्तरत्र निर्देशश्च तस्य । यथोक्तं जन्मान्तर इत्येतत्
पद्यस्यैवान्ते किं पुनस्तद्गतप्राणाः पुरुषाः संयतेन्द्रियाः इति । श्री
प्रह्लादस्तुतौ तत्तेऽर्हत्तम [भागवतम् ७.९.४९] इत्यादिपद्ये तु नमस्तुतिसर्व
कर्मार्पणपरिचर्याचरणस्मृतिकथाश्रवणात्मकं दास्यं टीकायां
सम्मतम् । श्रीमद्उद्धववाक्ये च

त्वयोपभुक्तस्रग्गन्ध वासोऽलङ्कारचर्चिताः ।
उच्छिष्टभोजिनो दासास्तव मायां जयेम हि ॥ [भागवतम् ११.६.४६] इति ।

तत्र तत्र च कार्यद्वारैव निर्दिष्टम् । उदाहरणं तु स वै मनः
कृष्णपदारविन्दयोः [भागवतम् ९.४.१५] इत्यादौ । कामं च दास्ये न तु काम
काम्यया [भागवतम् ९.४.१७] भोगेच्छया तं चकार इति वासनान्तरव्यवच्छेदः ॥

॥ ९.४ ॥ श्रीशुकः ॥ ३०४ ॥

[३०५]

तदेतद्दास्यसम्बन्धेनैव सर्वमपि भजनं महत्तरं भवतीत्य्
आह
यन्नामश्रुतिमात्रेण पुमान् भवति निर्मलः ।
तस्य तीर्थपदः किं वा दासानामवशिष्यते ॥ [भागवतम् ९.५.१६]

यस्य भगवतो नामश्रवणमात्रेण यथा कथञ्चित्तच्छ्रवणेन किं
पुनः सम्यक्तत्तद्भजनेनेत्यर्थः । (पगे १६०) तर्हि दासोऽस्मीत्य्
अभिमानेन सम्यगेव भजतां सर्वत्र साधने साध्ये च किमवशिष्यते ।
तद्अधिकमन्यत्किमपि नास्तीत्यर्थः ॥

॥ ९.५ ॥ दुर्वासा श्रीमद्अम्बरीषम् ॥ ३०५ ॥

[३०६]

अथ सख्यम् । तच्च हिताशंसनमयं बन्धुभावलक्षणम् । यन्
मित्रं परमानन्दम् [भागवतम् १०.१४.३०] इत्यत्र तथैव मित्रपदन्यासात् ।
यथा रामार्चनचन्द्रिकायाम्

परिचर्यापराः केचित्प्रासादादिषु शेरते ।
मनुष्यमिव तं द्रष्टुं व्यवहर्तुं च बन्धुवत् ॥ इति ।

अस्य चोत्तरत्र पाठः प्रेमविश्रम्भवद्भावनामयत्वेन दास्यादप्य्
उत्तमत्वापेक्षया । किं च परमेश्वरेऽपि यत्सख्यं शास्त्रे विधीयते तन्
नाश्चर्यम् । न देवो देवमर्चयेतिति तद्भावस्यापि विधानश्रवणात् ।
किन्तु तद्भावस्तत्सेवाविरुद्ध इति शुद्धभक्तैरुपेक्ष्यते । सख्यं तु
परमसेवानुकूलमित्युपादीयत इति । तदेतत्साक्षाद्भजनात्मकं
दास्यं सख्यं च टीकायामपि दर्शितमस्ति

तस्यैव मे सौहृदसख्यमैत्री
दास्यं पुनर्जन्मनि जन्मनि स्यात् । [भागवतम् १०.८१.२९] इत्यत्र श्रीदामविप्र
वाक्ये ।

यथा श्रीकृष्णस्य भक्तवात्सल्यं दृष्ट्वा तद्भक्तिं प्रार्थयते तस्येति ।
सौहृदं प्रेम च सख्यं हिताशंसनं च मैत्री उपकारित्वं च दास्यं
सेवकत्वं च । तत्समाहार एकवचनम् । तस्य सम्बन्धि मे मम स्यात्,
न तु विभूतिरित्येतत् । तत्र नवविधायां साध्यत्वात्प्रेमा
नान्तर्भाव्यते । मैत्री तु सख्य एवान्तर्भाव्येति दास्यसख्ये द्वे एव
गृहीते । अत्र च ताभ्यां कर्मार्पणविश्वासौ न व्याख्यातौ साक्साद्
भक्तित्वाभावात् । कर्मार्पणस्य फलं भक्तिर्विश्वासश्च भक्त्य्
अभिनिवेशहेतुरितीह पूर्वमुक्तम् । तच्च भगवद्विषयहिताशंसन
मयं सख्यम् । भगवत्कृतहिताशंसनस्य नित्यत्वात्, तेन सह तस्य नित्य
सहवासाच्च । भजनविशेषेणापि विशिष्टं सम्पादयितुं नातिदुष्करं स्याद्
इत्याह

कोऽतिप्रयासोऽसुरबालका हरेर्
उपासने स्वे हृदि छिद्रवत्सतः ।
स्वस्यात्मनः सख्युरशेषदेहिनां
सामान्यतः किं विषयोपपादनैः ॥ [भागवतम् ७.७.३८]

छिद्रवदाकाशवदलिप्तत्वेन सदा वर्तमानस्य । नातिप्रयासे हेतुः
सर्वेषां देहिनां य आत्मा शुद्धं स्वरूपं तस्य । सामान्यतः सर्वत्र
निर्विशेषतयैव सखा । यथावसरं बहिर्अन्तःकरणविषयादिलक्षण
मायिक्या निजप्रेमादिलक्षणामायिक्याश्च सम्पत्तेर्दानेन हिताशंसी यस्
तस्य हरेः । तस्मादारोपितानां नश्वराणां विषयाणां जायापत्यादीनाम्
उपार्जनैः किमिति ।

॥ ७.७ ॥ श्रीप्रह्लादोऽसुरबालकान् ॥ ३०६ ॥

[३०७]

तद्यथा

मयि निर्बद्धहृदयाः साधवः समदर्शनाः ।
वशे कुर्वन्ति मां भक्त्या सत्स्त्रियः सत्पतिं यथा ॥ [भागवतम् ९.४.६६]

अत्र दृष्टान्तेनांशतः सख्यात्मका भक्तिर्लक्ष्यते ।

॥ ९.४ ॥ श्रीवैकुण्ठो दुर्वाससम् ॥ ३०७ ॥

[३०८]

एवं च

शान्ताः समदृशः शुद्धाः सर्वभूतानुरञ्जनाः ।
यान्त्यञ्जसाच्युतपदमच्युतप्रियबान्धवाः ॥ [भागवतम् ४.१२.३७] (पगे १६१)

अच्युत एव प्रियबान्धवो येषाम् । अच्युतस्य पदं तत्सनाथं लोकम् ।
अच्युतशब्दावृत्त्या फलस्य केनाप्यंशेन व्यभिचारित्वं नेति दृश्यते ॥

॥ ४.१२ ॥ श्रीमैत्रेयः ॥ ३०८ ॥

[३०९]

अथ आत्मनिवेदनम् । तच्च देहादिशुद्धात्मपर्यन्तस्य सर्वतोभावेन
तस्मिन्नेवार्पणम् । तत्कार्यं चात्मार्थचेष्टाशून्यत्वं तन्न्यस्तात्म
साधनसाध्यत्वं तद्अर्थैकचेष्टामयत्वं च । इदं ह्यात्मार्पणं गो
विक्रयवत विक्रीतस्य गोर्वर्तनार्थं विर्कीतवता चेष्टा न क्रियते । तस्य
च श्रेयःसाधकस्तत्क्रीतवानेव स्यात् । स च गौस्तस्यैव कर्म कुर्यात् ।
न पुनर्विक्रीतवतोऽपीति । इदमेवात्मार्पणं श्रीरुक्मिणीवाक्ये

तन्मे भवान् खलु वृतः पतिरङ्ग जायाम्
आत्मार्पितश्च भवतोऽत्र विभो विधेहि । [भागवतम् १०.५२.३९] इति ।

अथ केचिद्देहार्पणमेवात्मार्पणमिति मन्यन्ते । यथा भक्तिविवेके

चिन्तां कुर्यान्न रक्षायै विक्रीतस्य यथा पशोः ।
तथार्पयन् हरौ देहं विरमेदस्य रक्षणात् ॥ इति ।
केचिच्छुद्धक्षेत्रज्ञार्पणमेव । यथा श्रीमद्आलबन्दारुस्तोत्रे

वपुर्आदिषु योऽपि कोऽपि वा
गुणतोऽमानि यथातथाविधः ।
तदयं तव पादपद्मयोर्
अहमद्यैव मया समर्पितः ॥ [ष्तोत्ररत्नम् ४९] इति ।

केचिच्च दक्षिणहस्तादिकमप्यर्पयन्तस्तेन तत्कर्ममात्रं कुर्वते,
न तु देहादिकर्मेत्यद्यापि दृश्यते । तदेतत्सर्वात्मकं सकार्यमात्म
निवेदनं यथा

स वै मनः कृष्णपदारविन्दयोर्
वचांसि वैकुण्ठगुणानुवर्णने
करौ हरेर्मन्दिरमार्जनादिषु
श्रुतिं चकाराच्युतसत्कथोदये ॥

मुकुन्दलिङ्गालयदर्शने दृशौ
तद्भृत्यगात्रस्पर्शेऽङ्गसङ्गमम् ।
घ्राणं च तत्पादसरोजसौरभे
श्रीमत्तुलस्या रसनां तद्अर्पिते ॥

पादौ हरेः क्षेत्रपदानुसर्पणे
शिरो हृषीकेशपदाभिवन्दने ।
कामं च दास्ये न तु कामकाम्यया
यथोत्तमश्लोकजनाश्रया रतिः ॥ [भागवतम् ९.४.१८२०]

चकार अर्पयामास । कृष्णपदारविन्दयोरित्यादिकमुपलक्षणं तत्
सेवादीनाम् । लिङ्गं श्रीमूर्तिः । आलयस्तद्भक्तस्तन्मन्दिरादिः । श्रीमत्
तुलस्यास्तत्पादसरोजसम्बन्धि यत्सौरभं तस्मिन् । तद्अर्पिते महा
प्रसादान्नादौ । कामं सङ्कल्पं च दास्ये निमित्ते कथं चकार । यथा
येन प्रकारेण उत्तमःश्लोकजनाश्रया रतिः सा भवेदिति । अत्र सर्वथा
तत्रैव सङ्ख्यातात्मनिक्षेपः कृत इति वैशिष्ट्यापत्त्या
स्मरणादिमयोपासनस्यैवात्मार्पणत्वम् । एवमेवोक्तम् श्रद्धामृत
कथायां मे शश्वन्मद्अनुकीर्तनम् [भागवतम् ११.१९.१९] इत्यारभ्य एवं
धर्मे मनुष्याणां [भागवतम् ११.१९.२२] इति । यथा स्मरणकीर्तनपादसेवन
मयमुपासनमेव आगमोक्तविधिमयत्ववैशिष्ट्यापत्त्यार्चनमित्य्
अभिधीयते । ततो नाविविक्तत्वम् । स्नानपरिधानादिक्रिया चास्य भगवत्
सेवायोग्यत्वायैवेति तत्रापि नात्मार्पणभक्तिहानिरित्यनुसन्धेयम् ।
(पगे १६२)

एतदात्मार्पणं श्रीबलावपि स्फुटं दृश्यते । उदाहृतं चेदम्
आत्मार्पणं धर्मार्थकामः [भागवतम् ७.६.२४] इत्यादिना श्रीप्रह्लादमते ।
मर्त्यो यदा त्यक्तसमस्तकर्मा निवेदितात्मा [भागवतम् ११.२९.३२] इत्यादिना श्री
भगवन्मतेऽपि ।

तदेतदात्मनिवेदनं भावं विना भाववैशिष्ट्येन च दृश्यते । पूर्वं
यथा मर्त्यो यदा इत्यादि । उत्तरं यथैकादश एव दास्येनात्मनिवेदनम्
[भागवतम् ११.११.३५] इति । यथा च रुक्मिणीवाक्ये मात्मार्पितश्च भवतः [भागवतम्
१०.५२.१] इति ।

॥ ९.४ ॥ श्रीशुकः ॥ ३०९ ॥

[३१०]

तदेवं वैधी भक्तिर्दर्शिता । अस्याश्चोक्तानामङ्गानामनुक्तानां च
कुत्रचित्कस्याप्यङ्गस्यान्यत्र तु तद्इतरस्य यन्महिमाधिक्यं वर्ण्यते ।
तत्तच्छ्रद्धाभेदेन तत्तत्प्रभावोल्लासापेक्षयेति न परस्पर
विरुद्धत्वम् । अधिकारभेदेन ह्यौषधादीनामपि तादृशत्वं दृश्यते ।

अथ रागानुगा । तत्र विषयिणः स्वाभाविको विषयसंसर्गेच्छातिशयमयः
प्रेमा रागः । यथा चक्षुर्आदीनां सौन्दर्यादौ । तादृश एवात्र भक्तस्य
श्रीभगवत्यपि राग इत्युच्यते । स रागो विशेषणभेदेन बहुधा दृश्यते
 येषामहं प्रिय आत्मा सुतश्च सखा गुरुः सुहृदो दैवमिष्टम् [भागवतम्
३.२५.३५] इत्यादौ । तत्र प्रियो यथा तदीयप्रेयसीनाम् । आत्मा परब्रह्म
रूपः श्रीसनकादीनाम् । सुतः श्रीव्रजेश्वरादीनाम् । सखा श्री
श्रीदामादीनाम् । गुरुः श्रीप्रद्युम्नादीनाम् । कस्यापि भ्राता कस्यापि
मातुलेयः कस्यापि वैवाहिक इत्य्आदिरूपः स एक एव तेषु बहुप्रकारत्वेन
सुहृदः सम्बन्धिनाम् । दैवमिष्टं तदीयसेवकानां श्रीदारुक
प्रभृतीनामिति प्रसिद्धम् ।

अत्र श्रीमत्यां मोहिन्यां यः खलु रुद्रस्य भावो जातः स तु नाङ्गीकृतः,
अनुक्तत्वात् । तस्य मायामोहिततयैव तादृशभावाभ्युपगमाच्च ।

तदेवं तत्तद्अभिमानलक्षणभावविशेषणेन स्वाभाविकरागस्य
वैशिष्ट्ये सति तत्तद्रागप्रयुक्ता श्रवणकीर्तनस्मरणपादसेवन
वन्दनात्मनिवेदनप्राया भक्तिस्तेषां रागात्मिका भक्तिरित्युच्यते ।
तस्याश्च साध्यायां रागलक्षणायां भक्तिगङ्गायां तरङ्गरूपत्वात्
साध्यत्वमेवेति न तु साधनप्रकरणेऽस्मिन् प्रवेशः ।

अतो रागानुग कथ्यते । यस्य पूर्वोक्तं रागविशेषे रुचिरेव जातास्ति न तु
रागविशेष एव स्वयं, तस्य तादृशरागसुधाकरकराभाससमुल्लसित
हृदयस्फटिकमणेः शास्त्रादिश्रुतासु तादृश्या रागात्मिकाया भक्तेः
परिपाटीष्वपि रुचिर्जायते । ततस्तदीयं रागं रुच्य्अनुगच्छन्ती सा
रागानुगा तस्यैव प्रवर्तते । एषैवाविहितेति केषाञ्चित्संज्ञा । रुचिमात्र
प्रवृत्त्या विधिप्रयुक्तत्वेनाप्रवृत्तत्वात् । न च वक्तव्यं विध्य्
अनधीनस्य न सम्भवति भक्तिरिति ।

प्रायेण मुनयो राजन्निवृत्ता विधिषेधतः ।
नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरेः ॥ [भागवतम् २.१.७] इति श्रूयते ।

ततो विधिमार्गभक्तिर्विधिसापेक्षेति सा दुर्बला । इयं तु स्वतन्त्रैव
प्रवर्तते इति प्रबला च ज्ञेया । अतएवास्या जन्मलक्षणं भक्ति
व्यतिरेकेणान्यत्रानभिरुचिमुपलक्ष्य

सा श्रद्दधानस्य विवर्धमाना
विरक्तिमन्यत्र करोति पुंसः ।
हरेः पदानुस्मृतिनिर्वृतस्य
समस्तदुःखाप्ययमाशु धत्ते ॥ [भागवतम् ३.५.१३] इति । (पगे १६३)

सा पूर्वोक्ता कथा गृहीता मतिस्तद्रुचिरित्यर्थः । विधिनिरपेक्षत्वादेव
पूर्वाभ्यां दास्यसख्याभ्यामेतदीययोस्तयोर्भेदश्च ज्ञेयः । एवम्
एवोक्तं तन्मन्येऽधीतमुत्तममिति । अतएव विध्य्उक्तक्रमोऽपि नास्याम्
अत्यादृतः । किन्तु रागात्मिकाश्रुतक्रम एव ।

तत्र रागात्मिकायां रुचिर्यथा

सुहृत्प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम् ।
तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा ॥ [भागवतम् ११.८.३५]

अत्र स्वाभाविकसौहृद्यादिधर्मैस्तस्मिन्नेव स्वाभावैकपतित्वं
स्थापयित्वा परस्यौपाधिकपतित्वमित्यभिप्रेतम् । अन्यत्र पत्यावेकत्वं
सा गता यस्माच्चरुमन्त्राहुतिव्रता इति छान्दोग्यपरिशिष्टानुसारेण
कृत्रिममेवात्मत्वम् । तस्मिन् परमात्मनि तु स्वभावत एवेत्यात्म
शब्दस्याप्यभिप्रायः । इदं यद्यपि तस्मिन् पतित्वमनाहार्यमेवास्ति
तथापि आत्मनैव मूलभूतेनैव तं विशेषतः क्रीत्वा यथान्यापि कन्या
विवाहात्मकेन स्वात्मसमर्पणेन कञ्चित्पतित्वेनोपादत्ते ।
तथाभावेनाश्रित्यानेन परममनाहररूपेण तेन सह रमे रमा
लक्ष्मीर्यथा ।

[३११]

तदेवं तस्याः पिङ्गलाया रागे स्वरुचिर्द्योतिता । रागानुगायां प्रवृत्तिर्
अपीदृशी ।

सन्तुष्टा श्रद्दधत्येतद्यथालाभेन जीवती ।
विहराम्यमुनैवाहमात्मना रमणेन वै ॥ [भागवतम् ११.८.४०]

अमुनेति भावगर्भरमणेन सह । आत्मना मनसैव तावद्विहरामि ।
रुचिप्रधानस्य मार्गस्यास्य मनःप्रधानत्वम् । तत्प्रेयसी
रूपेणासिद्धायास्तादृशभजने प्रायो मनसैव युक्तत्वात् । अनेन श्रीमत्
प्रतिमादौ तादृशीनामप्यौद्धत्यं परिहृतम् । एवं पितृत्वादिभावेष्व्
अप्यनुसन्धेयम् ॥

॥ ११.८ ॥ श्रीपिङ्गला ॥ ३११ ॥

[३१२३१४]

एवं प्रेयसीत्वाभिमानमयी दर्शिता । एषा ब्रह्मवैवर्ते कामकलायाम्
अपि दृष्टा । सेवकत्वाद्याभिमानमय्यां रुचिभक्तिश्चान्यत्र ज्ञेया । तस्मा
अमूस्तनुभृताम् [भागवतम् ७.९.२४] इत्यादौ उपनय मां निजभृत्यपार्श्वम्
इति श्रीप्रह्लादवचनम् । यथा श्रीनारदपञ्चरात्रे

कदा गम्भीरया वाचा श्रिया युक्तो जगत्पते ।
चामरव्यग्रहस्तं मामेवं कुर्विति वक्ष्यसि ॥ इति ।

यथा स्कान्दे सनत्कुमारप्रोक्तसंहितायां प्राभाकरराजोपाख्याने
अपुत्रोऽपि स वै नैच्छत्पुत्रं कर्मानुचिन्तयन् ।
वासुदेवं जगन्नाथं सर्वात्मानं सनातनम् ॥
अशेषोपनिषद्वेद्यं पुत्रीकृत्य विधानतः ।
अभिषेचयितुं राजा स्वराज उपचक्रमे ॥
न पुत्रमभ्यर्थितवान् साक्षाद्भूताज्जनार्दनात् ।
अग्रे भगवद्वरश्च अहं ते भविता पुत्रः ॥ इत्यादि ।

अतएवोक्तं श्रीनारायणव्यूहस्तवः
पतिपुत्रसुहृद्भ्रातृपितृवन्मैत्रवद्धरिम् ।
ये ध्यायन्ति सदोद्युक्तास्तेभ्योऽपीह नमो नमः ॥ इति ।

अत्र पत्य्आदिवदिति ध्येयस्य पितृवदिति ध्यातुर्विशेषणं ज्ञेयम् । तथा
मातृवदिति वतिप्रत्ययेन प्रसिद्धतन्मातृजनाभेदभावना
नैवाङ्गीक्रियते । किन्तु तद्अनुगतभावनैव । एवं पितृभावादावपि
ज्ञेयम् । अन्यथा भगवत्यहङ्ग्रहोपासनावत्तेष्वपि दोषः स्यात् । तथा
(पगे १६४) ध्यायन्तीति पूर्वोक्तं मनःप्रधानत्वमेवोरीकृतम् । अपि
शब्देन तत्तद्रागसिद्धानां कैमुत्यमाक्षिप्यते ।

ननु, चोदनालक्षणोऽर्थो धर्मः [ড়ूर्वमीमांसा १.१.२] इत्यनेन पूर्व
मीमांसायां विधिनैवापूर्वं जायत इति श्रूयते । तथा श्रुतिस्मृति
पुराणादिपञ्चरात्रविधिं विना इत्यादिना यामले श्रुत्य्आद्य्एकतरोक्त
क्रमनियमं विना दोषः श्रूयते । तथा

श्रुतिस्मृती ममैवाज्ञे यस्ते उल्लङ्घ्य वर्तते ।
आज्ञाच्छेदी मम द्वेषी मद्भक्तोऽपि न वैष्णवः ॥ इति ।

अत्र श्रुत्य्आद्य्उक्तावश्यकक्रियानिषेधयोरुल्लङ्घनं वैष्णवत्व
व्याघातकं श्रूयते । कथं तर्हि विधिनिरपेक्षया तया सिद्धिः । उच्यते
श्रीभगवन्नामगुणादिषु वस्तुशक्तेः सिद्धत्वान्न धर्मवद्भक्तेश्
चोदनासापेक्षत्वम् । अतो ज्ञानादिकं विनापि फललाभो बहुत्र श्रुतोऽस्ति ।
चोदना तु यस्य स्वतःप्रवृत्तिर्नास्ति तद्विषयैव । तथा क्रमाविधिश्च
तद्विषयः । तस्मिन्नेव नानाविक्षेपवति रुच्य्अभावेन रागात्मिकभक्ति
शैलीमनभिजानाति । सत्यामपि धावन्निमील्य वा नेत्रे [भागवतम् ११.२.३५] इत्य्
आदिन्यायेन यथा कथञ्चिदनुष्ठानतः सिद्धौ सुष्ठु वर्त्म
प्रवेशाय क्रमशश्चित्ताभिनिवेशाय च मर्यादारूपः स निर्मीयते ।
अन्यथा सन्तततद्भक्त्य्उन्मुखताकरतादृशरुच्य्अभावान्
मर्यादानभिपत्तेश्चाध्यात्मिकादिभिरुत्पातैर्विहन्यते च स इति । न तु
स्वयं प्रवृत्तिमत्यपि मर्यादानिर्माणम् । तस्य रुच्यैव भगवन्
मनोरमरागात्मिकाक्रमविशेषाभिनिवेशात् । तदुक्तं स्वयमेव
ज्ञात्वाज्ञात्वाथ ये वै माम् [भागवतम् ११.११.३३] इत्यादिना ।

रागात्मिकभक्तिमतां दुरभिसन्धिताप्यनुकरणमात्रेण तादृशत्व
प्राप्तिः श्रूयते । यथा धात्रीत्वानुकरणेन पूतनायाः । तदुक्तम् सद्
वेशादिव पूतनापि सकुला [भागवतम् १०.१४.३५] इति । किमुत तदीयरुचिमद्भिस्
तादृशनिरन्तरसम्यग्भक्त्य्अनुष्ठानेन । तदुक्तम्
पूतना लोकबालघ्नी राक्षसी रुधिराशना ।
जिघांसयापि हरये स्तनं दत्त्वाप सद्गतिम् ॥
किं पुनः श्रद्धया भक्त्या कृष्णाय परमात्मने ।
यच्छन् प्रियतमं किं नु रक्तास्तन्मातरो यथा ॥ [भागवतम् १०.६.२६२७] इति ।

अत उक्तं न मय्येकान्तभक्तानां गुणदोषोद्भवा गुणाः [भागवतम् १०.२०.४]
इति । एकान्तित्वं खलु भक्तिनिष्ठा । सा रुच्यैव वा शास्त्रविध्य्आदरेणैव
वा जायते । ततो रुचेर्विरलत्वादुत्तराभावेनापि यदैकान्तिकीत्वं तत्
तस्यैकान्तिकमानिनो दम्भमात्रमित्यर्थः । ततस्तद्अनद्यैव निन्दा
श्रुतिस्मृतिपुराण इत्यादिना, न तु रुचिभावेऽपि तन्निन्दा युक्ता पूतना इत्य्
आदेः । तथा चोक्तं पाद्मोत्तरखण्डे

स्वातन्त्र्यात्क्रियते कर्म न च वेदोदितं महत् ।
विनैव भगवत्प्रीत्या ते वै पाषण्डिनः स्मृताः ॥ इति ।

प्रीतिरत्र तादृशरुचिः । तदेवमत्र शात्रानादरस्यैव निन्दा । न तु तद्
अज्ञानस्य धावन्निमील्य वै इत्यादेः । गौतमीयतन्त्रे त्विदमप्युक्तम्
 (पगे १६५)

न जपो नार्चनं नैव ध्यानं नापि विधिक्रमः ।
केवलं सन्ततं कृष्णचरणाम्भोजभाविनाम् ॥

अजाततादृशरुचिना तु सद्विशेषादरमात्रादृता रागानुगापि वैधी
संवलितैवानुष्ठेया । तथा लोकसंग्रहार्थं प्रतिष्ठितेन जाततादृश
रुचिना च । अत्र मिश्रत्वे च यथायोग्यं रागानुगयैकीकृत्यैव वैधी
कर्तव्या । केचिदष्टादशाक्षरध्यानं गोदोहनसमयवंशीवाद्य
समाकृष्टतत्तत्सर्वमयत्वेन भावयन्ति । यथा चैके तादृशमुपासनं
साक्षाद्व्रजजनविशेषायैव मह्यं श्रीगुरुचरणैर्मद्अभीष्ट
विशेषसिद्ध्य्अर्थमुपदिष्टं भावयामि । साक्षात्तु श्रीव्रजेन्द्र
नन्दनं सेव्यमान एवासा इति भावयन्ति ।

अथ श्रुतिस्मृती ममैवाज्ञे इत्य्आदिनिन्दितमात्रस्वावश्यकक्रिया
निषेधयोरुल्लङ्घनं द्विविधम् । तौ हि धर्मशास्त्रोक्तौ भक्ति
शास्त्रोक्तौ चेतै । भगवद्भक्तिविश्वासेन दौःशील्येन वा
पूर्वयोरकरणकरणप्रत्यासत्तौ न वैष्णवभावाद्भ्रंशः । देवर्षि
भूताप्तनॄणां [भागवतम् ११.५.३७] इत्याद्य्उक्तेः, अपि चेत्सुदुराचारः [गीता ९.३०]
इत्य्आद्य्उक्तेश्च । तादृशरुचिमति तु तयैव रुच्या द्विष्टत्वाद्
अपुनर्भवाद्य्आनन्दस्यापि वाञ्छा नास्ति किमुत परमघृणास्पदस्य ।
अतस्तत्र स्वत एव न प्रवृत्तिः । प्रमादादिना कदाचिज्जातं चेद्विकर्म तत्
क्षणादेव नश्यत्यपि । उक्तं चविकर्म यच्चोत्पतितं कथंचिद्धुनोति
सर्वं हृदि सन्निविष्टः [भागवतम् ११.५.३८] इति ।

अथ वैष्णवशास्त्रोक्तौ । तौ तर्हि विष्णुसन्तोषैकप्रयोजनावेव
भवतः । तयोश्च तादृशत्वे श्रुते सति तदीयरागरुचिमतः स्वत एव
प्रवृत्त्य्अप्रवृत्तौ स्याताम् । तत्सन्तोषैकजीवनत्वात्प्रीतिजातेः । अतएव न
तत्र स्वानुगम्यमानरागात्मकसिद्धभक्तविशेषेण कृतत्वाकृतत्वयोर्
अनुसन्धानं चापेक्ष्यं स्यात् । किन्तु तत्कृतत्वे सति विशेषणाग्रहो भवतीत्य्
एव विशेषः ।
अत्र क्वचिच्छास्त्रोक्तक्रमविध्य्अपेक्षा च रागरुच्यैव प्रवर्तितेति
रागानुगान्तःपात एव । ये च श्रीगोकुलादिविराजिरागात्मिकानुगास्तत्परास्
ते तु श्रीकृष्णक्षेमतत्संसर्गान्तरायाभावादिकाम्यात्मकतद्
अभिप्रायरीत्यैव विअष्णवलौकिकधर्मानुष्ठानं कुर्वन्ति । अतएव
रागानुगायां रुचेरेव सद्धर्मप्रवर्तकत्वात्श्रुतिस्मृती ममैवाज्ञे
इत्येतद्वाक्यस्य न तद्वर्त्मभक्तिविषयत्वम् । किन्तु बाह्यशास्त्र
निर्मितबुद्धर्षभदत्तात्रेयादिभजनवर्त्मविषयत्वमेव ।
तथोक्तम्

वेदधर्मविरुद्धात्मा यदि देव प्रपूजयेत् ।
स याति नरकं घोरं यावदाहूतसम्प्लवम् ॥

इति रागानुगायां विध्य्अप्रवर्तितायामपि न वेदबाह्यत्वम् । वेदवैदिक
प्रसिद्धैव सा तत्र तत्र रुचित्वात् । वेदेषु बुद्धादीनां तु वर्णनं वेद
बाह्यं विरुद्धत्वेनैव यथा

ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् ।
बुद्धो नाम्नाञ्जनसुतः कीकटेषु भविष्यति ॥ [भागवतम् १.३.२४] इत्यादि ।

तस्माद्भवत्येव रागानुगा समीचीना । तथा वैधीतोऽप्यतिशयवती च ।
मर्यादावचनं ह्यावेशार्थमेवेति दर्शितम् । स पुनरावेशो यथा रुचि
विशेषलक्षणमानसभावेन स्यान्न तथा (पगे १६६) विधिप्रेरणया ।
स्वारसिकमनोधर्मत्वात्तस्य । तत्र चास्तां तावद्अनुकूलभावः ।
परमनिषिद्धेन प्रतिकूलभावेनाप्य् आवेशो झटिति स्यात् । तद्आवेश
सामर्थ्येन प्रतिकूलदोषहानिः स्यात् । सर्वानर्थनिवृत्तिश्च स्यादिति
भावमार्गस्य बलवत्त्वे दृष्टान्तोऽपि दृश्यते । तत्र यद्यनुकूलभावः
स्यात्तदा परमैकान्तिसाध्य एवाप्तौ ।

अथ भावमार्गसामान्यस्य बलवत्त्वं प्रकरणमुत्थाप्यते । श्री
युधिष्ठिर उवाच

अहो अत्य्अद्भुतं ह्येतद्दुर्लभैकान्तिनामपि ।
वासुदेवे परे तत्त्वे प्राप्तिश्चैद्यस्य विद्विषः ॥ [भागवतम् ७.१.१५]

एकान्तिनां परमज्ञानिनामपि यतस्तस्य सा न सम्भवति ।

एतद्वेदितुमिच्छामः सर्व एव वयं मुने ।
भगवन्निन्दया वेनो द्विजैस्तमसि पातितः ॥ [भागवतम् ७.१.१६]

तमसि नरके । बहुनरकादिभोगानन्तरमेव पृथुजन्म
प्रभावोदयेन तस्य सद्गतिश्रवणात् । एषः

दमघोषसुतः पाप आरभ्य कलभाषणात् ।
सम्प्रत्यमर्षी गोविन्दे दन्तवक्रश्च दुर्मतिः ॥ [भागवतम् ७.१.१७] इत्यादि ।

स्पष्टम् ।

॥ ७.१ ॥ युधिष्ठिरो नारदम् ॥ ३१२३१४ ॥
[३१५३२०]

तत्रोत्तरं श्रीनारद उवाच अहो भगवन्निन्दकस्य नरकपातेन
भाव्यमिति वदतस्तव कोऽभिप्रायः ? भगवत्पीडाकरत्वाद्वा तद्
अभावेऽपि सुरापानादिवन्निषिद्धनिन्दाश्रवणाद्वा । तत्र तावद्
विमूढैर्जनैर्निन्दादिकं प्राकृतान् तम आदेइगुणानुद्धिश्यैव
प्रवर्तते । ततः प्रकृतिपर्यन्ताश्रयस्य तत्कृतनिन्दादेरप्राकृतगुण
विग्रहादौ तस्मिन् प्रवृत्तिर्नास्त्येव । न च जीववत्प्रकृतिपर्यन्ते वस्तु
जाते भगवद्अभिमानोऽस्ति । ततश्च तेन तस्य पीडापि नास्त्येव । तदेतद्
आह सार्धैस्त्रिभिः

निन्दनस्तवसत्कार न्यक्कारार्थं कलेवरम् ।
प्रधानपरयो राजन्नविवेकेन कल्पितम् ॥ [भागवतम् ७.१.२२]

निन्दनं दोषकीर्तनम् । न्यक्कारस्तिरस्कारः । निन्दनस्तुत्य्आदि
ज्ञानार्थं प्रधानपुरुषयोरविवेकेन जीवानां कलेवरं कल्पितं
रचितम् । ततश्च

हिंसा तद्अभिमानेन दण्डपारुष्ययोर्यथा ।
वैषम्यमिह भूतानां ममाहमिति पार्थिव ॥
यन्निबद्धोऽभिमानोऽयं तद्वधात्प्राणिनां वधः ।
तथा न यस्य कैवल्यादभिमानोऽखिलात्मनः ॥
परस्य दमकर्तुर्हि हिंसा केनास्य कल्प्यते ॥ [भागवतम् ७.१.२३२५]

इह प्राकृते लोके । यथा तत्कलेवराभिमानेन भूतानां ममाहमिति
वैषम्यं भवति, यथा तत्कृताभ्यां दण्डपारुष्याभ्यां ताडन
निन्दाभ्यां निमित्तभूताभ्यां हिंसा च भवति, यथा यस्मिन्
निबद्धोऽभिमानस्तस्य देहस्य वधात्प्राणिनां वधश्च भवति, यथा
यस्याभिमानो नास्तीत्यर्थः । अस्य परमेश्वरस्य हिंसा केन हेतुना
कल्प्यते । अपि तु न केनापीत्यर्थः । तथाभिमाभावे हेतुः कैवल्यात् ।
देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनाम् [भागवतम् ७.१.३५] इति कैमुत्यादि
प्राप्तशुद्धत्वात् । तादृशनिन्दाद्य्अगम्यशुद्धसच्चिदानन्द
विग्रहादित्वादित्यर्थः । तस्य तद्अगम्यत्वं च (पगे १६७) नाहं प्रकाशः
सर्वस्य योगमायासमावृतः [गीता ७.२५] इति श्रीभगवद्गीतातः ।

तादृशवैलक्षण्येन हेतुः अखिलानामात्मभूतस्य । तत्र हेतुः परस्य
प्रकृतिवैभवसङ्गरहितस्य । हिंसाया अविषयत्वे हेत्व्अन्तरं दमकतुः
परमाशर्यानन्तशक्तित्वात्सर्वेषामेव शिक्षाकर्तुरिति । तदेवं यस्माद्
भगवतो निन्दादिकृतं वैषम्यं नास्ति तस्माद्येन केनाप्युपायेन सकृद्
यद्अङ्गप्रतिमान्तराहिता [भागवतम् १०.१२.३९] इत्यादिवत्तद्आभासमपि
ध्यायतस्तद्आवेशात्तत्र वैरेणापि ध्यायतस्तद्आवेशेनैव निन्दादिकृत
पापस्यापि नाशात्तत्सायुज्यादिकं युक्तमित्याशयेनाह तस्मादित्यादिभिः ।
तथा हि

तस्माद्वैरानुबन्धेन निर्वैरेण भयेन वा ।
स्नेहात्कामेन वा युञ्ज्यात्कथञ्चिन्नेक्षते पृथक् ॥ [भागवतम् ७.१.२६]

युञ्ज्यादिति स्नेहकामादीनां विधातुमशक्यत्वात्सम्भावनायामेव
लिङ् । वैरानुबन्धादीनामेकतरेणापि युञ्ज्याद्ध्यायेच्चेत्तदा भगवतः
पृथग्नेक्षते तद्आविष्टो भवतीत्यर्थः । वैरानुबन्धो वैर
भावाविच्छेदः । निर्वैरो वैराभावमात्रमौदासीन्यमुच्यते । तेन
कामादिराहित्यमप्यायाति । वैरादिभावराहित्यमित्यर्थः । तेन वा
वैराद्भावराहित्येन युञ्ज्यात् । विहितत्वमात्रबुद्ध्या ध्यायेत ।
ध्यानोपलक्षितं भक्तियोगं कुर्यादित्यर्थः । स्नेहः कामातिरक्तः
परस्परमकृत्रिमः प्रेमविशेषः । स तु साधके तद्अभिरुचिरेव । तद्
एवं सर्वेषां तद्आवेश एव फलमिति स्थिते झटिति तद्आवशसिद्धये तेषु
भावमयमार्गेषु निन्दितेनापि वैरेण विधिमय्या भक्तेर्न साम्यम्
इत्याह

यथा वैरानुबन्धेन मर्त्यस्तन्मयतामियात् ।
न तथा भक्तियोगेन इति मे निश्चिता मतिः ॥ [भागवतम् ७.१.२७]

वैरानुबन्धेनेति भयस्याप्युपलक्षणम् । यथाशैघ्र्येण तन्मयतां
तद्आविष्टता भक्तियोगेन विहितत्वमात्रबुद्ध्या क्रियमाणेन तु न
तथा । आस्तां तादृशवस्तुशक्तियुक्तस्य तेषु प्रकाशमानस्य भगवतो
भगवद्विग्रहाभासस्य वा वार्ता । प्राकृतेऽपि तद्भावमात्रस्य
भाव्यावेशफलं महद्दृश्यत इति सदृष्टान्तं तदेव प्रतिपादयति

कीटः पेशस्कृता रुद्धः कुड्यायां तमनुस्मरन् ।
संरम्भभययोगेन विन्दते तत्स्वरूपताम् ॥
एवं कृष्णे भगवति मायामनुज ईश्वरे ।
वैरेण पूतपाप्मानस्तमापुरनुचिन्तया ॥ [भागवतम् ७.१.२८२९]

संरम्भो द्वेषो भयं च ताभ्यां योगस्तद्आवेशस्तेन । तत्स्वरूपतां
तस्य स्वमात्मीयरूपमाकृतिर्यत्र तत्तां तत्सारूप्यमित्यर्थः । एवम्
इति एव अपीयर्थः । नराकृतिपरब्रह्मत्वाद्माययैव प्राकृतमनुजतया
प्रतीयमाने ।

ननु कीटस्य प्रेशस्कृद्द्वेषे पापं न भवति । तत्र तु तत्स्यादित्य्
आशङ्क्याह वैरेण यानुचिन्ता तद्आवेशस्तयैव पूतपाप्मानस्तद्
ध्यानावेशस्य तादृक्शक्तित्वादिति भावः ।

न च शास्त्रविहितेनैव भगवद्धर्मेण सिद्धिः स्यान्न च तद्विहितेन
कामादिनेति वाच्यम् । (पगे १६८)

कामाद्द्वेषाद्भयात्स्नेहाद्यथा भक्त्येश्वरे मनः ।
आवेश्य तद्अघं हित्वा बहवस्तद्गतिं गताः ॥ [भागवतम् ७.१.२९]

यथा विहितया भक्त्य ईश्वरे मन आविश्य तद्गतिं गच्छन्ति
तथिअवाविहितेनापि कामादिना बहवो गता इत्यर्थः । तद्अघं तेषु
कामादिषु मध्ये यद्द्वेषभययोरघं भवति तद्धित्वैव ।
भयस्यापि द्वेषसंवलितत्वादघोत्पादकत्वं ज्ञेयम् ।

अत्र केचित्काममप्यघं मन्यन्ते । तत्रेदं विचार्यते भगवति केवलं
काम एव केवलपापावहः किं वा पतिभावयुक्तः । अथवा उपपति
भावयुक्त इति । स एव केवल इति चेत्स किं द्वेषादिगणपतित्वात्तद्वत्
स्वरूपेणैव वा । परमशुद्धे भगवति यद्अधरपानादिकं यच्च
कामुकाद्य्आरोपणं तेनातिक्रमेण वा पापश्रवणेन वा । नाद्येन

उक्तं पुरस्तादेतत्ते चैद्यः सिद्धिं यथा गतः ।
द्विषन्नपि हृषीकेशं किमुताधोक्षजप्रियाः ॥ [भागवतम् १०.२९.१३]

इत्यत्र द्वेषादेर्न्यक्कृतत्वात्तस्य तु स्तुतत्वात् । अतश्च प्रिया इति स्नेहवत्
कामस्यापि प्रीत्यात्मकत्वेन तद्वदेव न दोषः । तादृशीनां कामो हि
प्रेमैकरूपः । यत्ते सुजातचरणाम्बुरुहं स्तनेषु भीताः शनैः प्रिय
दधीमहि कर्कशेषु [भागवतम् १०.३१.१९] इत्यादावतिक्रम्यापि स्वसुखं
तदानुकूल्य एव तात्पर्यदर्शनात्सैरिन्ध्र्यास्तु भावो रिरंसाप्रायत्वेन
श्रीगोपिकानामिव केवलतत्तात्पर्याभावात्तद्अपेक्षयैव निन्द्यते न तु
स्वरूपतः । सानङ्गतप्तकुचयोः [भागवतम् १०.४८.६] इत्यादौ अनन्तचरणेन
रुजो मृजन्ति इति परिरभ्य कान्तमानन्दमूर्तिमिति कार्यद्वारा तत्
स्तुतैः । तत्रापि सहोष्यतामिह प्रेष्ठ [भागवतम् १०.४८.८] इत्यत्र प्रीत्य्
अभिव्यक्तश्च ।

अतएव
सैवं कैवल्यनाथं तं प्राप्य दुष्प्राप्यमीश्वरम् ।
अङ्गरागार्पणेनाहो दुर्भगेदमयाचत ॥ [भागवतम् १०.४८.८]
दुराराध्यं समाराध्य विष्णुं सर्वेश्वरेश्वरम् ।
यो वृणीते मनोग्राह्यमसत्त्वात्कुमनीष्यसौ ॥ [भागवतम् १०.४८.११]

इति चैवं योजयन्ति । कैवल्यमेकान्तित्वम् । तेन यो नाथः सेवनीयस्तम् ।
पुरा तादृशत्रिवक्रत्वादिलक्षणदौर्भाग्यवत्यपि । अहो आश्चर्यमङ्ग
रागार्पणलक्षणेन भगवद्धर्मांशेन कारणेन सम्प्रतीदं
सहोष्यतामिह प्रेष्ठ दिनानि कतिचिन्मया रमस्व [भागवतम् १०.४८.८] इत्यादि
लक्षणं सौभाग्यमयाचत इति । अतः

किमनेन कृतं पुण्यमवधूतेन भिक्षुणा ।
श्रिया हीनेन लोकेऽस्मिन् गर्हितेनाधमेन च ॥ [भागवतम् १०.८०.२५]

इति श्रीदामविप्रमुद्दिश्य पुरजनवचनवदेव तथोक्तिः । ननु कामुकी
सा किमिति श्लाघ्यते । तत्राह दुराराध्यमिति । यो मनोग्राह्यं प्राकृतम्
एव विषयं वृणीते कामयत असावेव कुमनीषी । सा तु भगवन्तकेव
कामयत इति परमसुमनीषिण्येवेति भावः । तदेवं तस्य (पगे १६९)
कामस्य द्वेषादिगणान्तःपातित्वं परिहृत्य तेन पापावहत्वं परिहृतम् ।

अथ कामुकत्वाद्य्आरोपणाद्य्अधरपानादिरूपस्तत्र व्यवहारोऽपि
नातिक्रमहेतुः । यतो लोकवत्तु लीलाकैवल्यमिति न्यायेन लीला तत्र
स्वभावत एव सिद्धा । अत्र च श्रीभूर्लीलादीभिस्तस्य तादृशलीलायाः श्री
वैकुण्ठादिषु नित्यसिद्धत्वेन स्वतन्त्रलीलाविनोदस्य तस्याभिरुचि
तत्त्वेनैवावगम्यते । तथा तत्प्रेयसीजनानामपि तत्स्वरूपशक्ति
विग्रहत्वेन परम्शुद्धरूपत्वात्ततो न्यानताभावाच्च तद्अधर
पानादिकमपि नानुरूपं पूर्वयुक्त्या तद्अभिरुचितमेव च । न च
प्राकृतवामाजनेन दोषः प्रसञ्जनीयः । तद्योग्यं तादृशं भावं
स्वरूपशक्तिविग्रहत्वं च प्राप्यैव तद्इच्छयैव तत्प्राप्तेः ।

अथ पापश्रवणेन च न पापावहोऽसौ कामः । तद्अश्रवणादेव । अततः
पतिभावयुक्ते च तत्र सुतरां न दोषः, प्रत्युत स्तुतिः श्रूयते ।

याः सम्पर्यचरन् प्रेम्णा पादसंवाहनादिभिः ।
जगद्गुरुं भर्तृबुद्ध्या तासां किं वर्ण्यते तपः ॥ [भागवतम् १०.९.२७] इति ।

महानुभावमुनीनामपि तद्भावः श्रूयते । यथा श्रीमाध्वाचार्य
धृतं कौर्मवचनम्

अग्निपुत्रा महात्मानस्तपसा स्त्रीत्वमापिरे ।
भर्तारं च जगद्योनिं वासुदेवमजं विभुम् ॥ इति ।

अतएव वन्दितं पतिपुत्रसुहृद्भ्रातृ इत्यादिना ।

अथोपपतिभावेन न च पापावहोऽसौ यत्पत्य्अपत्यसुहृदामनुवृत्तिर्
अङ्ग [भागवतम् १०.२९.१९] इत्यादिना ताभिरेवोत्तरितत्वात् । गोपीनां तत्पतीनां च
[भागवतम् १०.३३.३५] इत्यादिना श्रीशुकवचनेन च ।

न पारयेऽहं निरवद्यसंयुजां
स्वसाधुकृत्यं विबुधायुषापि वः [भागवतम् १०.३२.२२]

इत्यत्र निरवद्यसंयुजामित्यनेन स्वयं श्रीभगवता च । तादृशानाम्
अन्येषामपि तद्भावो दृश्यते । यथा पाद्मोत्तरखण्डवचनम्

पुरा महर्षयः सर्वे दण्डकारण्यवासिनः ।
दृष्ट्वा रामं हरिं तत्र भोक्तुमैच्छत्सुविग्रहम् ॥
ते सर्वे स्त्रीत्वमापन्नाः समुद्भूतास्तु गोकुले ।
हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥ [ড়द्मড়् ६.२४५.१६४] इति ।

अतः पुरुषेष्वपि स्त्रीभावेनोद्भवाद्भगवद्विषयत्वान्न प्राकृत
कामदेवोद्भावितः प्राकृतः कामोऽसौ किन्तु साक्षान्मन्मथमन्मथः
[भागवतम् १०.३२.२] इति श्रवणात् । आगमादौ तस्य कामत्वेनोपासनाच्च
भगवतैवोद्भावितोऽप्राकृत एवासौ काम इति ज्ञेयम् । श्रीमद्
उद्धवादीनां परमभक्तानामपि च तच्छ्लाघा श्रूयते एताः परं
तनुभृतो भुवि गोपवध्वः [भागवतम् १०.४७.५१] इत्यादौ । किं बहुना श्रुतीनाम्
अपि तद्भावो बृहद्वामने प्रसिद्धः । यतस्तत्र श्रुतयोऽपि नित्य (पगे
१७०) सिद्धगोपिकाभावाभिलाषिण्यस्तद्रूपेणैव तद्गणान्तःपातिन्यो
बभूवुरिति प्रसिद्धिः । एतत्प्रसिद्धिसूचकमेवैतदुक्त ताभिरेव

निभृतमरुन्मनोऽक्षदृठयोगयुजो हृदि यन्
मुनय उपासते तदरयोऽपि ययुः स्मरणात् ।
स्त्रिय उरगेन्द्रभोगभुजदण्डविषक्तधियो
वयमपि ते समाः समदृशोऽङ्घ्रिसरोजसुधाः ॥ [भागवतम् १०.८७.२३] इति ।

विस्पष्टश्चायमर्थः । यद्ब्रह्माख्यं तत्त्वं शास्त्रदृष्ट्या प्रयास
बाहुल्येन मुनय उपासते तदरयोऽपि यस्य स्मरणात्तद्उपासनं विनैव
ययुः । तथा स्त्रियः श्रीगोपसुभ्रुवस्ते तव श्रीनन्दनन्दनरूपस्य
उरुगेन्द्रदेहत्तुल्यौ यौ भुजदण्डौ तव विषक्तधियः सत्यस्
तवैवाङ्घ्रिसरोजसुधास्तदीयस्पर्शविशेषजातिप्रेममाधुर्याणि
ययुः । वयं श्रुतयोऽपि समदृशस्तत्तुल्यभावाः सत्यः समास्तादृश
गोपिकात्वप्राप्त्या तत्साम्यमाप्तास्ता एवाङ्घ्रिरजोसुधां यातवत्य इत्य्
अर्थः ।

अर्थवशाद्विभक्तिपरिणामः ।ङ्घ्रीति सादरोक्तिः । अत्र तदरयोऽपि ययुः
स्मरणादित्यनेन भावमार्गस्य झटित्यर्थसाधनत्वं दर्शितम् ।
समदृश इत्यनेन रागानुगाया एव तत्र साधकतमत्वं व्यञ्जितम् ।
अन्यथा सर्वसाधनसाध्यविदुष्यः श्रुतयोऽन्यत्रैव प्रवर्तेरन् । तथा
स्मरणपरयुग्मद्वयेऽस्मिन् स्वस्वयुग्मे प्रथमस्य मुख्यत्वं
द्वितीयस्य गौणत्वं दर्शितम् । उभयत्राप्यपिशब्दसाहित्येनोत्तरत्र
पाठादेकार्थताप्राप्तेः । अतः स्त्रिय इति नित्याः श्रीगोपिका एव ता ज्ञेयाः ।
तथैव श्रुतिभिरिति श्रीकृष्णनित्यधाम्नि ता दृष्टा इति बृहद्वामन एव
प्रसिद्धम् । तदेवं साधु व्याख्यातं कामाद्द्वेषातित्यादौ तद्अघं
हित्वा इत्यत्र तेषु मध्ये द्वेषभययोर्यद्अघमित्यादि ।

[३२१]

अथ बहवस्तद्गतिं गता इत्यत्र निदर्शयमाह

गोप्यः कामाद्भयात्कंसो द्वेषाच्चैद्यादयो नृपाः ।
सम्बन्धाद्वृष्णयः स्नेहाद्यूयं भक्त्या वयं विभो ॥ [भागवतम् ७.१०.३०]

गोप्य इति साधकचरीणां गोपीविशेषाणां पूर्वावस्थामेवावलम्ब्योच्यते ।
वयमिति यथा श्रीनारदस्य हि प्र्युज्यमाने मयि तां शुद्धां भागवतीं
तनुम् [भागवतम् १.६.२८] इत्य्आद्य्उक्तरीत्या पार्षददेहत्वे सिद्धे तेन स्वयं
वयमिति पूर्वावस्थामवलम्ब्योच्यते । तत्रैव वैधी भक्तिः । अधुना
लब्धरागस्य तस्य न मय्येकान्तभक्तानां गुणदोषोद्भवा गुणाः
[भागवतम् ११.२०.३६] इति न्यायेन विध्य्अनधीना रागात्मिकैव विराजत इति । अतएव
तद्गतिं गताः इति तेषां फलप्राप्तेरप्यतीतत्वनिर्देशः । अत्र ता गोप्य
इवाधुन्क्यश्च तद्गुणादिश्रवणेनैव तद्भावा भवेयुः । यथोक्तम्

श्रुतमात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते मनः ।
उरुगायोरुगीतो वा पश्यन्तीनां च किं पुनः ॥ [भागवतम् १०.९०.१७] इति ।

अथवा पार्षदचरस्यापि चैद्यस्यागन्तुकोपद्रवाभासनाशदर्शनेनैव
साधकत्वनिर्देशः । सम्बन्धाद्यः स्नेहो रागस्तस्माद्वृष्णयो यूयं
च इत्येकम् । तस्माद्वैरानुबन्धेन इत्यादौ कामातित्यादौ
चोक्तस्यैवार्थस्योदाहरणवाक्येऽस्मिन् तद्ऐकार्त्याकश्यमत्वात् ।
पञ्चानाम् (पगे १७१) इति वक्ष्यमाणानुरोधात् । उभयत्रापि सम्बन्ध
स्नेहयोर्द्वयोरपि विद्यमानत्वाच्च सम्बन्धग्रहणं रागस्यैव
विशेषत्वज्ञापनार्थम् । गोपीवदत्रापि साधकचरा वृष्णिविशेषाः
पाण्डवसम्बन्धिविशेषाश्च पूर्वावस्थामवलम्ब्य साधकत्वेन
निर्दिष्टाः । अतः सम्बन्धजस्नेहेऽपि तद्अभिरुचिमात्रं ज्ञेयम् । भक्त्या
विहितया । अस्या एव प्रतिलब्धत्वेन भावमार्गं निर्देष्टुम्
उपक्रान्तत्वात् ।

[३२२]

यदि द्वेषेणापि सिद्धिस्तर्हि वेणः किमिति नरके पातित इत्याशङ्क्याह
कतमोऽपि न वेनः स्यात्पञ्चानां पुरुषं प्रति [भागवतम् ७.१.३१]

पुरुषं भगवन्तं प्रति लक्ष्यीकृत्य पञ्चानां वैरानुबन्धादीनां
मध्ये वेणः कतमोऽपि न स्यात् । तस्य तं प्रति प्रासङ्गिकनिन्दा
मात्रात्मकं वैरं न तु वैरानुबन्धः । ततस्तीव्रध्यानाभावात्
पापमेव तत्र प्रतिफलितमिति भावः । ततोऽसुरतुल्यस्वभावैरपि
तस्मिन् स्वमोक्षार्थं वैरभावानुष्ठानसाहसं न कर्तव्यमित्य्
अभिप्रेतम् । अतएव ये वै भगवता प्रोक्ताः [भागवतम् ११.२.३२] इत्यादेरप्य्
अतिव्याप्तिर्व्याहन्यते अनभिप्रेतत्वेनाप्रोक्तत्वात् ।

[३२३]

यस्मादेवं

तस्मात्केनाप्युपायेन मनः कृष्णे निवेशयेत् ॥ [भागवतम् ७.१.३१] इति ।

अत्रापि पूर्ववन्निवेशयेदिति सम्मतिमात्रं न विधिः । केनापि तेष्वप्य्
उपायेषु युक्ततमेनैकेनेत्यर्थः । अज्पुअस्त्>अदृ<चबहुप्रयत्नसाध्य
वैधीभक्तिमार्गेण चिरात्साध्यते स एवाचिराद्भावविशेषमात्रेण तत्र
च द्वेषादिनापि । तस्मादेवंभूते परमसद्गुणस्वभावे तस्मिन्
दूरेऽस्तु पामरजनभाव्यस्य वैरस्य वार्ता को वाधम औदास्यम्
अवलम्ब्य प्रीतिमपि न कुर्यादिति रागानुगायामेव तच्च युक्ततमत्वम्
अङ्गीकृतं भवति ।

॥ ७.१ ॥ श्रीनारदः युधिष्ठिरम् ॥ ३१२३२३ ॥

[३२४]

तदेवं भावमार्गसामान्यस्यैव बलवत्त्वेऽपि कैमुत्येन रागानुगायाम्
एवाभिधेयत्वमाह

वैरेण यं नृपतयः शिशुपालपौण्ड्र
शाल्वादयो गतिविलासविलोकनाद्यैः ।
ध्यायन्त आकृतधियः शयनासनादौ
तत्साम्यमापुरनुरक्तधियां पुनः किम् ॥ [भागवतम् ११.५.४८]

आकृतिधियस्तत्तद्आकारा धीर्येषाम् । एवमेवोक्तं गारुडे

अज्ञानिनः सुरवरं समधिक्षिपन्तो
यं पापिनोऽपि शिशुपालसुयोधनाद्याः ।
मुक्तिं गताः स्मरणमात्रविधूतपापाः
कः संशयः परमभक्तिमतां जनानाम् ॥ इति ।

अत्प्यथा वैरानुबन्धेन [भागवतम् ७.१.२६] इत्यत्र वैरानुबन्धस्य सर्वत
आधिक्यं न योजनीयम् । यच्च
मयि संरम्भयोगेन निस्तीर्य ब्रह्महेलनम् ।
प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः ॥ [भागवतम् ३.१६.३०] इति ।

इति जयविजयौ प्रति वैकुण्ठवचनम् । तदपि तद्अपराधाभास
भोगार्थमेव संरम्भयोगाभासं विधत्ते तत्प्राप्तेस्तयोः
स्वाभावैकसिद्धत्वात् । युद्धलीलार्थमेव तत्प्रपञ्चनात् ।

अत्र द्वेषादावपि केचिद्भक्तित्वं मन्यन्ते । तदसत् । भक्तिसेवादि
शब्दानामानुकूल्य एव (पगे १७२) प्रसिद्धेर्वैरे तद्विरोधत्वेन तद्
असिद्धेश्च । पाद्मोत्तरखण्डे च भक्तिद्वेषादीनां च भेदोऽवगम्यते


योगिभिर्दृश्यते भक्त्या नाभक्त्या दृश्यते क्वचित् ।
द्रष्टुं न शक्यो रोषाच्च मत्सराद्वा जनार्दनः । [ড়द्मড়् ६.२३८.८३] इत्य्
अत्र च ।

ननु मन्येऽसुरान् भागवतान् [भागवतम् ३.२.२४] इत्यादौ श्रीमद्उद्धववाक्ये
तेषामपि भागवतत्वं निर्दिश्यते । मैवम् । यतो मन्य इत्य्
अनेनोत्प्रेक्षावगमान्न स्वयं भागवतत्वं तत्रास्तीयेवं सिध्यतीति । सा
चोत्प्रेक्षा तेन तच्छोकौत्कण्ठ्यवता केवलदर्शनभाग्यांशेनैव
रचिता युक्तैव । यथा हन्त वयमेव बहिर्मुखाः । येषामन्तिसमये
तन्मुखचन्द्रमसो दर्शनसम्भावनापि न विद्यते । येभ्यश्चासुरा
अपि भागवताः । ये खलु तदानीं तन्मुखचन्द्रमसो दर्शन
सौभाग्यं प्रापुरिति । तस्मान्न द्वेषादौ कथञ्चिदपि भक्तित्वम् ।

॥ ११.५ ॥ श्रीनारदः श्रीवसुदेवम् ॥ ३२४ ॥

[३२५]

तदेवं रागानुगा साधिता । सा च श्रीकृष्ण एव मुख्या । गोप्यः कामात्
[भागवतम् ७.१.२९] इत्यादिना तस्मिन्नेव दर्शितत्वात् । दैत्यानामपि द्वेषेणापि
तस्मिन्नेवावेशलाभदर्शनात् । सिद्धिप्राप्तेश्च । नान्यत्र तु कुत्राप्य्
अंशिन्यंशे वा । अतएवोक्तं तस्मात्केनाप्युपायेन मनः कृष्णे निवेशयेत्
इत्यादि । अतस्तादृशझटित्य्आवेशहेतूपासनालाभादेव स्वयमेकादशे
वैधोपासना स्वस्मिन्नोक्ता । किन्त्वन्यत्र चतुर्भुजाकार एव । तत्र च
शुद्धस्य रागस्य श्रीगोकुल एव दर्शनात्तत्र तु रागानुगा मुख्यतमा
यत्र खलु स्वयं भगवानपि तेषां पुत्रादिभावेनैव विलसति । ये यथा
मां प्रपद्यन्ते [गीता ४.११] इत्यादेः । मल्लानामशनिर्[भागवतम् १०.४३.१४]
इत्यादेः । स्वेच्छामयस्य [भागवतम् १०.१४.२] इत्यस्माच्च । ततश्च भक्तकर्तृक
भोजनपानस्नपनबीजनादिलक्षणलालनेच्छापि तस्याकृत्रिमैव जायते ।
साधारणभक्तिसद्भावेनैव हि

पत्रं पुष्पं फलंतोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्य्उपहृतमश्नामि प्रयतात्मनः ॥ [भागवतम् १०.८१.३] इत्य् उक्तम् ।

श्रीशुकदेवेन च तदेतदेवाकाङ्क्षया श्लाघितम् ।

पादसंवाहनं चक्रुः केचित्तस्य महात्मनः ।
अपरे हतपाप्मानो व्यजनैः समबीजयत् ॥ [भागवतम् १०.१५.१५] इत्यादिना ।

नानेन चैश्वर्यस्य हानिः । तदानीमपि तस्यैश्वर्यस्यान्यत्र स्फुरद्
रूपत्वात् । भक्तेच्छामयत्वस्य चेशितरि प्रशंसनीयस्वभावत्वादेव ।
यथा श्रीव्रजेश्वरीबद्ध एव यमलार्जुनमोक्षं कृतवान्
तादृशैश्वर्येऽपि तस्मिन् श्रीव्रजेश्वरीवश्यतैव श्रीशुकदेवेन वन्दिता
एवं सन्दर्शिता ह्यङ्ग [भागवतम् १०.९.१९] इत्यादिना । तस्माद्ये चाद्यापि तदीय
रागानुगापरास्तेषामपि श्रीव्रजेन्द्रनन्दनत्वादिमात्रधर्मैर्
उपासना युक्ता । यथा श्रीगोवर्धनोद्धरणलब्धविस्मयान् श्रीगोपान्
प्रत्युक्तं स्वयं भगवतैव विष्णुपुराणे

यदि वोऽस्ति मयि प्रीतिः श्लाघ्योऽहं भवतां यदि ।
तद्आत्मबन्धुसदृशी बुद्धिर्वः क्रियतां मयि ॥ [Vइড়् ५.१३.११] इति । (पगे
१७३)

तदार्चा बन्धुसदृशीं बान्धवाः क्रियतां मयि इति वा पाठः । तथा

नाहं देवो न गन्धर्वो न यक्षो न च दानवः ।
अहं वो बान्धवो जातो नातश्चिन्त्यमतोऽन्यथा ॥ [Vइড়् ५.१३.१२] इति ।

युवां मां पुत्रभावेन वासकृत्[भागवतम् १०.३.३६] इत्यत्र तु श्री
वसुदेवादीनामैश्वर्यज्ञानप्रधानत्वाद्द्व्यत्मिकैव भगवद्
अनुमतिर्ज्ञेया । प्राग्जन्मन्यपि तयोस्तपादिप्रधानैव भक्तिरुक्ता ।

अतः श्रीव्रजेश्वर्याः पुनस्तन्मुखदृष्टवैभवत्वमश्लाघित्वा
पुत्रस्नेहमयीं मायाद्य्एकपर्यायां तत्कृपामेव बहुमन्यमानस्
तादृशभाग्यं च श्रीव्रजेश्वरस्य च भाग्यं तादृशबाल्य
लीलोच्छल्यमानपुत्रभावेन राजमानमतिश्लाघितवान् राजा नन्दः किम्
अकरोद्ब्रह्मन् [भागवतम् १०.८.३६] इत्यादिद्वयेन । श्रीमुनिराजश्च तादृशतत्
प्रेमैव श्लाघितवान् एवं सन्दर्शिता ह्यङ्ग हरिणा [भागवतम् १०.९.२९] इत्य्
आदिना ।

तदेवं श्रीवसुदेवदेवक्यावुपलक्ष्य श्रीनारदो साधकान् प्रति
दर्शनालिङ्गनालापैः [भागवतम् ११.५.४३] इत्यादिना यदुपदिष्टवान् । तत्र टीका
च यथा पुत्रोपलालनेनैव भागवतधर्मसर्वस्वनिष्पत्तेः इत्येषा ।

तथा मापत्यबुद्धिमकृथाः कृष्णे सर्वेश्वरेश्वरे [भागवतम् ११.५.४५] इति । एतद्
अपि तद्अविरोधेन टीकायामेवमवतारितम् । यथा ननु, पुत्रस्नेहश्चेन्
मोक्षहेतुस्तर्हि सर्वेऽपि मुच्येरन् तत्राह मापत्यबुद्धिमिति इत्येतत् ।

तस्मिन्नपत्यत्वं प्राप्तेऽपि तस्मिंस्तादृशभावनावशं गतेऽपि अस्ति
स्वाभाविकं पारमैश्वर्यमधिकमिति भावः । यद्वा पूर्ववन्न्
आर्षोऽडागमः किन्त्वकारो निषेधे अभावे न ह्यनो न इत्य्शब्दकोषात् ।
ततो निषेधद्वयादपत्यबुद्धिमेव कुरु इत्यर्थः ।

अतएव ज्ञानाज्ञानयोरनादरेण केवलरागानुगाया एवानुष्ठितिः प्रशस्ता ।
ज्ञात्वाज्ञात्वाथ ये वै माम् [भागवतम् ११.११.३३] इत्यादिना । तस्मात्श्रीगोकुल एव
रागात्मिकायाः शुद्धत्वात्तद्अनुगा भक्तिरेव मुख्यतमा इति साद्व्
एवोक्तम् ।

तदेवमन्यत्रासम्भवतया रागानुगामात्मदृष्ट्या पूर्णभगवत्ता
दृष्ट्या च श्रीकृष्णभजनस्य माहात्म्यं महदेव सिद्धम् । तत्रापि
गोकुललीलात्मकस्य । अथ तद्भजनमात्रस्य माहात्म्यमुपक्रमत एव
यथा

मुनयः साधु पृष्टोऽहं भवद्भिर्लोकमङ्गल ।
यत्कृतः कृष्णसम्प्रश्नो येनात्मा सुप्रसीदति ॥ [भागवतम् १.२.५] इति ।

तत्रैतद्वक्तव्यं पूर्वं मनसः प्रसादहेतुः पृष्टः । अनेन तु श्री
कृष्णप्रश्नमात्रस्य तद्धेतुनोक्ता । न तु स वै पुंसां परो धर्मः
[भागवतम् १.२.६] इत्यादिना तदीयानन्तरप्रकरणे यथा महता प्रयत्नेन
कर्मार्पणमारभ्य भक्तिनिष्ठापर्यन्त एव जाते प्रादुर्भावानन्तर
भजनस्य तद्धेतुनोक्ता तथेति । अतएवावतारान्तरकथाया अपि तद्
अभिनिवेश एव फलमित्याह

हरेरद्भुतवीर्यस्य कथा लोकसुमङ्गलाः ।
कथयस्व महाभाग यथाहमखिलात्मनि ॥
कृष्णे निवेश्य निःसङ्गं मनस्त्यक्ष्ये कलेवरम् । [भागवतम् २.८.३४] इति ।

हरेस्तद्अवताररूपस्य । अखिलात्मनि सर्वांशिनि कृष्णे श्रीमद्अर्जुन
सखे ॥

॥ २.८ ॥ राजा ॥ ३२५ ॥
(पगे १७४)

[३२६]

तथा श्रीमद्उद्धवसंवादान्ते च यथा । तत्र यद्यपि पूर्वाध्याय
समाप्तौ उक्ताया ज्ञानयोगचर्याया भक्तिसहभावेनैव स्वफल
जनकत्वं श्रीभगवतोक्तं तथापि तां ज्ञानयोगचर्यामंशतोऽप्य्
अनङ्गीकुर्वता परमैकान्तिना श्रीमद्उद्धवेन

सुदुस्तरामिमां मन्ये योगचर्यामनात्मनः ।
यथाञ्जसा पुमान् सिध्येत्तन्मे ब्रूह्यञ्जसाच्युत ॥
प्रायशः पुण्डरीकाक्ष युञ्जन्तो योगिनो मनः ।
विषीदन्त्यसमाधानान्मनोनिग्रहकर्शिताः ॥ [भागवतम् ११.२९.१२] इति ।

अत्र स्ववाक्ये तस्या दुष्करत्वेन प्रायः फलपर्यवसायित्वाभावेन
चोक्तत्वात् । शुश्रूष्यमाणाया भक्तेस्तु सुकरत्वेनावश्यकफल
पर्यवसायित्वेन चाभिप्रेतत्वात् । तद्भक्तिरेव कर्तव्येति स्वाभिप्रायो
दर्शितः । तदेवं तां ज्ञानयोगचर्यामनादृत्य भक्तिमेवापि कुर्वाणास्
तव श्रीकृष्णरूपस्यैव भक्तिं तादृशास्तु ज्ञानयोगादिफलानादरेणैव
कुर्वन्तीति पुनराह चतुर्भिः

अथात आनन्ददुघं पदाम्बुजं
हंसाः श्रयेरन्नरविन्दलोचन ।
सुखं नु विश्वेश्वर योगकर्मभिस्
त्वन्माययामी विहता न मानिनः ॥ [भागवतम् ११.२९.३]

यस्मादेवं केचन विषीदन्ति अथान्त अत एव ये हंसा सारासारविवेक
चतुराः ते तु समस्तानन्दपूरकं पदाम्बुजमेव तु निशिच्तं सुखं
यथा स्यात्तथा श्रयेरन् सेवन्ते । पदाम्बुजस्य सम्बन्धिपदानुरक्तिः
साक्षाद्दृश्यमानत्वदीयपदाम्बुजाभिव्यञ्जनार्था । अमी च शुद्ध
भक्ता योगकर्माभिस्त्वन्मायया च विहता कृतभक्तानुष्ठानान्तराया
न भवन्ति । यतो न च मानिनस्ते मानिनोऽपि न भवन्ति । पुरुषार्थ
साधने भगवतो निरुपाधिदीनजनकृपाया एव साधकतमत्वं
मन्यन्ते न योगिप्रभृतिवत्स्वप्रयत्नस्येत्यर्थः ।

[३२७]

एवम्भूतस्य भक्तस्य ज्ञानयोगादीनां यत्फलं तन्मात्रं न किन्त्व्
अन्यन्महदेवेत्याह

किं चित्रमच्युत तवैतदशेषबन्धो
दासेष्वनन्यशरणेषु यदात्मसात्त्वम् ।
योऽरोचयत्सह मृगैः स्वयमीश्वराणां
श्रीमत्किरीटतटपीडितपादपीठः ॥ [भागवतम् ११.२९.४]

अशेषबन्धो दासेष्वनन्यशरणेषु, यद्वा अशेषाणामसुरपर्यन्तानां
यो बन्धुर्मोक्षादिदानैर्निरुपाधिहितकारी हे तथाभूत तवैतत्किं
चित्रं यद्अनन्यशरणेषु ज्ञानयोगकर्माद्य्अनुष्ठानविमुखेषु
दासेषु शुद्धभक्तेषु बलिप्रभृतिषु आत्मसत्त्वं तेषां य आत्मा तद्
अधीनत्वमित्यर्थः । तदुक्तम् न साधयति मां योगः [भागवतम् ११.१२.१] इत्य्
आदि । तस्य तव तथाभूतेषु न जातिगुणाद्य्अपेक्षा चेत्यन्तरङ्गलीलायाम्
अपि दृश्यत इत्याह यः इति । सहेति सहभावं सख्यमित्यर्थः । मृगैर्
वृन्दावनचारिभिः । स्वयं तु कथम्भूतोऽपि ईश्वराणामित्यादि
लक्षणोऽपि । ईश्वराः श्रीशिवब्रह्मादयः । ज्ञानयोगादिपरमफल
रूपाणि या मुक्तिस्तां दैत्येभ्यो ददासि । पाण्डवादिसख्यदौत्य
वीरासनादिस्थितिवद्दासानां तु स्वयमधीनो भवसि । अतएवम्भूतस्य
श्रीकृष्णस्यैव तव भक्तिर्मुख्येति भावः ।

[३२८]

फलितमाह (पगे १७५)

तं त्वाखिलात्मदयितेश्वरमाश्रितानां
सर्वार्थदं स्वकृतविद्विसृजेत को नु ।
को वा भजेत्किमपि विस्मृतयेऽनु भूत्यै
किं वा भवेन्न तव पादरजोजुषां नः ॥ [भागवतम् ११.२९.५]

तमेवम्भूतं त्वां स्वकृतवित्प्रसन्नवदनाम्भोजं पद्म
गर्भारुणेक्षणम् [भागवतम् ७.२८.१३] इत्यादिश्रीकपिलदेवोपदेशतः स्व
सौन्दर्यादिस्फूर्तिलक्षणं स्वस्मिन् कृतं त्वदीयोपकारं यो वेत्ति स को नु
विसृजेत्तच्चापि चित्तबडिशं शनकैर्वियुङ्क्ते [भागवतम् ७.२८.३४] इति तद्
उपदिष्¸ओआधिकारिविशेषवत्परित्यज्यते ? न कोऽपीत्यर्थः । तस्माद्यस्
त्यजति स कृतघ्न एवेति भावः । कथम्भूतं त्वाम् ? स्वरूपत
एवाखिलानामात्मना दयितं प्राणकोटिप्रेष्ठमीश्वरं चेत्यादि । तथा
नु वितर्के, त्वद्व्यतिरिक्तं किमपि देवतान्तरं धर्मज्ञानादिसाधनं
भूत्यै ऐश्वर्याय संसारस्य विस्मृतये मोक्षाय वा को भजेत । न कोऽपीत्य्
अर्थः । अस्माकं तु तत्तत्फलमपि त्वभक्तेरेवान्तर्भूतमित्याह किं
चेति । वाशब्देन तत्राप्यनादरः सूचितः । तदुक्तं यत्कर्मभिर्यत्तपसा
[भागवतम् ११.२०.३२] इत्यादि ।

नैवोपयन्त्यपचितिं कवयस्तवेश
ब्रह्मायुषापि कृतमृद्धमुदः स्मरन्तः ।
योऽन्तर्बहिस्तनुभृतामशुभं विधुन्वन्न्
आचार्यचैत्त्यवपुषा स्वगतिं व्यनक्ति ॥ [भागवतम् ११.२९.६]

हे ईश ! कवयः सर्वज्ञाः ब्रह्मतुल्यायुषोऽपि तत्कालपर्यन्तं
भजन्तोऽपीत्यर्थः । तव कृतमुपकारमृद्धमुद उपचितत्वद्भक्ति
परमानन्दाः सन्तः स्मरन्तोऽपचितिं प्रत्युपकारमानृण्यमिति यावत् ।
तां न उपयन्ति पश्यन्ति । तस्मान्न विसृजेदित्युक्तम् । कृतमाह यो
भवान् तनुभृतां त्वत्कृपाभाजनत्वेन केषांचित्सकलतनुधारिणां
बहिराचार्यवपुषा गुरुरूपेण, अन्तश्चैत्त्यवपुषा चित्तस्फुरित
ध्येयाकारेणाशुभं त्वद्भक्तिप्रतियोगि सर्वं विधुन्वन् स्वगतिं
स्वानुभवं व्यनक्ति इति ।

॥ ११.२९ ॥ श्रीमद्उद्धवः ॥ ३२६३२९ ॥

[३३०]

तथैव स्वभक्तेरतिशयित्वं श्रीभगवानपि तद्अनन्तरमुवाच । तत्र
च तादृशान् प्रति शुद्धां स्वभक्तिं हन्त ते कथयिष्यामि [भागवतम् ११.२९.८] इत्य्
आदिचतुर्भिरुक्त्वाप्येतादृशान् प्रति च करुणया स्वभजन
प्रवर्तनार्थमन्यद्विचारितवान् चतुर्भिः । यतः प्रायशो लोकाः
स्पर्धादिपराः कथञ्चिदन्तर्मुखत्वेऽपि सर्वान्तर्यामिरूपत्वद्
भजनमात्रज्ञानिन इत्यालोच्य कृपया तेषां स्पर्धादीन् झटिति
दूरीकर्तुं स्वस्मिन्नेवान्तर्मुखीकर्तुं च विष्टभ्याहमिदं कृत्स्नम्
एकांशेन स्थितो जगत्[गीता १०.४२] इत्याद्य्उक्ततद्अन्तर्यामिरूपस्वांशस्य
भजनस्थाने स्वभजनमुपदिष्टवान् । यथा

मामेव सर्वभूतेषु बहिरन्तरपावृतम् ।
ईक्षेतात्मनि चात्मानं यथा खममलाशयः ॥ [भागवतम् ११.२९.१२]

टीका च अन्तरङ्गां भक्तिमाह मामिति त्रिभिः । सर्वभूतेष्वात्मनि
चात्मानमीश्वरस्थितं मामेव ईक्षेत इत्येषा । (पगे १७६)

कथम्भूतमीश्वरम् ? बहिरन्तः पूर्णमित्यर्थः । तत्कुतः ?
अपावृतमनावरणम् । तदपि कुतः ? यथा खमनङ्गत्वाद्विभुत्वाच्
चेत्यर्थः । अत्र मामेवेति श्रीकृष्णरूपमेवेक्षत, न तु
केवलान्तर्यामिरूपमित्यभिप्रायेणैवान्तरङ्गां भक्तिमाहेति
व्याख्यातम् ।

[३३१]

ततश्च

इति सर्वाणि भूतानि मद्भावेन महाद्युते ।
सभाजयन्मन्यमानो ज्ञानं केवलमाश्रितः ॥
ब्राह्मणे पुक्कसे स्तेने ब्रह्मण्येऽर्के स्फुलिङ्गके ।
अक्रूरे क्रूरके चैव समदृक्पण्डितो मतः ॥ [भागवतम् ११.२९.१३१४]

केवलं ज्ञानमन्तर्यामिदृष्टिमाश्रितोऽपीति पूर्वोक्तप्रकारेण सर्वाणि
भूतानि मद्भावेन तेषु मम श्रीकृष्णरूपस्य यो भावोऽस्तित्वं तद्
विशिष्टतया मन्यमानः सभाजयन् पण्डितो मतः । मद्दृष्ट्या
ब्राह्मणादिषु समदृक्समं मामेव पश्यतीति ।

[३३२]
ततश्च नरेष्वभीक्ष्णम् [भागवतम् ११.२९.१५] इत्यादिना तादृशस्वोपासना
विशेषस्य झटिति स्पर्धादिक्सयलक्षणं फलमुक्त्वा विसृज्य [भागवतम्
११.२९.१६] इत्यादिना तथादृष्टसाधनं सर्वनमस्कारमुपदिश्य यावत्
[भागवतम् ११.२९.१७] इत्यादिना तादृशोपासनाया अवधिं च सर्वत्र स्वतः स्व
स्फूर्तिमुक्त्वा सर्वं [भागवतम् ११.२९.१८] इत्यादिना

नव्यवद्धृदये यज्ज्ञो ब्रह्मैतद्ब्रह्मवादिभिः ।
न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गताः ॥ [भागवतम् ४.३०.२०]

इति प्रचेतसः प्रति श्रीभगवद्वाक्ये तट्टीकायां च तस्य भगवतः
प्रतिपदनव्यस्फूर्तिरेव ब्रह्मेतीति यदुक्तं तदेव तत्फलमित्य्
उक्त्वा, यद्वा कथमन्यावतारस्य ब्रह्मता भवतीति गोपालतापनी
प्रसिद्धब्रह्मेत्य्अभिधाननराकृतिपरब्रह्मरूपस्फूर्तिस्तत्
फलमित्युक्त्वा तेनैव तादृशोपासनां सर्वोर्ध्वमपि प्रशंसति

अयं हि सर्वकल्पानां सध्रीचीनो मतो मम ।
मद्भावः सर्वभूतेषु मनोवाक्कायवृत्तिभिः ॥ [भागवतम् ११.२९.१९]

सर्वकल्पानां सर्वोपायानां सध्रीचीनः समीचीनः । मद्भावो मम
श्रीकृष्णरूपस्य भावना ।

[३३३]

एतच्च श्रीकृष्णभजनस्यान्तर्यामिभजनादप्याधिक्यं श्री
गीतोपसंहारानुसारेणैवोक्तम्

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥
तमेव शरणं गच्छ सर्वभावेन भारत ।
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया ।
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥
पगे १७७)
सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ [गीता १८.६१६६] इति ।

अत्र च गुह्यं पूर्वाध्यायोक्तं ज्ञानम् । गुयतरमन्तर्यामिज्ञानम् ।
सर्वगुह्यतमं तन्मनस्त्वादिलक्षणं तद्एकशरणत्वलक्षणं च
तद्उपासनमिति समानम् । एवं श्रीगीतास्वेव नवमाध्यायेऽपि

इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ [गीता ९.१]

राजविद्या राजगुह्यम् [गीता ९.२] इत्यादिना वक्ष्यमानार्थं प्रशस्य श्री
कृष्णरूपस्वभजनश्रद्धाहीनान्निन्दंस्तच्छ्रद्धावतः
प्रशस्तवान् स्वयमेव । यथा

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ [गीता ९.१११३] इति ।

मामेव अनादरेण मानुषीं तनुमाश्रितं जानन्तीत्यर्थः । तस्मात्
सर्वान्तर्यामिभजनादप्युत्तमत्वेन तद्अनन्तरं च सर्वगुह्यतमम्
इत्यत्र सर्वग्रहणात्सर्वत उत्तमत्वेन श्रीकृष्णभजने सिद्धे तद्
अवतारान्तरभजनात्सुतरामेवोत्तमता सिध्यति । अथ तामेव
कैमुत्येनाप्याह

यो यो मयि परे धर्मः कल्प्यते निष्फलाय चेत् ।
तद्आयासो निरर्थः स्याद्भयादेरिव सत्तम ॥ [भागवतम् ११.२९.२१]

मयि मद्अर्पितत्वेन कृतो यो योउ धर्मो वेदविहितः स स यदि निष्फलाय
फलाभावाय कल्प्यते फलकामनया नार्प्यत इत्यर्थः । तदा तत्र
तत्रायासः श्रान्तिरनिरर्थः स्याद्व्यर्थो न भवति । निष्फलायेति विशेषणं
फलभोगादिरूपतद्भक्त्य्अन्तरायाभावेनानिरर्थतातिशयतात्पर्यम् ।
तत्रानिरर्थत्वे कैमुत्येन श्रीकृष्णलक्षणस्य स्वस्यासाधारण
भजनीयताव्यञ्जको दृष्टान्तो भयादेरिवेति । यथा कंसादौ मत्
सम्बन्धमात्रेण भयादेरप्यायासो निरर्थो न भवति मोक्ष
सम्पादकत्वादित्यर्थः ।

[३३४]

अथ श्रीमद्उद्धववत्श्रीकृष्णैकानुगतानां साधनत्वे साध्यत्वे च
स्वयं श्रीकृष्णरूप एव परमोपादेय इत्याह (पगे १७८)

ज्ञाने कर्मणि योगे च वार्तायां दण्डधारणे
यावानर्थो नृणां तात तावांस्तेऽहं चतुर्विधः ॥ [भागवतम् ११.२९.३३]

ज्ञानादौ यावान् धर्मादिलक्षणश्चतुर्विधोऽर्थस्तावान् सर्वोऽप्यहम्
एव । तत्र ज्ञाने मोक्षः । कर्मणि धर्मः कामश्च । योगे नानाविध
सिद्धिलक्षणो लौकिको वार्तायां दण्डधारणे च नानाविधलौकिकश्
चार्थ इति चतुर्विधत्वं ज्ञेयम् ।

॥ ११.२९ ॥ श्रीभगवान् ॥ ३३०३३४ ॥

[३३५]

पुनरेवमेव श्रीमद्उद्धवोऽपि प्रार्थितवान्

नमोऽस्तु ते महायोगिन् प्रपन्नमनुशाधि माम्
यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी ॥ [भागवतम् ११.२९.४०]

टीका च एवं यद्यपि त्वया बहु कृतं तथाप्येतावत्प्रार्थय इत्याह
नमोऽस्त्विति । अनुशाधि अनुशिक्षय । अनुशासनीयत्वमेवाह यथेति । मुक्ताव्
अप्यनपायिनी इत्येषा ।

॥ ११.२९ ॥ श्रीमानुद्धवः ॥ ३३५ ॥

[३३६]

अतएवान्यत्रायभिप्रायाय

यथा त्वामरविन्दाक्ष यादृशं वा यद्आत्मकम् ।
ध्यायेन्मुमुक्षुरेतन्मे ध्यानं त्वं वक्तुमर्हसि ॥ [भागवतम् ११.१४.३१]
टीका च मुमुक्षुस्त्वां यथा ध्यायेत्तन्मे वकुत्मर्हसि जिज्ञासोः
कथनाय मे । पुनरेतत्त्वद्दास्यमेव पुरुषार्थः । न तु ध्यानेन
कृत्यमस्तीति । तदुक्तं त्वयोपभुक्तस्रग्गन्ध [भागवतम् ११.६.३१] इत्य्आदि इत्य्
एषा ।

॥ ११.१४ ॥ श्रीमानुद्धवः ॥ ३३६ ॥

[३३७]

तस्य सर्वावतारावतारिष्वप्रकटितं परमशुभस्वभावत्वं च
स्मृत्वाह

अहो बकी यं स्तनकालकूटं
जिघांसयापाययदप्यसाध्वी ।
लेभे गतिं धात्र्य्उचितां ततोऽन्यं
कं वा दयालुं शरणं व्रजेम ॥ [भागवतम् ३.२.२३]
धात्र्या या उचिता गतिस्तामेव ॥

॥ ३.२ ॥ स एव ॥ ३३७ ॥

[३३८]

अथ गोकुलेऽपि श्रीमद्व्रजवधूसहितरासादिलीलात्मकस्य परम
वैशिष्ट्यमाह

विक्रीडितं व्रजवधूभिरिदं च विष्णोः
श्रद्धान्वितो यः शृणुयादथ वर्णयेद्वा ।
भक्तिं परां भगवति परिलभ्य कामं
हृद्रोगमाश्वपहिनोत्यचिरेण धीरः ॥ [भागवतम् १०.३३.३९]

चकारादन्यच्च । अथेति वाथ । शृणुयाद्वा वर्णयेद्वा । उपलक्षणं
चैतद्ध्यानादेः । परां यतः परा नान्या कुत्रचिद्विद्यते तादृशीम् । हृद्
रोगं कामादिकमपि शीघ्रमेव त्यजति । अत्र सामान्यतोऽपि परमत्व
सिद्धेस्तत्रापि परमश्रेष्ठश्रीराधासंवलितलीलामयतद्भजनं
तु परमतममेवेति स्वतः सिध्यति । किन्तु रहस्यलीला तु पौरुष
विकारवदिन्द्रियैः पितृपुत्रदासभावैश्च नोपास्या (पगे १७९) स्वीय
भावविरोधात् । रहस्यत्वं च तस्याः क्वचिदल्पांशेन क्वचित्तु
सर्वांशेनेति ज्ञेयम् ।

॥ १०.३३ ॥ श्रीशुकः ॥ ३३८ ॥

[३३९]

तत्र ते भक्तिमार्गाः दर्शिताः । अत्र च श्रीगुरोः श्रीभगवतो वा प्रसाद
लब्धं साधनसाध्यगतं स्वीयसर्वस्वभूतं यत्किमपि रहस्यं तत्
तु न कस्मैचित्प्रकाशनीयम् । यथाह

नैतत्परस्मा आख्येयं पृष्टयापि कथञ्चन ।
सर्वं सम्पद्यते देवि देवगुह्यं सुसंवृतम् ॥ [भागवतम् ८.१७.२०]

सम्पद्यते फलदं भवति ।

॥ ८.१७ ॥ श्रीविष्णुरदितिम् ॥ ३३९ ॥

[३४०]

तदेवं साधनात्मिका भक्तिर्दर्शिता । तत्र सिद्धिक्रमश्च श्री
सूतोपदेशारम्भे शुश्रूषोः श्रद्दधानस्य [भागवतम् १.२.१६] इत्यादिना दर्शितः ।
यथा च श्रीनारदवाक्ये अहं पुरातीतभवेऽभवम् [भागवतम् १.५.२३] इत्य्
आदौ । यथा च श्रीकपिलदेववाक्ये सतां प्रसङ्गान्मम वीर्यसंविदः
[भागवतम् ३.२५.२२] इत्यादौ । अत्र कैवल्यकामायां भक्त्या पुमान् जातविरागः
[भागवतम् ३.२५.२३] इत्यादिना । शुद्धायां नैकात्मतां मे स्पृहयन्ति केचित्[भागवतम्
३.२५.३१] इत्यादिना क्रमो ज्ञेयः । तथा शुद्धायामेव श्रीप्रह्लादकृत
दैत्यबालानुशासने गुरुशुश्रूषया [भागवतम् ७.७.२५] इत्यादिना । तमेवं
क्रममेव सङ्क्षिप्य सदृष्टान्तमाह

भक्तिः परेशानुभवो विरक्तिर्
अन्यत्र चैष त्रिक एककालः ।
प्रपद्यमानस्य यथाश्नतः स्युस्
तुष्टिः पुष्टिः क्षुद्अपायोऽनुघासम् ॥

इत्यच्युताङ्घ्रिं भजतोऽनुवृत्त्या
भक्तिर्विरक्तिर्भगवत्प्रबोधः ।
भवन्ति वै भागवतस्य राजंस्
ततः परां शान्तिमुपैति साक्षात् ॥ [भागवतम् ११.२.४२४३]

टीका च प्रपद्यमानस्य हरिं भजतः पुंसो भक्तिः प्रेमलक्षणा
परेशानुभवः प्रेमास्पदभगवद्रूपस्फूर्तिस्तया निर्वृतस्य
ततोऽन्यत्र गृहादिषु विरक्तिरित्येषा । त्रिक एककालो भजनसमकाल एव
स्यात् । यथाश्नतो भुञ्जानस्य तुष्टिः सुखं पुष्टिरुदरभरणं क्ष्न्
निवृत्तिश्च प्रतिग्रासं स्युः । उपलक्षणमेतत्प्रतिसिक्थमपि यथा स्युस्
तद्वत् । एवमेवैकस्मिन् भजने किञ्चित्प्रेमादित्रिके जायमान अनुवृत्त्या
भजतः परमप्रेमादि जायते बहुग्रासभोजिन इव परमतुष्ट्य्आदि ।
ततश्च भगवत्प्रसादेन कृतार्थो भवतीत्याह इत्यच्युताङ्घ्रिमित्य्
एषा ।

शान्तिं कृतार्थत्वम् । साक्षादन्तर्बहिश्च प्रकटितपरम
पुरुषार्थत्वादव्यवधानेनैवेत्यर्थः । पूर्वपद्यभक्त्य्आदीनां
तुष्ट्य्आदयः क्रमेणैव दृष्टान्ता ज्ञेयाः । उत्तरत्राप्येतत्क्रमेण
भक्तितुष्ट्योः सुखैकरूपत्वात्पुष्ट्य्अनुभवयोरात्मभरणैक
रूपत्वात् । क्षुद्अपायविरक्त्योः शान्त्य्एकरूपत्वात् । यद्यपि
भुक्तवतोऽन्नेऽपि वैतृष्ण्यं जायते भगवद्अनुभविनस्तु विषयान्तर एवेति
वैधर्म्यम् । तथापि वस्त्व्अन्तरवैतृष्ण्यांश एव दृष्टान्तो गम्यत इति ॥

॥ ११.२ ॥ श्रीकविर्निमिम् ॥ ३४० ॥

तदेतद्व्याख्यातमभिधेयम् । अत्रान्योऽपि विशेषः शास्त्रमहाजन
दृष्ट्य्अनुसन्धेयः ।

(पगे १८०)

गुरुः शास्त्रं श्रद्धा रुचिरनुगतिः सिद्धिरिति मे
यदेतत्तत्सर्वं चरणकमलं राजति ययोः ।
कृपामाध्वीकेन स्नपितनयनाम्भोजयुगलौ
सदा राधाकृष्णाव्शरणगती तौ मम गतिः ॥

इति श्रीकलियुगपावनस्वभजनविभाजनप्रयोजनावतारश्रीश्री
भगवत्कृष्णचैतन्यदेवचरणानुचरविश्ववैष्णवराजसभाजन
श्रीरूपसनातनानुशासनभारतीगर्भे श्रीभागवतसन्दर्भे श्री
भक्तिसन्दर्भो नाम पञ्चमः सन्दर्भः ॥
समाप्तश्चायं श्रीभक्तिसन्दर्भः ॥