श्रीभागवतसन्दर्भः/षष्ठः सन्दर्भः

← पञ्चमः सन्दर्भः श्रीभागवतसन्दर्भः
षष्ठः सन्दर्भः
[[लेखकः :|]]

श्रीप्रीतिसन्दर्भः

तौ सन्तोषयता सन्तौ श्रीलरूपसनातनौ ।
दाक्षिणात्येन भट्टेन प्नुअरेतद्विविच्यते ॥ो॥
तस्याद्यं ग्रन्थनालेखं क्रान्तमुत्क्रान्तखण्डितम् ।
पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ॥ो॥

[१]

अथ प्रीतिसन्दर्भो लेख्यः । इह खलु शास्त्रप्रतिपाद्यं परमतत्त्वं
सन्दर्भचतुष्टयेन पूर्वं सम्बद्धम् । तद्उपासना च तद्अनन्तर
सन्दर्भेणाभिहिता । तत्क्रमप्राप्तत्वेन प्रयोजनं खल्वधुना
विविच्यते ।

पुरुषप्रयोजनं तावत्सुखप्राप्तिर्दुःखनिवृत्तिश्च । श्रीभगवत्
प्रीतौ तु सुखत्वं दुःखनिवर्तकत्वं चात्यन्तिकमिति । एतदुक्तं भवति
यत्खलु परमतत्त्वं शास्त्रप्रतिपाद्यत्वेन पूर्वं निर्णीतं, तदेव सद्
अनन्तपरमानन्दत्वेन सिद्धम् । श्रुतावपि सैषानन्दस्य मीमांसा
भवति इत्यारभ्य मानुषानन्दतः प्राजात्यानन्दपर्यन्तं दशकृत्वः
शतगुणिततया क्रमेण तेषामानन्दोत्कर्षपरिमाणं प्रदर्श्य पुनश्
च ततोऽपि शतगुणत्वेन परब्रह्मानन्दं प्रदर्श्याप्यपरितोषात्यतो
वाचो निवर्तन्ते इत्यादि श्लोकेन तद्आनन्दस्यानन्त्यत्वमेव स्थापितं
विलक्षणत्वं च । को ह्येवान्यात्कः प्राण्यात्यदेष आकाश आनन्दो न स्याद्
इत्यनेन नानास्वरूपधर्मतोऽपि तस्य केवलानन्दस्वरूपत्वमेव च
दर्शितम् । तथाभूतमार्तण्डादिमण्डलस्य केवलज्योतिष्ट्ववत् ।

अथ जीवश्च तदीयोऽपि तज्ज्ञानसंसर्गाभावयुक्तत्वेन तन्माया
पराभूतः सन्नात्मस्वरूपज्ञानलोपान्मायाकल्पितोपाध्यावेशाच्
चानादिसंसारदुःखेन सम्बध्यत इति परमात्मसन्दर्भादावेव
निरूपितमस्ति । तत इदं लभ्यते परमतत्त्वसाक्षात्कारलक्षणं तज्
ज्ञानमेव परमानन्दप्राप्तिः । सैव परमपुरुषार्थ इति ।
स्वात्माज्ञाननिवृत्तिः दुःखात्यन्तनिवृत्तिश्च निदाने तद्अज्ञाने गते सति
स्वत एव सम्पद्यते । पूर्वस्याः परमतत्त्वस्वप्रकाशताभिव्यक्ति
लक्षणमात्रात्मकत्वादुत्तरस्याश्च ध्वंसाभावरूपत्वाद्
अनश्वरत्वम् । उक्तं च पूर्वस्याः परमपुरुषार्थत्वं धर्मस्य ह्य्
अपवर्गस्य इत्यादिना [भागवतम् १.२.९],

तच्छ्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया ।
पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतगृहीतया ॥ इत्यन्तेन [भागवतम् १.२.१२] ।

स्वतः सर्वदुःखनिवृत्तिश्च तत्रैवोक्ता भिद्यते हृदयग्रन्थिर्[भागवतम्
१.२.१३] इत्यादिना । श्रीविष्णुपुराणे च

निरस्तातिशयाह्लादसुखभावैकलक्षणा ।
भेषजं भगवत्प्राप्तिरेकान्तात्यन्तिकी मता ॥ [Vइড়् ६.५.५९] इति ।

श्रुतौ च आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेति [टैत्तू २.४.१] ।
एष एव च मुक्तिशब्दार्थः । संसारबन्धच्छेदपूर्वकत्वात् । यथोक्तं
श्रीसूतेन

यदैवमेतेन विवेकहेतिना
मायामयाहङ्करणात्मबन्धनम् ।
छित्त्वाच्युतात्मानुभवोऽवतिष्ठते
तमाहुरात्यन्तिकमङ्ग सम्प्लवम् ॥ [भागवतम् १२.४.३४] इति ।

अच्युताख्ये आत्मनि परमात्मनि अनुभवो यस्य तथाभूतः सनवतिष्ठते
यत्तमात्यन्तिकं सम्प्लवं मुक्तिमाहुरित्यर्थः ।

अथ मुक्तिर्हित्वान्यथारूपं स्वरूपेण व्यवस्थितिरित्य्[भागवतम् २.१०.६] एतदपि
तत्तुल्यार्थमेव । यतः स्वरूपेण व्यवस्थितिर्नाम स्वरूपसाक्षात्कार
उच्यते । तद्अवस्थानमात्रस्य संसारदशायामपि स्थितत्वात् । अन्यथा
रूपत्वस्य च तद्अज्ञानमात्रार्थत्वेन तद्धानौ तज्ज्ञानपर्यवसानात् ।
स्वरूपं चात्र मुख्यं परमात्मलक्षणमेव । रश्मिपरमाणूनां
सूर्य इव स एव हि जीवानां परमोऽंशिस्वरूपः । यथोक्तं ब्रह्माणं प्रति
श्रीमता गर्भोदशायिना

यदा रहितमात्मानं भूतेन्द्रियगुणाशयैः ।
स्वरूपेण मयोपेतं पश्यन् स्वाराज्यमृच्छति ॥ [भागवतम् ३.९.३३] इति ।

उपेतं युक्तमित्येवाक्लिष्टोऽर्थः । जीवस्वरूपस्यैव गौणानन्दत्वं
दर्शितम् । तस्मात्प्रियतमः स्वात्मेत्युक्त्वा [भागवतम् १०.१४.५४]

कृष्णमेनमवेहि त्वमात्मानमखिलात्मनाम् ।
जगद्धिताय सोऽप्यत्र देहीवाभाति मायया ॥ इत्यनेन [भागवतम् १०.१४.५५],

जीवपरयोरभेदवादस्तु परमात्मसन्दर्भादौ विशेषतोऽपि
परिहृतोऽस्ति । अतएव निरधारयच्छ्रुतिः रसो वै सः रसं ह्येवायं
लब्ध्वानन्दी भवति [टैत्त्२.७.१] इति । अत्रांशेनांशिप्राप्तिश्च द्विधा
योजनीया । तत्राद्या ब्रह्मप्राप्तिर्मायावृत्त्य्अविद्यानाशानन्तरं केवल
तत्स्वरूपशक्तिलक्षणतद्विज्ञानाविर्भावमात्रम् । सा च स्वस्थान एव
वा स्यात् । क्रमेण सर्वलोकसर्वावरणातिक्रमानन्तरं वा स्यात् । उपासना
विशेषानुसारेण । द्वितीया भगवत्प्राप्तिश्च तस्य विभोरप्यसर्व
प्रकटस्यतस्मिन्नेवाविर्भावेन । विभुनापि वैकुण्ठे सर्वप्रकटेन
तेनाचिन्त्यशक्तिना स्वचरणारविन्दसान्निध्यप्रापणया च ।

तदेवं स्थिते, सा च मुक्तिरुत्क्रान्तदशायां जीवदशायामपि भवति ।
उत्क्रान्तस्योपाध्य्अभावेऽपि तदीयस्वप्रकाशतालक्षण
धर्माव्यवधानस्यैतत्साक्षात्काररूपत्वात् । जीवतस्तत्साक्षात्कारेण
मायाकल्पितस्यान्यथाभावस्य मिथात्वावभासात्सैषा मुक्तिर्
एवात्यन्तिकपुरुषार्थतयोपदिश्यते

तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते ।
त्रैवर्ग्योऽर्थो यतो नित्यं कृतान्तभयसंयुतः ॥ [भागवतम् ४.२२.३५]

इति श्रीपृथुं प्रति श्रीसनत्कुमारेण । श्रुतिश्च येनाहं नामृतः स्यां
किमहं तेन कुर्याम् [Bआऊ २.४.३] इति । तदेवं परमतत्त्व
साक्षात्कारात्मकस्य तस्य मोक्षस्य परमपुरुषार्थत्वे स्थिते पुनर्
विविच्यते । तच्च परमं तत्त्वं द्विधाविर्भवति । अस्पष्टविशेषत्वेन
स्पष्टस्वरूपभूतविशेषत्वेन च । तत्र ब्रह्माख्यास्पष्टविशेषपर
तत्त्वसाक्षात्कारतोऽपि भगवत्परमात्माद्य्आख्यस्पष्टविशेषतत्
साक्षात्कारस्योत्कर्षं भगवत्सन्दर्भे [८७]

जिज्ञासितमधीतं च ब्रह्म यत्तत्सनातनम् ।
तथापि शोचस्यात्मानमकृतार्थ इव प्रभो ॥ [भागवतम् १.५.४]

इत्यादिप्रकरणप्रघट्टकेन दर्शितवानस्मि । अत्रापि वचनान्तरं
दर्शयिष्यामि । तस्मात्परमात्मत्वादिलक्षणनानावस्थभगवत्
साक्षात्कार एव तत्रापि परमः । तत्र सत्यपि निरुपधिप्रीत्य्आस्पदत्व
स्वभावस्य तस्य स्वरूपधर्मान्तरवृन्दसाक्षात्कृतौ परमत्वे प्रीति
भक्त्य्आदिसंज्ञं प्रियत्वलक्षणधर्मविशेषसाक्षात्कारमेव
परमतमत्वेन मन्यन्ते । तया प्रीत्यैवात्यन्तिकदुःखनिवृत्तिश्च । यां
प्रीतिं विना तत्स्वरूपस्य तद्धर्मान्तरवृन्दस्य च साक्सात्कारो न
सम्पद्यते । यत्र सा तत्रावश्यमेव सम्पद्यते । यावत्येव प्रीतिसम्पत्तिस्
तावत्येव तत्सम्पत्तिः । सम्पद्यमाने सम्पन्ने च तस्मिन् साधिकम्
आविर्भवति । तदेतत्सर्वमपि युक्तमेव । परमसुखं खलु भगवतस्
तद्गुणवृन्दस्य च स्वरूपम् । सुखं च निरुपाधिप्रीत्य्आस्पदम् । ततस्
तद्अनुभवे प्रीतेरेव मुख्यत्वमिति । तस्मात्पुरुषेण सैव
सर्वदान्वेषितव्येति पुरुषप्रयोजनत्वं तत्रैव परमतममिति स्थितम् ।
क्रमेणोदाह्रियते ।

तत्र सत्यपीत्यादिकम्

सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा
स्वर्गापवर्गं मद्धाम कथञ्चिद्यदि वाञ्छति ॥ [भागवतम् ११.२०.३३]

इत्यादि श्रीभगवद्वाक्यादौ । तयेत्यादिकम् ।

प्रीतिर्न यावन्मयि वासुदेवे
न मुच्यते देहयोगेन तावत् । [भागवतम् ५.५.६] इति श्र्यृषभदेववाक्ये ।

यामित्यादिकं

भक्त्याहमेकया ग्राह्यः
श्रद्धयात्मा प्रियः सताम् । [भागवतम् ११.१४.२१] इति श्रीभगवद्वाक्ये ।

सम्पद्यमाने इत्यादिकं
मद्रूपमद्वयं ब्रह्म मध्याद्यन्तविवर्जितम् ।
स्वप्रभं सच्चिदानन्दं भक्त्या जानाति चाव्ययम् ॥ इति वासुदेवोपनिषदि ।

यत्रेत्यादिकं
भक्तिरेवैनं नयति, भक्तिरेवैनं दर्शयति
भक्तिवशः पुरुषो भक्तिरेव भूयसी ॥ इति माठरश्रुतौ ।
यावतीत्यादिकम्

भक्तिः परेशानुभवो विरक्तिर्
अन्यत्र चैष त्रिक एककालः ।
प्रपद्यमानस्य यथाश्नतः स्युस्
तुष्टिः पुष्टिः क्षुद्अपायोऽनुघासम् ॥ कवियोगेश्वरवाक्ये [भागवतम् ११.२.४२]

एवं तत्त्वमसि [Cहू ६.८.७] इत्य्आदिशास्त्रमपि तत्प्रेमपरमेव ज्ञेयम् ।
त्वमेवामुक इतिवत् । किं च लोकव्यवहारोऽपि तत्पर एव दृश्यते । सर्वे हि
प्राणिनः प्रीतितात्पर्यका एव । तद्अर्थमात्मव्ययादेरपि दर्शनात् ।
किन्तु योग्यविषयमलब्ध्वा तैस्तत्र तव सा परिवर्ज्यते । अतः सर्वैरेव
योगतद्विषयेऽन्वेष्टुमिष्टे सति श्रीभगवत्येव तस्याः पर्यवसानं
स्यादिति । तदेवं भगवत्प्रीतेरेव परमपुरुषार्थत्वे समर्थिते
साधूक्तं “अथ प्रीतिसन्दर्भो लेख्य” इत्यादि ।

स एष एव परमपुरुषार्थः क्रमरीत्या सर्वोपरि दर्शयितुं
संदृभ्यते । तत्रोक्तलक्षणस्य मुक्तिसामान्यस्य शास्त्रप्रयोजनत्वम्
आह सर्ववेदान्तेत्यादौ कैवल्यैकप्रयोजनमिति [भागवतम् १२.१३.१२] । केवलः
शुद्धः तस्य भावः कैवल्यम् । तदेकमेव प्रयोजनं परम
पुरुषार्थत्वेन प्रतिपाद्यं यस्य तदिदं श्रीभागवतमिति पूर्व
श्लोकस्थेनान्वयः । दोषमूलं हि जीवस्य परमतत्त्वज्ञानाभाव एवेत्य्
उक्तम् भयं द्वितीयाभिनिवेशतः स्यादित्यादौ [भागवतम् १२.२.३७], ईशाद्
अपेतस्येत्यादिभिः । अतस्तज्ज्ञानमेव शुद्धत्वमिति कैवल्यशब्दस्यात्र
पूर्ववत्तद्अनुभव एव तात्पर्यम् ।

अथवा कैवल्यशब्देन परमस्य स्वभाव एवोच्यते । यथा स्कान्दे

ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते ।
स यत्स्वभावः कैवल्यं स भवान् केवलो हरे ॥ इति ।

क्वचित्स्वार्थिकतद्धितान्तेन कैवल्यशब्देनापि परम उच्यते । यथा श्री
दत्तात्रेयशिक्षायां

परावराणां परम आस्ते कैवल्यसंज्ञितः ।
केवलानुभवानन्दसन्दोहो निरुपाधिकः ॥ इति [भागवतम् ११.९.१८] ।

तथाप्युभयथैव तद्अनुभव एव तात्पर्यम् । तत्स्वभावमेव वा ।
तमेवानुभावयितुमिदं शास्त्रं प्रवृत्तमित्यर्थः ।

॥ १२.१३ ॥ श्रीसूतः ॥ १ ॥

[२]

तथा चान्यत्र

एतावानेव मनुजैर्योगनैपुण्यबुद्धिभिः ।
स्वार्थः सर्वात्मना ज्ञेयो यत्परात्मैकदर्शनम् ॥ [भागवतम् ६.१६.६३]

टीका च न चातः परः पुरुषोऽस्तीत्याह एतावानिति । परस्यात्मन एकं
दर्शनमिति यतेतावानेवेत्येषा । परमात्मनः केवलस्य दर्शनमिति
वा ।

॥ ६.१६ ॥ श्रीशङ्कर्षणश्चित्रेकेतुम् ॥ २ ॥

[३]

सैषा हि मुक्तिरुत्क्रान्तदशायां द्विधा भवति सद्य एव च, क्रमरीत्या
च । तत्र पूर्वा । द्वितीये स्थिरं सुखं चासनम् [भागवतम् २.२.१५] इत्यादि
प्रकरणान्ते विसृजेत्परं यत इत्यत्र [भागवतम् २.२.२१] । उत्तरा च तद्अनन्तरं
यदि प्रयास्यन्नृप पारमेष्ट्यमित्यादौ [भागवतम् २.२.२२] तेनात्मनात्मानम्
उपैति शान्तमित्यत्र [भागवतम् २.२.३१] । जीवद्दशायामपि सा तु तद्विशेषष्व्
अग्रतो दर्शनीया । तत्र ब्रह्मसाक्षात्कारलक्षणां जीवन्मुक्तिमाह

यत्रेमे सद्असद्रूपे प्रतिषिद्धे स्वसंविदा ।
अविद्ययात्मनि कृते इति तद्ब्रह्मदर्शनम् ॥ [भागवतम् १.३.३३]

यत्र यस्मिन् दर्शने स्थूलसूक्ष्मरूपे शरीरे स्वसंविदा जीवात्मनः
स्वरूपज्ञानेन प्रतिषिद्धे भवतः । केन प्रकारेण ? वस्तुत आत्मनि ते
न स्त एव किन्त्वविद्ययैवात्मनि कृते अध्यस्ते इति एतत्प्रकारेणेत्यर्थः ।
तद्ब्रह्मदर्शनमिति यत्तदोरन्वयः । ब्रह्मणो दर्शनं
साक्षात्कारः । यत्र स्वसंविदेत्युक्त्या जीवस्वरूपज्ञानमपि तद्आश्रयम्
एव भवति इति । तथा केवलस्वसंविदा ते निषिद्धे न भवत इति च
ज्ञापितम् । ततश्च जीवत एवाविद्याकल्पितमायाकार्यसम्बन्ध
मिथ्यात्वज्ञापकजीवस्वरूपसाक्षात्कारेण तादात्म्यापन्नब्रह्म
साक्षात्कारो जीवन्मुक्तिविशेष इत्यर्थः ॥

॥१.३॥ श्रीसूतः ॥ ३ ॥

[४]

ईदृशमेव तन्मुक्तिलक्षणं श्रीकापिलेये मुक्ताश्रयम् (भागवतम् ३.२८.३५३८)
इत्यादिचतुष्टये दर्शितम् । तत्र हि प्रतिनिवृत्तगुणप्रवाहः सनात्मानम्
पर्मात्मानमीक्षत इति मुक्ताश्रयमित्यादौ स्वस्वरूपभूते महिम्नि
अवस्थितो निष्ठां प्राप्तः सन्नुपलब्धपरात्मकाष्ठ इति सोऽप्येतयेत्य्
आदौ स्वरूपं जीवब्रह्मणो याथात्म्यअमध्यगमदिति देहं चेत्य्
आदौ । एवं प्रतिबुद्धवस्तुरिति देहोऽपीत्यादौ चेति । तस्मादस्य
प्रारब्धकर्ममात्राणामनभिनिवेशेनैव भोगः । एवमेवोक्तं तत्र
को मोहः कः शोक एकत्वमनुपश्यत इति (ईशोपनिषद्७) ।

अथान्तिमां ब्रह्मसाक्षात्कारलक्षणां मुक्तिमाह

यद्येषोपरता देवी माया वैशारदी मतिः ।
सम्पन्न एवेति विदुर्महिम्नि स्वे महीयते ॥ (भागवतम् १.३.३४)

एषा जीवन्मुक्तिदशायां स्थिता विशारदेन परमेश्वरेण दत्ता देवी
द्योतमाना मतिर्विद्या तद्रूपा या माया स्वरूपशक्तिवृत्तिभूत
विद्याविर्भावद्वारलक्षणा सत्त्वमयी मायावृत्तिः सा यदि उपरता निवृत्ता
भवति । तदा व्यवधानाभासस्यापि राहित्यात्सम्पन्नो लब्ध
ब्रह्मानन्दसम्पत्तिरेवेति विदुर्मुनयः । ततश्च तत्सम्पत्तिलाभात्स्वे
महिम्नि स्वरूपसम्पत्तावपि महीयते पूज्यते । प्रकृष्टप्रकाशो
भवतीत्यर्थः ॥

॥ १.३ ॥ श्रीसुतः ॥ ४ ॥

[५]

अत्र पूर्वे तत्त्वभगवत्परमात्मसन्दर्भेष्वेवं मूल्येन श्रुत्य्
आदिभिश्च पर्तिपादितम् । (पगे ६)

जीवाख्यसमष्टिशक्तिविशिष्टस्य परमतत्त्वस्य खल्वंश एको जीवः ।
स च तेजोमण्डलस्य बहिश्चररश्मिपरमाणुरिव परमचिद्एकरसस्य
तस्य बहिश्चरचित्परमाणुः । तत्र तस्य व्यापकत्वात्तद्एकदेशत्वमेव
जीवे स्यात् । निराकारतया तद्एकदेशत्वं न विरुद्धम् । तथापि
बहिश्चरत्वं तद्आश्रयित्वात् । तज्ज्ञानाभावात्छायया रश्मिवत्
माययाभिभाव्यत्वाच्च बहिश्चरत्वं व्यपदिश्यते । रश्मिस्थानीयत्वं च
तद्व्यतिरेकाद्व्यतिरेकितया यस्तदाश्रयिभावः । या च पूर्वयुक्त्या
बहिश्चरत्वेऽप्येकवस्तुत्वश्रुतिस्तदादिभिर्गम्यते । शक्तित्वं च तद्
रूपतयैव तदीयलीलोपकरणत्वात् । अणुत्वं च शब्दाथरिचन्दन
बिन्दुवत्तस्य प्रभावलक्षणगुणेनैव सर्वदेहव्याप्तेः । सर्वं चैतत्
परमस्याचिन्त्यशक्तिमयत्वादविरुद्धमिति पूर्वं दृढीकृतमस्ति श्रुतेस्
तु शब्दमूलत्वात्[Vस्२.१.१७] इति न्यायेन, एकदेशस्थितस्याग्नेरित्यादिना च ।
तत्र जीवेश्वरयोरत्यन्ताभेदे युगपदविद्याविद्याश्रत्वाय्अनुपपत्तिश्च
पूर्वं विवृता । तत्त्वमसि इत्यादौ लक्षणा त्वत्यन्ताभेदे तद्अंशत्वे च
समानैव । परमतत्त्वस्य निरंशत्वश्रुतिस्तु द्विधा प्रवर्तते । तत्र
केवलविशेष्यलक्षणनिर्देशपराया मुख्यैव प्रवृत्तिः । आनन्द
मात्रत्वात्तस्य । आनन्दैकरूपस्य तस्य स्वरूपशक्तिविशिष्टस्य निर्देश
परायास्तु प्राकृतांशलेशराहित्यमात्रे तात्पर्याद्गौणी प्रवृत्तिः । सर्व
शक्तिविशिष्टस्य तस्य तु सर्वांशित्वं गीतमेव ।

तदेवं तस्य रश्मिपरमाणुस्थानीयांशत्वे सिद्धे तद्वत्सर्वस्यामपि
दशायां कर्तृत्वभोक्तृत्वादिस्वरूपधर्मा अपि सिध्यन्ति । तद्वदेव च
परमेश्वरशक्त्य्अनुग्रहेणैव ते कार्यक्षमा भवन्ति तत्र तेषां
प्रकृतिविकारमयकर्तृत्वादिकं तदीयमायाशक्तिमयानुग्रहेण ।
अतएव तत्सम्बन्धात्तेषां संसारः । स्वानुभवब्रह्मानुभव
भगवद् (पगे ७) अनुभवकर्तृत्वादिकं तु तदीयस्वरूपशक्त्य्
अनुग्रहेण । यत्र तस्य सर्वमात्मैवाभूत्तत्केन कं पश्येद्[Bआऊ
२.४.१४] श्रुतिश्च । तत्स्वरूपशक्तिं विना तद्दर्शनासामार्थ्यं द्योतयति
यमेवैष वृणुते तेन लभ्य [Kअठू १.२.२३] इत्यादिश्रुतेः ।

अतएव स्वरूपशक्तिसम्बन्धान्मायान्तर्धाने तेषां संसारनाशः ।
येषां तु मते मुक्तावानन्दानुभवो नास्ति । तेषां पुमर्थता न
सम्पद्यते । सतोऽपि वस्तुनः स्फुरणाभावे निरर्थकत्वाअत् । न च सुखम्
अहं स्यामिति कस्यचिदिच्छा, किन्तु सुखमहननुभवामि इत्येव । ततश्
च प्रवृत्त्य्अभावात्तादृशपुरुषार्थसाधनप्रेरणापि शास्त्रे व्यर्थैव
स्यात् । तन्मते केवलानन्दरूपस्याज्ञानदुःखसम्बन्धासम्भवात्तन्
निवृत्तिरूपश्च पुरुषार्थो न घटते । विगीतं त्वीदृशपुरुषार्थत्वं
प्राचीनबर्हिषं प्रति श्रीनारदवाक्ये दुःखहानिः सुखावाप्तिः श्रेयस्
तन्नेह चेष्यते [भागवतम् ४.२५.४] तस्मादस्त्येवानुभवः । तथा च श्रुतिः
रसं ह्येवायं लब्ध्वानन्दी भवति इति । आत्मरतिः आत्मक्रीडः [Cहाऊ
७.२५.२] इत्यादिश्च ।

यथा विष्णुधर्मे

भिन्ने दृतौ यथा वायुर्नैवान्यः सह वायुना ।
क्षीणपुण्याघबन्धस्तु तथात्मा ब्रह्मणा सह ॥
ततः समस्तकल्याणसमस्तसुखसम्पदाम् ।
आह्लादमन्यमकलङ्कमवाप्नोति शाश्वतम् ॥
ब्रह्मस्वरूपस्य तथा ह्यात्मनो नित्यदैव सः ।
व्युत्थानकाले राजेन्द्र आस्ते हि अतिरोहितः ॥
आदर्शस्य मलाभावाद्वैमल्यं काशते यथा ।
ज्ञानाग्निदग्धहेयस्य स ह्लादो ह्यात्मनस्तथा ॥
यथा हेयगुणध्वंसादवबोधादयो गुणाः ।
प्रकाशन्ते न जन्यन्ते नित्या एवात्मनो हि ते ॥
ज्ञानं वैराग्यमैश्वर्यं धर्मश्च मनुजेश्वर ।
आत्मनो ब्रह्मभूतस्य नित्यमेव चतुष्टयम् ॥
एतदद्वैतमाख्यातमेष एव तवोदितः ।
अयं विष्णुरिदं ब्रह्म तथैतत्सत्यमुत्तमम् ॥ इति ।

अत्र जीवब्रह्मणोरंशांित्वांशेनैव वायुदृष्टान्तः । अंशत्वेऽपि
बहिरङ्गत्वं त्वन्यतो ज्ञेयम् । अतः पृथग्ईश्वरे स्वरूपभूतानुभवे
च सति तद्वैमुख्येनानादिना लब्धच्छिद्रयेशमायया तद्अनुभव
लोपादेः सम्भवात्कथञ्चित्साम्मुख्येन तद्अनुग्रहान्निवृत्तिश्चास्ति ।
आनन्दं ब्रह्मणो विद्वान् [टैत्तू २.४.१] इत्यादि श्रुतेः । न तस्मात्प्राणा
उत्क्रामन्ति अत्रैव समवलीयन्ते ब्रह्मैव सन् ब्रह्माप्येति [Bआऊ ४.४.६] इत्य्
अत्रापि ।

अन्यो ब्रह्मभावस्तथान्यो ब्रह्मण्यप्यय इति स्पष्टम् । ब्रह्म
भावानन्तरं तद्अप्ययस्य पुनरभिधानात् । अप्येतेः कर्मतया ब्रह्म
निर्देशाच्च । ततश्च ब्रह्मैव सन्निति तत्साम्यतत्तादात्म्यापत्त्याव्
अभेदनिर्देशः । एवं ब्रह्म वेद ब्रह्मैव भवति [ंुण्डू ३.२.८] इत्य्
अत्रापि व्याख्येयम् ।

क्वचिदेकत्वशब्देनापि तथैवोच्यते । अत्र तत्साम्यं यथोक्तम्
निरञ्जनं परमसाम्यमुपैति [ंुण्डू ३.२.३] इत्यादि श्रुतौ । इदं ज्ञानम्
उपाश्रित्य मम साधर्म्यमागता (पगे ८) [गीता १४.२] इति गीतोपनिषत्सु च ।

उभयं चोक्तं स्पष्टमेव

यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ।
एवं मुनेर्विजानत आत्मा भवति गौतम ॥ [Kअठू २.१.१५]

तत्रैवकारेण न तु तदेव भवति न तु वा तद्असाधर्म्येण पृथग्
उपलभ्यत इति द्योत्यते । स्कान्दे च

उदके तूदकं सिक्तं मिश्रमेव यथा भवेत् ।
तद्वै तदेव भवति यतो बुद्धिः प्रवर्तते ॥
एवमेवं हि जीवोऽपि तादात्म्यं परमात्मना ।
प्राप्तोऽपि नासौ भवति स्वातन्त्र्यादिविशेषणात् ॥ इति ।

बिम्बप्रतिबिम्बनिर्देशश्च अम्बुदग्रहणाद्[Vस्. ३.२.१९] इत्यादिसूत्र
द्वये गौण एव योजितः । एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय
परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते [Cहाऊ ८.१२.३] इत्यत्रापि
तथैव भेदः प्रतिपादितः । श्रीविष्णुपुराणेऽपि विभेदजनकेऽज्ञाने
नाशम् [Vइড়् ६.७.८४] इत्यादौ देवादिभेदनाशानन्तरं ब्रह्मात्मनोर्
भेदं न कोऽप्यसन्तं करिष्यति अपि तु सन्तमेव करिष्यतीति व्याख्यातम्
एव ।

एवमेव टीकाकृद्भिः सम्मतं श्रीगोपानां ब्रह्मसम्पत्त्य्अनन्तरम्
अपि वैकुण्ठदर्शनम् । तस्मात्साधु व्याख्यातं यद्येषोपरत इत्यादि
[भागवतम् १.३.३४] तदेवं ब्रह्मसम्पत्तिर्व्याख्याता ।

तत्र श्रीविष्णुपुराणे परमार्थनिर्णये रहूगणं प्रति जडभरत
वाक्यं यथा । तत्र केवलब्रह्मानुभवस्यैव पर्मार्थत्वं निर्णेतुं
यज्ञाद्य्अपूर्वस्य तावदपरमार्थत्वं चतुर्भिरुक्तम्

ऋग्यजुःसामनिष्पाद्यं यज्ञकर्ममतं तव ।
परमार्थभूतं तत्रापि श्रूयतां गदतो मम् ॥
यत्तु निष्पाद्यते कार्यं मृदा कारणभूतया ।
तत्कारणानुगमनाज्जायते नृप मृन्मयम् ॥
एवं विनाशिद्रव्यैः समिद्आज्यकुशादिभिः ।
निष्पाद्यते क्रिया या तु सा भवित्री विनाशिनी ॥
अनाशी परमार्थश्च प्राज्ञैरभुपगम्यते ।
तत्तु नाशि न सन्देहो नाशिद्रव्योपपादितम् ॥ [Vइড়् २.१४.२१२४] इति ।

एतद्दृष्टान्तेन पूजादिमयभक्तेरपि तादृशत्वं नानुमेयम् ।
अपूर्ववद्भक्तेर्निष्पाद्यत्वाभावात् । गुणमयं हि निष्पाद्यं स्यात्
नागुणमयम् । कैवल्यं सात्त्विकं ज्ञानम् [भागवतम् ११.२५.२४] इत्यारभ्य
एकादशे श्रीभगवतैवागुणमयत्वमङ्गीकृतम् । अतः स्वरूपशक्ति
वृत्तिविशेषत्वेन तस्याः भगवत्प्रसादे सति स्वयमाविर्भाव एव न
जन्म । (पगे ९)

स चाविर्भावोऽनन्त एव तदीयफलानन्त्यश्रवणात् । तस्मात्
पर्मेश्वरानाश्रयत्वं तत्रोपाधिर्भविष्यति । हिंसायां पापोत्पत्त्य्
अनुमितावविहिततत्ववत् । ज्ञानप्रकरणे चास्मिन् भक्तिर्न प्रस्तूयत इति
साधारणयज्ञादिकमुपादायैव प्रवृत्तिश्चेयम् । तदेवं यज्ञादि
कर्मापूर्वस्य विनाशित्वादपरमार्थत्वमुक्त्वा निष्कामकर्मणोऽपि
साह्दनत्वेनार्थान्तरस्यैव साध्यत्वात्तादृशत्वमुक्तमेकेन

तदेवाफलदं कर्म परमार्थो मतस्तव ।
मुक्तिसाधनभूतत्वात्परमार्थो न साधनम् ॥ [Vइড়् २.१४.२५] इति ।
अत्र भक्तेः साधनभूतत्वे न तादृशत्वं मन्तव्यम् । भगवत्प्रेम
विलासरूपतया सिद्धानामपि तद्अत्यागश्रवणात् । तस्मादिदमपि
पूर्ववत्ज्ञेयम् ।

ननु, शुद्धजीवात्मध्यानस्य परमार्थत्वं भवेत्, मुक्तिदशायामपि
स्फूर्त्य्अङ्गीकारेण तद्रूपस्य तस्यानश्वरत्वात् । तद्आच्छादनादधुना
संसार इति तस्यैव साध्यत्वाच्च । तत्रोक्तमेकेन

ध्यानं चेदात्मनो भूप परमार्थार्थशब्दितम् ।
भेदकारिपरेभ्यस्तत्परमार्थो न भेदवान् ॥ [Vइড়् २.१४.२६] इति ।

यद्विज्ञानेन सर्वविज्ञानं भवति तदेव ब्रह्म श्रुतौ परमार्थत्वेन
प्रतिज्ञातम् । सर्वविज्ञानमयत्वं च तस्य सर्वात्मत्वात् । अग्निविज्ञानं हि
ज्वालाविस्फुलिङ्गादेरपि विज्ञापकं भवति । एकस्य जीवस्य तु तदीयजीव
शक्तिलक्षणांशपरमाणुत्वमित्यतस्तस्य तत्स्फुरणस्य च भेदवतो
न परमार्थत्वमित्यर्थः ।

ननु जीवात्मपरमात्मनोरेकत्रस्थितिभावनयात्यन्तसंयोगे
प्रादुर्भूते सति तस्यापि सर्वात्मना स्यात्, तद्अभेदापत्तेः । स च योगो न
विनश्वरः । ज्ञानानन्तरसिद्धत्वात् । तस्मात्तयोर्योग एव परमार्थो
भवतु । तत्रोक्तमेकेन

परमात्मात्मनोर्योगः परमार्थ इतीष्यते ।
मिथ्यैतदन्यद्द्रव्यं हि नैति तद्द्रव्यतां यतः ॥ [Vइড়् २.१४.२७] इति ।

एतत्परमार्थत्वं मिथ्यैवेष्यत इत्यर्थः । हि निश्चितम् । यतो यस्मात्जीव
लक्षणमन्यद्द्रव्यं तद्द्रव्यतां परमात्मलक्षणद्रव्यतां न
याति । तस्मात्महातेजः प्रविष्टस्वल्पतेजोवदत्यन्तसंयोगतोऽप्य्
अभेदानुपपत्तेस्तयोर्योगोऽपि न परमार्थ इति भावः । अथवात्र योग
शब्देनैकत्वमेवोच्यते । ततश्चैतदेकत्वमिति व्याख्येयम् । शेषं
पूर्ववत् ।

तदेवं पूर्वपक्षान्निषिध्य उत्तरपक्षं स्थापयितुमुपक्रान्तम्
एकेन

तस्मात्श्रेयांस्यशेषाणि नृपैतानि न संशयः ।
परमार्थस्तु भूपालअ सङ्क्षेपाच्छ्रूयतां मम ॥ [Vइড়् २.१४.२८] इति ।

श्रेयांसि परमार्थसाधनानि । परमार्थनिर्देशस्त्रयेणोक्तः

एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः ।
जन्मवृद्ध्यादिरहित आत्मा सर्वगतोऽव्ययः ॥
परज्ञानयोऽसद्भिर्नामजात्य्आदिभिर्विभुः ।
न योगवान्न न युत्कोऽभून्नैव पार्थिव योक्ष्यति ॥
तस्यात्मपरदेहेषु सतोऽप्येकमयं हि यत् ।
विज्ञानं परमार्थोऽसौ द्वितनोऽतथ्यदर्शिनः ॥ [Vइড়् २.१४.२९३१] इति ।

एकः । न तु जीवा इवानेके । ज्वालाविस्फूलिङ्गेष्वग्निरिव स्वशक्तिषु स्व
कार्येषु सर्वेषु व्याप्नोतीति व्यापि । सर्वगत इत्यनेन जीव इव नाखण्डे
देहे प्रभावेनैव व्यापीति ज्ञापितम् । जीवज्ञानादपि परं यज्ज्ञानं तन्
मयः तत्प्रकाशप्रधानः । असद्भिरिति विशेषणात्भगवद्रूपे
प्रकाश्येऽपि सद्भिः स्वरूपसिद्धैरेव नामादिभिर्योगवान् भवतीति
विज्ञापितम् । तस्यैवंलक्षणस्य परमात्मरूपेणात्मपरदेहेषु
आत्मनः परेषामपि देहेषु तत्तद्उपाधिभेदेन पृथक्पृथगिव
सतोऽपि एकं तदीयं स्वस्वरूपं तन्मयं तद्आत्मकं यद्विज्ञानं तद्
अनुभवः (पगे १०) असावेव परमार्थः । अनाशित्वात्साध्यत्वात्सर्व
विज्ञानान्तर्भाववत्त्वाच्चेति भावः । ये तु द्वैतिनः तत्तद्उपाधिदृष्ट्या
तस्यापि भेदं मन्यन्ते । तद्विज्ञानेन सर्वविज्ञानान्तर्भावं च न
मन्यन्ते । ते पुनरतथ्यदर्शिन एवेति ।

तत्रोपाधिभेदैरंशभेदेऽप्यभेदो दृष्टान्तेन साधितो द्वाभ्याम्

वेणुरन्ध्रविभेदेन भेदः षड्जादिसंज्ञ्तः ।
अभेदव्यापिनी वायोस् तथा तस्य महात्मनः ॥
एकत्वं रूपभेदश्च बाह्यकर्मप्रवृत्तिजः ।
देवादिभेदमध्यास्ते नास्त्येवाचरणो हि सः ॥ [Vइড়् २.१४.३२३३] इति ।

तथा तस्यैकत्वमित्यन्वयः । रूपस्य तत्तद्आकारस्य भेदस्तु बाह्यस्य
तदीयबहिरङ्गचिद्अंशस्य जीवस्य या कर्मप्रवृत्तिस्ततो जातः । स तु
परमात्मा देवादिभेदमन्तर्यामितयैवाधिष्ठायास्ते तत्तद्उपाधि
सम्बन्धाभावाच्च नास्त्येवावरणं यस्य तथाभूतः सन्निति । तस्मात्
तस्य देवादिरूपता तु स्वलीलामय्येवेति भावः ।

अथ श्रीभगवत्साक्सात्कारस्य मुक्तित्वमाह

ततो विदूरात्परिहृत्य दैत्या; दैत्येषु सङ्गं विषयात्मकेषु ।
उपेत नारायणमादिदेवं; स मुक्तसङ्गैरिषितोऽपवर्गः ॥ [भागवतम् ७.६.१८]

टीका च यस्मात्स एवापवर्ग इष्टः इत्येषा । अत्र नारायणस्यापवर्गत्वं
तत्साक्षात्कृतावेव पर्यवस्यति । तस्या एव संसारध्वंसपूर्वक
परमानन्दप्राप्तिरूपत्वात्तद्अस्तित्वमात्रत्वे तादृशत्वाभावाच्च ॥

॥ ७.६ ॥ श्रीप्रह्लादः ॥ ५ ॥

[६]

तथा

सत्याशिषो हि भगवंस्तव पादपद्मम्
आशीस्तथानुभजतः पुरुषार्थमूर्तेः ।
अप्येवमर्य भगवान् परिपाति दीनान्
वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् ॥ [भागवतम् ४.९.१७]

टीका च हे भगवन् ! पुरुषार्थः परमानन्दः स एव मूर्तिर्यस्य तस्य
एव पादपद्मम् । आशिषो राज्यादेः सकाशात्सत्या आशीः परमार्थफलम् ।
हि निश्चितम् । कस्य, तथा तेन प्रकारेण त्वमेव पुरुषार्थ इत्येवं
निष्कामतया अनुभजतः । यद्यप्येवं तथापि हे अर्य हे स्वामिन् दीनान्
सकामानप्यस्मानित्यादिका ।

॥ ४.९ ॥ ध्रुवः श्रीध्रुवप्रियम् ॥ ६ ॥

[७]

स चात्मसाक्षात्कारो द्विविधः । अन्तराविर्भावलक्षणो बहिर्आविर्भाव
लक्षणश्च । (पगे ११) यथा

प्रगायतः स्ववीर्याणि तीर्थपादः प्रियश्रवाः ।
आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ [भागवतम् १.६.३४] इत्यादौ ।

तेऽचक्षताक्षविषयं स्वसमाधिभाग्यम् ॥ [भागवतम् ३.१५.३८] इत्यादौ च ।

तत्रान्तःसाक्षात्कारे योग्यता श्रीरुद्रगीते

न यस्य चित्तं बहिर्अर्थविभ्रमं
तमोगुहायां च विशुद्धमाविशत् ।
यद्भक्तियोगानुगृहीतमञ्जसा
मुनिर्विचष्टे ननु तत्र ते गतिम् ॥ [भागवतम् ४.२४.५९]

तत्र तेषां पूर्वोक्तानां सतां भक्तियोगेनानुगृहीतं विशुद्धं यस्य
चित्तं बाह्येष्वर्थेषु भ्रान्तं न भवति तमोरूपायां गुहायां च न
विशति स मुनिरित्यादिकं च व्याख्येयम् ।

बहिःसाक्षात्कारेऽपि व्यतिरेकेण तथैव नारदं प्रति श्रीभगवतोक्तम्

हन्तास्मिन् जन्मनि भवान्मा मां द्रष्टुमिहार्हति ।
अविपक्वकषायाणां दुर्दर्शोऽहं कुयोगिनाम् ॥ [भागवतम् १.६.२२] इति ।

न केवलं शुद्धचित्तत्वमेव योग्यता । किं तर्हि ? तद्भक्ति
विशेषाविष्कृततद्इच्छामयतदीयस्वप्रकाशताशक्तिप्रकाश एव मूल
रूपा सा, यत्प्रकाशेन तदपि निःशेषं सिध्यति ।

यथा अन्तःसाक्षात्कारे भिद्यते हृदयग्रन्थिर्[भागवतम् १.२.२१] इत्यादि । तथा
बहिःसाक्षात्कारेऽपि श्रीसङ्कर्षणं प्रति चित्रकेतुवाक्ये, न हि भगवन्
न घटितमिदं त्वद्दर्शनान्नॄणामखिलपापक्षयः [भागवतम् १.१६.४४] इति ।
प्रह्लादं प्रति श्रीनृसिंहवाक्ये

स त्वं शाधि स्वभृत्यान्नः किं देव करवाम हे ।
एतद्अन्तो नृणां क्लेशो यद्भवानक्षिगोचरः ॥ [भागवतम् १०.८६.४९] इति ।

तदेवं तत्प्रकाशेन निःशेषशुद्धचित्तत्वे सिद्धे पुरुषकरणानि
तदीयस्वप्रकाशता शक्तितादात्म्यापन्नतयैव तत्
प्रकाशताभिमानवन्ति स्युः । तत्र भक्तिविशेषसापेक्षत्वमुक्तं तच्
छ्रद्दधाना मुनयः [भागवतम् १.२.१२] इत्यादौ । तद्इच्छामयेत्याद्य्
उदाहरणं च ब्रह्मभगवतोरविशेषतयैव दृश्यते । यथा सत्यव्रतं
प्रति श्रीमत्स्यदेववाक्ये

मदीयं महिमानं च परं ब्रह्मेति शब्दितम् ।
वेत्स्यस्यनुगृहीतं मे सम्प्रश्नैर्विवृतं हृदि ॥ [भागवतम् ८.२४.३८] इति ।
(पगे १२)

तथैव हि ब्रह्माणं प्रति श्रीभगवद्वाक्ये मनीषितानुभावोऽयं
मम लोकावलोकनम् [भागवतम् २.९.२१] इति । श्रीनारायणाध्यात्मे

नित्याव्यक्तोऽपि भगवानीक्ष्यते निजशक्तितः ।
तामृते पुण्डरीकाक्षं कः पश्येतामितं प्रभुम् ॥ इति ।

श्रुतौ च यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनुं
स्वाम् [Kअठू १.२.२३] इति ।

ततस्तत्करणशुद्ध्य्अपेक्षापि तच्छक्तिप्रतिफलनार्थमेव ज्ञेया ।
एवमपि भक्त्या तं दृष्ट्वापि मुचुकुन्दादौ या मृगयापापाद्यस्थिता
श्रीभगवता कीर्तिता, सा तु प्रेमवर्धिन्या झटितिभगवद्अप्राप्ति
शङ्काजन्मनस्तद्उत्कण्ठाया वर्धनार्थं विभीषिकयैव कृता । यत्तु
तदीयस्निग्धानां श्रीयुधिष्ठिरादीनां नरकदर्शनं तत्खलु इन्द्र
मायामयमेवेति स्वर्गारोहणपर्वण्येव व्यक्तमस्ति । विष्णुधर्मे
तृतीइयजन्मनि दत्ततिलधेनोरपि विप्रस्य प्रसङ्गमात्रेण नरकाणाम्
अपि स्वर्गतुल्यरूपताप्राप्तिवर्णनात् । श्रीभागवतेन तु तदपि
नाङ्गीक्रियते । तद्अनुपाख्यानात्प्रत्युताव्यवहितभगवत्प्राप्ति
वर्णनाच्च ।

अथ यद्अवतारादावशुद्धचित्तानामपि तत्साक्षात्कारः श्रूयते, तत्खलु
तद्आभास एव ज्ञेयः । नाहं प्रकाशः सर्वस्य योगमायासमावृतः
[गीता ७.२५] इति श्रीगीतोपनिषद्भ्यः ।

योगिभिर्दृश्यते भक्त्या
नाभक्त्या दृश्यते क्वचित् ।
द्रष्टुं न शक्यो रोषाच्च
मत्सराद्वा जनार्दनः ॥ [ড়द्मড়् ६.२३८.८३] इति पाद्मोत्तरखण्डाच्च ।

अदर्शनं चानवतारसमये व्यापकस्यापि दर्शनाभावः । अवतारसमये
तु परमानन्देऽपि दुःखदत्वं, मनोरमेऽपि भीषणत्वम्, सर्वसुहृद्य्
अपि दुर्हृत्त्वमित्यादिविपरीतदर्शनमेव । तद्अप्रकाशे योगमाया
प्रकाशे च मूलं कारणं तद्भक्तापराधादिमयपुरुष
चित्तास्वाच्छ्यम् । यत्खलु तदानीन्तने तस्य सार्वत्रिकप्रकाशेऽपि
वज्रलेपायते । अतएव मुक्तिर्हित्वा [भागवतम् २.१०.६] इत्य्आदिलक्षणस्याव्याप्तेर्न
तस्य साक्षात्काराभासस्य मुक्तिसंज्ञत्वमपि । अतएव श्रीविष्णुपुराणे तच्
च रूपम् [Vइড়् ४.१५.८] इत्यादिगद्येन यद्यपि शिशुपालस्य तद्दर्शनम्
उक्तम् । तथापि निर्दोषदर्शनं त्वन्तकाल एव उक्तम् । आत्मवधाय
यावद्भगवद्धस्तचक्रांशुमालोज्ज्वलमक्षयतेजःस्वरूपं ब्रह्म
भूतमपगतद्वेषादिदोषं भगवन्तमद्राक्षीत्[Vइড়् ४.१५.९] इत्यनेन ।

एतद्अन्तो नॄणां क्लेशो यद्भवानक्षिगोचरः [भागवतम् १०.८३.४३] इत्यादिकं च
नृषु ये स्वच्छचित्ता ये च तद्भक्तापराधेतरदोषमलिनचित्तास्तेषां
क्लेशनाशस्य तदात्वापेक्षया, ये त्वन्यादृशास्तेषां तन्
नाशस्योन्मुखतापेक्षयैव तेभ्यः स्ववीक्षणविनष्टतमिस्र
दृग्भ्यः क्षेमं तिर्लोकगुरुरर्थदृशं च यच्छन् [भागवतम् १०.८३.८१] इति
श्रवणात्, श्रीविष्णुपुराणाद्य्अनुसाराच्च ।

ते चास्वच्छचित्ता द्विविधाः भगवद्बहिर्मुखा भगवद्विद्वेषिणश्च ।
तद्बहिर्मुखा द्विविधाः लब्धे तद्दर्शनेऽपि विषयाद्य्अभिनिवेशवन्तस्
तद्अवज्ञातारश्च । यथा तद्अवतारसमये साधारणदेव
मनुष्यादयः, यथा च कृष्णं मर्त्यमुपाश्रित्य [भागवतम् १०.२५.३] इत्यादि
दुर्वचसो महेन्द्रादयः । यत उक्तं श्रुतिभिः

दधति सकृन्मनस्त्वयि य आत्मनि नित्यसुखे
न पुनरुपासते पुरुषसारहरावसथान् । [भागवतम् १०.८७.३५] इति ।

महेन्द्रं प्रति श्रीभगवता च

मामैश्वर्यश्रीमदान्धो दण्डपाणिं न पश्यति ।
तं भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्यनुग्रहम् ॥ [भागवतम् १०.२७.१६] इति ।

श्रीगोपानां तु विषयसम्बन्धो न स्वार्थः । किन्तु तत्सेवोपयोगार्थ
एव । यथा (पगे १३) यद्धामार्थसुहृत्प्रियात्मतनयप्राणाशयास्त्वत्
कृते [भागवतम् १०.१४.३५] इति । कृष्णेऽर्पितात्मसुहृद्अर्थकलत्रकामा [भागवतम्
१०.१६.१०] इति । कृष्णः कमलपत्राक्षः पुण्यश्रवणकीर्तनः [भागवतम् १०.१५.४२]
इति च ।

श्रीयादवपाण्डवानां स्वार्थ इवापि तत्सम्बन्धस्तद्आभास एव ।
यथोक्तम्

शय्यासनाटनालाप क्रीडास्नानाशनादिषु ।
न विदुः सन्तमात्मानं वृष्णयः कृष्णचेतसः ॥ [भागवतम् १०.९०.४६] इति ।

किं ते कामाः सुरस्पार्हा मुकुन्दमनसो द्विजाः ।
अधिजह्रुर्मुदं राज्ञः क्षुधितस्य यथेतरे ॥ [भागवतम् १.१२.६] इति ।

अतः, एवं गृहेषु सक्तानां प्रमत्तानां तद्ईहया [भागवतम् १.१३.१७] इत्यादिकं
जहल्लक्षणया तद्उपलक्षितान् धृतराष्ट्रादीनपेक्ष्योक्तम् ।
अतएवानन्तरं विदुरस्तदभिप्रेत्य [भागवतम् १.१३.१८] इत्यादौ । तेन
धृतराष्ट्रस्यैव शिक्षा, न तु तेषामपि ।

क्वचिच्च लीलाशक्तिरेव स्वयं तल्लीलामाधुर्यपोषाय प्रतिकूलेष्व्
अनुकूलेषु चात्मोपकरणेषु तादृशशक्तिं विन्यस्य तादृशतत्प्रियजनानाम्
अपि विषयावेशाद्य्आभासं सम्पादयति । यथा पूतनावर्णने वल्गु
स्मितापाङ्गविसर्गवीक्षितैर्मनो हरन्तीं वनितां व्रजौकसाम् [भागवतम्
१०.१६.६] इति । तद्आभासत्वविवक्षया च मनो हरन्तीं मनोहरेवाचरन्तीम्
इति शिष्टमुक्तम् । तद्दत्तशक्तित्वं च तस्यास्तत्रैव सूचितम्

न यत्र श्रवणादीनि रक्षोघ्नानि स्वकर्मसु ।
कुर्वन्ति सात्वतां भर्तुर्यातुधान्यश्च तत्र हि ॥ [भागवतम् १०.६.३] इत्यनेन ।

तथैवेदं घटते
अमंसताम्भोजकरेण रूपिणीं
गोप्यः श्रियं द्रष्टुमिवागतां पतिम् ॥ [भागवतम् १०.६.६] इति ।

श्रियं प्राकृतसम्पद्अधिष्ठात्रीं पतिं यं कञ्चित्तद्उचितप्राचीन
पुण्यभाजमित्यर्थः । पूर्ववदेव तां तीक्ष्णचित्ताम् [भागवतम् १०.६.९] इत्य्
आदौ तत्प्रभया च धर्षिते निरीक्ष्यमाणे जननी ह्यतिष्ठताम् [भागवतम्
१०.६.९] इत्युक्तम् ।

एवमेव क्वचित्तादृशानामपि मायाभिभवाभासो मन्तव्यः । यथा
प्रायो मायास्तु मे भर्तुर्नान्या मेऽपि विमोहिनी [भागवतम् १०.१३.३७] इत्यादिषु
श्रीबलदेवादीनाम् । यथा दैत्यजन्मनि जयविजययोः ।

अत्र पूर्वेषांस्वल्प एव तद्आभासः । तयोस्तु सम्यगिति विशेषः, तत्
प्रेमादीनामनावरणादावरणाच्च । तत्र तयोर्वैरभावप्राप्तौ
खलु मुनिकृतत्वं न स्यात् । मतं तु मे [भागवतम् ३.१६.२९] इत्यत्र भगवद्
इच्छायास्तत्कारणत्वेन स्थाप्तितत्वात् ।

नापि सा तदीयवैरभावाय सम्पद्यते स्वेच्छामयस्य इत्यादिभ्यः ।
त्रैवर्गिकायासविघातमस्मत्पतिर्विधत्ते पुरुषस्य शक्र [भागवतम् १०.१४.२]
इत्यादिभिः कैमुत्यापाताच्च । यथा चोक्तम् तथा न ते माधव तावकाः
क्वचिद्भ्रश्यन्ति मार्गात्त्वयि बद्धसौहृदाः [भागवतम् १०.२.३३] इति । न च तयोर्
एव स्वापराधभोगशीघ्रनिस्तारार्थमपि तादृशीच्छा जाता इति वाच्यम् ।
तादृशैः परमभक्तैः हि भक्तिं विना सालोक्यादिकमपि नाङ्गीक्रियते ।
तत्सद्भावे निरयोऽप्यङ्गीक्रियत इति (पगे १४) नात्यन्तिकं विगणयन्त्यपि
[भागवतम् ३.१५.४८] इत्यादेः । कामं भवः स्ववृजिनैर्निरयेषु नस्ताद्[भागवतम्
३.१५.४९] इत्यादेश्च ।

अतएवाभ्यामपि तथैव प्रार्थितम्

मा वोऽनुतापकलया भगवत्स्मृतिघ्नो
मोहो भवेदिह तु नौ व्रजतोरधोऽधः [भागवतम् ३.१५.३६] इत्यनेन ।

न च तयोर्वास्तववैरभावे सति भक्तान्तराणामपि सुखं स्यादिति
वाच्यम् । भक्तिस्वभावभक्तसौहृदविरोधादेव । तस्मात्तयोर्वैर
भावाभासत्व एव श्रीभगवतस्तयोरन्येषां भक्तानामपि रसोदयः
स्यादिति स्थितम् । तत एवमर्थापत्तिलब्धं सर्वभक्तसुखदश्री
भगवद्अभिमतयुद्धकौतुकादिसम्पादनार्थं
वैरभावात्मकमायिकोपाधिं स्वाभीकाणिमादिसिद्धिकेन शुद्ध
सत्त्वात्मकस्वविग्रहेण प्रविश्य स्वसान्निध्येन चेन्तईकृत्य च विलीय
स्थिताया अपि भक्तिवासनायाः प्रभावेण तत्रानाविष्टावेव तिष्ठतः । अतो
वैरभावजस्मरणेन वैरभावोऽपगत इत्युभयमपि बाह्यम् । एतद्
अभिप्रेत्यैव श्रीवैकुण्ठेनाप्युक्तम् यातं मा भैष्टमस्तु शम्
[भागवतम् ३.१६.२९] इति ।

तथा हि हिरण्याक्षयुद्धे परानुषक्तं [भागवतम् ३.१८.९] इत्यादिपद्ये टीका
च प्रचण्डमन्युत्वमधिक्षेपादिकं चानुकरणमात्रं दैत्यवाक्य
भीतानां देवानां भयनिवृत्तये । वस्तुतस्तेन तथानुक्तत्वेन कोपादि
हेत्व्अभावादित्येषा । कराला [भागवतम् ३.१९.८] इति पद्ये च इवेति वस्तुतः
क्रोधाभावः इत्येषा ।

तदेवं स्यमन्तकोपाख्यानमहाकालपुरोपख्यान
मौषलोपाख्यानादौ श्रीबलदेवार्जुननारदादीनां क्रोधाद्य्आवेशोऽपि
तद्आभासत्वलेशेनैव सङ्गमयितव्यः । तत्र श्रीबलदेवार्जुनादीनां श्री
भगवन्मताज्ञानेन श्रीनारदादीनां तु तज्ज्ञानेनेति विवेकः कोपिता
मुनयः शेपुर्भगवन्मतकोविदाः [भागवतम् ३.३.२४] इति तृतीये श्रीमद्
उद्धववाक्यात् । तस्मात्येषां लिङ्गान्तरेण निष्णात एव साक्षात्कारो
गम्यते, तेषामस्वच्छान्तःकरणत्वं प्रतीयमानमपि तद्आभास एव ।
येषां तु न गम्यते विषयावेशादिकं च दृश्यते, तेषां साक्षात्काराभास
एवेति निर्णीतम् । तदेवमस्वच्छचित्तेषु बहिर्मुखाः पश्यन्तोऽपि न
पश्यन्तीत्युक्तम् ।

तद्द्वेषिणश्च द्विविधाः । एके सौन्दर्यादिकं गृह्णन्ति तथापि तन्
माधुर्याग्रहणात्तत्रैवारुच्या द्विषन्ति यथा कालयवनादयः । अन्ये तु
वैकृत्यमेव प्रतियन्ति ततो द्विषन्ति च यथा मल्लादयः । तदेवं
पूर्वोत्तरयोश्चतुर्ष्वपि भेदेषु सदोषजिह्वाः खण्डाशिनो दृष्टान्ताः ।
एके हि (पगे १५) पित्तवातजदोषवन्तस्तद्आस्वादं न गृह्णन्ति, किन्तु
सर्वादरमवधाय नावजानन्ति । अन्ये त्वभिमानिनोऽवजानन्त्यपि ।
अथापरे मधुररसमिदमिति गृह्णन्ति किन्तु तिक्ताम्लादिरसप्रियास्तम्
एव रसं द्विषन्ति । अवरे च तिक्ततयैव तद्गृह्णन्ति, द्विषन्ति चेति । सर्वेषां
चैषां निजदोषसव्यवधानखण्डग्रहणवत्तद्आभासत्वम् । तेषां
भगवत्स्वभावानुभवश्च युक्त एव ज्ञानभक्तिशुद्धप्रीत्य्
अभावेन सच्चिद्आनन्दत्वपारमैश्वर्य्परममाधुर्यलक्षणानां तत्
स्वभावानां ग्रहीतुमशक्यत्वात् । तद्अग्रहणेऽपि कालान्तरे निस्तारः
खण्डसेवनवदेव ज्ञेयः । यथोक्तं विष्णुपुराणे ततस्तम्
एवाक्रोशेषूच्चारयन् [Vइড়् ४.१५.९] इत्यादिना अपगतद्वेषादिदोषं
भगवन्तमद्राक्षीत्[Vइড়् ४.१५.१४] इत्यन्तेन ।

तस्मात्स्वच्छचित्तानामेव साक्षात्कारः, स एव च मुक्तिसंज्ञ इति स्थितम् ।
तस्य ब्रह्मसाक्षात्कारादप्युत्कर्षस्तु भगवत्सन्दर्भे सनकादि
वैकुण्ठदर्शनप्रस्तावे श्रीनारदव्याससंवादादिमयब्रह्म
भगवत्तारतम्यप्रकरणे च दर्शित एव । यत्र तस्यारविन्दनयनस्य
[भागवतम् ३.१५.४३] इत्यादिकं, जिज्ञासितमधीतं च [भागवतम् १.५.४] इत्यादिकं च वचन
जातं प्रबलतमम् । तथैव श्रीध्रुवोक्तम् या निर्वृतिस्तनुभृताम् [भागवतम्
४.९.१०] इत्यादि श्रीभागवतवक्तृतात्पर्यं च तत्रैव स्वमुखनिभृत
चेतास्तद्व्युदस्तान्यभावः [भागवतम् १२.१२.६९] इत्यादिना दर्शितम् । श्री
गीतोपनिषत्सु च ब्रह्मभूतः प्रसन्नात्मा [गीता १८.५४] इत्यादिना तेद्
एवाङ्गीकृतम् । अतएव श्रीप्रह्लादस्य भगवत्साक्षात्कारकृत
सर्वावधूननपूर्वकब्रह्मसाक्षात्कारानन्तरभगवत्साक्षात्कार
विशेषात्मकनिर्वृतिं पर्माभीष्टत्वेनाह
स तत्करस्पर्शधुताखिलाशुभः
सपद्यभिव्यक्तपरात्मदर्शनः
तत्पादपद्मं हृदि निर्वृतो दधौ
हृष्यत्तनुः क्लिन्नहृद्अश्रुलोचनः ॥ [भागवतम् ७.९.६]

॥ ७.९ ॥ श्रीशुकः ॥ ७ ॥

[८]

ईदृशेऽपि भगवत्साक्षात्कारे बहिःसाक्षात्कारस्योत्कर्षमाह

गृहीत्वाजादयो यस्य श्रीमत्पादाब्जदर्शनम् ।
मनसा योगपक्वेन स भवान्मेऽक्षिगोचरः ॥ [भागवतम् १२.९.५]

टीका च यस्य तव श्रीमत्पादाब्जदर्शनं मनसापि गृहीत्वा प्राप्य
प्राकृता अप्यजादयो भवन्ति स भवान्मेऽक्षिगोचरो जातोऽस्ति किमतः परं
वरेणेत्यर्थः इत्येषा । अत्र यत्पादपांशुर्बहुजन्मकृच्छ्रतः [भागवतम्
१०.१२.१२] इत्यादिकमप्यनुसन्धेयम् । अतएव

प्रगायतः स्ववीर्याणि तीर्थपादः प्रियश्रवाः ।
आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ [भागवतम् १.६.३४]

इत्येवम्भाववानपि

गोविन्दभुजगुप्तायां द्वारवत्यां कुरूद्वह ।
अवात्सीन्नारदोऽभीक्ष्णंकृष्णोपासनलालसः ॥ [भागवतम् ११.२.१] इत्युक्तम् ।

॥ १२.९ ॥ मार्कण्डेयः श्रीनारायनर्षिम् ॥ ८ ॥

[९]

अथैतस्यां भगवत्साक्षात्कारलक्षणायां मुक्तौ जीवद्अवस्थायामाह


(पगे १६)

अकिञ्चनस्य दान्तस्य शान्तस्य समचेतसः
मया सन्तुष्टमनसः सर्वाः सुखमया दिशः ॥ [भागवतम् ११.१४.१३]

भगवन्तं विना किञ्चनान्यदुपादेयत्वेन नास्तीत्यकिञ्चनस्य । तत्र हेतुः
मेयेति । अकिञ्चनत्वेनैव हेतुना विशेषणत्रयं दान्तस्येति । अन्यत्र
हेयोपादेयतारोहित्यात्समचेतसः । सर्वत्र तस्यैव साक्सात्कारात्सर्वा इत्य्
उक्तम् ॥

॥ ११.१४ ॥ श्रीभगवान् ॥ ९ ॥

{१०]

तत्रोत्क्रान्तावस्था च श्रीप्रह्लादस्तुतौ

उशत्तम तेऽङ्घ्रिमूलं प्रीतोऽपवर्गशरणं ह्वयसे कदा नु [भागवतम् ७.९.१६]
इत्यादौ ज्ञेया । सैवान्तिमा । मुक्तिश्च पञ्चधा सालोक्यसार्ष्टिसारूप्य
सामीप्यसायुज्यभेदेन । तत्र सालोक्यं समानलोकत्वं श्रीवैकुण्ठ
वासः । सार्ष्टिस्तत्रैव समानैश्वर्यमपि भवतीति । सारूप्यं तत्रैव
समानरूपतादि प्राप्यत इति । सामीप्यं समीपगमनाधिकारित्वम् ।
सायुज्यं केषांचित्भगवच्छ्रीविग्रह एव प्रवेशो भवतीति । सालोक्यादि
शब्दानां मुक्त्य्आदिशब्दसामानादिकरण्यं च सालोक्यादित्व
प्राधान्येन । तत्र सालोक्यसार्ष्टिसारूप्यमात्रे प्रायोऽन्तःकरण
साक्षात्कारः । सामीप्ये प्रायो बहिः । सायुज्ये चान्तर एव । तथापि प्रकट
स्फूर्तिलक्षणं तत्सुषुप्तिवदनतिप्रकटस्फूर्तिलक्षणात्ब्रह्म
सायुज्याद्भिद्यते । उत्क्रान्तमुक्त्य्अवस्थायामपि विशेषस्फूर्तिः श्रुताव्
एव सम्मता

स एवाधस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स दक्षिणतः स उत्तरतः स
एवेदं सर्वमित्यथातोऽहंकारादेश एवाहमेवाधस्तादहमुपरिष्टाद्
अहं पश्चादहं पुरस्तादहं दक्षिणतोऽहमुत्तरतोऽहमेवेदं सर्वम्
इति । [Cहू ७.२५.१] इति ।

एषा च पञ्चविधापि गुणातीतैव । निर्गुणायां भूमविद्यायामेव स
एकधा भवति त्रिधा भवति [Cहू ७.२६.२] इत्यादिना तद्विधस्य मुक्तस्य
स्वेच्छया नानाविधरूपप्राकट्यश्रवणात्न यत्र माया [भागवतम् २.९.१०] इत्य्
आदौ वैकुण्ठस्य मायातीतत्वश्रवणात् । अत्रावृत्तिराहित्यं चाङ्गीकृतम्
अनावृत्तिः शब्दाद्[Vस्. ४.४.२३] इत्यनेन न स पुनरावर्तते [Cहाऊ ८.१५.१] इति
श्रुतेः । तथोक्तं हिरण्यकशिपूपद्रुतदेवैः

तस्यै नमोऽस्तु काष्ठायै यत्रात्मा हरिरीश्वरः ।
यद्गत्वा न निवर्तन्ते शान्ताः सन्न्यासिनोऽमलाः ॥ [भागवतम् ७.४.२२] इति ।

श्रीकपिलदेवेन च
न कर्हिचिन्मत्पराः शान्तरूपे
नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः ॥ [भागवतम् ३.२५.३९] इति ।

तथैव
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ [गीता ८.१६] इति ।

यद्गत्वा न निवर्तन्ते तद्धाम परमं मम । [गीता १५.४] इति ।

तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् । [गीता १८.६२] इति च
श्रीगीतोपनिषदश्च दृश्याः ।

पाद्मसृष्टिखण्डे च
आब्रह्मसदनादेव दोषाः सन्ति महीपते ।
अतएव हि नेच्छन्ति स्वर्गप्राप्तिं मनीषिणः ॥
आब्रह्मसदनादूर्ध्वं तद्विष्णोः परमं पदम् ।
शुभ्रं सनातनं ज्योतिः परब्रहेति तद्विदुः ॥
न तत्र मूढा गच्छन्ति पुरुषा विषयात्मकाः ।
दम्भलोभभयद्रोहक्रोधमोहैरभिद्रुताः ॥
निर्ममा निरहङ्कारा निर्द्वन्द्वाः संयतेन्दिर्याः ।
ध्यानयोगरताश्चैव तत्र गच्छन्ति साधवः ॥ इति ।

तत्रैव सुबाहुनृपवाक्यम्
ध्यानयोगेन देवेशं यजिष्ये कमलाप्रियम् ।
भवप्रलयनिर्मुक्तं विष्णुलोकं व्रजाम्यहम् ॥ इति ।

(पगे १७)

सालोक्यादीनामविच्युतस्त्वं दर्शयिष्यते च
मत्सेवया प्रतीतं ते सालोक्यादिचतुष्टयम् ।
नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत्कालविप्लुतम् ॥ [भागवतम् ९.५.६७]

इत्यादिषु तद्इतरत्रैव कालविप्लुतत्वाङ्गीकारात् । तस्मात्क्वचिदावृत्ति
श्रवणं तु प्रपञ्चान्तर्गततद्धामत्वापेक्षया कादाचित्कतल्लीला
कौतुकापेक्षया च मन्तव्यम् । पश्चात्तु नित्यसालोक्यमेव, यथा
भविष्योत्तरे

एवं कौन्तेय कुरुते योऽरण्यद्वादशीं नरः ।
स देहान्ते विमानस्थदिव्यकन्यासमावृतः ॥
याति ज्ञातिसमायुक्तः श्वेतद्वीपं हरेः पुरम् ।
यत्र लोका पीतवस्त्रा इत्यादि ।
तिष्ठन्ति विस्णुसान्निध्ये यावद्आहूतसम्प्लवम् ।
तस्मादेत्य महावीर्याः पृथिव्यां नृप पूजिताः ।
मर्त्यलोके कीर्तिमन्तः सम्भवन्ति नरोत्तमाः ॥
ततो यान्ति परं स्थानं मोक्षमार्गं शिवं सुखम् ।
यत्र गत्वा न शोचन्ति न संसारे भ्रमन्ति च ॥ इति ।

उत्क्रान्तमुक्तिदशायां तु तेषां भगवत्तुल्यत्वमेवाह
वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठमूर्तयः ।
येऽनिमित्तनिमित्तेन धर्मेणाराधयन् हरिम् ॥ [भागवतम् ३.१५.१४]

निमित्तं फलं न तन्निमित्तं प्रवर्तकं यस्मिन् तेन निष्कामेनेत्यर्थः ।
धर्मेण भागवताख्येन । वैकुण्ठस्य भगवतो ज्योतिर्अंशभूता
वैकुण्ठलोकशोभारूपा या अनन्ता मूर्तयस्तत्र वर्तन्ते । तासामेकया
सह मुक्तस्यैकस्य मूर्तिः भगवता क्रियत इति वैकुण्ठस्य मूर्तिरिव
मूर्तिर्येषामित्युक्तम् ।

॥ ३.१५ ॥ श्रीब्रह्मा देवान् ॥ १० ॥

[११]

यथैवाह
प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् ।
आरब्धकर्मनिर्वाणो न्यपतत्पाञ्चभौतिकः ॥ [भागवतम् १.६.२९]

हित्वावद्यमिमं लोकं गन्ता मज्जनतामसि [भागवतम् १.६.२४] इति या तनुः श्री
भगवता दातुं प्रतिज्ञाता, तां भागवतीं भगवद्अंशज्योतिर्अंशरूपां
शुद्धां प्रकृतिस्पर्शशून्यां तनुं प्रति श्रीभगवतैव मयि
प्रयुज्यमाने नीयमाने आरब्धं यत्कर्म तन्निर्वाणं समाप्तं यस्य
स पाञ्चभौतिको न्यपतदिति । प्राक्तनलिङ्गशरीरभङ्गोऽपि लक्षितः ।
तादृशभगवन्निष्ठे प्रारब्धकर्मपर्यन्तमेव तत्स्थितेः । इत्थम्
एव टीका च अनेन पार्षदतनूनामकर्मारब्धत्वं शुद्धत्वं
नित्यत्वमित्यादि सूचितं भवति इत्येषा ।

॥ १.६ ॥ श्रीनारदः श्रीव्यासम् ॥ ११ ॥

[१२]

एतां मूर्तिमुद्दिश्यैवाह यं धर्मकामार्थ [भागवतम् ८.३.१९] इत्यादौ रात्य्
अपि देहमव्ययमिति । टीका च देहमप्यव्ययं राति इत्येषा ।

॥ ८.६ ॥ श्रीगजेन्द्रः ॥ १२ ॥
(पगे १८)

[१३]

तदेतत्ताण्डिनां श्रुतावप्युक्तं अश्व इव रोमाणि विधूय धूत्वा
शरीरमकृतं कृताम्ता ब्रह्मलोकमभिसम्भवानि [Cहाऊ ८.१३.१] इति ।
क्वचित्प्राकृत्यपि मूर्तिरचिन्त्यया भगवच्छक्त्या तादृशत्वमापद्यते ।
यथोक्तं श्रीध्रुवमुद्दिश्य बिभ्रद्रूपं हिरण्मयम् [भागवतम् ४.१२.२९] इति ।
तदेवं रूपं हिरण्मयं बिभ्रदिति टीका च । तथा सार्ष्टिश्च दर्शिता
भक्तिसन्दर्भे । मर्त्यो यदा त्यक्तसमस्तकर्मा इत्यादौ मयात्म
भूयाय च कल्पते वै [भागवतम् १२.२९.३५] इत्यनेन ।

श्रुतिश्चात्र स तत्र पर्येति जक्षन् क्रीडन् रममाण [Cहाऊ ८.१२.३] इत्यादिका,
आप्नोति स्वाराज्यं सर्वेऽस्मै देवा बलिमाहरन्ति [टैत्तू १.६.२, १.५.३], तस्य
सर्वेषु लोकेषु कामचारो भवति [Cहाऊ ७.२५.२] इत्यादिका, सर्वेश्वरः [Bआऊ
४.४.२२] इत्यादिका च ।

किन्तु, जगद्व्यापारवर्जम् [Vस्४.४.१७] इत्यादिन्यायेन सृष्टिस्थित्य्आदि
सामर्थ्यं तस्य न भवति कुतो वैकुण्ठैश्वर्यादिकम् । उक्तं च
अदृष्ट्वान्यतमं लोके [भागवतम् १०.३.४१] इत्यादि । ततो भाक्तमेव
समानैश्वर्यम् । अतएवाणिमादिप्राप्तिरप्यंशेनैव ज्ञेया ।
श्रीभगवत्प्रसादलब्धसम्पत्तेश्चाविनश्वरत्वमाह द्वयेनैव

ये मे स्वधर्मनिरतस्य तपःसमाधि
विद्यात्मयोगविजिता भगवत्प्रसादाः ।
तानेव ते मद्अनुसेवनयावरुद्धान्
दृष्टिं प्रपश्य वितराम्यभयानशोकान् ॥

अन्ये पुनर्भगवतो भ्रुव उद्विजृम्भ
विभ्रंशितार्थरचनाः किमुरुक्रमस्य ।
सिद्धासि भुङ्क्ष्व विभवान्निजधर्मदोहान्
दिव्यान्नरैर्दुरधिगान्नृपविक्रियाभिः ॥ [भागवतम् ३.२३.७८]

तपश्च समाधिश्च विद्या च उपासना तासु य आत्मयोगिश्चित्तैकाग्र्यम् ।
अन्ये पुनर्भोगाः किमुरुक्रमसम्बन्धिनः । अपि तु नेत्यर्थः । अतएव
भगवतो ध्रुव इत्यादि ॥

॥ ३.२३ ॥ श्रीकर्दमो देवहूतिम् ॥ १३ ॥

[१४]

तदेवं सारूप्यमपि ज्ञेयम् । यथा

गजेन्द्रो भगवत्स्पर्शाद्विमुक्तो ‘ज्ञानबन्धनात् ।
प्राप्तो भगवतो रूपं पीतवासाश्चतुर्भुजः ॥ [भागवतम् ८.४.६]

स्पष्टम् ।

॥ ८.४ ॥ श्रीशुकः ॥ १४ ॥

[१५]

सामीप्यमप्युदाहृतं भगवत्सन्दर्भे कर्दमनिर्याणवर्णनया ।
मनो ब्रह्मणि युञ्जान [भागवतम् ३.२४.४३] इत्यारभ्य मध्ये च लब्धात्मा
मुक्तबन्धन [भागवतम् ३.२४.५५] इत्युक्त्वा सर्वान्ते, भगवद्भक्तियोगेन
प्राप्तो भागवती गतिम् [भागवतम् ३.२४.४७] इत्येवमुक्तरीत्या ।

अथ सायुज्यमघासुरादिदृष्टान्तेन साधकानामपि गम्यम् ।
सालोक्यादिवत्स्वाभिमतत्वाभावात्स्पष्टोदाहरणं श्रीमता भागवतेन
न कृतमिति । अस्य भगवल्लक्षणानन्दनिमग्नतास्फूर्तिरेव प्रधानं,
क्वचिदिच्छया तद्अनुग्रहेण तदीयतच्छक्तिलेशप्राप्त्यैव यथायुक्तं
बहिस्तद्दत्ताप्राकृततद्भोगोच्छिष्टलेशमेवानुभवतीत्येके । तत्र च
न तु तमेव सर्वमेव चानुभवतीत्यभ्युपगम्यम् । सर्वथा तत्
प्राप्तेरनभ्युपगमत्वात् ।

जगद्व्यापारादिनिषेधेन इदमेवोक्तं यदैनं मुक्तो न प्रविशति मोदते
च कामांश्चैवानुभवति [Bआऊ] इति बृहच्छ्रुतौ, ब्रह्माभिसम्पद्य
ब्रह्मणा पश्यति ब्रह्मणा शृणोति इत्यादिमाध्यदिनायनश्रुतौ । आदत्ते
हरिहस्तेन इत्यादिकमपि तच्छक्तिलेशप्राप्त्य्आद्य्अभिप्रायेणैवोक्तम् ।
(पगे १९)

क्वचिदिच्छया लीलार्थं बहिरपि निष्कामयति पार्षदत्वेन च संयोजयति ।
यथा शिशुपालदन्तवक्रौ लब्धसायुज्यावपि पुनः पार्षदतामेव
प्राप्तौ ।

वैरानुबन्धतीव्रेण
ध्यानेनाच्युतसात्मताम् ।
नीतौ पुनर्हरेः पार्श्वं
जग्मतुर्विष्णुपार्षदौ ॥ [भागवतम् ७.१.४६] इति तावुद्दिश्य श्रीनारदवाक्यात् ।
तत्रैषां सालोक्यादीनामनवच्छिन्नभगवत्प्राप्तिरूपतया तत्
साक्षात्कारविशेषत्वेन ब्रह्मकैवल्यादाधिक्यं प्राचीनवचनैः
सुतरामेव सिद्धम् । अतएव क्रममुक्तिवत्क्रमभगवत्प्राप्तौ
ब्रह्मप्राप्त्य्अनन्तरभावित्वमपि क्वचित्श्रूयते । यथा
श्रीमतोऽजामिलस्य सिद्धिप्राप्तौ

स तस्मिन् देवसदन आसीनो योगमास्थितः ।
प्रत्याहृतेन्द्रियग्रामो युयोज मन आत्मनि ॥
ततो गुणेभ्य आत्मानं वियुज्यात्मसमाधिना ।
युयुजे भगवद्धाम्नि ब्रह्मण्यनुभवात्मनि ॥
यर्ह्युपारतधीस्तस्मिन्नद्राक्षीत्पुरुषान् पुरः ।
उपलभ्योपलब्धान् प्राग्ववन्दे शिरसा द्विजः ॥
हित्वा कलेवरं तीर्थे गङ्गायां दर्शनादनु ।
सद्यः स्वरूपं जगृहे भगवत्पार्श्ववर्तिनाम् ॥
साकं विहायसा विप्रो महापुरुषकिङ्करैः ।
हैमं विमानमारुह्य ययौ यत्र श्रियः पतिः ॥ [भागवतम् ६.२.४०४४]

स्पष्टम् । एवं सद्यो भगवत्प्राप्त्यावप्याधिक्यमवगतम् ।

॥ ६.२ ॥ श्रीशुकः ॥ १५ ॥

[१६]

सालोक्यादिषु च सामीप्यस्याधिक्यं बहिः साक्षात्कारमयत्वात्तस्यैव ह्य्
आधिक्यं दर्शितम् । तदेवं मुक्तिर्दर्शिता । तत्र विष्णुधर्मोत्तरे श्री
वज्रप्रश्नः

कल्पानां जीवसाम्ये हि मुक्तिर्नैवोपपद्यते ।
कदाचिदपि धर्मज्ञ तत्र पृच्छामि कारणम् ॥
एकैकस्मिन्नरे मुक्तिं कल्पे कल्पे गते द्विज ।
अभविष्यज्जगच्छून्यं कालस्यादेर्भावतः ॥

अथ श्रीमार्कण्डेयस्योत्तरम्
जीवस्यान्यस्य सर्गेण नरे मुक्तिमुपागते ।
अचिन्त्यशक्तिर्भगवान् जगत्पूरयते सदा ॥
ब्रह्मणा सह मुच्यन्ते ब्रह्मलोकमुपागताः ।
सृज्यन्ते च महाकल्पे तद्विधाश्चापरे जनान् ॥ [Vइढ्ড়् १.८१.१११४] इति ।

अत्र क्वचिदपि कल्पे केषांचिदपि जीवानामनुद्बुद्धकर्मत्वेन
सुषुप्तवत्प्रकृतावपि लीनानामनन्तब्रह्माण्डगतानामिवानन्तानाम्
एकस्त्योपाधिसृष्ट्या ब्रह्माण्डप्रवेशेनं सर्ग इति ज्ञेयम् । अपूर्वसृष्टौ
सादित्वे कृतहान्यकृताभ्यागमः स्यात् ।

अथ मुक्तिभ्यो भगवत्प्रीतेराधिक्यं विव्रियते । तत्र यद्यपि तत्प्रीतिं
विना ता पै न सन्त्येव तथापि केषाञ्चित्तेषां स्वस्य दुःखहानौ
सामीप्यादिलक्षणसम्पत्तावपि तात्पर्यं, न तु श्रीभग्तवत्येवेति तेषु
न्यूनता । तत्र कैवल्यैकप्रयोजनम् [भागवतम् १२.१३.१२] इति यदुक्तम् । तस्य
चार्थस्य तत्रैव विश्रान्तिः । तथैव सर्ववेदान्त इत्यादिप्राक्तनपाद
त्रयस्य विश्रान्तिस्तत्त्वभगवत्सन्दर्भाभ्यां श्रीभगवत्येव दर्शिता ।
तत्रैव तत्त्वपदार्थस्य पूर्णत्वस्थापनात् ।

तथैतत्पूर्वमपि हरिलीलाकथा (पगे २०) व्रातामृतानन्दितसत्सुरम्
[भागवतम् १२.१३.११] इति ग्रन्थस्वभाववर्णने तत्प्रीतेरेव मुख्यत्वं
दर्शितम् । हरिलीलाकथाव्रात एवामृतं, सन्त आत्मरामा एव सुरा इति ।
इत्थं सतां ब्रह्मसुखानुभूत्या [भागवतम् १०.१२.११] इति प्रसिद्धेः ।
परिनिष्ठितोऽपि नैर्गुण्ये [भागवतम् २.१.९] इत्यादेश्च । अतः कैवल्यशब्दश्च तत्
तद्अनुसारेण व्याख्यातव्यः । तथा हि यदि तत्र केवलशब्देन शुद्धत्वं
वक्तव्यं तदा तत्प्रीत्येकतात्पर्या एव परमशुद्धा इति तस्यामेव
तात्पर्यम् । पूर्वं भक्तिसन्दर्भेऽपि शुद्धशब्देनैकान्तिभक्त एव
प्रतिपादितः ।

तदुक्तमन्यस्य सदोषत्वकथनेन । धर्मः प्रोज्झितकैतवोऽत्र
परमः [भागवतम् १.१.२] इत्यत्र । टीका च प्रशब्देन मोक्षाभिसन्धिरपि
निरस्तः इत्येषा । अत्र भागवतधर्मे मोक्षाभिसन्धिरपि कैतवम् । यदि
च तत्र कैवल्यशब्देन भगवानेवोक्तस्तत्स्वभावो वा, तथापि
प्रीतिमतामेव । कामं भवः स्ववृजिनैर्निरयेषु नस्ताच्चेतोऽलिवद्यदि
नु ते पदयो रमेत [भागवतम् ६.१५.४९] इति न्यायेन तद्एकानुशीलनमात्र
तात्पर्यात्प्रीतावेव विश्रान्तिः ।

अतएव कैवल्यान्मोक्षादप्येकः श्रेष्ठो यो भगवत्प्रीतिलक्षणोऽर्थस्
तत्प्रयोजनमिति व्याख्यान्तरम् । वस्तुतस्तूक्तन्यायेन कैवल्यादिशब्दाः
शुद्धभक्तिवाचकताप्रधाना एव । तथैवाह गद्याभ्याम् यथा
वर्णविधानमपवर्गश्चापि भवति [भागवतम् ५.१९.१९] इति, योऽसौ भगवति
सर्वभूतात्मन्यनात्म्येऽनिरुक्तेऽनिलयने परमात्मनि वासुदेवेऽनन्य
निमित्तभक्तियोगलक्षणो नानागतिनिमित्ताविद्याग्रन्थिरन्धन
द्वारेण यदा हि महापुरुषपुरुषप्रसङ्गः [भागवतम् ५.१९.२०] इति च ।

यस्य वर्णस्य यद्विधानं भगवद्अर्पितस्वस्वधर्मानुष्ठानं, तद्
अनुक्रमेणापवर्गश्च भवति । तस्यापवर्गस्य स्वरूपमाह द्वितीयेन
योऽसौ इति । आत्मनि भवमात्म्यं रागादि तद्रहिते । स हि भक्त
सुखार्थमेव प्रयतते, न तु पृथक्स्वसुखार्थम् । यथा हि भक्तस्तत्
सुखार्थमेवेति । अनिरुक्ते स्वरूपतो गुणाश्च वाचामगोचरे । अनिलयने
निलयनमन्तर्धानं तद्रहिते, सदैव प्रकाशमान इत्यर्थः । अनन्य
निमित्तो मोक्षाद्य्उपाधिरहितो यो भक्तियोगः स एव लक्षणं स्वरूपं
यस्य सः । तत्रोपवर्गशब्दस्य प्रवृत्तिं घटयति । नानागतीनां निमित्तं
योऽविद्याग्रन्थिस्तस्य रन्धनम् । अपवर्जनं छेदनमिति यावत्तद्
द्वारेण योऽसावपवर्ग उच्यते इत्यर्थः । अपवृज्यते येनेति निरुक्त्या इति
भावः । पाद्मोत्तरखण्डे च विष्णोरनुचरत्वं हि मोक्षमाहुर्
मनीषिणः इति ।

तथा स्कान्दे रेवाखण्डे
निश्चला त्वयि भक्तिर्या सैव मुक्तिर्जनार्दन ।
मुक्ता एव हि भक्तास्ते तव विष्णो यतो हरेः ॥ इति ।

श्रीरुक्मिणीसान्त्वने श्रीभगवताप्येवमभिप्रेतं तां प्रति सन्ति ह्य्
एकान्तभक्तायास्तव [भागवतम् १०.६०.५०] इत्युक्त्वा, मां प्राप्य मानिन्य्
अपवर्गसम्पदं वाञ्छन्ति ये सम्पद एव तत्पतिम् [भागवतम् १०.६०.५३] इति ।
अतएव कैवल्यसम्मतपथस्त्वथ भक्तियोगः [भागवतम् २.३.१२] इत्यत्र
टीकाकारैरप्युक्तम् कैवल्यमित्येव सम्मतः पन्था यो भक्तियोगः
इति । पन्था भगवत्प्राप्त्य्उपायभूतोऽपीत्यर्थः । स खलु कदा स्यात्
तत्राह यदा हीति ॥

॥ ५.१९ ॥ श्रीशुकः ॥ १६ ॥

[१७]

तदेवमत्र सर्गो विसर्गश्च [भागवतम् २.१०.१] इत्यादिषु दशस्वेतन्महा
पुराणप्रतिपाद्येषु अर्थेषु मुक्तिशब्दस्य तत्रैव विश्रान्तिः । पोषणेऽपि
तदेव मुख्यं प्रयोजनम् । पोषण (पगे २१) शब्देन ह्यनुग्रह
उच्यते । तस्य च पराकाष्ठाप्राप्तिः स्वप्रीतिदान एव । तदुक्तं मुक्तिं
ददाति कर्हिचित्स्म न भक्तियोगम् [भागवतम् ५.६.१८] इति । तथैवान्यत्रापि श्री
पृथुं प्रति वरं च मत्कञ्चनमानवेन्द्र वृणीष्व [भागवतम् ४.२०.१६] इत्य्
उक्त्वा, यथा चरेद्बालहितं पिता स्वयं तथा त्वमेवार्हसि नः समीहितुम्
[भागवतम् ४.२०.३१] इति तद्वाक्यानन्तरं, तमाह राजन्मयि भक्तिरस्तु ते [भागवतम्
४.२०.३१] इति । भक्तिः प्रीतिलक्षणा ।

॥ ४.२० ॥ श्रीविष्णुः ॥ १७ ॥

[१८]

एवमेव श्रीभागवतग्रन्थश्रवणफलत्वेनापि सैव परम
पुरुषार्थतया निर्णीतास्ति तत्त्वसन्दर्भे सङ्क्षेपतात्पर्ये । श्रीव्यास
समाधिना श्रीशुकहृदयेण च तथैव निर्णयो विहितः यस्यां वै
श्रूयमाणायाम् [भागवतम् १.६.७] इत्यादिषु । स्वसुखनिभृतचेताः [भागवतम् १२.१२.६९]
इत्यादौ च । प्रतिज्ञा चेदृश्येव धर्मः प्रोज्झितः कैतवोऽत्र [भागवतम् १.१.२]
इत्यादौ किं वा परैरीश्वरः सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः
शुश्रूषुभिस्तत्क्षणातिति । अतएव चतुःश्लोक्यां रहस्यशब्देन सैवोक्ता ।
सैव च तृतीयश्लोकार्थत्वेन भगवत्सन्दर्भे विस्पष्टीकृतास्ति ।

तदेवं श्रीमत्प्रीतेरेवावपवर्गत्वेन परमभगवद्अनुग्रह
मयत्वं श्रीभागवतश्रवणफलत्वं पुरुषार्थेषु तस्याः परमत्व
साधनाय दर्शितम् । तथैव श्रीनारद आक्षेपद्वार शिक्षितवांश्च तत्
संहितामाविर्भावयिष्यन्तं श्रीव्यासम् । यथाह

यथा धर्मादयश्चार्था मुनिवर्यानुकीर्तिताः ।
न तथा वासुदेवस्य महिमा ह्यनुवर्णितः ॥ [भागवतम् १.५.९]

चशब्दोऽप्य्अर्थे । महिमानुवर्णनं तत्प्रीत्य्उद्बोधनं भवेदित्य्
आशयेनैवमुक्तम् ॥

॥ १.५ ॥ श्रीनारदः ॥ १८ ॥

[१९]

तथान्येषामपवर्गाणामपि तया तिरस्कृतौ मुक्तकण्ठा एव शब्दा
उदाहार्याः । सा च तिरस्कृतिः क्वचित्तत्स्वरूपेण क्रियते । क्वचित्तत्परिकर
द्वारा च । तत्र तत्स्वरूपेण तिरस्कृतिमाह गद्येन

यस्यामेव कवय आत्मानमविरतं विविधवृजिनसंसार
परितापोपतप्यमानमनुसवनं स्नापयन्तस्तयैव परया निर्वृत्या ह्य्
अपवर्गमात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं नो
एवाद्रियन्ते भगवदीयत्वेनैव परिसमाप्तसर्वार्थाः । [भागवतम् ५.६.१७] इति ।

यस्यां पूर्वगद्योक्तलक्षणायां भक्तौ मुक्तादिसम्पदां भक्ति
सम्पद्अनुचरीत्वात्परस्माप्तसर्वार्थत्वम् । तथोक्तं श्रीनारद
पञ्चरात्रे

हरिभक्तिमहादेव्याः सर्वा मुक्त्य्आदिसिद्धयः ।
भुक्तयश्चाद्भुतास्तस्याश्चेटिकावदनुव्रताः ॥ इति ।

अतएवानादरोऽपि । यथोक्तं श्रीवृत्रं प्रति महेन्द्रेण
यस्य भक्तिर्भगवति हरौ निःश्रेयसेश्वरे ।
विक्रीडतोऽमृताम्भोधौ किं क्षुद्रैः खातकोदकैः ॥ [भागवतम् ६.१२.२२] इति ।

॥ ६.१२ ॥ श्रीशुकः ॥ १९ ॥
(पगे २२)
[२०]

अथ तत्परिकरेषु तदीयकार्यद्वारा, यथा तत्र तदीयगुण
कथानुशीलनद्वारा तामाहुः

दुरवगमात्मतत्त्वनिगमाय तवात्ततनोश्
चरितमहामृताब्धिपरिवर्तपरिश्रमणाः ।
न परिलषन्ति केचिदपवर्गमपीश्वर ते
चरणसरोजहंसकुलसङ्गविसृष्टगृहाः ॥ [भागवतम् १०.८७.२१]

आत्मतत्त्वं तादृशसच्चिद्आनन्दमूर्तित्वादिकं निजयाथात्म्यं
निगमोऽनुभावना । आत्ततनोः प्रकटितस्वमूर्तेः, परिवर्जनार्थः ।
चरितमहामृताब्धेः पर्वर्तेनाभ्यासेन वर्जितश्रमाः । चरणसरोज
हिंसानां श्रीशुकदेवादीनां यानि कुलानि शिष्योपशिष्यपरम्पराः । तेषां
सङ्गेन विसृष्टमात्रगृहा अपि यद्यपवर्गं न परिलषन्ति, तदा चरण
सरोजहंसादयस्तु किमुतेत्यर्थः ॥

॥ १०.८७ ॥ श्रुतयः ॥ २० ॥

[२१]

तदीयपादसेवातदीयगुणकथाद्वारा मुक्तिविशेषस्य तिरस्कृतिर्भक्ति
सन्दर्भे दर्शितास्ति श्रीकपिलदेववाक्येन नैकात्मतां मे स्पृहयन्ति
केचिद्[भागवतम् ३.२५.३४] इत्यादिना । एकात्मतां ब्रह्मसायुज्यं भगवत्सायुज्यम्
अपि । एवं सेवाद्वारा मुक्तिविशेषाणां च श्रीविष्णुवाक्येन मत्सेवया
प्रतीतं ते [भागवतम् ९.४.६७] इत्यादिना, श्रीकपिल्देववाक्येन सालोक्यसार्ष्टी [भागवतम्
३.२९.१३] इत्यादिना ।

अथ पुरुषार्थान्तरवन्मुक्तिरपि हेयैवेति वक्तुं तैरपि साध्यं तस्यास्
तिरस्कृतिर्निर्दिश्यते । तत्र भक्तेः स्वरूपेण मुक्तिसामान्यस्य तिरस्कृतिर्
उदाहृतैवास्ति भक्तिसन्दर्भादौ । न किञ्चित्साधवो धीराः [भागवतम् ११.२०.३४]
इत्यादिना ।

नैवेच्छत्याशिषः क्वापि ब्रह्मर्षिर्मोक्षमप्युत ।
भक्तिं परां भगवति लब्धवान् पुरुषेऽव्यये ॥ [भागवतम् १२.१०.६] इति चान्यत्र ।

अथ कार्यद्वारेषु तत्रापततमहासुखदुःखान्तरतिरस्कारितद्आसक्ति
द्वारा तामाह

नारायणपराः सर्वे न कुतश्चन बिभ्यति ।
स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः ॥ [भागवतम् ६.१७.१८]

स्वर्गादीनां तुल्यहेयत्वात्तेषु तुल्यभगवद्एकपुरुषार्थत्वाच्च तुल्य
दर्शिनः ॥

॥ ६.१७ ॥ श्रीरुद्रो देवीम् ॥ २१ ॥

[२२]

तदीयपादसेवापरमोत्कण्ठाद्वारा तामाह

को न्वीश ते पादसरोजभाजां
सुदुर्लभोऽर्थेषु चतुर्ष्वपीह ।
तथापि नाहं प्रवृणोमि भूमन्
भवत्पदाम्भोजनिषेवणोत्सुकः ॥ [भागवतम् ३.४.१५]

हे ईश ॥
॥ ३.४ ॥ उद्धवः श्रीभगवन्तम् ॥ २२ ॥

[२३]

सर्वात्मार्पणकारिभजनीयविषयकाभिलाषद्वारा तामाह

न पारमेष्ठ्यं न महेन्द्रधिष्ण्यं
न सार्वभौमं न रसाधिपत्यम् ।
न योगसिद्धीरपुनर्भवं वा
मय्यर्पितात्मेच्छति मद्विनान्यत् ॥ [भागवतम् ११.१४.१४]

टीका चरसाधिपत्यं पातालादिसाम्यम् । अपुनर्भवं मोक्षमपि । मद्
विना मां हित्वान्यन्नेच्छति । अहमेव तस्य प्रेष्ठ इत्यर्थः । इत्येषा ।
सार्वभौमं श्रीप्रियव्रतादीनामिव महाराज्यम् । पारमेष्ठ्यादि
चतुष्टयस्यानुक्रमश्चाधोऽधोविवक्षया न्यूनत्वअविवक्षया च । ततश्
चोत्तरोत्तरं कैमुत्यमपि । योगसिद्ध्य्आदिद्वयं तु सार्वत्रिकमिति
पश्चाद्विन्यस्तम् । अनयोस्तूत्तरश्रैष्ठ्यम् ॥

॥ ११.१४ ॥ श्रीभगवान् ॥ २३ ॥
(पगे २३)
[२४]

तथैवाह

न नाकपृष्ठं न च पारमेष्ठ्यं
न सार्वभौमं न रसाधिपत्यम् ।
न योगसिद्धीरपुनर्भवं वा
समञ्जस त्वा विरहय्य काङ्क्षे ॥ [भागवतम् ६.११.२५]

नाकपृष्ठं ध्रुवपदम् । अत्र च चतुष्टये पूर्ववत्न्यूनत्वविवक्षया
कैमुत्यम् । ध्रुवपदस्य श्रैष्ठ्यं विष्णुपदसन्निहितत्वात् ॥

॥ ६.११ ॥ श्रीवृत्रः ॥ २४ ॥

[२५]

गाढतत्प्रपत्तिद्वाराहुः

न नाकपृष्ठं न च सार्वभौमं
न पारमेष्ठ्यं न रसाधिपत्यम् ।
न योगसिद्धीरपुनर्भवं वा
वाञ्छन्ति यत्पादरजःप्रपन्नाः ॥ [भागवतम् १०.१६.३७]

तत्र नाकपृष्ठमपि न वाञ्छन्ति किमुत सार्वभौमम् ।
पारमेष्ठ्यमपि न वाञ्छन्ति किमुत रसाधिपत्यमिति पूर्वार्धे
योज्यम् । उत्तरार्धे वाशब्दोऽप्य्अर्थे । पादरजःशब्देन भक्तिविशेष
ज्ञापनाय गाढप्रपत्तिर्ज्ञाप्यते ।

॥ १०.१६ ॥ नागपत्न्यः श्रीभगवन्तम् ॥ २५ ॥

[२६]

गुणगानद्वाराह

तुष्टे च तत्र किमलभ्यमनन्त आद्ये
किं तैर्गुणव्यतिकरादिह ये स्वसिद्धाः ।
धर्मादयः किमगुणेन च काङ्क्षितेन
सारं जुषां चरणयोरुपगायतां नः ॥ [भागवतम् ७.६.२५]

अगुणेन मोक्षेण । सारंजुषां तन्माधुर्यास्वादिनां सताम् ॥

॥ ७.६ ॥ श्रीप्रह्लादो दैत्यबालकान् ॥ २६ ॥

[२७]

गुणश्रवणद्वाराह

वरान् विभो त्वद्वरदेश्वराद्बुधः
कथं वृणीते गुणविक्रियात्मनाम् ।
ये नारकाणामपि सन्ति देहिनां
तानीश कैवल्यपते वृणे न च ॥

न कामये नाथ तदप्यहं क्वचिन्
न यत्र युष्मच्चरणाम्बुजासवः ।
महत्तमान्तर्हृदयान्मुखच्युतो
विधत्स्व कर्णायुतमेष मे वरः ॥ [भागवतम् ४.२०.२३२४]

तदपि कैवल्यमपि ॥

॥ ४.२० ॥ पृथुः श्रीविष्णुम् ॥ २७ ॥

[२८]

तदीयनिजसेवकताप्राप्तिकामनाद्वाराह

यो दुस्त्यजान् क्षितिसुतस्वजनार्थदारान्
प्रार्थ्यां श्रियं सुरवरैः सदयावलोकाम् ।
नैच्छन्नृपस्तद्उचितं महतां मधुद्विट्
सेवानुरक्तमनसामभवोऽपि फल्गुः ॥ [भागवतम् ५.१४.४४]

य आर्षभेय्यो भरतः ।

॥ ५.१४ ॥ श्रीशुकः ॥ २८ ॥

[२९]

लोकपालतामात्रलक्षणतत्सेवाभिमानद्वाराप्याह

प्रत्यानीताः परम भवता त्रायता नः स्वभागा
दैत्याक्रान्तं हृदयकमलं तद्गृहं प्रत्यबोधि ।
कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते
मुक्तिस्तेषां न हि बहुमता नारसिंहापरैः किम् ॥ [भागवतम् ७.८.४२]

स्पष्टम् ।

॥ ७.८ ॥ महेन्द्रः श्रीनृसिंहम् ॥ २९ ॥

[३०]

अथ कारणेषु महाभागवतसङ्गद्वाराह

क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम् ।
भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ [भागवतम् ४.२४.५७]

टीका चतत्पादमूले प्रविष्टस्य कृतान्तभयाभावः कियानयं लाभः ।
यावता तद्भक्तसङ्ग एव सकलपुरुषार्थश्रेणिशिरसि नरीनर्ति इत्यादि ।

॥ ४.२४ ॥ श्रीरुद्रः प्रचेतसः ॥ ३० ॥

[३१]

तथैवाहुः

यावत्ते मायया स्पृष्टा भ्रमाम इह कर्मभिः ।
तावद्भवत्प्रसङ्गानां सङ्गः स्यान्नो भवे भवे ॥
तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् ।
भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ [भागवतम् ४.३०.३२३३] (पगे २४)

तद्बहिर्मुखताप्राप्त्य्आशङ्कया तत्परिहार्कारणं प्रार्थयन्ते यावद्
इति । नैतावत्त्वं तत्सङ्गस्य किन्त्वपारमहिमत्वमेवेत्याहुः
तुलयामेवेति । अतो यावदित्यादिकं प्रेम्नैव भगवच्चरणसामीप्य
प्राप्त्य्आशयोक्तं न सामीप्याद्मुक्तिसम्पत्त्याशयेति ज्ञेयम् ।

॥ ४.३० ॥ प्रचेतसः श्रीमद्अष्टभुजं पुरुषम् ॥ ३१ ॥

[३२]

अन्यत्रापीदृशोऽर्थो दृश्यते । तत्र तत्तच्छास्त्रस्य परमफलत्वे । यथा
माध्वभाष्यधृतं बृहत्तन्त्रम्

यथा श्रीनित्यमुक्तापि प्राप्तकामापि सर्वदा ।
उपास्ते नित्यशो विष्णुमेवं भक्तो भवेदपि ॥

ब्रह्मवैवर्ते च
न ह्रासो न च वृद्धिर्वा मुक्तानां विद्यते क्वचित् ।
विद्वत्प्रत्यक्षसिद्धत्वात्कारणाभावतोऽनुमा ॥
हरेरुपासना चात्र सदैव सुखरूपिणी ।
न च साधनभूता सा सिद्धिरेवात्र सा यतः ॥ इति ।

तद्उत्थापिता सौपर्णश्रुतिश्च
सर्वदैतमुपासीत यावद्विमुक्तिर्मुक्ता ह्येतमुपासते । इति ।

तदीयभारततात्पर्ये च श्रुत्य्अन्तराभिधानम्
मुक्तानामपि भक्तिर्हि परमानन्दरूपिणी इति ।

एष एवार्थः श्रीबृहद्गौतमीयेऽपि दृश्यते, यथा
एवं दीक्षां चरेद्यस्तु पुरुषो वीतकल्मषः ।
स लोके वर्तमानोऽपि जीवन्मुक्त प्रमोदते ॥
उदिताकृतिरानन्दः सर्वत्र समदर्शकः ।
पूर्णाहन्तामयी साक्षाद्भक्तिः स्यात्प्रेमलक्षणा ॥

अन्यत्र हानोपादानवृद्धिरहितत्वात्समदर्शित्वं ज्ञेयम् । अत्र मुनय
ऊचुः
कथं भक्तिर्भवेत्प्रेम्ना जीवन्मुक्तस्य नारद ।
जीवन्मुक्तशरीराणां चित्सत्तानिःस्पृहा यतः ।
विरक्तेः कारणं भक्तिः सा तु मुक्तेस्तु साधनम् ॥
नारद उवाच
भद्रमुक्तं भवद्भिश्च मुक्तिस्तुर्यातीता निगद्यते ।
कृष्णधाममयं ब्रह्म क्वचित्कुत्रापि भासते ॥
निर्बीजेन्द्रियगं तत्तु आत्मस्थं केवलं सुखम् ।
कृष्णस्तु परिपूर्णात्मा सर्वत्र सुखरूपकः ।
भक्तिवृत्तिकृताभ्यासात्तत्क्षणाद्गोचरीकृतः ॥ इति ।

तादृग्अर्थत्वेनैवाद्वैतवादगुरुभिरपि सम्मता श्रीनृसिंहतापनी च
यं ह वै सर्वे वेदा आनमन्ति मुमुक्षवो ब्रह्मवादिनश्च [ण्टू २.४]
इति । यथा मुक्ता अपि लीलया विग्रहं कृत्वा भगवन्तं भजन्ते इति हि तद्
भाष्यम् ।

ब्रह्मणा वदितुं स्थिरीभवितुं शीलमेषामिति ब्रह्मवादिनी मुक्ता इति
वद स्थैर्ये [पाणिनि ७.२.७] इति स्मरणात् । श्रीगीतोपनिषदश्च तेषां ज्ञानी
नित्ययुक्त एकभक्तिर्विशिष्यते [गीता ७.१०] इति ।

अथ तस्याः परमभगवद्अनुग्रहप्राप्यत्वे नारदपञ्चरात्रीय जितं
ते स्तोत्रं, यथा

मोक्षसालोक्यसारूप्यान् प्रार्थये न धराधर ।
इच्छामि हि महाभाग कारुण्यं तव सुव्रत ॥

पुरुषार्थान्तरयतिरस्कारे हयशीर्षीयश्रीनारायणव्यूहस्तवः
न धर्मं काममर्थं वा मोक्षं वा वरदेश्वर ।
प्रार्थये तव पादाब्जे दास्यमेवाभिकामये ॥
पुनः पुनर्वरान् दित्सुर्विष्णुर्मुक्तिं न याचितः ।
भक्तिरेव वृता येन प्रह्लादं तं नमाम्यहम् ॥ (पगे २५)
यदृच्छया लब्धमपि विष्णोर्दाशरथेस्तु यः ।
नैच्छन्मोक्षं विना दास्यं तस्मै हनुमते नमः ॥ इति ।

पुनर्जितंतेस्तोत्रं च
धर्मार्थकाममोक्षेषु नेच्छा मम कदाचन ।
तत्पादपङ्कजस्याधो जीवितं दीयतां मम ॥ इति ।

न च तादृशभगवत्प्रीत्या तत्तत्पुरुषार्थतिरस्कारोऽद्भुत इव । यस्यास्ति
भक्तिर्भगवत्यकिञ्चना सर्वैर्गुणैस्तत्र समासते सुराः [भागवतम् ५.१८.१२]
इति भक्तिस्वाभाविकभूतअकारुण्यगुणेनाप्यसौ श्रूयते । यथाह

न कामयेऽहं गतिमीश्वरात्पराम्
अष्टर्द्धियुक्तामपुनर्भवं वा ।
आर्तिं प्रपद्येऽखिलदेहभाजाम्
अन्तःस्थितो येन भवन्त्यदुःखाः ॥ [भागवतम् ९.२१.१२]

स्पष्टम् । न चात्र यथा दयावीरस्यास्य दयामात्रेणाप्यपरित्यागः । न
तु सारासारत्वज्ञानेन । तथा उपस्थितमहार्थपरित्यागित्वाद्दान
वीराणां तेषामपि भगवत्प्रीतिजनोत्साहमात्रेणेत्याशङ्क्यम् । सर्व
तत्त्वानुभविनां परमार्थैकनिष्ठाग्रहाणां श्रीशुकदेवादीनामपि
तत्रोदाहृतत्वाद् । तस्मादस्त्येव भगवत्प्रीतेः सर्वस्मादप्यपवर्गाद्
उपादेयत्वम् ॥

॥ ९.२१ ॥ रन्तिदेवः ॥ ३२ ॥

[३३]

अतएवान्येषामपि वैदिकानां साधनानां सैव मुख्यं फलमिति निर्दिशति


पूर्तेन तपसा यज्ञैर्दानैर्योगसमाधिना ।
राद्धं निःश्रेयसं पुंसां मत्प्रीतिस्तत्त्वविन्मतम् ॥ [भागवतम् ३.९.४१]

टीका चन च मत्प्रीतेरप्यधिकं किञ्चिदस्ति इत्याहुः पूर्तादिभी
राद्धं सिद्धं यन्निःश्रेयसं फलम् । तत्मत्प्रीतेरेवेति तत्त्वविदां
मतमित्येषा ।

[३४]

अन्यत्तु फलमतत्त्वविदां मतं तत्राह

अहमात्मात्मनां धातः प्रेष्ठः सन् प्रेयसामपि ।
अतो मयि रतिं कुर्याद्देहादिर्यत्कृते प्रियः ॥ [भागवतम् ३.९.४२]

आत्मनां रश्मिस्थानीयानां शुद्धजीवानामपि आत्मा मण्डलस्थानीयः
परमात्माहम् । कृष्णमेनमवेहि त्वमात्मानमखिलात्मनाम् [भागवतम्
१०.१४.५५] इति च वक्ष्यते । अतः प्रेयसामात्मनामपि प्रेष्ठः सन्
निरवद्यः । येषामात्मनां कृते देहादिरर्थोऽपि प्रियो भवति । कुर्यात्
सर्व एव कर्तुमर्हतीत्यर्थः । अतो मद्अज्ञानदोषेणैव न करोतीत्य्
भावः ॥

॥ ३.९ ॥ श्रीगर्भोदशायी ब्रह्माणम् ॥ ३३३४ ॥

[३५]

अतएव शुद्धप्रीतिमत एव सर्वतः श्रैष्ठ्यमाह

रजोभिः समसङ्ख्याताः पार्थिवैरिह जन्तवः ।
तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः ॥
प्रायो मुमुक्षवस्तेषां केचनैव द्विजोत्तम ।
मुमुक्षूणां सहस्रेषु कश्चिन्मुच्येत सिध्यति ॥
मुक्तानामपि सिद्धानां नारायणपरायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥ [भागवतम् ६.१४.३५]

श्रेयः परलोकसुखसाधनं धर्मादि । मुच्येत जीवन्मुक्तओ भवति ।
जीवन्मुक्तस्य च यस्य भगवद्आद्य्अपराधो दैवान्न स्यात्स एव
सिध्यति तत्तल्लक्षणामनित्मां मुक्तिं प्राप्नोति ।

आरुह्य कृच्छ्रेण परं पदं ततः
पतन्त्यधोऽनादृत्ययुष्मद्अङ्घ्रयः ॥ [भागवतम् १०.२.३२]

जीवन्मुक्ताः प्रपद्यन्ते पुनः संसारवासनाम् ।
यद्यचिन्त्यमहाशक्तौ भगवत्यपराधिनः ॥ [Bहागवतपरिशिष्ट]

नानुव्रजति यो मोहाद्व्रजन्तं परमेश्वरम् ।
ज्ञानाग्निदग्धकर्मापि स भवेद्ब्रह्मराक्षसः ॥ इत्यादि भक्ति
सन्दर्भे दर्शितप्रमाणेभ्यः । (पगे २६) तत्र जीवन्मुक्तानां सिद्ध
मुक्तानां च याः कोटयस्तास्वपि नायं सुखापो भगवान् [भागवतम् १०.९.२१] इत्य्
आदेः । मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् [भागवतम् ५.६.१८] इत्यतश्च
नारायणपरायणः सुदुर्लभ एव यतः स एव प्रशान्तात्मा प्रकृष्ट
भगवत्तत्त्वनिष्ठावरिष्ठ इत्यर्थः । शमो मन्निष्ठता बुद्धेः
[भागवतम् ११.१९.१६] इति श्रीभगवता स्वयं व्याख्यातत्वात् ।

॥ ६.१४ ॥ राजा श्रीशुकम् ॥ ३५ ॥

[३६]

अतएव
प्रायेण मुनयो राजन्निवृत्ता विधिषेधतः ।
नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरेः ॥ [भागवतम् २.१.७]

इत्यादित्रयेणात्मारामश्रेष्ठानां भक्तिं प्रदर्श्य तद्अभाववतां
निन्दा तद्अश्मसारं हृदयं बतेदं [भागवतम् २.३.२४] इत्यादिना । अतएवाह

तथापि ब्रूमहे प्रश्नांस्तव राजन् यथाश्रुतम् ।
सम्भाषणीयो हि भवानात्मनः शुद्धिमिच्छता ॥ [भागवतम् ७.१३.२३]

शुद्धिं शुद्धभक्तिवासनारूपाम् ।

॥ ७.१३ ॥ श्रीदत्तात्रेयः श्रीप्रह्लादम् ॥ ३६ ॥

[३७]

अतएव

वाग्गद्गदा द्रवते यस्य चित्तं
रुदत्यभीक्ष्णं हसति क्वचिच्च ।
विलज्ज उद्गायति नृत्यते च
मद्भक्तियुक्तो भुवनं पुनाति ॥ [भागवतम् ११.१४.२४]
स्पष्टम् ।

[३८]

तथा
निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् ।
अनुव्रजाम्यहं नित्यं पूयेयेत्यङ्घ्रिरेणुभिः ॥ [भागवतम् ११.१४.१६]

निरपेक्षं निष्किञ्चनभक्तम् । अतएव शान्तं क्षोभरहितमतएवान्यत्र
निर्वैरं समदर्शनं च हेयोपादेयभावनारहितं मुनिं श्री
नारदादिमनुव्रजामि । यतस्तस्य तादृशनिष्कपटभक्तिमयसाधुत्व
दर्शनेन ममापि तत्र भक्तिविशेषो जायते । कथं गोपनीय इत्याह
पूयेयेति । मद्भक्त्य्अनिष्कृतिदोषात्पवित्रितः स्यामिति भावेनेति भावः ।

॥ ११.१४ ॥ श्रीभगवान् ॥ ३७३८ ॥

[३९]

अतएवाह

गुणैरलमसङ्ख्येयैर्माहात्म्यं तस्य सूच्यते ॥
वासुदेवे भगवति यस्य नैसर्गिकी रतिः ॥ [भागवतम् ७.४.३६]

तस्य श्रीप्रह्लादस्य ।

॥ १.४ ॥ श्रीशुकः ॥ ३९ ॥

[४०]

तस्मात्प्रीतेरेवे पुरुषार्थश्रेष्ठत्वं सिद्धम् । यथाहुर्गद्येन

अथ ह वाव तव महिमामृतरससमुद्रविप्रुषा सकृदवलीढया स्व
मनसि निष्यन्दमानानवरतसुखेन विस्मारितदृष्टश्रुतविषयसुख
लेशाभासाः परमभागवता एकान्तिनो भगवति सर्वभूतप्रियसुहृदि
(पगे २७) सर्वात्मनि नितरां निरन्तरं निर्वृतमनसः कथमु ह वा एते
मधुमथन पुनः स्वार्थकुशला ह्यात्मप्रियसुहृदः साधवस्त्वच्
चरणाम्बुजानुसेवां विसृजन्ति न यत्र पुनरयं संसारपर्यावर्तः [भागवतम्
६.९.३९] इति ।

सकृदपि इति चित्तं ब्रह्मसुखस्पृष्टं नैवोत्तिष्ठेत कर्हिचित्[भागवतम् ७.१५.३५]
इति वदत्रापि सूचितम् । आत्मा त्वमेव प्रियः सुहृच्च येषां ते ।

॥ ६.९ ॥ देवाः श्रीपुरुषोत्तमम् ॥ ४० ॥

[४१]

अतएवाह

तस्यैव हेतोः प्रयतेत कोविदो
न लभ्यते यद्भ्रमतामुपर्यधः ।
तल्लभ्यते दुःखवदन्यतः सुखं
कालेन सर्वत्र गभीररंहसा ॥

न वै जनो जातु कथञ्चनाव्रजेन्
मुकुन्दसेव्यन्यवदङ्ग संसृतिम् ।
स्मरन्मुकुन्दाङ्घ्र्य्उपगूहनं पुनर्
विहातुमिच्छेन्न रसग्रहो जनः ॥ [भागवतम् १.५.१८१९]

स्पष्टम् ।

॥ १.५ ॥ श्रीनारदः ॥ ४१ ॥

[४२]

तथा

भजन्त्यथ त्वामत एव साधवो
व्युदस्तमायागुणविभ्रमोदयम् ।
भवत्पदानुस्मरणादृते सतां
निमित्तमन्यद्भगवन्न विद्महे ॥ [भागवतम् ४.२०.२९]

टीका च यतस्त्वं दीनवत्सलः अतएव साधवो निष्कामा । अथ
ज्ञानान्तरमपि त्वां भजन्ति । कथम्भूतम् । मायागुणानां विभ्रमो
विलासः तस्योदयः कार्यं स निरस्तो यस्मिन् तम् । ते किमर्थं भजन्ति ?
तत्राह भवत्पदानुस्मरणादिना अन्यत्तेषां फलं न विद्महे इत्येषा ।

॥ ४.२० ॥ पृथुः श्रीविष्णुम् ॥ ४२ ॥

[४३]

तस्मात्तत्तद्भक्तानां तत्प्रीतिमनोरथ एवोपादेयः । तदन्यस्तु
सर्वोऽपि हेय इत्याह

सुखोपविष्टः पर्यङ्के रामकृष्णोरु मानितः ।
लेभे मनोरथान् सर्वान् पथि यान् स चकार ह ॥
किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने ।
तथापि तत्परा राजन्न हि वाञ्छन्ति किञ्चन ॥ [भागवतम् १०.३९.१२]

सोऽक्रूरः । यान्

किं मयाचरितं भद्रं किं तप्तं परमं तपः ।
किं वाथाप्यर्हते दत्तं यद्द्रक्ष्याम्यद्य केशवम् ॥ [भागवतम् १०.३८.३]

इत्यादिभक्तिवासनामयान् । ननु मुक्त्य्आदिकमपि कथं न प्रार्थितम् ।
तत्राह किमलभ्यमिति ।
॥ १०.३९ ॥ श्रीशुकः ॥ ४३ ॥

[४४]

यथैवाह

पुनश्च भूयाद्भगवत्यनन्ते
रतिः प्रसङ्गश्च तद्आश्रयेषु ।
महत्सु यां यामुपयामि सृष्टिं
मैत्र्यस्तु सर्वत्र नमो द्विजेभ्यः ॥ [भागवतम् १.१९.१६]

सृष्टिं जन्म, अन्यत्र तु सर्वत्र मैत्री अविष्मा दृष्टिरस्तु । ब्राह्मणेषु
त्वादरविशेषोऽस्त्वित्याह नम इति ।

॥ १.१९ ॥ राजा ॥ ४४ ॥
[४५]

अतएवाह

न वै मुकुन्दस्य पदारविन्दयो
रजोजुषस्तात भवादृशा जनाः ।
वाञ्छन्ति तद्दास्यमृतेऽर्थमात्मनो
यदृच्छया लब्धमनःसमृद्धयः ॥ [भागवतम् ४.९.३६]

यदृच्छया अनायासेनैव लब्धा मनः समृद्धिर्येषां ते । स्वतो भक्ति
माहात्म्यबलेन सर्वपुरुषार्थप्रतीक्षितकृपादृष्टिलेशा अपीत्यर्थः ।
एतद्अनुसारेण नैच्छन्मुक्तिपतेर्मुक्तिं तेन तापमुपेयिवान् [भागवतम् ४.९.२९]
इत्यत्र श्रीध्रुवमुद्दिश्य पूर्वोक्तेऽपि पद्ये मुक्तिशब्देन दास्यमेव
वाच्यम् । तदुक्तं विष्णोरनुचरत्वं हि मोक्षमाहुर्मनीषिणः
[ড়द्मড়् ६] इति ।

॥ ४.९ ॥ श्रीमैत्रेयः ॥ ४५ ॥
(पगे २८)
[४६]

एतदेवान्यनिन्दाशुद्धभक्तस्तवाभ्यां द्रढयति गद्यपञ्चकेन
यत्तद्भगवतानधिगतान्योपायेन याच्‘आच्छलेनापहृतस्व
शरीरावशेषितलोकत्रयो वरुणपाशैश्च सम्प्रतिमुक्तो गिरिदर्यां
चापविद्ध इति होवाच । नूनं बतायं भगवानर्थेषु न निष्णातो योऽसाव्
इन्द्रो यस्य सचिवो मन्त्राय वृत एकान्ततो बृहस्पतिस्तमतिहाय स्वयम्
उपेन्द्रेणात्मानमयाचतात्मनश्चाशिषो नो एव तद्दास्यमतिगम्भीर
वयसः कालस्य मन्वन्तरपरिवृत्तं कियल्लोकत्रयमिदम् ।
यस्यानुदास्यमेवास्मत्पितामहः किल वव्रे न तु स्वपित्र्यं यद्
उताकुतोभयं पदं दीयमानं भगवतः परमिति भगवतोपरते खलु
स्वपितरि । तस्य महानुभावस्यानुपथममृजितकषायः को वास्मद्
विधः परिहीणभगवद्अनुग्रह उपजिगमिषतीति ॥ [भागवतम् ५.२४.२३२६]

टीका च तस्यैकान्तभक्तिं सप्रपञ्चमाह इत्यादिका । यत्तद्
अतिप्रसिद्धम् । इति एतदुवाच श्रीबलिः । तमुपेन्द्रं प्रति । अतिहाय
पुरुषार्थत्वेनानभिलष्य । स्वयमुपेन्द्रेणैव द्वारभूतेन आत्मानं
मां परमक्षुद्रं प्रति परमक्षुद्रं लोकत्रयमयाचत । अनुदास्यं
नय मां निजभृत्यपार्श्वम् [भागवतम् ७.९.२४] इत्यनेन तद्दासदास्यम् । स्व
पित्र्यं त्रैलोक्यराज्यम् । यदुत अकुतोभयं पदं मोक्षम् । तन्न तु
वव्रे । कथं भगवतः परमन्यदिदमिति कृत्वा । तद्अंशाभासस्तद्
अंशमात्रात्मकत्वात्तयोः । कदैवं व्यवहृतमित्याशङ्क्याह
भगवतेति ।

॥ ५.२४ ॥ श्रीशुकः ॥ ४६ ॥

[४७]

अतएवान्यसुखदुःखनैरपेक्ष्येणैव शुद्धत्वं भक्तानामिति
सिद्धम् । तदुक्तं नारायणपराः सर्वे [भागवतम् ६.१७.२८] इत्यादि । श्रीभगवान्
अपि तथाविधानुकम्प्यानां सर्वमन्यद्दूरीकरोति । यथोक्तं स्वयमेव
ब्रह्मन् यमनुगृह्णामि तद्द्विषो विधुनोम्यहम् [भागवतम् ८.२२.२४] इति ।
यथाह

त्रैवर्गिकायासविघातमस्मत्
पतिर्विधत्ते पुरुषस्य शक्र ।
ततोऽनुमेयो भगवत्प्रसादो
यो दुर्लभोऽकिञ्चनगोचरोऽन्यैः ॥ [भागवतम् ६.११.२३]

पुरुषस्य स्वात्यन्तिकभक्तस्य यदि कथञ्चित्त्रैवर्गिकायास आपतति तदा
स्वयमेव तद्विघातं विधत्त इत्यर्थः । अकिञ्चनस्तु गोचरो विषयो
यस्येत्यनेन मोक्षआयास्यापि विघातविधानं व्यञ्जितम् । अकिञ्चन
शब्दस्य शुद्धभक्त्य्अर्थत्वं हि भक्तिसन्दर्भे दर्शितम् ।

॥ ६.११ ॥ श्रीमान् वृत्रः शत्रुम् ॥ ४७ ॥

[४८]

तदेवं तादृशानामपि यदि कदाचिदन्यत्प्रार्थनं दृश्यते तदा तत्प्रीति
सेवोपयोगितयैव न तु स्वार्थत्वेन तदिति मन्तव्यम् । यथा

यक्ष्यति त्वां मखेन्द्रेण राजसूयेन पाण्डवः ।
पारमेष्ठ्यकामो नृपतिस्तद्भवाननुमोदताम् ॥ [भागवतम् १०.७०.४१] इति ।

परमेष्ठिशब्देनात्र श्रीद्वारकापतिरुच्यते । यथा पृथुकोपाख्याने


तावच्छ्रीर्जगृहे हस्तं तत्परा परमेष्ठिनः । [भागवतम् १०.८१.१०] इति ।

ततः पारमेष्ट्यशब्देन द्वारकिश्वर्यमुच्यते । ततश्च पारमेष्ट्य
काम इति तत्समानैश्वर्यं कामयमानः इत्यर्थः ।(पगे २९) तत्कामना
च द्वारकावदिन्द्रप्रस्थेऽपि श्रीकृष्णनिवासनयोग्यसम्पत्तिसिद्ध्य्
अर्थैव ज्ञेया नान्यार्था । तानुद्दिश्यैव

किं ते कामाः सुरस्पार्हा मुकुन्दमनसो द्विजाः ।
अधिजह्रुर्मुदं राज्ञः क्षुधितस्य यथेतरे ॥ [भागवतम् १.१२.६] इत्याद्य्उक्तेः ।

श्रीभगवत्प्रसादत इहैव च तथैव तत्प्राप्तिरपि तस्य दृश्यते

सभायां मयक्प्तायां क्वापि धर्मसुतोऽधिराट् ।
वृतोऽनुगैर्बन्धुभिश्च कृष्णेनापि स्वचक्षुषा ॥
आसीनः काञ्चने साक्षादासने मघवानिव ।
पारमेष्ठ्यश्रिया जुष्टः स्तूयमानश्च वन्दिभिः ॥ [भागवतम् १०.७५.३३३४] इत्य्
अत्र ।

अत्र स्वचक्षुषेति विशेषणमपि तेषामनन्यकामत्वायोपजीव्यम् । यथा
चक्षुष्मता जनेनानूजनागोचरसम्पत्तिविशेषश्चक्ष्ण्ड्रर्थमेव
काम्यते कदाचित्तन्मुद्रणादौ तु स सर्वोऽपि वृथैव । तथा कृष्णनाथैर्
अपीति भावः । तथोक्तं श्रीमत्पाण्डवानुद्दिश्य श्रीपरीक्षितं प्रति
मुनिभिः न वा इत्यादौ येऽध्यासनं राजकिरीटजुष्ट्ं सद्यो जहुर्
भगवत्पार्श्वकामा [भागवतम् १.१९.२०] इति । अतएव तद्भवाननुमोदितामिति
नारदवाक्यानुसारेण परमैकान्तिषु श्रीभगवानपि तदनुमोदते ।
अन्यत्र च तथैव स्वयमाह

यान् यान् कामयसे कामान्मय्यकामाय भामिनि ।
सन्ति ह्येकान्तभक्तायास्तव कल्याणि नित्यदा ॥ [भागवतम् १०.६०.५०]

न विद्यते कामो यत्रेति विग्रहेन शुद्धप्रीतिमयभक्तिलक्षणोऽर्थः
खल्वत्राकाम इत्युच्यते । अकामः सर्वकामो वा [भागवतम् २.३.१०] इत्यादौ
भक्तिमात्रकाम इव । तथोक्तं भक्तिलक्षणं वदता श्रीप्रह्लादेन
भृत्यलक्षणजिज्ञासुर्[भागवतम् ७.१०.३] इत्यादौ । तस्मादकामाय प्रीतिसेवा
सम्पत्त्य्अर्थं यान् यानर्थान् कामयसे हे देवि ते तव नित्यलक्ष्मीदेवी
रूपप्रेयसीत्वात्नित्यं सन्त्येवेति व्याख्येयम् । तत्रैकान्तभक्ताया इति
स्वार्थकामनानिषेधः । कामिनीति मद्एककामिनीत्यर्थः । कल्याणीति
तादृशसेवासम्पत्तेरविघ्नत्वं दर्शयतीति ज्ञेयम् ।

॥ १०.६० ॥ श्रीभगवान् रुक्मिणीम् ॥ ४८ ॥

[४९]

एवं सद्यो जहुर्भगवत्पार्श्वकामा इत्यत्र तत्सामीप्यकामनापि
व्याख्येया । तत्प्रीतिविशेषातिशयवतां हि तेषां तत्कृतार्तिभरेणैव तत्
स्फूर्तावप्यतृप्तौ सत्यां तत्सामीप्यप्राप्तेश्च तत्प्राप्तिविघातकंस
सारबन्धनत्रोटनस्य च प्रार्थनं दृश्यते । पितृमातृप्रीत्य्एक
सुखिनां विदूरबद्धानां बालकानामिव । यथाह

त्रस्तोऽस्म्यहं कृपणवत्सल दुःसहोग्र
संसारचक्रकदनाद्ग्रसतां प्रणीतः ।
बद्धः स्वकर्मभिरुशत्तम तेऽङ्घ्रिमूलं
प्रीतोऽपवर्गशरणं ह्वयसे कदा नु ॥ [भागवतम् ७.९.१६]

त्वद्बहिर्मुखव्यापारमयत्वाद्दुःखसहमनुशीलयितुमशक्यम् ।
त्वद्भक्तिविरोधिव्यापारमयत्वात्तूग्रं भयानकं यत्संसारचक्रं
तस्माद्यत्कदनं लोकानां मनोदौस्थं तस्मादहं त्रस्तोऽस्मि त्वद्
अभिमुखीभवितुं न पारय इत्यर्थः । एवमेव वक्ष्यते
श्रीनारद उवाच
भक्तियोगस्य तत्सर्वमन्तरायतयार्भकः ।
मन्यमानो हृषीकेशं स्मयमान उवाच ह ॥
श्रीप्रह्राद उवाच (पगे ३०)
मा मां प्रलोभयोत्पत्त्या सक्तंकामेषु तैर्वरैः ।
तत्सङ्गभीतो निर्विण्णो मुमुक्षुस्त्वामुपाश्रितः ॥ [भागवतम् ७.१०.१२] इत्य्
अनेन ।

यद्यप्येवं त्रस्तोऽस्मि तथाप्यहो ग्रसतां भगवद्विरोधित्वेन मादृश
सर्वङ्गिलानामेषामसुराणां मध्ये स्वकर्मभिर्बद्धः सन् प्रणीतो
निक्षिप्तोऽस्मि । ततस्तव विरहदूनतया इदं याचे । कदा नु प्रीतः सन्
अपवर्गभूतमरणं शरणं तवाङ्घ्रिमूलं त्वसमीपं प्रति माम्
आह्वास्यसीति ॥

॥ ७.९ ॥ प्रह्लादः श्रीनृसिंहम् ॥ ४९ ॥

[५०]

अतएव विष्णुपुराणे तस्य श्रीमत्प्रह्लादस्य केवलप्रीतिवरयां चापि
नानेन विरुद्धा, यथा
नाथ योनिसहस्रेषु येषु येषु व्रजाम्यहम् ।
तेषु तेष्वच्युता भक्तिरच्युतेऽस्तु सदा त्वयि ॥
या प्रीतिरविवेकानां विषयेष्वनपायिनी ।
त्वामनुस्मरतः सा मे हृदयान्नापसर्पतु ॥
कृतकृत्योऽस्मि भगवन् वरेणानेन यत्त्वयि ।
भवित्री त्वत्प्रसादेन भक्तिरव्यभिचारिणी ॥
धर्मार्थकामैः किं तस्य मुक्तिस्तस्य करे स्थिता ।
समस्तजगतां मूले यस्य भक्तिः स्थिरा त्वयि ॥ [Vइড়् १.२०.१८१९, २६२७]

तत्र श्रीमत्परमेश्वरवाक्यमपि तथैव
यथा ते निश्चलं चेतो मयि भक्तिसमन्वितम् ।
तथा त्वं मत्प्रसादेन निर्वाणं परमाप्स्यति ॥ [Vइড়् १.२०.२८]

यथा येन प्रकारेण, तथा तेन प्रकारेणैव परं मदीयचरण
सेवोचितत्वेन महदित्यर्थः । सेवानुरक्तमनसामभवोऽपि फल्गुर्
[भागवतम् ५.१४.४४] इत्युक्तत्वात् । तथा वक्ष्यमाणाभिप्रायेणैवेतदाह

अहं किल पुरानन्तं प्रजार्थो भुवि मुक्तिदम् ।
अपूजयं न मोक्षाय मोहितो देवमायया ॥ [भागवतम् ११.२.२८]

सुतपोनाम्ना निजांशेनाहमनन्तमन्यत्र मुक्तिदमपि तल्लक्षण
प्रजाप्रयोजनक एवापूजयम् । न तु मोक्षायापूजयम् । यतो देवे तस्मिन्
तद्दर्शनोत्थिता या माया कृपा पुत्रभावस्तेन मोहितः । माया दम्भे
कृपायां च इति विश्वप्रकाशात् । किलेति सूतीगृहे श्रीकृष्णवाक्यमपि
प्रमाणीकृतम् । अथ यथा विचित्रव्यसनाद्[भागवतम् ११.२.९] इत्यादितद्
वाक्यान्तरेषु च । व्यसनं श्रीकृष्णविच्छेदहेतुः । भयं भावितद्
विच्छेदशङ्केति व्याख्येयम् । तत्र मन्येऽकुतश्चिद्[भागवतम् ११.२.३३] इत्यादि श्री
नारदोदाहृतवाक्यमुत्तरं गम्यम् । अत्र हि विश्वशब्दादुक्तभय
निवर्तनमपि प्रतिपद्यामहे । संवादान्ते त्वमप्येतान् [भागवतम् ११.५.४५] इत्य्
आदिद्वयं चातिदेशेन साक्षात्श्रीकृष्णप्राप्तिगमकमेव तयोरिति ।

॥ ११.२ ॥ श्रीमद्आनकदुन्दुभिः श्रीनारदम् ॥ ५० ॥

[५१]

तदेवं तेषां तत्तत्प्रार्थनमपि तत्प्रीतिविलास एव । अत्रेदं तत्त्वम्
एकान्तिनस्तावद्द्विविधाः अजातजातप्रीतित्वभेदेन । जातप्रीतयश्च
त्रिविधाः । एके तदीयानुभवमात्रनिष्ठाः शान्तभक्तादयः । अन्ये
तदीयदर्शनसेवनादिरसमयाः परिकरविशेषाभिमानिनः । स्वयं
परिकरविशेषाश्च । तत्र तेषु अजातप्रतीतिभिः सर्वपुरुषार्थत्वेन तत्
प्रीतिरेव प्रार्थनीया ।

अथ जातप्रीतिषु शान्तभक्तादयस्तु कदाचिद्दर्शनादिकं वा
प्रार्थयन्ते सेवादिकं विनैव । तद्वासनाया अभावात् । सकृदपि कृपा
दृष्ट्य्आदिलाभेन तृप्ताश्च भवन्ति । नातिक्षामं भगवतः
स्निग्धापाङ्गविलोकनाद्[भागवतम् ७.१२.४६] इति श्रीकर्दमवर्णनात् । अतएव तत्
सामीप्यादिकेऽपि तेषामनाग्रहः । ये तु तत्परिकर (पगे ३१)
विशेषाभिमानिनस्ते खलु तत्तत्प्रीतिविशेषोत्कण्ठिनो यदा भवन्ति तदा
तत्तत्सेवाविशेषेच्छया प्रार्थयन्त एव तत्सामीप्यादिकम् । तत्प्रार्थना
च प्रीतिविलासरूपैव । पुष्णाति च तामिति गुण एव । यदा च तेषां दैन्येन
तत्प्राप्त्य्असम्भावना जायते तदापि च तत्प्रीत्य्अविच्छेदमात्रं
प्रार्थयन्ते । सोऽपि च गुण एव । यत्तु केवलसंसारमोक्षतत्
सामीप्यानन्दविशेषप्रार्थनं प्रीतिविकारताशून्यं तत्पुनः सर्वथा
केषांचिदप्येकान्तिनां नाभिरुचितम् । अतएव सर्वं मद्भक्तियोगेन [भागवतम्
११.२०.३३] इत्यादौ कथञ्चिद्भक्त्य्उपयोगित्वेनैवेति । एवं सालोक्यसार्ष्टि
[भागवतम् ३.२९.१३] इत्यादौ । तेषां मध्ये सेवनं विना यत्तन्न गृह्णन्ति इति
कथ्यते । तत्रैकत्वलक्षणं सायुज्यं तु स्वरूपत एव तद्विनाभूतम् ।
अन्यत्तु वासनाभेदेन । सारूप्यस्य तु सेवोपकारित्वं शोभाविशेषेण । श्री
वैकुण्ठेऽपि तदीयनित्यसेवकानां तथैव तादृशत्वम् । लोकेऽपि किशोर
विदग्धक्षितिपतिपुत्रैः समानरूपवयस्का सेवकाः सङ्गृहीता दृश्यन्ते
श्लाघ्यन्ते च लोकैः । तस्माद्यथा तथा श्रीमत्प्रीतेरेव पुरुषार्थत्वम्
इत्यायातम् । ते प्रीत्य्एकपुरुषार्थिनोऽपि भावविशेषेणान्यद्वाञ्छन्तु न
वाञ्छन्तु वा स्वस्वभक्तिजात्य्अनुरूपा भक्तिपरिकराः पदार्थाः
संसारध्वंसपूर्वकमुदयन्त एव । न ते कदाचिद्व्यभिरचन्ति च । तद्
एतदुक्तम्

अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी ।
जरयत्याशु या कोशं निगीर्णमनलो यथा ॥

नैकात्मतां मे स्पृहयन्ति केचिन्
मत्पादसेवाभिरता मद्ईहाः ।
येऽन्योन्यतो भागवताः प्रसज्य
सभाजयन्ते मम पौरुषाणि ॥

पश्यन्ति ते मे रुचिराण्यम्ब सन्तः
प्रसन्नवक्त्रारुणलोचनानि ।
रूपाणि दिव्यानि वरप्रदानि
साकं वाचं स्पृहणीयां वदन्ति ॥

तैर्दर्शनीयावयवैरुदार
विलासहासेक्षितवामसूक्तैः ।
हृतात्मनो हृतप्राणांश्च भक्तिर्
अनिच्छतो मे गतिमण्वीं प्रयुङ्क्ते ॥

अथो विभूतिं मम मायाविनस्ताम्
ऐश्वर्यमष्टाङ्गमनुप्रवृत्तम् ।
श्रियं भागवतीं वास्पृहयन्ति भद्रां
परस्य मे तेऽश्नुवते तु लोके ॥

न कर्हिचिन्मत्पराः शान्तरूपे
नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः ।
येषामहं प्रिय आत्मा सुतश्च
सखा गुरुः सुहृदो दैवमिष्टम् ॥ [भागवतम् ३.२५.३३३९] इति ।

अण्वीं दुर्ज्ञेयां पार्षदलक्षणामित्यर्थः । तदेवं तत्क्रतुन्यायेन
च शुद्धभक्तानामन्या गतिर्नास्त्येव । श्रुतिश्च यथा क्रतुरस्मिन्
लोके पुरुषो भवति तथेतः प्रेत्य भवति [Bआऊ ३.१४.१] इति, क्रतुरत्र
सङ्कल्प इति भाष्यकाराः । श्रुत्य्अन्तरं च स यथाकामो भवति तत्
क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तद्
अभिसम्पद्यते [Bआऊ ४.४.६] इति । अन्यच्च यद्यथा यथोपासते तदेव
भवन्ति इति । श्रीभगवत्प्रतिज्ञा च ये यथा मां प्रपद्यन्ते तांस्
तथैव भजाम्यहम् [गीता ४.११] इति । तथैव ब्रह्मवैवर्ते यदि मां
प्राप्तुमिच्छन्ति प्राप्नुवन्त्येव नान्यथा इति । तत्र श्रीव्रजदेवीनां सा
गतिः श्रीकृष्णसन्दर्भे सङ्गमितैवास्ति ।

मयि भक्तिर्हि भूतानाममृतत्वाय कल्पते
दिष्ट्या यदासीन्मत्स्नेहो भवतीनां मद्आपनः ॥ [भागवतम् १०.८२.४४]

इत्य्आदिबलेन वचनान्तराणामर्थान्तरस्थापनेन च । तथैव ताः प्रति
स्वयमभुपगच्छति

सङ्कल्पो विदितः साध्व्यो भवतिनां मदर्चनम् ।
मयानुमोदितः सोऽसौ सत्यो भवितुमर्हति ॥
न मय्यावेशितधियां कामः कामाय कल्पते । (पगे ३२)
भर्जिताः क्वथिता धाना प्रायो बीजाय नेष्यते ॥ [भागवतम् १०.२२.२५२६]

मद्अर्चनं पतिभावमयमद्आराधनात्मको भवतीनां सङ्कल्पो
विदितोऽनुमोदितश्च सन् सत्यः सर्वदा तादृशमद्अर्चनाव्यभिचारी
भवितुमर्हति युज्यते एव । स च परमप्रेमवतीनां नान्यवत्
फलान्तरापेक्षः किन्तु स्वयमेवास्वाद्यः । यतः न मय्यावेशितधियाम्
इति । मय्यावेशितधियामेकान्तभक्तमात्राणां कामो मद्अर्चनात्मकः
सङ्कल्पः कामाय फलान्तराभिलाषाय न कल्पते, किन्तु स्वयमेवास्वाद्यो
भवतीत्यर्थः ।

तत्रार्थान्तरन्यासः भर्जिता इति । प्राय इति वितर्के । धाना भृष्टयवाः
ताः स्वरूपत एव भर्जिताः पुनः स्वादविशेषार्थं धृतेन वा भर्जिता
गुडादिभिः क्वथिताश्च सत्यो बीजाय बीजत्वाय नेशते न कल्पन्ते । यववत्
ताभिरन्ययवफलनं नेष्यते किन्तु ता एवास्वाद्यन्त इत्यर्थः । तस्मात्
तादृशमद्अर्चनमेव भवतीनां परमफलमिति भावः । यच्च
विषयमहिम्ना शान्तिरेवासां भविष्यतीति शान्तानामुत्प्रेक्षितम् । तच्च
ताभिः स्वयमेवानुभूयान्यविषयत्वेनैव इतररागविस्मारणमित्य्
अनेन । श्रीकृष्णविषयत्वे तु तद्अशान्तिरेव दर्शिता सुरतवर्धनमित्य्
अनेन ।

॥ १०.२२ ॥ श्रीभगवान् व्रजकुमारीः ॥ ५१ ॥

[५२]

तथा श्रीपट्टमहिष्य्आदीनां श्रीयादवादीनां च गतिस्तथैव
सङ्गमितास्ति । एते हि यादवाः सर्वे मद्गणा एव भामिनि इत्यादि, रेमे
रमाभिर्निजकामसम्प्लुत [भागवतम् १०.५९.४३] इत्यादिवचनबलेन । जयति
जननिवासः [भागवतम् १०.९०.४८] इत्य्आदिस्फुटार्थदर्शनेन लीलान्तरस्यैन्द्र
जालिकत्वात् । कूर्मपुराणगतसाक्षात्सीताहरणप्रत्याख्यायिमायिक
सीताहरणाख्यानतुल्यत्वस्थापनाय च । तथैव तदीयनित्यगण
विशेषाणां श्रीमत्पाण्डवानामपि गतिर्व्याख्येया । तत्र श्रीमद्
अर्जुनस्य, यथा

एवं चिन्तयतो जिष्णोः कृष्णपादसरोरुहम् ।
सौहार्देनातिगाढेन शान्तासीद्विमला मतिः ॥
वासुदेवाङ्घ्र्य्अनुध्यान परिबृंहितरंहसा ।
भक्त्या निर्मथिताशेष कषायधिषणोऽर्जुनः ॥
गीतं भगवता ज्ञानं यत्तत्सङ्ग्राममूर्धनि ।
कालकर्मतमोरुद्धं पुनरध्यगमत्प्रभुः ॥
विशोको ब्रह्मसम्पत्त्या सञ्छिन्नद्वैतसंशयः ।
लीनप्रकृतिनैर्गुण्यादलिङ्गत्वादसम्भवः ॥ [भागवतम् १.१५.२८३१}

शान्ता चेतसि चक्षुषीव भगवद्आविर्भावेन दुःखरहिता । अतएव विमला
तद्वृत्तिभूता ये कालुषविशेषास्तैरपि रहिता । वासुदेवेत्यादिनोत्तर
पद्यद्वयेन तस्यैव विवरणम् । तत्रानुध्यानं पूर्वोक्ता चिन्तैव ।
कषायः पूर्वोक्तं मलमेव । मामेवैष्यसि [गीता १८.६५] इत्यन्तम् । कालो
भगवल्लीलेच्छामयः । कर्म तल्लीला । तमस्तल्लीलावेशेन तद्
अनुसन्धानम् । अध्यगमत्तन्महाविच्छेदस्य तस्यान्तेऽपि तथा तत्
प्राप्तः पुनर्मामेवैष्यसि इत्येतद्वाक्यं यथार्थत्वेनानुभूतवान् ।
ततश्च कृतार्थोऽभवदित्याह विशोक इत्यादि । ब्रह्मसम्पत्त्या श्रीमन्
नराकारपरब्रह्मसाक्षात्कारेण । संछिन्न इयं (पगे ३३) मम चेतसि
स्फूर्तिरेव । साक्षात्कारस्त्वन्य इति द्वैते संशयो येन सः । तदा भगवत्
प्राप्तौ नान्यवज्जन्मान्तरप्राप्तिकालसन्धिरप्यन्तरायोऽभवदित्य्
आह लीनेति । लीना पलायिता प्रकृतिर्गुणकारणं यस्मादेवम्भूतं यन्
नैर्गुण्यं तस्माद्धेतोः । गुणतत्कारणातीतत्वादित्यर्थः । तथैव
अलिङ्गत्वात्प्राकृतशरीररहितत्वाच्च । असम्भवो जन्मान्तररहितः ।
तस्मादनन्तरं चक्षुष्य्आविर्भवतीत्येव विशेष इति भावः । अतः कलिं
प्रति श्रीपरीक्षिद्वचनं चाग्रे यस्त्वं दूरं गते कृष्णे सह गाण्डीव
धन्वना [भागवतम् १.१७.६] इति, एवं येऽध्यासनं राजकिरीटजुष्टं सद्यो जहुर्
भगवत्पार्श्वकामाः [भागवतम् १.१९.२०] इति श्रीमुनिवृन्दवाक्यं च । तस्मात्
सर्वेषां पाण्डवानां तदीयानां च सैव गतिः व्याख्येया । श्रीविदुरादीनां
यमलोकादिगतिश्च तत्तद्अंशेनैव स्वस्वाधिकारपालनार्थं लीलया
कायव्यूहेनेति ज्ञेयम् । तदित्थमेव श्रीभागवतभारतयोरविरोधः
स्यादिति ॥

॥ १.१५ ॥ श्रीसुतः ॥ ५२ ॥

[५३]

अथ श्रीपरीक्षितो गतिश्च

स वै महाभागवतः परीक्षिद्
येनापवर्गाख्यमदभ्रबुद्धिः ।
ज्ञानेन वैयासकिशब्दितेन
भेजे खगेन्द्रध्वजपादमूलम् ॥ [भागवतम् १.१८.१६] इत्यनेन दर्शिता ।

एवमेवाहुः
सर्वे वयं तावदिहास्महेऽथ
कलेवरं यावदसौ विहाय ।
लोकं परं विरजस्कं विशोकं
यास्यत्ययं भागवतप्रधानः ॥ [भागवतम् १.१९.२१]

लोकशब्देन चात्र नान्यल्लक्ष्यते । भगवत्पार्श्वकामा इति तेषामेवोक्ति
स्वारस्यात् । श्रीभागवतप्रधान इति च । तस्मादन्ते चेद्ब्रह्मकैवल्यं
मन्यते, तथापि क्रमभगवत्प्राप्तिरीत्या तद्अनन्तरं भगवत्प्राप्तिस्
त्ववश्यं मन्येतैव । यथाजामिलस्य दर्शितम् ।

॥ १.१९ ॥ श्रीमुनयः ॥ ५३ ॥

[५४]

अथ सम्पद्यमानमाज्ञाय भीष्मं ब्रह्मणि निष्कले [भागवतम् १.९.४४] इत्य्
अत्रापि पूर्ववदेव समाधानम् । किं वा निष्कलब्रह्मशब्देन मायातीतो
नराकृतिपरब्रह्मभूतः श्रीकृष्ण एवोच्यते । तस्मिन् सम्पद्यमानता
तत्सङ्गतिरेव । तथाह

अधोक्षजालम्भमिहाशुभात्मनः
शरीरिणः संसृतिचक्रशातनम् ।
तद्ब्रह्मनिर्वाणसुखं विदुर्बुधास्
ततो भजध्वं हृदये हृद्ईश्वरम् ॥ [भागवतम् ७.७.३७]
हृदये वर्तमानं हृदि भजध्वम् ।

॥ ७.७ ॥ श्रीप्रह्लादोऽसुरबालकान् ॥ ५४ ॥

[५५]

सा च कृतसङ्गतिस्तस्य प्रापञ्चिकागोचरतयापि कृष्णरूपेणैवानन्तधा
प्रकाशमानस्य श्रीकृष्णस्यैव प्रकाशान्तरे सम्भवेत् । अन्यथा विजय
सखे रतिरस्तु मेऽनवद्या [भागवतम् १.९.३३] इति सङ्कल्पानुरूपा फलप्राप्तिर्
विरुध्येत ।

अथ श्रीपृथोर्गतिरपि श्रीपरीक्षिद्वदेव व्याख्येया । तस्यापि ब्रह्म
धारणान्तरं ब्रह्मकैवल्यविलक्षणां श्रीकृष्णलोकप्राप्तिमेव तद्
भार्याया अर्चिषो गतिदर्शनया सूचयन्ति

अहो इयं वधूर्धन्या या चैवं भूभुजां पतिम् ।
सर्वात्मना पतिं भेजे यज्ञेशं श्रीर्वधूरिव ॥
सैषा नूनं व्रजत्यूर्ध्वमनु वैन्यं पतिं सती ।
पश्यतास्मानतीत्यार्चिर्दुर्विभाव्येन कर्मणा ॥ [भागवतम् ४.२३.२५२६] (पगे ३४)

टीका च
त्रयोविंशे सभार्यस्य वने नित्यसमाधितः ।
विमानमधिरुह्याथ वैकुण्ठगतिरीर्यते ॥ इत्येषा ॥

॥ ४.२ ॥ देव्यः परस्परम् ॥ ५५ ॥

[५६]

श्रीभागवतस्यान्ते भक्तिनिष्ठाया एव सूचितत्वात्नान्या गतिश्चिन्त्या ।
यथा तमुद्दिश्य तत्रापि इत्यादि गद्ये भगवतः कर्मबन्ध
विध्वंसनश्रवणस्मरणगुणविवरणचरणारविन्दयुगलं मनसा
विदधद्[भागवतम् ५.९.१] इत्यादि । स्पष्टम् ॥

॥ ५.९ ॥ श्रीशुकः ॥ ५६ ॥

[५७]

रहूगणमहिमानमुद्दिश्य च एवं हि नृप भगवद्
आश्रिताश्रितानुभावः [भागवतम् ५.१३.२५] इति स्पष्टम् ।

॥ ५.१३ ॥ श्रीशुकः ॥ ५७ ॥

[५८]

यो दुस्त्यज [भागवतम् ५.१४.४४] इत्यादौ मधुद्विट्
सेवानुरक्तमनसामभवोऽपि फल्गुः इति च । स्पष्टम् ।

॥ ५.१४ ॥ श्रीशुकः ॥ ५८ ॥
[५९]

अतो विष्णुपुराणाद्य्उक्ता ज्ञानिभरताद्याः कल्पभेदेनान्ये एव ज्ञेया ।

अधनोऽयं धनं प्राप्य माद्यन्नुच्चैर्न मां स्मरेत् ।
इति कारुणिको नूनं धनं मेऽभूरि नाददात् ॥ [भागवतम् १०.८१.२०]

अभूर्यपि । यथा च
नूनं ब्१ तैतन्मम दुर्भगस्य
शश्वद्दरिद्रस्य समृद्धिहेतुः
महाविभूतेरवलोकतोऽन्यो
नैवोपपद्येत यदूत्तमस्य ॥ [भागवतम् १०.८१.३३] इत्यनन्तरम्,

नन्वब्रुवाणो दिशते समक्षम् [भागवतम् १०.८१.३४] इत्यादिकं, किञ्चित्करोत्युर्व्
अपि यत्स्वदत्तम् [भागवतम् १०.८१.३५] इत्यादिकं चोक्त्वा तद्गुणोद्दीपितप्रीतिराह


तस्यैव मे सौहृदसख्यमैत्री
दास्यं पुनर्जन्मनि जन्मनि स्यात्
महानुभावेन गुणालयेन
विषज्जतस्तत्पुरुषप्रसङ्गः ॥ [भागवतम् १०.८१.३६]

निरुपाधिकोपकारमयं सौहृदम् । सहविहारितामयं तदेव सख्यम् ।
मैत्री स्निग्धत्वम् । दास्यं सेवकत्वमात्रमपि स्यात् । द्वन्द्वैक्यम् ।
महानुभावेन तेनैव । अतएव सा सम्पत्तिरपि भगवत्सेवार्थमेव तेन
नियुक्तेत्यायातम् ।

॥ १०.८१ ॥ श्रीदामविप्रः ॥ ५९६० ॥

[६१]

तदेवं भगवत्प्रीतेरेव परमपुरुषार्थता स्थापिता । अथ तस्याः
स्वरूपलक्षणं श्रीविष्णुपुराणे प्रह्लादेनातिदेशद्वारा दर्शितम्

या प्रीतिरविवेकानां विषयेष्वनपायिनी ।
त्वामनुस्मरतः सा मे हृदयान्नापसर्पतु ॥ [Vइড়् १.२०.१९] इति ।

या यल्लक्षणा सा तल्लक्षणा इत्यर्थः । न तु या सैवेति वक्ष्यमाण
लक्षणैक्यात् । तथापि पूर्वस्या मायाशक्तिवृत्तिमयत्वेन उत्तरस्याः
स्वरूपशक्तिमयत्वेन भेदात् । एतदुक्तं भवति प्रीतिशब्देन खलु
मृत्प्रमोदहर्सानन्दादिपर्यायं सुखमुच्यते । भावहार्द
सौहृदादिपर्याया प्रियता चोच्यते । तत्र उल्लासात्मको ज्ञानविशेषः
सुखम् । तथा विषयानुकूल्यात्मकस्तद्आनुकूल्यानुगततत्स्पृहातद्
अनुभवहेतुकोल्लासमयज्ञानविशेषः प्रियता । अतएवास्यां सुखत्वेऽपि
पूर्वतो वैशिष्ट्यम् । तयोः प्रतियोगिणौ च क्रमेण दुःखद्वेषौ । अतः
सुखस्य उल्लासमात्रात्मकत्वादाश्रय एव (पगे ३५) विद्यते, न तु विषयः ।

एवं तत्प्रतियोगिनो दुःखस्य च प्रियतायास्त्वानुकूल्यस्पृहात्मकत्वाद्
विषयश्च विद्यते । एवं प्रातिकूल्यात्मकस्य तत्प्रतियोगिनो द्वेषस्य च । तत्र
सुखदुःखयोराश्रयौ सुष्ठुदुष्टकर्माणौ जीवौ । प्रियताद्वेषयोर्
आश्रयौ प्रीयमाणद्विषन्तौ विषयौ च तत्प्रियद्वेष्यौ । तत्र प्रीत्य्
अर्थानां क्रियाणां विषयस्याधिकरणत्वमेव दीप्त्य्अर्थवत् ।
द्वेषार्थानां तु विषयस्य कर्मत्वं हन्त्यर्थवत् । एतदुक्तं भवति
कर्तुरीप्सिततमं खलु कर्म । ईप्सिततमत्वं च या क्रियारभ्यते साक्षात्
तयैव साधयितुमिष्टतमत्वम् ।

साधनं चोत्पाद्यत्वेन विकार्यत्वेन संस्कार्यत्वेन प्राप्यत्वेन च
सम्पादनमिति चतुर्विधम् । तस्मादन्तर्भूतण्यर्थो घो धातुः स एव
सकर्मकः स्यात्, नान्यः । यथा घटं करोतीत्युक्ते घटे उत्पद्यते तम्
उत्पादयतीति गम्यते । तण्डुलं पचतीति तण्डुलो विक्लिद्यति तं विक्लेदयतीत्य्
आदि । सत्तादीप्त्य्आदीनां तु न तादृशत्वं गम्यत इत्यकर्मकत्वमेवेति ।
न च प्रीतेर्ज्ञानरूपत्वेन सकर्मकत्वमाशङ्क्यम् । चेततिप्रभृतीनां
तद्विनाभावदर्शनात् । अतो ब्रह्मज्ञानवद्भूतरूपोऽयमर्थो, न च
यज्ञादिज्ञानवद्भव्यरूपो विधिसापेक्ष इति सिद्धम् ।

तदेवं प्रीतिशब्दस्य सुखपर्यायत्वे प्रियतापर्यार्थत्वे च स्थिते या
प्रीतिरविवेकानामित्यत्र तूत्तरत्रत्वमेव स्पष्टम् । न पूर्वत्वम् ।
पूर्वत्वे सति विषयेष्वनुभूयमानेषु या प्रीतिः सुखमित्यर्थः ।
उत्तरत्वे तु विषयेषु या प्रीतिः प्रियतेत्यर्थः । ततश्चानुभूयमानेष्वित्य्
अध्याहारकल्पनया क्लिष्टा प्रतिपत्तिरिति ।

तदेवं पुत्रादिविषयकप्रीतेस्तद्आनुकूल्याद्य्आत्मकत्वेन भगवत्
प्रीतेरपि तथाभूतत्वेन समानलक्षणत्वमेव । तत्र पूर्वस्या माया
शक्तिवृत्तिमयत्वमिच्छा द्वेषः सुखं दुःखम् [गीता १३.६] इत्यादिना श्री
गीतोपनिषद्आदौ व्यक्तमस्ति । उत्तरस्यास्तु स्वरूपशक्तिवृत्तिमयत्वम्
अन्तिके दर्शयिष्यामः । तस्मात्साधु व्याख्यातं या यल्लक्षणा सा तल्
लक्षणा इति । इयमेव भगवत्प्रीतिर्भक्तिशब्देनाप्युच्यते परमेश्वर
निष्ठत्वात्पित्रादिगुरुविषयकप्रीतिवत् ।

अतएव तद्अव्यवहितपूर्वपद्ये भक्तिशब्देनैविपादाय प्रार्थितासौ
नाथ योनिसहस्रेष्व्[Vइড়् १.२०.१८] इत्यादौ । अत्र या प्रार्थिता, सैव हि
स्वरूपनिर्देशपूर्वकमुत्तरश्लोकेन या प्रीतिरित्यादिना विविच्य
प्रार्थिता । अतएव न पौनरुक्त्यमपि । अतो द्वयोरैक्यादेव श्रीमत्
परमेश्वरेणाप्यनुगृह्णता तयोरेकयोक्त्यैवानुभाषितं भक्तिर्मयि
तवास्त्येव भूयोऽप्येवं भविष्यति [Vइড়् १.२०.२०] इति ।

तयोर्भेदे तु तद्वत्प्रीतिरप्यनुभाष्येत । अतएव हे माप लक्ष्मीपते सा
विषयप्रीतिर्मम हृदयात्सर्पतु पलायतामिति विरक्तिप्रार्थना
मयोऽर्थोऽपि न सङ्गच्छते । तस्या अप्यनुभाषणाभावात्नापसर्पत्विति
प्रसिद्धपाठान्तर्विरोधाच्च । ततस्तद्भक्तेरपि तत्प्रीतिपर्यायत्वे
स्थितेऽपि प्रीणातिवन्न भजतिः सर्वप्रत्ययान्त एव प्रीतिं [दृष्ट्वा] वदति
प्र्योगादर्शनात्[प्रयोगदर्शनात्] । प्रयोगस्तु क्तिन्क्तप्रत्ययान्त एव
दृश्यते । यदा च प्रीत्य्अर्थवृत्तिस्तदा प्रीणातिवदकर्मक एव भवतीति ।

तदेवं विषयप्रीति (पगे ३६) दृष्टान्तेन श्रीभगवद्
विषयानुकूल्यात्मकस्तद्अनुगतस्पृहादिमयो ज्ञानविशेषस्तत्प्रीतिरिति
लक्षितम् । विषयमाधुर्यानुभववत्भगवन्माधुर्यानुभवस्तु
ततोऽन्यः । अतएव भक्तिर्विरक्तिर्भगवत्प्रबोधः [भागवतम् ११.२.४३] इति
भेदेनाम्नातम् ।

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥ [ङीत ११.५४]

अथैनं भगवत्प्रीतिं साक्षादेव लक्षयति सार्धेन

देवानां गुणलिङ्गानामानुश्रविककर्मणाम् ।
सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या ॥
अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी ॥ [भागवतम् ३.२५.३२]

पूर्वं श्रद्धा रतिर्भक्तिरनुक्रमिष्यति [भागवतम् ३.२५.२५] इत्युक्तम् । अत्र
यद्यपि रतिभक्त्योर्द्वयोरपि तारतम्यमात्रभेदयोः प्रीतित्वमेव
तथापि प्रीत्य्अतिशयलक्षणायां प्रेमाख्यायां भक्तौ तदतिस्फुटं स्याद्
इति कृत्वा भक्तिपदेन तामुपादाय लक्षयति । अर्थश्चायम् गुण
लिङ्गानां गुणत्रयोपाधीनाम् । आनुश्रविकं श्रुतिपुराणादिगम्यं
कर्माचरितं येषां ते तथोक्ताः । तेषां देवानां श्रीविष्णुब्रह्मशिवानां
मध्ये सत्त्वे सान्निध्यमात्रेण सत्त्वगुणोपकारके स्वरूपशक्तिवृत्ति
भूतशुद्धसत्त्वात्मके वा श्रीविष्णौ । एतच्चोपलक्षणम् । श्रीभगवद्
आद्य्अनन्ताविर्भावेष्वेकस्मिन्नपीत्यर्थः । एवकारेण नेतरत्र न च
तत्रापि चेतरत्रापि च । एकमनसः पुरुषस्य या वृत्तिस्तद्आनुकूल्यात्मको
ज्ञानविशेषः । अनिमित्ता फलाभिसन्धिशून्या । स्वाभाविकी स्वरसत एव
विषयसौन्दर्यादयत्नेनैव जायमाना न च बलादापाद्यमाना । सा
भागघती भक्तिः प्रीतिरित्यर्थः । प्रीतिसम्बन्धादेवान्यस्या भक्तेः
स्वाभाविकत्वं स्यात् । तस्माद्वृत्तिशब्देन प्रीतिरेवात्र मुख्यत्वेन
ग्राह्येति । सा च सिद्धेर्मोक्षाद्गरीयसी इति । सालोक्यसार्ष्टि इत्यादि
श्रवणात् । अतएव ज्ञानसाध्यस्यापि तिरस्कारप्रसिद्धेर्ज्ञानमात्र
तिरस्कारार्थसिद्धेर्ज्ञानादिति व्याख्यानमसदृशम् । अत्र मोक्षाद्
गरीयस्त्वत्वेन तस्या वृत्तेर्गुणातीतत्वं ततोऽपि घनपरमानन्दत्वं च
दर्शितम् ।

॥ ३.२५ ॥ श्रीकपिलदेवः ॥ ६१ ॥

[६२]

अथ तदेव गुणातीतत्वादिकं दर्शयितुं पुनः प्रक्रिया । तत्र तस्यां
भगवत्सम्बन्धिज्ञानरूपत्वेन तत्सम्बन्धिसुखरूपत्वेन च
गुणातीतत्वं श्रीभगवतैव दर्शितम्

कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं च यत् ।
प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् ॥ [भागवतम् ११.२५.२४] इति ।

सात्त्विकं सुखमात्मोत्थं विषयोत्थं तु राजसम् ।
तामसं मोहदैन्योत्थं निर्गुणं मद्अपाश्रयम् ॥ [भागवतम् ११.२५.२९] इति च ।
एवमेव च श्रीप्रह्लादस्य सर्वाधधूननब्रह्मानुभवानन्तरं
परमप्रेमोदयो दर्शितः । तथास्याः स्वाभाविकानिमित्ततद्भक्ति
रूपत्वेन च निर्गुणत्वं सिद्धमस्ति । मद्गुणश्रुतिमात्रेण [भागवतम् ३.२९.११]
इत्यादि श्रीकपिलदेववाक्येन । एतद्अनन्तरं च सालोक्य इत्य्आदिपद्ये
सर्वाभ्योऽपि मुक्तिभ्यः परमानन्दरूपत्वं दर्शितम् । अन्येषु च तस्याः
परमपुरुषार्थतानिर्णयवाक्येषु परितस्तदेव व्यक्तम् । तत्र यथा
वर्णविधानम् [भागवतम् ५.१९.१८] इत्यादिगद्ये तस्या अपवर्गत्वनिर्देशेन
गुणातीतत्वं नियत्वं च दर्शितम् । मुक्तिं ददाति कर्हिचिदित्यादौ मुक्ति
दानमतिक्रम्यापि भगवत्प्रसादविशेषमयत्वेन तत्त्रयम् । (पगे ३७)
वरान् विभो [भागवतम् ४.२०.२३] इत्यादिद्वयेऽपि कथं वृणीते गुणविक्रियात्मनाम्
इत्यत्रागुणविकारत्वं तत एव नित्यत्वम् । न कामये नाथ [भागवतम् ४.२०.२४] इत्य्
आदौ ततोऽप्यानन्दातिशयो दर्शितः । यस्यां वै श्रूयमानायाम् [भागवतम् १.७.७]
इत्यादौ परमार्थवस्तुपर्तिपादकश्रीभागवतस्य फलत्वेनापि तत्
त्रयम् । तत्रैवात्मारामाणामपि तत्सुखश्रवणेन ताद्दार्ढ्यम् ।
मायातीतवैकुण्ठादिवैभवगतानां तत्पार्षदानां तच्छ्रवणेन तु
किमुत । तथैव तुष्टे च तत्र [भागवतम् ७.८.४२] इत्यादौ, किं तैर्गुणव्यतिकराद्
इह ये स्वसिद्धाः धर्मादयः इत्युक्त्वा गुणातीतत्वं, किमगुणेन च
काङ्क्षितेन इत्युक्त्वा मोक्षादपि परमानन्दरूपत्वं दर्शितम् ।
प्रत्यानीता [भागवतम् ७.८.४२] इत्यत्रान्यस्य कालग्रस्तत्वमुक्त्वा मुक्तेस्तस्याश्
चाकाकग्रस्तत्वेन साम्येऽपि तस्या आनन्दाधिक्यमुक्तम् । एवं नात्यन्तिकं
विगणयन्ति [भागवतम् ३.१५.४८] इत्यादौ, मत्सेवया प्रतीतं ते [भागवतम् ९.४.६७] इत्यादौ,
या निर्वृतिस्तनुभृताम् [भागवतम् ४.९.१०] इत्यादि श्रीध्रुववाक्येऽपि योज्यम् ।
सर्वमेतत्यस्यामेव कवयः [भागवतम् ५.६.१७] इत्यादिगद्ये व्यक्तमस्ति ।
तत्रैव तया परया निर्वृत्या इत्यनेन साक्षादेव तस्या मोक्षादपि
परमत्वमानन्दैकरूपत्वं च निगदेनैवोक्तमस्ति । किं बहुना
परमानन्दैकरूपस्य सर्वानन्दकदम्बावलम्बस्य श्रीभगवतोऽप्य्
आनन्दचमत्कारिता तस्याः प्रीतेः श्रूयते । यथोक्तं प्रीतः स्वयं प्रीतिम्
अगाद्गायस्य [भागवतम् ५.१५.१३] इति ।

अथा चाह

अहं भक्तपराधीनो ह्यस्वतन्त्र इव द्विज
साधुभिर्ग्रस्तहृदयो भक्तैर्भक्तजनप्रियः

यथा ह्यस्वतन्त्रो जीवः पराधीनो भवति तथैवाहं स्वतन्त्रोऽपि भक्त
पराधीन इत्यर्थः । तत्र हेतुः भक्तज्नेषु प्रियः तत्प्रीति
लाभेनातिप्रीतिमान् ।

[६३]

भगवद्आनन्दः खलु द्विधा स्वरूपानन्दः स्वरूपशक्त्य्आनन्दश्
च । अन्तिमश्च द्विधा मानसानन्द ऐश्वर्यानन्दश्च । तत्रानेन
तदीयेषु मानसानन्देषु भक्त्य्आनन्दस्य साम्राज्यं दर्शितम् ।
स्वरूपानन्देषु ऐश्वर्यानन्देषु चाह पद्याभ्याम्

नाहमात्मानमाशासे मद्भक्तैः साधुभिर्विना ।
श्रियं चात्यन्तिकीं ब्रह्मन् येषां गतिरहं परा ॥ [भागवतम् ९.४.६४]

नाशासे न स्पृहयामि ॥

॥ ९.४ । श्रीविष्णुर्दुर्वाससम् ॥ ६२६३ ॥

[६४]

तथैव भक्तश्रेष्ठत्वेन श्रीमद्उद्धवं लक्ष्यीकृत्याह

न तथा मे प्रियतम आत्मयोनिर्न शङ्करः ।
न च सङ्कर्षणो न श्रीर्नैवात्मा च यथा भवान् ॥ [भागवतम् ११.१४.१५]

यथा भक्तत्वातिशयद्वारा भवान्मे प्रियतमः तथात्मयोनिर्ब्रह्मा
पुत्रत्वद्वारा न प्रियतमः । न च शङ्करो गुणावतारत्वद्वारा, न च
सङ्कर्षणो भ्रातृत्वद्वारा । न च श्रीर्जायात्वव्यवहारद्वारा । न चात्मा
परमानन्दघनस्वरूपताद्वारेत्यर्थः ।

॥ ११.१४ ॥ श्रीभगवान् ॥ ६४ ॥

[६५]

अथ श्रुतौ भक्तिरेवैनं नयति, भक्तिरेवैनं दर्शयति भक्तिवशः
पुरुषो भक्तिरेव भूयसी इति श्रूयते । तस्मादेवं विविच्यते । या चैवं
भगवन्तं स्वानन्देन मदयति सा (पगे ३८) किं लक्षणा स्यादिति । न तावत्
साङ्ख्यानामिव प्राकृतसत्त्वमयमायिकानन्दरूपा । भगवतो
मायानभिभाव्यत्वश्रुतेः स्वतस्तृप्तत्वाच्च । न च निर्विशेषवादिनामिव
भगवत्स्वरूपानन्दरूपा, अतिशयानुपपत्तेः । अतो नतरां जीवस्य
स्वरूपानन्दरूपा, अत्यन्तक्षुद्रत्वात्तस्य । ततो

ह्लादिनी सन्धिनी संवित्त्वय्येका सर्वसंश्रये ।
ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते ॥ इति [Vइড়् १.१२.६९]

इति विष्णुपुराणानुसारेण ह्लादिन्य्आख्यतदीयस्वरूपशक्त्य्आनन्दरूपर्
वेत्यवशिष्यते । यया खलु भगवान् स्वरूपानन्दमनुभवति । यद्
आनन्देनानन्दविशेषीभवति । ययैवं तं तमानन्दमन्यानप्य्
अनुभावयतीति ।

अथ तस्या अपि भगवति सदैव वर्तमानतयातिशयानुपपत्तेस्त्वेवं
विवेचनीयम् । श्रुतार्थान्यथानुपपत्त्य्अर्थापत्तिप्रमाणसिद्धत्वात्तस्या
ह्लादिन्या एव कापि सर्वानन्दातिशायिनी वृत्तिर्नित्यं भक्तवृन्देष्वेव
निक्षिप्यमाणा भगवत्प्रीत्य्आख्यया वर्तते । अतस्तद्अनुभवेन श्री
भगवानपि श्रीमद्भक्तेषु प्रीत्य्अतिशयं भजत इति । अतएव तत्सुखेन
भक्तभगवतोः परस्परमावेशमाह

साधवो हृदयं मह्यं साधूनां हृदयं त्वहम् ।
मद्अन्यत्ते न जानन्ति नाहं तेभ्यो मनागपि ॥ [भागवतम् ९.४.६८]

मह्यं मम । हृदयेन स्वस्य सामानाधिकरण्ये बीजमाह मद्अन्यद्
इति । अत्यन्तावशेनैकतापत्त्या ज्वलल्लोहादावग्निव्यपदेशवदत्राप्य्
अभेदनिर्देश इत्यर्थः ।

॥ ९.४ ॥ श्रीविष्णुर्दुर्वाससम् ॥ ६५ ॥

[६६]

तेनैव परस्परं वशवर्तित्वमाह

अजित जितः सममतिभिः; साधुभिर्भवान् जितात्मभिर्भवता ।
विजितास्तेऽपि च भजताम्; अकामात्मनां य आत्मदोऽतिकरुणः ॥ [भागवतम् ६.१६.३४]

टीका चहे अजित अन्यैरजितोऽपि भवान् साधुभिर्भक्तैर्जितः । स्वाधीन
एव कृतः । यतो भवानतिकरुणः । तेऽपि च निष्कामा अपि भवता विजिताः । यो
भवानकामात्मनामात्मानमेव ददाति इत्येषा ।

हरिभक्तिसुधोदये च प्रह्लादं प्रति श्रीमुखवाक्यम्

सभयं सम्भ्रमं वत्स मद्गौरवकृतं त्यज ।
नैष प्रियो मे भक्तेषु स्वाधीनप्रणयी भव ॥
अपि मे पूर्णकामस्य नवं नवमिदं प्रियम् ।
निःशङ्कप्रणयाद्भक्तो यन्मां पश्यति भाषते ॥
सदा मुक्तोऽपि बद्धोऽस्मि भक्तेषु स्नेहरज्जुभिः ।
अजितोऽपि जितोऽहन्तैरवश्योऽपि वशीकृतः ॥
त्यक्तबन्धुजनस्नेहो मयि यं कुरुते रतिम् ।
एकस्तस्यास्मि स च मे न चान्योऽस्त्यावयोः सुहृत् ॥

तस्मात्साधु व्याख्यातं भगवत्प्रतीतिरूपा वृत्तिर्मायादिमयी न
भवति । किं तर्हि स्वरूपशक्त्य्आनन्दरूपा यदानन्दपराधीनः श्री
भगवानपीति । यथा च श्रीमती गोपालोत्तरतापनी श्रुतिः विज्ञानघन
आनन्दघनः सच्चिद्आनन्दैकरसे भक्तियोगे तिष्ठति [ङ्टू २.७९] इति ।

॥ ६.१६ ॥ चित्रकेतुः श्रीसङ्कर्षणम् ॥ ६६ ॥
(पगे ३९)
[६७]

तदेवं तस्याः स्वरूपलक्षणमुक्तम् । तटस्थलक्षणमप्याह

स्मरन्तः स्मारयन्तश्च मिथोऽघौघहरं हरिम् ।
भक्त्या सञ्जातया भक्त्या बिभ्रत्युत्पुलकां तनुम् ॥ [भागवतम् ११.३.३१]

स्पष्टम् ।

॥ ११.३ ॥ श्रीप्रबुद्धो निमिम् ॥ ६७ ॥

[६८]

तथा
कथं विना रोमहर्षं द्रवता चेतसा विना ।
विनानन्दाश्रुकलया शुध्येद्भक्त्या विनाशयः ॥ [भागवतम् ११.१४.२३]

टीका च रोमहर्षादिकं विना कथं भक्तिर्गम्यते भक्त्या च विना
कथमाशयः शुद्धेदित्येषा ।

॥ ११.१४ ॥ श्रीभगवान् ॥ ६८ ॥

[६९]

तदेवं प्रीतेर्लक्षणं चित्तद्रवस्तस्य च श्रीरोमहर्षादिकम् ।
कथञ्चिज्जातेऽपि चित्तद्रवे रोमहर्षादिके वा न चेदाशयशुद्धिस्तदापि
न भक्तेः सम्यग्आविर्भाव इति ज्ञापितम् । आशयशुद्धिर्नाम चान्य
तात्पर्यपरित्यागः प्रीतितात्पर्यं च । अतएव अनिम्त्ता स्वाभाविकी [भागवतम्
३.२५.२३] च इति तद्विशेषणम् । यथाहाक्रूरमुद्दिश्य

देहंभृतामियानर्थो हित्वा दम्भं भियं शुचम् ।
सन्देशाद्यो हरेर्लिङ्ग दर्शनश्रवणादिभिः ॥ [भागवतम् १०.३८.२७]

टीका चननु किमर्थमेवं व्यलुठत् । नास्ति प्रेमसंरम्भे फ्लोद्देश
इत्याह देहंभृतामिति । देहभाजामेतावानेव पुरुषार्थः । कंसस्य
सन्देशमारभ्य हरेः लिङ्गदर्शनश्रवणादिभिर्योऽयमक्रूरस्य
वर्णितः इत्येषा ।

अत्र दम्भं शुचं भयं हित्वा योऽयं जात इति योजनिकया चैवं गम्यते ।
यथाक्रूरस्य तत्र दम्भो नासीत् । न मय्युपैष्यन्यरिबुद्धिमच्युत
[भागवतम् १०.३८.१८] इत्य्आदिचिन्तनात् । तथान्तःसुखान्तरतात्पर्यलक्षणो यदि
दम्भो न स्यात्, यथा च कंसप्रतापितो यो बन्धुवर्गः, तत्
प्रतापयितव्यश्च यः तस्य तस्य हेतोर्निजकुलरक्षावतीर्णश्रीकृष्ण
पुरतो व्यञ्जितः शोको भीश्च तादृशावेशे हेतुर्नासीत् । तद्दर्शनाह्लाद
[भागवतम् १०.३८.२६] इत्याद्य्उक्तेः । प्रेमविभिन्नधैर्यः

॥ १०.३८ ॥ श्रीशुकः ॥ ६९ ॥

[७०]

लौकिकशुद्धप्रीतिनिदर्शनेनापि स्वयं तथैव द्रढयति

मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमा हि ते ।
न तत्र सौहृदं धर्मः स्वार्थार्थं तद्धि नान्यथा ॥
भजन्त्यभजतो ये वै करुणाः पितरो यथा ।
धर्मो निरपवादोऽत्र सौह्र्दं च सुमध्यमाः ॥ [भागवतम् १०.३२.१७१८]

स्पष्टम् ।

[७१]

ततोऽपि स्वप्रीतेर्वैशिष्ट्यमाह

नाहं तु सख्यो भजतोऽपि जन्तून्
भजाम्यमीषामनुवृत्तिवृत्तये ।
यथाधनो लब्धधने विनष्टे
तच्चिन्तयान्यन्निभृतो न वेद ॥ [भागवतम् १०.३२.२०]

भजन्त्यभजत इत्यत्र न करुणादीनां दयनीयादिकर्तृक
प्रीत्यास्वाकापेक्षा । तथा दयनीयादीनां करुणादिविषया या प्रीतिः सा
करुणादिभजनजीवना स्यादित्यायाति । अत्र तु श्रीकृष्णस्य स्वभक्तेषु
स्वप्रेमातिशयोदये प्रयत्नः । तद्उदये च सति तद्आस्वादाद्भक्त
विषयकप्रेमचमत्कारोऽतिशयेन स्यादिति तद्भक्तानां च तत्
कृतौदासीन्येऽपि प्रेम्नोरेव वृद्धिः स्यादिति वैशिष्ट्यमागतम् ।

॥ १०.३२ ॥ श्रीभगवान् व्रजदेवीः ॥ ७०७१ ॥
(पगे ४०)
[७२]

सा च शुद्धा प्रीतिः श्रीमतो वृत्रस्य दृश्यते । यथा

अहं हरे तव पादैकमूल
दासानुदासो भवितास्मि भूयः ।
मनः स्मरेतासुपतेर्गुणांस्ते
गृणीत वाक्कर्म करोतु कायः ॥ [भागवतम् ६.११.२४]

न नाकपृष्ठम् [भागवतम् ६.११.२५] इत्यादि ।

अजातपक्षा इव मातरं खगाः
स्तन्यं यथा वत्सतराः क्षुध्आर्ताः ।
प्रियं प्रियेव व्युषितं विषण्णा
मनोऽरविन्दाक्ष दिदृक्षते त्वाम् ॥

ममोत्तमश्लोकजनेषु सख्यं
संसारचक्रे भ्रमतः स्वकर्मभिः ।
त्वन्माययात्मात्मजदारगेहेष्व्
आसक्तचित्तस्य न नाथ भूयात् ॥ [भागवतम् ६.११.२६२७]

अजातेति अत्राजातपक्षा इत्यनेनानन्याश्रयत्वं तद्अनुगमनासमर्थत्वं
च । तथा तत्सहितेन मातरमित्यनेन अनन्यस्वाभाविकदयालुत्वं
तदीयदयाधिक्यं च व्यञ्जितम् । तेन तेन च मातरि तेषामपि प्रीत्य्
अतिशयो दर्शितः । ततस्तत्साम्येन तद्वदात्मनोऽपि भगवति प्रीत्याधिक्य
हेतुका दिदृक्षा व्यञ्जिता । तथापि तन्मात्रा यद्वस्त्व्अन्तरमुपक्रियते तद्
एव तेषामुपजीव्यमास्वाद्यं चेति केवलतन्निष्ठत्वाभावादपरितोषेण
दृष्टान्तरमाह स्तन्यमिति । अत्र दिदृक्षायोजनार्थं मातरमित्य्
एवानुवर्तयितव्ये स्तन्यमित्युक्तिस्तस्यास्तैस्तद्अंशतया च तद्अभेद
विवक्षार्था । ततः स्तन्यं स्तन्यरूपतद्अंशमयीं मातरमित्येव
लब्धे तादृशी मातैव तैरुपजीव्यते आस्वाद्यते चेति पूर्वतः श्रैष्ठ्यं
दर्शितम् । तथा वत्सतरा अत्यन्तबालवत्सास्तत एव स्वामिबद्धतया तद्
अनुगतावसमर्था इति साधारण्येऽपि बहुसमयातिक्रमात्क्षुधार्ताइत्य्
अनेन पूर्वतो वैशिष्ट्यम् । तथा गोजातेः स्नेहातिशयस्वाभाव्येन च तद्
अनुसन्धेयम् ।

अथ तथाप्युत्तरदृष्टान्ते स्तन्यगवोः कार्यकारणभावेन भेदं
वितर्क्यदृष्टान्तद्वयेऽप्यजातपक्षत्वादिविशेषणैरायत्यां तादृश
प्रीतेरस्थिरतां चालोक्य दृष्टान्तान्तरमाह प्रियमिति । सत्स्वपि
वाचकान्तरेषु तयोः प्रियशब्देनैव निर्देशात्स्वाभाविकाव्यभिचारि
प्रीतिमन्तावेव तौ गृहीतौ । यत्र वार्धक्ये बाल्येऽपि सहमरणादिकं
दृश्यते ततस्तादृशी कापि प्रिया यथा तादृशं प्रियं व्युषितं विदूरप्रोषितं
सन्तमनन्योपजीवित्वेन विषण्णा सती दिदृक्षते लोचनद्वारा तदास्वादाय
भृशमुत्कण्ठते, तथा मम मनोऽपि त्वामित्यर्थः । अत्र
दार्ष्टान्तिकेऽपि स्वकर्तृत्वमनुक्त्वा मनःकर्तृत्वोल्लेखेनाबुद्धि
पूर्वकप्रवृत्तिप्राप्तौ प्रीतेः स्वाभाविकत्वेनाव्यभिचारित्वं व्यक्तम् ।
तथारविन्दाक्षेति मनसो भ्रमरतुल्यासूचनेन भगवतः परम
मधुरिमोल्लेखेन च तस्यैवोपजीव्यत्वमास्वाद्यत्वं च दर्शितम् ।

अथ तद्दर्शनभाग्यं स्वस्यासम्भवयन्निदमपि मम स्यादिति स
बाष्पमाह ममोत्तमेति । तदेतच्छुद्धप्रेमोद्गारमयत्वेनैव
श्रीमद्वृत्रवधोऽसौ विलक्षणत्वाच्छ्रीभागवतलक्षणेषु
पुराणान्तरेषु गण्यते । वृत्रासुरवधोपेतं तद्भागवतमिष्यते [आग्निড়्]
इति ।

॥ ६.११ ॥ श्रीवृत्रः ॥ ७२ ॥

[७३]

तस्मात्केवलतन्माधुर्यतात्पर्यत्वेनैव प्रीतित्वे सिद्धे
तात्पर्यान्तरादौ सति प्रीतेरस्मयग्आविर्भाव इति सिद्धम् । स च द्विविधः ।
तद्आभासस्यैवोदयः ईषद्उद्गमश्च । अन्त्यश्च द्विविधः । कदाचिद्
उद्भवत्तच्छविमात्रत्वं तस्या एवोदयावस्था च । तत्र यत्रान्य
तात्पर्यं तत्र तद्आभासत्वम् । यत्र प्रीतितात्पर्याभावस्तत्र कदाचिद्
उद्भवत्तच् (पगे ४१) छविमात्रत्वम् । यत्र तत्तात्पर्यमन्यासङ्गस्
तु दैवात्तत्र तस्या उदयावस्था च । अन्यासङ्गस्य गौणत्वम् । तच्च
द्विविधम् । नष्टप्रायत्वमाभासमात्रत्वं च । तयोः पूर्वत्र तस्याः
प्रथमोदयावस्था । उत्तरत्र प्रकटोदयावस्था । तस्मात्प्रथमोदय
पर्यन्त एवासम्यग्आविर्भावः । प्रकटोदयस्य तु सम्यक्त्वमेव । यत्र
त्वन्यासङ्ग एव न विद्यते तत्र दर्शितप्रभावनामान आविर्भावा
ज्ञेयाः । तत्र प्रकटोदयमारभ्यैव भक्त्य्आरब्धेऽपवर्गे जीवन्
मुक्ताः । प्राप्तायां भगवत्पार्षदतायां परममुक्ताः । नित्यपार्षदास्
तु नित्यमुक्ता ज्ञेयाः । तत्राभासमाह

एवं हरौ भगवति प्रतिलब्धभावो
भक्त्या द्रवद्धृदय उत्पुलकः प्रमोदात् ।
औत्कण्ठ्यबाष्पकलया मुहुरर्द्यमानस्
तच्चापि चित्तबडिशं शनकैर्वियुङ्क्ते ॥ [भागवतम् ३.२८.३४]

एवं पूर्वोक्तयोगमिश्रभक्त्य्अनुष्ठानेन हरौ प्रतिलब्धभावो
भवति । तत्र लिङ्गं भक्तेत्यादि । भक्त्या स्मरणादिना अपि एवमपि लब्ध
ध्येयमधुरत्वस्य भावेन तादृशतापन्नं तस्य चित्तं शनकैर्वियुङ्क्ते
विमुक्तमपि भवति । येन योगाङ्गतया भक्तिरनुष्ठिता, तस्मात्
कैवल्येच्छाकैतव्दोषादेवेति भावः । यथोक्तं धर्मः प्रोज्झितः
कैतवोऽत्र परमः [भागवतम् १.१.२] इत्यत्र प्रशब्देन मोक्षाभिसन्धिरपि
कैतवमिति । अतएव बडिशशब्देन काठिन्यमरसवित्त्वं दाम्भिकत्वं
स्वार्थमात्रसाधनत्वं च व्यञ्जितम् । शुद्धभक्तास्तु न कदाचित्तया
तं ध्येयं त्यजन्ति । यथोक्तं राज्ञा

धौतात्मा पुरुषः कृष्ण पादमूलं न मुञ्चति ।
मुक्तसर्वपरिक्लेशः पान्थः स्वशरणं यथा ॥ [भागवतम् २.८.६] इति ।

श्रीनारदेन च
न वै जनो जातु कथञ्चनाव्रजेन्
मुकुन्दसेव्यन्यवदङ्ग संसृतिम् ।
स्मरन्मुकुन्दाङ्घ्र्य्उपगूहनं पुनर्
विहातुमिच्छेन्न रसग्रहो जनः ॥ [भागवतम् १.५.१९] इति ।

यो रसग्रहः स तु न त्यजतीत्यनेनान्येषां लौहपाषाणादितुल्यत्वं
सूचितम् । न तु भगवानपि ततोऽन्यथा कुर्यात् । यदुक्तं श्रीब्रह्मणा

भक्त्या गृहीतचरणः परया च तेषां
नापैषि नाथ हृदयाम्बुरुहात्स्वपुंसाम् ॥ [भागवतम् ३.९.५] इति ।

अतएव पूर्वत्र स्वपुंसामित्यत्र स्वेति विशेषणम् । तदेवम्
आभासोदाहरणे श्रीकपिलदेवस्यैव वाक्यं भक्त्या पुमान् जातविरागः
[भागवतम् ३.२५.२६] इत्यादिकमपि ज्ञेयम् । तथा हि, अस्य पूर्वत्र श्रद्धा रतिर्
भक्तिरनुक्रमिष्यति [भागवतम् ३.२५.२५] इति भक्तिमात्रं दर्शितम् । उत्तरत्र
तस्या लक्षणे पृष्टे तल्लक्षणं वदतानेन भक्तिर्सिद्धेर्गरीयसी [भागवतम्
३.२५.३२] इति । नैकात्मतां मे स्पृहयन्ति केचिद्[भागवतम् ३.२५.३४] इति च मोक्ष
निरपेक्षतयैव तस्य मुख्याभिधेयत्वमुक्तम् । जरयत्याशु या कोषम्
[भागवतम् ३.३५.३३] इति च मायाकोषध्वंसनस्य तु तद्आनुषङ्गिकगुणत्वम्
उक्तम् । अत्र भक्त्या पुमानित्यादौ तु तादृश्या अपि तस्या भक्तेर्ज्ञानादि
साहाय्येनैव मोक्षमात्रसाधकत्वमुक्त्वा गौणाभिधेयत्वमुक्तम् ।
तस्मादत्रापि तस्याः (पगे ४२) भक्तेराभास एव प्रथमतो दर्शितः । एवं


दृष्ट्वा तमवनौ सर्व ईक्षणाह्लादविक्लवाः ।
दण्डवत्पतिता राज‘ छनैरुत्थाय तुष्टुवुः ॥ [भागवतम् ६.९.३]

इत्यत्रापि वृत्राख्यशत्रुनाशस्वाराज्यप्राप्तितात्पर्यवतां देवानां
भक्त्य्आभासत्वमुदाहार्यम् ।

॥ ६.९ ॥ श्रीकपिलदेवः ॥ ७३ ॥

[७४]
अथ कदाचिदुद्भवत्तच्छविमात्रत्वमाह

सकृन्मनः कृष्णपदारविन्दयोर्
निवेशितं तद्गुणरागि यैरिह ।
न ते यमं पाशभृतश्च तद्भटान्
स्वप्नेऽपि पश्यन्ति हि चीर्णनिष्कृताः ॥ [भागवतम् ६.१.१९]

रागो रञ्जनमात्रम्, न तु तद्गुणमाधुरीयाथार्थ्यज्ञानेन साक्षात्
प्रीतिः । अतएव तत्र तात्पर्याभावात्सकृदपीत्युक्तम् । तथाप्यस्त्य्
अजामिलादिभ्यो विशेष इत्याह न ते यममित्यादि ।

॥ ६.१ ॥ श्रीशुकः ॥ ७४ ॥

[७५]

अथ प्रथ्मोदयावस्थामाह

यत्रानुरक्ताः सहसैव धीरा
व्यपोह्य देहादिषु सङ्गमूढम् ।
व्रजन्ति तत्पारमहंस्यमन्त्यं
यस्मिन्नहिंसोपशमः स्वधर्मः ॥ [भागवतम् १.१८.२२]

अन्त्यं पारमहंस्यं भागवतपरमहंसत्वम् । तस्यानुषङ्गिको गुणः
यस्मिन्निति ।

॥ १.१८ ॥ श्रीसूतः ॥ ७५ ॥

[७६]

प्रकटोदयावस्थां श्रीप्रियव्रतमधिकृत्याह

प्रियव्रतो भागवतआत्मारामः कथं मुने ।
गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः ॥ [भागवतम् ५.१.१] इत्यादेः ।

संशयोऽयं महान् ब्रह्मन् दारागारसुतादिषु ।
सक्तस्य यत्सिद्धिरभूत्कृष्णे च मतिरच्युता ॥ [भागवतम् ५.१.४]

इत्यन्त्यस्य राजप्रश्नस्यानन्तरेण गद्येन

बाढमुक्तं भगवत उत्तमश्लोकस्य श्रीमच्चरणारविन्दमकरन्द
रस आवेशितचेतसो भागवतपरमहंसदयितकथां किञ्चिदन्तराय
विहतां स्वां शिवतमां पदवीं न प्रायेण हिन्वन्ति [भागवतम् ५.१.५] इति ।

टीका चाङ्गीकृत्य परिहरति बाढमिति । बाढमभिनिवेशादिकं नास्तीति
सत्यमेव तथापि विघ्नवशेन तेषां प्रवृत्तिः पूर्वाभ्यासबलेन पुनर्
निवृत्तिश्च सङ्गच्छत इत्याह भगवत इत्यादिका ।

अतएवोक्तं पृथुं प्रति श्रीविष्णुना । दृष्टासु सम्पत्सु विपत्सु सूरयो; न
विक्रियन्ते मयि बद्धसौहृदाः [भागवतम् ४.२०.२१] इति । अगस्त्यस्य चेन्द्रद्युम्ने
स्वावमाननया न कोपः । किन्तु वैष्णवोचितमहद्आदरचर्यायाः
परित्यागे शिक्षार्थमेव मन्तव्यः । तयोरनुग्रहार्थाय शापं दास्यन्न्
इदं जगौ [भागवतम् १०.१०.७] इतिवत् ।

अथ परीक्षितो ब्राह्मणावमानना तु श्रीकृष्णस्य तद्व्याजेन स्वपार्श्व
नयनेच्छातेव ।

तस्यैव मेऽघस्य परावरेशो
व्यासक्तचित्तस्य गृहेष्वभीक्ष्णम् ।
निर्वेदमूलो द्विजशापरूपो
यत्र प्रसक्तो भयमाशु धत्ते ॥ [भागवतम् १.१९.१४] इति तद्उक्तेः ।

एवमन्यत्रापि योजनीयम् । तस्माच्छ्रीप्रियव्रतस्यापि अभिनिवेशाद्य्
आसङ्गाभासत्वमेवायातम् । तदपि दुःखदमेव तद्विधानामिति चाग्रे
तन्निर्वेदेन दर्शयिष्यते अहो असाध्वनुष्ठितम् [भागवतम् ५.१.३७] इत्यादिना ।

॥ ५.१ ॥ श्रीशुकः ॥ ७६ ॥

[७७]

प्रकटोदयावस्थायाश्चिह्नान्तरमाह

स उत्तमश्लोकपदारविन्दयोर्
निषेवयाकिञ्चनसङ्गलब्धया ।
तन्वन् परां निर्वृतिमात्मनो मुहुर्
दुःसङ्गदीनस्य मनः शमं व्यधात् ॥ [भागवतम् ७.४.४२]

(पगे ४३)

टीका चात्मनः परा निर्वृतिं तन्वन् दुःसङ्गदीनस्य अपि मनः शमं
शान्तं व्यधायि इत्येषा । शमं स्वमनसस्तुल्यमिति वा व्याख्येयम् ।

॥ ७.४ ॥ श्रीनारदो युधिष्ठिरं प्रति ॥ ७७ ॥

[७८]

अथ दर्शितप्रभावास्तद्आविर्भावास्तु श्रीशुकदेवादिषु द्रष्टव्याः ।
यथा च श्रीनारदपञ्चरात्रे

भावोन्मत्तो हरेः किञ्चिन्न वेद सुखमात्मनः ।
दुःखं चेति महेशानि परमानन्द आप्लुतः ॥ इति ।

तदेवं सभेदा प्रीत्याख्या भक्तिर्दर्शिता । एषा श्रीगीतोपनिषत्सु च
स्वरूपद्वारा गुणद्वारा च कथिता

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ [गीता १०.८९] इति ।

अथ श्रीभगवत्प्रीतिलक्षणवाक्यानां निष्कर्षः । निखिलपरमानन्द
चन्द्रिकाचन्द्रमसि सकलभुवनसौभाग्यसारसर्वस्वसत्त्व
गुणोपजीव्यानन्तविलासमयामायिकविशुद्धसत्त्वानवरतोल्लासाद्
असमोर्ध्वमधुरे श्रीभगवति कथमपि चित्तावतारादनपेक्षित
विधिः स्वरसत एव समुल्लसन्ती विषयान्तरैरनवच्छेद्या तात्पर्यान्तरम्
असहमाना ह्लादिनीसारवृत्तिविशेषस्वरूप भगवद्आनुकूल्यात्मकतद्
अनुगततत्स्पृहादिमयज्ञानविशेषाकारा तादृशभक्तमनोवृत्तिविशेष
देहा पीयूषपूरतोऽपि सरसेन स्वेनैव स्वदेहं सरसयन्ती भक्त
कृतात्मरहस्यसङ्गोपननगुणमयरसनाबाष्पमुक्तादिव्यक्त
परिष्कारा सर्वगुणैकनिधानस्वभावा दासीकृताशेषपुरुषार्थ
सम्पत्तिका भगवत्पातिव्रत्यव्रतवर्यापर्याकुला भगवन्
मनोहरणैकोपायहारिरूपा भगवति भागवती प्रीतिस्तमुपसेवमाना
विराजत इति । सेयमखण्डापि निजालम्बनस्य भगवत आविर्भाव
तारतम्येन स्वयं तारतम्येनैवाविर्भवति ।

तदेवं सति श्रीकृष्णस्यैव स्वयंभगवत्त्वेन तत्सन्दर्भे दर्शितत्वात्
तत्रैव तस्या परा प्रतिष्ठिता । अतएव बाहुल्येन तत्प्रीतिपरिपाटीम्
एवाधिकृत्य प्रक्रिया दर्शयितव्या । या च क्वचिदन्याधिकर्तव्या सा खलु
कैमुत्येन तस्या एव पोषणार्थं ज्ञेया ।

अथ श्रीकृष्णे स्वयं भगवत्येवाविर्भावपूर्णत्वदर्शनेन तस्याः
पूर्णत्वं दर्शयति

अद्य नो जन्मसाफल्यं विद्यायास्तपसो दृशः ।
त्वया सङ्गम्य सद्गत्या यदन्तः श्रेयसां परः ॥ [भागवतम् १०.८४.२१]

सतां त्वद्एकनिष्ठानां तद्विशेषाणां गत्या त्वया श्रीकृष्णआख्येन
सङ्गम्य नोऽस्माकं वशिष्ठचतुःसनवामदेवमार्कण्डेयनारद
कृष्णद्वैपायनादीनां ब्रह्मानुभवतां भगवदीयनानाभक्तिरस
विदां दृष्टनानाभगवद्आविर्भावानामपि अद्य ईदृश
प्राकट्यावच्छिन्नेऽस्मिन्नेवावसरे जन्मनः साफल्यं जातम् । यदेव
साफल्यं पूर्वलब्धानां तत्तद्आविर्भावजाततत्तत्साफल्यरूपाणां
श्रेयसां परमपुरुषार्थानां परोऽन्तरः परमोऽवधिरिति ।

॥ १०.८४ ॥ महामुनयः श्रीभगवन्तम् ॥ ७८ ॥
(पगे ४४)
[७९]

एवमन्यत्रापि

अथ ब्रह्मात्मजैर्देवैः प्रजेशैरावृतोऽभ्यगात् ।
भवश्च भूतभव्येशो ययौ भूतगणैर्वृतः ॥ [भागवतम् ११.६.१] इत्य्आदिकम्
उपक्रम्याह
व्यचक्षतावितृप्ताक्षः कृष्णमद्भुतदर्शनम् । [भागवतम् ११.६.५] इति ।
अत्राप्यद्भुतत्वं प्राकट्यान्तरापेक्षयैव ॥

॥ ११.६ ॥ श्रीशुकः ॥ ७९ ॥

[८०]

किं च

यन्मर्त्यलीलौपयिकं स्वयोग
मायाबलं दर्शयता गृहीतम् ।
विस्मापनं स्वस्य च सौभगर्द्धेः
परं पदं भूषणभूषणाङ्गम् ॥ [भागवतम् ३.२.१२]

स्वयोगमायाबलं स्वचिच्छक्तेर्वीर्यम् । एतादृशसौभाग्यस्यापि
प्रकाशिकेयं भगवतीत्येवंविधं दर्शयताविष्कृतम् । सकलस्व
वैभवविद्वद्गणविस्मापनायेति भावः । न केवलमेतावत्स्वस्यैव
रूपान्तरे तादृशत्वाननुभवात् । तत्रापि प्रतिक्षणमप्यपूर्वप्रकाशात्
स्वस्यापि विस्मापनम् । यतः सौभगर्द्धेः परं पदं परा प्रतिष्ठा ।

ननु तस्य भूषणं त्वस्ति सौभगहेतुरित्याह भूषणेति । कीदृशं
मर्त्यलीलौपायिकं नराकृतीत्यर्थः । तस्मात्सुतरां युक्तमुक्तं श्री
महाकालपुराधिपेनापि द्विजात्मजा मे युवयोर्दिदृक्षुणा मयोपनीताः
[भागवतम् १०.८९.५८] इत्यादि । श्रीहरिवंशे श्रीकृष्णवचनेन च मद्
दर्शनार्थं ते बाला हृतास्तेन महात्मना [ःV २.११४.८] इति ।

॥ ३.२ ॥ श्रीमानुद्धवो विदुरम् ॥ ८० ॥

[८१]

अतएव परीक्षिद्गुणवर्णने तद्गुणोपमात्वेनैकमेकं गुणं श्रीराम
रमेशयोर्दर्शयित्वा सर्वसाद्गुण्योपमात्वेन श्रीकृष्णं दर्शयितुम्
अत्यन्तोत्कर्षदृष्ट्याशङ्कमानैर्ब्राह्मणैः एष कृष्णमनुव्रतः [भागवतम्
१.१२.२४] इत्येवोक्तम् । न तु स इवेति । अतएव परमप्रेमजनक
स्वभावत्वमपि तस्य दृश्यते । विजयरथकुटुम्बः [भागवतम् १.९.३९] इत्यादौ,
यमिह निरीक्ष्य हता गताः स्वरूपमित्यनन्तरं,

ललितगतिविलासवल्गुहास
प्रणयनिरीक्षणकल्पितोरुमानाः ।
कृतमनुकृतवत्य उन्मदान्धाः
प्रकृतिमगन् किल यस्य गोपवध्वः ॥ [भागवतम् १.९.४०]

तत्स्वभावमहिम्नः स्वारूप्यप्रापणत्वं नाम क्रियानुत्कर्षः । यत
एतावतोऽपि प्रेम्नो जनकत्वं दृश्यत इत्याह ललितेति । अत्र कृतानुकरणं
नाम लीलाख्यो नायिकानुभावः । तदुक्तं क्रियानुकरणं लीला [ऊण्१०.२८]
इति । प्रकृतिं स्वभावम् । तादृशप्रेमावेशो जातः । येन तत्स्वभावनिज
स्वभावयोरैक्यमेव तासु जातमित्यर्थः । यथा श्रीमद्उज्ज्वल
नीलमणौ महाभावोदाहरणम्

राधाया भवतश्च चित्तजतुनी स्वेदैर्विलाप्य क्रमात्
युञ्जन्नद्रिनिकुञ्जकुञ्जरपते निर्धूतभेदभ्रमम् ।
चित्राय स्वयमन्वरञ्जयदिह ब्रह्माण्डहर्म्योदरे
भूयोभिर्नवरागहिङ्गुलभरैः शृङ्गारकारुः कृती ॥ [ऊण्१५.१५५] इति ।

॥ १.९ ॥ भीष्मः श्रीभगवन्तम् ॥ ८१ ॥

[८२]

तथा

यस्याननं मकरकुण्डलचारुकर्ण
भ्राजत्कपोलसुभगं सविलासहासम् ।
नित्योत्सवं न ततृपुर्दृशिभिः पिबन्त्यो
नार्यो नराश्च मुदिताः कुपिता निमेश्च ॥ [भागवतम् ९.२४.६५]

(पगे ४५) टीका चतत्र प्रदर्शनार्थं मुखशोभामाह इत्यादिका । तद्
दर्शनेऽपि निमेषकर्तृत्वेन निमेर्नियमे कुपिता बभूवुः । इयं खलु
महाभावस्य गतिः । सा च तत्स्वभावतः सिद्धेत्यभिधानाद्युक्तम्
अत्रास्योदाहरणम् ।

॥ ९.२४ ॥ श्रीशुकः ॥ ८२ ॥

[८३]

किं च का स्त्र्यङ्ग ते कलपदायत इत्यादौ यद्गोदिव्जद्रुममृगाः
पुलकान्यभिभ्रन्न् [भागवतम् १०.२९.४०] इति ।

अन्यत्र च अस्पन्दनं गतिमतां पुलकस्तरूणाम् [भागवतम् १०.२९.४०] इत्यादि ।
अतएवोक्तं श्रीबिल्वमङ्गलेन

सन्त्ववतारा बहवः पुष्करनाभस्य सर्वतोभद्राः ।
कृष्णादन्यः को वा लतास्वपि प्रेमदो भवति ॥ [KKआ २.८५] इति ।
॥ १०.२९ ॥ श्रीव्रजदेव्यः श्रीभगवन्तम् ॥ ८३ ॥

[८४]

तदेवं श्रीभगवद्आविर्भावतारतम्येन तत्प्रीतेराविर्भाव
तारतम्यं दर्शितम् । अथ तस्या एव गुणान्तरोत्कर्षतारतम्येन
तारतम्यान्तरं भेदाश्च दर्श्यन्ते । तत्र गुणाः द्विविधाः । भक्तचित्त
संस्क्रियाविशेषस्य हेतव एके, तद्अभिमानविशेषस्य हेतवश्चान्ये ।

तत्र पूर्वेषां गुणानां स्वरूपाणि तैस्तस्यास्तारतम्यं भेदाश्च यथा
प्रीतिः खलु भक्तचित्तमुल्लासयति, ममतया योजयति, विस्रम्भयति,
प्रियत्वातिशयेनाभिमानयति, द्रावयति, स्वविषयं प्रत्यभिलाषातिशयेन
योजयति, प्रतिक्षणमेव स्वविषयं नवनवत्वेनानुभावयति,
असमोर्ध्वचमत्कारेणोन्मादयति च ।

तत्रोल्लासमात्राधिक्यव्यञ्जिका प्रीतिः रतिः यस्यां जातायां तद्एक
तात्पर्यमन्यत्र तुच्छत्वबुद्धिश्च जायते । ममतातिशयाविर्भावेन
समृद्धा प्रीतिः प्रेमा । यस्मिन् जाते तत्प्रीतिसमृद्धिश्चान्यत्रापि दृश्यते ।
यथोक्तं मार्कडेये

मार्जारभक्षिते दुःखं यादृशं गृहकुक्कुटे ।
न तादृङ्ममताशून्ये कलविङ्केऽथ मूषिके ॥ इति ।

अतएव प्रेमलक्षणायां भक्तौ प्रचुरहेतुत्वज्ञापनार्थं ममताया
एव भक्तित्वनिर्देशः पञ्चरात्रे

अनन्यममता विष्णौ ममता प्रेमसङ्गता ।
भक्तिरित्युच्यते भीष्मप्रह्लादोद्धवनारदैः ॥ इति ।

अन्यममतावर्जिता ममेत्यन्वयः । तदुक्तं सत्त्व एवैकमनसः [भागवतम्
३.२५.३२] इत्येवकारेण ।

अथ विस्रम्भातिशयात्मकः प्रेमा प्रणयः, यस्मिन् जाते सम्भ्रमादि
योग्यतायामपि तद्अभावः । प्रियत्वातिशयाभिमानेन कौटिल्याभास
पूर्वकभाववैचित्रीं दधत्प्रणयो मानः । यस्मिन् जाते श्रीभगवान्
अपि तत्प्रणयकोपात्प्रेममयं भयं भजते । चेतोद्रवातिशयात्मकः
प्रेमैव स्नेहः । यस्मिन् जाते तत्सम्बन्धाभासेनापि महाबाष्पादि
विकारः प्रियदर्शनाद्य्अतृप्तिस्तस्य परमसामर्थ्यादौ सत्यपि केषांचिद्
अनिष्टाशङ्का च जायते । स्नेह एवाभिलाषातिशआत्मको रागः । यस्मिन् जाते
क्षणिकस्यापि विरहस्यात्यन्तैवासहिष्णुता । तत्संयोगे परं दुःखमपि
सुखत्वेन भाति, तद्वियोगे तद्विपरीतम् । स एव रागोऽनुक्षणं स्वविषयं
नवनवत्वेनानुभावयन् स्वयं च नवनवीभवन्ननुरागः । यस्मिन्
जाते परस्परवशीभावातिशयः । प्रेमवैचित्त्यं तत्सम्बन्धिन्यप्राणिन्य्
अपि जन्मलालसा । विप्रलम्भे विस्फूर्तिश्च जायते । अनुराग एवासमोर्ध्व
चमत्कारेणोन्मादको महाभावः । यस्मिन् (पगे ४६) जाते योगे
निमेषासहता कल्पक्षणत्वमित्यादिकम् । वियोगे क्षणकल्पत्वमित्य्
आदिकम् । उभयत्र महोद्दीप्ताशेषसात्त्विकविकारादिकं जायते इति संस्कार
हेतवो गुणा दर्शिताः ।

अथ भक्ताभिमानविशेषहेतवो गुणास्तत्कृताः प्रीतेर्भक्तानां च
भेदास्तारतम्यं च यथासैव खलु प्रीतिर्भगवत्स्वभाव
विशेषाविर्भावयोगमुपलभ्य कञ्चिदनुग्राह्यत्वेनाभिमानयति कञ्चिद्
अनुकम्पित्वेन कञ्चिन्मित्रत्वेन, कञ्चित्प्रियात्वेन च । भगवत्स्वभाव
विशेषाविर्भावहेतुश्च यस्य भगवत्प्रियविशेषस्य सङ्गादिना लब्धा
प्रीतिस्तस्य प्रीतेरेव गुणविशेषो बोद्धव्यः । नित्यपरिकराणां नित्यमेव
तद्द्वयम् । तत्रानुग्राह्यताभिमानमयी प्रीतिर्भक्तिशब्देन
प्रसिद्धा । आराध्यत्वेन ज्ञानं भक्तिरिति हि तद्अनुगतम् । यथैवोक्तं
मायावैभवे

स्नेहानुबन्धो यस्तस्मिन् बहुमानपुरःसरः ।
भक्तिरित्युच्यते सैव कारणं परमेशितुः ॥ इति ।

स्नेहोऽत्र प्रीतिमात्रम् । एवं पाद्मे महित्वबुद्धिर्भक्तिस्तु स्नेह
पूर्वाभिधीयते इति ।

तथापि भक्तेर्भगवति प्रीतिसामान्यपर्यायता मुनिभिर्भक्त्या
प्रयुज्यत इति पूर्वमुक्तम् । क्वचिद्विशेषवाचका अपि सामान्ये
प्रयुज्यन्ते । जीवसामान्ये नृपभृतिशब्दवत् । क्वचिद्भक्त्य्अतिशय
लक्षणप्रेमण्यपि भक्तिशब्दप्र्योगो ब्राह्मणगोष्ठीषु
ब्राह्मण्यातिशयवति अयं ब्राह्मण इतिवत् ।

यथोक्तं पाञ्चरात्रे
माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः ।
स्नेहो भक्तिरिति प्रोक्तस्तया सार्ष्ट्य्आदि नान्यथा ॥ इति ।

मनोगतिगमनादीनां तु तत्सम्बन्धेनैव क्वचिद्भक्तिशब्द
वाच्यतोक्ता । तद्अनुग्राह्यताभिमानमयी प्रीतिरेव भक्तिशब्दस्य
मुख्योऽर्थः । ते चानुग्राह्याभिमानिनो द्विविधाः । पोषणमनुकम्पा
चेत्यनुग्रहस्य द्वैविध्यात् । पोषणमत्र भगवता स्वरूपद्वारा स्व
गुणद्वारा चानन्दनम् । अनुकम्पा च पूर्णेऽपि स्वस्मिन्निजसेवाद्य्
अभिलाषं सम्पाद्य सेवकादिषु सेवादिसौभाग्यसम्पादिका भगवदश्
चित्तार्द्रतामयी तद्उपकारेच्छा । तेषु द्विविधेषु केषुचिद्भगवति
निर्ममाः केषुचित्सममाश्च । तत्र भगवति परमात्मपरब्रह्म
भावेनानन्दनीयाभिमानिनो निर्ममा ज्ञानिभक्ताः श्रीसनकादयः ।
तेषां तद्अभिमानित्वेऽपि तत्र निर्ममत्वम्

सत्यपि भेदापगमे नाथ तवाहं न मामकीनस्त्वम् ।
सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः ॥ इतिवत् ।

तव चन्द्रदर्शनवन्ममतां विनापि तेषां भगवद्दर्शनं प्रीतिदं
स्यात् । आनुकूल्यं चात्र तत्प्रवणत्वतत्स्तुत्य्आदिना ज्ञेयम् । एषां प्रीतिश्च
ज्ञानभक्त्य्आख्या । ज्ञानत्वं ब्रह्मघनत्वेनैवानुभवात् । एषैव
शान्त्य्आख्ययोच्यते । शमप्रधानत्वात् । शमो मन्निष्ठता बुद्धेर्[भागवतम्
११.१९.३६] इति भगवद्वाक्यम् ।

अथानुकम्प्याः सममा भक्ताः । एषां हि अस्माकं प्रभुरयमिति
भावेन ममतोद्भूता । एतदभिप्रेत्यैवानन्यममतेत्यादिवक्तृत्वं
केवलभक्तानां श्रीभीष्मोद्धवप्रह्लादनारदादीनामेवोक्तं न तु
सनकादीनामपि । अतो ममतोद्भवादेवानुकम्प्यास्तद्अभिमानिनश्च
ते ।

अनुकम्प्यत्वं त्रिविधम् । पाल्यत्वं भृत्यत्वं लाल्यत्वं च । तत्त्रैविध्येन
क्रमात्ते श्रीभगवति पालक इति भावा द्वारकाप्रजादयः । सेव्य इति
भावाः श्रीदारुकादिसेवकाः गुरुरिति भावाः श्रीप्रद्युम्नगद
प्रभृतिपुत्रा नृजादय इति । एषां त्रिविधानामपि प्रीतिर्भक्तिरे एव ।
पूर्वापेक्षया चैषां प्रीतेरानुकूल्यात्मताधिक्यादाव्
ऋतज्ञानांशत्वेनास्यामेव श्रीरसामृतसिन्धौ प्रीतिरित्य्(पगे ४७)
एवाख्या कृता । सा च भक्तिः क्रमेण पाल्यानामाश्रयात्मिका, भृत्यानां
दास्यात्मिका, लाल्यानां प्रश्रयात्मिका ज्ञेया । या तु महद्बुद्ध्या
चित्तादरलक्षणभक्तिर्नमस्कारादिकार्यव्यङ्ग्या सा खलु प्रीतिर्न
भवतीति नात्र गण्यते । तत्तद्भावं विनैव केवलादरमयी प्रीतिश्चेद्
भक्तिसामान्यत्वेन ज्ञेया ।

अथ पुत्रोऽयमित्यादिभावेनानुकम्पित्वाभिमानमयी प्रीइत्र्वात्सल्यम् ।
वत्सं वक्षो लातीति निरुक्तिर्हि तत्रैव झटिति प्रतीतिं गमयति । प्रीतिमात्रे
तु तद्उपलक्षणत्वेनैव प्रयोगः । लौकिकरसज्ञाश्च केचिदत्रैव
वत्सलाख्यं रसं मन्यन्ते । तथोदाहृतं श्रीदेवहूत्याः पुत्रवियोगे
वत्से गौरिव वत्सला [भागवतम् ३.३३.२१] इति । तस्माद्वात्सल्यं श्रीव्रजेश्वरीणाम् ।

अथ मत्सममधुरशीलवचनयं निरुपाधिमत्प्रणयाश्रय्विशेष इति
भावेन मित्रत्वाभिमानमयी प्रीतिः मैत्र्य्आख्या द्विविधाः । परस्पर
निरुपाधिकोपकाररसिकतामयी सौहृदाख्या । सहविहारशालि
प्रणयमयी सख्याख्या चेति । ततो मित्राणि च द्विविधानि । सुहृदः सखायश्
चेति । तत्र सौहृदं श्रीयुधिष्ठिरभीष्मद्रौपदीपद्यादिष्वंशेन
दृश्यते । सख्यं श्रीमद्अर्जुनश्रीदामादिषु ।

अथ कान्तोऽयमिति प्रीतिः कान्तभावः । एष एव प्रियताशब्देन श्री
रसामृतसिन्धौ परिभाषिता । प्रियाया भावः प्रियतेति । लौकिकरसिकैर्
अत्रैव रतिसंज्ञा स्वीक्रियते । एष एव कामतुल्यत्वात्श्रीगोपिकासु कामादि
शब्देनाप्यभिहितः । स्मराख्यकामविशेषस्त्वन्यः वैलक्षण्यात् । काम
सामान्यं खलु स्पृहासामान्यात्मकम् । प्रीतिसामान्यं तु
विषयानुकूल्यात्मकस्तद्अनुगतविषयस्पृहादिमयो ज्ञानविशेष इति
लक्षितम् । ततो द्वयोः सामान्यप्रायचेष्टत्वेऽपि कामसामान्यस्य चेष्टा
स्वीयानुकूल्यतात्पर्या । तत्र कुत्रचिद्विषयानुकूल्यं च स्वसुखकार्य
भूतमेवेति तत्र गौणवृत्तिरेव प्रीतिशब्दः । शुद्धप्रीतिमात्रस्य
चेष्टा तु प्रियानुकूल्यतात्पर्यैव । तत्र तद्अनुगतमेव चात्मसुखमिति
मुख्यवृत्तिरेव प्रीतिशब्दः ।

अतएव यथापूर्वं सुखप्रीतिसामान्ययोरुल्लासात्मकतया साम्येऽप्य्
आनुकूल्यांशेन प्रीतिसामान्यस्य वैशिष्ट्यं दर्शितम् । तथा कामप्रीति
सामान्ययोरपि स्पृहाविशेषात्मकतया साम्येऽपि तेनैव वैशिष्ट्यं
सिद्धम् । अत्र तु यत्ते सुजातचरणाम्बुरुहं स्तनेषु भीताः शनैः प्रिय
दधीमहि कर्कशेषु [भागवतम् १०.३१.१९] इत्यादिभिरतिक्रम्यापि स्वानुकूल्यं
प्रियानु (पगे ४८) कूल्यतात्पर्यस्यैव दर्शितत्वात्शुद्धप्रीतिविशेष
रूपत्वमेव लभ्यते । अतस्तद्विशेषत्वं च स्पृहाविशेषात्मकत्वात्
सिद्धम् । ततोऽत्र श्रीकृष्णविषयत्वेन कुब्जादिसम्बन्धिकामवद्
अप्राकृतकामत्वस्याप्यनभ्युपगमे सति प्राकृतकामत्वं तु सुतराम्
असिद्धम् । तथा दर्शितं च

विक्रीडितं व्रजवधूभिरिदं च विष्णोः
श्रद्धान्वितो यः शृणुयादथ वर्णयेद्वा ।
भक्तिं परां भगवति परिलभ्य कामं
हृद्रोगमाश्वपहिनोत्यचिरेण धीरः ॥ [भागवतम् १०.३३.४०] इत्यनेन ।

यद्विक्रीडितं खलु निजश्रवणद्वाराप्यन्येषां दूरदेशकाल
स्थितानामपि शीघ्रमेव यं काममपनयत्परमं प्रेमाणं
वितनोति । तत्पुनस्तत्काममयं न स्यात् । अपि तु परमप्रेमविशेष
मयमेव । न हि पङ्केन पङ्कं क्षाल्यते । न तु स्वयमस्नेहः
स्नेहयति ।

अतएव तस्य भावस्य शुद्धप्रेममयत्वं निगदेनैवोक्त्वा शुद्धत्वे
हेतुतया पुनस्तेन भगवत्प्रसादश्च दर्शितः । भगवानाह ता वीक्ष्य
शुद्धभावप्रसादितः [भागवतम् १०.२२.१] इति । तस्यात्मरामशिरोमणेस्तेन
रमणं च दर्शितम्कृत्वा तावन्तमात्मानम् [भागवतम् १०.३३.१९] इत्य्आदिभिः ।

वशीकृतत्वं च स्वयं दर्शितंन पारयेऽहं निरवद्यसंयुजाम् [भागवतम्
१०.३२.२२] इत्यादिना । तत्र निरवद्येति प्रीतेः शुद्धत्वम् । स्वसाधुकृत्यमिति
परमोत्तमोत्कृष्टत्वम् । न पारय इति स्ववशीकारत्वम् । अतः शुद्ध
प्रेमजातिषु तस्य परम्त्वादेव श्रीमद्उद्धवेनाप्येवमुक्तम्
वाञ्छन्ति यद्भवभियो मुनयो वयं च [भागवतम् १०.४७.५८] इति । तस्मात्सर्वतः
परमैव कान्तभावरूपा प्रीतिरिति स्थितम् ।

तदेवं ज्ञानभक्तिर्भक्तिर्वात्सल्यं मैत्री कान्तभाव इति तद्
भावाभिमानयोर्भेदेन पञ्चविधा प्रीतिः । एताश्च ज्ञानभक्त्य्आदयः
क्वचित्मिश्रतयापि वर्तन्ते । तत्र श्रीभीष्मादौ ज्ञानभक्त्य्आश्रय
भक्ती । श्रीयुधिष्ठिरे सौहृद्यान्तर्भूते आश्रयभक्तिवात्सल्ये । श्री
भीमस्य सख्यमपि । श्रीकुन्त्यामाश्रयभक्त्य्अन्तर्भूतं वात्सल्यम् ।
श्रीवसुदेवदेवक्योर्भक्तिसामान्यवात्सल्ये । तथा तथा दर्शनात् ।

श्रीमद्उद्धवस्य दास्यान्तर्भूतं सख्यंत्वं मे भृत्यः सुहृत्सखा
[भागवतम् ११.११.४८] इति श्रीभगवद्उक्तेः । श्रीबलदेवस्य सख्यवात्सल्य
भक्तयः । तत्र वात्सल्यसख्ये

क्वचित्क्रीडापरिश्रान्तं गोपोत्सङ्गोपबर्हणम् ।
स्वयं विश्रमयत्यार्यं पादसंवाहनादिभिः ॥
नृत्यतो गायतः क्वापि वल्गतो युध्यतो मिथः ।
गृहीतहस्तौ गोपालान् हसन्तौ प्रशशंसतुः ॥ [भागवतम् १०.१५.१४१५] इत्यादिषु ।

भक्तिश्च प्रायो मायास्तु मे भर्तुः [भागवतम् १०.१३.३७] इत्य्आदितद्उक्तिषु । अत्र
च तस्य व्रजे सख्यान्तर्भूते वात्सल्यसख्ये ऐश्वर्यप्रकाशमय
लीलाविष्कारात् । व्रजे तस्याग्रजत्वं श्रीवसुदेवनन्दनयोर्भ्रातृत्व
प्रसिद्धेः । श्रीमन्नन्देन पुत्रतया पालनाच्च । यथोक्तं

भ्रातर्मम सुतः कच्चिन्मात्रा सह भवद्व्रजे ।
तातं भवन्तं मन्वानो भवद्भ्यामुपलालितः ॥ [भागवतम् १०.५.२७] इति ।

वदन्ति तावका ह्येते कुमारास्तेऽग्रजोऽप्ययम् [भागवतम् १०.८.३४] इति च ।

एवं श्रीपट्टमहिषीषु दास्यमिश्रः कान्तभावः । श्रीमद्व्रजदेवीषु
सख्यमिश्र इत्यादिकं ज्ञेयम् । (पगे ४९)

अथ तत्तद्भावाभिमानो विनां तु या प्रीतिः सा सामान्या
तादृशत्वायोग्यानां भवति । यथा मिथिलाप्रयाण

आनर्तधन्वकुरुजाङ्गलकङ्कमत्स्य
पाञ्चालकुन्तिमधुकेकयकोशलार्णाः ।
अन्ये च तन्मुखसरोजमुदारहास
स्निग्धेक्षणं नृप पपुर्दृशिभिर्नृनार्यः ॥ [भागवतम् १०.८६.२०] इत्यत्र
केषांचित् ।

एते च निर्ममा ज्ञेयाः । किं च तेष्वेतेषु भगवत्प्रियेषु सामान्यशान्तौ
तटस्थाख्यौ । अनयोः प्रीतिश्च तटस्थाख्या । तेषु च पाल्यभृत्यौ
अनुगतौ । तयोर्भक्तिश्च सम्भ्रमप्रीत्य्आख्या । लाल्यादयस्तु
बान्धवाः । तेषां प्रीतिश्च बान्धवताख्या ज्ञेया । तैरेतैः प्रीतिभेदैः
प्रियभेदान् प्रति स्वस्य भजनीयताभेदा उक्ताः येषामहं प्रिय आत्मा
सुतश्च सखा गुरुः सुहृदो दैवमिष्टम् [भागवतम् ३.२५.३८] इति । प्रियः कान्तः ।
आत्मा परमात्मा । सुतः पुत्रभ्रातृजादिरूपः अनुजरूपश्च । सखा
प्रणयपूर्वकः सह खेलति यः । गुरुपित्रादिरूपः । सुहृदो द्विविधाः
सम्बन्धिनो निरुपाधिहितकारिणश्च । तत्र पूर्वेषां प्रियत्वादौ
प्रवेशादुत्तरे गृह्यन्ते । दैवमिष्टमाश्रयणीयः सेव्यश्चेत्यर्थः ।
एतान् भावांश्च विना सामान्यप्रीतिविषय इति भावः ।

अथ पूर्वोक्ता रत्य्आदिभावा उदाह्रियन्ते । तत्र रतिमाह

तत्रान्वहं कृष्णकथाः प्रगायताम्
अनुग्रहेणाशृणवं मनोहराः ।
ताः श्रद्धया मेऽनुपदं विशृण्वतः
प्रियश्रवस्यङ्ग ममाभवद्रुचिः ॥

तस्मिंस्तदा लब्धरुचेर्महामते
प्रियश्रवस्यस्खलिता मतिर्मम ।
ययाहमेतत्सद्असत्स्वमायया
पश्ये मयि ब्रह्मणि कल्पितं परे ॥ [भागवतम् १.५.२६२७]

मयि शुद्धजीवे व्यष्टिरूपं परे ब्रह्मणि च समष्टिरूपम्
अध्यारोपितम् ।

॥ १.५ ॥ श्रीनारदः श्रीव्यासम् ॥ ८४ ॥

[८५]

प्रेमाणमाह
उपलब्धं पतिप्रेम पातिव्रत्यं च तेऽनघे ।
यद्वाक्यैश्चाल्यमानाया न धीर्मय्यपकर्षिता ॥ [भागवतम् १०.६०.५१]

॥ १०.६० ॥ श्रीभगवान् रुक्मिणीदेवीम् ॥ ८५ ॥

[८६]

प्रणयमाह उवाह कृष्णो भगवान् श्रीदामानं पराजितः [भागवतम् १०.१८.२४]
इति । स्पष्टम् ॥

॥ १०.१८ ॥ श्रीशुकः ॥ ८६ ॥
[८७]

मानमाह एका भ्रूकुटिमाबद्ध्य प्रेमसंरम्भविह्वला [भागवतम्
१०.३२.६] इति । स्पष्टम् ॥

॥ १०.३२ ॥ श्रीशुकः ॥ ८७ ॥

[८८]

स्नेहमाह
सत्सङ्गान्मुक्तदुःसङ्गो हातुं नोत्सहते बुधः ।
कीर्त्यमानं यशो यस्य सकृदाकर्ण्य रोचनम् ॥
तस्मिन्न्यस्तधियः पार्थाः सहेरन् विरहं कथम् ।
दर्शनस्पर्शसंलाप शयनासनभोजनैः ॥
सर्वे तेऽनिमिषैरक्षैस्तमनु द्रुतचेतसः ।
वीक्षन्तः स्नेहसम्बद्धा विचेलुस्तत्र तत्र ह ॥
न्यरुन्धन्नुद्गलद्बाष्पमौत्कण्ठ्याद्देवकीसुते ।
निर्यात्यगारान्नोऽभद्रमिति स्याद्बान्धवस्त्रियः ॥ [भागवतम् १.१०.१११४]
(पगे ५०)

विचेलुः अर्हणाद्यानयनार्थमितस्ततश्चलन्ति स्म । अभद्रं यात्रासमये
दुःशकुनं प्राभूदिति न्यरुन्धनाछादिअवत्यः ।

॥ १.१० ॥ श्रीसूतः ॥ ८८ ॥

[८९]

रागमाह
विपदः सन्तु ताः शश्वत्तत्र तत्र जगद्गुरो ।
भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम् ॥ [भागवतम् १.८.२५]

भवतः कर्मभूतस्य दर्शनमवलोकनम् । यत्यासु । अपुनर्भवम्
अन्यत्र कुत्रापि तादृशमाधुर्याभावात्पुनर्न जातं दर्शनं साम्य
प्रतीतिर्यस्य तदपूर्वमित्यर्थः ।

॥ १.८ ॥ श्रीकुन्ती श्रीभगवन्तम् ॥ ८९ ॥

[९०]

अनुरागमाह

यद्यप्यसौ पार्श्वगतो रहोगतस्
तथापि तस्याङ्घ्रियुगं नवं नवम् ।
पदे पदे का विरमेत तत्पदाच्
चलापि यच्छ्रीर्न जहाति कर्हिचित् ॥ [भागवतम् १.११.३४]

असौ श्रीकृष्णः । तासां श्रीमहिषीणां पार्श्वगतः समीपस्थः । तत्रापि
रहोगतः एकान्ते वर्तते । पदे पदे प्रतिक्षणम् । तच्च तासां
स्वाभाविकानुरागवतीनां नाश्चर्यम् । यतः का वा अन्यापि तत्पदाद्
विरमेत तत्पदास्वादेन तृप्ता भवेत् । तत्र कैमुत्येनोदाहरणं चलापीति ।
जगति चञ्चलस्वभावत्वेन दृष्टापि । अत्रोदाहरणपोषार्थं
प्राकृताप्राकृतश्रियोरभेदविवक्षा ।

॥ १.११ ॥ श्रीसूतः ॥ ९० ॥

[९१]

महाभावमाह

गोपीनां परमानन्द आसीद्गोविन्ददर्शने ।
क्षणं युगशतमिव यासां येन विनाभवत् ॥ [भागवतम् १०.१९.१६]

स्पष्टम् ।

॥ १०.१९ ॥ श्रीशुकः ॥ ९१ ॥

[९२]

एषा प्रीतिजाती रतिमात्रात्मा ज्ञानिभक्तेषु परमानन्दघन
मात्रतयानुभवसुखस्य ममत्वाभावेनातिशयकारणत्वायोगात् । एवं
समान्येष्वपि । कामं भवः स्ववृजिनैर्निरयेषु नस्तात्[भागवतम् ३.१५.४९] इत्य्
आदौ तु सनकादीनां तादृशरागप्रार्थनैव, न तु साक्षादेव राग इति
समाधेयम् ।

अथ पाल्येषु प्रेमपर्यन्तैव । ममतायाः स्पष्टत्वात् । न तु स्नेहादि
पर्यन्ता । विदूरसम्बन्धेन तस्या अनौचित्यात् । यत्तु यर्ह्य्
अम्बुजाक्षापससार भो भवान् [भागवतम् १.११.९] इत्यादौ तत्राब्दकोटिप्रतिमः
क्षणो भवेदिति द्वारकाप्रजावाक्ये तद्अतिशयः प्रतीयते । तत्खलु
तत्रैव केषांचिन्नापितमालाकारादीनां साक्षात्तत्सेवाभाग्यवतां भाव
विशेषधारिणमुक्तित्वेन सङ्गतम् ।

अथ श्रीमद्भृत्येषु रागपर्यन्तापि सम्भाव्यते । तेषां ममताधिक्येन
सन्तततत्सेवालम्पटत्वेन तद्एकजीवनत्वात् । लाल्येषु साक्षाच्छ्री
विग्रहसम्बन्धेन ततोऽपि ममताविशेषोर्जितत्वात्रागातिशयो मन्तव्यः ।
तेभ्यः सखिभ्योऽपि ममताधिक्याद्वत्सलमुख्ययोः पित्रोः सर्वतस्तद्
अतिशयः । अन्यत्राषि प्रायः विपदः सन्तु ताः शश्वत्[भागवतम् १.८.२५] इत्यादि श्री
कुन्तीवाक्यात्सखिषु प्रणयोत्कर्षांशेन तु तद्आधिक्यमस्ति । सुहृत्सु
नातिसन्निकर्षात्प्रेमातिशय एव । प्रणयमानौ तु सखिप्रेयस्योरेव
सम्भवतः ।

अथ श्रीप्रेयसीषु श्रीमत्पट्टमहिषीणां महाभावतोन्मुखानुराग
पर्यन्तैव । यद्विवर्तविशेषः प्रेमवैचित्त्याख्यो विप्रलम्भशृङ्गारस्
तासामूचुर्मुकुन्दैकधियः [भागवतम् १०.९०.१४] इत्यादिना (पगे ५१) इतीदृशेन
भावेन इत्यन्तेन वर्णितः । ततोऽधिकं न च श्रूयते । ताभ्योऽन्यत्र त्व्
अनुरागोऽपि न श्रूयते । ननु सतामयं सारभृतां निसर्गः [भागवतम् १०.१३.२]
इत्यादौ अन्यत्राप्यनुरागो वर्ण्यते । प्रतिक्षणं नव्यत्वस्फुरणात् ।
नैवमनुरागस्यन तादृशस्फुरणमात्रलक्षणत्वं किन्तूल्लासादि
दुःखसुखत्वभानपर्यन्तरत्य्आदिगुणक्षणत्वमपि ।

अत्र तु सर्वत्र तत्तल्लक्षणोदयासम्भावनया नानुरागो निर्णीयते इति ।
तथा नव्यवदित्युक्तं न च नव्यमिति । श्रीव्रजदेवीनां तु महा
भावपर्यन्तता ।

तास्ताः क्षपाः प्रेष्ठतमेन नीता
मयैव वृन्दावनगोचरेण ।
क्षणार्धवत्ताः पुनरङ्ग तासां
हीना मया कल्पसमा बभूवुः ॥ [भागवतम् ११.१२.११] इत्यादिप्रसिद्धेः ।

निमेषासहत्वं तासामेव
कुटिलकुन्तलं श्रीमुखं च ते
जड उदीक्षितां पक्ष्मकृत्दृशाम् [भागवतम् १०.३१.१५] इति ।

यस्याननम् [भागवतम् ९.२४.३५] इत्य्आदिकस्य नार्यो नराश्च मुदिताः कुपिता निमेश्
च इत्यत्र सामान्यतो नरा नार्यश्च तावन्मुदिता बभूवुः । चकारात्
तत्रैव काश्चिच्छ्रीगोप्यो निमेर्नियमे निमेषकर्त्रे कुपिता बभूवुरित्य्
अर्थः । अन्यत्र तद्अश्रवणादेव । अन्यथा कुरुक्षेत्रयात्रायाम् ।

गोप्यश्च कृष्णमुपलभ्य चिरादभीष्टं
यत्प्रेक्षणे दृशिषु पक्ष्मकृतं शपन्ति ।
दृग्भिर्हृदीकृतमलं परिरभ्य सर्वास्
तद्भावमापुरपि नित्ययुजां दुरापम् ॥ [भागवतम् १०.८२.३९]

इत्यत्र यत्प्रेक्षण इत्यादौ वैशिष्ट्यानापत्तिश्च स्यात् । यद्यपि श्री
कृष्णस्य तादृशभावजनकत्वं स्वभाव एव तथाप्याधारगुणमप्य्
अपेक्षते स्वात्य्अम्बुनो मुक्तादिजनकत्वमिव । अत्र च तद्भावमापुर्
इति श्रीकृष्णविषयकमहाभावविशेषाभिव्यक्तिं दधुरियर्थः ।
अतएव नित्ययुजां दुरापमित्युक्तम् । नित्ययुक्शब्देनाप्यत्र तत्स
लक्षणाः पट्टमहिष्य एव लभ्यन्ते । न तद्विलक्षणा अन्ये दूर
प्रतीतत्वात् । ततश्च नित्ययुजामेता विरहिण्यो वयं तु प्रियसंयोगं
दिनन्दिनमेव प्राप्नुम इति प्रेष्ठन्मन्यानामपीत्यर्थः । अतएव

श्रुत्वा पृथा सुबलपुत्र्यथ याज्ञसेनी
माधव्यथ क्षितिपपत्न्य उत स्वगोप्यः ।
कृष्णेऽखिलात्मनि हरौ प्रणयानुबन्धं
सर्वा विसिस्म्युरलमश्रुकलाकुलाक्ष्यः ॥ [भागवतम् १०.८४.१]

इत्यत्र क्वचिदन्यत्रादृष्टचरेण व्रजस्त्रियो यद्वाञ्छन्ति [भागवतम् १०.८३.४३]
इत्यादितदीयपूर्वोक्तरीत्या स्वीयभावतुल्यतास्पर्शिना
प्रणयानुबन्धेन विस्मितानामपि श्रीगोपीनां विशेषणत्वेन स्वशब्दः
पठितः परमान्तरङ्गताविबोधिषया । तथा अहो अलं श्लाघ्यतमं यदोः
कुलम् [भागवतम् १.१०.२६] इत्यादिपद्यत्रयात्मके प्रथमस्कन्धसम्बन्धिनि
पुरस्त्रीवाक्येऽपि, तेषु प्रथमद्वयं सर्वस्य मथुराव्रजद्वारका
वासिनो जनस्य भाग्यमहिमाप्रतिपादकम् । (पगे ५२)
तृतीयं खलु

नूनं व्रतस्नानहुतादिनेश्वरः
समर्चितो ह्यस्य गृहीतपाणिभिः ।
पिबन्ति याः सख्यधरामृतं मुहुर्
व्रजस्त्रियः सम्मुमुहुर्यद्आशयाः ॥ [भागवतम् १.१०.२८] इत्येतत् ।

अत्र पट्टमहिषीणां भाग्यश्लाघायामपि श्रीव्रजदेवीनामेव हि
पर्मोत्कृष्टत्वमास्वादाभिज्ञतरत्वं चायातम् । यस्यामृतस्य माधुर्य
स्मरणे देवा अपि मुह्यन्ति तन्मनुष्येणाप्यनेनास्वाद्यत इतिवत् । तस्मात्
तासामेव सर्वोत्तमभावना । अयमत्र सन्दर्भः श्रीभगवतः
स्वभावस्तावदुभयविधः । ब्रह्मत्वलक्षणो भगवत्त्वलक्षणश्
चेति । भक्ताश्च सामान्यतो द्विविधा उक्ताः तटस्थाः परिकराश्चेति ।
तत्रैके तटस्था ब्रह्मतापुरस्कारेण तत्स्वभावेन प्रीयमाणाः
शान्ताख्याः । अन्ये च तटस्थाः परिकरवद्भगवत्ताविशेषेणापि
प्रीयमाणाः परिकरत्वाभिमानमप्राप्ताः । ततः स्फुटमेवैते
परिकरात्प्रीतिविहीनाः ।

अथाद्या अपि प्रीतिकारणस्य प्रीतिकार्यस्य च निर्हीनत्वात्परिकरात्प्रीति
निर्हीनाः । कारणं चात्र साहाय्यम् । सहायो द्विविधाः । ममता
लक्षणोऽर्थस्तद्अङ्गं ब्रह्मत्वानुभवादयस्तद्उपाङ्गानीति । अत्र तेषां
ममत्वं नास्तीति दर्शितमेव । तच्च युक्तं सम्बन्धविशेषास्फुरणात् ।
ततोऽङ्गनिर्हीणत्वम् । उपाङ्गेषु च तेषां ब्रह्मज्ञानमेव मुख्यम् ।
तद्अनुशीलनस्वाभाव्यात् । भगवत्ताज्ञानं तु तद्अनुगतम् । तस्या एव
तादृशभावेन तेषामाकर्षणात् । यदुक्तम्आत्मारामाश्च इत्यादौ
इत्थम्भूतगुणो हरिः [भागवतम् १.७.११] इति ।

वस्तुतस्तु प्रीतिसाहाय्ये भगवत्ताया एव मुख्यत्वं तैरनुभूतम् ।
तस्यारविन्दनयनस्य पदारविन्द [भागवतम् ३.१५.४३] इत्यादौ चकार तेषां
सङ्क्षोभमक्षरजुषामपि चित्ततन्वोः इति । तथापि तादृश
स्वभावत्वापरित्यागादुपाङ्गनिर्हीनत्वम् ।

अथ प्रीतिकार्यमपि तेषां निर्हीनत्वम् । यतः प्रायशो भगवत्स्मरणम्
एव तत्कार्यम् । तद्दर्शनं तु कादाचित्कमेव । परिकराणां पुनः साक्षात्
तद्अङ्गसेवादिकमपि सन्ततमेव । अतएव तेषामेव सौभाग्यातिशय
वर्णनम् । श्रीजयविजयशापप्रस्तावे

तस्मिन् ययौ परमहंसमहामुनीनाम् ।
अन्वेषणीयचरणौ चलयन् सहश्रीः ॥ [भागवतम् ३.१५.३७] इत्युक्त्वा,

तं त्वागतं प्रतिहृतौपयिकं स्वपुम्भिस्
तेऽचक्षताक्षविषयं स्वसमाधिभाग्यम् । [भागवतम् ३.१५.३८] इति । तथा

विनतासुतांसे विन्यस्तहस्तम् [भागवतम् ३.१५.४०] इति ।

तथा तदा जयविजययोरेव (पगे ५३) भगवत आत्मीयत्वं स्पष्टमस्ति ।
मुनिषु तु गौरवम् । तत्र श्रीब्रह्मवाक्ये

एवं तदैव भगवानरविन्दनाभः ।
स्वानां विबुध्य सद्अतिक्रममार्यहृद्यः ॥ [भागवतम् ३.१५.३७] इति ।

श्रीवैकुण्ठनाथवाक्ये च

तद्वः प्रसादयाम्यद्य ब्रह्म दैवं परं हि मे ।
तद्धीत्यात्मकृतं मन्ये यत्स्वपुम्भिरसत्कृताः ॥ [भागवतम् ३.१६.४]

तच्च परिकराणां सौभाग्यं स्वयमपि दृष्ट्वा ते मुनयश्च तयोः स्व
कृतशापादलज्जन्त

यं वानयोर्दममधीश भवान् विधत्ते
वृत्तिं नु वा तदनुमन्महि निर्व्यलीकम् ।
अस्मासु वा य उचितो ध्रियतां स दण्डो
येऽनागसौ वयमयुङ्क्ष्महि किल्बिषेण ॥ [भागवतम् ३.१६.२५]

तथा तयोस्तस्यात्मीयत्वेनैव सहकारुण्यमपि मुनिषु निर्गतेषु व्यक्तम्
अस्ति

भगवाननुगावाह यातं मा भैष्टमस्तु शम् ।
ब्रह्मतेजः समर्थोऽपि हन्तुं नेच्छे मतं तु मे ॥ [भागवतम् ३.१६.२९] इति ।

तस्मात्कार्यनिर्हीनत्वमपि । तेभ्यश्च सर्वनिर्हीनत्वेभ्यस्तटस्थान्
अतिक्रम्य परिकराणां प्रीत्य्उत्कर्षो दर्शितः ।

ननु निरुपाधिप्रेमास्पदस्य प्रीतौ परिकरत्वाभिमान उपाधिः स्यात् ।
ततो ज्ञानात्मिकां सामान्यां च प्रीतिमपेक्ष्य तद्अभिमानिप्रीतयो गौण्य
एव स्युः । किं च ममतायाः प्रीतिहेतुत्वे जाते च यस्यात्मनः सम्बन्धात्
प्रीतिर्भवेत्तस्मिन्नेव तद्आधिक्यं स्यात् । नैवं श्रीभगवतो येन
स्वभावेनैवानुभूतेनाभिमानविशेषं विनापि तेषां प्रीतिरुदयते तेनापि
परिकराणामुदयते । तथा निजस्वभावसिद्धो वा तात्कालिको वा
योऽभिमानविशेषस्तेनाप्युदयते । समुच्चये को विरोधः । प्रत्युतोल्लास
एव । तत्र भगवत्स्वभावमयत्वं भक्ततात्कालिकाभिमान
विशेषमयत्वं चाह

गोगोपीनां मातृतास्मिन्नासीत्स्नेहर्धिकां विना ।
पुरोवद्[भागवतम् १०.१३.२५] इति । स्पष्टम् ।

॥ १०.१३ ॥ श्रीशुकः ॥ ९२ ॥

[९३]

उभयस्वभावमयत्वमाह

यथा भ्राम्यत्ययो ब्रह्मन् स्वयमाकर्षसन्निधौ ।
तथा मे भिद्यते चेतश्चक्रपाणेर्यदृच्छया ॥ [भागवतम् ७.५.१४]

स्पष्टम् ।
॥ ७.५ ॥ श्रीप्रह्लादः ॥ ९३ ॥

[९४]

किं च भक्ताभिमानविशेषमयश्च प्रेमा भगवत्स्वभावाविर्भूत
एवेति ब्रूमः । भगवति हि स्वरूपसिद्धाः सर्वे प्रकाशा नित्यमेव
वर्तन्ते इति श्रीभगवत्सन्दर्भादौ दर्शितमस्ति । आगमादावपि
नानोपासनाः श्रूयन्ते । तत्र यथा यत्र प्रकाशस्तथा तत्राभिमान
विशेषमयी प्रीतिरुदयते । प्रकाशवैशिष्ट्यहेतुश्च भक्तविशेषसङ्ग
एव नित्यसिद्धेषु तु नित्यसिद्ध एव तथाप्रकाशः प्रीतिरभिमानश्च ।

अथ प्रीत्यैव सहोदयात्तादृशोऽभिमानोऽपि प्रीतिवृत्तिविशेष इत्युक्तम् ।
तस्मादपि न तत्समवायेन प्रीतिहानिः प्रत्युतात्यन्तसन्निकर्ष
व्यञ्जकेन तत्तद्अभिमानेन तस्या उल्लास एव । किं च लौकिकोऽपि ममता
विशेष आत्मनोऽप्याधिक्येन स्वास्पदे प्रीतिं जनयति । पुत्राद्य्अर्थमात्म
व्ययादिकं दृश्यते । तथैवोक्तं व्रजेश्वरं प्रति श्रीभगवतैव पित्रोर्
अप्यधिका प्रीतिरात्मजेष्वात्मनोऽपि हि [भागवतम् १०.४५.२१] इति । भगवद्विषया
ममता तु स्वात्मगततदीयाभिमानविशेषहेतुकैव । तद्अभिमान
विशेषश्च तत्स्वभावविशेषहेतुक इत्युक्तम् । स च प्रथमम्
आविर्भवति । तद्अनन्तरमेव ममताविशेष आविर्भवतीति । तस्माद्यथा
(पगे ५४) तथा तत्स्वभाव एव तत्प्रीतेर्मूलकारणम्

ब्रह्मन् परोद्भवे कृष्णे इयान् प्रेमा कथं भवेत् ।
योऽभूतपूर्वस्तोकेषु स्वोद्भवेष्वपि कथ्यताम् ॥ [भागवतम् १०.१४.४९] इति राज
प्रश्नोत्तरं श्रीशुकदेवेन श्रीकृष्णप्रीतौ तत्स्वभावसिद्धत्वम्
उक्तम् । तत्स्वभावाविर्भावविशेषाविर्भूतममताविशेषेण तु केवल
ममताहेतुकप्रीतिमतिक्रम्य वैशिष्ट्यं चाभिप्रेतम् । तस्मात्सर्वथा
ममतासम्बन्धेन प्रीते वैशिष्ट्यमेव भवतीति सिद्धम् । भगवत्
सम्बन्धेनात्मन्यपि तेषां प्रीतिर्जायते । तथैवाहुः

सुदुस्तरान्नः स्वान् पाहि कालाग्नेः सुहृदः प्रभो ।
न शक्नुमस्त्वच्चरणं सन्त्यक्तुमकुतोभयम् ॥ [भागवतम् १०.१७.२४]

टीका चन मृत्योर्विभीमः । किन्तु त्वच्चरणवियोगादित्याहुः न
शक्नुम इति इत्येषा । न च त्वच्चरणं निजवियोगभयं न दूरीकर्तुम्
अर्हतीत्याहुः । अकुतोभयमिति । यद्वा तव चर्णसन्निधाने सत्यस्माकं
सर्वमेव सुखाय कल्पते अन्यदा तु दुःखायैवेत्याहुः । न विद्यते
कुतश्चिद्भयं येनेति ।

॥ १०.१७ ॥ श्रीव्रजौकसः श्रीभगवन्तम् ॥ ९४ ॥

[९५]

तथा तत्प्रीतेरेव तत्तद्अभिमानोल्लासित्वम् । ततः श्रीभगवतोऽपि तत्तद्
अभिमानित्वमाह एष वै भगवान् साक्षाद्[भागवतम् १.९.१८] इत्यादौ

यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् ।
अकरोः सचिवं दूतं सौहृदादथ सारथिम् ॥
सर्वात्मनः समदृशो ह्यद्वयस्यानहङ्कृतेः ।
तत्कृतं मतिवैषम्यं निरवद्यस्य न क्वचित् ॥
तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम् ।
यन्मेऽसूंस्त्यजतः साक्षात्कृष्णो दर्शनमागतः ॥ [भागवतम् १.९.२०२२]

सौहृदात्तादृशप्रेम्ण एव हेतोः । यं मातुलेयं मन्यसे प्रियं प्रीति
विषयं मित्रं प्रीतिकर्तारं सुहृत्तममुपकार्नानपेक्षोपकारकं च
मन्यसे । अथ सारथिं सारथिमपीत्यर्थः । स एष साक्षाद्भगवानित्य्
आदिकः पूर्वेणान्वयः ।

ननु भवतु प्रीतिविशेषेणास्माकं तस्मिंस्तथा मतिस्तस्य सर्वेषां
परमात्मनस्तस्मादेव समदृशः परमात्मत्वादेव सर्वेषां तच्
छक्तिवैभवरूपाणामात्मनां ततोऽनन्यत्वादद्वयस्य तस्मादेव
मातुलेयोऽहमित्याद्य्अभिमानशून्यस्य, तथा निर्दोषस्य च कथमहम्
अस्य मातुलेयः । न त्वमुषेत्वादिरूपं मातुलेयत्वादिकृतं मति
वैषम्यं स्यादित्यादिपूर्वपक्षोट्टङ्कनपूर्वकं सिद्धान्तयति
सर्वात्मन इत्यादि द्वाभ्याम् ।

यद्यपि तादृशस्य तन्न सम्भवति तथापि हे भूप एकान्तभक्तेषु
युष्मासु अनुकम्पां पश्य । येषां भक्तिविशेषेण परवशः सन्नसावपि
तथा तथात्मानं बाढमेवाभिमन्यत इत्यर्थः । यः खलु शरीरस्यापि
सम्बन्धहेतुः सोऽभिमान एव हि सम्बन्धहेतुर्मुख्यः, न शरीरम् ।
एवं सति, स्वाविर्भावादिना शरीरसम्बन्धेऽपि तस्य मातुलेयत्वादिकं
सुतरामेव सिध्यतीति तात्पर्यम् । तत्र हेतुगर्भो दृष्टान्तः यन्मेऽसून्
इति । यस्मात्युष्मत्सम्बन्धादेव हेतोः ।

तदेवं परमोपादेयत्वज्ञानादेव तत्सम्बन्धात्मक एव श्री
भगवानुत्क्रान्तावपि मुहुरेव निजालम्बनीकृतः विजयसखे रतिरस्तु
मेऽनवद्या [भागवतम् १.९.३३] इति, पार्थसखे रतिर्ममास्तु [भागवतम् १.९.३५] इति, विजय
रथकुटुम्बः [भागवतम् १.९.३९] इत्यारभ्य भगवति रतिरस्तु मे मुमूर्षोः
इति च ।

॥ १.९ ॥ भीष्मः श्रीयुधिष्ठिरम् ॥ ९५ ॥

[९६]

तमेवाभिमानममताभ्यां प्रीतेरतिशयं दर्शयति (पगे ५५)

राजन् पतिर्गुरुरलं भवतां यदूनां
दैवं प्रियः कुलपतिः क्व च किङ्करो वः ।
अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो
मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् ॥ [भागवतम् ५.६.१८]

यस्यामेव कवयः [भागवतम् ५.६.१७] इत्यादि प्राक्तनगद्ये मुक्त्य्अधिकतया
सामान्या प्रीतिलक्षणभक्तिरुक्ता । अत्र तु हे राजन् भवतां यदूनामपि
पत्य्आदिरूपो भगवान् । एवं नाम दूरेऽस्तु श्रीभगवतस्तादृशत्व
प्रापकस्य प्रेमविशेषस्यास्य वार्ता सर्वेषामपि दूरे स्थितेत्यर्थः ।
यतोऽन्येषां नित्यं भजतामपि मुकुन्दोऽसौ मुक्तिमेव ददाति, न तु
भक्तियोगं पूर्वोक्तमहिमप्रीतिसामान्यमपीति पतित्वादिभावमय्यां
परमवैशिष्ट्यमुक्तम् । अतस्तेष्वेव यत्किञ्चिद्रूपत्वमपि श्री
ब्रह्मणा प्रार्थितं तदस्तु मे नाथ स भूरिभागः [भागवतम् १०.१४.३०] इत्य्
आदिना ।

॥ ५.६ ॥ श्रीशुकः ॥ ९६ ॥

[९७]

अथ परिकराणामपि भावेषु तारतम्यं विवेचनीयं, येषां
भगवत्तैवोपजीव्या । तत्र भगवत्ता तावत्सामान्यतो द्विविधैव ।
परमैश्वर्यरूपा परममाधुर्यरूपा चेति । ऐश्वर्यं प्रभुता ।
माधुर्यं नाम च शीलगुणरूपवयोलीलानां सम्बन्धविशेषाणां च
मनोहरत्वं, परमत्वं च चासमोर्ध्वत्वम् ।

अथ भक्तादिचतुर्विधाः परिकराअपि द्विविधाः । परमैश्वर्यानुभव
प्रधानाः परममाधुर्यानुभवप्रधानाश्च । तत्रैश्वर्यमात्रस्य
साध्वससम्भ्रमगौरवबुद्धिजनकत्वं माधुर्यमात्रस्य प्रीति
जनकत्वमिति सर्वानुभवसिद्धमेव । ततस्तत्रैश्वर्यमाधुर्ययोः
परमत्वमिति ताभ्यां यथासङ्ख्यं साध्वसादीनां प्रीतेश्च
परमत्वमेव स्यात् । अतएव
देवकी वसुदेवश्च विज्ञाय जगद्ईश्वरौ ।
कृतसंवन्दनौ पुत्रौ सस्वजाते न शङ्कितौ ॥ [भागवतम् १०.४४.५१]

पितरावुपलब्धार्थौ विदित्वा पुरुषोत्तमः ।
मा भूदिति निजां मायां ततान जनमोहिनीम् ॥
उवाच पितरावेत्य साग्रजः सात्वतर्षभः ।
प्रश्रयावनतः प्रीणन्नम्ब तातेति सादरम् ॥ [भागवतम् १०.४५.१२] इत्याद्य्
अनन्तरम्,

इति मायामनुष्यस्य हरेर्विश्वात्मनो गिरा ।
मोहितावङ्कमारोप्य परिष्वज्यापतुर्मुदम् ॥
सिञ्चन्तावश्रुधाराभिः स्नेहपाशेन चावृतौ ।
न किञ्चिदूचतू राजन् बाष्पकण्ठौ विमोहितौ ॥ [भागवतम् १०.४५.१०११]

उपलब्धो जातो जगदीश्वरत्वलक्षणोऽर्थो याभ्यां तथाभूतौ ज्ञात्वा ।
माभूदिति । समारूढपितृत्वपदवीकत्वेन ज्ञानिभक्तजनकेवल
भक्तजनादिदुर्लभपरमप्रेमैकयोग्ययोस्तयोस्तद्आच्छादकं तज्
ज्ञानं न भवत्विति निजां मायामावरणशक्तिं निज
जगदीश्वरत्वाच्छादनाय ततान विस्तारितवान् । तद्अनन्तरं निजतादृश
प्रेमपोष्कं माधुर्यमेव व्यञ्जितवानित्याह उवाचेत्यादि ।

अथवा माया दम्भे कृपायां च इति विश्वप्रकोशात्निजां स्वविषयां
मायां कृपां तद्आत्मिकां वात्सल्याख्यां प्रीतिं तयोस्ततान
आविर्भावितवान् । कीदृशीं या निजमाधुर्येण सर्वमेव जनं मोहयति
ताम् । कथं ततानेत्याशङ्क्य निजैश्वर्याच्छादकनिजमाधुर्य
प्रकाशनेनेत्याह उवाचेति ।

अथवा माया वयुनं ज्ञानमिति निघण्टुदृष्ट्या निजां तादृशप्रेम
जनकत्वेनान्तरङ्गां मायां निजमाधुर्यज्ञानं ततान । तत्प्रकारम्
आह उवाचेति । मायामनुष्यस्याशेषविद्याप्रचुरस्य नराकृतिपर
ब्रह्मण इति ।

॥ १०.४५ ॥ श्रीशुकः ॥ ९७ ॥

[९८]

तदेवं पारमैश्वर्यस्य भक्तौ यत्क्वचिदुद्दीपनत्वं, तत्तु
सम्भ्रमगौरवादि तद्अवयवस्यैव । तत्राप्यवयविनि प्रीत्यंशे तु
माधुर्यस्यैवोद्दीपनत्वम् । उभयसमाहारस्य पुनः परमेश्वर
(पगे ५६) भक्तिजनकत्वमिति विवेक्तव्यम् ।

तदेवं माधुर्यस्यैव प्रीतिजनकत्वे स्थिते तद्अनुभवश्च श्रीमद्
गोकुलस्य स्वभावसिद्धः । आगन्तुकः खल्वैश्वर्यानुभवः । तथैव
श्रीगोवर्धनोद्धरणानन्तरे

एवंविधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते ।
अतद्वीर्यविदः प्रोचुः समभ्येत्य सुविस्मिताः ॥ [भागवतम् १०.२६.१] इत्य्आद्य्
अध्याये,

दुस्त्यजश्चानुरागोऽस्मिन् सर्वेषां नो व्रजौकसाम् ।
नन्द ते तनयेऽस्मासु तस्याप्यौत्पत्तिकः कथम् ॥ [भागवतम् १०.२६.१३]

इति श्रीगोपगणप्रश्ने, श्रीव्रजेश्वरेण च तद्ऐश्वर्यमाप्तवाक्य
द्वारैव तेषां समाधानायोक्तं, माधुर्यं तु स्वानुभवसिद्धत्वेन
व्यञ्जितम् । यथाह

श्रूयतां मे वचो गोपा व्येतु शङ्का च वोऽर्भके ।
एनं कुमारमुद्दिश्य गर्गो मे यदुवाच ह ॥ [भागवतम् १०.२६.१५] इत्यादि,

इत्यद्धा मां समादिश्य गर्गे च स्वगृहं गते ।
मन्ये नारायणस्यांशं कृष्णमक्लिष्टकारिणम् ॥ [भागवतम् १०.२६.२३] इत्यन्तम् ।

अथ गर्गो मां यदुवाच ह इति शब्दद्वारा परोक्षं ज्ञानमुक्तम् ।
तत्रापि मन्ये इति वितर्क एव । अर्भककुमारशब्दप्रयोगस्तु बालभाव
मयमाधुर्ये स्वस्वभावानुभवस्य सूचक इत्यवगम्यते ।

॥ १०.२६ ॥ श्रीव्रजेश्वरः ॥ ९८ ॥

[९९]

तथा मत्कामा रमणं जारमस्वरूपविदोऽबलाः [भागवतम् ११.१२.१३] इति श्री
भगवता चोक्तम् । न चैवं तेषामज्ञानं च वक्तव्यम् । माधुर्य
ज्ञानेनैव परमभगवत्ताज्ञानसद्भावात् । यत एव तेषाम्
अन्यत्रानावेशः ।
यदेव खल्वात्मारामाणामपि मोदनम् । न च सर्वापि भगवत्ता
सर्वेणोपास्यते अनुभूयते वा । अपि तु स्वस्वाधिकारप्राप्तैव अनन्तत्वाद्
अनुपयुक्तत्वाच्च । अतएव वेदान्तेऽपि गुणोपासनावाक्येषु तत्तद्विद्यायां
गुणसमाहारः पृथक्पृथगेव सूत्रकारेण व्यवस्थापितः ।
तथैवोक्तं

यस्य यस्य हि यः कामस्तस्य तस्य ह्युपासनम् ।
तादृशानां गुणानां च समाहारं प्रकल्पयेत् ॥ इति ।

तथा मल्लानामशनिः [भागवतम् १०.४३.१७] इत्यादौ च टीका चूर्णिकातत्र च
शृङ्गारादिरसकदम्बमूर्तिर्भगवांस्तत्तद्अभिप्रायानुसारेण
बभौ, न साकल्येन सर्वेषामित्याह इत्येषा । अत्र परमतत्त्वतया
जानतामपि न सम्यग्ज्ञानमित्यायातम् । युक्तं चेदं तत्तन्माधुर्य
विशेषाननुभवात् । माधुर्यानुभाविनां भक्तानां तु यस्यास्ति भक्ति
भगवत्यकिञ्चना सर्वैर्गुणैस्तत्र समासते सुराः [भागवतम् ५.१८.१२] इत्यादि
न्यायेनानादृतमपि सर्वं ज्ञानं समयप्रतीक्षकमेव स्यात् ।
पूर्वत्रैव पद्ये तेषां परमविद्वत्तामभिप्रैति । यथा

मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान्
गोपानां स्वजनोऽसतां क्षितिभुजां शास्ता स्वपित्रोः शिशुः ।
मृत्युर्भोजपतेर्विराडविदुषां तत्त्वं परं योगिनां
वृष्णीनां परदेवतेति विदितो रङ्गं गतः साग्रजः ॥ [भागवतम् १०.४३.१७]

अत्र खलु पद्ये त्रिविधा जना उक्ताः प्रतिकूलज्ञानाः, मूढाः, विद्वांसश्
च । तत्र निरुपाधिपरमप्रेमास्पदतास्वभावे तस्मिन् विरोधलिङ्गेन
मल्लानां कंसपक्षीयासत्क्षितिभुजां कंसस्य च प्रतिकूलज्ञानत्वं
बोध्यते । विराडविदुषामिति पृथग्उपादानेन (पगे ५७) विराट्त्व
ज्ञानिनामेव मूढत्वम् । पारिशेष्यप्रमाणेनान्येषां तु विद्वत्तैव । तत्र
विराट्त्वं नाम विराद्अंशेभौतिकदेहत्वं यत्किञ्चिन्नरदारकत्वमित्य्
अर्थः । अतस्तत्र मूढता । ते च भगवद्याच्ञामश्रद्दधानैर्याज्ञिक
विप्रैः सदृशाः ।

केचित्तद्अवज्ञातारो न द्वेष्टारो न च प्रीयमाणाः । अत्र तेषां भौतिकत्व
स्फूर्तौ भक्तानां जुगुप्सां जायत इति बीभत्सरसश्च भगवता पोष्यते ।
नरवरत्वे तु तन्माधुर्यप्रभावयोरंशेनैव नरेषु तस्य
श्रेष्ठत्वमनुभूतमिति तद्अनुभवसद्भावात्साधारणनॄणामपि
विद्वत्ता । अतएव च सामान्यभक्ताः । यथैव तेषां प्रीतिर्वर्णिता ।

निरीक्ष्य तावुत्तमपुरुषौ जना
मञ्चस्थिता नागरराष्ट्रका नृप ।
प्रहर्षवेगोत्कलितेक्षणाननाः [भागवतम् १०.४३.२०] इत्यादिना ।

एतेषां प्रजात्वेऽपि प्रायस्तदानीमजातममत्वान्न पाल्यान्तःप्रवेशः ।
अथैवं तेषामपि विद्वत्तायामन्येषां सुतरामेव सा । तत्रापि किमुत
श्रीगोपानाम् । तथा हि तत्र नॄणां सामान्यभक्तानां योगिनां तल्लीला
दिदृक्षागताकाशादिस्थितचतुःसनप्रभृतिज्ञानिभक्तानां च ममत्व
सूचकपदविन्यासो न कृतः । तथा
तद्बलाबलवद्युद्धं समेताः सर्वयोषितः ।
ऊचुः परस्परं राजन् सानुकम्पा वरूथशः ॥ [भागवतम् १०.४४.६] इत्यादौ ।

क्व व्रजसारसर्वाङ्गौ [भागवतम् १०.४४.८] इत्यादितद्
वाक्योदाहृतानुकम्पामयपरमप्रीतिविकाराणां नानाभावस्त्रीणां
मध्ये स्मरत्वेन विदितकृष्णानां गोप्यस्तपः किमचरन् [भागवतम् १०.४४.१४]
इत्यादिकगिरां स्त्रीविशेषाणां कान्तभावाख्यप्रीतेर्लोकप्रसिद्ध
स्मरेणापि मिश्रत्वेन श्रीव्रजदेवीवच्छुद्धत्वाभावः । तत्काल
दृष्टत्वेन ममत्वाभावश्चागतश्च । वृष्णिपितृगोपानां तु तत्तच्
छब्दैर्ममताविशेषः सूचितः ।

तस्मादेतेष्वेव परममाधुर्यानुभवेषूत्तमत्वं मतम् । तत्र च
गोपानां स्वजनो वृष्णीनां परदेवतेत्यनेन श्रीगोपानां बान्धव
भावापादकमाधुर्यज्ञानं स्वाभाविकं, वृष्णीनां तु पर
देवताभावापादकैश्वर्यज्ञानं स्वाभाविकमित्यङ्गीकृतम् ।
सम्बन्धाद्वृष्णयः [भागवतम् ७.१.३०] इति तु तथा गौणस्यापि बन्धुभावस्य
तद्अनुगतौ स्वतः प्राबल्यापेक्षयोक्तम् ।

किं च, तेषु यथा कंसादयः प्रतिकूलज्ञाना वृष्ण्य्अधमाः ।
तथैवाविद्वांसः शतधन्वप्रभृतयः सन्ति । तद्अपेक्षयैव न यं
विदन्त्यमी भूपा एकारामाश्च सात्वताः [भागवतम् १०.८४.२३] इत्यादिकं ज्ञेयम् ।

अत उत्तमवृष्णितया सामान्यतो लब्धमैश्वर्यज्ञानमुत्तममेव श्री
वसुदेवदेवक्योः सम्मतम् । ततः तत्संसृष्टत्वेऽपि लीलाविशेषादेव
पित्रोः शिशुरित्यनेन माधुर्यज्ञानं व्यज्यते । अतो गौणत्वादेव

नातिचित्रमिदं विप्रा
वसुदेवो बुभुत्सया ।
कृष्णं मत्वार्भकं यन्नः
पृच्छति श्रेय आत्मनः ॥ [भागवतम् १०.८४.३०] इत्यादौ श्रीनारदेन तन्
नानुमोदितम् ।

राज्ञा तु स्वाभाविकत्वात्श्रीव्रजेश्वरयोस्तद्अनुमोदितम् । नन्दः किम्
अकरोद्ब्रह्मन् [भागवतम् १०.८.४६] इत्यादौ । तयोरैश्वर्यज्ञानस्य
स्वाभाविकत्वं च जन्मक्षणमारभ्य तादृशस्तुत्य्आदौ प्रसिद्धम् ।
अतएवअ पितरावुपलब्धार्थो विदित्वा [भागवतम् १०.४५.१] इत्यत्र टीकाकारैरपि
तयोरैश्वर्यज्ञानं सिद्धमेव । पुत्रतया प्रेम तु दुर्लभमित्य्
उक्तम् । तथा श्रीगोपानां स्वजनत्वं सामान्यतो निर्दिष्टम् । तच्च वृष्णि
कंसादिवन्न व्रजे क्वचिदपि (पगे ५८) जने व्यभिचरति

आबालवृद्धवनिताः सर्वेऽङ्ग पशुवृत्तयः ।
निर्जग्मुर्गोकुलाद्दीनाः कृष्णदर्शनलालसाः ॥ [भागवतम् १०.१६.१५] इत्यादि
दर्शनात् ।

तदेवं सति स्वयमेव गोपराजे कदाप्यव्यभिचारिवात्सल्ये वैशिष्ट्यम्
आयातमिति तस्यापि शिशुरिति किं वक्तव्यमिति भावः ।

॥ १०.४३ ॥ श्रीशुकः ॥ ९९ ॥

[१००]

तदेवं परममाधुर्यातिशयानुभवस्वभावत्वेन परमज्ञानित्वम्
एव श्रीगोपालानामङ्गीकृतम् । अतएव दृष्टचतुर्भुजाद्य्अनन्ततद्
आविर्भावेनापि ब्रह्मणा तेषामालम्बनं रूपमेव निजालम्बनीकृतम्
नौमीड्य तेऽभ्रवपुषे [भागवतम् १०.१४.१] इत्यादिना । तेषामपि यत्
स्वभावत्वेनैव चागन्तुकादन्यज्ञानात्नासौ प्रीतिर्व्यभिचरति । प्रत्युत
तदेव तिरस्करोति । तेनानतरायप्राये वर्धते च विषयिणां विषयप्रीतिर्
इव । यतो विषयिणां विषयेषु सदोषत्वे श्रुते दृष्टेऽपि रागप्राप्त
गुणवत्त्वबुद्धिः प्रबला दृश्यते । तथैवोक्तं या प्रीतिरविवेकानां
[Vइড়् १.२०.१९] इति । अत्र च श्रीसङ्कर्षणं प्रति श्रीमन्नन्दयशोदा
वचनम्

चिरं नः पाहि दाशार्ह सानुजो जगद्ईश्वरः ।
इत्यारोप्याङ्कमालिङ्ग्य नेत्रैः सिषिचतुर्जलैः ॥ [भागवतम् १०.६५.३] इत्य्आदि ।

येन वसुदेवपुत्रत्वे क्षत्रियत्वे परमेश्वरत्वे च व्यक्ते श्री
बलदेवस्यापि तत्पुत्रोचितभावो नान्यथा ज्ञातः । यथा तत्पूर्वमुक्तम्

बलभद्रः कुरुश्रेष्ठ भगवान् रथमास्थितः ।
सुहृद्दिदृक्षुरुत्कण्ठः प्रययौ नन्दगोकुलम् ॥
परिष्वक्तश्चिरोत्कण्ठैर्गोपैर्गोपीभिरेव च ।
रामोऽभिवाद्य पितरावाशीर्भिरभिनन्दितः ॥ [भागवतम् १०.६५.१२] इति ।

परमैश्वर्यादिज्ञानस्वभावानामपि प्रीतिप्राबल्यमये तत्तिरस्कारो
दृश्यते । यथा श्रीदेवहूत्याः

वनं प्रव्रजिते पत्यावपत्यविरहातुरा ।
ज्ञाततत्त्वाप्यभून्नष्टे वत्से गौरिव वत्सला ॥ [भागवतम् ३.३३.२१] इति ।

श्रीदेवकीदेव्याःसमुद्विजे भवद्धेतोः कंसादहमधीरधीः [भागवतम्
१०.२.२९] इति । श्रीयुधिष्ठिरस्य

अजातशत्रुः पृतनां गोपीयाय मधुद्विषः ।
परेभ्यः शङ्कितः स्नेहात्प्रायुङ्क्ते चतुरङ्गिणीम् ॥ [भागवतम् १.१०.३२]

इयं च तस्य प्रशंसामर्थमेवोक्तम्
अथ दूरागतान् शौरिः
कौरवान् विरहातुरान् ।
संनिवर्त्य दृढस्निग्धान्
प्रायाद्स्वनगरीं प्रियैः ॥ [भागवतम् १.१०.३३] इत्युक्तवाक्येऽपि तादृग्
अभिप्रायात् ।

तथा श्रीसङ्कर्षणस्य च
श्रुत्वैतद्भगवान् रामो विपक्षीयनृपोद्यमम् ।
कृष्णं चैकं गतं हर्तुं कन्यां कलहशङ्कितः ॥
बलेन महता सार्धं भ्रातृस्नेहपरिप्लुतः ।
त्वरितः कुण्डिनं प्रागाद्गजाश्वरथपत्तिभिः ॥ [भागवतम् १०.५३.२०२१]
भगवान् सर्वज्ञोऽपीत्यर्थः । अतएव कृष्णं महाबकग्रस्तं दृष्ट्वा
रामादयोऽर्भकाः [भागवतम् १०.११.४९] इत्यादिकमपि ।

तदेवं माधुर्यज्ञानस्यैव बलवत्सुखमयत्वे स्थिते तस्मिंश्च श्री
गोपानामेव स्वाभाविकतया लब्धे ब्रह्मत्वेश्वरत्वानुभवमतिक्रम्य
तेषामेव भाग्येन श्रीशुकदेवोऽपि युक्तमेव चमत्कृतिमवाप इत्थं
सतां ब्रह्मसुखानुभूत्या [भागवतम् १०.१२.११] इत्यादौ, नेमं विरिञ्चो न
भवः [भागवतम् १०.९.२०] इत्यादौ, नायं सुखाप इत्यादिकस्य गोपिकासुत [भागवतम्
१०.९.२१] अत्र, नायं श्रियोऽङ्ग [भागवतम् १०.४७.६०] इत्यादौ च । क्वचिच्च तादृश
स्वभावेषु तेष्वैश्वर्यप्रकटनमपि विस्मयद्वारा माधुर्यज्ञानम्
एव पुष्णाति । अस्माकं पुत्रादि (पगे ५९) रूपोऽयं कथमीदृशक्रियावान्
इति । तथा

नन्दादयस्तु तं दृष्ट्वा परमानन्दनिर्वृताः ।
कृष्णं च तत्र च्छन्दोभिः स्तूयमानं सुविस्मिताः ॥ [भागवतम् १०.२८.१७] इत्यादि ।

तदेवं शुद्धत्वाच्छ्रीगोकुलबालिकानामेव प्रीतिः प्रशस्ता । यथोक्तं
एषां घोषनिवासिनामुत भवान् [भागवतम् १०.१४.३५] इति । यत्रैव पशूनामपि
परमः स्नेहो दृश्यते । यथा कालीह्रदावगाहे

गावो वृषा वत्सतर्यः क्रन्दमानाः सुदुःखिताः ।
कृष्णे न्यस्तेक्षणा भीता रुदत्य इव तस्थिरे ॥ [भागवतम् १०.१६.११] इति ।

तथा तत उत्थाने नरा गावो वृषा वत्सा लेभिरे परमां मुदाम् [भागवतम्
१०.१७.१६] इति । तथा स्थावराणामपि तत्रैव कृष्णं समेत्य लब्धेहा आसन्
शुष्का नगा अपि [भागवतम् १०.१७.६५] इति ।

अतएव श्रीब्रह्मणापि प्रार्थितम्
तद्भूरिभाग्यमिह जन्म किमप्यटव्यां
यद्गोकुलेऽपि कतमाङ्घ्रिरजोऽभिषेकम् । [भागवतम् १०.१४.३४] इति ।

तदेवं परममाधुर्यैकज्ञाननिधौ श्रीमति गोकुलेऽपि अनुगता
बान्धवाश्चेति द्विविधानां तत्प्रियाणां मध्ये ममताविशेषधारित्वाद्
अन्त्यानां महानेवोत्कर्षः । यथोक्तं अहो भाग्यमहो भाग्यम् [भागवतम्
१०.१४.३२] इत्यादिना । अत्र व्रजौकसां कनिष्ठेष्वपि तेन मित्रतया स्वीकार
इति यदुच्यते तत्खलु मित्रतायाः प्रशंसामेवावहतीति ।

अथ तेष्वपि सखीनां तावदुत्कर्षमाह

इत्थं सतां ब्रह्मसुखानुभूत्या
दास्यं गतानां परदैवतेन ।
मायाश्रितानां नरदारकेण
साकं विजह्रुः कृतपुण्यपुञ्जाः ॥ [भागवतम् १०.१२.११]

सतां ज्ञानिनां ब्रह्मत्वेन स्फुरंस्तावद्विरलप्रचारः । दास्यं
गतानां
मुक्तानामपि सिद्धानां नारायणपरायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥ [भागवतम् ६.१४.३५]
इत्यनुसारेण परदैवत्वेन स्फुरंस्ततोऽपि विरलप्रचारः । मायाश्रितानां
तु ज्ञानभक्तिमैत्रीहीनानां चिद्एकरूपत्वेन न स्फुरति । न च
परमेश्वरत्वेन, न च प्रेमास्पदत्वेन । ततस्तदीयासाधारणतास्फूर्तौ
योग्यताश्रयाभावात् । अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्
[गीता ९.११] इति न्यायेन अलभ्य एवेति पादत्रयेण तस्योदयमात्र
दौर्लभ्यं विवक्षितम् ।

ततश्चैवम्भूतो योऽसुलभस्फूर्तिः श्रीकृष्णस्तेन समं साक्षादेव
प्रेमभूमिकोत्कर्षमधिरूढेन परमसख्येनापि विजह्रुरिति श्री
शुकदेवस्य चमत्कारः ।

अथवा योऽयमहो तदानीं विषूचीनया कृपया मायाश्रितानां साधारण
जनानामपि दर्शितसर्वाकारातिक्रमित्माहात्म्येन साक्षान्नराकृतिपर
ब्रह्मत्वेन स्फुरंस्ततोऽपि तथा तथा लब्धे लाभे बन्धुभावस्तु तैर्
न लब्धः । सखायस्तु तथाभूतेन तेन सार्धं बन्धुभावोत्कर्ष
रूपेण सख्येन विजह्रुरित्यतस्त एव कृतपुण्यपुञ्जाः श्रीभगवत्
पारितोषिकानेकसत्कर्मकारिवृन्देषु परमश्रेष्ठा इत्यर्थः । अतएव
बान्धवान्तरेषु नेदृशं सख्यमस्तीति तेभ्योऽपि माहात्म्यमायातम् ।
अतएव किमेषां सखीनां साक्षात्तेन समं प्रणयलक्षणहार्द
विशेषेण विहरतां (पगे ६०) भाग्यं वर्णनीयम् । ये साधारणा अपि व्रज
वासिनस्तेषामप्यास्तां तत्तदन्यद्भाग्यम् । तद्दर्शनमात्र
भाग्यमपि परेषां महामुनीनां परमदुर्लभमेवेत्यभिप्रायेण
यत्पादांशुर्बहुजन्मकृच्छ्रत [भागवतम् १०.१२.१२] इत्यनन्तरपद्यमपि
व्याकृत्यैतदेव सखीनां महाभाग्यवर्णनं पोषणीयम् ।
अतएवाक्रूरेण अथावरूढ [भागवतम् १०.३८.१५] इत्यत्र नमस्य आभ्यां च सखीन्
वनौकस इति चोक्तम् ।

तदेतत्तावदस्तु येषु सखिषु वत्सेष्वपि ब्रह्मणा हृतेषु अन्यान् सृज्यां
तत्तुल्यान् दृष्ट्वा स्वयमेवैतत्तया बभूव । तेष्वपि परितोषमप्राप्य
तान् सखीनेवानिनायेत्यप्यनुसन्धेयम् ।

॥ १०.१२ ॥ श्रीशुकः ॥ १०० ॥

[१०१]

अथ तेभ्योऽपि श्रीपित्रोरुक्तं

ततो भक्तिर्भगवति पुत्रीभूते जनार्दने ।
दम्पत्योर्नितरामासीद्गोपगोपीषु भारत ॥ [भागवतम् १०.८.५१] इत्यनेन ।

भक्तिः प्रेम । नितरां स्नेहरागपराकाष्ठाध्यारूढत्वात् । गोपाः
सर्वे । गोप्यस्तत्प्रेयसीवर्गवनिताः । वक्ष्यमाणानुरोधात् । अथ
सर्वेभ्योऽपि मुनिगणप्रशस्तत्या सर्वतोऽपि प्रेमप्रणयमानराग
वैशिष्ट्यपुष्टया विशेषतोऽनुरागमहाभावसम्पत्तिधारिण्या स्व
प्रीत्या वशीकृतकृष्णानां श्रीव्रजदेवीनां त्वसमोर्धमेव तद्
वैभवम् । एतत्क्रमेणैवोद्धवस्याप्यनुज्ञापनक्रमो दृश्यते । यथा


अथ गोपीरनुज्ञाप्य यशोदां नन्दमेव च ।
गोपानामन्त्र्य दाशार्हो यास्यन्नारुरुहे रथम् ॥ [भागवतम् १०.४७.६४] स्पष्टम् ।

॥ १०.४७ ॥ श्रीशुकः ॥ १०१ ॥

[१०२]

अतएव सर्वमपि श्रीगोकुलमतिक्रम्य

दृष्ट्वैवम्आदि गोपीनां कृष्णावेशात्मविक्लवम् ।
उद्धवः परमप्रीतस्ता नमस्यन्निदं जगौ ॥

एताः परं तनुभृतो भुवि गोपवध्वो
गोविन्द एव निखिलात्मनि रूढभावाः ।
वाञ्छन्ति यद्भवभियो मुनयो वयं च
किं ब्रह्मजन्मभिरनन्तकथारसस्य ॥ [भागवतम् १०.४७.५७५८]

परं केवलमेतास्तनुभृतः सफलजन्मानः । अतोऽखिलमात्मनि
परमात्मत्वेन सर्वेषामपि दुर्लभस्फूर्तिमात्रे स्वसन्निधौ तु
गोविन्दे साक्षात्श्रीगोकुलेन्द्रतया विराजमाने एवमीदृशभावविशेष
माधुर्येण रूढभावाः उद्भूतमहाभावा जाताः । यदेव
महाभावतात्पर्यान्तगतिसमर्थं भावविशेषमाधुर्यं यदि
यदृच्छया वर्णनद्वारा कर्णगोचरं स्यात्, तदा स्वस्वभावं परित्यज्य
यदयं भावं प्रेम्णः पराकाष्टेयमित्यनुभावमहिमद्वारा
वितर्क्य भवभियो मुमुक्षवो मुनयो प्राप्नुमः । एतासामिवास्माकं
तन्माधुर्यविशेषास्वादयोग्यत्वाभावादिति भावः । तत्र तद्अवाञ्छकं
निन्दति । अनन्तस्यानन्तलीलस्य श्रीकृष्णस्य कथासु कथामात्रेषु किमुत
ईदृशीषु कथासु अरसो रसाभावो यस्य तस्य साङ्ख्यैर्विरिञ्चजन्मभिरपि
किं, न किञ्चिदपीत्यर्थः ।

[१०३]

ननु ते मुक्ता मुमुक्षवश्च तत्तद्भावेन शास्त्रप्रशस्ता एव । भक्तास्
त्वतितमाम् । तर्हि तद्विधानां कथमन्यत्र वाञ्छा । तत्राह

क्वेमाः स्त्रियो वनचरीर्व्यभिचारदुष्टाः
कृष्णे क्व चैष परमात्मनि रूठभावः ।
नन्वीश्वरोऽनुभजतोऽविदुषोऽपि साक्षाच्
छ्रेयस्तनोत्यगदराज इवोपयुक्तः ॥ [भागवतम् १०.४७.५९]

तत्र तासु श्रीमद्उद्धवस्योपक्रमोपसंहारादिषु महाभक्तेरेव
स्पष्टत्वात्, तासां श्रीकृष्णभजने व्यभिचारित्वस्य सुतरां तद्दोषस्य च
रासान्ते

गोपीनां तत्पतीनां च
सर्वेषामपि देहिनाम् । (पगे ६१)
योऽन्तश्चरति सोऽध्यक्षः
क्रीडनेनेह देहभाक् ॥ [भागवतम् १०.३३.३५] इत्यादिना निराकृतत्वात् ।
स्वयमेवाधुनापि परमात्मनीति तस्यैव सूच्यमानत्वात् । दुर्धियां मते
वा तासां व्यभिचारशीलत्वस्य तु आर्यपथं हित्वा [भागवतम् १०.४७.६१] इति
प्राप्यस्यैव परित्यागोपपत्तेः स्वयमेव निराक्रियमाणत्वाद्
अन्यथार्थस्याप्रस्ताव्यत्वमिति वक्ष्यमाण एवार्थः समञ्जसः । यथा
इमा वनचर्यः वृन्दावनविहारिण्यः स्त्रियः कृष्णे तद्रूपे आश्रये क्व कां
वा भूमिकामधिकृत्य वर्तन्ते । तया व्यभिचारदुष्टा एतादृश
भावोत्कर्षाभावेन यो व्यभिचारो गाढतद्आसक्त्य्अभावस्तेन दुष्टा
अन्ये भवभीप्रभृतयो वयं वा तस्मिन् क्व कां भूमिकामधिकृत्य
वर्तामहे । ततो महदेवान्तरमिति भावः । कथम् ? एष श्रीगोप
वधूष्वेतासु दृश्यमानः परमात्मनि सर्वेषामेव भजनीयत्वेन
स्पृहास्पदे परमेश्वरे रूढभावः उद्भूतमहाभावः
समुज्जृम्भते । न त्वस्मास्विति ।

तर्हि ताभिरनुभूयमानस्य ताड्शभावजनकस्य श्रीकृष्णगुण
विशेषस्यानभिज्ञा यूयं कथं तद्वाञ्छयापि तत्प्राप्स्यथ, तत्राह नन्व्
इति । अविदुषोऽपि । तत्र ममैव अकस्मात्स्वयमत्र प्रस्थापितस्य
दृष्टान्तत्वमिति भावः । यथोक्तं स्वयमेव विरहेण महाभागा
महान्मेऽनुग्रहः कृतः [भागवतम् १०.४७.२७] इति ।

अथवा पूर्वमेवार्थं तद्रसविमुखीनां महापतिव्रतानामपि
निन्दया द्रढत्यति क्वेमा इति । इमाः श्रीवृन्दावनविहारिण्यः श्रीकृष्ण
प्रेयस्यः स्त्रियः क्व । अकारप्रश्लेषेण याश्च वनचर्यस्तद्वन
विहारिणीभ्यस्ताभ्यो भिन्नाः । अथ च स्त्रियो व्रतिअस्त्वाम् [भागवतम् ५.१८.१९] इत्य्
आदि केतुमालवर्षवर्णनस्थितलक्ष्मीवचनरीत्या परमात्मनि स्वतः
सर्वपतौ श्रीकृष्णे वैमुख्येन व्यभिचारदुष्टाः स्त्रियः क्व । महद्
एवान्तरमिति भावः । यतश्चैतास्वेष सर्वपुरुषार्थशिरोमणिरूपो
रूढभावो दृश्यते न तु तास्विव तल्लेशस्याप्यभाव इति ।

[१०४]

एवं परमप्रेमवतीष्वासुअ तस्य सौदृदमपि परमकाष्ठापन्नं
भवेत् । यतो भक्तमात्राणां स्वभावत एव सुहृदसावित्याह नन्विति ।
किं बहुना

नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः
स्वर्योषितां नलिनगन्धरुचां कुतोऽन्याः ।
रासोत्सवेऽस्य भुजदण्डगृहीतकण्ठ
लब्धाशिषां य उदगाद्व्रजवल्लभीनाम् ॥ [भागवतम् १०.४७.६०]

अङ्गे तदीये श्रीवैकुण्ठनाथाख्यश्रीविग्रहविशेषे परमप्रेयसी
रूपायाः श्रियो या नितान्तरतिः प्रगाढः कान्तभावः तस्या अपि अयं
एतावान् प्रसादः सौख्यप्रकाशो नास्ति । यदि श्रियोऽपि नास्ति तदा नलिनस्य
तत्रत्यदिव्यस्वर्णकमलस्येव गन्धो रूक्कान्तिश्च यासां तादृशीनामपि
स्वर्योषितां वैकुण्ठपुराङ्गनानामन्यासां सुतरामेव नास्ति । ततः
कुतोऽन्याः । अन्याः पुनर्दूरतोऽपि निरस्ता इत्यर्थः । कासामिव कियान्
प्रसादो नास्ति, तत्राह रासेति । अस्य श्रीव्रजेन्द्रनन्दनरूपस्य । यद्
वाञ्छया श्रीर्ललनाचरत्तपः [भागवतम् १०.१६.३६] इत्युक्तदिशा तस्या अपि
स्पृहणीयस्य इत्यर्थः । ततो न केवलं विप्रलम्भ एवासामीदृशो
भावोत्कर्षः परन्तु सम्भोगेऽपि लक्ष्या अपि स्पृहणीयः । तेन मद्
विधानां का वार्ता इति भावः । भुजदण्डगृहीतकण्ठलब्धाशिषां
परमावेशेन गृहीतकण्ठतया प्राप्तपरममनोरथानां रासोत्सवे
वः यावानुदगात्सततं निगूढमन्तः सन्नपि प्राकट्यं प्रापेति । अपि यत्
स्पृहा श्रीः [भागवतम् १०.१५.८] इत्यत्र (पगे ६२) लक्ष्मीस्पर्धामयवाक्ये व्रज
सुन्दरीणामिति सुन्दरीपदविन्यासः सौन्दर्यादिकमपि तासां तद्वद्
अधिकमिति सूचयति । तच्च युक्तं यस्यास्ति भक्तिर्भगवत्यकिञ्चना [भागवतम्
५.१८.१२] इति न्यायेन तद्उत्कर्षत उत्कर्षप्राप्तेः । अत्र सर्वभाव
शिरोमणिना कान्तभावांशेनैवोभयत्र तारतम्यं दर्शितम् । न तु न च
सङ्कर्षणो न श्रीः [भागवतम् ११.१४.१५] इत्यादाविव भक्तिजायात्वांशाभ्याम् ।
ततो नान्येन साधारण्यं मन्तव्यम् । श्रीकृष्णलक्षणस्वयंभगवद्
विषयतया विशेषान्तरं स्वस्त्येवेति ज्ञेयम् ।

[१०५]

तस्मादास्तां तावदासां भावच्छविलाभाभिलाषः । मम त्विदमेव
प्रार्थनीयमिथाह

आसामहो चरणरेणुजुषामहं स्यां
वृन्दावने किमपि गुल्मलतौषधीनाम् ।
या दुस्त्यजं स्वजनमार्यपथं च हित्वा
भेजुर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम् ॥ [भागवतम् १०.४७.६१]

अयमर्थः मय्यासां श्रीकृष्णप्रेमविशेषच्छविस्पर्शोऽपि न
सम्भवत्येव विजातीयजन्मवासनत्वात् । ततश्च साक्षाच्चरणस्पर्शोऽपि
नेति किं वक्तव्यम् । यद्येवं तदासां चरणस्य यो रेणुस्तस्य स्पर्श
भागधेयानां श्रीगुल्मलतौषधीनां मध्ये किमपि यत्किञ्चिद्
अनादृतरूपमिति स्यामिति । अहो इत्यभिलाषकृतहृदयार्तौ ।
कथम्भूतानामित्याह या इति । याः खलु कुलवधूत्वादापातविचारेण
स्वयं दुस्त्यजं स्वजनमार्यपथं च हित्वा रागातिशयेन लोकवेद
मर्यादामुल्लङ्घ्येत्यर्थः । वस्तुतस्तु श्रुतिभिर्विमृग्यां सर्वश्रुति
समन्वयेन परमपुरुषार्थशिरोमणितया निर्णेयामीदृशपरम
प्रेमलक्षणां मुकुन्दस्य प्रस्तुतत्वात्श्रीव्रजेन्द्रनन्दनरूपस्य
पदवीं तदीयसंयोगानन्दपद्धतिं भेजुरिति ।

[१०६]

तदेवमार्यपथं त्यजाम इति तु तासां भ्रम एवेति भावः । य एव तत्
संयोगानन्दः श्रीप्रभृतीनां परमदुर्लभ एवेति स्वयमेव व्यनक्ति ।

या वै श्रियार्चितमजादिभिराप्तकामैर्
योगेश्वरैरपि यदात्मनि रासगोष्ठ्याम् ।
कृष्णस्य तद्भगवतश्चरणारविन्दं
न्यस्तं स्तनेषु विजहुः परिरभ्य तापम् ॥ [भागवतम् १०.४७.६२]

या रासगोष्ठ्यां विराजमानस्य श्रीकृष्णस्य भगवतः परम
माधुर्यसारभगवत्ताप्रकाशिनस्तद्अनिर्वचनीयमाधुर्यक
प्रकृष्टं पदारविन्दं न्यस्तं, तेन स्वयमर्पितं परिरभ्य तापं
साक्षात्तद्अप्राप्तिहेतुकमाधिं जहुः । तत्तु योगेश्वरैर्भक्तियोग
प्रवीणैः श्रीशुकादिभिरपि आत्मनि मनस्येवार्चितम् । यद्वाञ्छया श्रीर्
ललनाचरत्तपः [भागवतम् १०.१६.३६] इत्युक्तदिशा श्रियापि यत्प्राप्तुं मनस्य्
एवार्चितम् । तच्च सदैवानादित एव न तु कदाचिदपि साक्षात्प्राप्तम् । तद्
अश्रवणादिति भावः ।

[१०७]

एवं तासामेव साक्षान्नमस्कारे कृतचित्ततया तथाविधं गायन्नेवासौ
पुनरपि महामहिमस्फूर्तेरतिदैन्यभरसङ्कुचिततया तत्राप्य्
आत्मनोऽनधिकारितां मन्यमानस्तत्पादरेणुमेव नमस्कुर्वन् तत्रापि
दैन्येन तद्एकवर्गसम्बन्धात्साधारणव्रजस्त्रीणामेव नमस्करोति


वन्दे नन्दव्रजस्त्रीणां पादरेणुमभीक्ष्णशः ।
यासां हरिकथोद्गीतं पुनाति भुवनत्रयम् ॥ [भागवतम् १०.४७.६३]

उत्तरार्धेन तादृशीनामप्यासां साक्षादेव पादरेणुं वन्दे, तदेतद्
अप्यहो अस्माकं (पगे ६३) भाग्यमस्तीत्येतदपि महदद्भुतमिति
भावः । अत्रैतदुक्तं भवति

एते हि यादवाः सर्वे मद्गणा एव भामिनि । [ড়द्मড়् ६.८९.२२]
सर्वदा मत्प्रिया देवि मत्तुल्यगुणशालिनः ॥

इति पाद्मकार्तिकमाहात्म्यदृष्टश्रीभगवद्वाक्यानुसारेण
शय्यासनाटनालापे [भागवतम् १०.९०.४६] इत्याद्य्अनुसारेण च यादवा एव तावत्
स्वयं भगवतः श्रीकृष्णदेवस्य परमप्रेष्ठाः । अतः
प्रादुर्भावान्तरभक्तास्तु स्वतो दूरत एव स्थिता ।

अथ भक्तान्तरेषु यादवेष्वपि त्वं तु भागवतेष्वहम् [भागवतम् ११.१६.२९],
त्वं मे भृत्यः सुहृत्सखा [भागवतम् ११.११.४९], नोद्धवोऽण्वपि मन्न्यूनः
[भागवतम् ३.४.३१], न च सङ्कर्षणो न श्रीर्नैवात्मा च यथा भवान् [भागवतम्
११.१४.१५] इत्यादि कामकृच्छ्रीकृष्णवाक्यानुसारात्भक्त्य्अंशेन तु
सर्वतोऽप्युद्धव एव श्रेयान्, तस्य तु श्रीव्रजदेवीष्वेवैवं दैन्य
वचनं, न जातु महिषीस्वपीति जातान्धस्यापि चाक्ष्षमेवेदं तासां यशो
राकाचन्द्रमःसौन्दर्यमिति ॥

॥ १०.४७ ॥ श्र्युद्धवः ॥ १०२१०७ ॥

[१०८]

तत्र स्वेभ्यः षोडशसहस्रसङ्ख्याभ्यः श्रीयदुदेवस्य पत्नीभ्यस्
तथाष्टभ्यः पट्टमहीषिभ्यश्च तासां माहात्म्यं वदन्त्यः
परमकाष्ठापन्नतया श्रीराधिकादेव्या आहुः

न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यमप्युत ।
वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरेः पदम् ॥
कामयामह एतस्य श्रीमत्पादरजः श्रियः ।
कुचकुङ्कुमगन्धाठ्यं मूर्ध्ना वोठुं गदाभृतः ॥
व्रजस्त्रियो यद्वाञ्छन्ति पुलिन्द्यस्तृणवीरुधः ।
गावश्चारयतो गोपाः पादस्पर्शं महात्मनः ॥ [भागवतम् १०.८३.४१४३]

हे साध्वि, साम्राज्यादिकं न कामयामहे । तत्र साम्राज्यं सार्वभौमं
पदम् । स्वाराज्यमैन्द्रं पदं भोज्यं तद्उभयभोगभाक्त्वम् ।
भुनक्तीति भुक्तस्य भाव इति । विविधं राजत इति विराट्तस्य भावो
वैराज्यम् । अणिमादिसिद्धिभाक्त्वमित्यर्थः । पारमेष्ट्यं ब्रह्म
पदम् । आनन्त्यं ये ते शतम् [टैत्तू २.८.२] इत्यादिश्रुतिरीत्या
मनुष्यानन्दमारभ्य शतशतगुणितत्वेन प्राजापत्यस्य गणनायाः
परां काष्ठां दर्शयित्वा परब्रह्मणि तु यतो वाचो निवर्तन्ते [टैत्तू
२.४.१] इत्यनेन यदानन्दस्यानन्त्यं दर्शितं तदपीत्यर्थः । किं बहुना,
हरेः श्रीपतेः पदं सामीप्यादिकमपि यत्तदेतदपि न कामयामहे ।
नाधीनं कर्तुमिच्छाम इत्यर्थः ।

तर्हि किमधिकं लब्धं कामयध्वे ? न, तत्राहुः एतस्यास्मत्पतित्वेन
सर्वविज्ञातस्य गदाभृतः श्रीमत्पादरज एव तावन्मूर्ध्ना वोड्ध्रुं
कामयामहे । तत्रापि यत्श्रियः कुचकुङ्कुमगन्धेनाढ्यं तद्
गन्धेन प्राप्तसम्पद्विशेषं तत्पुनरधिकं कामयामह इत्यर्थः ।

ननु, श्रीपतेरेव पदं श्रीकुङ्कुमगन्धाढ्यं [Vऋ. हेरे अद्द्स्: तत्
सामीप्यादित्यागात्तत्तु भवत्यस्त्यक्तवत्य एव । यदि च श्रीरत्र
रुकुम्ण्यभिप्रेयते तर्हि तत्तु भवतीनां प्राप्तमेव । तस्मात्तत्तद्
विलक्षणाया एव श्रियः कुचकुङ्कुमगन्धाढ्यम् । Vऋ. अद्दितिओनेन्द्स्.] तत्
स्यादिति गम्यते । ततस्तद्अवबोधनाय पुनर्विशिष्यताम् । तत्राहुः व्रज
स्त्रिय इति । पूर्णाः पुलिन्द्य उरुगाय [Bह्प्१०.२१.१७] इत्यादि स्ववाक्याद्य्
अनुसारेण व्रजस्त्र्य्आदयो यद्वाञ्छन्ति ववाञ्छुरित्यर्थः । वर्तमान
प्रयोगेण तत्तद्अविच्छेद उत्प्रेक्ष्यते । अत्र पुलिन्द्य्आदिनिर्देशस्तु स्वेषाम्
अपि तत्प्राप्तियोग्यताविवक्षया । तृणवीरुधो (पगे ६४) दूर्वाद्याः । आसां
तादृग्अनुभवश्च तत्कुचकुङ्कुमसौरभवासितत्वाविच्छिन्नतत्
पादपभावादेवेति भावः । गावो गाः । चारयतश्चारयन्तः । गोपा इत्यन्ते
निर्देशस्तु केषांचित्प्रियनर्मसखादीनां तद्अनुमोदकारित्वेऽपि
पुरुषत्वात्तत्रायोग्यताविवक्षया । अयं भावः श्रीत्वेन प्रसिद्धायाः
श्रियस्तत्र कामनैव श्रूयते, न तु सङ्गतिः । यद्वाञ्छया श्रीर्[भागवतम्
१०.१६.३६] इति नागपत्नीनां, या वै श्रियार्चितम् [भागवतम् १०.४७.६२] इत्युद्धवस्याप्य्
उक्तेः ।

न च रुक्मिणीत्वेन प्रसिद्धाया श्रियस्तत्र सङ्गतिः । कालदेशयोर्
अन्यतमत्वात् । न च व्रजस्त्रीणां श्रीसम्बन्धलालसा युक्ता नायं
श्रियोऽङ्ग [भागवतम् १०.४७.६०] इत्य्आदिना ततोऽपि परमाधिक्यश्रवणात् । तस्माद्
रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने इति मात्स्यानुसारेण
रुक्मिण्या सह पठिता । शास्त्रदृष्ट्या तूपदेशो वामदेवाद्[Vस्. १.१.३०] इति
न्यायरीत्या महेन्द्रेण परमेश्वर इव दुर्गयाप्यहंग्रहोपासना
शास्त्रदृष्ट्या स्वाभेदेनोपदिष्टा । श्रीराधा तु सर्वतः पूर्णा तल्
लक्ष्मीः ।

तथा देवी कृष्णमयी प्रोक्ता राधिका इत्यादि बृहद्गौतमीयानुसारेण,
राधया माधवो देवो माधवेनैव राधिका इत्यादि ऋक्परिशिष्टानुसारेण
च तासु राधात्वेन प्रसिद्धा सर्वतो विलक्षणा या श्रीर्विराजते ताम्
उद्दिश्यैव तासां तदिदं वाक्यम् । यथा च अनयाराधितो नूनं भगवान्
[भागवतम् १०.३०.२८] इत्यादि । अप्येणपत्न्य्उपगत [भागवतम् १०.३०.११] इत्य्आदिद्वयं च ।
ततश्च तासां यथा तत्र स्पृहास्पन्दता तथास्माकं चेति ।

तदेवं तादृशप्रेमस्फूर्तिमयतद्गन्धाढ्यतायाः सम्प्रत्यप्य्
अस्मासु प्रकाशः स्यादिति दर्शितम् । न केवलं तादृशं तद्रज एव
वाञ्छन्ति अपि तु तादृशपादस्पर्शं च । अतो वयमपि तं कामयामह
इत्यर्थः । यद्वा तद्रजस एव विशेषणं पादस्पर्शमिति । तद्अव्यभिचारि
फलत्वादभिन्नमेवेत्यर्थः ।

एतस्य तत्र कीदृशस्य ? महान् सर्वत्रत्यादपि स्वभावादुत्तम आत्मा
सौन्दर्यादिप्रकाशमयः स्वभावो यस्य तादृशस्य तत्रातिशुशुभे ताभिर्
भगवान् [भागवतम् १०.३३.६] इति श्रीशुकोक्तेः ॥

॥ १०.८३ ॥ श्रीमहिष्यो द्रौपदीम् ॥ १०८ ॥
(पगे ६५)
[१०९]

अथ तत्रैव श्रीराधादेव्याः, आदिपुराणे

त्रैलोक्ये पृथिवी धन्या तत्र वृन्दावनं पुनः ।
तत्रापि गोपिकाः पार्थ तत्र राधाभिधा मम ॥ इति ।

पाद्मे कार्त्तिकमाहात्म्ये
यथा राधा प्रिया विष्णोस्तस्याः कुण्डं प्रियं तथा ।
सर्वगोपीषु सैवैका विष्णोरत्यन्तवल्लभा ॥ इति ।

अतएव तस्या एव प्रमाधिक्यं वर्णितमाग्नेये वासनाभाष्योद्धृतं
वचनम्

गोप्यः पप्रच्छुरुषसि कृष्णानुचरमुद्धवम् ।
हरिलीलाविहारांश्च तत्रैकां राधिकां विना ।
राधा तद्भावसंलीना वासनाया विरामिता ॥ इति ।

नवमावस्थाप्राप्तत्वेन प्रश्नादिवासनाया विरामिता तस्यामसमर्थ्येत्य्
अर्थः । तस्मादनेन सर्वव्रजदेवीष्वपि श्रैष्ठ्यादिचिह्नेन श्रीरास
विहारे ताभिरेव स्वयं कस्याः पदानि [भागवतम् १०.३०.२७] इत्यादिना वर्णित
सौभाग्यातिशया श्रीराधिकैव भवेत् । अतस्तन्नाम्नैव ताः सूचयामासुः


अनयाराधितो नूनं भगवान् हरिरीश्वरः ।
यन्नो विहाय गोविन्दः प्रीतोऽयमनयद्रहः ॥ [भागवतम् १०.३०.२८]

अनया राधया भगवान् राधितः साधितो वशीकृत इत्यर्थः । नूनमिति
वितर्के । यतश्च राधयतीति निरुक्त्या तस्या राधेति संज्ञापि जातेति भावः ।
राधितत्वे हेतुः यन्न इति । गोविन्दः श्रीगोकुलेन्द्रः ॥

॥ १०.३० ॥ श्रीव्रजदेव्यः ॥ १०९ ॥

[११०]

तदेवं तथाभूतश्रीभगवत्प्रीतिमाधुरीषु श्रीराधायास्तन्
माधुरीसर्वोर्ध्वमधिरूढेत्येतावत्तत्परावस्थास्थापना
पर्यन्तेन सन्दर्भेण तत्प्रीतिजातितारतम्यं दर्शितम् ।

एषा च तत्प्रीतिर्लौकिककाव्यविदां रत्य्आदिवत्कारणकार्यसहायैर्
मिलित्वा रसावस्थामापुन्वती स्वयं स्थायी भाव उच्यते । कारणाद्याश्च
क्रमेण विभावानुभावव्यभिचारिण उच्यन्ते । तत्र तस्या भावत्वं प्रीति
रूपत्वादेव । स्थायित्वं च

विरुद्धैरविरुद्धैर्वा
भावैर्विच्छिद्यते न यः ।
आत्मभावं नयत्यन्यान्
स स्थायी लवणाकरः ॥ [डशरूपक ४.३४] इति रसशास्त्रीयलक्षणव्याप्तेः ।
अन्येषां विभावत्वादिकं च तद्विभावनादिगुणेन दर्शयिष्यमाणत्वात् ।
ततः कारणादिस्फूर्तिविशेषव्यक्तस्फूर्तिविशेषा तन्मिलिता भगवत्प्रीतिस्
तदीयप्रीतिमयरस उच्यते । भक्तिमयो रसो भक्तिरस इति च । यथाहुः
भावा एवाभिसम्पन्नाः प्रयान्ति रसरूपतामिति ।

यत्तु प्राकृतरसिकै रससामग्रीविरहाद्भक्तौ रसत्वं नेष्टं, तत्
खलु प्राकृतदेवादिविषयमेव सम्भवेत् । सामग्री हि रसत्वापत्तौ
त्रिविधा । स्वरूपयोग्यता, परिकरयोग्यता, पुरुषयोग्यता च । तत्र
लौकिकेऽपि रसे रत्य्आदेः स्थायिनः स्वरूपयोग्यता । स्थायिभावरूपत्वात्
सुखतादात्म्याङ्गीकारादेव च । भगवत्प्रीतौ तु स्थायिभावत्वं तद्
विधाशेषसुखतरङ्गार्णवब्रह्मसुखादधिकतमत्वं च
प्रतिपादितमेव ।

तथा तत्र कारणादयस्तत्परिकराश्च लौकिकत्वाद्विभावनादिषु
स्वतोऽक्षमाः । किन्तु सत्कविनिबन्धचातुर्यादेवालौकिकत्वमापन्नास्
तत्र योग्या भवन्ति । तत्र तु ते स्वत एवालौकिकाद्भुतरूपत्वेन दर्शिता
दर्शनीयाश्च ।

पुरुषयोग्यता च श्रीप्रह्लादादीनामिव तादृशवासना । तां विना च
लौकिककाव्येनापि तन्निष्पत्तिं न मन्यते । यथोक्तम् पुण्यवन्तः
प्रमिण्वन्ति योगिवद्रससन्ततिम् ॥ [षाहित्यदर्पण ३.२] इति । न जायते तद्
आस्वादो विना (पगे ६६) रत्य्आदिवासनाम् ॥ [षाहित्यदर्पण ३.८] इति च ।

लौकिकरसस्योत्पत्तिः स्वरूपमास्वादप्रकारश्चैवमेवोच्यते । यथा

सत्त्वोद्रेकादखण्डस्वर्प्रकाशानन्दचिन्मयः ।
वेद्यान्तरस्पर्शशून्यो ब्रह्मास्वादसहोदरः ॥
लोकोत्तरचमत्कारप्राणः कैश्चित्प्रमातृभिः ।
स्वाकारवदभिन्नत्वेनायमास्वाद्यते रसः ॥ [षाहित्यदर्पण ३.२] इति ।

अत्र तु अप्राकृतविशुद्धसत्त्वहेतुत्वं सत्त्वं विशुद्धं वसुदेव
शब्दितमित्यादेः । दर्शितं चास्य सत्त्वस्याप्राकृतत्वं भगवत्सन्दर्भे ।
तथा ब्रह्मास्वादादप्यधिकत्वं या निर्वृतिस्तनुभृतां [भागवतम् ४.९.१०] इत्य्
आदेः । नात्यन्तिकं विगणयन्त्यपि ते प्रसादम् [भागवतम् ३.१५.४८] इत्यादेश्च ।
ततश्चमत्कारश्च सुतरामेव । विस्मापनं स्वस्य च सौभगार्द्धेः
[भागवतम् ३.२.१२] इत्यादेः ।

किं चालौकिकरसविदां प्राचीनानामपि मतानुसारेण सिध्यत्यसौ रसः ।
तत्र सामान्यतः श्रीभगवन्नामकौमुदीकारैर्दर्शितः । तस्य
विशेषतस्तु शान्तादिषु पञ्चसु भेदेषु वक्तव्येषु श्रीस्वामिचरणैर्
मल्लानामशनिर्[भागवतम् १०.४३.१७] इत्यादौ ते पञ्चैव दर्शिताः । स्त्रीणां
शृङ्गारः । समवयसां गोपानां हास्यशब्दसूचितनर्ममयसख्य
स्थायी सख्यमयः प्रेयान् । ततस्तन्मते गोपानां श्रीदामादीनामित्य्
एवार्थः । पित्रोर्दयापरपर्यायवात्सल्यस्थायी वत्सलः । योगिनां ज्ञान
भक्तिमयः शान्तः । वृष्णीनां भक्तिमय इति । तथा सामान्यप्रीतिमय
रसश्च नॄणां दर्शितः । तत्राद्भुतत्वनिर्देशश्च सर्वस्यैव रसस्य तत्
प्राणत्वात्शान्तत्वादिवैशिष्ट्याभावे तदेव निर्दिष्टमिति । यथाह
धर्मदत्तः

रसे सारश्चमत्कारः सर्वत्राप्यनुभूयते ।
तच्चमत्कारसारत्वे सर्वत्राप्यद्भुतो रसः ।
तस्मादद्भुतमेवाह कृती नारायणो रसम् ॥ [षाहित्यदर्पण ३.२] इति ।

ये तु मल्लादीनां रौद्रादिरसास्तत्रैव स्वामिभिरङ्गीकृतास्ते खलु
प्रीतिर्विरोधित्वान्नात्रादृताः । तदेतदलौकिकरसविन्मतम् । तथा
कैश्चिल्लौकिकरसविद्भिर्भोजराजादिभिः प्रेयान् वत्सलश्च रसः
सम्मतोऽस्ति । तथा चोक्तम् स्नेहस्थायिभावः प्रेयान् । यथा

यदेव रोचते मह्यं तदेव कुरुते प्रिया ।
इति वेत्ति न जानाति तत्प्रियं यत्करोति सा ॥ [षरस्वतीकण्ठाभरणम् ५] इति ।

दम्पत्योरनयोः सख्यविशेषविवक्षया तदिदमुदाहृतम् । एवं
स्फुटं चमत्कारितया वत्सलं च रसं विदुः । (पगे ६७)
स्थायी वत्सलतास्येह पुत्राद्य्आलम्बनं मतम् ॥ [षाहित्यदर्पण ३.२०१] इत्य्
आदि ।

तथा सुदेवाद्यैर्भक्तिमयश्चेति । किं च लौकिकस्य रत्यादेः सुख
रूपत्वं यथाकथञ्चिदेव वस्तुविचारे दुःखपर्यवसायित्वात् । तदुक्तं
स्वयं भगवता सुखं दुःखसुखात्ययः दुःखं कामसुखापेक्षा
[भागवतम् ११.१९.४१] इति । तदीयः शमोऽपि शमो मन्निष्ठता बुद्धेः [भागवतम्
११.१९.३६] इति वदता तेनैवानादृतः । जुगुप्सादीनां तु सुखरूपता लौकिकैर्
अपि द्वेष्या । तत्तन्निन्दा भागवतरसश्लाघा च श्रीनारदवाक्ये

न यद्वचश्चित्रपदं हरेर्यशो
जगत्पवित्रं प्रगृणीत कर्हिचित् ।
तद्वायसं तीर्थमुशन्ति मानसा
न यत्र हंसा निरमन्त्युशिक्क्षयाः ॥

तद्वाग्विसर्गो जनताघविप्लवो
यस्मिन् प्रतिश्लोकमबद्धवत्यपि ।
नामान्यनन्तस्य यशोऽङ्कितानि यत्
शृण्वन्ति गायन्ति गृणन्ति साधवः ॥ [भागवतम् १.५.१०११] इति ।

श्रीरुक्मिणीवाक्येऽपि
त्वक्श्मश्रुरोमनखकेशपिनद्धमन्तर्
मांसास्थिरक्तकृमिविट्कफपित्तवातम् ।
जीवच्छवं भजति कान्तमतिर्विमूठा
या ते पदाब्जमकरन्दमजिघ्रती स्त्री ॥ [भागवतम् १०.६०.४५] इति ।

तस्माल्लौकिकस्यैव विभावादेः रसजनकत्वं न श्रद्धेयम् । तज्
जनकत्वे च सर्वत्र बीभत्सजनकत्वमेव सिध्यति । श्रीभागवतरसस्य
तु विष्यिणमारभ्य मुक्तपर्यन्ते जने तद्वदहो अनिन्द्रिये चैतन्य
शून्येऽपि विकारहेतुत्वात्कथं तत्रासम्भावनापि स्यात् । यथोक्तं निवृत्त
तर्षैरुपगीयमानात्[भागवतम् १०.१.४] इत्यादि । अस्पन्दनं गतिमतां पुलकस्
तरूणां [भागवतम् १०.२१.१९] इति । कृष्णं समेत्य लब्धेहा आसन् शुष्का नगा अपि
[भागवतम् १०.१७.१५] इति । तदेतदभिप्रेत्य श्रीभगवत्प्रीत्य्एकव्यञ्जकस्य श्री
भागवतपुराणस्य रसात्मकत्वं शब्देनैव निर्दिशति निगमकल्पतरोः
[भागवतम् १.१.३] इत्यादि ।

हे भावुकाः परममङ्गलायनाः । ये रसिका भगवत्प्रीतिरसज्ञा इत्य्
अर्थः । ते यूयं वैकुण्ठात्क्रमेण भुवि पृथिव्यामेव गलितमवतीर्णं
निगमकल्पतरोः सर्वफलोत्पत्तिभुवः शाखोपशाखाभिर्वैकुण्ठम्
अध्यारूढस्य वेदरूपतरोर्यत्खलु रसरूपं श्रीभागवताख्यं
फलं तत्भुव्यपि स्थिताः पिबत आस्वाद्यान्तर्गतं कुरुत । अहो इत्यलभ्य
लाभव्यञ्जना भागवताख्यं यच्छास्त्रं तत्खलु रसवदपि
रसैकमयताविवक्षया रसशब्देन निर्दिष्टम् । भागवतशब्देनैव
तस्य रसस्यान्यदीयत्वं व्यावृत्तम् । भागवतस्य तदीयत्वेन रसस्यापि
तदीयत्वाक्षेपात् । शब्दश्लेषेण च भगवत्सम्बन्धिरसमिति गम्यते ।
स च रसो भगवत्प्रीतिमय एव । यस्यां वै श्रूयमाणायाम् [भागवतम् १.७.७] इत्य्
आदिफलश्रुतेः । यन्मयत्वेनैव श्रीभगवति रसशब्दः श्रुतौ
प्रयुज्यते रसो वै सः [टैत्तू २.७.१] इति । स एव च प्रशस्यते रसं ह्येवायं
लब्ध्वानन्दी भवति इति । तत्र रसिका इत्यनेन प्राचीनार्वाचीन
संस्काराणामेव तद्विज्ञत्वं दर्शितम् ।

गलितमित्यनेन तस्य सुपाकिम्त्वेनाधिकस्वादुमत्त्वमुक्त्वा शास्त्रपक्षे
सुनिष्पन्नार्थत्वेनाधिकस्वादुत्वं दर्शितम् । रसमित्यनेन फलपक्षे
त्वग्अष्ट्य्आदिराहित्यं व्यज्यात्र च पक्षे हेयांशराहित्यं दर्शितम् । तथा
भागवतमित्यनेन सत्स्वपि फलान्तरेषु निगमस्य परम
फलत्वेनोक्त्वा तस्य परमपुरुषार्थत्वं दर्शितम् ।

एवं तस्य रसात्मकस्य फलस्य स्वरूपतोऽपि वैशिष्ट्ये सति परमोत्कर्ष
बोधनार्थं वैशिष्ट्यान्तरमाह शुकेति । अत्र फलपक्षे कल्पतरु
वासित्वादलौकिकत्वेन शुकोऽप्यमृतमुखोऽभिप्रेयते । (पगे ६८) ततस्तन्
मुखं प्राप्य यथा तत्फलं विशेषतः स्वादु भवति तथा परम
भागवतमुखसम्बन्धं भगवद्वर्णनमपि । ततस्तादृशपरम
भागवतवृन्दमहेन्द्रश्रीशुकदेवमुखसम्बन्धं किमुतेति
भावः । अतएव परमस्वादपरमकाष्ठाप्राप्तत्वात्स्वतोऽन्यतश्च
तृप्तिरपि न भविष्यतीत्यालयं मोक्षानन्दमप्यभिव्याप्य पिबतेत्य्
उक्तम् । तथा च वक्ष्यते परिनिष्ठितोऽपि [भागवतम् २.१.९] इत्यादि ।
अनेनास्वाद्यान्तरवन्नेदं कालान्तरेऽप्यास्वादकबाहुल्येऽपि व्ययिष्यतीत्य्
अपि दर्शितम् ।

यद्वा, तत्र तस्य रसस्य भगवत्प्रीतिमयत्वेऽपि द्वैविध्यम् । तत्प्रीत्य्
उपयुक्तत्वं तत्प्रीतिपरिणामत्वं चेति । यथोक्तं द्वादशे

कथा इमास्ते कथिता महीयसां
विताय लोकेषु यशः परेयुषाम् ।
विज्ञानवैराग्यविवक्षया विभो
वचोविभूतीर्न तु पारमार्थ्यम् ॥

यत्तूत्तमःश्लोकगुणानुवादः
सङ्गीयतेऽभीक्ष्णममङ्गलघ्नः ।
तमेव नित्यं शृणुयादभीक्ष्णं
कृष्णेऽमलां भक्तिमभीप्समानः ॥ [भागवतम् १२.३.१४१५] इति ।

ततः सामान्यतो रसत्वमुक्त्वा विशेषतोऽप्याह अमृतेति । अमृतं तल्लीला
रसः । हरिलीलाकथाव्रातामृतानन्दितसत्सुरम् [भागवतम् १२.१३.११] इति द्वादशे
श्रीभागवतविशेषणात् । लीलाकथारसनिषेवणम् [भागवतम् १२.४.४०] इति तस्यैव
रसत्वनिर्देशाच्च । सत्सुरमिति सन्तोऽत्रात्मारामाः । इत्थं सताम् [भागवतम्
१०.१२.११] इत्यादिवत् । त एव सुराः । अमृतमात्रस्वादित्वात् । अत्र त्वमृत
द्रवपदेन लीलारसस्य सार एवोच्यते । तस्मादेवं व्याख्येयम् । यद्यपि
प्रीतिमयरस एव श्रेयान् तथाप्यस्त्यत्र विवेकः । रसानुभविनो ह्यत्र
द्विविधाः । पिबतेत्युपदेश्याः । स्वतस्तद्अनुभविनो लीलापरिकराश्च ।
तत्र लीलारसानुभविनो ह्यत्र परिकरा एव तस्य सारमनुभवन्ति
अन्तरङ्गत्वात् । परे तु यत्किञ्चिदेव बहिरङ्गत्वात् । यद्यप्येवं तथापि
तद्अनुभवमयं रससारं स्वानुभवमयेन रसेनैकतया विभाव्य
पिबत । यतस्तादृशतया तादृशशुकमुखाद्गलितं प्रवाहरूपेण
वहन्तमित्यर्थः ।

तदेवं भगवत्प्रीतेः परमरसत्वापत्तिः शब्दोपात्तैव । अन्यत्र च
सर्ववेदान्तसारं हि [भागवतम् १२.१३.१५] इत्यादौ तद्रसामृततृप्तस्य इत्यादि ।
एवमेवाभिप्रेत्य भावुका इत्यत्र रसविशेषभावनाचतुरा इति टीका ।
तथा स्मरन्मुकुन्दाङ्घ्र्य्उपगूहनं पुनर्विहातुमिच्छेन्न रस
ग्रहो जनः [भागवतम् १.५.१९] इत्यादि ।

॥ १.१ ॥ श्रीवेदव्यासः ॥ ११० ॥

[१११]

एवं विभावादिसंयोगेन भगवत्प्रीतिमयो रसो व्यक्तीभवति । तत्र
लौकिकनाट्यरसविदामपि पक्षचतुष्कम् । रसस्य मुख्यया
वृत्त्यानुकार्ये प्राचीने नायक एव वृत्तिः । नटे तूपचारादित्येकः पक्षः ।
पूर्वत्र लौकिकत्वात्पारिमित्याद्भयादिसान्तरायत्वाच्चानुकर्तरि नट एव
द्वितीयः । तस्य शिक्षामात्रेण शून्यचित्ततयैव तद्अनुकर्तृत्वात्
सामाजिकेष्वेवेति तृतीयः । यदि च द्वितीये सचेतस्त्वं तदोभयत्रापि कथं
न स्यादिति चतुर्थ इति । श्रीभागवतानां तु सर्वत्रैव तत्प्रीतिमयरस
स्वीकारः । लौकिकत्वादिहेतोरभावात् । तत्रापि विशेषतोऽनुकार्येषु तत्
परिकरेषु येषां नित्यमेव हृदयमध्यारूढः पूर्णो रसोऽनुकर्त्रादिषु
सञ्चरति । तत्र भगवत्प्रीतेरलौकिकत्वमपरिमितत्वं च स्वत एव
सिद्धम् । न तु लौकिकरत्य्आदिवत्काव्यक्प्तम् । तच्च स्वरूपनिरूपणे
स्थापितम् । भयाद्य्अनवच्छेद्यत्वं श्रीप्रह्लादादौ श्रीव्रजदेव्यादौ
च व्यक्तम् । जन्मान्तराव्यवच्छेद्यत्वं श्रीवृत्रगजेन्द्रादौ दृष्टम् ।
श्रीभरतादौ वा । किं बहुना, (पगे ६९) ब्रह्मानन्दाद्य्
अनवच्छेद्यत्वमपि श्रीशुकादौ प्रसिद्धम् । एवं तत्कारणादेश्
चालौकिकत्वं ज्ञेयम् । तत्रालम्बनकारणस्य श्री
भगवतोऽसमोर्ध्वातिशयिभगवत्त्वादेव सिद्धम् । तत्परिकरस्य च तत्
तुल्यत्वादेव । तच्च श्रुतिपुराणादिदुन्दुभिघोषितम् ।

अथोद्दीपनकारणानां तदीयानां च तदीयत्वादेव । तच्च यथा दर्शितम्
 तस्यारविन्दनयनस्य [भागवतम् ३.१५.४३] इत्यादौ चकार तेषां संक्षोभम्
अक्षरजुषामथ चित्ततन्वोः इति, गोप्यस्तपः किमचरन् [भागवतम् १०.४४.१४] इत्य्
आदि, का स्त्र्यङ्ग [भागवतम् १०.२९.४०] इत्यादौ यद्गोद्विजद्रुममृगान् पुलकान्य्
अबिभ्रतिति, विविधगोपचरणेषु विदग्ध [भागवतम् १०.३५.१४] इत्यादि ।
वेणुवाद्यवर्णने

सवनशस्तद्उपधार्य सुरेशाः
शक्रशर्वपरमेष्ठिपुरोगाः ।
कवय आनतकन्धरचित्ताः
कश्मलं ययुरनिश्चिततत्त्वाः ॥ [भागवतम् १०.३५.१५] इति ।

आगन्तुका अपि तच्छक्त्य्उपबृंहितत्वेन सादृश्यात्तत्स्फूर्तिमयत्वेन
चालौकिकीं दशामाप्नुवन्ति । यथोक्तं

प्रावृट्श्रियं च तां वीक्ष्य सर्वकालसुखावहाम्
भगवान् पूजयां चक्रे आत्मशक्त्य्उपबृंहिताम् ॥ [भागवतम् १०.२०.३१]

यथा मेघादयश्च, तथा कार्यरूपाः पुलकादयोऽप्यलौकिकाः । ये खलु
अस्पन्दनं गतिमतां पुलकस्तरूणाम् [भागवतम् १०.२१.१९] इत्यादौ तर्व्आदिष्व्
अप्युद्भवन्तो मनुष्येषु स्वस्यात्यद्भुतोदयमेव ज्ञापयन्ति ।

एवं निर्वेदाद्याः सहायाश्चालौकिका मन्तव्याः । यत्र लोकविलक्षण
वैचित्त्यविप्रलम्भादिहेतव उन्मादादय उदाहरिष्यन्ते । क्वचित्तु
सर्वेषामपि स्वत एवालौकिकत्वम् । श्रीब्रह्मसंहितायाम्

श्रियः कान्ताः कान्तः परमपुरुषः कल्पतरवो
द्रुमा भूमिश्चिन्तामणिगणमयि तोयममृतम्
कथा गानं नाट्यं गमनमपि वंशी प्रियसखि
चिद्आनन्दं ज्योतिः परमपि तदास्वाद्यमपि च

स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश्च सुमहान्
निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः
भजे श्वेतद्वीपं तमहमिह गोलोकमिति यं
विदन्तस्ते सन्तः क्षितिविरलचाराः कतिपये ॥ [Bरह्मष्५.६७६८] इति ।

गानं नाट्यमिति तद्वद्रसाधायकमित्यर्थः ।

तदेवमलौकिकत्वादिनानुकार्येऽपि रसे रसत्वापादानशक्तौ सत्यां प्रीति
कारणादयस्ते तदापि विभावाद्याख्यां भजन्ते । तथैव हि तेषां तत्तद्
आख्या । यथोक्तं

विभावनं रत्यादेर्विशेषेणास्वादाङ्कुरयोग्यतानयनम् । अनुभावनम्
एवम्भूतस्य रत्यादेः समनन्तरमेव रसादिरूपतया भावनम् ।
सञ्चारणे तथाभूतस्य तस्यैव सम्यक्चारणम् [षाहित्यदर्पणम् ३.१३] इति ।

किं च स्वाभाविकालौकिकत्वे सति यथा लौकिकरसविदां लौकिकेभ्योऽपि
काव्यसंश्रयादलौकिकशक्तिं दधानेभ्यो विभावाद्य्आख्याप्राप्त
कारणादिभ्यः शोकादावपि सुखमेव जायते इति रसत्वापत्तिस्
तथैवास्माभिर्वियोगादावपि मन्तव्यम् । तत्र बहिस्तदीयवियोगमय
दुःखेऽपि परमानन्दघनस्य भगवतस्तद्भावस्य च हृदि स्फूर्तिर्
विद्यत एव । परमानन्दघनत्वं च तयोस्त्यक्तुमशक्यत्वात् । ततः
क्षुधातुराणामत्युष्णमधुरदुग्धवन्न तत्र रसत्वव्याघातः ।
तदा तद्भावस्य परमानन्दरूपस्यापि वियोगदुःखनिमित्तत्वं
चन्द्रादीनां तापनत्वमेव ज्ञेयम् ।

तथा तस्य दुःखस्य च भावाननन्दजन्यत्वादायत्यां संयोगसुख
(पगे ७०)
पोषकत्वाच्च सुखान्तःपात एव । तथा तदीयस्य करुणस्यापि रसस्य
सर्वज्ञवचनादिरचितप्राप्त्य्आशामयत्वात्संयोगावशेषत्वात्तत्र तथैव
गतिः सिद्धा ।

तदेवमनुकार्ये रसोदयः सिद्धः । स एव च मुख्यः ।
श्रवणजानुरागाद्दर्शनजानुरागस्य श्रेष्ठत्वात्

श्रुतमात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते मनः ।
उरुगायोरुगीतो वा पश्यन्तीनां च किं पुनः ॥ [भागवतम् १०.९०.२६] इति न्यायेन ।

अतस्तव विक्रीडितं ब्रह्मन् [भागवतम् ११.६.४४] इत्यादिकोद्भववचनमयं
पद्यद्वयं चाहार्यम् ।

अथ अनुकर्ताप्यत्र भक्त एव सम्मतः । अन्येषां सम्यक्तद्
अनुकरणासामार्थ्यात् । ततस्तत्रापि तद्रसोदयः स्यादेव । किन्तु भक्तेर्
भक्तिविषयको भगवद्रसः प्रायो नोदयते भक्तिविरोधादेव । ततो
नानुक्रियते च । तद्अनुभवश्च भगवत्सम्बन्धित्वेनैव भवति
नात्मीयत्वेन । स च भक्तिरसोद्दीपकत्वेनैव चरितार्थतामापद्यते ।
ततः क्वचिच्छ्रुद्धभक्तानामपि यदि तद्अनुभावानुकरणं स्यात्तदा
तदीयत्वेनैव तैस्तद्भाव्यते न तु स्वीयत्वेनेति समाधेयम् । यत्र तु
भक्तविरोधः । यथा गदादितुल्यभावानां वसुदेवादौ तत्रोदयतेऽपि ।

अथ सामाजिका अपि भक्ता एवेष्टा इति । तत्रापि सिद्धिः । इति दृश्यकाव्येषु रस
भावनाविधिः । श्रव्यकाव्येष्वपि वर्णनीयवर्णश्रोतृभेदेन
यथायथं बोधव्यः । किं चात्र प्रायस्तत्तद्अपेक्षा रत्य्अङ्कुरवताम्
एव । प्रेमादिमतां तु यथाकथञ्चित्स्मरणमपि तत्र हेतुः येषां
षड्जादिमयस्वरमात्रमपि तत्र हेतुर्भवति । यथोक्तं श्रीनारदम्
उद्दिश्य षष्ठे

स्वरब्रह्मणि निर्भात हृषीकेशपदाम्बुजे ।
अखण्डं चित्तमावेश्य लोकाननुचरन्मुनिः ॥ [भागवतम् ६.५.२२] इति ।

ततः प्रेमादिभाव एव तेषु सर्वां सामग्रीमुद्भावयति । यथोक्तं श्री
प्रह्लादमुद्दिश्य क्वचिद्रुदति वैकुण्ठचिन्ताशवलचेतनः [भागवतम्
७.४.३६] इत्यादिना

क्वचिदुत्पुलकस्तूष्णीमास्ते संस्पर्शनिर्वृतः ।
अस्पन्दप्रणयानन्द सलिलामीलितेक्षणः ॥ [भागवतम् ७.४.४१] इत्यन्तेन ।

लौकिकरसज्ञैरपि हीनाङ्गत्वेऽपि तत्तद्अङ्गसमाक्षेपाद्रसनिष्पत्तिर्
अभिमता ।

किं च, भगवत्प्रीतिरसिकाः द्विविधाः तदीयलीलान्तःपातिनस्तद्अन्तः
पातिताभिमानिनश्च । तत्र पूर्वेषां प्राक्तनयुक्त्या स्वत एव सिद्धो
रसः । उत्तरेषां तु द्विविधा गतिः । तत्तल्लीलान्तःपातिसहितभगवच्
चरितश्रवणादिनैका । भगवन्माधुर्यादिश्रवणादिना चान्या । तत्र
पूर्वत्र यदि समानवासनस्तल्लीलान्तःपाती भवेत्तदा स्वयं सदृशो
भाव एव तस्य तल्लीलान्तःपातिविशेषस्य विभावादिकं तादृशत्वाभिमानिनि
साधारणी करोति । यथा

परस्य न परस्येति ममेति न ममेति च । (पगे ७१)
तद्आस्वादे विभावादेः परिच्छेदो न विद्यते ॥ [षाह्ड्३.१२] इति ।

यदि तु विलक्ष्णवासनस्तदा विभावानां सञ्चारिणामनुभावानां च
प्रायश एव साधारण्यं भवति । तेन तद्भावविशेषस्योद्दीपनमात्रं
स्यात्, न तु रसोद्बोधः । यदि तु विरुद्धवासनः स्यात्, यथा वत्सलेन
प्रेयसी, तदापि तस्य प्रीतिसामान्यस्यैव वात्सल्यादिदर्शनेनोद्दीपनं
भवति । न भावविशेषस्य । न च रसोद्बोधो जायते ।

अथोत्तरत्र श्रीभगवन्माधुर्यादिश्रवणादौ तल्लीलान्तःपातिवत्
स्वतन्त्र एव रसोद्बोध इति । तदेवं भगवत्प्रीते रसत्वापत्तौ
सिद्धायामेवं विभाव्यते । विभावादिभिः संवलिता तत्प्रीतिस्तत्प्रीतिमयो
रस इति । तदुक्तं

यथा खण्डमरिचादीनां सम्मेलनादपूर्व एव कश्चिदास्वादः
प्रपानकरसे जायते, विभावादिसम्मेलनादिहापि तथा [षाह्ड्३.१५] इति ।

स चायं रसो भगवन्माधुर्यानुकूल्यानुभवलक्षणास्वादेनोद्दीपन
विभावरूपेण स्वांशेनास्वादरूपः । भगवद्आदिलक्षणालम्बन
विभावादिरूपेणास्वाद्यरूपश्च । अत उभयथा व्यपदेशः ।
तत्र विभावा द्विविधाः । आलम्बनमुद्दीपनश्च । यथोक्तमग्निपुराणे


विभाव्यते हि रत्यादिर्यत्र येन विभाव्यते ।
विभावो नाम स द्वेधालम्बनोद्दीपनात्मकः ॥ [आড়् ३३९३५३६]

आलम्बनो द्विविधः । प्रीतिविषयत्वेन स्वयं भगवान् श्रीकृष्णः । तत्
प्रीत्य्आधारत्वेन तत्प्रियवर्गश्च । उभयत्रैव यत्रेति सप्तम्य्अर्थत्व
व्याप्तेः ।

तत्र श्रीकृष्णो यथा पूर्वमुदाहृतः यस्याननं मकरकुण्डलं [भागवतम्
९.२४.६५] इत्यादिना । गोप्यस्तपः किमचरन् यदमुष्य रूपम् [भागवतम् १०.४४.२४]
इत्यादिना च । तस्य तत्तन्माधुर्यानभिव्यक्तावपि स्वभावत एव
प्रियतमत्वं स्वयं दर्शयति

प्राणबुद्धिमनःस्वात्मदारपत्यधनादयः ।
यत्सम्पर्कात्प्रिया आसंस्ततः को न्वपरः प्रियः ॥ [भागवतम् १०.२३.२७]

स्वः शुद्धो जीवः । आत्मा देहः । यस्य मम सम्पर्कात्
परम्परासम्बन्धात् । अहं तावत्परमानन्दघनरूप इति स्वतः
प्रियः । स्वस्य ममांशत्वादन्तर्यामी पुरुषोऽपि प्रियः । तस्य च जीव
रूपोऽंश इति मत्सम्बन्धपरम्परया प्रियः । तद्अध्याससम्बन्ध
परम्परया च प्राणादयः प्रिया इत्यर्थः । एवं व्यक्तीकृतरूपान्तरेऽपि
श्रीरामेणानुभूतम्

किमेतदद्भुतमिव वासुदेवेऽखिलात्मनि ।
व्रजस्य सात्मनस्तोकेष्वपूर्वं प्रेम वर्धते ॥ [भागवतम् १०.१३.३६] इति ।
ततः
श्यामं हिरण्यपरिधिं वनमाल्यबर्ह
धातुप्रवालनटवेषमनुव्रतांसे ।
विन्यस्तहस्तमितरेण धुनानमब्जं
कर्णोत्पलालककपोलमुखाब्जहासम् ॥ [भागवतम् १०.२३.२२]

इत्येतल्लक्षणेषु ममाविर्भावेषु युष्माकं प्रीत्य्उत्कर्षोदयो नापूर्व
इति भावः ।

॥ १०.२३ ॥ श्रीभगवान् यज्ञपत्नीः ॥ १११ ॥

[११२११४]

तथा तत्प्रियवर्गश्च पूर्वं दर्शितः । तुलयाम लवेनापि [भागवतम् १.१८.१३] इत्य्
आदिना । अस्य भगवद्विषयप्रीत्य्आलम्बनत्वमपि युक्तम् । स्मरणादि
पथं गते ह्यस्मिंस्तद्आधारा सा प्रीतिरनुभूयते । आलम्बनशब्दश्च
विषयाधारयोर्वर्तन इति । अतएवोक्तं

तत्कथ्यतां महाभाग यदि कृष्णकथाश्रयम् ।
अथवास्य पदाम्भोज मकरन्दलिहां सताम् ॥ [भागवतम् १.१६.६] इति ।

तदेवमपि यमाश्रित्य श्रीभगवति स प्रीतिविशेषः प्रवर्तते स
एवालम्बनो ज्ञेयः । अन्ये तूद्दीपनाः । अथैवं सवासनभिन्नवासनक
द्विध (पगे ७२) तत्प्रियवर्गविषया च या प्रीतिः सापि तत्प्रीत्य्
आधारत्वेनैव न तु स्वसम्बन्धादिना । अतएव तत्प्रियवर्गेऽपि स्व
सम्बन्धहेतुकां प्रीतिं निषिध्य श्रीभगवत्येव तामभ्यर्थ्य पुनस्
तत्प्रियवर्गे तद्आधारत्वेनैव प्रीतिमङ्गीकरोति ॰

अथ तत्र निषेधः
अथ विश्वेश विश्वात्मन् विश्वमूर्ते स्वकेषु मे ।
स्नेहपाशमिमं छिन्धि दृढं पाण्डुषु वृष्णिषु ॥ [भागवतम् १.८.४१]

अथ अभ्यर्थना
त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत् ।
रतिमुद्वहतादद्धा गङ्गेवौघमुदन्वति ॥ [भागवतम् १.८.४२]

अथ अङ्गीकारः
श्रीकृष्ण कृष्णसख वृष्ण्य्ऋषभावनिध्रुग्
राजन्यवंशदहनानपवर्गवीर्य ।
गोविन्द गोद्विजसुरार्तिहरावतार
योगेश्वराखिलगुरो भगवन्नमस्ते ॥ [भागवतम् १.८.४३]

॥ १.८ ॥ श्रीकुन्ती श्रीभगवन्तम् ॥ ११२११४ ॥

[११५]

एवं वृक्नः इत्यादिद्वयं श्रीमद्उद्धववाक्यमपि सङ्गमनीयम् ।
यथा

वृक्णश्च मे सुदृठः स्नेहपाशो
दाशार्हवृष्ण्य्अन्धकसात्वतेषु ।
प्रसारितः सृष्टिविवृद्धये त्वया
स्वमायया ह्यात्मसुबोधहेतिना ॥

नमोऽस्तु ते महायोगिन् प्रपन्नमनुशाधि माम् ।
यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी ॥ [भागवतम् ११.२९.३९४०]

सृष्टिविवृद्धये त्वया स्वाधीनया मायया यो देहादिसम्बन्धजः स्नेह
पाशः प्रसारितः स वृक्णश्छिन्नः । केन ? आत्मसुबोधहेतिना, त्वदीय
प्रीत्य्उत्पादकशोभनज्ञानलक्षणशस्त्रेण । अधुना त्वत्
सम्बन्धेनैव स भातीत्यर्थः । अतएवोत्तरपद्यमपि तथैव । इयं
चोक्तिः श्रीमद्उद्धवस्य सिद्धत्वान्न सम्बहवतीति स्वव्याजेनान्यान्
उद्दिश्यैवेति ज्ञेयम् ।

अथ श्रीकुन्तीवाक्यस्यान्यावतारिका, यथा गमने पाण्डवानामकुशलं
अगमने वृष्णीनामित्युभयतो व्याकुलचित्ता सती [Vऋ हेरे अद्द्स्: तेषु स्नेह
निवृत्तिः प्रार्थयते अथेति । एवमप्युभयेषां तादृशतद्एकालम्बनता
दर्शनेन तेष्वधिकभगवत्प्रीत्य्आधारत्वं स्वस्याधिकस्नेहहेतुर्
इति । Eन्द्Vऋ अद्दितिओन्] तेषु स्नेहच्छेदव्याजेनोभयेषामपि त्वद्अविच्छेद
एव क्रियतामिति च व्यज्यते । ततश्चोत्तरत्र श्रीसुतवाक्ये तां बाढमित्य्
उपामन्त्र्ये [भागवतम् १.८.४५] इत्यत्र भगवद्अभ्युपगमोऽपि सर्वत्रैव
सङ्गच्छते । तथाप्यस्य वृक्णश्चेत्यादिवाक्यस्य सङ्गमनार्थं तत्
तथावअतारितम् ।

॥ ११.२९ ॥ श्रीमद्उद्धवः ॥ ११५ ॥

[११६]

एवं श्रीदेवक्याः षड्गर्भानयने तान् प्रति यः स्नेहो दृश्यते स खलु
स्वपीतशेषस्तन्यप्रसादेन तद्उद्धरणार्थं श्रीभगवतैव
प्रपञ्चितः । यथोक्तम्

अपाययत्स्तनं प्रीता सुतस्पर्शपरिस्नुतम् ।
मोहिता मायया विष्णोर्यया सृष्टिः प्रवर्तते ॥
पीत्वामृतं पयस्तस्याः पीतशेषं गदाभृतः ॥ [भागवतम् १.८५.५४५५] इत्यादि ।

ययुर्विहायसा धाम [भागवतम् १०.८५.५६] इत्यन्तम् । तथापि तन्माया तत्
सहोदरतास्फूर्तिमेवावलम्ब्य तां मोहितवतीति मन्तव्यम् ।

अथ श्रीरुक्मिण्या रुक्मिण्यापि स्नेहस्तद्दैन्यादिकौतुकं दिदृक्षुणा श्री
भगवतैव (पगे ७३) वा तद्अर्थं तल्लीलाशक्त्यैव वा रक्षितोऽस्तीति
लभ्यते । स च भक्तिस्फोरणांशमेवावलम्ब्य, तस्या ह्यैश्वर्यज्ञान
संवलितत्वादन्तःकरणमेवं जातम् अयं परमेश्वरः । अयं त्व्
अतिनिकृष्टः । तस्मादस्मिन्नयं विप्रकुर्वन्नपि किञ्चित्कर्तुमशक्त एव ।
ततोऽतिदीनोऽयमिति तथा श्रीभगवच्चरणाश्रिताया मम देह
सम्बन्धवानिति, दीनदयालोर्भक्तसम्बन्धपरम्परा
मात्रेणाभयदादस्मात्तन्नार्हतीति । एवं ह्यैश्वर्यदृष्ट्यैव तत्
प्रार्थनं योगेश्वराप्रमेयात्मन् [भागवतम् १०.५४.३३] इत्यादि ।

अथ श्रीबलदेवस्य स्वशिष्यीभूतदुर्योधनपक्षपातोऽप्येवं
मन्तव्यः । क्वचित्तत्र तत्क्षयकरः क्रोधोऽपि दृश्यते । यथा लक्ष्मणा
हरणे । सर्वमेतत्तु वैचित्रीपोषार्थं श्रीभगवल्लीलाशक्त्यैव
प्रपञ्च्यते इत्युक्तम् ।

अथ उद्दीपनाः । यद्विशिष्टतया श्रीकृष्ण आलम्बनस्त एव भाव
विभावनहेतुत्वेन पृथङ्निर्दिष्टा उद्दीपनाः कथ्यन्ते । ते च तस्य गुण
जातिक्रियाद्रव्यकालरूपाः । गुणाश्त्रिविधाः कायवाङ्मानसाश्रयाः ।
सर्व एवैते न प्राकृता इत्युक्तम्

मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् ।
सुहृदं प्रियमात्मानं साम्यासङ्गादयोऽगुणाः ॥ [भागवतम् ११.१३.४०] इत्यादिना ।

तानेव श्रीकृष्णमालम्बनीकृत्य समुद्दिश्य
सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम् ।
शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥
ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः ।
स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवमेव च ॥
प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः ।
गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहङ्कृतिः ॥
एते चान्ये च भगवन्नित्या यत्र महागुणाः ।
प्रार्थ्या महत्त्वमिच्छद्भिर्न वियन्ति स्म कर्हिचित् ॥ [भागवतम् १.१६.२८३१]

सत्यं यथार्थभाषणम् । शौचं शुद्धत्वम् । दया परदुःखासहनम्
अनेन शरणागतपालकत्वं भक्तसुहृत्त्वं च । क्षान्तिः क्रोधापत्तौ
चित्तसंयमः । त्यागो वदान्यता । सन्तोषः स्वतस्तृप्तिः । आर्जवमवक्रता ।
शमो मनोनैश्चल्यमनेन सुदृढत्वं च । दमो बाह्येन्द्रिय
नैश्चल्यम् । तपः क्षत्रियत्वादिलीलावतारानुरूपः स्वधर्मः । साम्यं
शत्रुमित्रादिबुद्ध्य्अभावः । तितिक्षा स्वस्मिन् परापराधसहनम् ।
उपरतिर्लाभप्राप्तावौदासीन्यम् । श्रुतं शास्त्रविचारः ।

ज्ञानं पञ्चविधम् बुद्धिमत्त्वं कृतज्ञत्वं देशकालपात्रज्ञत्वं
सर्वज्ञत्वमात्मज्ञत्वं च । विरक्तिरसद्विषयवैतृष्ण्यम् । ऐश्वर्यं
नियन्तृत्वम् । शौर्यं सङ्ग्रामोत्साहः । तेजः प्रभावः । अनेन प्रतापश्च ।
स च प्रभावविख्यातिः । बलं दक्षत्वम् । तच्च दुष्करक्षिप्रकारित्वम् ।
धृतिरिति पाठे क्षोभकारणे प्राप्तेऽव्याकुलत्वम् । स्मृतिः
कर्तव्यार्थानुसन्धानम् । स्वातन्त्र्यमपराधीनता ।

कौशलं त्रिविधं क्रियानिपुणता युगपद्भूरिसमाधानकारिता
लक्षणा चातुरी कलाविलासविद्वत्तालक्षणा वैदग्धी च । कान्तिः
कमनीयता । एषा चतुर्विधा अवयवस्य हस्ताद्य्अङ्गादिलक्षणस्य वर्ण
रसगन्धस्पर्शशब्दानाम् । तत्र रसश्चाधारचरणस्पृष्टवस्तु
निष्ठो ज्ञेयः । वयसश्चेति । एतया नारीगणमनोहारित्वमपि । धैर्यं
अव्याकुलता । (पगे ७४) मार्दवं प्रेमार्द्रचित्तत्वम् । अनेन प्रेम
वश्यत्वं च ।

प्रागल्भ्यं प्रतिभातिशयः । अनेन वावदूकत्वं च । प्रश्रयो विनयः ।
अनेन ह्रीमत्त्वम् । यथायुक्तसर्वमानदातृत्वम् । प्रियंवदत्वं च ।
शीलं सुस्वभावः । अनेन साधुसमाश्रयत्वं च । सहो मनःपाटवम् ।
ओजो ज्ञानेन्द्रियपाटवम् । बलं कर्मेन्द्रियपाटवम् । भगस्त्रिविधः
भोगास्पदत्वं सुखित्वं सर्वसमृद्धिमत्त्वं च ।
गाम्भीर्यं दुर्विबोधाशयत्वम् । स्थैर्यमचञ्चलता । आस्तिक्यं शास्त्र
चक्षुष्ट्वम् । कीर्तिः साद्गुण्यख्यातिः । अनेन रक्तलोकत्वं च । मानः
पूज्यत्वम् । अनहङ्कृतिस्तथापि गर्वरहितत्वम् । चकाराद्ब्रह्मण्यत्वम् ।
सर्वसिद्धिनिषेवितत्वम् । सच्चिद्आनन्दघनविग्रहत्वादयो ज्ञेयाः ।
महत्त्वमिच्छद्भिः प्रार्थ्या इति महागुणा इति च । वरीयस्त्वमपि
गुणान्तरम् । एतेन तेषां गुणानामन्यत्र स्वल्पत्वं चञ्चलत्वं च । तत्रैव
पूर्णत्वमविनश्वरत्वं चोक्तम् । अतएव श्रीसूतवाक्यम्

नित्यं निरीक्षमाणानां यदपि द्वारकौकसाम् ।
न वितृप्यन्ति हि दृशः श्रियो धामाङ्गमच्युतम् ॥ [भागवतम् १.११.२६] इति ।

तथा नित्या इति न वियन्तीति सदा स्वरूपगुणान्तरम् । अन्ये च जीवालभ्या
यथा तत्राविर्भावमात्रत्वेऽपि सत्यसङ्कल्पत्वम् ।
वशीकृताचिन्त्यमायत्वम् । आविर्भावविशेषत्वेऽप्यखण्डसत्त्वगुणस्य
केवलस्वयम्अवलम्बनत्वम् । जगत्पालकत्वम् । यथा तथा हतारिस्वर्ग
दातृत्वम् । आत्मारामगणाकर्षित्वम् । ब्रह्मरुद्रादिसेवितत्वम् ।
परमाचिन्त्यशक्तित्वम् । आनन्त्येन नित्यनूतनसौन्दर्याद्य्
आविर्भावत्वम् । पुरुषावतारत्वेऽपि मायानियन्तृत्वम् । जगत्सृष्ट्य्आदि
कर्तृत्वम् । गुणावतारादिबीजत्वम् । अनन्तब्रह्माण्डाश्रयरोम
विवरत्वम् । वासुदेवत्वनारायणत्वादिलक्षणभगवत्त्वाविर्भावेऽपि
स्वरूपभूतपरमाचिन्त्याखिलमहाशक्तिमत्त्वम् । स्वयं भगवल्
लक्ष्णकृष्णत्वे तु हतारिमुक्तिभक्तिदायकत्वम् । स्वस्यापि विस्मापक
रूपादिमाधुर्यवत्त्वम् । अनिन्द्रियाचेतनपर्यन्ताशेषसुखदातृस्व
सान्निध्यत्वमित्यादयः ।

॥ १.१६ ॥ ॥ श्रीपृथिवी धर्मम् ॥ ११६ ॥

[११७]

तदेतद्दिङ्मात्रदर्शनम् । यत आह गुणात्मनस्तेऽपि गुणान् विमातुं
हितावतीर्णस्य क ईशिरेऽस्य [भागवतम् १०.१४.७] इत्यादि । स्पष्टम् ।

॥ १०.१४ ॥ ब्रह्मा श्रीभगवन्तम् ॥ ११७ ॥

[११८]

ते च तस्य गुणाः केचिन्मिथो विरुद्धा अपि अचिन्त्यशक्तित्वेनैकाश्रयाः ।
श्रुतेस्तु शब्दमूलत्वात्[Vस्२.१.२७] इति न्यायेन । मल्लानामशनिः [भागवतम्
१०.४३.१७] इत्यादिदर्शनात् । शिशोरनोऽल्पकप्रवालमृद्व्अङ्घ्रिहतं
व्यवर्तते [भागवतम् १०.७.७] इत्य्आदेश्च । तत्र केवलकौमल्यगुणाविष्कारे सति
क्वचित्पल्लवतल्पेषु नियुद्धश्रमकर्षितः [भागवतम् १०.१५.१६] इत्यादिकमपि
यथार्थमेव ।

एवमेव श्रीदामविप्रानीतकदन्नभोजननिवारणे लक्ष्म्या अपि
प्रवृत्तिः । यथैव तच्चरितेन व्यक्तम् बालव्यजनमादाय रत्नदण्डं
सखीकरात्[भागवतम् १०.६०.७] इत्यादौ । अतएव इति (पगे ७५) मुष्टिम् [भागवतम् १०.८१.१०]
इत्यादौ सा तत्परा इत्युक्तम् । अत्र च एतेनैव मद्अंशलेशरूपाया
विभूतेरनुग्रहभाजनमयं जात इति कदन्नभोजनेनालमिति भावः ।
विरुद्धार्थसद्भावेऽपि न तु दोषास्तत्र सम्भाव्याः अयमात्मापहत
पाप्मा [Cहाऊ ८.१५] इति श्रुतेः । यथा चोक्तं कौर्मे

ऐश्वर्ययोगाद्भगवान् विरुद्धार्थोऽभिधियते ।
तथापि दोषाः परमे नैवाहार्याः समन्ततः ॥ इति ।

ततस्तद्गुणानामन्यदीयानामिव दोषमिश्रत्वं निषेधति

ततस्ततो नूपुरवल्गु शिञ्जितैर्
विसर्पती हेमलतेव सा बभौ ।
विलोकयन्ती निरवद्यमात्मनः
पदं ध्रुवं चाव्यभिचारिसद्गुणम् ।
गन्धर्वसिद्धासुरयक्षचारण
त्रैपिष्टपेयादिषु नान्वविन्दत ॥ [भागवतम् ८.८.१९२०]
सा लक्ष्मीः । पदमाश्रयं ध्रुवं नित्यम् । अव्यभिचारिणो नित्याः सन्तश्
च गुणा यस्मिन् ।
[११९]

तदेव व्यनक्ति त्रिभिः
नूनं तपो यस्य न मन्युनिर्जयो
ज्ञानं क्वचित्तच्च न सङ्गवर्जितम् ।
कश्चिन्महांस्तस्य न कामनिर्जयः
स ईश्वरः किं परतो व्यपाश्रयः ॥

धर्मः क्वचित्तत्र न भूतसौहृदं
त्यागः क्वचित्तत्र न मुक्तिकारणम् ।
वीर्यं न पुंसोऽस्त्यजवेगनिष्कृतं
न हि द्वितीयो गुणसङ्गवर्जितः ॥

क्वचिच्चिरायुर्न हि शीलमङ्गलं
क्वचित्तदप्यस्ति न वेद्यमायुषः ।
यत्रोभयं कुत्र च सोऽप्यमङ्गलः
सुमङ्गलः कश्च न काङ्क्षते हि माम् ॥ [भागवतम् ८.८.२१२३]

अत्र तपादिभिरपि न साम्यं विवक्षितम् । असाम्यप्रसिद्धेः । यथोक्तं
इमे च [भागवतम् १.१६.३०] इत्यादौ प्रार्थ्या महत्त्वमिच्छद्भिरिति । [Vऋ.
अद्दितिओनल्रेअदिन्ग्: किन्त्वन्यदीयतपादिलेशानां सतामपि
दोषान्तरोपरक्तत्वमित्येवमत्यन्तासाम्यमेव विवक्षितम् । Vऋ. एन्द्]
यस्य दुर्वासादेः । क्वचिद्गुरुशुक्रादौ । कश्चिद्ब्रह्मसोमादिः । यः
परतो व्यपाश्रयः परापेक्ष इन्द्रादिः । स किमीश्वरः । क्वचित्
परशुरामादितुल्ये तदानीन्तने न भूतसौहृदम् । शिविराजतुल्ये न
मुक्तिकारणं त्यागः । पुंसः कार्तवीर्यादितुल्यस्य वीर्यमस्ति, किन्त्वज
वेगनिष्कृतं कालवेगपरिहृतं न भवति । यतस्तेषां तत्तद्गुणत्वम्
अपि मायागुणकृतमेव न तु तद्अतीततत्तद्गुणत्वमिति परामृशति ।
न हीति । हि यस्मात्द्वितीयः श्रीमुकुन्दादन्यः । अनेन सनकादय
आत्मारामा अपि परिहृताः । तेषां शमदमादिगुणानां मायिकत्वात् । तथा
शिवोऽपि परिहृत शिवः शक्तियुतः शश्वत्त्रिलिङ्गो गुणसंवृतः [भागवतम् १०.८८.३]
इति । हरिर्हि निर्गुणः साक्षात्[भागवतम् १०.८८.५] इत्याद्य्उक्तेः ।

अथ प्रकारान्तरेण शिवं परिहर्तुमुपक्रमते । क्वचिन्मार्कण्डेयादौ
चिरायुश्चिरजीविता । शीलमङ्गलशब्देनात्र भोग उच्यते । इन्द्रियदमन
शीलत्वादिति टीकायां हेतुविन्यासात् । अभोगिनो ह्यमङ्गस्वभावत्वेन लोके
नामाग्रहणदर्शनाच्च । यद्वा क्वचिन्मयदानवादौ चिरजीवितास्ति ।
शीले स्वभावे मङ्गलं माङ्गल्यं नास्तीत्यर्थः । असुरस्वभावत्वादेव ।
बलिप्रभृतिषु शीलमङ्गलमप्यस्ति, किन्त्वायुषो वेद्यं वेदनं नास्ति
(पगे ७६) मरणानिश्चयात् । यत्र शिवे मङ्गलः स्वभावो नित्यत्वाच्चायुषो
वैद्यत्वं चेत्युभयमप्यस्ति । सोऽप्यमङ्गलः बहिः श्मशानवासाद्य्
अमङ्गलचेष्टितः । श्रीमुकुन्दं लक्ष्यीकृत्याह कश्च कोऽपि तत्तद्
गुणातिक्रम्यानन्तगुणत्वात्तत्तद्दोषहीनत्वाच्च सुमङ्गलः अतिशयेन
सर्वेषां मङ्गलनिधानरूपः । स तु मां स्वरूपेण परमानन्दरूपां
शक्त्या च सर्वसम्पत्तिदायिनीमपि न हि काङ्क्षति । स एव स्वरूपगुण
सम्पत्तिभिः पूर्ण इत्यर्थः । अथ च प्रेमवशोऽसौ प्रेमवतीं मां
कथं नाकाङ्क्षेदित्यभिप्रेत्य श्लेषेण कश्चन कोऽपि सुमङ्गलोऽसौ हि
निश्चितं मां काङ्क्षतीत्यपि भावितम् ॥

[१२०]

इदमत्र तत्त्वम् । परमानन्दरूपे तस्मिन् गुणादिसम्पल्लक्षणानन्त
शक्तिवृत्तिका स्वरूपशक्तिर्द्विधा विराजते । तद्अन्तरेऽनभिव्यक्तनिज
मूर्तित्वेन तद्बहिरप्यभिव्यक्तलक्ष्म्य्आख्यमूर्तित्वेन । इयं च मूर्तिर्
मती सती सर्वगुणसम्पद्अधिष्ठात्री भवति । ततः स्वस्मिन्
परमानन्दत्वस्य सर्वगुणसम्पत्तेश्च स्वरूपसिद्धपरम
पूर्णत्वादुभयथापि न तां पृथग्भूय स्थितां मूर्तिमतीमपेक्षते ।
यथा खल्वन्यः । किन्तु भक्तवश्यतास्वभावेन तां प्रेमवतीम्
अपेक्षत एवेति प्रकरणं निगमयति

एवं विमृश्याव्यभिचारिसद्गुणैर्
वरं निजैकाश्रयतयागुणाश्रयम् ।
वव्रे वरं सर्वगुणैरपेक्षितं
रमा मुकुन्दं निरपेक्षमीप्सितम् ॥ [भागवतम् ८.८.२४]

मुकुन्दः वरं वव्र इत्यन्वयः । तं विशिनष्टि । अव्यभिचारिभिः सद्भिर्
निर्दोषैश्च गुणैर्वरं सर्वोत्तमम् । निजैकाश्रयतया अन्य
निरपेक्षत्वेनैव च गुणाश्रयं स्वरूपसिद्धतत्तद्गुणमित्यर्थः ।
अतएव तेषां गुणानां प्रकृतिसम्बन्धित्वमपि खण्डितम् । स्वतः
परमानन्दघनरूपत्वात्सर्वगुणैरपेक्षितं स्वयं निरपेक्षम् ।
अतएव निजाभीप्सितम् इति ।

॥ ८.८ ॥ श्रीशुकः ॥ ११८१२० ॥

[१२१]

अथ पूर्वोक्तगुणविरोधित्वाद्दोषमात्रं तस्मिन्नास्त्येव । तत्र
सामान्यैश्वर्ये दयाविपरीतं परमसमर्थस्य तस्याभक्तनरकादि
संसारदुःखानुद्धारित्वं प्राकृतदुःखास्पृष्टचित्तत्वेन परमात्म
सन्दर्भादौ परिहृतमस्ति । पाण्डवादिवत्क्वचित्प्राकृतदुःखाभावात्
तद्वियोगाद्वा उत्थिते भक्तिरससञ्चारिलक्षणभक्तदैन्येऽपि कदाचित्
तत्प्रसाददर्शनाभावश्च, तेन पुष्टेन सञ्चारिणा भक्तिरस
पोषणार्थ एव भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः [भागवतम्
१.८.२०] इति तस्यैव मुख्यप्रयोजनत्वात् । ब्रह्मन् यमनुगृह्णामि तद्विशो
विधुनोम्यहम् [भागवतम् ८.२२.२४] इति । सुदुस्तरान्नः स्वान् पाहि [भागवतम् १०.१७.२४]
इत्यादौ । न शकुन्मस्त्वच्चरणं सन्त्युक्तमिति । विपदः सन्तु ताः
शश्वत्[भागवतम् १.८.२५] इति । नाहं तु सख्यो भजतोऽपि [भागवतम् १०.३२.२०] इति च
दैन्येन तत्पोषणश्रवणात् । एतमेव श्रीमद्व्रजबालानां ब्रह्म
द्वारा मोहनमपि व्याख्येयम् । तस्मिन् बहिर्मोहेऽपि तेषां मनसि
भोजनमण्डलावस्थितमात्मानमनुसन्दधानानां
वत्सान्वेषणार्थागतश्रीकृष्णप्रत्यागमनभावना सातत्येन प्रेम
रसपोषणात् । यथोक्तम्

ऊचुश्च सुहृदः कृष्णं स्वागतं तेऽतिरंहसा ।
नैकोऽप्यभोज्कबल एहीतः साधु भुज्यताम् ॥ [भागवतम् १०.१४.४५] इति ।
यज्ञपत्नीनामस्वीकारस्तासां ब्राह्मणीत्वात्तादृशलीलायां सर्वेषाम्
(पगे ७७) अनभिरूचेः भजते तादृशीः क्रीडा याः श्रुत्वा तत्परो भवेत्
[भागवतम् १०.३३.३६] इति न्यायात् ।

नैतत्पूर्वैः कृतं त्वद्ये न करिष्यन्ति चापरे ।
यस्त्वं दुहितरं गच्छेरनिगृह्याङ्गजं प्रभुः ॥ [भागवतम् ३.१२.३०]

तेजीयसामपि ह्येतन्न सुश्लोक्यं जगद्गुरो इत्यत्र तेजीयसामपि तद्
अनुचिन्तता श्रूयते इति । एवमेवाह

न प्रीतयेऽनुरागाय ह्यन्गसन्गो नृणामिह ।
तन्मनो मयि युञ्जाना अचिरान्मामवाप्य्स्यथ ॥ [भागवतम् १०.२३.३२]

इह ब्राह्मणजन्मनि भवतीनामङ्गसङ्गः साक्षान्मत्परिचर्या
रूपोऽर्थो नृणामेतच्चरितद्रष्टृश्रोतॄणां प्रीतये रुचिमात्राय न
भविष्यति, किमुत नानुरागायेति । तत्तस्मादचिरादनन्तरजन्मनि इति ।

॥ १०.२३ ॥ श्रीभगवान् यज्ञपत्नीः ॥ १२१ ॥

[१२२]

अनेन क्वचित्भक्तसुहृत्त्ववैपरीत्याभासोऽपि व्याख्यातः । किं च भक्ता
द्विविधाः दूरस्थाः परिकराश्च । तत्र दूरस्थभक्तार्थं क्वचिद्
भक्तसुहृत्त्वलक्षणेन परमप्रबलेन गुणेन ब्रह्मण्यत्वाद्य्
आवरणमपि प्रायो दृश्यते श्रीमद्अम्बरीषचरितादौ । पर्करार्थं तु
न दृश्यते श्रीजयविजयशापादौ । स्कान्दद्वारकामाहात्म्यगत
दुर्वाससो दुर्वृत्तविशेषे च उभयमपि तत्र तत्र सुहृत्त्वस्यैव चिह्नम् ।
तथैव हि पूर्वत्रात्मीयत्वमुत्तरत्र चात्मैकत्वं प्रसिध्यति । तथोक्तं
अहं भक्तपराधीनः [भागवतम् ९.४.६३] इत्यादिना । तद्धि ह्यात्मकृतं मन्ये
यत्स्वपुम्भिरसत्कृता [भागवतम् ३.१६.४] इत्यादिना च ।

तदेवं भक्तमहत्त्वमात्रस्य तादृशत्वे स्थिते प्रेमार्द्रत्वं तद्
वश्यत्वं च सुतरामेव सर्वाच्छादकम् । तच्च प्रेम्णः स्वरूपनिरूपणे
दर्शितम् । अतएव सर्वोद्दीपनगुणमुख्यत्वेन तत्र तत्र सचमत्कारम्
अनुस्मृतम् । तत्रोद्भास्वराख्येनानुभावेन व्यञ्जितं तस्य प्रेमार्द्रत्वं,
यथा

भगवानथ विश्वात्मा पृथुनोपहृतार्हणः ।
समुज्जिहानया भक्त्या गृहीतचरणाम्बुजः ॥
प्रस्थानाभिमुखोऽप्येनमनुग्रहविलम्बितः ।
पश्यन् पद्मपलाशाक्षो न प्रतस्थे सुहृत्सताम् ॥ [भागवतम् ४.२०.१९२०]

स आदिराजो रचिताञ्जलिर्हरिं विलोकितुं नाशकदश्रुलोचनः इत्यादि ।
स्पष्टम् ।

॥ ४.२० ॥ श्रीशुकः ॥ १२२ ॥

[१२३]
अथ सात्त्विकेनापि व्यञ्जितं यथा । तत्र भक्त्य्आर्द्रत्वमाह

यस्मिन् भगवतो नेत्रान्न्यपतन्नश्रुबिन्दवः ।
कृपया सम्परीतस्य प्रपन्नेऽर्पितया भृशम् ॥
तद्वै बिन्दुसरो नाम [भागवतम् ३.२१.३८३९] इत्यादि ।

भगवतः श्रीशुबलाख्यस्य । प्रपन्ने भक्ते श्रीकर्दमाख्ये ॥

॥ ३.१२ ॥ श्रीमैत्रेयः ॥१२३॥

[१२४]

वात्सल्यार्द्रत्वमाह

कृष्णरामौ परिष्वज्य पितरावभिवाद्य च ।
न किञ्चनोचतुः प्रेम्णा साश्रुकण्ठौ कुरूद्वह ॥ [भागवतम् १०.८२.३३]

पितरौ कुरुक्षेत्रमिलितौ श्रीयशोदानन्दाख्यौ मातापितरौ ।

॥ १०.८२ ॥ श्रीशुकः ॥ १२४ ॥
(पगे ७८)
[१२५]

मैत्र्यार्द्रत्वमाह

तं विलोक्याच्युतो दूरात्प्रियापर्यङ्कमास्थितः ।
सहसोत्थाय चाभ्येत्य दोर्भ्यां पर्यग्रहीन्मुदा ॥
सख्युः प्रियस्य विप्रर्षेरङ्गसङ्गातिनिर्वृतः ।
प्रीतो व्यमुञ्चदब्बिन्दून्नेत्राभ्यां पुष्करेक्षणः ॥ [भागवतम् १०.८०.१८१९]

तं श्रीदामविप्रम् ॥

॥ १०.८० ॥ श्रीशुकः ॥ १२५ ॥

[१२६]

कान्ताभावार्द्रत्वमाह

तासामतिविहारेण श्रान्तानां वदनानि सः ।
प्रामृजत्करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना ॥ [भागवतम् १०.३३.२१]

तासां श्रीगोपीनाम् । प्रेम्णा करुणः साश्रुणेत्र इत्यर्थः । सात्त्विकान्तरं
चोक्तं वैष्णवे

गोपीकपोलसंश्लेषमभिपत्य हरेर्भुजौ ।
पुलकोद्गमशस्याय स्वेदाम्बुघनतां गतौ ॥ [Vइড়् ५.१३.५५]

॥ १०.३३ ॥ श्रीशुकः ॥ १२६ ॥
[१२७]

अथ प्रेमवश्यत्वं, यथा तत्र श्रीभक्तिवश्यत्वमाह गद्येन यस्य
भगवान् स्वयमखिलजगद्गुरुर्नारायणो द्वारि गदापाणिरवतिष्ठते
निजजनानुकम्पितहृदयः [भागवतम् ५.२४.२७] इति । यस्य श्रीबलेः ।

॥ ५.२४ ॥ श्रीशुकः ॥ १२७ ॥

[१२८]

वात्सल्यवश्यत्वमाह

गोपीभिः स्तोभितोऽनृत्यद्भगवान् बालवत्क्वचित् ।
उद्गायति क्वचिन्मुग्धस्तद्वशो दारुयन्त्रवत् ॥ [भागवतम् १०.११.७] इत्यादि ।

स्पष्टम् ।

॥ १०.११ ॥ श्रीशुकः ॥ १२८ ॥

[१२९]

मैत्रीवश्यत्वमाह

सारथ्यपारषदसेवनसख्यदौत्य
वीरासनानुगमनस्तवनप्रणामान् ।
स्निग्धेषु पाण्डुषु जगत्प्रणतिं च विष्णोर्
भक्तिं करोति नृपतिश्चरणारविन्दे ॥ [भागवतम् १.१६.१८]

स्निग्धेषु पाण्डुषु विष्णोर्यानि सारथ्यादीनि कर्माणि तानि शृण्वंस्तथा
विष्णोर्जगत्कर्तृकां प्रणतिं च शृण्वन्नृपतिः परीक्षिद्विष्णोश्
चरणारविन्दे भक्तिं करोति । पारषदं पार्षदत्वं सभापतित्वम् ।
सेवनं चित्तानुवृत्तिः । वीरासनं रात्रौ खड्गहस्तस्य तिष्ठतो जागरणम् ।

॥ १.१६ ॥ श्रीसूतः ॥ १२९ ॥

[१३०]

कान्तभाववश्यत्वमाह

न पारयेऽहं निरवद्यसंयुजां
स्वसाधुकृत्यं विबुधायुषापि वः ।
यामाभजन् दुर्जरगेहशृङ्खलाः
संवृश्च्य तद्वः प्रतियातु साधुना ॥ [भागवतम् १०.३२.२२]

निरवद्या परमशुद्धभावविशेषमात्रेण प्रवृत्तत्वात्परमशुद्धा
संयुक्संयोगे यासां तासां वः स्वसाधुकृत्यं तद्अनुरूपमदीय
परमसुखदसेवां न पारये । न प्रत्युपकारेणानुकर्तुं शक्नोमीत्य्
अर्थः । केनापि न पारये । विगतो बुधो गणनाविज्ञो यस्मात्तेन स्वभाव
नित्येनाप्यायुषेत्यर्थः । तासामनुरागस्य साधिष्ठत्वं लोक
धर्मातिक्रान्तत्वादाह या इति । तस्माद्वः साधुना सौशील्येनैव तत्
प्रतियातु प्रत्युपकृतं भवतु । अहं तु भवतीनामृणी एवेति भावः ।

॥ १०.३२ ॥ श्रीशुकः ॥ १३० ॥

[१३१]

तदेवं तस्य प्रेमार्द्रत्वादिके स्थिते तद्आदिकस्य तस्मिन् परमसाधु
गणे च परमहृद्यसुखदत्वात्तद्धेतुकं कादाचित्कं सत्यादि
वैपरीत्यमपि परमगुणशिरोमणिशोभां भजते । तत्र सत्यविरोध्य्
अपि गुणो यथा

स्वनिगममपहाय मत्प्रतिज्ञाम्
ऋतमधिकर्तुमवप्लुतो रथस्थः ॥ [भागवतम् १.९.३७]

स्पष्टम् ।

॥ १.९ ॥ श्रीभीष्मः ॥ १३१ ॥
(पगे ७९)
[१३२]


शौचविरोधी यथा अंसन्यस्तविषाणोऽसृङ् मदबिन्दुभिरङ्कितः [भागवतम्
१०.४३.१५] इत्यादि । स्पष्टम् ॥

॥ १०.४३ ॥ श्रीशुकः ॥ १३२ ॥

[१३३]

क्षान्तिविरोधी च, यथा यस्तान् द्वेष्टि स मां द्वेष्टि यस्ताननु स माम्
अनु इत्य्आदिमहाभारतस्थश्रीभगवद्वाक्यात् । यथा धनं हरत
गोपानाम् [भागवतम् १०.४४.३२] इत्याद्य्अनन्तरमेवं विकत्थमाने वै कंसे
प्रकुपितोऽव्ययः [भागवतम् १०.४४.३४] । स्पष्टम् ।

॥ १०.४४ ॥ श्रीशुकः ॥ १३३ ॥

[१३४]

सन्तोषविरोधी च अपि मे पूर्णकामस्य इत्यादेः भक्तिसुधोदयस्थ
भगवद्वाक्यात्[१४.२८] । यथा

तमङ्कमारूढमपाययत्स्तनं
स्नेहस्नुतं सस्मितमीक्षती मुखम् ।
अतृप्तमुत्सृज्य [भागवतम् १०.९.५] इत्यादि ।

एवं जघास हैयङ्गवमन्तरं गतः [भागवतम् १०.९६] इत्यादौ रहोऽपि तत्तल्
लीलावेशः ।

॥ १०.९ ॥ श्रीशुकः ॥ १३४ ॥

[१३५]

एवं बालिप्रभृतावार्जवादिगुणविरोधी च सुग्रीवहनुमद्आदि
पक्षपातमयो ज्ञेयः । सर्वशुभङ्करत्वं च क्रोधोऽपि देवस्य वरेण
तुल्यः इति न्यायेन सिद्धम् ।

अथ शमविरोधी कामश्च तस्य प्रेष्ठजनविशेषरूपासु तासु प्रेम
विशेषरूप एव । तथा हि

स एष नरलोकेऽस्मिन्नवतीर्णः स्वमायया ।
रेमे स्त्रीरत्नकूटस्थो भगवान् प्राकृतो यथा ॥ [भागवतम् १.११.३६]

स्वेषु निजजनेषु या माया कृपा तत्सुखचिकीर्षामयप्रेमा तया
लोकेऽवतीर्ण इति तस्या एव सर्वावतारप्रयोजननिमित्तत्वात्स्त्रीरत्न
कूटस्थोऽपि तादृशरमणवशकारिप्रेमविशेषरूपया तयैव रेमे, न
तु प्रसिद्धकामेनेत्यर्थः । अत्र रत्नपदेन तासामपि तद्योग्यत्वं
बोधयित्वा तादृशप्रेमविशेषमयत्वं बोधितम् । एवं भाव
वैलक्षण्येऽपि क्रियया साम्यमित्याह प्राकृतो यथा इति । अत्र श्री
भगवतोऽप्यप्राकृतत्वं दर्शयित्वा तद्वत्कामविषयत्वं निराकृतम् ।

[१३६]

अथ पुनरपि तादृशप्रेमवतीषु तास्वपि प्राकृतकामाधिकारो नास्तीति
दर्शनेन तस्यापि कामुकवैलक्षण्येन तदेव स्थापयति

उद्दामभावपिशुनामलवल्गुहास
व्रीडावलोकनिहतो मदनोऽपि यासाम्
सम्मुह्य चापमजहात्प्रमदोत्तमास्ता;
यस्येन्द्रियं विमथितुं कुहकैर्न शेकुः ॥ [भागवतम् १.११.३७]
मदनः प्राकृतः कामः । उद्भटभावसूचकनिर्मलमनोहराभ्यां
हासव्रीडावलोकाभ्यां निहतस्तन्महिमदर्शनेन स्वयम्
एवोक्तार्थीकृतस्वास्त्रादिबलोऽभूत । अतएव संमुह्य चापमजहात्भ्रू
पल्लवं धनुरपाङ्गतरङ्गितानि बाणा इत्य्आदिवत् । तत्र निजास्त्रप्रयोगं
न कुरुत एवेत्यर्थः । तथाभूता अपि प्रमदोत्तमाः प्रमदेन प्रकृष्ट
प्रेमानन्दविशेषेण परमोत्कृष्टास्ताः स्ववृन्द एव याः स्वतोऽप्य्
उत्कृष्टप्रेमवत्यस्तासां साम्येच्छया कुहकैस्तादृशप्रेमाभावेन
कपटांशप्रयुक्तः सद्भिः कपटादिभिर्यस्येन्द्रियं विमथितुं (पगे
८०) तद्वद्विशेषेण मथितुं न शेकुः किन्तु स्वप्रेमानुरूपमेव शेकुर्
इति । तस्मात्प्रेममात्रोत्थायित्विकारत्वात्तस्य कामुकवैलक्षण्यमिति
भावः ।


[१३७]
तस्मादेतत्तत्त्वमविज्ञायैव

तमयं मन्यते लोको ह्यसङ्गमपि सङ्गिनम् ।
आत्मौपम्येन मनुजं व्यापृण्वानं यतोऽबुधः ॥ [भागवतम् १.११.३८]

अयं साधारणो लोकः असक्तमपि प्राकृतगुणेष्वनासक्तमपि । यतः
आत्मौपम्येन मनुजं व्यापृण्वानं कामादिव्यापारयुक्तं मन्यते ।
यथा आत्मनः प्राकृतमनुष्यत्वादि तथैव मन्यत इत्यर्थः ।
अतएवाबुधः एवासौ लोक इति ।

[१३८]

प्राकृतगुणेष्वसक्तत्वे हेतुः

एतदीशनमीशस्य प्रकृतिस्थोऽपि तद्गुणैः ।
न युज्यते सदात्मस्थैर्यथा बुद्धिस्तद्आश्रया ॥ [भागवतम् १.११.३९]

अवतारादौ प्रकृतिगुणमये प्रपञ्चे तिष्ठन्नपि सदैव तद्गुणैर्न
युज्यते इति यदेतदीशस्येशनमैश्वर्यम् । तत्र व्यतिरेके दृष्टान्तः,
यथेति । एवमेवोक्तं श्रीमद्उद्धवेन तृतीये

भगवानपि विश्वात्मा लोकवेदपथानुगः ।
कामान् सिषेवे द्वार्वत्यामसक्तः साङ्ख्यमास्थितः ॥ [भागवतम् ३.३.१९]

[१३९]

ननु तादृशमैश्वर्यं तस्य ताः किं जानन्ति । यदि जानन्ति तदा रहोलीलायां
त्रुट्यत्येव तादृशप्रेमेत्याशङ्क्याह

तं मेनिरेऽबला मूढाः स्त्रैणं चानुव्रतं रहः ।
अप्रमाणविदो भर्तुरीश्वरं मतयो यथा ॥ [भागवतम् १.११.४०]

ईश्वरमपि तं रह एकान्तलीलायां मौढ्यात्तादृशप्रेममोहाद्भर्तुर्
अप्रमाणविदस्तादृशैश्वर्यअज्ञानरहिताः स्त्रैणमात्मवश्यम्
अनुव्रतमनुसृतं च मेनिरे । तच्च नायुक्तमित्याह, यथा तासां मतयः
प्रेमवासनास्तथैव स इति ये यथा माम् [गीता ४.११] इत्यादेः ।
स्वेच्छामयस्य [भागवतम् १०.१४.२] इत्यादेश्च प्रामाण्यादिति भावः ।

॥ १.११ ॥ श्रीसूतः ॥ १३५१३९ ॥

[१४०]

तथा चान्यत्र

गृहादनपगं वीक्ष्य राजपुत्र्योऽच्युतं स्थितम् ।
प्रेष्ठं न्यमंसत स्वं स्वं न तत्तत्त्वविदः स्त्रियः ॥ [भागवतम् १०.६१.२]

आत्मानं प्रत्येकमेव प्रेष्ठं सर्वतः प्रियतमममंस्तेत्यर्थः ।
अतएवातत्त्वविदः । ऊर्ध्वोर्ध्वप्रेयसीसद्भावात् ।

[१४१]

नन्वात्मारामस्य कथं पत्नीषु प्रेम, उच्यते । तासु रमणत्वेनैव
लोकवन्न तस्य प्रेम, किन्तु शुद्धप्रेमसम्बन्धेनैव । तथा हि

चार्व्अब्जकोशवदनायतबाहुनेत्र
सप्रेमहासरसवीक्षितवल्गुजल्पैः ।
सम्मोहिता भगवतो न मनो विजेतुं
स्वैर्विभ्रमैः समशकन् वनिता विभूम्नः ॥ [भागवतम् १०.६१.३]

अत्र सप्रेमेति तासु श्रीकृष्णप्रेम दर्शितम् । अतएव वनिताशब्द
प्रयोगः । वनिताजनितात्यर्थानुरागायां च योषिति इति नानार्थवर्गात् । तेन
तस्मिन् तासां च (पगे ८१) प्रेम दर्शितम् । अतस्तत्प्रेममात्रविजितं यद्
भगवतो मनस्तत्तु स्वैः केवलस्त्रीजातीयैर्विभ्रमैर्विजेतुं न शेकुर्
इत्यर्थः ।

[१४२]

स्त्रीजातीयविभ्रमानुवादपूर्वकं पूर्वार्थमेव विशदयति

स्मायावलोकलवदर्शितभावहारि
भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः ।
पत्न्यस्तु षोडशसहस्रमनङ्गबाणैर्
यस्येन्द्रियं विमथितुं करणैर्न शेकुः ॥ [भागवतम् १०.६१.४]

स्वयमेवानङ्गबाणरूपैः करणैर्भावहावादिभिर्न शेकुः । तानि
विशिनष्टि स्मायेति । स्मायः स्मितम् । भावोऽभिप्रायः । तादृशभ्रू
मण्डलैः प्रहिता विक्षिप्ताश्च ते सौरतमन्त्रैः सुरतरूपार्थसाधक
मन्त्रैः शौण्डाः प्रगल्भाश्च ते तादृशैः ॥

॥ १०.६१ ॥ श्रीशुकः ॥ १४११४२ ॥

[१४३]

अथ श्रीरघुनाथचरिते स्त्रीसङ्गिनां गतिमिति प्रथयंश्चचार [भागवतम्
९.१०.११] इत्यादिकवाक्येष्वन्तस्तत्प्रेमवश एव स्त्रीसङ्गिनां कामिनां
गतिं प्रथयन् क्रियासाम्येन बहिर्विख्यापयनित्येवाभिप्रायः । उक्तं
च तद्अध्यायान्ते

प्रेम्णानुवृत्त्या शीलेन प्रश्रयावनता सती ।
भिया ह्रिया च भावज्ञा भर्तुः सीताहरन्मनः ॥ [भागवतम् ९.१०.५६] इति ।

तद्अनन्तराध्यायेऽपि
तच्छ्रुत्वा भगवान् रामो रुन्धन्नपि धिया शुचः ।
स्मरंस्तस्या गुणांस्तांस्तान्नाशक्नोद्रोद्धुमीश्वरः ॥ [भागवतम् ९.११.१६]
इत्यनेनान्तस्तत्प्रेमवशतां भक्तिविशेषसौख्याय व्यज्य बहिः
कामुकक्रियासाम्यदर्शनया साधारणजनवैराग्यजननायोक्तम्

स्त्रीपुंप्रसङ्ग एतादृक्सर्वत्र त्रासम्आवहः । [भागवतम् ९.११.१७] इत्यादि ।

युक्तं चोभयविधत्वं भगवच्चरितस्य चतुरस्रहितत्वात् । तस्मात्तत्
कामस्य प्रेयसीविषयकप्रीतिविशेषमात्रशरीरत्वम् । अतो न दोषश्च ।
तन्मात्रशरीरत्वेनैवं विशिष्योक्तम् रेमे रमाभिर्निजकामसम्प्लुतः
[भागवतम् १०.५९.४३] इति स सत्यकामोऽनुरताबलागणः [भागवतम् १०.३३.२५] इति ।

अथ साम्यमपि भक्तादन्यत्रैव ।

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ [गीता ९.२९] इत्यादेः ।

अथ भक्तप्रेमविशेषमयनरलीलावेशमये क्वचित्तत्प्रकाशविशेषे
कदाचित्सर्वज्ञत्वादिविरोधिमोहादिकोऽपि दृश्यते । सोऽपि गुण एव । तादृश
मोहादिकस्य तल्लीलामाधुर्यवाहित्वेन विदुषामपि प्रीतिसुखदत्वात्न
तु दोषः । स्वेच्छयाङ्गीकृतत्वात् । अतएवाह

रक्षो विदित्वाखिलभूतहृत्स्थितः
स्वानां निरोद्धुं भगवान्मनो दधे ॥ [भागवतम् १०.१२.२५]

तावत्प्रविष्टास्त्वसुरोदरान्तरं
परं न गीर्णाः शिशवः सवत्साः ॥ [भागवतम् १०.१२.२६] इति ।

तथा ततो वत्सानदृष्ट्वैत्य [भागवतम् १०.१३.१६] इत्यादि ।

॥ १०.१२ ॥ श्रीशुकः ॥ १४३ ॥

[१४४]

यदा च तस्य स्वेच्छा न भवति प्रतिकुलैर्मोहादिना योजयितुमिष्यते च
सः । तदा सर्वथा तेन न युज्यते एव । यथा शाल्वमायया तस्य
मोहाभावं स्थापयन्नाहैवं वदन्ति राजर्षे ऋषयः केचनान्विताः [भागवतम्
१०.७७.३०] इत्यादौ ।

क्व शोकमोहौ स्नेहो वा भयं वा येऽज्ञसम्भवाः ।
क्व चाखण्डितविज्ञान ज्ञानैश्वर्यस्त्वखण्डितः ॥ [भागवतम् १०.७७.३३] इत्यादि ।

पूर्वोक्तरीत्यैवोक्तं ये त्वज्ञसम्भवाः परमायादिपारवश्यमात्र
कृताः शोकादयस्ते क्वेति ।

॥ १०.७७ ॥ श्रीशुकः ॥ १४४ ॥
(पगे ८२)
[१४५]
भक्तप्रेमपारावश्यसम्बन्धेन तु शोकादयोऽपि वर्णिता एव श्रुत्वा
तां भगवान् रामः [भागवतम् ९.११.१६] इत्यादौ श्रीरामचरिते । सख्युः प्रियस्य
विप्रर्षेः [भागवतम् १०.८०.१९] इत्यादौ श्रीदामादिविप्रचरिते । तथाह

गोप्याददे त्वयि कृतागसि दाम तावद्
या ते दशाश्रुकलिलाञ्जनसम्भ्रमाक्षम् ।
वक्त्रं निनीय भयभावनया स्थितस्य
सा मां विमोहयति भीरपि यद्बिभेति ॥ [भागवतम् १.८.३१]

तत्र भीरपि यद्बिभेति इत्युक्त्या तस्य ऐश्वर्यज्ञानं व्यक्तम् । ततो यदि
सा भीः सत्या न भवति तदा तस्या मोहोऽपि न सम्भवेदिति गम्यते ।
स्फुटमेव चान्तर्भयमुक्तं भयभावनया स्थितस्येति ।

॥ १.८ ॥ श्रीकुन्ती श्रीभगवन्तम् ॥ १४५ ॥

[१४६]

अथ स्वान्तन्त्र्यं भक्तसम्बन्धं विनैव अहं भक्तपराधीनः [भागवतम्
९.४.६३] इत्यादेः । अथ गोचारणादावपि सुखित्वगुणानुकूल्यमेव
मन्तव्यम् । तद्व्याजेन नानाक्रीडासुखमेव ह्युपचीयते । यथाह

व्रजविक्रीडतोरेवं गोपालच्छद्ममायया ।
ग्रीष्मो नामर्तुरभ्वन्नातिप्रेयान् शरीरिणाम् ॥
स च वृन्दावनगुणैर्वसन्त इव लक्षितः ॥ [भागवतम् १०.१८.२३]

क्रियाकृतस्य दुःखस्य निषेधः । व्रजे विक्रीडतोरिति । छद्म व्याजः ।
माया वञ्चनम् । गोपालव्याजेन यद्वञ्चनं तेन विक्रीडतोः । प्रातस्तद्
व्याजेन नानाजनान् वञ्चयित्वा व्रजाद्वनं गत्वा स्वच्छन्दं निजाभीष्टाः
क्रीडाः कुर्वतोरित्यर्थः । सायं व्रजावासागमने चान्या इति । कालकृतस्य
दुःखस्य निषेधः । स चेति । अनेन देशकृतस्य च इति ज्ञेयः ।

॥ १०.१८ ॥ श्रीशुकः इति ॥ १४६ ॥

[१४७]

अथ पूर्ववत्स्थैर्यविरोधी बाल्यादिचाञ्चल्यमपि गुणत्वेनैव स्फुटं
दृश्यते । यथा वत्सान्मुञ्चन् क्वचिदसमये [भागवतम् १०.८.२९] इत्यादि । अथ
रक्तलोकत्वं च यथाह

स्निग्धस्मितावलोकेन वाचा पीयूषकल्पया ।
चरित्रेणानवद्येन श्रीनिकेतेन चात्मना ॥
इमं लोकममुं चैव रमयन् सुतरां यदून् ।
रेमे क्षणदया दत्त क्षणस्त्रीक्षणसौहृदः ॥ [भागवतम् ३.३.२०२१]

रजन्या दत्तावसरः स्त्रीणां क्षणमुत्सवरूपं सौहृदं यस्य ॥

॥ ३.३ ॥ श्रीमानुद्धवः ॥ १४७ ॥

[१४८]

अत्र एवं लीलानरवपुः [भागवतम् १०.२३.३३] इत्य्आदिकमपि उदाहार्यम् । एवमपि
यदसुराणामपरक्तत्वम् । तत्र कारणमाह

पापच्यमानेन हृदातुरेन्द्रियः
समृद्धिभिः पूरुषबुद्धिसाक्षिणाम् ।
अकल्प एषामधिरोढुमञ्जसा
परं पदं द्वेष्टि यथासुरा हरिम् ॥ [भागवतम् ४.३.२१]

स्पष्टम् ।

॥ ४.३ ॥ श्रीशिवः ॥ १४८ ॥

[१४९]

यद्यप्येषां गुणानां सर्वेषामपि भगवति नित्यत्वमेव तथापि तत्तल्
लीलासिद्ध्य्अर्थं तेषां क्वचित्कस्यचित्प्रकाशः कस्यचिदप्रकाशश्च
भवति । अतएवाह

अश्रूयन्ताशिषः सत्यास्तत्र तत्र द्विजेरिताः ।
नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मनः ॥ [भागवतम् १.११.१९]

निर्गुणस्य मध्यपदलोपेन निर्गता गुणेभ्यो गुणा यस्य तस्य, प्राकृत
गुणातीतनित्य (पगे ८३) गुणस्य नानुरूपाः नित्यतत्परिपूर्णत्वेन
लाभान्तरायोगात् । गुणात्मनः तदाशीर्वादाङ्गीकारद्वारा तत्तद्गुण
विशेषप्रवर्तकनिवर्तकस्य अनुरूपाश्च । तद्अङ्गीकारे हेतुः सत्या इति ।

तदेवं प्रकाशनाप्रकाशनहेतोरेव श्रीभगवतश्चन्द्रपर
परार्धोज्ज्वलतादिके सत्यपि तल्लीलामाधुर्यविस्तारकस्तमिस्रादि
व्यवहारः सिध्यति ।

॥ १.१० ॥ श्रीसूतः ॥ १४९ ॥

[१५०]

अतएवावसरविशेषं प्राप्य तत्तद्गुणसमुदायविशेषाविर्भावादेक
एवासौ तत्र तत्र पृथक्पृथगिव धीरोदात्तादिव्यवहारचतुष्टयमपि
प्रकाशयति । तत्र धीरोदात्तो यथा

गम्भीरो विनयी क्षन्ता करुणः सुदृढव्रतः ।
अकत्थनो गूढगर्वो धीरोदात्तः सुसत्त्वभृत् ॥ [Bऋष्२.१.२२६] इति ।

एते च गुणा गोवर्धनोद्धारणादिशक्रसम्भाषान्तलीलायां व्यक्ताः
सन्ति । अथ धीरललितः

विदग्धो नवतारुण्यः परिहासविशारदः ।
निश्चिन्तो धीरललितः स्यात्प्रायः प्रेयसीवशः ॥ [Bऋष्२.१.२३०]
एते च श्रीमद्व्रजदेवीसहितलीलायां सुष्ठु व्यक्ताः । अथ धीरशान्तः


शमप्रकृतिकः क्लेशसहनश्च विवेचकः ।
विनयादिगुणोपेतो धीरशान्त उदीर्यते ॥ [Bऋष्२.१.२३३]

एते च तादृशानां युधिष्ठिरादीनां सन्निधौ तत्पालनलीलायाम्
उज्जृम्भते । अथ धीरोद्धतः
मात्सर्यवानहङ्कारी मायावी रोषणश्चलः ।
विकत्थनश्च विद्वद्भिर्धीरोद्धत उदाहृतः ॥ [Bऋष्२.१.२३६]

एते च तादृशानसुरान् प्राप्य क्वचिदुदयन्ते । अतएव दुष्टदण्डन
हेतुत्वादेषां गुणत्वं च । तदेवमुद्दीपनेषु गुणा व्याख्याताः । अथ
तेषु जातिर्द्विविधाः । तस्य तत्सम्बन्धसम्बन्धिनां चेति । तत्र तस्य जातिर्
गोपत्वक्षत्रियत्वादिका । श्यामत्वकिशोरत्वादिकमन्यत्र तद्उपमा
बुद्धिजनकत्वं च । तत्सम्बन्धिनां जातिस्तु गोत्वादिका ज्ञेया ।

अथोद्दीपनेषु क्रिया लीला एव । ताश्च द्विविधाः । तत्र तत्सान्निध्येन
मायया दर्शिताः । सृष्ट्य्आदयो मायिक्यः । तदीयश्रीविग्रहचेष्टास्तु
स्मितविलासखेलानृत्ययुद्धादयः स्वरूपशक्तिमय्यः । श्रीविग्रहस्य
स्वरूपानन्दैकरूपत्वात् । रमयात्मशक्त्या यद्यत्करिष्यति [भागवतम् ३.९.२३]
इति तृतीयस्थब्रह्मस्तवाच्च । ईश्वरस्यापि तस्य वर्तत एव स्वाभाविकं
तद्इच्छाकौतुकं लोकवत्तु लीलाकैवल्यम् [Vस्२.१.३३] इति न्यायेन । यथाह

एक एवेश्वरस्तस्मिन् सुरकार्ये सुरेश्वरः ।
विहर्तुकामस्तानाह समुद्रोन्मथनादिभिः ॥ [भागवतम् ८.६.१७]

एक एवेश्वरः समर्थोऽपीति टीका च । अतएव तत्तज्जातिलीलाभिनिवेशः
श्रूयते, यथा विष्णुधर्मोत्तरे
यस्यां यस्यां यदा योनौ प्रादुर्भवति कारणात् ।
तद्योनिसदृशं वत्स तदा लोके विचेष्टते ॥
संहर्तुं जगदीशानः समर्थोऽपि तदा नृप ।
तद्योनिसदृशोपायैर्वध्यान् हिंसति यादव ॥ इत्यादि ।

॥ ८.६ ॥ श्रीशुकः ॥ १५० ॥

[१५१]

तत्र श्रीविग्रहचेष्टा द्विविधाः । ऐश्वर्यमय्यो माधुर्यमय्यश्चेति ।
तत्र निजजनप्रेममयत्वान्माधुर्यमय्य एव रमणाधिक्ये हेतवः ।
यथैव परमविस्मयहर्षाभ्यामाह (पगे ८४)

एवं निगूढात्मगतिः स्वमायया
गोपात्मजत्वं चरितैर्विडम्बयन् ।
रेमे रमालालितपादपल्लवो
ग्राम्यैः समं ग्राम्यवदीशचेष्टितः ॥ [भागवतम् १०.१५.१९]

श्रीनारायणादिरूपेषु स्वाविर्भावेषु रमालालितपादपल्लवोऽपि स्वेषु
अलौकिकेष्वपि व्रजवासिषु निरीक्ष्य तद्वपुरलमम्बरे चरत्[भागवतम्
१०.१८.२७] इत्यादौ हलधर ईषदत्र सतिति न्यायलब्धेन तल्लीला
माधुर्यस्थितिः सन् लौकिकं यद्गोपात्मजत्वं तदेव अलौकिक
गोपात्मजमयिश्चरितैर्विडम्बयननुकुर्वन् रेमे स्वयमपि रतिम्
उवाह । अतस्तादृशरमणेषु यथा तद्इच्छा । न तथा रमालालितपाद
पल्लवत्वेऽपीति दर्शितम् ।

रमणमेव दर्शयति । यथाधुनापि ग्राम्यैर्बालकैः समं कश्चिद्
ग्रामाधिपबालको रमते तद्वत् । तत्तल्लीलाप्रधान एव रमते न त्व्
ऐश्वर्यप्रधान इत्यर्थः । दृश्यते च तत्तल्लीलावेशः । स जातकोप
स्फुरितारुणाधरः [भागवतम् १०.९.६] इत्यादौ । रहोऽपि जाततादृशभावात् । तान्
वीक्ष्य कृष्णः [भागवतम् १०.१२.२७] इत्यादौ बालानां स्वकरापच्युतताजातानुतापाद्
दिष्टकृतत्वमननाच्च । अतएव तस्य तत्तल्लीलासु लोकानुसारि यद्यद्
बुद्धिकर्मसौष्ठवं तत्तत्सुष्ठु मुनिभिरपि सचमत्कारं
वर्ण्यते । यथोक्तं श्रीशुकेन जरासन्धयुद्धान्ते

स्थित्य्उद्भवान्तं भुवनत्रयस्य यः
समीहितेऽनन्तगुणः स्वलीलया ।
अन तस्य चित्रं परपक्षनिग्रहस्
तथापि मर्त्यानुविधस्य वर्ण्यते ॥ [भागवतम् १०.५०.३०] इति ।

तेषु चरितेषु यद्अलौकिकमासीत्तदपि तत्तल्लीलारसमात्रासक्तस्य तस्य
स्वभावसिद्धैश्वर्यत्वेन लीलाख्या शक्तिरेव स्वयं सम्पादितवतीत्याह
ईशं तत्तल्लीलोचितसुघटदुर्घटसर्वार्थसाधकं चेष्टितं लीलैव
यस्य स इति । यथोक्तम्

अथोवाच हृषीकेशं नारदः प्रहसन्निव ।
योगमायोदयं वीक्ष्य मानुषीमीयुषो गतिम् ॥ [भागवतम् १०.६९.३७]

यथा च

यद्येवं तर्हि व्यादेही त्युक्तः स भगवान् हरिः ।
व्यादत्ताव्याहतैश्वर्यः क्रीडामनुजबालकः ॥ [भागवतम् १०.८.३६]

सा तत्र ददृशे विश्वम् [भागवतम् १०.८.३७] इति । अत्र यदि सत्यगिरस्तर्हि समक्षं
पश्य मे मुखम् [भागवतम् १०.८.३५] इत्यन्ता तदीयसरसकृतैव लीला पूर्वम्
उक्ता । अव्याहतैश्वर्य इत्यादिका तु तत्तल्लीलाशक्तिकृतैव । सा च श्री
व्रजेश्वर्या वात्सल्यपोषिके विस्मयशङ्के पुष्णाति । नाहं भकृइतवान्
अम्ब [भागवतम् १०.८.३५] इति सम्भ्रमेण मिथ्यैव कृष्णवाक्यं च सत्यापयति ।

एवं श्रीदामोदरलीलायां यावत्तस्य बन्धनेच्छा न जातासीत्तावद्रज्जु
परम्पराभ्यस्तस्मिन् द्व्य्अङ्गुलाधिकत्वप्रकाशः । तदुक्तं तद्दामा
[भागवतम् १०.८.१५] इत्यादिना । यदा तु मातृश्रमेण तद्इच्छा जाता तदा न तत्
प्रकाशः । तदुक्तं स्वमातुः स्विन्नगात्रायाः [भागवतम् १०.९.१८] इत्यादिना ।

एवं श्रीकृष्णकृपादृष्टिप्रभावेणैव विषमयमोहात्सखीनां
समुद्धरणं तद्आवेशेनैव दावाग्निपाने चिकीर्षितमात्रे स्वयं तन्
नाश इत्यादिकं ज्ञेयम् । क्रीडामनुजबालक इति क्रीडया लीलया मनुजा
बालकस्थितिं प्राप्तोऽपीत्यर्थः । अन्यत्र च क्रीडामानुषरूपिणः [भागवतम्
१०.१६.६८] इति । एवं कार्यमानुषः [भागवतम् १०.१६.६०] इत्यत्रापि कार्यं क्रीडैव ।
तस्मात्साधु व्याख्यातमेवं निगूढात्मगतिः इत्यादि ।

॥ १०.१५ ॥ श्रीशुकः ॥ १५१ ॥
(पगे ८५)
[१५२]

अन्यत्र च पूर्वरीत्यैवाह

कृत्वा तावन्तमात्मानं यावतीर्गोपयोषितः ।
रेमे स भगवांस्ताभिरात्मारामोऽपि लीलया ॥ [भागवतम् १०.३३.२०]

तादृशोऽपि ताभिः सह रेमे । तस्यारविन्दनयनस्य [भागवतम् ३.१५.४३] इत्यादौ
चकार तेषां सङ्क्षोभमक्षरजुषामपि चित्ततन्वोः इतिवत् । तत्र
सर्वाभिरेव युगपल्लीलेच्छा यदा जाता तदैव तावत्प्रकाशा अपि तथैव
लीलाशक्त्या घटिता इत्याह कृत्वेति । लीलया लीलाशक्तिद्वारैव, न तु स्व
द्वारा । तावन्तमात्मानमात्मनः प्रकाशं कृत्वा प्रकटय्य ।

॥ १०.३३ ॥ श्रीशुकः ॥ १५२ ॥

[१५३]

तदेवं माधुर्यमय्या लीलाया उत्कर्षो दर्शितः । अस्यां माधुर्यमय्यां
च युगपद्विचित्रलीलाविधानस्य तस्यापि रमणाधिक्यहेतुत्वेन पूर्व
दर्शितविलासमय्येव श्रीशुकदेवादीनामपि श्रीशिवब्रह्मादीनामपि
परममधुरत्वेन भासते । पूर्वत्र यथा इत्थं सतां ब्रह्म
सुखानुभूत्या [भागवतम् १०.१२.११] च तादृशत्वेन वर्णनात् । उत्तरत्र शक्रशर्व
परमेष्ठिपुरोगाः [भागवतम् १०.३५.१५], कश्मलं ययुरित्यादिषु तत्रैव मोह
श्रवणाच्च ।

अथ क्रीडामानुषरूपिणस्तस्यान्या लोकमर्यादामयी धर्मानुष्ठान
लीला तु धर्मवीरादिभक्तानामेव मधुरत्वेन भासते न तादृशानाम् ।
यथाह

ब्रह्मन् धर्मस्य वक्ताहं कर्ता तद्अनुमोदिता ।
तच्छिक्षयन् लोकमिममास्थितः पुत्र मा खिदः ॥ [भागवतम् १०.६९.६०]

तत्र हि श्रीनारदो नानाक्रीडान्तरदर्शनेन सुखं लब्धवान्
धर्मानुष्ठानदर्शनेन तु खेदं तत्राह ब्रह्मन्निति ।

॥ १०.६९ ॥ श्रीभगवान्नारदम् ॥ १५३ ॥

[१५४]

अथ पूर्ववदेव कनिष्ठज्ञानिभक्तानामेव मधुरत्वेन
भासमानां तद्औदासीन्यलीलामप्याह
तस्यैवं रममाणस्य संवत्सरगणान् बहून् ।
गृहमेधेषु योगेषु विरागः समजायत ॥ [भागवतम् ३.३.२२]

गृहमेधेषु गार्हस्थ्योचितधर्मानुष्ठानेषु वैराग्यमौदासीन्यम् ।

॥ ३.३ ॥ श्रीमानुद्धवो विदुरम् ॥ १५४ ॥

[१५५]

अथोद्दीपनेषु तदीयद्रव्याणि च परिष्कारास्त्रवादिक्रस्थानचिह्न
परिवारभक्ततुलसीनिर्माल्यादीनि । तत्र परिष्कारा वस्त्रालङ्कार
पुष्पादयः । ते च तदीयास्तत्स्वरूपभूतत्वेनैव भगवत्सन्दर्भे
दर्शिताः । तथापि भूषणभूषणाङ्गम् [भागवतम् ३.२.११] इति न्यायेन तत्
सौन्दर्यसौरभ्यादिपरिष्क्रियमाणतयैव तं परिष्कुर्वन्ति न केवलस्व
गुणेन । स च तत्तद्रूपान् तान् स्वशक्तिविलासान् प्राप्य स्वीयतत्तद्गुणान्
विशेषतः प्रकाशयतीति तस्य तत्तद्अपेक्षापि सिध्यति । अतएव पीताम्बर
धरः स्रग्वी साक्षान्मन्मथमन्मथः [भागवतम् १०.३२.२] इत्यादौ
अभिव्यक्तासमोर्ध्वसौन्दर्यस्यापि परिष्कारत्वेन वर्णितयोः स्रक्
पीताम्बअयोरपि तादृशत्वं गम्यते । ईदृशान्येव वासांसि नित्यं गिरि
वनेचराः [भागवतम् १०.४१.३५] इति रजकवाक्यं त्वासुरदृष्ट्या श्रीविष्णुपुराणे
लौकिकदृष्ट्यापि सुवर्णाञ्जनचूर्णाभ्यां तौ तदा भूषिताम्बरौ [Vइড়्
५.९.५] इत्युत्तमागमत्वावगमात् । तथा मूले च श्यामं हिरण्यपरिधिम्
[भागवतम् १०.२३.२२] इत्यादि । आस्तां तदपि कालियवरुणगोविन्दाभिषेककर्तृ
महेन्द्राद्य्उपहृतासख्यवस्त्रादीनां तद्दिने चावश्यं विचित्र
परिहितानां तेनान्यथा प्रतीयमानत्वमेव जायते । ततः (पगे ८६)
कंसाहृतवाससां स्वीकारश्च तदीयस्वरूपशक्त्यैकप्रादुर्भाव
रूपाणां नरकाहृतकन्यानामिवेति ज्ञेयम् । अथास्त्राणि यष्टिचक्रादीनि ।
वादित्राणि वेणुशङ्खादीनि । स्थानानि वृन्दावनमथुरादीनि । चिह्नानि
पदाङ्कादीनि । परिवारा गोपयादवाद्याः । निर्मल्याणि गोपीचन्दनादीनि
यथायथं तत्र तत्र ज्ञेयानि । अथोद्दीपनेषु कालाश्च तदीय
जन्माष्टम्यादयः । तथा भक्तस्य स्वयोग्यता च तद्उद्दीपनत्वेन
दृश्यते । यथा

ततो रूपगुणौदार्य सम्पन्ना प्राह केशवम् ।
उत्तरीयान्तमाकृष्य स्मयन्ती जातहृच्छया ॥ [भागवतम् १०.४२.९]

स्पष्टम् ।
॥ १०.४२ ॥ श्रीशुकः ॥ १५५ ॥

[१५६]

तथा तद्रसविशेषेषु श्रीभगवद्अङ्गविशेषा अपि उद्दीपनवैशिष्ट्यं
भजन्ते । यथा

श्रियो निवासो यस्योरः पानपात्रं मुखं दृशाम् ।
बाहवो लोकपालानां सारङ्गाणां पदाम्बुजम् ॥ [भागवतम् १.११.२७]

श्रियः प्रेयस्याः । याः सर्वेषामेव प्रियवर्गाणां दृशश्चक्षूंषि तासाम् ।
लोकपालानां पाल्यानाम् । सारङ्गाणां सर्वेषामपि भक्तानां निवास
आश्रयः । यथास्वं भावोद्दीपनत्वात् ।

॥ १.११ ॥ श्रीसूतः ॥ १५६ ॥

[१५७]

क्वचिद्विरोधिनोऽपि प्रतियोगिमुखेन तद्उद्दीपना भवन्ति । सूर्यादितापा
इव जलाभिलाषस्य । यथा

श्रुत्वैतद्भगवान् रामो विपक्षीयनृपोद्यमम् ।
कृष्णं चैकं गतं हर्तुं कन्यां कलहशङ्कितः ॥
बलेन महता सार्धं भ्रातृस्नेहपरिप्लुतः । [भागवतम् १०.५३.२०२१] इत्यादि ।

एवं वात्सल्यादौ श्रीकृष्णस्य धूलिपङ्कक्रीडादिकृतमालिन्यादयोऽपि
ज्ञेयाः । कान्तभावादौ वृद्धादिप्रातिकूल्यादयोऽपि यदा च ते
भयानकादिगौणरससप्तकं जनयन्ति तदापि पञ्चविधमुख्यप्रीति
रसपोषकतामेव प्रपद्यन्ते । यथोक्तं भक्तिरसामृतसिन्धौ

अमी पञ्चैव शान्ताद्या हरेर्भक्तिरसा मताः ।
एषु हास्यादयः प्रायो बिभ्रति व्यभिचारिताम् ॥ [Bऋष्४.७.१४] इति ।

॥ १०.५३ ॥ श्रीशुकः ॥ १५७ ॥

[१५८]

तदेवमुद्दीपना उद्दिष्टाः । एषु च श्रीवृन्दावनसम्बन्धिनस्तु
प्रकृष्टाः । अहो यत्र सर्वेषामेव परमप्रीत्य्एकास्पदस्य श्री
कृष्णस्यापि परमप्रीत्य्आस्पदत्वं श्रूयतेवृन्दावनं गोवर्धनम् [भागवतम्
१०.११.१६] इत्यादौ, श्लाघितं च स्वयमेव अहो अमी देववरामरार्चितम्
[भागवतम् १०.१५.५] इत्यादिभिः ।

तथा तदीयपरमभक्तैश्च तद्भूरिभाग्यमिह जन्म [भागवतम् १०.१४.३४]
इत्यादिना, आसामहो चरणरेणुजुषाम् [भागवतम् १०.४७.६१] इत्यादिना, वृन्दावनं
सखि भुवो वितनोति कीर्तिं [भागवतम् १०.२१.१०] इत्यादिना च । अतएव श्रीकृष्णस्यापि
तत्रस्थाः प्रकाशा लीलाश्च परमवरीयांसः । यथा त्रैलोक्यसंमोहन
तन्त्रे तदीयश्रीमद्अष्टादशाक्षरप्रस्तावे

सन्ति तस्य महाभागा अवताराः सहस्रशः ।
तेषां मध्येऽवताराणां बालत्वमतिदुर्लभम् ॥ इति ।

बाल्यं च षोडशवर्षपर्यन्तमिति प्रसिद्धम् । तथा हरिलीलाटीकायाम्
उदाहृता स्मृतिः

गर्भस्थसदृशो ज्ञेय आष्टमाद्वत्सराच्छिशुः ।
बालश्चाषोडशाद्वर्षात्पौगण्डश्चेति प्रोच्यते ॥ इति ।
अन्यत्र च श्लाघितम्
नन्दः किमकरोद्ब्रह्मन् श्रेय एवं महोदयम् ।
यशोदा च महाभागा पपौ यस्याः स्तनं हरिः ॥ (पगे ८७)
पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम् ।
गायन्त्यद्यापि कवयो यल्लोकशमलापहम् ॥ [भागवतम् १०.८.४६४७]

अतएव एकादशे सर्वश्रीकृष्णचरितकथान्ते सामान्यतः श्रीकृष्ण
चरितस्य भक्त्य्उद्दीपनत्वमुक्त्वा वैशिष्ट्यविवक्षया बाल्यचरितस्य
पृथग्उक्तिः

इत्थं हरेर्भगवतो रुचिरावतार
वीर्याणि बालचरितानि च शन्तमानि ।
अन्यत्र चेह च श्रुतानि गृणन्मनुष्यो
भक्तिं परां परमहंसगतौ लभेत ॥ [भागवतम् ११.३१.२८] इति ।

सोऽयं च तत्प्रकाशलीलानामुत्कर्षो बहुविधः । ऐश्वर्यगतस्तावत्
सत्यज्ञानानन्तानन्दमात्रैकरसमूर्तिब्रह्माण्डकोटीश्वर
दर्शनादौ । कारुण्यगतश्च पूतनायामपि साक्षान्मातृगतिदाने,
माधुर्यगतस्तु तावङ्घ्रियुग्ममनुकृष्य सरीसृपन्तौ [भागवतम् १०.८.२२]
इत्यादौ, वत्सान्मुञ्चन् क्वचिदसमये [भागवतम् १०.८.२९] इत्यादौ, गोपीभिः
स्तोभितोऽनृत्यत्[भागवतम् १०.११.७] इत्यादौ, क्वचिद्वादयतो वेणुम् [भागवतम् १०.११.३९]
इत्यादौ, क्वचिद्विनाशाय मनो दधद्व्रजात्[भागवतम् १०.२१.१] इत्यादौ, क्वचिद्
गायति गायत्सु [भागवतम् १०.१५.१०] इत्यादौ, तं गोरजश्छुरितकुन्तलबद्ध
बर्ह [भागवतम् १०.१५.४२] इत्यादौ, कृष्णस्य नृत्यतः केचिद्[भागवतम् १०.१८.१०] इत्यादौ,
धेनवो मन्दगामिन्यः [भागवतम् १०.२०.२६] इत्यादौ, अक्षण्वतां फलम् [भागवतम्
१०.२१.७] इत्यादौ, श्यामं हिरण्यपरिधिम् [भागवतम् १०.२३.२२] इत्यादौ, भगवान्
अपि ता रात्रीः [भागवतम् १०.२९.१] इत्यादौ, वामबाहुकृतवामकपोलः [भागवतम्
१०.३५.२] इत्यादौ च । किं बहुना सर्वत्रैव सहृदयैः सर्व एवावगन्तव्यः ।

अथ अनुभावास्तु चित्तस्थभावानामवबोधकाः । [Bऋष्२.२.१] । ते
द्विविधाः उद्भास्वराख्याः सात्त्विकाख्याश्च । तत्र भावजा अपि बहिश्
चेष्टाप्रायसाध्या उद्भास्वराः । ते चोक्ताः

नृत्यं विलुठितं गीतं क्रोशनं तनुमोटनम् ।
हुङ्कारो जृम्भणं श्वासभूमा लोकानपेक्षिता ।
लालास्रवोऽट्टहासश्च घूर्णाहिक्कादयोऽपि च ॥ [Bऋष्२.२.२] इति ।

अथ सात्त्विकाः अन्तर्विकारैकजन्याः । यत्रान्तर्विकारोऽपि तद्अंश इति
भावत्वमपि तेषां मन्यन्ते । तत्र

ते स्तम्भस्वेदरोमाञ्चाः स्वरभेदोऽथ वेपथुः ।
वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥[Bऋष्२.३.१६]

एषु प्रलयो नष्टचेष्टता । भगवत्प्रीतिहेतुकप्रलये च बहिश्चेष्टा
नाशः । नअ त्वन्तर्भगवत्स्फूर्त्य्आदेरपि । यथोक्तं श्रीमद्उद्धवम्
उद्दिश्य

स मुहूर्तमभूत्तूष्णीं कृष्णाङ्घ्रिसुधया भृशम् ।
तीव्रेण भक्तियोगेन निमग्नः साधु निर्वृतः ॥ [भागवतम् ३.२.४] इत्यादिना ।
शनकैर्भगवल्लोकान्नृलोकं पुनरागतः ॥ [भागवतम् ३.२.६] इत्यन्तेन ।

यथा गारुडे
जाग्रत्स्वप्नसुसुप्तेषु योगस्थस्य च योगिनः ।
या काचिन्मनसो वृत्तिः सा भवेदच्युताश्रयः ॥ इति ।

अतएव तदानीं तत्तद्रसानामास्वादभेदस्फूर्तिरप्यवगन्तव्या ।

अथ सञ्चारिणः । ये व्यभिचारिणश्च भण्यन्ते । सञ्चारयन्ति भावस्य गतिं
[Bऋष्२.४.२] इति (पगे ८८) विशेषेणाभिमुख्येन चरन्ति स्थायिनं प्रति [Bऋष्
२.४.१] इति च निरुक्तेः । ते च त्रयस्त्रिंशत्

निर्वेदोऽथ विषादो दैन्यं ग्लानिश्रमौ च मदगर्वौ ।
शङ्कात्रासावेगा उन्मादापस्मृती तथा व्याधिः ॥
मोहो मृतिरालस्यं जाड्यं व्रीडावहित्था च ।
स्मृतिरथ वितर्कचिन्तामतिधृतयो हर्ष उत्सुकत्वं च ॥
औग्र्यमर्षासूयाश्चापल्यं चैव निद्रा च ।
सुप्तिर्बोध इतीमे भावा व्यभिचारिणः समाख्याताः ॥ [Bऋष्२.४.४६]

एषां लक्षणमुज्ज्वले दर्शनीयम् । एषु त्रासः कृष्णवत्सलादिषु
भयानकादिदर्शनात् । तद्अर्थं तत्सङ्गतिहानितर्केणात्मार्थं च
भवति । निद्रा तच्चिन्तया शून्यचित्तत्वेन तत्सङ्गत्य्आनन्दव्याप्त्या च
भवति । श्रमः परमानन्दमयतद्अर्थायासतादात्म्यापत्तौ भवति ।
आलस्यं तादृशश्रमहेतुकं कृष्णेतरसम्बन्धिक्रियाविषयकं भवति ।
बोधश्च तद्दर्शनादिवासनायाः स्वयमुद्बोधेन भवतीत्यादिकं
ज्ञेयम् । किं च निर्वेदादीनां चामीषां लौकिकगुणमय
भावायमानानामपि वस्तुतो गुणातीतत्वमेव तादृशभगवत्प्रीत्य्
अधिष्ठानत्वात् । अथैतत्संवलनात्मको भगवत्प्रीतिमयो रसोऽपि व्यञ्जित
एव

स्मरन्तः स्मारयन्तश्च मिथोऽघौघहरं हरिम् ।
भक्त्या सञ्जातया भक्त्या बिभ्रत्युत्पुलकां तनुम् ॥

क्वचिद्रुदन्त्यच्युतचिन्तया क्वचिद्
धसन्ति नन्दन्ति वदन्त्यलौकिकाः ।
नृत्यन्ति गायन्त्यनुशीलयन्त्यजं
भवन्ति तूष्णीं परमेत्य निर्वृताः ॥ [भागवतम् ११.३.३१३२] इत्यनेन ।

अत्र हरिरालम्बनो विभावः । स्मरणमुद्दीपनः । स्मारणादिक
उद्भास्वराख्योऽनुभावः । पुलकः सात्त्विकः । चिन्तादयः सञ्चारिणः ।
संजातया भक्त्येति स्थायी । भवन्ति तूष्णीं परमेत्य निर्वृता इति तत्
संवलनम् । परं परमरसात्मकं वस्त्वित्यर्थः । एष च भगवत्
प्रीतिमयरसः पञ्चधा प्रीतेर्भेदपञ्चकेन । ते च ज्ञानभक्तिमय
भक्तिमयवत्सलमैत्रीमयोज्ज्वलाख्याः क्रमेण ज्ञेयाः ।

एतेषां च स्थायिनां भावान्तराश्रयत्वात्नियताधारत्वाच्च मुख्यत्वम् ।
तत्प्रीतिसम्बन्धेनैव भागवतरसान्तःपातात्पञ्चविधेषु प्रियेषु
कादाचित्कोद्भवत्वेनानियताधारत्वाच्च गौणता । ततस्तदीयरसानामपि
गौणता । तत्र मुख्याः मधुरेण समापयेतिति न्यायेन गौणरसानां
रसाभासानामप्युपरि विवरणीयाः ।

गौणाः सम्प्रति विव्रियन्ते । येषु विस्मयादयो विभाववैशिष्ट्यवशेन
स्वयं तत्प्रीत्य्उत्था अपि तत्प्रीतिमात्मसात्कृत्य वर्धमानाः स्थायितां
प्रपद्यन्ते । ते च

अद्भुतो हास्यवीरौ च रौद्रो भीषण इत्यपि ।
बीभत्सः करुणश्चेति गौणाः सप्त रसाः स्मृताः ॥

तत्र तत्प्रीतिमयोऽयमद्भुतो रसः । यत्रालम्बनो लोकोत्तराकस्मिक
क्रियादिमत्त्वेन विस्मयविषयः श्रीकृष्णः । तद्आधारस्तत्प्रियश्च ।
उद्दीपनास्तादृशतच्चेष्टाः । (पगे ८९) अनुभावाः नेत्रविस्ताराद्याः ।
व्यभिचारिणश्चावेगहर्षजाद्य्आद्याः । स्थायी तत्प्रीतिमयो विस्मयः । तद्
उदाहरणं च

चित्रं बतैतदेकेन वपुषा युगपत्पृथक् ।
गृहेषु द्व्य्अष्टसाहस्रं स्त्रिय एक उदावहत् ॥ [भागवतम् १०.६९.२] इत्यादिकं
ज्ञेयम् ।

अथ तन्मयो हास्यो रसः । तत्रालम्बनश्चेष्टावाग्वेषवैकृत्य
विशेषवत्त्वेन तत्प्रीतिमयहासविषयः श्रीकृष्णः । तद्आधारस्तत्
प्रियश्च । तथा यदि तद्विशेषवत्त्वेनैव तत्प्रियाप्रियौ च तत्प्रीतिमय
हासविषयौ भवतस्तदापि तत्कारणस्य प्रीतेर्विषयः श्रीकृष्ण इति स एव
मूलमालम्बनम् । हास्यस्यापि तद्विशिष्टत्वेनैव प्रवृत्तेस्तु सुतरामेव ।
अतः केवलस्य हासांशस्य विषयत्वेन विकृततत्प्रियाप्रियौ बहिरङ्गाव्
एवावलम्बनाविति । एवं दानयुद्धवीररसादिष्वपि ज्ञेयम् । उद्दीपनास्
तु तज्जनकस्य चेष्टावाग्वेषवैकृतादयः । अनुभावाश्च नासौष्ठ
गण्डकिस्पन्दनादयः । व्यभिचारिणो हर्षालस्यावहित्थादयः । स्थायी च
तत्प्रीतिमयो हासः । स च स्वविषयानुमोदनात्मकस्तद्उत्प्रासात्मको वा
चेतोविकाशः । ततस्तद्आत्मकत्वेन विषयोऽप्यस्यास्ति ।
तस्योदाहरणेऽनुमोदनात्मको यथा वत्सान्मुञ्चन् क्वचिदसमये
क्रोशसञ्जातहासः [भागवतम् १०.८.२९] इत्यादि, हस्ताग्राह्ये रचयति विधिं [भागवतम्
१०.८.३०] इति, एवं धार्ष्ट्यान्युशति कुरुते [भागवतम् १०.८.३१] इत्यादि इत्थं स्त्रीभिः
सभननयनश्रीमुखालोकिनीभिर्व्याख्यातार्था प्रहसितमुखी न ह्य्
उपालब्धुमैच्छतित्यन्तम् । व्याख्यातस्तदीयचापल्यलक्षणोऽर्थो यस्यै
सा ।

॥ १०.८ ॥ श्रीशुकः ॥ १५८ ॥

[१५९]

उत्प्रासात्मको यथा

तासां वासांस्युपादाय नीपमारुह्य सत्वरः ।
हसद्भिः प्रहसन् बालैः परिहासमुवाच ह ॥ [भागवतम् १०.२२.९]

स्पष्टम् ।
॥ १०.२२ ॥ श्रीशुकः ॥ १५९ ॥

[१६०]

यथा च
कत्थनं तदुपाकर्ण्य पौण्ड्रकस्याल्पमेधसः ।
उग्रसेनादयः सभ्या उच्चकैर्जहसुस्तदा ॥ [भागवतम् १०.६६.७]

स्पष्टम् ।
॥ १०.६६ ॥ श्रीशुकः ॥ १६० ॥

[१६१]

अथ तत्प्रीतिमयो वीररसः । तत्र वीररसश्चतुर्धा धर्मदयादान
युद्धात्मकत्वेनोत्साहस्य स्थायिनश्चातुर्विध्यात् । तत्र धर्मवीररसः ।
तत्रालम्बनो धर्मचिकीर्षातिशयलक्षणस्य धर्मोत्साहस्य विषयाभावात्
प्रीतिमयत्वेनैव लब्धो विषयः श्रीकृष्णः । तद्आधारस्तद्भक्तश्च ।
उद्दीपनाः सच्छास्त्रश्रवणादयः । अनुभावा विनयश्रद्धादयः ।
व्यभिचारिणो मतिस्मृत्य्आदयः । स्थायी तत्प्रीतिमयो धर्मोत्साहः । तद्
उदाहरणं च

क्रतुराजेन गोविन्द राजसूयेन पावनीः ।
यक्ष्ये विभूतीर्भवतस्तत्सम्पादय नः प्रभो ॥ [भागवतम् १०.७२.३] इत्य्
आदिकम् ।

अथ तन्मयो दयावीररसः । अत्रालम्बनस्तत्प्रीतिजातया तदीयतावगत
सर्वभूतविषयकदययात्मव्ययेनापि सन्तर्प्यमाणदीनवेषाच्
छन्ननिजरूपः श्रीकृष्णः । तादृशदयाधारो भक्तः । पित्रादीनां
तादृशी दया तु वत्सलादिकमेव पुष्णाति करुणं वा । उद्दीपनास्तद्आर्ति
व्यञ्जनादयः । अनुभावा आश्वासनोक्त्य्आदयः । व्यभि(पगे ९०)चारिणः
औत्सुख्यमतिहर्षादयः । स्थायी तत्प्रीतिमयो दयोत्साहः । उदाहरणं


कृच्छ्रप्राप्तकुटुम्बस्य क्षुत्तृड्भ्यां जातवेपथोः ।
अतिथिर्ब्राह्मणः काले भोक्तुकामस्य चागमत् ॥
तस्मै संव्यभजत्सोऽन्नमादृत्य श्रद्धयान्वितः ।
हरिं सर्वत्र सम्पश्यन् [भागवतम् ९.२१.५६] इत्यारभ्य,

एवं (इति) प्रभाष्य पानीयं म्रियमाणः पिपासया
पुल्कसायाददाद्धीरो निसर्गकरुणो नृपः ।
तस्य त्रिभुवनाधीशाः फलदाः फलमिच्छताम्
आत्मानं दर्शयां चक्रुर्माया विष्णुविनिर्मिताः ॥ [भागवतम् ९.२१.१५] इत्यन्तम् ।

स्पष्टम् ।

॥ ९.२१ ॥ श्रीशुकः ॥ १६१ ॥

[१६२]
अथो तन्मयो दानवीररसः । द्विधा चायं सम्पद्यते । बहुप्रदत्वेन
समुपस्थितदुरापार्थत्यागेन च । तत्र प्रथमस्यालम्बनमन्य
सम्प्रदानके च दाने दानद्रव्येण तत्तृप्तेरेव मुख्योद्देशेन तद्
उद्देशे पर्यवसानात् । तत्सम्प्रदानके तु स्पष्टतद्उद्देशाद्दित्सातिशय
लक्षणस्य दानोत्साहस्य विषयः श्रीकृष्णस्तद्आधारस्तत्प्रियश्च । अन्यः
सम्प्रदानवीररसस्तु बहिरङ्गः । उद्दीपनाः सम्प्रदानवीक्षाद्याः ।
अनुभावा वाञ्छाधिकदानस्मिताद्याः । व्यभिचारिणो वितर्कौत्सुक्य
हर्षाद्याः । स्थायी तत्प्रीतिमयो दानोत्साहः । उदाहरणं च नन्दस्त्व्
आत्मज उत्पन्ने जाताह्लादो महामनाः [भागवतम् १०.५.१] इत्यादि । स्पष्टम् ।

॥ १०.५ ॥ श्रीशुकः ॥ १६२ ॥

तथा,

एवं शप्तः स्वगुरुणा सत्यान्न चलितो महान् ।
वामनाय ददावेनामर्चित्वोदकपूर्वकम् ॥ [भागवतम् ८.२०.१६]

एतां पृथ्वीम् ।

॥ ८.२० ॥ श्रीशुकः ॥ १६३ ॥

[१६४]
अथ द्वितीयस्यालम्बनः । उपस्थितदुरापार्थत्यागेच्छातिशयलक्षणस्य
तद्उत्साहस्य धर्मोत्साहवदेव विषयः श्रीकृष्णस्तद्आधारस्तद्
भक्तश्च । उद्दीपनाः कृष्णालापस्मितादयः । अनुभावास्तद्उत्कर्ष
वर्णनद्रढिमादयः । सञ्चारिणो धृतिप्रचुराः । स्थायी तत्प्रीतिमयस्
त्यागोत्साहः । तद्उदाहरणम्सालोक्यसार्ष्टिसारूप्य [भागवतम् ३.२९.१३] इत्य्
आदिकमेव ।

अथ तन्मयो युद्धवीररसः । तत्र योद्धा तत्प्रियतमः । तस्यैव तत्
प्रीतिमययुद्धोत्साहात् । प्रतियोद्धा तु क्रीडायुद्धे श्रीकृष्णो वा तत्
पुरस्तस्यैव मित्रविशेषो वा । साक्षाद्युद्धे पुनस्तत्प्रतिपक्षः । तत्र
श्रीकृष्णप्रतियोद्धृकत्वे तत्प्रीतिमययुयुत्सातिशयलक्षणतद्उत्साह
विषयतया तस्यैवालम्बनत्वं सर्वथा सिद्धम् । इतरप्रतियोद्धृकत्वेऽपि
हास्यरसवत्तत्प्रीतिमयत्वेन मूलमालम्बनत्वं तस्यैव । तत्
प्रतिपक्षस्तु युयुत्सांशमात्रस्य बहिरङ्ग आलम्बनः । तत्र योद्धृ
प्रतियोद्धारौ मित्रविशेषावाधारत्वविषयत्वाभ्यामालम्बनाविति ।
उद्दीपनाः प्रतियोद्धृकस्मितादयः । अनुभावाः योद्धृकस्मितादयः ।
व्यभिचारिणो गर्वावेगादयः । स्थायी तत्प्रीतिमयो योद्धोत्साहः ।
उदाहरणं च त्रिविधप्रतियोद्धृक्रमेण

भ्रामणैर्लङ्घनैः क्षेपैरास्फोटनविकर्षणैः ।
चिक्रीडतुर्नियुद्धेन काकपक्षधरौ क्वचित् ॥ [भागवतम् १०.१८.१२]

काकपक्षश्चूडाकरणात्प्राक्तनाः केशाः । तद्धारिणौ रामकृष्णौ ।
नियुद्धेन बाहुयुद्धेन तद्भेदैर्भ्रामणादिभिः । एवमेव हरि
वंशे
तथा गाण्डीवधन्वानं (पगे ९१) विक्रीडन्मधुसूदनः ।
जिगाय भरतश्रेष्ठं कुन्त्याः प्रमुखतो विभुः ॥ इति ।

॥ १०.१८ ॥ श्रीशुकः ॥ १६४ ॥

[१६५]

तथा

रामकृष्णादयो गोपा ननृतुर्युयुधुर्जगुः ॥ [भागवतम् १०.१८.१२]

अत्र तद्अग्रे परेऽपि गोपास्तं सन्तोषयन्तो युयुधुरित्यागतम् ।

॥ १०.१८ ॥ श्रीशुकः ॥ १६५ ॥

[१६६]

तथा जरासन्धवधे

सञ्चिन्त्यारिवधोपायं भीमस्यामोघदर्शनः ।
दर्शयामास विटपं पाटयन्निव संज्ञया ॥
तद्विज्ञाय महासत्त्वो भीमः प्रहरतां वरः ।
गृहीत्वा पादयोः शत्रुं पातयामास भूतले ॥ [भागवतम् १०.७२.४१४२]

स्पष्टम् ।

॥ १०.७२ ॥ श्रीशुकः ॥ १६६ ॥

[१६७]

अथ तत्प्रीतिमयो रौद्ररसः । तत्रालम्बनस्तत्प्रीतिमयक्रोधस्य
विषयः श्रीकृष्णस्तद्आधारस्तत्प्रियजनश्च । तस्य विषयश्चेत्तद्धितस्
तद्अहितः स्वाहितो वा भवति तद्आदि पूर्ववत्तत्प्रीतेर्विषयत्वेन तस्यैव
मूलमालम्बनत्वम् । अन्ये तु क्रोधांशमात्रस्य बहिरङ्गालम्बनाः ।
तत्र प्रमादादिना श्रीकृष्णात्सख्या अत्याहिते सख्याः क्रोधविषयः श्री
कृष्णः । तेन बध्वादीनामवगते सङ्गमे वृद्धादीनां च स एव । अथ
तद्धितश्च प्रमादेन तद्अनवेक्षणादन्यस्य क्रोधविषयः स्यात् । तद्
अहितो दैत्यादिः । स्वाहितस्तु स्वस्य तत्सम्बन्धबाधकः ।

अथोद्दीपनाः क्रोधविषयस्यावज्ञादयः । अनुभावाः हस्तनिष्पेषादयः ।
व्यभिचारिण आवेगादयः । स्थायी तत्प्रीतिमयः क्रोधः । वृद्धायास्तत्
प्रीतिमयः क्रोधः । वृद्धयास्तत्प्रीतिमयत्वं व्रजजनत्वात्तदापि
स्वाभाविक्याः प्रीतेरन्तर्भावमात्रेण अन्वेषां तद्विकारत्वेन । तच्च
तस्यैव मङ्गलकामनाप्रायतया । तत्र पूर्वेषां त्रयाणामुदाहरणम्
अन्यत्रान्वेष्यम् । उत्तरयोर्द्वयोस्तु यथा

ततः पाण्डुसुताः क्रुद्धा मत्स्यकैकयसृञ्जयाः ।
उदायुधाः समुत्तस्थुः शिशुपालजिघांसवः ॥ [भागवतम् १०.७४.४१]

स्पष्टम् ।

॥ १०.७४ ॥ श्रीशुकः ॥ १६७ ॥
[१६८]

तथा

मैतद्विधस्याकरुणस्य नाम भूद्;
अक्रूर इत्येतदतीव दारुणः ।
योऽसावनाश्वास्य सुदुःखितं जनं
प्रियात्प्रियं नेष्यति पारमध्वनः ॥ [भागवतम् १०.३९.२६]

स्पष्टम् ।
॥ १०.३९ ॥ श्रीगोप्यः ॥ १६८ ॥

[१६९]

अथ तत्प्रीतिमयो भयानकरसः । तत्रालम्बनश्चिकीर्षिततत्पीडनाद्
दारुणात्यत्तदीयप्रीतिमयं भयं तस्य विषयश्श्रीकृष्णः । तद्
आधारस्तत्प्रियजनश्च । किं च स्वस्य तद्विच्छेदं कुर्वाणाद्यत्तादृशं
भयं यच्च स्वापराधकदर्थितान् श्रीकृष्णादेव वा स्यात्तस्य तस्य स्व
विषयकत्वेऽपि पूर्ववत्प्रीइतेर्विषयत्वात्श्रीकृष्ण एव मूलालम्बनः ।
भयहेतुस्तूद्दीपन एव भवेत् । विभाव्यते हिस्रत्यादिर्यत्र [भागवतम् २.१.१०]
इति सप्तम्य्अर्थत्वस्य पूर्वत्रैव व्याप्तेः । येनेति तृतीयार्थस्य तूत्तरत्रैव
व्याप्तेश्च । स्वविषयत्वे तु य एव विषयः स एवाधार इति भयांशमात्र
विषयत्वेन पूर्ववद्बहिरङ्ग एवालम्बनोऽसौ । तद्आधारत्वेन त्व्
अन्तरङ्गोऽपि ।

अथोद्दीपनाः भीषणभ्रूकुट्याद्याः । अनुभावा मुखशोषाद्याः ।
व्यभिचारिणश्चापल्याद्याः । स्थायी तत्प्रीतिमयं भयम् । तद्उदाहरणं
च (पगे ९२)

जन्म ते मय्यसौ पापो मा विद्यान्मधुसूदन ।
समुद्विजे भवद्धेतोः कंसादहमधीरधीः ॥ [भागवतम् १०.३.२९]

अत्र विषयत्वेनैव हेतुत्वं न तु कारकान्तरत्वेन ।

॥ १०.३ ॥ श्रीदेवकी श्रीभगवन्तम् ॥ १६९ ॥

[१७०]

तथा शङ्खचूडदौरात्म्ये

क्रोशन्तं कृष्ण रामेति विलोक्य स्वपरिग्रहम् ॥ [भागवतम् १०.३४.२७] इति ।

स्पष्टम् ।
॥ १०.३४ ॥ श्रीशुकः ॥ १७० ॥

[१७१]

अतः (अथ) क्षमस्वाच्युत मे रजोभुवो
ह्यजानतस्त्वत्पृथगीशमानिनः ।
अजावलेपान्धतमोऽन्धचक्षुष
एषोऽनुकम्प्यो मयि नाथवानिति ॥ [भागवतम् १०.१४.१०]

स्पष्टम् ।

॥ १०.१४ ॥ ब्रह्मा श्रीभगवन्तम् ॥ १७१ ॥

[१७२]

अथ तन्मयो बीभत्सरसः । अत्रापि अन्यजुगुप्सायास्तत्प्रीतिमयत्वेन
पूर्ववत्तत्प्रीतिविषयत्वाच्छ्रीकृष्ण एव मूलालम्बनः । तद्आधारस्तत्
प्रियजनश्च । जुगुप्सामात्रांशस्य विषयोऽन्यस्तु बहिरङ्गालम्बनः ।
उद्दीपना अन्यगतामेध्यतादयः । अनुभावाः निष्ठीवनादयः ।
व्यभिचारिणो विषादादयः । स्थायी च तत्प्रीतिमयी जुगुप्सा । उदाहरणं
च त्वक्श्मश्रूरोमनखकेशपिनद्धम् [भागवतम् १०.६०.४५] इत्यादिकम् । श्री
रुक्मिणीवाक्यमेव ।

अथ तन्प्रीतिमयः करुणरसः । तत्रालम्बनः केवलबन्धुभाव
मयप्रेम्णानिष्ठाप्तिपदतावेद्यत्वेन तत्प्रीतिमयकरुणाविषयः श्री
कृष्णस्तद्आधारस्तत्प्रियश्च । उद्दीपनास्तत्कर्मगुणरूपाद्याः ।
अनुभावा मुखशोषविलापाद्याः । व्यभिचारिणो जाड्यनिर्वेदादयः ।
स्थायी च तत्प्रीतिमयः शोकः । उदाहरणं च

अन्तर्ह्रदे भुजगभोगपरीतमारात्
कृष्णं निरीहमुपलभ्य जलाशयान्ते ।
गोपांश्च मूढधिषणान् परितः पशूंश्च
सङ्क्रन्दतः परमकश्मलमापुरार्ताः ॥ [भागवतम् १०.१६.१९]

स्पष्टम् ।

॥ १०.१६ ॥ श्रीशुकः ॥ १७२ ॥

[१७३]

अथ कृष्णप्रीतिमतो जनस्य च यद्यन्योऽपि तत्कृपाहीनो जनः शोचनीयो
भवति तदा तत्रापि तन्मय एव करुणः स्यात् । यथा

न ते विदुः स्वार्थगतिं हि विष्णुं
दुराशया ये बहिर्अर्थमानिनः ।
अन्धा यथान्धैरुपनीयमानास्
तेऽपीशतन्त्र्यामुरुदाम्नि बद्धाः ॥ [भागवतम् ७.५.३१]

स्पष्टम् ।

॥ ७.५ ॥ श्रीप्रह्लादो गुरुपुत्रम् ॥ १७३ ॥

[१७४]

किं च, त एव विस्मयादयो यदि श्रीकृष्णाधारा भवन्ति त एव तत्प्रीति
मयचित्तेषु सञ्चरन्ति, तदापि तत्प्रीतिमयाद्भुतरसादयो भवन्ति ।
यथा अहो अमी देववरामरार्चितम् [भागवतम् १.१५.५] इत्यादिषु अजातप्रीतीनां
तु तत्सम्बन्धेन ये विस्मयादयो भावास्तदीयरमाश्च दृश्यन्ते तेऽत्र
तद्अनुकारिण एव ज्ञेयाः ।

अथ रसानामाभासतापत्यादिज्ञानायाश्रयनियमः परस्परं
व्यवहारोऽप्युद्दिश्यते । तत्र आश्रयनियमः श्रीकृष्णसम्बन्धानुरूप
एव । यथा पित्रादिषु प्राकृतस्य वात्सल्यस्याश्रयत्वं नियतम् । तथा
मुख्यानां पञ्चानां मिथो व्यवहारस्तद्आश्रयाणां जनानामिव स च
कुलीनलोकत एवावगन्तव्यः । ततो येषां यैर्मिलित्वा नर्मविहारादौ
यथा सङ्कोचार्हता । तदीयानां रसानां तदीयै रसैरपि मिलने तथा तद्
अर्हता । यथा न, तथा (पगे ९४) न यथोल्लासस्तथोल्लास इति । यथा तत्
प्रेयस्यादीनां तद्वत्सलादिभिस्तद्आदिकम् ।

अथ गुणानां सप्तानामपि रसानां तेषु मुख्येषु पञ्चसु प्रतीपत्वम्
उदासीनत्वमनुगामित्वं च यथायुक्तमवगन्तव्यम् । यथा हास्यस्य
वियोगात्मकेषु भक्तिमयादिषु चतुर्षु प्रतीपत्वम् । शान्त उदासीनत्वं,
अन्यत्रानुगामित्वमित्यादि ।

अथ गौणानां गौणैरपि वैरमाध्यस्थमैत्राणि ज्ञेयानि । यथा
हास्यस्य करुणभयानकौ वैरिणौ । वीरादयो मध्यस्थाः । अद्भुतो
मित्रमित्यादि । एवं तेषु द्वादशस्वपि स्थायिनां सञ्चारिणाम्
अनुभावानां विभावानां विषयान्तरगतभावादीनामपि
प्रतीपत्वौदासीन्यानुगामित्वानि विवेचनीयानि । तदेवं स्थिते श्रीकृष्ण
सम्बन्धिषु जनेषु काव्येषु च रसस्यायोग्यरसान्तरादिसङ्गत्या
बाध्यमानास्वाद्यत्वमाभासत्वम् । यत्र तु तत्सङ्गतिर्भङ्गिविशेषेण
योग्यस्य स्थायिन उत्कर्षाय भवति तत्र रसोल्लास एव । केनाप्य्
अयोग्यस्योत्कर्षे तु रसाभासस्यैवोल्लास इति ।

अथ तत्र मुख्यस्य मुख्यसङ्गत्य्आभासित्वं, यथा

स वै किलायं पुरुषः पुरातनो
य एक आसीदविशेष आत्मनि । [भागवतम् १.१०.२१] इति ।

नूनं व्रतस्नानहुतादिनेश्वरः
समर्चितो ह्यस्य गृहीतपाणिभिः ।
पिबन्ति याः सख्यधरामृतं मुहुर्
व्रजस्त्रियः सम्मुमुहुर्यद्आशयाः ॥ [भागवतम् १.१०.२८] इत्याद्य्अन्तम् ।

ज्ञानविवेकादिप्रकाशेनात्र हि शान्त एवोपक्रान्तः । उपसंहृतश्चोज्ज्वलः ।
तेन चास्य वस्तलेनैव मिलने सङ्कोच एवेति परस्परमयोग्य
सङ्गत्याभास्यते । अत्र समाधीयते चान्यैः । स वै किल इत्यादिकमन्यासां
वाक्यम् । नूनमित्यादिकं त्वन्यासाम् । एवंविधा वदन्तीनाम् [भागवतम् १.१०.३१]
इत्यादि श्रीसूतवाक्यं च सर्वानन्दनपरमेवेति ।

॥ १.१० ॥ कौरवेन्द्रपुरस्त्रियः ॥ १७४ ॥

[१७५]

तथा

अथाभजे त्वाखिलपूरुषोत्तमं
गुणालयं पद्मकरेव लालसः ।
अप्यावयोरेकपतिस्पृधोः कलिर्
न स्यात्कृतत्वच्चरणैकतानयोः ॥

जगज्जनन्यां जगद्ईश वैशसं
स्यादेव यत्कर्मणि नः समीहितम्
करोषि फल्ग्वप्युरु दीनवत्सलः
स्व एव धिष्ण्येऽभिरतस्य किं तया ॥ [भागवतम् ४.२०.२७२८] इत्यादि ।

अत्र दासभावाख्यभक्तिमयस्य प्रकृतत्वेन योग्यस्य तद्अयोग्योज्ज्वल
सङ्गत्याभासितत्वम् । तत्र दासभावस्तत्प्रकरणसिद्ध एव । उज्ज्वल
सङ्गतिश्च पद्मकरेव लालस इत्यादिनावगम्यते । अत्र समाधानं च ।
न खल्वस्य तद्वत्कान्तभाववासना जाता किन्तु भक्तिवासनैव ।
दृष्टान्तस्तत्र तस्या भक्त्य्अंश एव । तया स्पर्धा तु तत्परम
कृपोन्नद्धत्वेन वीराख्यदासतां प्राप्तस्य नायोग्येति । अन्ये त्वेवं
मन्यन्ते । तत्खलु तदीयदीनविषयककृपासूचकस्वप्रेमवचन
विनोदमात्रं, न तु लक्ष्मीस्पर्धावहम् । करोषि फल्ग्वप्युरु दीन
वत्सलः [भागवतम् ४.२०.२८] इति स्वस्मिंस्तुच्छत्वमननात् । एवं श्रीत्रिविक्रमेण
बलिशिरसि चरणेऽर्पिते नेमं विरिञ्चो लभते प्रसादम् [भागवतम् ८.२३.६] इति श्री
प्रह्लादवाक्यमपि दृष्टम् । श्रीनृसिंहकृपायां स्वानुकम्पायामपि

क्वाहं रजःप्रभव ईश तमोऽधिकेऽस्मिन्
जातः सुरेतरकुले क्व तवानुकम्पा ।
न ब्रह्मणो न तु भवस्य न वै रमाया
यन्मेऽर्पितः शिरसि पद्मकरः प्रसादः ॥ [भागवतम् ७.९.२६]

अत्र ब्रह्मादेरधुना विद्यमानस्यापि ममैव शिरसीत्यर्थः । अत
उभयत्रापि तत्तद्अवतारसमयापेक्षयैव तादृशप्रसादाभावो विवक्षित
इति ज्ञेयम् ।

॥ ४.२० ॥ पृथुः श्रीविष्णुम् ॥ १७५ ॥
(पगे ९४)

[१७६]

तथा श्रीवसुदेवादीनामपि पित्रादित्वेन वात्सल्यस्य तद्अयोग्यभक्ति
मयसङ्गत्य्आभासितत्वं तत्र तत्र दृश्यते । तत्र समाधानं चाग्रे । अथ
बलदेवादावित्यादौ चिन्त्यम् । मनसो वृत्तयो नःय्स्युः [भागवतम् १०.४७.६६] इत्य्
आदिकानि श्रीव्रजेश्वरादिवाक्यानि तु न तादृशानि । अभिप्रायविशेषेण
वत्सलरसस्यैव पुष्टतया स्थापयिष्यमाणत्वात् । तथा

किमस्माभिरनिर्वृत्तं देवदेव जगद्गुरो ।
भवता सत्यकामेन येषां वासो गुरोरभूत् ॥ [भागवतम् १०.८०.४४] इत्यादि ।

अथ सख्यमयस्यैश्वर्यज्ञानसंवलितभक्तिमय
सङ्गमेनाभासीकृतिः । अस्य श्रीदामविप्रस्य सख्यं हि कृष्णस्यासीत्सखा
कश्चित्[भागवतम् १०.८०.६] इत्यादिना, कथयञ्चक्रतुः [भागवतम् १०.८०.२७] इत्यादौ, करौ
गृह्य परस्परमित्यनेन च प्रकृतं दृश्यते इति । अत्र च समाधानं श्री
बलदेवादिवदेव चिन्त्यम् ।

॥ १०.८० ॥ श्रीशुकः ॥ १७६ ॥

[१७७]
तथा

त्वं न्यस्तदण्डमुनिभिर्गदितानुभाव
आत्मात्मदश्च जगतामिति मे वृतोऽसि ॥ [भागवतम् १०.६०.३९] इति ।

आत्मा परमात्मा । आत्मदो मोक्षेषु तत्तद्आत्माविर्भावप्रकाशकः । अत्र
कान्तात्वेन योग्य उज्ज्वल आत्मादिशब्दव्यञ्जिततद्अयोग्यशान्त
सङ्गमेनाभास्यते । अत्र समाधीयते च । अस्याः स्वीयात्वेन कान्तभावे
दासीत्वाभिमानमयी भक्तिरपि युज्यत एव पतिव्रताशिरोमणित्वात् ।
यथोक्तं तद्आद्या एवोद्दिश्यदासीशता अपि विभोर्विदधुः स्म दास्यम्
[भागवतम् १०.५९.४] इति । श्रीरुक्मिण्यास्तु लक्ष्मीरूपत्वेनैश्वर्यस्वरूपज्ञान
मिश्रतादृशभक्तिमिश्रकान्तभावत्वादत्र तादृशभक्तिमात्र
पोषाय तादृगप्युक्तं युक्तमिति ।

॥ १०.६० ॥ श्रीरुक्मिणी ॥ १७७ ॥

[१७८]

अथ तन्माधुर्यमात्रानुभवमयकेवलकान्तभावानामपि श्री
व्रजदेवीनां न खलु गोपिकानन्दनो भवान् [भागवतम् १०.३१.४] इत्यादिषु या
शान्तादिसङ्गतिर्दृश्यते, सा तु पुरतः सोपालम्भादिश्लेषवाग्भङ्गि
मयत्वेन व्याख्यास्यमानत्वात् । प्रत्युत रसोल्लासायैव स्यात् । तथा
बद्धान्यथा स्रजा काचित्[भागवतम् १०.३०.२३] इत्यादौ वात्सल्यसङ्गतिः सङ्गत्य्
अन्तरेण व्याख्यास्यते । तथा प्रकृतोज्ज्वले रसे रासवर्णने दुःसह
प्रेष्ठविरहः [भागवतम् १०.२९.१०] इत्यादिकं श्रीमुनीन्द्रवचनं, तथा तद्
अनन्तरं, कृष्णं विदुः परं कान्तम् [भागवतम् १०.२९.१२] इत्यादिके राज
मुनीश्वरप्रश्नोत्तरे च मोक्षप्रस्तावव्यञ्जितशान्तरससङ्गत्या
रसाभासत्वमकुर्वन्नित्यत्र समाधानं च श्रीकृष्णसन्दर्भे
तथैवाग्रे च तात्कालिकश्रीकृष्णप्राप्त्य्अन्तरायनिरासमात्रमेव तत्
प्रसङ्गे दर्शितं, न त्वन्यो मोक्ष (पगे ९५) इत्यतश्चिन्त्यम् । तथा तं
काचिन्नेत्ररन्ध्रेण [भागवतम् १०.३२.८] इत्यादौ योगीवानन्दसम्प्लुता इति चैवं
व्याख्यायते । योगीति क्लीबैकवचनं, तच्च क्रियाविशेषणम् । लज्जया यद्यî
मनसि निधायैवोपगुह्यास्ते तथाप्यत्यन्ताभिनिवेशेन योगि संयोगि यथा
स्यात्तदिवोपगुह्यास्ते इत्यर्थः । एवमन्यत्रान्यत्रापि यथायोगं
समाधेयम् ।

अथ श्रीबलदेवादौ विरुद्धभावावस्थानं चैव चिन्त्यम् । यथैव श्री
कृष्णस्तद्भक्तसुखव्यञ्जकनानालीलार्थे विरुद्धानपि गुणान्
धारयति न च तैर्विरुध्यते अचिन्त्यशक्तित्वात्, तथा तल्लीलाधिकारिणस्
तेऽपि । अस्ति चैषां तद्योग्यता । यथा श्रीबलदेवस्य ज्येष्ठत्वाद्
वत्सलत्वम् । एकात्मत्वाद्बाल्यमारभ्य सहविहारित्वाच्च सख्यम् ।
पारमैश्वर्यज्ञानसद्भावाद्भक्तित्वमिति । ततः श्रीकृष्णस्य यादृश
लीलासमयस्तादृश एव भावस्तद्विधस्याविर्भवति । ततो न विरोधोऽपि ।
ततः शङ्खचूडवधप्राक्तनहोरिकालीलायां श्रीकृष्णेन समं
युग्मीभूय गानादिकं तद्द्वारा द्वारकातः श्रीव्रजदेवीषु सन्देशश्च
नासमञ्जसः । एवं श्रीमद्उद्भवादीनामपि व्याख्येयम् ।

अथ मुख्यस्यायोग्यगौणसङ्गत्याभासत्वम्

देवकी वसुदेवश्च विज्ञाय जगद्ईश्वरौ ।
कृतसंवन्दनौ पुत्रौ सस्वजाते न शङ्कितौ ॥ [भागवतम् १०.४४.५१] इत्यादिषु
ज्ञेयम् ।

अत्र श्रीकृष्णविभावितभयानकसङ्गत्या तद्विषयो वत्सल आभास्यते ।
अत्र समाधानं च प्राक्तनमेव । अथ गौणस्यायोग्यगौणसङ्गत्य्
आभासत्वम् । यथा कालियहृदयप्रवेशलीलायाम्

तांस्तथा कातरान् वीक्ष्य भगवान्माधवो बलः ।
प्रहस्य किंचिन्नोवाच प्रभावज्ञोऽनुजस्य सः ॥ [भागवतम् १०.१६.१६]

अत्र श्रीबलदेवस्य ऐश्वर्यज्ञानवतोऽप्याधुनिकसामाजिकभक्तस्येव
व्रजजनाधारककरुणानुभवमयः करुणो योग्यः । स च हास
सङ्गत्याभास्यते । समाधानं च पूर्ववन्नानाभावस्यापि तद्विधस्य
तल्लीलाविशेषरक्षासमयानुरूपभावोदयात् । तद्विधा हि तस्य लीला
प्रवर्तकपरिकरा इति । हासस्य कारणं प्रभावज्ञानं हि अत्र तेषां
प्राणरक्षार्थमेव भावान्तराण्यतिक्रम्योदितम् । ततश्चैवं हि तेषां
ज्ञानमभूत् । अयं चेतस्य परमप्रेष्ठो मर्मवेत्ता च हसति तदा
नास्त्येव काचिच्चिन्तेति । पुनरपि तद्अर्थैव तस्य चेष्टा दृष्टा

कृष्णप्राणान्निर्विशतो नन्दादीन् वीक्ष्य तं ह्रदम् ।
प्रत्यषेधत्स भगवान् रामः कृष्णानुभाववित् ॥ [भागवतम् १०.१६.२२]

इत्यत्र लीलान्ते पुनः श्रीकृष्णलाभे रामश्चाच्युतमालिङ्ग्य
जहासास्यानुभाववित्[भागवतम् १०.१७.१६] इत्यत्र तु हासः श्रीकृष्णं
प्रत्युपालम्भव्यञ्जक एव । श्रीरुक्मिणीहरणलीलादौ तु भ्रातृस्नेह
परिप्लुतत्वं वर्णितम् । तस्मात्तद्इष्टलीलानुरूप्यान्न वैरूप्यमिति तत्र
हास्योऽपि नायोग्यः ।
॥ १०.१६ ॥ श्रीशुकः ॥ १७८ ॥

[१७९]
अथ स्थायिभावयोग्यत्वं प्रीतिलक्षणत एव प्रतिपन्नम् । ततः प्रीत्य्
आभासत्वेऽवगते रसाभासत्वमप्यवगम्यम् । अथायोग्यसञ्चारिसङ्गत्य्
आभासत्वं यथा

स्ववचस्तदृतं कर्तुमस्मद्दृग्गोचरो भवान् ।
यदात्थैकान्तभक्तान्मे नानन्तः श्रीरजः प्रियः ॥ [भागवतम् १०.८६.३२]

अथ भक्तिरनन्तादिहेलनलक्षणगर्वसङ्गत्याभास्यते । तत्
समाधानं च व्याख्यान्तरेण । (पगे ९६) तद्यथा एकान्तभक्तान्मे
मम अनन्तः सवधामत्वेनापि , श्रीर्जायात्वेनापि, अजः पुत्रत्वेनापि न
प्रियः । किन्तु तेऽप्येकान्तभक्तश्रेष्ठत्वेनैव मम प्रेष्ठा इत्यर्थः ।
तदेतद्यदात्थ तत्स्ववचः ऋतं सत्यं कर्तृ दर्शयितुं भवानस्मद्
दृग्गोचरोऽभूत् । तद्अनुगामितांशेनैवास्मान् प्रत्यपि कृपां कृतवानित्य्
अर्थः ॥

॥ १०.८६ ॥ मैथिलः श्रीभगवन्तम् ॥ १७९ ॥

[१८०]

तथा

तयोरित्थं भगवति कृष्णे नन्दयशोदयोः ।
वीक्ष्यानुरागं परमं नन्दमाहोद्धवो मुदा ॥ [भागवतम् १०.४६.२९]

इत्थं तद्वियोगजमहादुःखव्यञ्जनाप्रकारेण । अत्र श्रीव्रजेश्वरयोः
श्रीकृष्णवियोगदुःखानुभवमयी श्रीमद्उद्धवस्य भक्तिस्तद्
अयोग्येन हर्ष्येणाभास्यते । समाधानं च श्रीबलदेवहासवदेव
कार्यम् । तेषां सान्त्वनार्थमागतस्य तसापि दुःखाभिव्यक्तिर्न योग्या ।
ततस्तद्योग्यस्तदीयानुरागमहिमचमत्कारजो हर्ष एव तद्अर्थम्
उदितः । अनन्तरं तथैव सान्त्विताश्च ते इति ।

॥ १०.४६ ॥ श्रीशुकः ॥ १८० ॥

[१८१]

तथा

एहि वीर गृहं यामो न त्वां त्यक्तुमिहोत्सहे ।
त्वयोन्मथितचित्तायाः प्रसीद पुरुषर्षभ ॥ [भागवतम् १०.४२.१०]

अत्र नायिकायाः सर्वेषामग्रत एतादृशं चापल्यमत्ययोग्यम् । तत्सङ्गतिश्
चोज्ज्वलमाभासयति । समाधानं चास्याः सामान्यत्वाददोष इति ।

॥ १०.४२ ॥ सैरिन्ध्री भगवन्तम् ॥ १८१ ॥

[१८२]

अत्र तव सुतः सति यदाधरबिम्बे [भागवतम् १०.३५.१४] इत्यादिके तु न तथा
चापल्यं मन्तव्यम् । तेषां पद्यानां युगलेन युगलेन पृथक्पृथक्
संवादसङ्ग्रहरूपत्वा । श्रीव्रजेश्वईसभास्थितायाश्चास्याः
सामान्यतस्तन्माधुर्यवर्णनमेव । तेन च सक्रादीनामेव मोह
उक्तः । न तु व्रजति तेन वयम् [भागवतम् १०.३५.१७] इत्यादिवत् । व्योमयानवनिता
[भागवतम् १०.३५.३] इत्यादिवच्च स्वभावस्य सजातीयभावस्य वा प्रकाशनमिति ।
एवं कुन्ददाम [भागवतम् १०.३५.२०] इत्यादावपि ज्ञेयम् । तथा मैवं
विभोऽर्हति भवान् [भागवतम् १०.२९.३१] इत्यादिषु प्रकटतत्सङ्गप्रार्थन
दैन्यादिकमयोग्यत्वेन प्रतीतमपि पुरतः श्लेषेण निषेधार्थादितया
व्याख्यास्यमानत्वात्परमरसावहत्वेनैव स्थापनीयम् ।

अथायोग्यानुभावसङ्गत्य्आभासत्वं यथा

यद्यप्यसावधर्मेण
मां बध्नीयादनागसम् ।
तथाप्येनं न हिंसिष्ये
भीतं ब्रह्मतनुं रिपुम् ॥ [भागवतम् ८.२०.१२] इत्यादिद्वयम् ।

अत्र शुक्रत्वं च नार्थप्रयुक्तस्यापि अधर्मादिशब्दप्रयोगस्य
तत्रायोग्यत्वादाभास्यत एव भक्तिमयः । समाधानं च तदानीं साक्षात्
भक्तेरजातत्वात्श्रीत्रिविक्रमपादस्पर्शानन्तरमेव च जातत्वान्न
विरोध इति ।

॥ ८.२० ॥ श्रीबलिः शुक्रम् ॥ १८२ ॥

[१८३]

तथा जरासन्धवधः कृष्णभूर्य्अर्थायोपकल्पते [भागवतम् १०.७१.१०] इति ।
(पगे ९७)

अत्रायोग्येन साक्षान्नाम्ना सम्बोधनेन दास्यमय आभास्यते । वस्तुतस्
तु तद्आदिनाम्नां तत्परममहिममयत्वात्तन्मयनाम्नां च
दासादिभिरपि साक्षाद्ग्रहणदर्शनात्तद्अदोष इति । यस्य नाम महद्
यशः [श्वेतू ४.१९] इति श्रुतेः ।

॥ १०.७१ ॥ उद्धवः श्रीभगवन्तम् ॥ १८३ ॥

[१८४]

तथा सतां शुश्रूषणे जिष्णुः कृष्णः पादावनेजने [भागवतम् १०.७५.५] ।

पादवनेजने इति णिज्अन्तम् । अत्र पाण्डवराजकृततादृशश्रीकृष्ण
नियोगस्यायुक्तत्वात्तस्य भक्तिमयस्तेनाभास्यते । वस्तुतस्तु बान्धवाः
परिचर्यायां तस्यासन् प्रेमबन्धना [भागवतम् १०.७५.३] इत्युक्तत्वात्तेषु
नियोज्येषु बान्धवाः स्वयमेवावर्तन्ते, नेतरे इव तन्नियुक्ता एव । ततः
श्रीकृष्णस्य तु सुतरामेव स्वेच्छाप्रवृत्तिः । तेन च चिन्तितमिदमिति
गम्यते । सर्वाणि कर्माण्यन्यैः सेत्स्यन्ते । पादावनेजनं तु नान्यैः
साभिमानत्वात् । ततश्च मम बन्धूनामेषां कर्म विगीताङ्गं स्यादिति
मयिवात्राग्रहीतव्यमिति ।

तदेवं तस्येच्छायास्तद्आश्रितैर्दुर्लङ्घत्वात्तद्बलादेव तत्र तस्य
प्रवृत्तिः । एवं स्वयमेव नारदादिपादप्रक्षालनेऽपि दृष्टम् । तं प्रति
च स्वेच्छयैव हि भगवान् ब्राह्मणत्वेन भक्तत्वेन च व्यवहरति । तत
एव क्वचित्पुत्र मा खिदः [भागवतम् १०.६९.४०] इत्यपि वदतीति ।

॥ १०.७५ ॥ श्रीशुकः ॥ १८४ ॥

[१८५]

तथा

श्रीदामा नाम गोपालो रामकेशवयोः सखा ।
सुबलस्तोककृष्णाद्या गोपाः प्रेम्णेदमब्रुवन् ॥
राम राम महाबाहो कृष्ण दुष्टनिबर्हण ।
इतोऽविदूरे सुमहद्वनं तालालिसङ्कुलम् ॥ [भागवतम् १०.१५.२१२२] इत्यादि ।

अत्रायोग्येन भयस्थानगमननियोगेन सख्यमय आभास्यते । वस्तुतस्
तु समानशीलत्वेन श्रीकृष्णस्य वीर्यज्ञानात्तैस्तन्नियोगोऽपि नायोग्यः ।
प्रत्युत तेषां तद्वद्वीरस्वभावानां तन्मयप्रीतिपोषायैव भवति

साकं कृष्णेन सन्नद्धो
विहर्तुं विपिनं महत् ।
बहुव्यालमृगाकीर्णं
प्राविशत्परवीरहा ॥ [भागवतम् १०.५८.१४] इत्यर्जुनचरितवत् ।

अतएव प्रेम्णेति महासत्त्वदुष्टनिवर्हणेति चोक्तम् । अन्यत्र च अस्मान्
किमत्र ग्रसिता निविष्टान्; अयं तथा चेद्बकवद्विनङ्क्ष्यति [भागवतम् १०.१२.१४]
इति ।

॥ १०.१५ ॥ श्रीशुकः ॥ १८५ ॥

[१८६]

एवं द्वारकाजलविहारे न चलसि [भागवतम् १०.९०.२२] इत्यादौ वसुदेव
नन्दनाङ्घ्रिमिति ।

अत्रायोग्येन श्वशुरनामग्रहणेन स्वीयानां कान्ताभाव आभास्यते ।
वस्तुतस्तु देवस्य परमाराध्यस्य श्वशुरस्य यो नन्दनो मुख्यः
पुत्रः । अस्मत्पतिरित्यर्थः । तस्याङ्घ्रिं वसु परमधनस्वरूपमित्य्
एव तन्मनसि स्थितम् । तथापि दैवात्तन्नामानुकरणदोषसमाधानं
चोन्मत्तवचस्त्वेनोपक्रान्तत्वात् ।

॥ १०.९० ॥ श्रीपट्टमहिष्यः ॥ १८६ ॥

[१८७]
तथा

तमात्मजैर्दृष्टिभिरन्तरात्मना
दुरन्तभावाः परिरेभिरे पतिम् ।
निरुद्धमप्यास्रवदम्बु नेत्रयोर्
विलज्जतीनां भृगुवर्य वैक्लवात् ॥ [भागवतम् १.११.३३]
(पगे ९८)
दुरन्तभावा उद्भटभावा, अतएव निरुद्धमप्यास्रवम् । अत्रात्मज
द्वारालिङ्गनेन कान्तभाव आभास्यते । तद्द्वारा तत्सम्भोगायोग्यत्वात् ।
समाधानं च प्रीतिसामान्यपरिपोषायैव तथाचरितं न तु कान्तभाव
पोषाय । तत्पोषस्तु दृष्टादिद्वारैव । तस्मान्न दोष इति ।

॥ १.११ ॥ श्रीसूतः ॥ १८७ ॥

[१८८]

अथायोग्यविभावसङ्गत्याभासत्वमुदाह्रियते । तत्रायोग्योद्दीपन
सङ्गत्या यथा यद्अर्चितम् [भागवतम् १०.३८.८] इत्यादौ, यद्गोपिकानां कुच
कुङ्कुमाङ्कितमिति ।

अत्रानेन रहस्यलीलाचिह्नेन दासानुसन्धानायोग्येन दास्यभावमय
आभास्यते । समाधानं च । अत्रास्य भक्तिमात्रसुलभत्व
चिन्तनेऽभिनिवेशः । न तु तादृशलीलाविशेषानुसन्धाने । यथोक्तं
टीकायाम्यद्गोपिकानामिति प्रेममात्रसुलभत्वमित्येतत् ।
ततोऽननुसन्धायैव तद्विशेषं भक्तिमात्रोद्वलकत्वेन निर्दिष्टत्वान्न
दोष इति । एवं समर्हणं यत्र [भागवतम् १०.३८.१७] इत्यादिकं व्याख्येयम् ।

॥ १०.३८ ॥ अक्रूरः ॥ १८८ ॥

[१८९]

एवमुज्ज्वलेऽपि पुत्ररूपस्योद्दीपनत्वायोग्यता यं वै मुहुर्[भागवतम् १०.५५.४०]
इत्यादौ गम्या । तच्चाग्रे समाधानं व्याख्येयम् ।

अथाल्म्बनायोग्यतायां तादृशप्रीत्य्आधारायोग्यतयाभासत्वे
यज्ञपत्नीनां पुलिन्दी हरिण्य्आदिन्यां तत्तज्जातिरूपमयोग्यम्
उदाहार्यम् । अथ तादृशप्रीतिविषयायोग्यत्वं यथाक्षण्वताम् [भागवतम्
१०.२१.७] इत्यादौ वक्त्रं व्रजेशसुतयोः इत्यादि ।

अत्र यद्यपि श्रीरामोऽपि श्रीकृष्णव्यूहत्वात्स एव, तथापि श्री
कृष्णत्वाभावात्तत्प्रेयसीभावविशेषायोग्य एव । ततस्तेनात्रोज्ज्वलम्
आभास्यते । वस्तुतस्त्वग्रेऽवहित्थागर्भेण व्रजेशसुतयोर्मध्ये अनु
पश्चात्वेणुजुष्टं यन्मुखमित्यादि व्याख्यानेन रसोत्कर्ष एव
साधयितव्यः । एवमेव टीकायामपि । रामः क्षपासु भगवान् गोपीनां
रतिमावहत्[भागवतम् १०.६५.१७] इत्यत्र व्याख्यातम्गोपीनां रतिमिति श्रीकृष्ण
क्रीडासमयेऽनुत्पन्नान्नातिबालानां चान्यासामित्यभियुक्तप्रसिद्धिरिति ।

॥ १०.२१ ॥ श्रीव्रजदेव्यः ॥ १८९ ॥
[१९०]

अथायोग्यस्य विषयान्तरगतभावादिकस्य सङ्गत्य्आभासत्वं यथा
देवहूतिवर्णनेकामः स भूयात्[भागवतम् ३.२२.१६] इत्यादौ क्षिपतीमिव श्रियम्
इति ।

अत्र देवहूतिगतेनेदृशवर्णनरूपेणानुभावेन श्रीकर्दमस्य भक्तिर्
आभास्यते । वस्तुतस्तु तेन जगत्सम्पत्तिरूपां प्राकृतीं श्रियमेवोद्दिश्य
तयोक्तमिति न दोषः ॥

॥ ३.२२ ॥ श्रीकर्दमः ॥ १९० ॥

[१९१]

तथा

उवास तस्यां कतिचिन्मिथिलायां समा विभुः ।
मानितः प्रीतियुक्तेन जनकेन महात्मना ।
ततोऽशिक्षद्गदां काले धार्तराष्ट्रः सुयोधनः ॥ [भागवतम् १०.५७.२६]

विभुः श्रीसङ्कर्षणः । मानित इत्यादिकं च तस्यैव विशेषणमिति
समाधानं च ।

॥ १०.५७ ॥ श्रीशुकः ॥ १९१ ॥

[१९२]

एवमग्रे च केचिदन्ये रसाभासाः परिहरिष्यन्ते । अथ यदुक्तमयोग्य
सङ्गतिरपि भङ्गीविशेषेण योग्यस्य स्थायिन उत्कर्षाय चेत्तदा रसोल्लासः
इति । तत्र मुख्यसङ्गत्या (पगे ९९) मुख्यस्योल्लासो, यथाहो भाग्यम्
अहो भाग्यम् [भागवतम् १०.१४.३२] इत्यादौ । अत्र ब्रह्मणा व्रजवासिप्रसङ्गे
ज्ञानभक्तिबन्धुभावौ भावितौ । योग्यश्चात्र बन्धुभाव एव
भावयितुम् । तदीयस्वाभाविकतद्भावास्वादे सत्यन्यस्य विरसत्व
प्रतिभानात् । तथापि तत्र परमब्रह्मपदव्यञ्जिताया ज्ञानभक्तेर्
अयोग्याया भावना ज्ञानभक्त्य्अंशवासितसहृदयचमत्काराय तदीय
भाग्यप्रशंसावैशिष्ट्यशंसनभङ्ग्या तमेवोत्कर्षयितुं प्रवर्तितेत्य्
उल्लसत्येव रसः । एवमित्थं सतां ब्रह्मसुखानुभूत्या [भागवतम् १०.१२.११]
इत्यादिकमपि व्याख्येयम् । तथा

भ्रात्रेयो भगवान् कृष्णः शरण्यो भक्तवत्सलः ।
पैतृष्वस्रेयान् स्मरति रामश्चाम्बुरुहेक्षणः ॥ [भागवतम् १०.४९.९]

अत्र पितृष्वसुस्तस्या ऐश्वर्यज्ञानमयी भक्तिरयोग्या, वात्सल्यं तु
योग्यम् । तथापि भगवद्आदिपदव्यञ्जिततादृशसङ्गतिर्यासीत् । ताम्
अतिक्रम्य भ्रात्रेय इति पैतृष्वसेयानिति । अम्बुरुहेक्षण इति चोक्तिभङ्ग्या
वात्सल्यस्योत्कर्षे सति रसोल्लासः ।

॥ १०.४९ ॥ श्रीकुन्ती ॥ १९२ ॥
[१९३]

एवं श्रीराघवेन्द्रस्य केवलमाधुर्यमयलीलायां हनुमतः केवल
तन्मयदासभावोऽपि स्वरूपैश्वर्यादिज्ञानमयतद्भावसङ्गतिर्
नातिर्योग्यापि पश्चान्माधुर्यमय एव पर्यवसायिताभङ्ग्या
तस्यैवोकर्षाय जातेत्रसोल्लास एव योजनीयः । तत्रैश्वर्यमाधुर्ययोर्
महिमज्ञानं तस्याह ओं नमो भगवते उत्तमश्लोकाय [भागवतम् ५.१९.३] इत्य्
आदि ।

[१९४]

अत्र भगवत इत्यैश्वरमुत्तमश्लोकायेति माधुर्यं दर्शितम् । स्वरूप
ज्ञानमाह यत्तद्विशुद्धानुभवमात्रमेकम् [भागवतम् ५.१९.४] इत्यादि ।

यत्तत्प्रसिद्धं श्रीरामचन्द्रस्य दुर्वादश्यामलरूपम् । अत्र
प्रकाशैकलक्षणवस्तुनः सूर्यादिज्योतिषः प्रकाशत्वं शौक्लादिमत्त्वम्
इत्यादि धर्मवत्गुणरूपादिलक्षणतत्स्वरूपधर्मस्यापि तद्
आत्मकत्वदृष्ट्या तन्मात्रत्वमुक्तम् । य एव धर्मः स्वरूपशक्तिरिति
भगवत्सन्दर्भादौ स्थापितम् । अतएवैकमपि । तस्याश्च शक्तेर्
मायातिरिक्तत्वमाह स्वतेजसा ध्वस्तगुणव्यक्वस्थमिति । स्वरूपशक्त्या
दूरीभूता त्रैगुण्यात्मिका माया शक्तिर्यस्मात्यत् । अतः प्रशान्तं
सर्वोपद्रवरहितम् । अनुभावमात्रत्वे हेतुः प्रत्यग्दृश्यादन्यत् । न
चक्षुषा पश्यन्त रूपमस्य [Kअठू २.३९], यमेवैष वृणुते तेन लभ्यस्
तस्यैषा आत्मा विवृणुते तनुं स्वाम् [Kअठू १.२.२३] इति श्रुतेः । तत्कुतः ।
अनामरूपमेतास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे
व्याकरवाणी [Cहा ६.३.२] इति प्रसिद्धप्राकृतनामरूपरहितम् । तत्र
हेतुः निरीहमिति । आत्मशब्देन हि श्रुतावस्यां परमात्मनो जीवाख्य
शक्तिरूपोऽंश उच्यते । अनेनेति (पगे १००) पृथक्त्वनिर्देशात् । तद्रूपेण च
प्रवेशो नाम देवताशब्दवाच्यतेजोवारिमृल्लक्षणोपाध्य्अभिनिवेशः ।
स च तस्य जीवस्य तत्राहन्ताध्यासादेव भवति । ततोऽन्तर्यामिरूपेण
स्वयं तत्र स्थितस्यापि तद्अध्यासाभावादुपाधिकृतनामरूपराहित्यं
युक्तमेवेत्यर्थः । सर्वथाहङ्कारराहित्ये सति व्याकरवाणीति
प्रयोगस्यानर्हत्वादिति भावः ।

[१९५]

ननु, श्रीरामरूपं न सर्वैरेव प्रतीयते तत्राह सुधियोपलम्भनम् ।
शुद्धचित्तेन स्वरूपतयिवोपलभ्यत इत्यर्थः । नातः परं परम यद्
भवतः स्वरूपम् [भागवतम् ३.९.३] इत्यादि श्रीब्रह्मवाक्यात् ।
नन्वेवंभूतस्य मर्त्येषु प्राकट्ये किं प्रयोजनम् । उच्यते । गौणे सत्य्
अपि प्रयोजनान्तरे मुख्यं तु भक्तेषु लीलामाधुर्याभिव्यञ्जनमेवेत्य्
आह

मर्त्यावतारस्त्विह मर्त्यशिक्षणं
रक्षोवधायैव न केवलं विभोः ।
कुतोऽन्यथा स्याद्रमतः स्व आत्मनः
सीताकृतानि व्यसनानीश्वरस्य ॥ [भागवतम् ५.१९.५]

तुशब्द आशङ्कानिवृत्त्य्अर्थः । मर्त्यलोके योऽवतार आविर्भावः । स तु
साधुजनोद्वेजकरक्षोबधायैव केवलं न भवति किन्तु मर्त्य
शिक्षणमपि । मर्त्येषु शिक्षणं तद्अर्थप्रकाशनं यत्तन्मयमपि ।
तत्र बहिर्मुखेषु विषयासङ्गदुर्वारताप्रकाशनमानुषङ्गिकम् ।
उद्देश्यं तु स्वभक्तिवासनेषु चित्तार्द्रताकरविरहसंयोगमयनिज
लीलाविशेषमाधुर्यप्रकाशनम् । ततस्तद्अर्थमेवेत्यर्थः । अन्यथा
यदि केवलं तद्वधायैव स्यात्तदा आत्मनः परमात्मत्वेन
परिपूर्णस्येश्वरस्य सर्वान्तर्यामिणः स्वे स्वस्वरूपे तद्एकरूपे
वैकुण्ठे च रममाणस्य सीताकृतव्यसनानीति कुतः स्यात् । मनसैव तद्
वधे शक्तत्वात्तद्व्यसनासम्भवाच्च । निजमाधुर्यप्रकाशनपक्षे
तु तत्तत्सम्भवत्येवेति भावः ।

[१९६]

अत्र कृपारूपं तादृशलीलारूपं च माधुर्यमधिकं श्लाघितम् । तत्र
श्रीसीतावियोगदुःखं च लीलामाधुर्यान्तर्गतमेवेति न दोष इत्यपि
दर्शितम् । तादृशलीला च न प्राकृतवत्कामादिसक्ततया, किन्तु स्वजन
विशेषविषयककृपाविशेषेणैवेत्याह

न वै स आत्मात्मवतां सुहृत्तमः
सक्तस्त्रिलोक्यां भगवान् वासुदेवः ।
न स्त्रीकृतं कश्मलमश्नुवीत
न लक्ष्मणं चापि विहातुमर्हति ॥ [भागवतम् ५.१९.६]

स वै खलु त्रिलोक्यां न सक्तः । तत्र हेतुः । आत्मा परमात्मा भगवान्
परिपूर्णैश्वर्यादिः वासुदेवः सर्वाश्रयश्चेति । किन्तु आत्मवतामात्मा
स्वयमेव नाथत्वेन विद्यते येषां तेषां स्वविषयकममताधारिणां
भक्तविशेषाणामित्यर्थः । तेषामेव सुहृत्तमः । तस्माद्यथान्यो
स्त्रीत्वहेतुकं कश्मलश्नुवते तथा नासावश्नुवीत । अतस्तस्या
आत्मवत्त्वेनैव तादृशकश्मलहेतुतत्प्रीतिविषयतापीति भावः । तथा
देवदूतसमयातिक्रमेण आत्मवतोऽपि लक्ष्मणस्य परित्यागो यः, स खलु
नात्यन्तिक इत्याह, न लक्ष्मणमिति । विहातुमपि नार्हति न शक्नोति ।
अनन्तरं झटित्येव स्वर्गस्थतया स्वागमनं प्रतीक्षमाणैस्तद्
आदिभिः सह स्वधिष्ण्यारोहात् । अधुनापि तेन सीतादिभिश्च सहैवास्मिन्
(पगे १०१) किंपुरुषवर्षेऽप्यस्माभिर्दृश्यमानत्वात् । ततो मर्यादा
रक्षार्थमेव किञ्चित्तत्तद्अनुकरणमिति भावः ।

[१९७]

पूर्वार्थमेव स्थापयितुं भक्त्य्एककारणकारुण्यप्रमुखपरम
माधुर्यं सर्वोर्ध्वमाह द्वाभ्यां

न जन्म नूनं महतो न सौभगं
न वाङ्न बुद्धिर्नाकृतिस्तोषहेतुः ।
तैर्यद्विसृष्टानपि नो वनौकसश्
चकार सख्ये बत लक्ष्मणाग्रजः ॥ [भागवतम् ५.१९.७]

महतः पुरुषाज्जन्म । सौभगं सौन्दर्यम् । आकृतिर्जातिः । यद्यस्मात् ।
तैर्जन्मादिभिर्विसृष्टान् त्यक्तानस्मान् तदीयपरमभक्तश्री
सीतान्वेषणादिभक्तितुष्टत्वेन बताहो लक्ष्मणस्य सर्वसद्गुणलक्ष्म
लक्षितस्य सुमित्रानन्दनस्याग्रजोऽपि सखित्वे कृतवान् दास्यायोग्यानपि सह
विहारादिना सखीनिव कृतवानित्यर्थः । सुग्रीवमुपलक्ष्य वा
तथोक्तम् ।

[१९८]

तस्मात्

सुरोऽसुरो वाप्यथ वानरो नरः
सर्वात्मना यः सुकृतज्ञमुत्तमम्
भजेत रामं मनुजाकृतिं हरिं
य उत्तराननयत्कोसलान् दिवमिति ॥ [भागवतम् ५.१९.८]

पूर्वं स्वरूपज्ञानमयभक्त्या मनुजकृतावेव परमस्वरूपत्वं
दर्शितवान् । सम्प्रति माधुर्यज्ञानमयभक्त्यापि विशिष्य तम्
एवाराधयति मनुजाकृतिं हरिमिति । तत्रापि श्रीकपिलादिकं व्यावर्तयति
राममिति । उत्तममसमोर्ध्वगुणं सुकृतज्ञं स्वल्पयापि भक्त्या
सन्तुष्यन्तमिति ।

॥ ५.१९ ॥ श्रीहनूमान् ॥ १९३१९८ ॥

[१९९]

तथा मैवं विभोऽर्हति [भागवतम् १०.२३.३१] इत्यादौ प्रेष्ठो भवांस्तनुभृतां
किल बन्धुरात्मा [भागवतम् १०.२९.३२] इत्यत्रापि नर्मालापमयश्लेषमङ्ग्या
स्वीयभावोत्कर्षेण रसोल्लासः पुरतो दर्शनीयः । अथायोग्यगौण
सङ्गत्यापि मुख्यस्योल्लासो यथा त्वक्श्मश्रुरोमनखकेश [भागवतम्
१०.६०.४५] इत्यादिकं श्रीरुक्मिणीवाक्यम् । अत्र प्रतीपत्वेनायोग्यस्यापि
बीभत्स्यस्य सङ्गतिः प्रकृतकृष्णविषयककान्तभावप्रशंसाकारि
वचनभङ्ग्यैव कृतेति तद्उत्कर्षायैव जाता । ततो रसोल्लास एवेति ।
तथान्यत्र

एताः परं स्त्रीत्वमपास्तपेशलं
निरस्तशौचं बत साधु कुर्वते ।
यासां गृहात्पुष्करलोचनः पतिर्
न जात्वपैत्याहृतिभिर्हृदि स्पृशन् ॥ [भागवतम् १.१०.३०]

स्त्रीत्वं स्त्रीजातिः । सा च श्रीरुक्मिण्याद्य्अवरतज्जातिभेदत्वेनैवात्र
गृहीता । अपास्तपेशलत्वादिकं हि तज्जात्य्अन्तराश्रयं न तु
रुक्मिण्याद्याश्रयम् । ताभिस्तासामपि साधुत्वकरणात् । ततश्चान्यां तत्
तद्दोषयुक्तां स्त्रीजातिमपि य निजकीर्त्य्आदिना शुद्धां कुर्वन्तीत्य्
अर्थः । तासां तत्तद्दोषरहितसर्वगुणालङ्कृतत्वे तद्अवरासां
साधुत्वविधाने च हेतुमाह यासामिति । स्वयं तथाविधोऽपि आहृतिभिः
प्रेयसीजनोचितगुण (पगे १०२) समाहारैर्या एव हृदि स्पृशन्
मनस्यासज्जन् यासां गृहादपि न जात्वपैतीति । तस्मादत्रापि बीभत्स
सङ्गतिः पूर्ववद्व्याख्येया ।

॥ १.१० ॥ कौरवेन्द्रपुरस्त्रियः ॥ १९९॥

[२००]

अथ गौणेष्वयोग्यमुख्यानां सङ्गतावपि पूर्वरीत्या रसोल्लासो, यथा

गोप्योऽनुरक्तमनसो भगवत्यनन्ते
तत्सौहृदस्मितविलोकगिरः स्मरन्त्यः ।
ग्रस्तेऽहिना प्रियतमे भृशदुःखतप्ताः
शून्यं प्रियव्यतिहृतं ददृशुस्त्रिलोकम् ॥ [भागवतम् १०.१६.२०]

अत्र गौणः करुणरस एव योग्यः । तत्र स्वप्रतीपे सम्भोगाख्य उज्ज्वलस्
त्वयोग्यः । तथापि तत्र स्मितविलोकादिरूपतत्सङ्गतिः स्मर्यमाण
मात्रत्वेन तत्तद्भावाभिव्यञ्जनभङ्ग्या शोकमुत्कर्षयति । ततो
रसोल्लास एवेति ।

॥ १०.६० ॥ श्रीशुकः ॥ २०० ॥

[२०१]

अथ मुख्येष्वयोग्यसञ्चारिसङ्गतावपि यथा ता वार्यमाना पतिभिः
[भागवतम् १०.२९.८] इत्यादि ।

अथ च तेषामग्रे तादृशं चापल्यमयोग्यमपि तदानीं
मोहातिरेकाभिव्यञ्जनाभङ्ग्या महाभावाख्यं सर्वानुसन्धानरहितं
कान्तभावस्य उत्कर्षमेव गमयामास । तत उल्लसत्येव रस इति ।

॥ १०.२९ ॥ श्रीशुकः ॥ २०१ ॥

[२०२]

एवमुदाहरणान्तराण्यप्युन्नेयानि । अथ यदुक्तमयोग्यस्योत्कर्षे तु
रसाभासत्वस्यैव उल्लास इति तत्रोदाहरणम् युवां न नः सुतौ साक्षात्
प्रधानपुरुषेश्वरौ [भागवतम् १०.६५.१८] इति ।

अत्र पितृभावेनाभिव्यक्तस्य श्रीवसुदेवस्य एव योग्यं वात्सल्यम्
अतिक्रम्य सङ्गता भक्तिर्न रसत्वायोपपद्यते इति । समाधानं च
पूर्वानुसारेण श्रीबलदेववदेव योजनीयम् । रसाभासप्रसङ्गे
समाधानानि चैतानि तेष्वेव निर्दोषेषु क्रियन्ते । तद्इतरेषु तु न तद्
अर्थमनुगृह्यते । तस्मात्सर्वथा परिहार्यस्तत्प्रसङ्गः । योग्येन
योग्यसङ्गत्या रसोल्लासस्योदाहरणानि तु स्वयमुह्यानि ।

॥ १०.६५ ॥ श्रीवसुदेवः ॥ २०२ ॥

[२०३]
अथ तत्प्रीतिविशेषमया रसाः प्रकर्तव्याः । तत्र शान्तापरनामा ज्ञान
भक्तिमयो रसः । तत्रालम्बनः परब्रह्मत्वेन स्फुरन् ज्ञानभक्ति
विषयश्चतुर्भुजादिरूपः श्रीभगवान् । तद्आधारा भगवल्लीलागत
महाज्ञानिभक्ताश्च । तत्र भगवानेवं तदैव भगवानरविन्द
नाभः [भागवतम् ३.१५.२७] इत्यादिभिः श्रीसनकादीनां वैकुण्ठगमने
दर्शितः । ज्ञानिभक्ताश्च आत्मारामाश्च मुनयः [भागवतम् १.७.१०] इत्यादिना
वर्णिताः । तेषु च श्रीचतुःसनाद्या (पगे १०३) एव तादृशाः । श्री
शुकदेवस्य तु लीलारसमाधुर्याकृष्टतया श्रीभागवताभिनिवेशाद्
यत्रैव श्रीमद्भागवतं सर्वोत्तमत्वमभिप्रैति तत्रैव गृध्नुना
भवेत् ।

अथोद्दीपनाश्च तस्य गुणक्रियाद्रव्यप्रायाः तत्र गुणाः । सच्चिद्
आनन्दसान्द्राङ्गत्वं, सदा स्वरूपसम्प्राप्तत्वं, भगवत्त्वं,
परमात्मत्वं, विद्याशक्तिप्रधानत्वं, विभुत्वं, हतारिमुक्ति
दायकत्वं, शान्तभक्तप्रियत्वं, समत्वं, दान्तत्वं, शान्तत्वं, शुचित्वं,
अद्भुतरूपवत्त्वमित्यादयः । क्रियाश्च भक्तपालनाद्याः । द्रव्याणि च
महोपनिषज्ज्ञानिभक्तपादरजस्तुलसीतदीयस्थानादीनि ।

अथानुभावाः । तत्तद्गुणादिप्रशंसा परब्रह्मपरमात्मादि
नामोच्चारणं ब्रह्मसुखावधीरणापूर्वकभगवद्उन्मुखत्वमित्य्
आदयः । नासाग्रन्यस्तदृष्टित्वावधूतचेष्टाज्ञानमुद्रादिपूर्वक
जृम्भाङ्गमोटनहरिनतिस्तुतिप्रभृतयश्च । सात्त्विकाश्च प्रायः
प्राकृता एव ।

अथ सञ्चारिणः । निर्वेदधृतिहर्षमतिस्मृतिविषादोत्सुकतावेग
वितर्काद्याः ।

अथ स्थायी ज्ञानभक्तिः । सा च

योऽन्तर्हितो हृदि गतोऽपि दुरात्मनां त्वम् ।
सोऽद्यैव नो नयनमूलमनन्त राद्धः ॥ [भागवतम् ३.१५.४६] इत्यादिभिर्
व्यञ्जिता ।

तन्मयरसव्यञ्जकं च तत्रैव

तस्यारविन्दनयनस्य पदारविन्द
किञ्जल्कमिश्रतुलसीमकरन्दवायुः ।
अन्तर्गतः स्वविवरेण चकार तेषां
सङ्क्षोभमक्षरजुषामपि चित्ततन्वोः ॥ [भागवतम् ३.१५.४३] इत्यादिकम् ।

अत्रारविन्दनयन आलम्बनः । वायुरुद्दीपनः । तनुसङ्क्षोभरूप
उद्भास्वरविशेषः सात्त्विकविशेषश्चानुभावः । चित्तसङ्क्षोभरूपो
हर्षः सञ्चारी । अक्षरजुषामपीति निर्देशविशिष्टेन तन्निर्देशेन लब्धा
ज्ञानभक्तिः स्थायी । तत्समूहस्यैकत्रानुभवेन समर्थनात्ज्ञान
भक्तिमयो रस इति विवेचनीयम् ।

अथ भक्तिमयेषु रसेषु आश्रयभक्तिमयो रस उदाहृइयते ।
तत्रालम्बनः पालकत्वेन स्फुरन्नाश्रयभक्त्य्आश्रयः श्रीकृष्णस्तदा
धारास्तल्लीलागतपरमपाल्याश्च ।

अत्र श्रीकृष्णोऽन्यत्रत्येषु श्रीमन्नराकारताप्रधानः परमेश्वराकारश्
च । श्रीमद्व्रजवासिषु तु परमधुरपरमप्रभावश्रीमन्
नराकार एव ।

अथ ते पाल्या द्विविधाः । साधारणाः प्रपञ्चकार्याधिकृता बहिरङ्गाः
तदीयचरणच्छायैकजीवनाश्चान्तराङ्गाः । तत्र पूर्वेषां ब्रह्म
शिवादयस्तु भक्तिविशेषसद्भावात्तद्अन्तरङ्गा एव ।

अथोत्तरे त्रिविधाः । साधारणाः श्रीयदुपुरवासिनः । श्रीमद्व्रजपुर
वासिनश्च । तत्र प्रथमे जरासन्धबद्धराजादयो मुनिविशेषादयश्
च । उत्तरवर्गद्वयं श्रेणीजनादिकम् । अथोद्दीपनेषु गुणाः । तत्र
परमेश्वराकारावलम्बनानां भगवत्त्वमवतारावईबीजत्वम्
आत्मारामाकर्षित्वं पुतनादीनामपि तद्वेशानुकरणेन महाभक्त
भावदातृत्वं परमात्मत्वमनन्तब्रह्माण्डाश्रयैकरोम
विवरांशत्वमित्यादयो वक्ष्यमाणमिश्राः । श्रीमन्
नराकारावलम्बनानां कृपाम्बुधित्वमाश्रितपालकत्वमविचिन्त्यमहा
शक्तित्वं परमाराध्यत्वं सर्वज्ञत्वं सुदृढव्रतत्वं समृद्धिमत्त्वं
क्षमाशीलत्वं दाक्षिण्यं सत्यं दाक्ष्यं सर्वशुभङ्करत्वं
धार्मिकत्वं शास्त्रचक्षुष्ट्वं भक्तसुहृत्त्वं वदान्यत्वमोजः कीर्तिः
तेजः सहो बलानि प्रेमवश्यत्वादयश्च ।

अथ जातयः पूर्वेषां तत्तद्अनुकारितया प्रतीता गोपत्वादयः तत्
स्मारकाः श्यामत्वादयश्च । उत्तरेषां तत्तच्छ्रेष्ठत्वेनैव प्रतीतास्ते
उभये ।

अथ क्रियाः । पूर्वेषां सृष्टिस्थित्य्आदिकृतो विश्वरूपदर्शनाद्याः
वक्ष्यमानमिश्राः । उत्तरेषां परपक्षनिबर्हणस्वपक्षपालन
सानुग्रहावलोकनाद्याः ।

अथ द्रव्याणि । तदीयास्त्रवादित्रभूषणस्थानपदाङ्कभक्तादीनि ।
तानि च (पगे १०४) पूर्वेषामलौकिकतयैव स्पष्टानि । उत्तरेषां
चैतान्येवालौकिकत्वेऽपि लौकिकायमानतयैव दर्शितप्रभावानि ।

अथ कालाश्चोभयत्र तज्जन्मतद्विजयादिसम्बन्धित इति । अथानुभावाः ।
तत्सम्बन्धेनैव वसतिस्तत्प्रभावादिमयगुणनामकीर्तनमित्य्
आदयः । तथा पूर्वोक्ता अपि । अथ सञ्चारिणः । तत्र योगे हर्षगर्व
धृतयः । अयोगे क्लमव्याधी । उभयत्र निर्वेदशङ्काविषाददैन्य
चिन्तास्मृतिव्रीडामत्य्आदयो मृतिश्च । सा योगेऽपि यथा श्रीभीष्मान्तिम
चरिते विशुद्धया धारणये [भागवतम् १.९.३१] ।

एवं तत्र युधि तु गगरजः [भागवतम् १.९.३४] इत्यादौ मम निशितशरैर्
विभिद्यमानत्वची इत्यनेनैव स्वापराधद्योतकवाक्ये दैन्यम्
उदाहार्यम् । शितविशिखहतः [भागवतम् १.९.३८] इत्यादिकेऽपि ।

॥ १.९ ॥ श्रीसूतः ॥ २०३ ॥

[२०४]

अथ स्थायी चाश्रयभक्त्य्आख्यः । यथा

भवाय नस्त्वं भव विश्वभावन
त्वमेव माताथ सुहृत्पतिः पिता ।
त्वं सद्गुरुर्नः परमं च दैवतं
यस्यानुवृत्त्या कृतिनो बभूविम ॥ [भागवतम् १.११.७]

अत्र विभावोद्भास्वरानुभाववैशिष्ट्येनऐव सात्त्विकादीनामपि
लब्धत्वात्तत्संवलनचमत्कारात्म्करसोदाहरणमपि ज्ञेयम् ।
यथोक्तम्

सद्भावश्चेद्विभावादेर्द्वयोरेकस्य वा भवेत् ।
झटित्यन्यसमाक्षेपात्तदा दोषो न विद्यते ॥ [षाह्ड्३.१७]

अन्यसमाक्षेपश्च प्रकरणवशादिति ।

॥ १.११ ॥ द्वारकाप्रजाः श्रीभगवन्तम् ॥ २०४ ॥

[२०५]

आश्रयभक्तिमयो रसो द्विविधः । अयोगात्मको योगात्मकश्च । अयोगो
द्विविधः । प्रथमाप्राप्तिर्वियोगश्च । योगश्च द्विविधः । क्रमेण
द्विविधायोगानन्तरजः सिद्धिस्तुष्टिश्चेति । तत्र प्रथमा प्रात्य्आत्मकम्
अयोगमाह

इति मागधसंरुद्धा भवद्दर्शनकाङ्क्षिणः ।
प्रपन्नाः पादमूलं ते दीनानां शं विधीयताम् ॥ [भागवतम् १०.७०.३१]

अत्र भगवद्दर्शनकाङ्क्षिण इत्यनेन तद्दर्शनाथैव बन्ध
मुमुक्षापि विज्ञापिता । ततः स्थायी दर्शितः । पादमूलमालम्बनम् ।
संरोधी विरोधमुखेनोद्दीपनः । प्रपत्तिरुद्भास्वरः । औत्सुक्यं
दैन्यं च सञ्चारिणौ । ताभ्यां सात्त्विकादयश्च ज्ञेयाः ।

॥ १०.६० ॥ राजदूतः श्रीभगवन्तम् ॥ २०५ ॥

[२०६]

एतद्अनन्तरं सिद्ध्य्आख्यं योगं तेषामेवाह

ददृशुस्ते घनश्यामं पीतकौशेयवाससम् ।
श्रीवत्साङ्कं चतुर्बाहुं [भागवतम् १०.७३.२३] इत्यारभ्य

पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया ॥
जिघ्रन्त इव नासाभ्यां रम्भन्त इव बाहुभिः ।
प्रणेमुर्हतपाप्मानो मूर्धभिः पादयोर्हरेः ॥
कृष्णसन्दर्शनाह्लाद ध्वस्तसंरोधनक्लमाः ।
प्रशशंसुर्हृषीकेशं गीर्भिः प्राञ्जलयो नृपाः ॥ [भागवतम् १०.७३.५७]

पिबन्त इत्यादाविव शब्द उत्प्रेक्षायाम् । तद्अद्भुतरूपदर्शनेन
चक्षुषोरत्यन्तविस्फारणात्पिबन्त इवेत्युक्तम् । एवं तदीयमधुर
गन्धजातचरणारविन्दलेहनलोभात्पुनः पुनर्या जृम्भा जाता तल्
लिङ्गेन तच्चरणारविन्दं लिहन्त इवेत्युक्तम् । अतएव जिघ्रन्त इव
नासाभ्यामिति । नासापुटफुल्लतालिङ्गेन तस्य सर्वाङ्गमेव युगपज्
जिघ्रन्त इवेत्युक्तम् । तद्अर्थमिव तद्विस्तारणं कृतमित्यर्थः ।
तथापि भक्तत्वात्तच्चरणस्यैवावले (पगे १०५) हेच्छा युक्तेति तथा
व्याख्यातम् । एवमुत्तरत्रापि । परमावेशकृतबाहुचालनलिङ्गेन तच्
चरणारविन्दं श्लिष्यन्त इवापीति सर्वथा तद्आवेश एव तात्पर्यम् ।

॥ १०.७३ ॥ श्रीशुकः ॥ २०६ ॥

[२०७]

अथ वियोगः । यर्ह्यम्बुजाक्षापससार [भागवतम् १.११.९] इत्यादौ श्रीद्वारका
प्रजावाक्ये तासां प्रभावो व्यक्तः । श्रीव्रजप्रजानां च यदुपतिर्
द्विरदराजविहारः [भागवतम् १०.३५.२५] इत्यादौमोचयन् व्रजगवां दिनतापम्
इत्यनेन सूचितः । व्रज एव तिष्ठतां बुद्धबालगवामपि किमुत
मनुष्याणामित्यर्थः । अथ तद्अनन्तरजं तुष्ट्य्आख्यं योगं
द्वारकआप्रजानामाह

आनर्तान् स उपव्रज्य स्वृद्धा‘ जनपदान् स्वकान् ।
दध्मौ दरवरं तेषां विषादं शमयन्निव ॥ [भागवतम् १.११.१]

इवेति वाक्यालङ्कारे ।

॥ १.११ ॥ श्रीसूतः ॥ २०७ ॥

[२०८]

श्रीव्रजप्रजानामपि मोचयन्नित्यादिनैव व्यक्तः । तथा व्रजवन
स्थितानामपि श्रीव्रजदेवीवाक्यैः वृन्दावनं सखि भुवो वितनोति
कीर्तिम् [भागवतम् १०.२१.१०] इत्यादिभिः । हन्त चित्रमबला शृणुतेदम् [भागवतम् १०.३५.४]
इत्यादिभिश्च ज्ञेयः ।

अथ दास्यभक्तिमयो रसः । तत्रालम्बनः प्रभुत्वेन स्फुरन् दास्य
भक्त्य्आश्रयः श्रीकृष्णः । तद्आधाराः श्रीकृष्णलीलागतस्वोत्कृष्ट
तदीयभृत्याश्च । श्रीकृष्ण इह परमेश्वराकारः श्रीमन्नराकारश्चेति
द्विविधः पूर्वोक्ताविर्भाव एव । तद्भृत्याश्च तत्तद्अनुशीलत्वेन
द्विविधाः । पुनस्ते च त्रिविधाः । अङ्गसेवकाः पार्षदाः प्रेष्याश्च ।
तत्राङ्गसेवका अङ्गाभ्यञ्जकताम्बूलवस्त्रगन्धसमर्पकादयः ।
पार्षदा मन्त्रिसारथिसेनाध्यक्षधर्माध्यक्षदेशाध्यक्षादयः ।
विद्याधदिचातुर्येण सभारञ्जकाश्च । पुरोहितस्य प्राधान्याद्गुरु
वर्गान्तःपात एव । पार्षदत्वमप्यंशेन । प्रेष्याः सादिपदातिशिल्पि
प्रभृतयः । एते च यथापूर्वं प्रायः प्रियतराः । श्रीमद्उद्धव
दारुकप्रभृतीनां त्वङ्गसेवादिवैशिष्ट्यमप्यस्तीति सर्वतोऽप्य्
आधिक्यम् । तत्रापि श्रीमद्उद्धवस्य बहुशोऽपि त्वं मे भृत्यः सुहृत्
सखा [भागवतम् ११.११.४९] इत्याद्युक्तेः ।

अथोद्दीपनाः पूर्वोक्ता एव । तत्र विशेषतोऽङ्गसेवकेषु गुणाः सौन्दर्य
सौकुमार्यादयः । क्रिया शयनभोजनादिकाः । द्रव्याणि तत्सेवोपयोग्यानि
तद्उच्छिष्टानि च । पार्षदेषु गुणाः प्रभुत्वादयः । प्रेष्येषु प्रतापादय
इत्यादि ।

अथानुभावाः प्रायः पूर्वोक्ता एव । तथा योगे स्वस्वकर्मणि तात्पर्यम् ।
यत्खलु सेवासमये कम्पस्तम्भाद्य्उद्भवमपि विलापयति तत्तत्
कर्मतात्पर्यं हि तस्यासाधारणो धर्मः । कम्पादिस्तु सर्वसाधारणस्
ततः पूर्वस्यैव बलवत्त्वमिति । एवमन्यत्रापि रसे यथायथमुन्नेयम् ।
अथायोगेऽपि स्वस्वकर्मानुसन्धानं तद्अर्चास्वपि तत्तत्कृतिरेव वा ।

अथ सञ्चारिणोऽपि प्राग्उक्ता एव । अथ स्थायी च दास्यभक्त्य्आख्यः । स
चाक्रूरादीनामैश्वर्यज्ञानप्रधानः । श्रीमद्उद्धवादीनां तत्तत्
सद्भावेऽपि माधुर्यज्ञानप्रधानः । श्रीव्रजस्थानं तु माधुर्येक
मय एव ।

अथाप्येषां प्रीतेर्भक्तित्वं श्रीगोपराजकुमारत्वपरमगुण
प्रभावत्वादिनैवादरसद्भावात् । तत्राक्रूरस्य ददर्श रामं कृष्णं
च व्रजे गोदोहनं गतौ [भागवतम् १०.२८.२८] इत्यादि लीलायामनुभूततादृश
माधुर्यस्यापि यमुनाह्रदे दृष्टेन तद्ऐश्वर्यविशेषेणैव चमत्कार
परिपोषात्तत्प्रधानत्वं व्यक्तम् । श्रीमद्उद्धवस्य माधुर्य
प्रधानत्वं (पगे १०६) तु श्रीगोकुलवासिभाग्यश्लाघायां स्फुटमेव
व्यक्तम् । अतएव तादृशस्यापि तस्यैवं स्वेच्छामयनरलीला
माधुर्यावेशः स्मर्यमाणो मम तद्वियोगखेदं वर्धयतीति
भगवद्अन्तर्धानानन्तरमुद्धवः स्वयमाह

मां खेदयत्येतदजस्य जन्म
विडम्बनं यद्वसुदेवगेहे ।
व्रजे च वासोऽरिभयादिव स्वयं
पुराद्व्यवात्सीद्यद्अनन्तवीर्यः ॥ [भागवतम् ३.२.१६] इति ।

[२०९]

अतएव श्लाघितं यन्मर्त्यलीलौपायिकम् [भागवतम् ३.२.१२] इति । अग्रे परम
मधुरत्वेन तां लीलामपि वर्णयति

वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने ।
चिकीर्षुर्भगवानस्याः शमजेनाभियाचितः ॥
ततो नन्दव्रजमितः पित्रा कंसाद्विबिभ्यता ।
एकादश समास्तत्र गूढार्चिः सबलोऽवसत् ॥
परीतो वत्सपैर्वत्सांश्चारयन् व्यहरद्विभुः ।
यमुनोपवने कूजद् द्विजसङ्कुलिताङ्घ्रिपे ॥
कौमारीं दर्शयंश्चेष्टां प्रेक्षणीयां व्रजौकसाम् ।
रुदन्निव हसन्मुग्ध बालसिंहावलोकनः ॥ [भागवतम् ३.२.२५२८] इत्यादि ।

रुदन्निव हसन्निति जनन्य्आद्य्अग्रे कौमारचेष्टाविशेषः ॥

॥ ३.२ ॥ श्रीमानुद्धवः ॥ २०८२०९ ॥

[२१०]

अथ श्रीव्रजस्थानां माधुर्यज्ञानैकमयत्वमाह

पादसंवाहनं चक्रुः केचित्तस्य महात्मनः ।
अपरे हतपाप्मानो व्यजनैः समवीजयन् ॥ [भागवतम् १०.१५.१८]

महात्मानो महागुणगणगुणितस्य हतपाप्मानो न तु वयमिव
तादृशभाग्यान्तरायलक्षणपापयुक्ता इति श्रीशुकदेवस्य दैन्योक्तिस्तत्
स्पृहातिशयं व्यञ्जयति ।

॥ १०.१५ ॥ श्रीशुकः ॥ २१० ॥

[२११]

तथा हन्तायमद्रिरबला हरिदासवर्यः [भागवतम् १०.२१.१८] इत्यादि ।
स्पष्टम् ॥

॥ १०.२१ ॥ श्रीगोप्यः ॥ २११ ॥

[२१२]

तदेतद्विभावादिस्थाय्यन्तसंवलनचमत्कारात्मको रसो ज्ञेयः । स च
पूर्ववत्प्रथ्माप्राप्त्य्आत्मको यथा

अप्यद्य विष्णोर्मनुजत्वमीयुषो
भारावताराय भुवो निजेच्छया ।
लावण्यधाम्नो भवितोपलम्भनं
मह्यं न न स्यात्फलमञ्जसा दृशः ॥ [भागवतम् १०.३८.१०]

स्पष्टम् ।

॥ १०.३८ ॥ श्र्यक्रूरः ॥ २१२ ॥

[२१३]

तद्अनन्तरप्राप्तिलक्षणसिद्ध्य्आत्मको, यथा

भगवद्दर्शनाह्लाद बाष्पपर्याकुलेक्षणः ।
पुलकाचिताङ्ग औत्कण्ठ्यात्स्वाख्याने नाशकन्नृप ॥ [भागवतम् १०.३८.२५]

स्वाख्याने अक्रूरोऽहं नमस्करोमि इत्येतल्लक्षणे ।
॥ १०.३८ ॥ श्रीशुकः ॥ २१३ ॥

[२१४]

अथ भगवद्अन्तर्धानान्तरं वियोगात्मको यथा

इति भागवतः पृष्टः क्षत्त्रा वार्तां प्रियाश्रयाम् ।
प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात्स्मारितेश्वरः ॥
यः पञ्चहायनो मात्रा प्रातर्आशाय याचितः ।
तन्नैच्छद्रचयन् यस्य सपर्यां बाललीलया ॥
स कथं सेवया तस्य कालेन जरसं गतः ।
पृष्टो वार्तां प्रतिब्रूयाद्भर्तुः पादावनुस्मरन् ॥ [भागवतम् ३.२.१३]

भागवतः श्रीमानुद्धवः । क्षात्रा विदुरेण । जरसं वर्षाणां
पञ्चविंशत्य्उत्तरशतस्य तादृशानां प्राकट्यमर्यादाकालस्यान्तिमं
भागमित्येव विवक्षितं न तु जीर्णत्वम् । (पगे १०७) श्रीकृष्णसवयसस्
तस्यापि तद्वन्नित्यवयसत्वेन श्रीकृष्णसन्दर्भे स्थापितत्वात्
नोद्धवोऽण्वपि मन्न्यूनः [भागवतम् ३.४.३१] इति श्रीभगवद्वाक्य
वैशिष्ठ्यात् । तत्र प्रवयसोऽप्यासन् युवानोऽतिमहौजस [भागवतम् १०.४५.१९] इत्य्
आदिना कैमुत्याच्च ॥

॥ ३.२ ॥ श्रीशुकः ॥ २१४ ॥

[२१५]

अत्र कृष्णद्युमणिनिम्लोचे [भागवतम् ३.२.७] इत्यादौ दुर्भगो बत लोकोऽयम् [भागवतम्
३.२.८] इत्यादिषु चात्मात्मीयविगर्हादिलक्षणो विलापश्च ज्ञेयः । अथ
वियोगानन्तरयोगलक्षणतुष्ट्य्आत्मक उदाहार्यः । तत्र साक्षात्कार
तुल्यस्फूर्तात्मको यथा तद्अनन्तरमेव श्रीमद्उद्धवस्य

स मुहूर्तमभूत्तूष्णीं कृष्णाङ्घ्रिसुधया भृशम् ।
तीव्रेण भक्तियोगेन निमग्नः साधु निर्वृतः ॥ [भागवतम् ३.२.४] इत्यादि ।

स्पष्टम् ।
॥ ३.२ ॥ श्रीशुकः ॥ २१५ ॥

[२१६]

एवमेव व्रजे तद्विरहदुःखमग्ने कृपया व्यवहाररक्षार्थं
केषुचिदव्यवच्छेदेनैव स्फुरतीत्यत एव श्रीमद्उद्धवप्रवेशे
केषांचित्सुखमपि वर्णितम् । वासितार्थेऽभियुद्धद्भिः [भागवतम् १०.४६.९] इत्य्
आदिभिश्च । तां दीपदीप्तैर्मणिभिर्विरेजुः [भागवतम् १०.४६.४५] इत्यादिना च ।
अतएव श्रीभगवतापि प्रायः पितरौ प्रेयसीश्चैवोद्दिश्य सन्दिष्टम्
गच्छोद्धव व्रजं सौम्य [भागवतम् १०.४६.३] इत्यादिना । पित्रादीनां तु सर्वत्र
दुःखमात्रस्फुरणादन्येषां सुखमपि नानुभवपदवीमारोहति ।

अपि स्मरति नः कृष्णो मातरं सुहृदः सखीन् ।
गोपान् व्रजं चात्मनाथं गावो वृन्दावनं गिरिम् ॥ [भागवतम् १०.४६.१८]

इत्यादि श्रीव्रजेश्वरवचनात् । तत्र श्रीमद्उद्धववासे तु प्रायः
सर्वेषामपि तादृशीं स्फूर्तिं वर्णयति

उवास कतिचिन्मासान् गोपीनां विनुदन् शुचः ।
कृष्णलीलाकथां गायन् रमयामास गोकुलम् ॥
यावन्त्यहानि नन्दस्य व्रजेऽवात्सीत्स उद्धवः ।
व्रजौकसां क्षणप्रायाण्यासन् कृष्णस्य वार्तया ॥
सरिद्वनगिरिद्रोणीर्वीक्षन् कुसुमुतान् द्रुमान् ।
कृष्णं संस्मारयन् रेमे हरिदासो व्रजौकसाम् ॥ [भागवतम् १०.४७.५४५६]

संसारयन् स्फोरयन्नित्यर्थः । अतएव विनुदन् शुच इत्यादिकमुक्तम् ।

॥ १०.४७ ॥ श्रीशुकः ॥ २१६ ॥

[२१७]

अथ साक्षात्कारलक्षणतुष्ट्य्आत्मकं श्रीमद्उद्धवस्याह

ततस्तमन्तर्हृदि सन्निवेश्य
गतो महाभागवतो विशालाम् ।
यथोपदिष्टां जगद्एकबन्धुना
तपः समास्थाय हरेरगाद्गतिम् ॥ [भागवतम् ११.२९.४७]

(पगे १०८)

गम्यते इति गतिः । यथोपदिष्टां गतिमित्यस्य तृतीयानुसारेणायमर्थः ।
पूर्वं तत्र तं प्रति श्रीभगवता वेदाहमन्त्रमनसीप्सितं ते ददामि
यत्तद्दूरवापमन्यैः [भागवतम् ३.४.११] इत्यनेन तद्अभीप्सितं दातुं
प्रतिश्रुतम् । त्वद्ईप्सितपूर्त्य्अर्थं यद्अन्यैर्दुरवापं तद्ददामीत्य्
अर्थः । तच्च देयं पुरा मया प्रोक्तमजाय नाभा [भागवतम् ३.४.१३] इत्यादिना
सङ्क्षेपभागवतरूपमित्युद्दिष्टम् ।

अथ तादृशतत्प्रतिश्रुतश्रवणेन परमोत्सुकतया परमनिजाभीप्सितम्
असौ स्वयमेव निवेदितवान्

को न्वीश ते पादसरोजभाजां
सुदुर्लभोऽर्थेषु चतुर्ष्वपीह ।
तथापि नाहं प्रवृणोमि भूमन्
भवत्पदाम्भोजनिषेवणोत्सुकः ॥ [भागवतम् ३.४.१५] इत्यनेन ।

अथागन्तुकं निजमोहविशेषं च निवेदितवान्कर्माण्यनीहस्य
भवोऽभवय [भागवतम् ३.४.१६] इत्यादिभ्याम् । तच्च साक्षात्तद्उपदेशबलेन
प्रायः परप्रत्यायनार्थमेव ज्ञेयं नोद्धवोऽण्वपि मन्न्यूनः [भागवतम्
३.४.३१] इत्यादेः ।

अथ तत्तद्अर्थोपयुक्तत्या भगवद्उद्दिष्टार्थमपि प्रार्थितवान् ।
ज्ञानं परं स्वात्मरहः प्रकाशं प्रोवाच कस्मै [भागवतम् ३.४.१८] इत्यादिना ।
तत्र यद्वृजिनं तरेम इति वृजिनं तादृशसेवाविरहदुःखम् । तादृशलोक
मोहदुःखं च । तत्तरणस्य तद्रहस्यज्ञानाधीनत्वादिति भावः ।
ततश्च मद्अभीष्टं श्रीभगवानपि सम्पादितवानिति श्रीविदुरं प्रति
कथितं श्रीमद्उद्धवेन स्वयमेव

इत्यावेदितहार्दाय मह्यं स भगवान् परः ।
आदिदेशारविन्दाक्ष आत्मनः परमां स्थितिम् ॥ [भागवतम् ३.४.१९] इति ।

द्वितीये ब्रह्मणेऽपि परमवैकुण्ठं दर्शयता तेनात्मनः परम
भगवत्तारूपा स्थितिर्दर्शिता । सा च श्रीद्वारकावैभवरूपेति श्री
भगवत्सन्दर्भे स्थापितमस्ति । सङ्क्षेपश्रीभागवतरूपया चतुः
श्लोक्या च । तस्य तादृशत्वेऽपि विचित्रलीलाभक्तपरवशत्वरूपासाविति
तत्रैव बोधितम् ।ततस्तद्अनुभवेनोभयत्रापि श्रीमद्उद्धवस्य
धैर्यं जातमिति तत्तद्उपयोगः । ततश्च तामेव तद्उपदिष्टां गतिं
जगामेत्यर्थः । तथैवोप्द्दिष्टमन्ते तं प्रत्येकादशे

ज्ञाने कर्मणि योगे च वार्तायां दण्डधारणे ।
यावानर्थो नृणां तात तावांस्तेऽहं चतुर्विधः ॥ [भागवतम् ११.२९.३३] इति ।

तस्य श्रीकृष्णरूपा गतिश्चेयं श्रीशुकद्वारा श्रीभागवतप्रचारात्
पूर्वमेव ज्ञेया । स्वज्ञानप्रचारार्थमेव हि सोऽयं पृथिव्यां रक्षितः ।
तद्अनन्तरं चरितार्थत्वात्न प्रयोजनमिति । किन्तु कामव्यूहेन श्रीमद्
व्रजेऽप्यस्य तत्प्राप्तिर्ज्ञेया । आसामहो चरणरेणुजुषामहं स्याम् [भागवतम्
१०.४७.६१] इति दृढमनोरथावगमात् ।
॥ ११.२९ ॥ श्रीशुकः ॥ २१७ ॥

[२१८]

अथ प्रश्रयभक्तिमयो रसः । तत्रालम्बनो लालकत्वेन स्फुरन् प्रश्रय
भक्तिविषयः श्रीकृष्णश्च पूर्ववत्परमेश्वराकारः श्रीमन्नराकारश्
चेति द्विविधाविर्भावः । तत्तद्आश्रयत्वेन च लाल्याश्च त्रिविधाः । तत्र
परमेश्वराकाराश्रया ब्रह्मादयः । श्रीमन्नराकाराश्रयाः श्री
दशाक्षरध्यानदर्शितश्रीगोकुलपृथुकाः । उभयाश्रयाः श्री
द्वारकाजन्मानः । ते (पगे १०९) च सर्वे यथायथं पुत्रानुज
भ्रातुष्पुत्रादयः । तत्र पुत्राः केचिद्गुणतः केचिदाकारतः केचिद्
उभयतश्च तद्अनुहारिप्रायाः । तत्र गुणानुहारित्वमाह

एकैकशस्ताः कृष्णस्य पुत्रान् दशदशाबलाः ।
अजीजनन्ननवमान् पितुः सर्वात्मसम्पदा ॥ [भागवतम् १०.६१.१]

[२१९]

तत्र साम्बादीनां श्रीकृष्णश्लाघितगुणत्वमाह जाम्बवत्याः सुता ह्य्
एते साम्बाद्याः पितृसम्मताः [भागवतम् १०.६१.१२] इति ।

[२२०]
अतः श्रीसाम्बस्यैकादशादो श्रुतमन्यथाचेष्टितं श्रीकृष्णस्य
मर्यादादर्शकतत्तल्लीलेच्छयैव । तत्र श्रीरुक्मिणीपुत्रास्तु तेष्वपि
श्रेष्ठा इत्याहप्रद्युमप्रमुखा जाता रुक्मिण्यां नावमाः पितुः [भागवतम्
१०.६१.९] इति । अत्र पुनरुक्तिरेव श्रैष्ठ्यबोधिका ।

॥ १०.६१ ॥ श्रीशुकः ॥ २१८२२० ॥

[२२१]

तत्र श्रीप्रद्युम्नस्यातिशयमाह

कथं त्वनेन सम्प्राप्तं सारूप्यं शार्ङ्गधन्वनः ।
आकृत्यावयवैर्गत्या स्वरहासावलोकनैः ॥ [भागवतम् १०.५५.३३]

स्पष्टम् ।

॥ १०.५५ ॥ श्रीरुक्मिणी ॥ २२१ ॥

[२२२]

किं च

यं वै मुहुः पितृसरूपनिजेशभावास्
तन्मातरो यदभजन् रहरूठभावाः ।
चित्रं न तत्खलु रमास्पदबिम्बबिम्बे
कामे स्मरेऽक्षविषये किमुतान्यनार्यः ॥ [भागवतम् १०.५५.४०]

यं प्रद्युम्नं तन्मातरो मुहुरभजन् द्रष्टुमागताः पुनर्लज्जया
रह एकान्तदेशं च अभजन्निलिल्युरित्यर्थः । तदेवं यदभजन् तत्
खलु रमास्पदबिम्बस्य लक्ष्मीविलासभुमिमुर्तेर्बिम्बे प्रतिमूर्तौ
तस्मिन्न चित्रम् । बालकस्य पितृसादृश्ये मातॄणां वात्सल्योद्दीप्ति
सम्भवात् । तत्र यच्च रहः अभजन् तदपि न चित्रमित्याह पितृस्वरूप
निजेशभावाः । तद्अनन्तरं पितुः श्रीकृष्णस्य सरूपेण सारूप्यातिशयेन
निजेशस्य आत्मीयप्रभुमात्रबुद्ध्यावगतस्य न तु रमण
बुद्ध्यावगतस्य श्रीकृष्णस्य भावः स्फूर्तिर्यासु ताः । ततो लज्जाहेतुकं
रहोभजनलक्षणं पलायनमप्युचितमेवेति भावः । तथोक्तमेतत्
प्रागेव तं दृष्ट्वा जलदश्यामम् [भागवतम् १०.५५.२७] इत्यादौ कृष्णं मत्वा
स्त्रियो ह्रीता निलिल्युस्तत्र तत्र ह [भागवतम् १०.५५.२८] इति । तत्र प्रभुत्वमात्र
स्फूर्तौ हेतुः रूढभावाः रूढः श्रीकृष्णे बद्धमूलः भावः
कान्ताभावो यासां ताः । कदाचिदन्यत्र चेतने तत्सादृश्यातिशयेनेश्वर
भावः स्फुरतु नाम रमणभावस्तु न सर्वेथेत्यर्थः । श्री
रुक्मिण्यास्तत्सदृशवत्सलाया अन्यस्याश्चेश्वरभावोऽपि नोदयते किन्तु
सर्वथा पुत्रभाव एव तत्सारूप्येणोद्दीप्तः स्यात् । यथोक्तं श्रीरुक्मिणी
देव्यैव कथं त्वनेन सम्प्राप्तम् [भागवतम् १०.५५.३३] इत्याद्य्अनन्तरं

स एव वा भवेन्नूनं यो मे गर्भे धृतोऽर्भकः ।
अमुष्मिन् प्रीतिरधिका वामः स्फुरति मे भुजः ॥ [भागवतम् १०.५५.३४]
तदेवं तासामपि यत्र रमास्पदबिम्बबिम्बत्वेन तादृशी भ्रान्तिस्तत्र
परममोहने रमास्पदबिम्बस्यैवाप्राकृतकामरूपांशे जगद्गत
निजांशेन स्मरे स्मरणपथं गत्वापि क्षोभके सम्प्रति तु स्वयम्
एवाक्षविषयतां प्राप्ते सति अन्यनार्यः किमुत सृष्ट्वैव मोहं प्राप्तम्
उइच्ता इत्यर्थः ।

॥ १०.५५ ॥ श्रीशुकः ॥ २२२ ॥

(पगे ११०)

अथ उद्दीपनाः । गुणाः स्वविषयकश्रीकृष्णवात्सल्यस्मितप्रेक्षादयः ।
तया तस्य कीर्तिबुद्धिबलादीनां परममहत्त्वं च तथा जाति
क्रियादयोऽपि यथायोगमगन्तव्याः ।

अथ अनुभावाः । बाल्ये मुहुस्तं प्रति मृदुवाचा स्वैरप्रश्न
प्रार्थनादिकम् । तद्अङ्गुलिबाह्व्आद्य्आलम्बनेन स्थितिः । तद्
उत्सङ्गोपवेशः । तत्ताम्बुलचर्वितदानमित्याद्याः । अन्यदा तद्आज्ञा
प्रतिपालनतच्चेष्टानुसरणस्वैरताविमोक्षादयः । उभयत्र तद्
अनुगतिः ।

सात्त्विकाश्च सर्वे । अथ व्यभिचारिणः पूर्वोक्ता एव । अथ स्थायी च
प्रश्रयभक्त्य्आख्यः । तत्र बाल्येऽतिलाल्यताभिमानमयत्वेन प्रश्रय
बीजस्य दैन्यांशस्य सद्भागात्तद्आख्यत्वम् । तत्र बाल्योदाहरणम्
अवगन्तव्यम् । अन्यदीयं यथानिशम्य प्रेष्ठमायान्तम् [भागवतम् १.११.१६]
इत्यादौ ।

प्रद्युम्नश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः ।
प्रहर्षवेगोच्छशितशयनासनभोजनाः ॥
वारणेन्द्रं पुरस्कृत्य ब्राह्मणैः ससुमङ्गलैः ।
शङ्खतूर्यनिनादेन ब्रह्मघोषेण चादृताः ।
प्रत्युज्जग्मू रथैर्हृष्टाः प्रणयागतसाध्वसाः ॥ [भागवतम् १.११.१९]

प्रणयोऽत्र भक्तिविशेषः ।

॥ १.११ ॥ श्रीसुतः ॥ २२३ ॥

[२२४]

एवमत्र विभावादिसंवलनात्मके प्रश्रयभक्तिमये रसे पूर्ववद्
योगादयोऽपि भेदा ज्ञेयाः । इति भक्तिमयो रसः ।

अथ वात्सल्यमयो वत्सलाख्यो रसः । तत्रालम्बनः लाल्यत्वेन स्फुरन्
वात्सल्यविषयः श्रीकृष्णस्तद्आधारास्तत्पित्रादिरूपा गुरवश्च । तत्र
श्रीकृष्णः श्रीमन्नराकार एव । अथ गुरवः । तत्र भक्त्य्आदिमिश्राः
श्रीवसुदेवदेवकीकुन्तीप्रभृतयः । शुद्धास्तु श्रीयशोदानन्दतत्
सवयोबल्लवीबल्लवप्रभृतयः । स्वाभाविकं चैषां वात्सल्योपयोगि
वैदुष्यं

गोप्यः संस्पृष्टसलिला अङ्गेषु करयोः पृथक् ।
न्यस्यात्मन्यथ बालस्य बीजन्यासमकुर्वत ॥ [भागवतम् १०.६.२१] इत्यादिभिः
स्पष्टम् ।

अथोद्दीपनेषु गुणाः । तत्र प्रथमतस्तस्य तदीयलाल्यभावमाह

तां स्तन्यकाम आसाद्य मथ्नन्तीं जननीं हरिः ।
गृहीत्वा दधिमन्थानं न्यषेधत्प्रीतिमावहन् ॥ [भागवतम् १०.९.४]

स्पष्टम् ।
॥ १०.९ ॥ श्रीशुकः ॥ २२४ ॥

[२२५]

एवम्
उवाच पितरावेत्य साग्रजः सात्वतर्षभः ।
प्रश्रयावनतः प्रीणन्नम्ब तातेति सादरम् ॥ [भागवतम् १०.४५.२] इत्यादि ।

इति मायामनुष्यस्य [भागवतम् १०.४५.१०] इत्याद्य्अन्तम् । पितरौ श्रीदेवकी
वसुदेवौ । प्रीणन् प्रीणयन् ।

॥ १०.४५ ॥ श्रीशुकः ॥ २२५ ॥

[२२६]

अथ शैशवचापल्यमाह

शृङ्ग्य्अग्निदंष्ट्र्य्असिजलद्विजकण्टकेभ्यः
क्रीडापरावतिचलौ स्वसुतौ निषेद्धुम् ।
गृह्याणि कर्तुमपि यत्र न तज्जनन्यौ
शेकात आपतुरलं मनसोऽनवस्थाम् ॥ [भागवतम् १०.८.२५]

[२२७]

तथा

कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमारचापलम् ।
शृण्वन्त्याः किल तन्मातुरिति होचुः समागताः ॥ [भागवतम् १०.८.२८]

वत्सान्मुञ्चन् क्वचिदसमये [भागवतम् १०.८.२९] इत्यादि ।

[२२८]

गोप्यश्चेमाः श्रीव्रजेश्वर्याः स्ववयसः सम्बन्धिन्यः श्रीकृष्णस्यैव
प्रौढभ्रातृजायाश्च । अन्यदा प्रश्रयो लज्जा प्रियंवदत्वं सारल्यं
दातृत्वमित्यादयः । तत्राद्योदाहरणं कुरुक्षेत्रयात्रायां कृष्णरामौ
परिष्वज्य पितरावभिवाद्य च [भागवतम् १०.८२.३४] इत्यादिकम् । (पगे १११)

अतो बालत्वेन मतत्वादिन्द्रमखप्रसङ्गे प्रागल्भ्यमपि तेषां
सुखदम् । कान्त्वयववयसां सौन्दर्यं सर्वसल्लक्षणत्वं पूर्ण
कैशोरपर्यन्तं वृद्धिरित्यादयस्तु सर्वदैव । तत्रान्त्या यथा

कालेन व्रजताल्पेन गोकुले रामकेशवौ ।
जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः ॥ [भागवतम् १०.८.२१] इत्यादि ।

[२२९]

तथा

कालेनाल्पेन राजर्षे रामः कृष्णश्च गोकुले ।
अघृष्टजानुभिः पद्भिर्विचक्रमतुरञ्जसा ॥ [भागवतम् १०.८.२६]

स्पष्टम् ।
॥ १०.८ ॥ सः ॥ २२६२२९ ॥

[२३०]

जातिस्तु पूर्वोक्ता । क्रियाश्च जन्मबाल्यक्रीडादयः । तत्र नन्दस्त्वात्मज
उत्पन्नः [भागवतम् १०.५.१] इत्यादिना जन्म दर्शितम् । बाल्यक्रीडामाह

तावङ्घ्रियुग्ममनुकृष्य सरीसृपन्तौ
घोषप्रघोषरुचिरं व्रजकर्दमेषु ।
तन्नादहृष्टमनसावनुसृत्य लोकं
मुग्धप्रभीतवदुपेयतुरन्ति मात्रोः ॥ [भागवतम् १०.८.२२] इत्यादि ।

यर्ह्यङ्गनादर्शनीयकुमारलीलाव्
अन्तर्व्रजे तदबलाः प्रगृहीतपुच्छैः ।
वत्सैरितस्तत उभावनुकृष्यमाणौ
प्रेक्षन्त्य उज्झितगृहा जहृषुर्हसन्त्यः ॥ [भागवतम् १०.८.२४]

स्पष्टम् ।

॥ १०.८ ॥ सः ॥ २३१ ॥

[२३२]

आदिग्रहणात्पौगण्डादौ माल्यमाननादयो ज्ञेयाः । अथ द्रव्याणि च तत्
क्रीडाभाण्डवसनादीनि । कालाश्च तज्जन्मदिनादयः । तत्र जन्मदिनं
यथा

कदाचिदौत्थानिककौतुकाप्लवे
जन्मर्क्षयोगे समवेतयोषिताम् ।
वादित्रगीतद्विजमन्त्रवाचकैश्
चकार सूनोरभिषेचनं सती ॥ [भागवतम् १०.४.७] इत्यादि ।

स्पष्टम् ।
॥ १०.८ ॥ सः ॥ २३२ ॥

[२३३]

अथानुभावेषूद्भास्वराः । तत्र लालनम्

तयोर्यशोदारोहिण्यौ पुत्रयोः पुत्रवत्सले ।
यथाकामं यथाकालं व्यधत्तां परमाशिषः ॥
गताध्वानश्रमौ तत्र मज्जनोन्मर्दनादिभिः ।
नीवीं वसित्वा रुचिरां दिव्यस्रग्गन्धमण्डितौ ॥
जनन्य्उपहृतं प्राश्य स्वाद्वन्नमुपलालितौ ।
संविश्य वरशय्यायां सुखं सुषुपतुर्व्रजे ॥ [भागवतम् १०.१५.४४४६]

स्पष्टम् ।
॥ १०.८ ॥ सः ॥ २३३ ॥

[२३४]

शिरोघ्राणम् ।

नन्दः स्वपुत्रमादाय प्रेत्यागतमुदारधीः ।
मूर्ध्न्युपाघ्राय परमां मुदं लेभे कुरूद्वह ॥ [भागवतम् १०.६.४३]

स्पष्टम् ।

॥ १०.६ ॥ सः ॥ २३४ ॥

[२३५]

आशीर्वादः

ता आशिषः प्रयुञ्जानाश्चिरं जीवेति बालके ।
हरिद्राचूर्णतैलाद्भिः सिञ्चन्त्योऽजनमुज्जगुः ॥ [भागवतम् १०.५२.१५]

स्पष्टम् ।
॥ १०.१५ ॥ सः ॥ २३५ ॥

[२३६]

हितोपदेशदानम् ।

कृष्ण कृष्णारविन्दाक्ष तात एहि स्तनं पिब ।
अलं विहारैः क्षुत्क्षान्तः क्रीडाश्रान्तोऽसि पुत्रक ॥ [भागवतम् १०.११.१५] इत्यादि ।

स्पष्टम् ।

॥ १०.११ ॥ श्रीव्रजेश्वरी श्रीकृष्णम् ॥ २३६ ॥

[२३७]

इदमखिलं साधारणवत्सलानामपि स्यात् । पित्रोस्तु विशेषतः । तत्र हित
प्रवर्तनार्थतर्जनादिकं यथा

एकदा क्रीडमानास्ते रामाद्या गोपदारकाः ।
कृष्णो मृदं भक्षितवानिति मात्रे न्यवेदयन् ॥ (पगे ११२)
सा गृहीत्वा करे कृष्णमुपालभ्य हितैषिणी ।
यशोदा भयसम्भ्रान्त प्रेक्षणाक्षमभाषत ॥
कस्मान्मृदमदान्तात्मन् भवान् भक्षितवान् रहः ।
वदन्ति तावका ह्येते कुमारास्तेऽग्रजोऽप्ययम् ॥ [भागवतम् १०.८.३२३४]

स्पष्टम् ।

॥ १०.८ ॥ सः ॥ २३७ ॥

[२३८]

यदा च दधिमण्डभाजनभेदनादिचापल्यानन्तरं

कृतागसं तं प्ररुदन्तमक्षिणी
कषन्तमञ्जन्मषिणी स्वपाणिना ।
उद्वीक्षमाणं भयविह्वलेक्षणं
हस्ते गृहीत्वा भिषयन्त्यवागुरत् ॥

त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भकवत्सला ।
इयेष किल तं बद्धुं दाम्नातद्वीर्यकोविदा ॥ [भागवतम् १०.९.१११२]

स्पष्टम् ।

॥ १०.९ ॥ सः ॥ २३८ ॥

[२३९]

अथ तर्जनविस्वादौषधपायनादिवत्तदात्वभवं तत्सुखमप्य्
अतिक्रम्यायातिभद्रायैतत्समृद्धये चेष्टा यथा

तमङ्कमारूढमपाययत्स्तनं
स्नेहस्नुतं सस्मितमीक्षती मुखम् ।
अतृप्तमुत्सृज्य जवेन सा ययाव्
उत्सिच्यमाने पयसि त्वधिश्रिते ॥ [भागवतम् १०.९.५]

यद्धामार्थसुहृत्प्रियात्मतनयप्राणाशयास्त्वत्कृते [भागवतम् १०.१४.३५] इत्य्
अनेन कैमुत्यप्राप्तेस्तद्गृहसम्पत्तिसम्पादनप्रयत्नस्तु सुतराम्
एव तदायतिसमृद्ध्य्अर्थ एव । तत्र गोपजातीनां सत्यपि महासम्पत्त्य्
अन्तरे तत्कारणे च दुग्धहेतुकसम्पत्त्य्अर्थमेव्व महानाग्रहः
स्वाभाविकः । तस्मादायतीयतत्सम्पत्तिवर्धनार्थं दुग्धरक्षायाम्
औत्सुख्यमिदं वात्सल्यविलसितमेव सत्वात्सल्यं पुष्णाति समुद्रमिव
तरङ्गसङ्घः । अत्र तस्या हृडयमीदृशमयं सम्पत्तिरक्षां न
जानाति । ततः सम्प्रति मद्एककर्तव्यासाविति । अत्र च स्नेहस्नुतमिति
स्वाभाविकगाढस्नेहं दर्शयित्वा तथैव सूचितम् । एवं तत्कृते दधि
मण्डभाण्डभङ्गेऽपि तस्या बहिरेव कोपाभासो दर्शितः । मनसि तु
प्रबलचापल्यदर्शनेन हर्ष एव । यथाह

उत्तार्य गोपी सुशृतं पयः पुनः
प्रविश्य संदृश्य च दध्य्अमत्रकम् ।
भग्नं विलोक्य स्वसुतस्य कर्म तज्
जहास तं चापि न तत्र पश्यती ॥ [भागवतम् १०.९.७]

स्पष्टम् ।

॥ १०.९ ॥ सः ॥ २४० ॥

[२४१]

अथ दुःखेऽपि तत्प्रस्तोभनार्थं

उलूखलं विकर्षन्तं दाम्ना बद्धं स्वमात्मजम् ।
विलोक्य नन्दः प्रहसद् वदनो विमुमोच ह ॥ [भागवतम् १०.११.६]

प्रहसद्वदनमिति तु पाठः क्वचित् ।

॥ १०.११ ॥ सः ॥ २४१ ॥

[२४२]

अथ दुष्टजीवादिभ्योऽनिष्टशङ्खामाह

जन्म ते मय्यसौ पापो मा विद्यान्मधुसूदन ।
समुद्विजे भवद्धेतोः कंसादहमधीरधीः ॥ [भागवतम् १०.३.२९]

स्पष्टम् ।

॥ १०.३ ॥ श्रीदेवकी ॥ २४२ ॥

[२४३]

एवं शृङ्ग्य्अग्निर्दंष्ट्र्य्अहिजलद्विज [भागवतम् १०.८.१५] इत्यादिकं दर्शितम् ।

अथ तच्छ्रेयोनिबन्धना देवादिपूजा

तैस्तैः कामैरदीनात्मा यथोचितमपूजयत् ।
विष्णोराराधनार्थाय स्वपुत्रस्योदयाय च ॥ [भागवतम् १०.५.१६]

अनेन विष्णुः प्रीणातु तेन च मत्पुत्रस्योदयो भवत्विति सङ्कल्प्य सर्वा
यथोचितामपूजयदित्यर्थः ।
॥ १०.५ ॥ सः ॥ २४३ ॥

[२४४]

तथान्येषां सम्यङ्निर्णीत एव प्रभावे तत्कार्यस्य प्रकारान्तर
कारणताभावना सम्भवति । यथा

अहो बतात्य्अद्भुतमेष रक्षसा (पगे ११३)
बालो निवृत्तिं गमितोऽभ्यगात्पुनः ।
हिंस्रः स्वपापेन विहिंसितः खलः
साधुः समत्वेन भयाद्विमुच्यते ॥ [भागवतम् १०.७.३१] इति ।

श्रीमत्पित्रोस्तु सम्यङ्निर्णीतेऽपि सम्भवति यथा श्रीमती माता किं
स्वप्नः [भागवतम् १०.८.४०] इत्यादिना श्रीकृष्णस्य विश्वोदरादित्वं स्वभावं
मत्वापि पुनस्तदसम्भवं मन्वाना अथो यथावन्न वितर्कगोचरम्
[भागवतम् १०.८.१४] इत्यादिना । तच्च परमेश्वरनिर्मितमित्यङ्गीकृतवती ।
उत्पातवत्तन्निवृत्त्य्अर्थं तच्चरणारविन्दमेव शरणत्वेनाश्रतवती च ।
पुनश्च अहं ममासौ [भागवतम् १०.८.४१] इत्यादिना निजभावमेव दृढीकृत्य
तच्छरणत्वमेवावधारितवती । अहं ममासौ पतिरेष मे सुतः इत्य्
आदिकमिदन्तानिर्दिष्टत्वेन प्रत्यक्षसिद्धमेव । तथापि यन्
माययेत्थं [भागवतम् १०.८.४२] एतन्नानाप्रकारेण विश्वरूपदर्शनाकारा
कुमतिः । स एवेश्वरो मम गतिरित्यर्थः ।

यच्च इत्थं विदिततत्त्वायां [भागवतम् १०.८.४३] इत्यादिकं तद्अन्ते श्रीशुक
वाक्यं तत्रापि तत्त्वं पुत्रत्वम् । स ईश्वरः [भागवतम् १०.८.४३] श्री
कृष्णस्यैवेश्वररूपो य आविर्भावविशेषः । यत्रैव प्रणतास्मि तत्पदम्
[भागवतम् १०.८.४१] इति तद्वाक्यानुसन्धानजमपि पर्यवसितं, स एव व्यज्यते ।
वैष्णवीमिति विशेषएएन मायाशब्दस्य शक्तिमात्रवाचकत्वेन तस्यास्तत्
स्वरूपशक्तित्वं बोध्यते । दयामात्रवाचकत्वेन वा ।

अतएव त्रय्या चोपनिषद्भिश्च [भागवतम् १०.८.४५] इत्यादिना, नायं सुखापो
भगवान् [भागवतम् १०.९.२१] इत्य्आद्य्अन्तेन ग्रन्थेन तत्प्रशंसापि कृता । एवम्
अपि स्मरति नः कृष्णः [भागवतम् १०.४६.१८] इत्य्आदिकस्य, अप्यायास्यति गोविन्दः
[भागवतम् १०.४६.१९] इत्य्आदिकस्य च स्वभावोचितश्रीव्रजेश्वरवाक्यस्यान्ते लोक
रीत्या तद्दुःखशान्त्य्अर्थं श्रीमद्उद्धवेन युवां श्लाघ्यतमौ
नूनं [भागवतम् १०.४६.३०] इत्यादिना तत्स्तुतिगर्भतत्त्वोपदेशे कृतेऽपि तद्भाव
नैश्चल्यं दर्शितम् । एवं निशा सा ब्रुवतोर्व्यतीता नन्दस्य कृष्णानुचरस्य
राजन् [भागवतम् १०.४६.४४] इति ।

एवं श्रीव्रजेश्वरस्य वियोगदुःखव्यञ्जनाप्रकारेण श्रीमद्
उद्धवस्य तत्सान्त्वनाप्रकारेणेत्यर्थः । अतस्तद्भावनैश्चल्यम् ।
तत्त्वोपदेशस्य वास्तवमर्थान्तरं तु श्रीकृष्णसन्दर्भे दर्शितमस्ति ।

एवं कुरुक्षेत्रयात्रायां परितः स्तुवत्स्वपि तादृशमहा० उनिगोष्ठी
प्रभृतिषु विख्यायमानेऽपि श्रीवसुदेवपुत्रत्वे श्रीव्रजेश्वरयोस्तद्
भावनैश्चल्यं, यथा

तावात्मासनमारोप्य बाहुभ्यां परिरभ्य च ।
यशोदा च महाभागा सुतौ विजहतुः शुचः ॥ [भागवतम् १०.८२.३५] इति ।

अतएव मनसो वृत्तयो नः स्युः [भागवतम् १०.४७.६६] इत्य्आदिद्वये श्रीमद्उद्धवं
प्रति श्रीकृष्णैश्वर्यप्रतिपादकतद्उपदेशाभ्युपगमवादेनापि
तथोक्तम् । तादृशेऽपि तस्मिन् प्रतिजन्मैव स्वीयां रतिमेव प्रार्थयामह
इत्यर्थः । एषा तेषां रतिप्रार्थना चानुरागमय्येव न तु (पगे ११४) तद्
अभावमयी

तं निर्गतं समासाद्य नानोपायनपाणयः ।
नन्दादयोऽनुरागेण प्रावोचन्नश्रुलोचनाः ॥ [भागवतम् १०.४७.६५] इत्युक्तत्वात् ।

तस्मात्तदीयानुरागयोग्यमेव व्याख्येयम्, न त्वैश्वर्यज्ञानकृत
भक्तियोग्यम् । यथा यद्यपि तत्प्राप्तिभाग्यमस्माकं दूरे वर्तते
तथापि तदीया रतिरस्तु मापयात्विति काकुः । तादृशरागानुरूपमेव
जीवान्तरसाधारण्येनोक्तम् कर्मभिर्भ्राम्यमाणानाम् [भागवतम् १०.४७.६७]
इति ।

तदेवं केवलवात्सल्यानुरूपमर्थान्तरं च सिध्यति, यतः पादशब्द
प्रयोगो वात्सल्येऽपि सम्प्रति प्राप्त्य्असम्भावनामयात्दूरदेशवियोगाद्
दैन्येन युक्तः । तथैव हि चित्रेकेतोः करुणरसे दृष्टमस्ति । तत्
प्रह्वणश्च तत्कर्तृकं प्रह्वणं नमस्कार इत्यर्थः । पूर्ववदीश्वर
शब्दश्च लालनयैव प्रयुक्तः । लोकेऽपि तादृग्उक्तिदर्शनादिति । इत्यादयः
उद्भास्वराः ।

अथ सात्त्विकाश्च पूर्ववदष्टौ । मातुस्तु नव, स्तन्यस्रवसहितत्वात् ।
अथ सञ्चारिणोऽप्यत्र प्रसिद्धा एव । ते च साक्षाच्छ्रीकृष्णकृतलीलाजातास्
तल्लीलाशक्तिकृतैश्वर्यमयलीलाजाताश्च ज्ञेयाः । क्रमेण यथा
कस्मान्मृदमदान्तात्मन् [भागवतम् १०.८.३४] इत्यादावमर्षः । सा तत्र ददृशे
विश्वं [भागवतम् १०.८.३७] इत्यादौ विस्मयः शङ्का चेत्यादि ।

अथ वात्सल्याख्यः स्थायी । स यथा
तन्मातरौ निजसुतौ घृणया स्नुवन्त्यौ
पङ्काङ्गरागरुचिरावुपगृह्य दोर्भ्याम्
दत्त्वा स्तनं प्रपिबतोः स्म मुखं निरीक्ष्य
मुग्धस्मिताल्पदशनं ययतुः प्रमोदम् ॥ [भागवतम् १०.८.२३]

तयोः श्रीकृष्णरामयोर्मातरौ । घृणया कृपया ॥

॥ १०.८ ॥ श्रीशुकः ॥ २४४ ॥

[२४५]

तदेवं विभावादिसंवलनचमत्कारात्मको वत्सलरसः । तस्य च
प्रथमप्राप्तिमयो भेदो यथा

गोप्यश्चाकर्ण्य मुदिता यशोदायाः सुतोद्भवम् ।
आत्मानं भूषयां चक्रुर्वस्त्राकल्पाञ्जनादिभिः ॥ [भागवतम् १०.५.९] इत्यादि ।

स्पष्टम् ।

॥ १०.५ ॥ सः ॥ २४५ ॥
[२४६]

अथ च तद्अनन्तरप्राप्तिलक्षणसिद्ध्य्आत्मको, यथा स आशिषः [भागवतम्
१०.५.१२] इत्यादौ । अथ वियोगात्मको, यथा

इति संस्मृत्य संस्मृत्य नन्दः कृष्णानुरक्तधीः ।
अत्य्उत्कण्ठोऽभवत्तूष्णीं प्रेमप्रसरविह्वलः ॥
यशोदा वर्ण्यमानानि पुत्रस्य चरितानि च ।
शृण्वन्त्यश्रूण्यवास्राक्षीत्स्नेहस्नुतपयोधरा ॥ [भागवतम् १०.४६.२७२८]

स्पष्टम् ।

॥ १०.४६ ॥ सः ॥ २४६ ॥

[२४७]

अथ तद्अनन्तरतुष्ट्य्आत्मको यथा तावात्मासन्नमारोप्य [भागवतम् १०.८२.३५]
इत्यादौ । यथा च तत्रैव

नन्दस्तु सख्युः प्रियकृत्प्रेम्णा गोविन्दरामयोः ।
अद्य श्व इति मासांस्त्रीन् यदुभिर्मानितोऽवसत् ॥ [भागवतम् १०.८४.६६]

गोविन्दरामयोः प्रेम्णा हेतुना मांसांस्त्रीनवसत् । तच्च मासत्रयम्
अद्य श्व इति कृत्वा अवसदित्यर्थः । अत्यन्तपरमानन्देन तत्र दिन
द्वयमिवावसदित्यर्थः । कथम्भूतः सन्नवसत् । सख्युः श्री
वसुदेवस्य प्रियकृदेव सन् तद्अग्रे श्रीकृष्णं प्रति स्वपुत्र
भावाप्रकटनेन व्यवहरंस्तस्य व्रजनयनाग्रहं साक्षान्न कुर्वन्न्
इत्यर्थः । तथा यदुभिर्मानितश्चावसदिति ।

[२४८]

तद्अनन्तरमपि पुनर्वियोगात्मको यथा

ततः कामैः पूर्यमाणः सव्रजः सहबान्धवः ।
परार्ध्याभरणक्षौम नानानर्घ्यपरिच्छदैः ॥
वसुदेवोग्रसेनाभ्यां कृष्णोद्धव(पगे ११५) बलादिभिः ।
दत्तमादाय पारिबर्हं यापितो यदुभिर्ययौ ॥
नन्दो गोपाश्च गोप्यश्च गोविन्दचरणाम्बुजे ।
मनः क्षिप्तं पुनर्हर्तुमनीशा मथुरां ययुः ॥ [भागवतम् १०.८४.६७६९]

कामैः श्रीकृष्णव्रजागमनादि श्रीकृष्णव्रजागमनादिरूपैर्
अभिलाषैर्निभृतं श्रीकृष्णेन पूर्यमाणः तद्अङ्गीकारेण सन्तोष्यमाण
इत्यर्थः । श्रीरामव्रजागमने तानुद्दिश्य कृष्णे कमलपत्राक्षे
सन्न्यस्ताखिलराधसः [भागवतम् १०.६५.६] इति श्रीशुकोक्तेः । तत्रैव कृष्णे कृष्ण
प्राप्त्य्अर्थं कमलपत्राक्षे सन्न्यस्ताखिलराधसस्त्यक्तसर्वविषया
इति टीकोक्तिः । ततः श्रीवसुदेवादिभिः कर्तृभिः परार्ध्याभरणादिभिः
कृत्वा दत्तं यत्पारिबर्हं तत्तेषां प्रीतिमयत्वेनैवादायेत्यर्थः । यापितो
महता सैन्येन प्रस्थापितः । तद्अनन्तरं तेषां पुनरत्यन्त
प्रेमावेशं वर्णयति नन्द इत्यादि । माथुरानिति तत्रैव तेन रूपेणैव
केवलस्वसम्भन्धितया तेषां श्रीकृष्णप्राप्त्य्आग्रहो दर्शितः ।

॥ १०.८४ ॥ सः ॥ २४७२४८ ॥

[२४९]

एतद्अनन्तरं यर्ह्यम्बुजाक्षापससार भो भवान् कुरून्मधून् वाथ
सुहृद्दिदृक्षया [भागवतम् १.११.९] इति श्रीद्वारकाप्रजावाक्यानुसारेण श्री
कृष्णसन्दर्भोत्थापितपाद्मगद्यानुसारेण च नित्यैव तुष्टिर्
अवगन्तव्या । इति वात्सल्याख्यो रसः ।

अथ मैत्रीमयः । तत्रालम्बनः मित्रत्वेन स्फुरन्मैत्रीविषयः श्री
कृष्णस्तद्आश्रयरूपाणि तल्लीलागतानि स्वोत्कृष्टसजातीयभावानि तदीय
मित्राणि च । तत्र श्रीकृष्णः क्वचिच्चतुर्भुजोऽपि श्रीमन्नराकारत्वेनैव
प्रतीतः । यथा श्रीगीतासु श्रीमद्अर्जुनेन

तेनैव रूपेण चतुर्भुजेन
सहस्रबाहो भव विश्वमूर्ते [गीता ११.४६]

इति स्वप्रार्थनानन्तरं तद्रूपे प्रादुर्भूते,

दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ [गीता ११.५१] इत्युक्तम् ।

अतएव विश्वरूपादीनां तद्दर्शनजातसाध्वसादिभावानां च न कथम्
अपि तद्अभीष्टत्वम् ।

अथ तन्मित्राणि । सुहृदः सखायश्च । तत्र पूर्वोक्तलक्षणाः सुहृदः
श्रीभीमसेनद्रौपदीप्रभृतयः । सखायः श्रीमद्अर्जुनश्रीदाम
विप्रादयः । श्रीमति गोकुले श्रीदामादयश्च । ते च श्रीभागवतादौ
प्रसिद्धाः । तथागमे वसुदामकिङ्किण्य्आदयः । भविष्योत्तरे मल्ल
लीलायां सुभद्रमण्डलीभद्रभद्रवर्धनगोभटाः ।
यक्षेन्द्रभटः इत्याद्या गणिताः । गणानां तु तेनैव साकं पृथुकाः [भागवतम्
१०.१२.२] इत्युक्त्या एषामपि श्रीकृष्णसाम्यमेव ।

गोपैः समानगुणशीलवयोविलासवेषैश्च इत्यादौ दर्शितम् । गोपजाति
प्रतिच्छन्नाः [भागवतम् १०.१८.११] इत्यादिपद्ये श्रीकृष्णसन्दर्भे तथैव
व्याख्यातम् । एषां स्वाभाविकवैदुष्यलक्षकमपि दीक्षायाः पशु
संस्थायाः [भागवतम् १०.२३.८] इत्यादिपद्यमस्ति । वैदग्ध्यमपि क्वचिन्नृत्यत्सु
बालेषु [भागवतम् १०.१८.१३] इत्यादौ श्रीभगवतापि श्लाघितगुणत्वेन
व्यञ्जयिष्यते ।

ते च त्रिविधाः सखायः प्रियसखाः प्रियनर्मसखाश्च तत्तद्भाव
वैशिष्ट्यात् । तत्र श्रीदामादयः परममाधुर्यैकमयप्रणयातिशयि
विहारलालित्येनाधिकाः इत्थं सताम् [भागवतम् १०.१२.११] इत्य्आदिनोक्तेः । तत्र श्री
कृष्णस्यालम्बनत्वं च बर्हापीडं नटवरवपुः [भागवतम् १०.२१.५] इत्यादिना
वर्णितम् ।

अथोद्दीपनेषु गुणाः अभिव्यक्तमित्रभावता आर्जवं कृतज्ञत्वं बुद्धिः
पाण्डित्यं प्रतिभा दाक्ष्यं शौर्यं बलं क्षमा कारुण्यं रक्तलोकत्वम्
इत्यादयः । अवयववयःसौन्दर्यसर्वसल्लक्षणत्वमित्यादयश्च ।
तत्र सौहृद्यमये आर्जवादीनां प्राधान्यम् (पगे ११६) सख्यमये तु
वैदग्ध्यसौन्दर्यादिमिश्राणां तेषाम् । तद्उभयाशमिश्रायां मैत्र्यां
तु यथा स्वमंशद्वयम् । तत्राभिव्यक्ततत्तद्भावता श्रीमद्
अर्जुनानुतापे यथा, सख्यं मैत्रीं सौहृदं च [भागवतम् १.१५.४] इत्यग्रे
वक्ष्यते । श्रीगोपेषु च तां व्यनक्ति

तान् दृष्ट्वा भयसन्त्रस्तानूचे कृष्णोऽस्य भीभयम् ।
मित्राण्याशान्मा विरमते हानेष्ये वत्सकानहम् ॥ [भागवतम् १०.१३.१३] इत्यादि ।

ततो वत्सानदृष्ट्वैत्य पुलिनेऽपि च वत्सपान् ।
उभावपि वने कृष्णो विचिकाय समन्ततः ॥ [भागवतम् १०.१३.१६] इत्यन्तम् ।

स्पस्टम् ।
॥ १०.१३ ॥ श्रीशुकः ॥ २४९ ॥

[२५०]

तथा

ते सम्प्रतीतस्मृतयः समुत्थाय जलान्तिकात् ।
आसन् सुविस्मिताः सर्वे वीक्षमाणाः परस्परम् ॥ [भागवतम् १०.१५.५२]

स्पस्टम् ।
॥ १०.१५ ॥ सः ॥ २५० ॥

[२५१]

अहोऽतिरम्यं पुलिनं वयस्याः [भागवतम् १०.१३.५] इत्यादि । स्पष्टम् ।

॥ १०.१३ ॥ श्रीभगवान् ॥ २५१ ॥

[२५२]

तथा
क्वचित्पल्लवतल्पेषु नियुद्धश्रमकर्शितः ।
वृक्षमूलाश्रयः शेते गोपोत्सङ्गोपबर्हणः ॥ [भागवतम् १०.१५.१७]

स्पष्टम् ।

॥ १०.१५ ॥ श्रीशुकः ॥ २५२ ॥

[२५३]

तथा

कुन्ददाम [भागवतम् १०.३५.२०] इत्यादौ नर्मदः प्रणयिणां विजहार इति ।

[२५४]

मणिधरः [भागवतम् १०.३५.२०] इत्यादौ प्रणयिनोऽनुचरस्य कदांसे प्रक्षिपन्
भुजमगायत यत्र इति । स्पष्टम् ।

॥ १०.३५ ॥ श्रीगोप्यः ॥ २५३२५४ ॥

[२५५]

अथ जातिश्च क्षत्रियत्वम् । यत्र सौहृदमयस्य प्राचुर्यम् । तथा गोपत्वं
यत्र सख्यमयस्य प्राचुर्यम् । अथ क्रियाश्च सौहृदमये विक्रान्त्य्आदि
प्रधानाः । सख्यमये तु नर्मगाननानाभाषांशनगवाह्वान
वेणुवाद्यादिकलाबाल्याद्य्उचितक्रीडादयः । तत्र नर्म, यथा

बिभ्रद्वेणुं जठरपटयोः शृङ्गवेत्रे च कक्षे ।
वामे पाणौ मसृणकवलं तत्फलान्यङ्गुलीषु ॥ [भागवतम् १०.१३.११]

स्पष्टम् ।
॥ १०.१३ ॥ सः ॥ २५५ ॥

[२५६]

अन्याश्च, यथा

एवं वृन्दावनं श्रीमत्कृष्णः प्रीतमनाः पशून् ।
रेमे सञ्चारयन्नद्रेः सरिद्रोधःसु सानुगः ॥
क्वचिद्गायति गायत्सु मदान्धालिष्वनुव्रतैः ।
उपगीयमानचरितः पथि सङ्कर्षणान्वितः ॥ [भागवतम् १०.१५.९१०] इत्यादि ।

[२५७]

तथा
मेघगम्भीरया वाचा नामभिर्दूरगान् पशून् ।
क्वचिदाह्वयति प्रीत्या गोगोपालमनोज्ञया ॥ [भागवतम् १०.१५.१३]

चकोरक्रौञ्च [भागवतम् १०.१५.१४] इत्यादि ।

स्पष्टम् ।
॥ १०.१५ ॥ सः ॥ २५७ ॥

[२५८]

तथा
तत्रोपहूय गोपालान् कृष्णः प्राह विहारवित् ।
हे गोपा विहरिष्यामो द्वन्द्वीभूय यथायथम् ॥ [भागवतम् १०.१८.१९]

स्पष्टम् ।
॥ १०.१८ ॥ सः ॥ २५८ ॥

[२५९]

तथा
बर्हप्रसूननवधातुविचित्रिताङ्गः
प्रोद्दामवेणुदलशृङ्गरवोत्सवाढ्यः ।
वत्सान् गृणन्ननुगगीतपवित्रकीर्तिर्
गोपीदृग्उत्सवदृशिः प्रविवेश गोष्ठम् ॥ [भागवतम् १०.१४.४७] इत्यादि ।

स्पष्टम् ।
॥ १०.१४ ॥ सः ॥ २५९ ॥
(पगे ११७)
[२६०]

अनेन गोपवेषश्च दर्शितः । गागोपकैरनुवनं नयतोः [भागवतम् १०.२१.१९]
इत्यादौ निर्योगपाशकृतलक्षणयोर्विचित्रमित्यनेन च । विचित्रत्वं चात्र
पट्टसूत्रमुक्तादिमयत्वेनावगन्तव्यम् । तथा बर्हिणस्तवकधातु
पलाशैर्बद्धमल्लपरिबर्हविडम्बः । [भागवतम् १०.३५.६] इत्यादिषु मल्ल
वेषः । श्यामं हिरण्यपरिधिमित्यादौ नटवेषमित्यनेन नटवेषः ।

महार्हवस्त्राभरण कञ्चुकोष्णीषभूषिताः ।
गोपाः समाययू राजन् [भागवतम् १०.५.८] इत्यनुसारेण राजवेषश्च ।

एष तु द्वारकाद्दौ प्रचुरः । तथा तत्र गोकुले च
परिधानीयोत्तरीयाभ्यां धार्मिकगृहस्थवेषश्चावगन्तव्यः । एष एव
नीविं वसित्वा रुचिराम् [भागवतम् १०.१५.४५] इत्यनेन दर्शितः । तैस्तैरेव हि तत्तल्
लीलाः शोभन्त इति ।

अथ द्रव्याणि च वसनभूषणशङ्खचक्रशृङ्गवेणुयष्टिप्रेष्ठ
जनप्रभृतीनि । कालाश्च तत्तत्क्रीडोचिताः । ते तु, यथा

एवं वनं तद्वर्षिष्ठं पक्वखर्जूरजम्बुमत् ।
गोगोपालैर्वृतो रन्तुं सबलः प्राविशद्धरिः ॥ [भागवतम् १०.२०.२५]

धेनवो मन्दगामिन्य [भागवतम् १०.२०.२६] इत्यादि, वनौकसः प्रमुदिता [भागवतम्
१०.२०.२७] इत्यादि, क्वचिद्वनस्पतिक्रोडे [भागवतम् १०.२०.२८] इत्यादि, दध्य्ओदनं
समानीतं [भागवतम् १०.२०.२९] इत्यादि, शद्वलोपरि संविश्य [भागवतम् १०.२०.३०] इत्यादि,
प्रावृट्श्रियं च तां वीक्ष्य [भागवतम् १०.२०.३१] इत्याद्य्अन्तम् । स्पष्टम् ।

॥ १०.२० ॥ सः ॥ २६० ॥

[२६१]

एवमन्येऽपि स्मर्तव्याः । अथानुभावेषूद्भास्वराः । तत्र सौहृदमये
निरुपाधितदीयहितानुसन्धानयुक्तायुक्तादिकथनसस्मितगोष्ठी
प्रभृतयः । सख्यमये असङ्कुचितप्रीतिमयचेष्टाः । ताश्च सह नाना
क्रीडासङ्गीतादिकलाभ्यासभोजनोपवेशशयनादयः । नर्मरहो
लीलाकर्णनकथादयश्च ज्ञेयाः । इत्थं [भागवतम् १०.१२११] इत्यादिना या एव
प्रशस्ताः तथोदाह्रियन्ते

प्रवालबर्हस्तबक स्रग्धातुकृतभूषणाः ।
रामकृष्णादयो गोपा ननृतुर्युयुधुर्जगुः ॥
कृष्णस्य नृत्यतः केचिज्जगुः केचिदवादयन् ।
वेणुपाणितलैः शृङ्गैः प्रशशंसुरथापरे ॥
गोपजातिप्रतिच्छन्ना देवा गोपालरूपिणौ ।
ईडिरे कृष्णरामौ च नटा इव नटं नृप ॥
भ्रामणैर्लङ्घनैः क्षेपैरास्फोटनविकर्षणैः ।
चिक्रीडतुर्नियुद्धेन काकपक्षधरौ क्वचित् ॥
क्वचिन्नृत्यत्सु चान्येषु गायकौ वादकौ स्वयम् ।
शशंसतुर्महाराज साधु साध्विति वादिनौ
क्वचिद्बिल्वैः क्वचिद्कुम्भैः [भागवतम् १०.१८.९१४] इत्यादि । स्पष्टम् ।

॥ १०.१८ ॥ श्रीशुकः ॥ २६१ ॥

[२६२]

तथा
कृष्णस्य विष्वक्पुरुराजिमण्डलैर्
अभ्याननाः फुल्लदृशो व्रजार्भकाः ।
सहोपविष्टा विपिने विरेजुश्
छदा यथाम्भोरुहकर्णिकायाः ॥ [भागवतम् १०.१३.८]

केचिद्पुष्पदलैः केचिद्[भागवतम् १०.१३.९] इत्यादि ।

सर्वे मिथो दर्शयन्तः स्वस्वभोज्यरुचिं पृथक् ।
हसन्तो हासयन्तश्चा भ्यवजह्रुः सहेश्वराः ॥ [भागवतम् १०.१३.१०]

स्पष्टम् ।
॥ १०.१३ ॥ सः ॥ २६२ ॥

[२६३]

एवमन्या अपि । तथा सौहृदसख्ययोः सात्त्विकाश्चोन्नेयाः । तत्र
सौहृदेऽश्रुर्यथा

तं मातुलेयं परिरभ्य निर्वृतो
भीमः स्मयन् प्रेमजलाकुलेन्द्रियः ।
यमौ किरीटी च सुहृत्तमं मुदा
प्रवृद्धबाष्पाः परिरेभिरेऽच्युतम् ॥ [भागवतम् १०.७१.२७]

(पगे ११८) अत्र सत्यप्यग्रजानुजत्वव्यवहारे सुहृत्तममित्यनेन तद्
अंशस्यैवोल्लासोऽभुपगतः ।
॥ १०.७१ ॥ सः ॥ २६३ ॥

[२६४]

सख्ये प्रलयोऽपि, यथा

तं नागभोगपरिवीतमदृष्टचेष्टम्
आलोक्य तत्प्रियसखाः पशुपा भृशार्ताः ।
कृष्णेऽर्पितात्मसुहृदर्थकलत्रकामा
दुःखानुशोकभयमूढधियो निपेतुः ॥ [भागवतम् १०.१६.१०]

स्पष्टम् ।
॥ १०.१६ ॥ सः ॥ २६४ ॥

[२६५]

एवं तत्र तत्र सञ्चारिणश्चोन्नेयाः । यथा सौहृदे तं मातुलेयम् [भागवतम्
१०.७१.२७] इत्यादौ हर्षः । यथा च सख्ये कृष्णं ह्रदाद्विनिष्क्रान्तम् [भागवतम्
१०.१७.१३] इत्याद्य्अनन्तरम्

उपलभ्योत्थिताः सर्वे लब्धप्राणा इवासवः ।
प्रमोदनिभृतात्मानो गोपाः प्रीत्याभिरेभिरे ॥ [भागवतम् १०.१७.१४]
स्पष्टम् ।
॥ १०.१७ ॥ सः ॥ २६५ ॥

[२६६]

अथ स्थायी मैत्र्य्आख्यः । स चैश्वर्यज्ञानसङ्कुचितः श्रीदाम
विप्रादीनाम् । सङ्कोचितैश्वर्यज्ञानः श्रीमद्अर्जुनादीनाम् । शुद्धः श्री
गोपबालानाम् । अतएव कदाचिदपि न विकरोति । तथैव श्रीराम
व्रजागमने समुपेत्याथ गोपालान् हास्यहस्तग्रहादिभिः [भागवतम् १०.६५.५] इत्य्
आदिकव्यवहारः ।

तत्र सौहृद्आख्यो भेदः तं मातुलेयं परिरभ्य निर्वृतः [भागवतम् १०.७१.२७]
इत्यादौ ज्ञेयः । सख्यं, यथा

एकदा रथमारुह्य विजयो वानरध्वजम् ।
गाण्डीवं धनुरादाय तूणौ चाक्षयसायकौ ॥
साकं कृष्णेन सन्नद्धो विहर्तुं विपिनं महत् ।
बहुव्यालमृगाकीर्णं प्राविशत्परवीरहा ॥ [भागवतम् १०.५८.१३१४]

कृष्णेन साकं विहर्तुमित्यन्वयः ।

॥ १०.५८ ॥ सः ॥ २६६ ॥

[२६७]

यथा च

तेनैव साकं पृथुकाः सहस्रशः
स्निग्धाः सुशिग्वेत्रविषाणवेणवः ।
स्वान् स्वान् सहस्रोपरिसङ्ख्ययान्वितान्
वत्सान् पुरस्कृत्य विनिर्ययुर्मुदा ॥ [भागवतम् १०.१२.२]

एवकारेण तदासत्तिरूपोऽनुभावो दर्शितः । यथा

यदि दूरं गतः कृष्णो वनशोभेक्षणाय तम् ।
अहं पूर्वमहं पूर्वमिति संस्पृश्य रेमिरे ॥ [भागवतम् १०.१२.६]

स्पष्टम् ॥

॥ १०.१२ ॥ सः ॥ २६८ ॥

[२६९]

यथा च

ऊचुश्च सुहृदः कृष्णं स्वागतं तेऽतिरंहसा ।
नैकोऽप्यभोज्कबल एहीतः साधु भुज्यताम् ॥ [भागवतम् १०.१४.४५]

स्पष्टम् ॥
॥ १०.१४ ॥ सः ॥ २६९ ॥

[२७०]

श्रीकृष्ण एव तेषां जीवनमित्याह

कृष्णं महाबकग्रस्तं दृष्ट्वा रामादयोऽर्भकाः ।
बभूवुरिन्द्रियाणीव विना प्राणं विचेतसः ॥ [भागवतम् १०.११.४९]

मुक्तं बकास्यादुपलभ्य बालका
रामादयः प्राणमिवेन्द्रियो गणः ।
स्थानागतं तं परिरभ्य निर्वृताः
प्रणीय वत्सान् व्रजमेत्य तज्जगुः ॥ [भागवतम् १०.११.५३]

स्पष्टम् ॥
॥ १०.११ ॥ सः ॥ २७० ॥

[२७१]

तदेवं विभावादिसंवलनात्मको मैत्रीमयो रसः । अस्य च सौहृदमयः
सख्यमय इति भेदद्वयं तत्र तत्रावगन्तव्यम् । तस्य प्रथमाप्राप्त्य्
आत्मकसिद्ध्य्आत्मकौ भेदौ पूर्ववदूह्यौ । वियोगात्मको भेदो यथा

एवं कृष्णसखः कृष्णो भ्रात्रा राज्ञा विकल्पितः । (पगे ११९)
नानाशङ्कास्पदं रूपं कृष्णविश्लेषकर्शितः ॥
शोकेन शुष्यद्वदन हृत्सरोजो हतप्रभः ।
विभुं तमेवानुस्मरन्नाशक्नोत्प्रतिभाषितुम् ॥
कृच्छ्रेण संस्तभ्य शुचः पाणिनामृज्य नेत्रयोः ।
परोक्षेण समुन्नद्ध प्रणयौत्कण्ठ्यकातरः ॥
सख्यं मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन् ।
नृपमग्रजमित्याह बाष्पगद्गदया गिरा ॥ [भागवतम् १.१५.१४]

कृष्णोऽर्जुनः । अविकल्पित इति च्छेदः । नानाशङ्कास्पदं रूपमालक्ष्य
विकल्पित इत्यर्थः । शुचः शोकाश्रूणि आमृज्य च । परोक्षेण दर्शआगोचरेण
श्रीकृष्णेन हेतुना । अतएवानिष्टशङ्काया अभावात्नात्र करुण
रसावकाशः । तद्अभावश्चैषामैश्वर्यज्ञानसमुध्भाविनां भवत्य्
एव इति । वञ्चितोऽहम् [भागवतम् १.१५.५] इत्यादिकं वक्ष्यमाणं विलापम् ।

[२७२]

अथ तद्अनन्तरं तुष्ट्य्आत्मकयोगो यथा

ते साधुकृतसर्वार्था ज्ञात्वात्यन्तिकमात्मनः ।
मनसा धारयामासुर्वैकुण्ठचरणाम्बुजम् ॥
तद्ध्यानोद्रिक्तया भक्त्या विशुद्धधिषणाः परे ।
तस्मिन्नारायणपदे एकान्तमतयो गतिम् ॥
अवापुर्दुरवापां ते असद्भिर्विषयात्मभिः ।
विधूतकल्मषा स्थानं विरजेनात्मनैव हि ॥ [भागवतम् १.१५.४६४८]

ते पाण्डवाः साधु यथा स्त्यात्तथा कृतसर्वार्था वशीकृतधर्मार्थ
काममोक्षा अपि वैकुण्ठस्य श्रीकृष्णस्य चरणाम्बुजमेव आत्यन्तिकं
परमपुरुषार्थं ज्ञात्वा तदेव मनसा धारयामासुः । नारायणः श्री
कृष्णः । पूर्णगतिमेव विशिनष्टि । विधूतकल्मसं यदास्थानं नित्य
श्रीकृष्णप्रकाशास्पदं तदीया सभा । आत्मना स्वशरीरेणैव । तत्र
हेतुः विरजेनाप्राकृतेन । हिशब्दोऽसम्भावनानिवृत्त्य्अर्थः ।
[२७३]

तथा
द्रौपदी च तदाज्ञाय पतीनामनपेक्षताम् ।
वासुदेवे भगवति ह्येकान्तमतिराप तम् ॥ [भागवतम् १.१५.५०]

आत्म्नानं प्रति अनपेक्षमाणानाम् । तत्कृष्णसङ्गमनमाज्ञाय सम्यग्
ज्ञात्वा । वासुदेवे श्रीवसुदेवनन्दने । हि प्रसिद्धौ । तस्मिन्नेकान्त
मतिस्तमेव प्राप्तवती ।

॥ १.१५ ॥ श्रीसूतः ॥ २७१२७३ ॥

[२७४]

श्रीव्रजकुमाराणां देशान्तरवियोगात्मओदाहरणं तद्अनन्तरतुष्ट्य्
आत्मोदाहरणं च वत्सलानुसारेणैव ज्ञेयम् । इति मईत्रीमयो रसः ॥

अथ उज्ज्वलः । अत्रालम्बनः कान्तत्वेन स्फुरन् कान्तभावविषयः श्री
कृष्णः । तद्आधारआः सजातीयभावास्तदीयपरमवल्लभाश्च । तत्र
श्रीकृष्णो यथा

श्रुत्वा गुणान् भुवनसुन्दर शृण्वतां ते
निर्विश्य कर्णविवरैर्हरतोऽङ्गतापम् ।
रूपं दृशां दृशिमतामखिलार्थलाभं
त्वय्यच्युताविशति चित्तमपत्रपं मे ॥ [भागवतम् १०.५२.३७]

स्पष्टम् ।
॥ श्रीरुक्मिणी ॥ २७४ ॥

[२७५]

यथा च

तासामाविरभूच्छौरिः स्मयमानमुखाम्बुजः ।
पीताम्बरधरः स्रग्वी साक्षान्मन्मथमन्मथः ॥ [भागवतम् १०.३२.२]

॥ १०.३२ ॥ श्रीशुकः ॥ २७५ ॥

[२७६]

अथ तद्वल्लभासु सामान्या सैरिन्ध्री कूर्मपुराणोक्ताः कैलासवासिन्यश्
च । तत्र पूर्वोक्ता (पगे १२०) यथा

सैवं कैवल्यनाथं तं प्राप्य दुष्प्राप्यमीश्वरम् ।
अङ्गरागार्पणेनाहो दुर्भगेदमयाचत ॥ [भागवतम् १०.४८.८] इति दर्शिता ।

पूर्वं तादृशदुर्भगापि अङ्गरागार्पणमात्रलक्षणेन भजनेन तं
प्राप्य । अहो आश्चर्यम् । तेन हेतुना इदं सहोष्यताम् [भागवतम् १०.४८.९] इत्यादि
लक्षणमपि अयाचत याचितुं योग्याभूत् । तं कथम्भूतमपि । केवलः
शुद्धप्रेमवांस्तस्य भावः कैवल्यं, तत्रैव नाथं वल्लभमपि ।
अतोऽस्या आत्मतर्पणैकतात्पर्यायाः सम्प्रत्यपि श्रीव्रजदेव्य्आदिवच्
छुद्धप्रेमाभावो दर्शितः ।

स्वीयाः श्रीरुक्मिण्य्आदयः । या एवोद्दिश्य स्तौति

याः सम्पर्यचरन् प्रेम्णा पादसंवाहनादिभिः ।
जगद्गुरुं भर्तृबुद्ध्या तासां किं वर्ण्यते तपः ॥ [भागवतम् १०.९०.२७]

स्पष्टम् ।

॥ १०.९० ॥ श्रीशुकः ॥ २७६ ॥

[२७७]

तथा
इत्थं रमापतिमवाप्य पतिं स्त्रियस्ता
ब्रह्मादयोऽपि न विदुः पदवीं यदीयाम् ।
भेजुर्मुदाविरतमेधितयानुराग
हासावलोकनवसङ्गमलालसाद्यम् ॥
प्रत्युद्गमासनवरार्हणपादशौच
ताम्बूलविश्रमणवीजनगन्धमाल्यैः ।
केशप्रसारशयनस्नपनोपहार्यैर्
दासीशता अपि विभोर्विदधुः स्म दास्यम् ॥ [भागवतम् १०.६१.५६]

अतएव ये मां भजन्ति दाम्पत्या [भागवतम् १०.६०.५२] इत्यादि निन्दा त्वन्य
परत्वेनैव निर्दिष्टा । दिष्ट्या गृहेश्वरी [भागवतम् १०.६०.५४] इत्याद्य्उत्तर
वाक्यात् । यथैव केतुमालवर्षे श्रीकामदेवाख्यभगवद्व्यूहस्तुतौ
लक्ष्मीवाक्यम्स्त्रियो व्रतैस्त्वा हृषीकेश्वरं स्वतो ह्याराध्य लोके पतिम्
आशासतेऽन्यम् [भागवतम् ५.१८.१९] इत्यादिकम् ।

॥ १०.६१ ॥ श्रीशुकः ॥ २७७ ॥

[२७८]

अथ वस्तुतः परमस्वीया अपि प्रकटलीलायां परकीयायमाणाः श्रीव्रज
देव्यः । या एवासमोर्ध्वं स्तुताः

नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः
स्वर्योषितां नलिनगन्धरुचां कुतोऽन्याः ।
रासोत्सवेऽस्य भुजदण्डगृहीतकण्ठ
लब्धाशिषां य उदगाद्व्रजवल्लभीनाम् ॥ [भागवतम् १०.४७.३०] इत्यादिषु ।

गोप्यस्तपः किमचरन् यदमुष्य रूपं [भागवतम् १०.४४.१४] इत्यादौ या
एवासमोर्ध्वं रूपं पश्यन्तीत्यत्र । तथा चाह या दोहनेऽवहनने मथनोपलेप
[भागवतम् १०.४४.१५] इत्यादौ धन्या व्रजस्त्रिय उरुक्रमचित्तयानाः ।

उरुक्रमचित्तमेव यानं यासां ताः । यास्तच्चित्तं यत्र यत्र गच्छति तत्र
तत्रैव तद्आरूढास्तिष्ठन्ति इत्यर्थः । चिन्तायाना इति पाठे चिन्तश्चिन्ता
भवनेति पूर्ववदेवार्थः ।

॥ १०.४४ ॥ श्रीमाथुरस्त्रियः ॥ २७८ ॥

[२७९}

अतएवासामेव तत्र तत्र दर्शित उत्कर्षः । परकीयायमानत्वेन
निवारणादिमात्रांशे लौकिकरसविदामपि मतेन सेवितः । यथाह
भरतः

बहु वार्यते यतः खलु यत्र प्रच्छन्नकामुकत्वं च ।
या च मिथो दुर्लभता सा परमा मन्मथस्य रतिः ॥ [ऊण्१.२०] इति ।

रुद्रः
वामता दुर्लभत्वं च स्त्रीणां या च निवारणा ।
तदेव पञ्चबाणस्य मन्ये परममायुधम् ॥ [ऊण्३.२०]

विष्णुगुप्तः
यत्र निषेधविशेषः सुदुर्लभत्वं च यन्मृगाक्षीणाम् ।
तत्रैव नागराणां निर्भरमासज्जते हृदयम् ॥ [ऊण्३.२१] इति ।
(पगे १२१)

अतएव कासाञ्चिद्गोपकुमारीणां कात्यायनीजपानुसारेण पतिभावेऽप्य्
आधिक्यमनुवर्तते इति । केचित्तु वारणादित एवासां प्रेमाधिक्यं
मन्यन्ते । तन्न, जातितोऽप्याधिक्यात् । तच्च व्रजस्त्रियो यद्वाञ्छन्ति [भागवतम्
१०.८३.४३] इति, वाञ्छन्ति यद्भवभियः [भागवतम् १०.४७.५८] इत्यादिना व्यक्तम् । न
हि वारणाद्य्अंशमङ्गीकृत्य तेषां लोभो जातः, अनभीष्टत्वात् । अतो जात्य्
अंशमेवेति गम्यते । अतः प्रबलजातित्वान्निवारणादिकमप्ययम्
अतिक्रामतीत्येवमेव श्लाघ्यते या दुस्त्यजम् [भागवतम् १०.४७.६१] इत्यादिना ।

मत्तहस्तिनां बलस्य दुर्गातिक्रमवन्निवारणाद्य्अतिक्रमो हि तासां
प्रेमबलस्य व्यञ्जक एव न तूत्पादकः । जात्य्अंशेनैव प्राबल्ये सति
निवारणादिसाम्येऽपि तासां स्वेषु प्रेमतारतम्यं सम्भवति । यथा ताभिर्
अपि श्रीराधायाः प्रेमवैशिष्ट्येन श्रीकृष्णवशीकारित्ववैशिष्ट्यं
दर्शितम् । अनयाराधितो नूनम् [भागवतम् १०.३०.२८] इत्यादिना ।

या च तासां क्षोभे सति प्रेम्णः प्रफुल्लता सा खलु कृष्णसर्पस्येव स्वत
एव सिद्धतया न त्वपरत आहार्यतया । केवलौपपत्यस्य प्रेम
वर्धनत्वं तु ताभिरेव स्वयं निःस्वं त्यजन्ति गणिकाः [भागवतम् १०.४७.७], जारा
भुक्त्वा रतां स्त्रियम् [भागवतम् १०.४७.८] इति निन्दितम् ।

यत्तु कश्चित्परकीयासु लघुत्वं वक्ति तत्खलु प्राकृतनायकम्
अवलम्बमानासु युक्तं, तत्रैव जुगुप्सितत्वात् । अत्र तु गोपीनां तत्पतीनां
च [भागवतम् १०.३३.३५] इत्यादिना तत्प्रत्याख्यानात् । अत्र च तत्पतीनामिति तद्
व्यवहारदृष्टिमात्रेणोक्तं, न तु परमार्थदृष्ट्या । तद्दृष्ट्या तु श्री
कृष्णसन्दर्भे तासां स्वरूपशक्तित्वमेवात्र परत्र स्थापितम् । तथास्य
श्रीकृष्णलक्षणस्य नायकस्य तादृशभावेनैव प्राप्तौ एताः परं तनु
भृतः [भागवतम् १०.४७.५८] इत्यादिषु सर्वोर्ध्वश्लाघाश्रवणात्परम
गरीयस्त्वमेव । अतएवोक्तम्

नेष्टा यदङ्गिनि रसे कविभिर्परोढा
तद्गोकुलाम्बुजदृशां कुलमन्तरेन ।
आशांसया रसविधेरवतारितानां
कंसारिणा रसिकमण्डलशेखरेण ॥ [ऊण्५.३] इति ।

अथ तासां स्वपत्याभाससम्बन्धमपि वारयितुं योजयति

नासूयन् खलु कृष्णाय मोहितास्तस्य मायया ।
मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ [भागवतम् १०.३३.३७]

तदेवं भावत उत्कर्षो दर्शितः । दैहिकं तमाहताभिः समेताभिर्
उदारचेष्टितः [भागवतम् १०.२९.४३] इत्यादौ व्यरोचतैणाङ्क इवोडुभिर्वृतः इति ।

स्पष्टम् ।

॥ १०.२९ ॥ सः ॥ २८० ॥

[२८१]

किं च
तत्रातिशुशुभे ताभिर्भगवान् देवकीसुतः । (पगे १२२)
मध्ये मणीनां हैमानां महामरकतो यथा ॥ [भागवतम् १०.३३.७]

स्पष्टम् ।

॥ १०.३३ ॥ सः ॥ २८१ ॥

[२८२]

गुणवैभवकृतमप्याह

ताभिर्विधूतशोकाभिर्भगवानच्युतो विभुः ।
व्यरोचताधिकं तात पुरुषः शक्तिभिर्यथा ॥ [भागवतम् १०.३२.१०]

स्पष्टम् ।

॥ १०.३२ ॥ सः ॥ २८२ ॥

[२८३]

कलावैदग्धीकृतमाह पादन्यासैर्भुजविधुतिभिः [भागवतम् १०.३३.७] इत्य्
आदि ।

उच्चैर्जगुर्नृत्यमाना रक्तकण्ठ्यो रतिप्रियाः ।
कृष्णाभिमर्शमुदिता यद्गीतेनेदमावृतम् ॥ [भागवतम् १०.३३.९]

इदं जगत् । अद्यापि यासां गीतांशा एव जगति प्रचरन्तीत्यर्थः । यदुक्तं
सङ्गीतसारे
तावन्त एव रागाः स्युर्यावत्यो जीवजातयः ।
तेषु षोडशसाहस्री पुरा गोपीकृता वरा ॥ इति ।

अन्ते च तेषामेव विभागश्च तत्र स्वर्गादिषु दर्शित इति । किं च

काचित्समं मुकुन्देन स्वरजातीरमिश्रिताः ।
उन्निन्ये पूजिता तेन प्रीयता साधु साध्विति ।
तदेव ध्रुवमुन्निन्ये तस्यै मानं च बह्वदात् ॥ [भागवतम् १०.३३.१०]
स्वराः षड्जादयः सप्त जातयस्तेषु रागोत्पत्तिहेतवः । ता उभयोरपि
परमप्रवीणत्वात्स्वरान्तरेण जात्य्अन्तरेण चामिश्रिताः शुद्धा एव
उन्निन्ये उत्कर्षेण जगौ । तत्र शक्रशर्वरपरमेष्टिपुरोगानिश्चित
तत्त्वगानस्य श्रीमुकुन्दस्यापि सहार्थत्वेनाप्राधान्यं विवक्षितम् ।
तत्राप्युच्छब्देन ।तएव तेन पूजिता । तदैव तालान्तरेण निबद्धं गीतं
ध्रुवाख्यं तालविशेषं कृत्वा या ततोऽप्युत्कर्षेण जगौ तस्यै पूर्वस्या
अप्यधिकं मानमदात् ।

॥ १०.३३ ॥ सः ॥ २८४ ॥

[२८५]

अथ तासु सामान्यासु सैरिन्ध्री मुख्या । सर्वत्र ख्यातत्वात् । स्वकीयासु
पट्टमहिषीषु श्रीरुक्मिणीसत्यभामे मुख्ये । यथा श्रीहरिवंशे

कुटुम्बस्येश्वरी यासीद्रुक्मिणी भीष्मकात्मजा ।
सत्यभामोत्तमा स्त्रीणां सौभाग्ये चाधिकाभवत् ॥

अथ श्रीव्रजदेवीषु मुख्या भविष्योत्तरोक्ताः
गोपाली पालिका धन्या विशाखा ध्याननिष्ठिका ।
राधानुराधा सोमाभा तारका दशमी तथा ॥ इति ।

दशम्यपि तारकानाम्नीत्यर्थः । स्कान्दे प्रह्लादसंहितायां तु ललिता
शैव्या पद्मा चतस्रोऽन्याः । अन्यत्र चन्द्रावली च श्रूयते । सा चात्रार्थ
साम्यात्सोमाभैवानुमेया । कार्त्स्न्येन तु प्रमदाशतकोटिभिराकुलिता
इत्यागमोपदेशः । एतास्वपि श्रीराधिकैव मुख्या । सैव रासोत्सवे श्री
कृष्णेन परमप्रेम्णान्तर्धापितेति श्रीकृष्णसन्दर्भे सन्दर्शितमस्ति ।
प्रसिद्धा च तथा सैव सर्वत्रेति । अतः श्रैष्ठ्यचिह्नेन गोपालतपन्य्
उक्ता गान्धर्विकैव सेत्यनुमेया ।

अथ ताः श्रीकृष्णवल्लभास्त्रिधा दृश्यन्ते मुग्धा मध्या प्रगल्भा इति ।
तादृश्यं च नवयौवनस्पष्टयौवनसम्यग्यौवनैर्वयोभेदैस्तत्
तच्चेष्टाभिश्च । सम्यग्यौवनं च प्राप्तषोडशवर्षत्वमेव
नाधिकं कन्याभिर्द्व्य्अष्टवर्षाभिः इति गौतमीयतन्त्रात् । तथा
स्वभावभेदेन धीरा अधीरा मिश्रगुणाश्चेति पुनस्त्रिधावगन्तव्याः ।
प्रेमतारतम्येन श्रेष्ठाः समाः लघव इति च ।

अथ ता लीलावस्थाभेदेनैकैका । अभिसारिका वासकसज्जोत्कण्ठिता खण्डिता
विप्रलब्धा (पगे १२३) कलहान्तरिता प्रोषितभर्तृका स्वाधीनभर्तृका इत्य्
अष्टौ नामानि भजन्ति । तथा परस्परं भावानां सादृश्यकिञ्चित्
सादृश्यास्फुटसादृश्यानि । विरोधित्वं चैतद्भेदचतुष्टयात्पुनश्
चत्वारि सखी सुहृत्तटस्था प्रातिपक्षिकी चेति । भावभेदाश्च स्थायि
निरूपणे ज्ञेयाः । तत्र सखी यथा अप्येणपत्नी [भागवतम् १०.३३.११] इत्यादि द्वये
पुरतो दर्शनीया । अत्र हि तन्वन् दृशां सखि सुनिर्वृतिमिति स्वीयतद्
दिदृक्षाद्योतनात् । सखीति तद्दर्शनसुखोपभोगसौभाग्यभागिता
साम्येन तस्यां सख्यारोपणात्कान्तेति कृष्णसङ्गिन्याः सौभाग्यातिशयस्य
चानुमोदनात्सख्यमेव स्पष्टम् । अतएव तल्लीलानुमोदनमपि बाहुं
प्रियांसा [भागवतम् १०.३०.१२] इत्यादिना । सुहृद्यथा
अनयाराधितो नूनं भगवान् हरिरीश्वरः ।
यन्नो विहाय गोविन्दः प्रीतोऽयमनयद्रहः ॥ [भागवतम् १०.३०.२८]

अस्याश्च तद्भाग्यमात्रप्रशंसनात्व्यक्तं सौहृद्यम् ।

[२८६]

तटस्था यथा

पृच्छतेमा लता बाहूनप्याश्लिष्टा वनस्पतेः ।
नूनं तत्करजस्पृष्टा बिभ्रत्युत्पुलकान्यहो ॥ [भागवतम् १०.३०.१३]

अत्र सखीवचनं श्रुत्वापि ततौदासीन्यात्ताटस्थ्यमेव व्यक्तम् । एवम्
अनयाराधितो नूनमिति सुहृद्वाक्यानन्तरमपि धन्या अहो अमी आल्यः
[भागवतम् १०.३०.२९] इत्य्आदिवाक्ये च ।

[२८७]
अथ प्रातिपक्षिका यथा

अस्या अमूनि नः क्षोभं कुर्वन्त्युच्चैः पदानि यत् ।
यैकापहृत्य गोपीनां रहो भुङ्क्तेऽच्युताधरम् ॥ [भागवतम् १०.३०.३०]

अथ प्रकट एव मत्सर इति ताभ्यो विलक्षणत्वम् । तथैव श्री
हरिवंशादौ पारिजातहरणे श्रीरुक्मिणीं प्रति सत्यभामायाः । स्पष्टम् ।

॥ १०.३० ॥ श्रीशुकः ॥ २८५२८७ ॥

[२८८]

अत्र विचार्यते । ननु भगवद्भक्तेषु परस्परं प्रतिपक्षित्वम्
असम्भवमहृद्यं च । तथा तासां तत्सौभगमदम् [भागवतम् १०.२९.४८] इत्य्
आदौ तद्ईर्षामदमानादिदूरीचिकीर्षां श्रीभगवतोऽपि दृश्यते । तथा
श्रीमता मुनिना स्वयमपि ताभिस्तत्र दौरात्म्यशब्दः प्रयुक्तोऽस्तीति ।
तत्रोच्यते सर्वैव हि श्रीभगवतः क्रीडा प्रीतिपोषायैव प्रवर्तते ।
भजते तादृशीः क्रीडा याः श्रुत्वा तत्परो भवेत्[भागवतम् १०.३३.३६] इत्यादि ।
श्रुत्वापीत्यर्थः । तत्र शृङ्गारक्रीडायाश्चास्याः स्वभावोऽयं यत्खल्व्
ईर्षामदमानादिलक्षण (पगे १२४) तत्तद्भाववैचित्रीपरिकरतयैव
रसं पुष्णाति । यत एव तादृशतयैव कविभिर्वर्ण्यते । श्रीभगवता च
स्व=लीलायामङ्गीक्रियते । स्वस्मिन्नपि दक्षिणानुकूलशठधृष्टतेति
चतुर्भेदनायकत्वं यथास्थानं व्यज्यते । तस्मात्तल्लीलाशक्तिरेव
तासु तत्तद्भावं दधाति । तं च भावानुरूपेणैवेति दर्शितम् । अतएव
यदा सर्वासामेव तद्विरहो भवति तदा दैन्यनैकजातीय
भावत्वापत्त्या सर्वत्र सख्यमेवाभिव्यज्यते । यथा

अन्विच्छन्त्यो भगवतो मार्गे गोप्योऽविदूरतः ।
ददृशुः प्रियविश्लेषान्मोहितां दुःखितां सखीम् ॥ [भागवतम् १०.३०.४१]

इत्यत्र तस्यां पूर्वासामेव सखीत्वव्यञ्जना । विरहलीला च तासां झटिति
श्रीकृष्णविषयकतृष्णातिशयवर्धनार्थैव । नागरचूडामणीन्द्राय
श्रीकृष्णाय च तासां तद्वृद्धिरथ्यर्थं रोचते । यथोक्तं नाहं तु
सख्यो भजतोऽपि जन्तून् [भागवतम् १०.३२.१०] इत्यादिना । तस्मान्मध्ये विरहोऽपि
भवति । तदा श्रीकृष्णस्य मदमानादिविनोदमतिक्रम्यापि तद्
अध्यवसायः स्यात् । ततो मदमानयोः प्रशमाय स्वविषयक
तृष्णातिशयरूपप्रसादाय चेति तासां तत्सौभगेत्यत्रार्थः । सर्व
समुदितरासलीलार्थं मदस्य प्रशमाय मानस्य च प्रसादाय
प्रसादनायेत्यर्थो वा । ततस्तद्वर्धनेच्छाप्यानुषङ्गीति समानम् ।

अथ जाते च विरहे दैन्येनैव तासां तत्र दौरात्म्यबुद्धिः । न तु वस्तुत
एव तद्दौरात्म्यं प्रेमैकविलासरूपत्वात् । श्रीमुनीन्द्रोऽपि तद्
भावानुसारित्वेनैव तद्वाक्यमनुवदति तया कथित्माकर्ण्य [भागवतम्
१०.३०.४२] इत्यादि । स्वयं तु पूर्वं तस्मिंस्तदीये मदे दोषं
प्रत्याख्यातवानस्ति । यथा

रेमे तया चात्मरत आत्मारामोऽप्यखण्डितः ।
कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम् ॥ [भागवतम् १०.३०.३५]

स्वात्मरतः स्वतस्तुष्टोऽपि आत्मरामः स्वक्रीडोऽपि अखण्डितः । तस्यां
सततासक्तः सन् रेमे । तादृशश्चेत्किमिति तद्आसक्तो बभूव, तथा रेमे च ।
अत आह तया इत्थम्भूतगुणो हरिः [भागवतम् १.७.१०] इतिवत्तथाभूतगुणतया
तदीयप्रेमसर्वस्वसाररूपयेत्यर्थः । अतस्तस्यान्येन
तादृशत्वासम्भवात्प्रेमविशेष एवासौ स्फुरति न तु कामः । स च
प्रेमविशेष ईदृशप्रबलः यत्कामिवदेव दैन्यादिकं तयोः
प्रकटीभवतीत्याह कामितामिति । मदमानाद्य्आत्मके कामिनीनां
प्रेम्णि कामिनां यद्दैन्यं लोकप्रसिद्धं तदेव स्वद्वारा तत्प्रेम
विशेषपारवेश्येन दर्शयन् प्रकटयन् रेमे । यद्वा ययैव लीलया स्वयम्
एव तुच्छीभूताः सर्वेऽप्यन्ये नागरंमन्या इत्याह कामिनामिति । स्व
लीलामहिम्ना कामिनां प्राकृतानां दैन्यं रससम्पत्तिहीनत्वं स्त्रीणां
च प्राकृतानां तं विनान्यस्य भजनेन दुरात्मतां दुष्टभावतां
दर्शयन्निति दर्शयद्विधुपराजयं रसावक्तुमुल्लसति धूतलाञ्छनम्
इतिवत् ।

॥ १०.३० ॥ श्रीशुकः ॥ २८८ ॥
(पगे १२५)
[२८९]

इत्यालम्बनो व्याख्यातः । अथोद्दीपनेषु गुणाः । नारीमोहनशीलत्वम् ।
अवयववर्णरसगन्धस्पर्शशब्दसल्लक्षणनवयौवनानां
कमनीयता । नित्यनूतनत्वमभिव्यक्तभावत्वं प्रेमवश्यत्वं
सौबुद्ध्यसत्प्रतिभादयश्च । तत्र नारीमोहनशीलत्वादिकं, यथा
कृष्णं निरीक्ष्य वनितोत्सवरूपशीलम् [भागवतम् १०.२१.१२] इति । स्पष्टम् ।

॥ १०.२१ ॥ श्रीव्रजदेव्यः ॥ २८९ ॥

[२९०]

नित्यनूतनं च यद्यप्यसौ पार्श्वगतः [भागवतम् १.११.३४] इत्यादौ दृष्टम् ।
अथाभिव्यक्तभावत्वम् । तत्र पूर्वरागे

शरद्उदाशये साधुजातसत्सरसिजोदरे श्रीमुषा दृषा ।
सुरतनाथ तेऽशुल्कदासिका वरद निघ्नतो नेह किं वधः ॥ [भागवतम् १०.३१.२]

हे दृशैव सुरतयाचक तत्रापि हे कात्यायन्य्अर्चनान्ते वरप्रद, तत्राइ
भावविशेषदर्शितया दृशा कृत्वैवाशुल्कदासिकातुल्यत्वं प्राप्तास्तयैव
पुनर्निघ्नतस्तव न किं वधः स्त्रीहत्यापि न भवति । दृशस्तादृशत्वे
महामोहनचौरत्वं दर्शयति । शरद्उदाशय इत्यादि ।

तत्र मोहनत्वं द्विविधंस्वरूपकृतं दुष्करक्रियाकृतं च । तद्
उभयमपि तत्तद्विशेषणैर्व्यक्तम् । तथा

मधुरया गिरा वल्गुवाक्यया
बुधमनोज्ञया पुष्करेक्षण ।
विधिकरीरिमा वीर मुह्यतीर्
अधरसीधुनाप्याययस्व नः ॥ [भागवतम् १०.३१.८]

मधुरयेति स्वरूपमाधुर्यं वल्गुवाक्ययेत्यर्थमाधुर्यं बुध
मनोज्ञयेति बुधानां तादृशभावाभिज्ञानामेव मनोज्ञयेति भाव
विशेषमाधुर्यं व्यञ्जितम् ।

[२९२]

तथा

प्रहसितं प्रिय प्रेमवीक्षणं
विहरणं च ते ध्यानमङ्गलम् ।
रहसि संविदो या हृदिस्पृशः
कुहक नो मनः क्षोभयन्ति हि ॥ [भागवतम् १०.३१.१०]

संविदाः सङ्केतनर्माणि ।

[२९३]

तथा

दिनपरिक्षये नीलकुन्तलैर्
वनरुहाननं बिभ्रदावृतम् ।
घनरजस्वलं दर्शयन्मुहुर्
मनसि नः स्मरं वीर यच्छसि ॥ [भागवतम् १०.३१.१२]

मुहुः पुनः पुनर्व्याजेन परावृत्येत्यर्थः ।

[२९४]

तथा
पतिसुतान्वयभार्तृबान्धवान्
अतिविलङ्घ्य तेऽन्त्यच्युतागताः ।
गतिविदस्तवोद्गीतमोहिताः
कितव योषितः कस्त्यजेन्निशि ॥

रहसि संविदं हृच्छयोदयं
प्रहसिताननं प्रेमवीक्षणम् ।
बृहद्उरः श्रियो वीक्ष्य धाम ते
मुहुरतिस्पृहा मुह्यते मनः ॥ [भागवतम् १०.३१.१६१७]

गतिविदस्तवोद्गीतमोहिता इति अस्माकं मोहनप्रकारज्ञानेनैव त्वं
तथा वेणुना गीतवानित्यर्थः ।

॥ १०.३१ ॥ श्रीगोप्यः परोक्षस्थितं श्रीभगवन्तम् ॥ २९२२९४ ॥

[२९५]

एवं
गवां हिताय तुलसि गोपीनां रतिहेतवे ।
वृन्दावने त्वं वपिता सेविता विष्णुना स्वयम् ॥

इति स्कान्दे रेवाखण्डीयतुलसीस्तववचनमपि तत्पूर्वरागे
दर्शनीयम् । तथा सम्भोगेऽपि इति विक्लवितं तासाम् [भागवतम् १०.२९.४२] इत्यादौ
प्रहस्य इति ताभिः समेताभिरुदारचेष्टितः [भागवतम् १०.२९.४३] इति, उदारहास
द्विजकुन्ददीधिति [भागवतम् १०.२९.४६] चाभिव्यक्तभावत्वोदाहरणम् ।

अथ प्रेम्णा वश्यत्वं द्विविधम् । प्रेमान्तरेण प्रेयसीप्रेम्णा च । तत्र
पूर्वेण नर्मदः प्रणयिनां (पगे १२६) विजहार १०.३५.२०] इत्यत्र दर्शितम् ।
तथोत्तरेण । तत्र पूर्वरागात्मकेन यथा तथाहमपि तच्चित्तो निद्रां
च न लभे निशि [भागवतम् १०.५३.२] इति । स्पष्टम् ।

॥ १०.५३ ॥ श्रीभगवान् रुक्मिणीदूतम् ॥ २९५ ॥

[२९६]

तथा

भगवानपि ता रात्रीः शरदोत्फुल्लमल्लिकाः ।
वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः ॥ [भागवतम् १०.२९.१]

योगमायां तासामसङ्ख्यानामसङ्ख्यवाञ्छापूरिकां स्वशक्तिं
स्वभावत एवाश्रित्य इत्यर्थः ।

[२९७]

सम्भोगात्मकेन यथा

इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः ।
प्रहस्य सदयं गोपीरात्मारामोऽप्यरीरमत् ॥ [भागवतम् १०.२९.४२]

अत्र विक्लवितमिति तासां प्रेमातिशयज्ञापकं सदयमिति तस्य तत्प्रेम
वश्यत्वातिशयाभिधायकम् । आत्मारामोऽपीति तासां प्रेमगुणमाहात्म्य
दर्शकम् । आत्मारामाश्च मुनयः [भागवतम् १.७.१०] इत्यादौ इत्थम्भूतगुणो
हरिः इतिवत् ।

॥ १०.२९ ॥ श्रीशुकः ॥ २९६२९७ ॥

[२९८]

एवं रेमे स्वयं स्वरतिरत्र गजेन्द्रलीलः [भागवतम् १०.३३.२३] इति ।

स्वासु तासु रतिर्यस्य सः । तथा तासां रतिविहारेण [भागवतम् १०.३३.२०] इत्य्
आदिकम् । गोपीकपोलसंश्लेषः [Vइড়् ५.१३.५४] इत्यादिकं विष्णुपुराणपद्यम्
अप्युदाहृतम् ।

[२९९]

किं च

एवं परिष्वाङ्गकराभिमर्श
स्निग्धेक्षणोद्दामविलासहासैः ।
रेमे रमेशो व्रजसुन्दरीभिर्
यथार्भकः स्वप्रतिबिम्बविभ्रमैः ॥ [भागवतम् १०.३३.१७]

अत्र रमेश इत्यनेन तस्य रमावशीकारित्वं दर्शितम् । परिष्वङ्गेत्यादिना
तत्रापि स्निघेक्षणेत्वादिना रेम इत्यनेन च तासां प्रेम्णा तस्य वश्यत्वं
व्यक्तम् । दृष्टान्तेन तु तदा तस्य तासां चार्भकप्रतिबिम्बयोरिव गान
नृत्यादिविलासेषु एकचेष्टतापत्तिसूचनया मिथः परमप्रेमासक्तिर्
दर्शिता ।

[३००]

अपि च

एवं शशाङ्कांशुविराजिता निशाः
स सत्यकामोऽनुरताबलागणः ।
सिषेव आत्मन्यवरुद्धसौरतः
सर्वाः शरत्काव्यकथारसाश्रयाः ॥ [भागवतम् १०.३३.२६]

एवं पूर्वोक्तप्रकारेण अनुरतो निरन्तरमनुरक्तोऽबलागणो यत्र
तादृशः स श्रीकृष्णचन्द्र आत्मनि चित्तेऽवरुद्धं समन्तान्निगृह्य
स्थापितं सौरतं सुरतसम्बन्धिभावहावादिकं येन तथाभूतः सन् ।
अतएव सत्यकामः व्यभिचाररहितप्रेमविशेषः सन् शरत्सम्बन्धिन्यो
यावत्यो रसाश्रयाः काव्यकथाः सम्भवन्ति ताः सर्वा एव सिषेवे । शरच्
छब्दोऽत्राखण्डमेव वा संवत्सरं वदति । ततः शशङ्कांशुविराजितत्वम्
उपलक्षणमिति व्याख्येयम् । एवं सौरतसंलापैः [भागवतम् १०.६०.५८] इति श्री
रुक्मिणीपरिहासेऽपि सौरतशब्दस्तादृशत्वेन प्रयुक्तः ।

॥ १०.३३ ॥ श्रीशुकः ॥ ३०० ॥
(पगे १२७)
[३०१]

अत्रैवमपि स्वयमुक्तं न पारयेऽहम् [भागवतम् १०.३२.१२] इत्यादि । अथ
प्रवासात्मकेन, यथा

वृष्णीनां प्रवरो मन्त्री कृष्णस्य दयितः सखा ।
शिष्यो बृहस्पतेः साक्षादुद्धवो बुद्धिसत्तमः ॥
तमाह भगवान् प्रेष्ठं भक्तमेकान्तिनं क्वचित् ।
गृहीत्वा पाणिना पाणिं प्रपन्नार्तिहरो हरिः ॥
गच्छोद्धव व्रजं सौम्य पित्रोर्नौ प्रीतिमावह ।
गोपीनां मद्वियोगाधिं मत्सन्देशैर्विमोचय ।
ता मन्मनस्का मत्प्राणा मद्अर्थे त्यक्तदैहिकाः ॥ [भागवतम् १०.४६.१४] इत्य्
आदि ।

तथा च स्कान्दप्रह्लादसंहिताद्वारकामाहात्म्ये ताः प्रति श्रीमद्
उद्धववाक्यम्
भगवानपि दाशार्हः कन्दर्पशरपीडितः ।
न भुङ्क्ते न स्वपिति च चिन्तयन् वो ह्यहर्निशम् ॥ इति ।

एवं राजकुमारीणां परिणयोऽपि ताभिर्गोपकुमारीभिरेकात्मत्वात्प्रायस्
तद्विरहकालक्षपणार्थ एव तासां प्राणपरित्यागपरिहारार्थमेव
च । यथोक्तं पाद्मेकैशोरे गोपकन्यास्ता यौवने राजकन्यका इति । यथा
च श्रीरुक्मिणीवाक्यम्

यर्ह्यम्बुजाक्ष न लभेय भवत्प्रसादं
जह्यामसून् व्रतकृशान् शतजन्मभिः स्यात् ॥ [भागवतम् १०.५२.४३] इति ।

[३०२]

अथोद्दीपनेषु जातिः । तत्र गोपत्वरूपामाह

विविधगोपचरणेषु विदग्धो
वेणुवाद्य उरुधा निजशिक्षाः ॥ [भागवतम् १०.३५.१५] इत्यादिना । स्पष्टम् ।

॥ १०.३५ ॥ श्रीव्रजदेव्यः ॥ ३०१३०२ ॥

[३०३]

यादवत्वरूपां सादृश्यरूपां चाह मेघः श्रीमंस्त्वमसि दयितो
यादवेन्द्रस्य नूनम् [भागवतम् १०.९०.२०] इत्यादिना ॥ स्पष्टम् ।

॥ १०.९० ॥ श्रीपट्टमहिष्यः ॥ ३०३ ॥

[३०४]

अथ क्रियाः । ताश्च द्विविधाः । भावसम्बन्धिन्यः स्वाभाविकविनोद
मय्यश्च । पूर्वा यथा निशम्य गीतं तद्अनङ्गवर्धनम् [भागवतम् १०.२९.४]
इत्यादि । स्पष्टम् ।

॥ १०.२९ ॥ श्रीशुकः ॥ ३०४ ॥

[३०५]

उत्तराः

वामबाहुकृतवामकपोलो
वल्गितभ्रूरधरार्पितवेणुम् ॥ [भागवतम् १०.३५.२] इत्यादि । स्पष्टम् ।

॥ १०.३५ ॥ श्रीव्रजदेव्यः ॥ ३०५ ॥

[३०६]

विविधगोपचरणेषु [भागवतम् १०.३५.१४] इत्यादौ च ता ज्ञेयाः । अथ द्रव्याणि ।
तत्र तस्य प्रेयस्यो यथा

उषस्युत्थाय गोत्रैः स्वैरन्योन्याबद्धबाहवः ।
कृष्णमुच्चैर्जगुर्यान्त्यः कालिन्द्यां स्नातुमन्वहम् ॥ [भागवतम् १०.२२.६]

गोत्रैर्वर्गैः ।

॥ १०.२२ ॥ श्रीशुकः ॥ ३०६ ॥

[३०७]

तद्व्रजस्त्रिय आश्रुत्य [भागवतम् १०.२१.३] इत्यादौ च स्वसखीभ्योऽन्ववर्णयन्न्
इत्युदाहार्यम् ।

तत्परिकराः तं वीक्ष कृष्णानुचरं व्रजस्त्रियः [भागवतम् १०.४७.१] इत्यादि ।
स्पष्टम् ।

॥ १०.४७ ॥ सः ॥ ३०७ ॥

[३०८]

मण्डनम् पूर्णाः पुलिन्द्य उरुगायपदाब्जेअरागश्रीकुङ्कुमेन दयिता
[भागवतम् १०.२१.१७] इत्यादि ।

[३०९]

वंशीगोप्यः किमाचरदयं कुशलं स्म वेणुः [भागवतम् १०.२१.१७] इत्यादि ।
स्पष्टम् ।
॥ १०.२१ ॥ ताः ॥ ३०९ ॥

[३१०]

पदाङ्कः पदानि व्यक्तमेतानि नन्दसूनोर्महात्मनः [भागवतम् १०.३०.२५]
इत्यादि ।

[३११]

पदधूलिः

धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्य्अब्जरेणवः ।
यान् ब्रह्मेशो रमा देवी दधुर्मूर्ध्न्यघनुत्तये ॥ [भागवतम् १०.३०.२९]
(पगे १२८)
अत्र प्रेमैव तद्उत्कर्षं गमयति न त्वैश्वर्यज्ञानम् । स्वभावः खल्व्
अयं प्रीतिपरमोत्कर्षस्य यत्स्वविषयं सर्वत उत्कर्षेणानुभावयति ।
यथादिभरतेन मृगप्रेम्णा तदीयखुरस्पर्शात्पृथिव्या अपि महा
भागधेयत्वं वर्णितम्किं वा अरे आचरितं तपस्तपस्विन्या यदियम्
अवनिः [भागवतम् ५.८.२३] इत्यादिना । एवमेव

किं ते कृतं क्षिति तपो बत केशवाङ्घ्रि
स्पर्शोत्सवोत्पुलकिताङ्गरुहैर्विभासि ।
अप्यङ्घ्रिसम्भव उरुक्रमविक्रमाद्वा
आहो वराहवपुषः परिरम्भणेन ॥ [भागवतम् १०.३०.१०]

अत्र पूर्वार्धे प्रेम्णा श्रीकृष्णमाधुर्यमहिमोक्तिः । उत्तरार्धे
तेनैवान्यत्र हेयतोक्तिः । अत्र च अपीति किमर्थे । ततश्च एषोऽङ्घ्रि
सम्भवो हर्षविकारः उरुक्रमस्य त्रिविक्रमस्य विक्रमाद्वापि पाद
विक्षेपाद्वापि किं जातः । आहो इति पक्षान्तरे । वराहवपुषः कान्त
भावतोऽपि परिरम्भणेन वा एषोऽङ्घ्रिसम्भवः किं जातः । न हि न हीत्य्
अर्थः । अपीति स्तोकार्थे वा सर्पिषोऽपि स्यादितिवत् । ततश्च उरुक्रमविक्रमाद्
अपि एषोऽङ्घ्रिसम्भवो विकारः स्यात् । किन्तु स्तोक एव स्यादित्यर्थः ।

॥ १०.३० ॥ ताः ॥ ३१२ ॥

[३१३]

नखाङ्कः पृच्छतेमा लता बाहून् [भागवतम् १०.३०.३१] इत्यादावेव ज्ञातः । एवं
वृन्दावनयमुनादीन्यप्युदाहार्याणि । अथ कालश्च रासोत्सवादि
सम्बन्धी । स यथाताः किं निशाः स्मरति यासु [भागवतम् १०.४७.४३] इत्यादि ।
स्पष्टम् ।

॥ १०.४७ ॥ ताः ॥ ३१३ ॥

[३१४]

तदेवं यथा तदीयगुणादयः उद्दीपनास्तथैव तादृशसेवोपयोगित्वेन
तत्प्रेयसीगुणा अपि ज्ञेयाः । ते च तासामात्मसम्बन्धिन आत्माभीष्ट
तद्वल्लभासम्बन्धिनश्चेत्युभयेऽप्यूह्याः ।

अथानुभावाः । तत्र सैरिन्ध्र्यादीनां, यथा

सा मज्जनालेपदुकूलभूषण
स्रग्गन्धताम्बूलसुधासवादिभिः ।
अप्रसाधितात्मोपससार माधवं [भागवतम् १०.४८.५] इत्यादि । स्पष्टम् ।

॥ १०.१५ ॥ श्रीशुकः ॥ ३१४ ॥

[३१५]

श्रीपट्टमहिषीणामित्थं रमापतिमवाप्य [भागवतम् १०.५९.४४] इत्यादिद्वय
एव विदितः । श्रीव्रजदेवीनां यथा, आसामहो [भागवतम् १०.४७.६१] इत्यादौ । या
दुस्त्यजमित्यादि । तत्र च विवरणम्

तं गोरजश्छुरितकुन्तलबद्धबर्ह
वन्यप्रसूनरुचिरेक्षणचारुहासम् ।
वेणुं क्वणन्तमनुगैरुपगीतकीर्तिं
गोप्यो दिदृक्षितदृशोऽभ्यगमन् समेताः ॥

पीत्वा मुकुन्दमुखसारघमक्षिभृङ्गैस्
तापं जहुर्विरहजं व्रजयोषितोऽह्नि ।
तत्सत्कृतिं समधिगम्य विवेश गोष्ठं
सव्रीडहासविनयं यदपाङ्गमोक्षम् ॥ [भागवतम् १०.१५.४२४३} इत्यादि
स्पष्टम् ।

॥ १०.१५ ॥ श्रीशुकः ॥ ३१५ ॥

[३१६]

अथ प्रायः सर्वासां ते चतुर्विधाः उद्भास्वरसात्त्विकालङ्कार
वाचिकाख्याः । तत्रोद्भास्वरा उक्ताः

नीव्य्उत्तरीयधम्मिल्लस्रंसनं गात्रमोटनम् ।
जृम्भा घ्राणस्य फुल्लत्वं निश्वासाद्याश्च ते मताः ॥[ऊण्१०.७०] इति ।

यथा

तद्अङ्गसङ्गप्रमुदाकुलेन्द्रियाः
केशान् दुकूलं कुचपट्टिकां वा ।
नाञ्जः प्रतिव्योढुमलं व्रजस्त्रियो
विस्रस्तमालाभरणाः कुरूद्वह ॥ [भागवतम् १०.३३.१७] इत्यादि ।
(पगे १२९)
[३१७]

सात्त्विकाः
तत्रैकांसगतं बाहुं कृष्णस्योत्पलसौरभम् ।
चन्दनालिसमाघ्राय हृष्टरोमा चुचुम्ब ह ॥ [भागवतम् १०.३३.१२]

स्पष्टम् ।
॥ १०.३३ ॥ श्रीशुकः ॥ ३१७ ॥

[३१८]

निर्विकारात्मके चित्ते भावः प्रथमविक्रिया ॥ ऊण्११.६] । स यथा चित्तं
सुखेन भवतापहृतं गृहेषु [भागवतम् १०.२९.३४] इत्यादि । स्पष्टम् ।

॥ १०.२९ ॥ श्रीगोप्यः ॥ ३१८ ॥

[३१९]

ग्रीवारेचकसंयुक्तो भ्रूनेत्रादिविकाशकृत् ।
भावादीषत्प्रकाशो यः स हाव इति कथ्यते ॥ [ऊण्११.९] इति ।

स यथा श्रीलक्ष्मणास्वयंवरे

उन्नीय वक्त्रमुरुकुन्तलकुण्डलत्विड्
गण्डस्थलं शिशिरहासकटाक्षमोक्षैः ।
राज्ञो निरीक्ष्य परितः शनकैर्मुरारेर्
अंसेऽनुरक्तहृदया निदधे स्वमालाम् ॥ [भागवतम् १०.८३.२९] इति ।

॥ १०.८३ ॥ सैव ॥ ३१९ ॥

[३२०]

एवं हाव एव भवेद्धेला व्यक्तशृङ्गारसूचकः [ऊण्११.११] इति
लक्षणानुसारेण हेलाप्युदाहार्या । सा शोभा रूपभोगाद्यैर्यत्स्याद्
अङ्गविभूषणम् [ऊण्११.१३] । सा यथा

तासामतिविहारेण [भागवतम् १०.३३.२१] इत्यादि, गोप्यः स्फुरत्पुरटकुण्डल
कुन्तलत्विड्गुणश्रिया सुधितहासनिरीक्षणेन [भागवतम् १०.३३.२२]

[३२१]

माधुर्यं नाम चेष्टानां सर्वावस्थासु चारुता [ऊण्११.१९] । तद्यथा

काचिद्रासपरिश्रान्ता पार्श्वस्थस्य गदाभृतः ।
जग्राह बाहुना स्कन्धं श्लथद्वलयमल्लिका ॥ [भागवतम् १०.३३.११]

स्पष्टम् ॥

॥ १०.३३ ॥ श्रीशुकः ॥ ३२१ ॥

[३२२]

निःशङ्कत्वं प्रयोगेषु बुधैरुक्ता प्रगल्भता ॥ [ऊण्११.२१]

सा च
तत्रैकांसगतं बाहुम् [भागवतम् १०.३३.११] इत्यादौ दर्शिता ।

औदार्यं विनयं प्राहुः सर्वावस्थागतं बुधाः । [ऊण्११.१५]

तद्यथामृगयुरिव कपीन्द्रम् [भागवतम् १०.४७.१७] इत्यादौ दुस्त्यजस्तत्
कथार्थः इति । स्पष्टम् ।

॥ १०.४७ ॥ सैव ॥ ३२३ ॥

[३२४]

एवं
शोभैव कान्तिराख्याता मन्मथाप्यायनोज्ज्वला ॥ [ऊण्११.१५]
कान्तिरेव वयोभोगदेशकालगुणादिभिः ।
उद्दीपितातिविस्तारं प्राप्ता चेद्दीप्तिरुच्यते ॥ [ऊण्११.१७]

इत्यनुसारेण कान्तिदीप्ती अप्युदाहार्ये ।

प्रियानुकरणं लीला रम्यैर्वेशक्रियादिभिः । [ऊण्११.२८] तस्यां वेश
क्रियया तच्चेष्टानुकरणं यथा

अन्तर्हिते भगवति [भागवतम् १०.३०.१] इत्याद्यनन्तरं गत्यानुरागस्मित [भागवतम्
१०.३०.२] इत्यादि ॥(पगे १३०)

[३२५]

तास्ताः बाहुप्रसारा [भागवतम् १०.२९.४६] इत्यादिनोक्तास्तदीयलीला इत्यर्थः ।
पश्चादावेशेन रूपं तद्अभेदभावनारूपम् । गतिस्मितप्रेक्षण
भाषणादिषु [भागवतम् १०.३०.३] इत्यादि ।

एवं स्वविलासरूपां लीलामुद्भाव्यापि तासां निजो भावो निगूढं तिष्ठत्य्
एव, यथा वक्ष्यते यतन्त्युन्निदधेऽबरम् [भागवतम् १०.३०.२०] इत्यत्र यतन्तीति ।
अथैतदग्रेऽपि कालक्षेपार्थं या लीला याभिर्गातुं प्रवर्तिताः
प्रेमावेशेन ता लीला एव तास्वाविष्ठा इति तत्तद्अनुकरणविशेषे हेतुर्
ज्ञेयः । एतद्अनुकरणं च प्रायो न लीलाशब्दवाच्यम् । बाल्यादि
रूपस्यानालम्बनत्वेनोज्ज्वलरसाङ्गत्वाभावात् । तत्र पूतनादीनां प्रीति
मात्रविरोधिभावानामपि तथा श्रीकृष्णजनन्य्आदीनां निजप्रीति
विशेषविरोधिभावानामपि चेष्टानुकरणं श्रीकृष्णानुकर्त्रीणां
गोपिकानां सखीभिस्तासां विरहकालक्षेपाय तत्तद्भावपोषार्थं
कृत्रिमतयिवाङ्गीकृतं, न तु तत्तद्भावेनेति समाधेयम् । केचिच्चैवं
व्याचक्षते, पूतनावधलीलास्मरणावेशे सति कासाञ्चित्पूतनानुकरणम्
अपि श्रीकृष्णानिष्ठाशङ्कया भयेनैव भवति । यथा लोकेऽपि आत्म
निष्ठाशङ्कया भयोन्मत्तस्य तद्भयहेतुव्याघ्राद्य्अनुकरणं
भवति । ततस्तद्अनुकरणेऽपि आत्मनीव श्रीकृष्णे प्रीतिरेवोल्लसति न तु
द्वेषः । सा प्रीतिर्यथात्मनि तद्रूपतयैव तिष्ठति तथैव तासां श्री
कृष्णेऽपि स्वभावोचितैवानुवर्तते ।

ततः बद्धान्यया स्रजा काचिद्[भागवतम् १०.३०.२३] इत्यादौ श्रीयशोदानुकरणं
च तथैव मन्तव्यम् । पूर्वं हि दामोदरलीलास्मरणावेशेन तस्याः श्री
कृष्णभावः । ततश्च वक्त्रं निनाय भयभावनया स्थित्स्य [भागवतम् १.८.३१]
इत्य्उक्तरीत्या श्रीयशोदातो भयमपि जातम् । बाल्यस्वभावानुस्मरणेन
तद्अनुकरणं च । ततश्च सैव स्वयमन्यां काञ्चीतल्लीलावेशेनैव
कृष्णायमानां च बबन्ध । तथापि पूर्ववत्स्वभावोचितैव प्रीतिस्तस्याम्
अन्तर्वर्तत एव । सा हि प्रीतिस्तत्तद्भावस्य परमाश्रयरूपा । ततो बहिर्
एव तत्तद्अनुकरणात्श्रीयशोदाभावस्य च मध्ये श्रीकृष्णभाव
व्यवधानेन निजभावास्पर्शान्न विरोध इति ।

॥ १०.३० ॥ श्रीशुकः ॥ ३२५ ॥

[३२६]

गतिस्थानासनादीनां मुखनेत्रादिकर्मणाम् ।
तात्कालिकं तु वैशिष्ट्यं विलासः प्रियसङ्गजम् ॥ [ऊण्११.३१]

स यथा
तं विलोक्यागतं प्रेष्ठं प्रीत्य्उत्फुल्लदृशोऽबलाः [भागवतम् १०.३२.३] इति
स्पष्टम् ।

॥ १०.३२ ॥ सः ॥ ३२६ ॥

[३२७]

गर्वाभिलाषरुदितस्मितासूयाभयक्रुधाम् ।
सङ्करीकरणं हर्षादुच्यते किलकिञ्चितम् ॥[ऊण्११.४४]

तद्यथा तस्य तत्क्ष्वेलितं श्रुत्वा बालाः प्रेमपरिप्लुताः [भागवतम् १०.२२.१२] इत्य्
आदि, एवं ब्रुवति गोविन्दे [भागवतम् १०.२२.१३] इत्यादि, मानयं भोः कृथा [भागवतम्
१०.२२.१४] इत्यादि, श्यामसुन्दर ते दास्यः [भागवतम् १०.२२.१५] इत्याद्यन्तम् ।
स्पष्टम् ।

॥ १०.२२ ॥ सः ॥ ३२७ ॥

[३२८]

वल्लभप्राप्तिवेलायां मदनावेशसम्भ्रमात् ।
विभ्रमो हारमाल्यादिभूषास्थानविपर्ययः ॥ [ऊण्११.३९]

स यथा व्यत्यस्तवस्त्राभरणाः काश्चित्कृष्णान्तिकं ययुः [भागवतम् १०.२९.७]
इति । (पगे १३१)
इष्टेऽप्य्गर्व मानाभ्यां बिब्बोकः स्यादनादरः [ऊण्११.५२] । स च एका
भ्रूकुटिमाबध्य [भागवतम् १०.३२.६] इत्यादावुदाहरिष्यते ।
विन्यासभङ्गिरङ्गानां भ्रूविलासमनोहराः ।
सुकुमारा भवेद्यत्र ललितं तद्उदीरितम् । [ऊण्११.५६] । तच्च पूर्वत्रैव
ज्ञेयम् ।

॥ १०.३२ ॥ सः ॥ ३२८ ॥

[३२९]

कान्तस्मरणवार्तादौ हृदि तद्भावभावतः ।
प्राकट्यमभिलाषस्य मोट्टायितमुदीर्यते ॥ [ऊण्११.४७]

तच्च कृष्णं निरीक्ष्य वनितोत्सव [भागवतम् १०.२१.१२] इत्यादावेव ज्ञेयम् ।

ह्रीमानेर्ष्यादिभिर्यत्र नोच्यते स्वविवक्षितम् ।
व्यज्यते चेष्टयैवेदं विकृतं तद्विदुर्बुधाः ॥ [ऊण्११.५८]

तद्यथा
परिधाय स्ववासांसि प्रेष्ठसङ्गमसज्जिताः ।
गृहीतचित्ता नो चेलुस्तस्मिन् लज्जायितेक्षणाः ॥ [भागवतम् १०.२२.२३]

स्पष्टम् ।
॥ १०.२२ ॥ सः ॥ ३२९ ॥

[३३०]

आकल्पकल्पनाल्पापि विच्छित्तिः कान्तिपोषकृत् ॥ [ऊण्११.३४]

स्तनाधरादिग्रहणे हृत्प्रीतावपि सम्भ्रमात् ।
बहिः क्रोधो व्यथितवत्प्रोक्तं कुट्टमितं बुधैः ॥ [ऊण्११.४९]

एवमित्यनुसारेण विच्छित्तिकुट्टुमिते अपि ज्ञेये ।

अथ वाचिकाः । तत्र चाटुप्रियोक्तिरालापः [ऊण्११.८०] । स यथा का स्त्र्य्
अङ्ग ते कलपदायतमूर्च्छितेन [भागवतम् १०.२९.४०] इत्यादि । स्पष्टम् ।

॥ १०.२९ ॥ श्रीगोप्यः ॥ ३३० ॥

[३३१]

विलापो दुःखजं वचः [ऊण्११.८३] । स यथा परं सौख्यं हि नैराश्यं
[भागवतम् १०.४७.४७] इत्यादि । स्पष्टम् ।

॥ १०.४७ ॥ ताः ॥ ३३१ ॥

[३३२]

उक्तिप्रत्युक्तिमद्वाक्यं संलाप इति कीर्त्यते [ऊण्११.८५] । स यथास्वागतं
वो महाभागाः [भागवतम् १०.२९.१८] इत्यादिकम् । व्यक्तं भवान् व्रजभयार्ति
हरोऽभिजातः [भागवतम् १०.२९.४१] इत्याद्य्अन्तम् ।

अत्र श्रीकृष्णवाक्येषु प्रथमोऽर्थस्तासु वेण्व्आदिमोहितास्वपि वाम्यम्
आचरन्तीषु सङ्गप्रार्थनारूपः । द्वितीयस्तु परिहासाय तद्भाव
परीक्षणाय च तद्आगमनकारणस्वसङ्गप्रत्याख्यानरूपः । तथैव
तासां वाक्येष्वपि तत्प्रार्थनाप्रत्याख्यानरूपः । अतएव पारस्परिक
समानवैदग्धीमयत्वादतितरां रसः पुष्यते ।

स्वागतमिति उभयत्र समानमेव । रजन्येषा । यदि कथञ्चिदागता एव
तदाधुना तु रजन्या घोररूपादित्वात्व्रजं प्रति न यात, यातुं नार्हथ ।
किन्तु स्त्रीभिर्युष्माभिरिह मम वीरस्य सन्निधावेव स्थेयं स्थातुं
योग्यमिति । सुमध्यमा इति पुनर्गमने खेदमपि दर्शितवान् ।

न च मत्सन्निधाववस्थाने बन्धुभ्यो भेतव्यमित्याह मातरः [भागवतम्
१०.२९.२०] इति । बन्धुभ्यः साध्वसं मा कृढ्वं यतस्ते मात्रादयो
बन्धवो रात्रावस्मिनपश्यन्त एव विचिन्वन्ति । ततो नास्ति तेषाम्
अत्रागमनसम्भावनेति भावः । पुत्रा देवरंमन्यादिपुत्राः
सपत्न्यादिपुत्रा वा ।

निजारामदर्शनया तासां भावमुद्दीपयति दृष्टं वनं [भागवतम् १०.२९.२१]
इति । निगमयति तद्यात [भागवतम् १०.२९.२२] इति यस्माद्रजन्येषा घोररूपा इत्य्
आदिको हेतुः, तत्तस्माच्चिरकालं व्याप्य घोषं मा यात । अचिरमधुनैव
मा यातेति वा । ततस्तत्र गत्वा पतीन् युष्मत्पतित्वेन क्प्तां तानपि मा
शुश्रूषध्वम् । हे सतीः सत्यः परमोत्तमाः । ये च वत्सादयस्ते च मा
क्रन्दन्ति (पगे १३२) ततस्तान्मा पाययत तद्अर्थं मा दुह्यत चेति ।

यदि स्वयमेव भवत्यो मद्अनुरागेणैवागता न तत्र मत्
प्रार्थनापेक्षापि, तदा तदतीव युक्तमाचरितमित्याह अथवा [भागवतम्
१०.२९.२३] इति । मम मयि । यदि जन्तुमात्राण्येव मयि प्रीयन्ते तदा
भवतीनां कामिनीनां कान्तभावात्मक एव सः स्नेहो भवेदिति भावः ।

ननु भर्तृशुश्रूषणपरित्यागे स्त्रीणां दोषस्तत्राह भर्तुः शुश्रूषणं
[भागवतम् १०.२९.२४] इति । अमायया यो भर्ता तस्यैव शुश्रूषणं परो धर्मः ।
तथा तद्बन्धूनां च । युष्माकं तु अनुपभुक्तात्वेन लक्ष्यमाणानां
दाम्पत्यव्यवहाराभावात्केनापि माययैव तत्कल्पितमिति लक्ष्यते । ततो
न दोष इति भावः ।

अङ्गीकृत्यापि पतित्वं प्रकारान्तरेण तत्सेवां स्मृतिवाक्यद्वारापि
परिहरति दुःशीलः [भागवतम् १०.२९.२५] इति । अपातक्येव न हातव्यः । ते तु
पातकिन एवेति सासूयो भावः ।

अपातकित्वाङ्गीकारमाशङ्क्य छलेन स्मृतिवाक्यान्तरमन्यार्थतया
व्यञ्जयन्नपि तत्सेवां प्रत्याचष्टे अस्वर्ग्यम् [भागवतम् १०.२९.२६] इति । उप
समीपे पतिर्यस्याः सा उपपतिस्तस्या भाव औपपत्यं पतिसामीप्यमित्य्
अर्थः । तत्खल्वस्वर्ग्यादिति ।

अथ मय्यपि जातो भावः क्लेशायैव भवतीत्याशङ्क्यापि मा
पराङ्मुखीभवतेत्याह श्रवणाद्[भागवतम् १०.२९.२७] इति । यथा श्रवणादिना
मद्भावो मद्अप्राप्त्या दुःखमयस्तथा सन्निकर्षेण मत्प्राप्त्या न
भवति । ततस्तस्माद्गृहान् गृहसदृशान् कुञ्जान् प्रति यात प्रविशत ।
पर्युदासोऽत्र नञिति ।

तदेवं श्रीकृष्णवाक्यस्य प्रार्थनारूपोऽर्थो व्याख्यातः । अर्थान्तरं
तु प्रसिद्धम् । तत्र पुत्रा इति सपरिहासदोषोद्गारेणापि प्रत्याख्यानम् ।

अथ तादृशकृष्णवाक्यश्रवणानन्तरं तासामवस्थावर्णनमिति
विप्रियमाकर्ण्य [भागवतम् १०.२९.२८] इत्य्आदिभिस्त्रिभिः । अर्थद्वितयस्यैव
तर्केण तद्अभिप्रायनिश्चयाभावादुत्कण्ठास्व्याभाव्येन
प्रत्याख्यानस्यैव सुष्ठु स्फुरितत्वात्तद्वाक्यस्य विप्रियत्वं तासां
विषादादिकं च । तत्रोभयत्रापि चिन्ताया युक्तत्वात्मुखनमनादिचेष्टास्व्
अपि न रसभङ्गः । पदा भ्रूलेखनं चात्र नायिकया स्वयमभियोगेऽप्य्
उक्तमस्ति ।

अथ तासामपि तद्अनुरूपं वाक्यं मैवं [भागवतम् १०.२९.३१] इत्यादि । मेति तत्
प्रार्थनानिराकरणे सर्वविषयान् पतिपुत्रादीन् सन्त्यज्य यास्तव पाद
मूलं भक्तास्ता एव दुरवग्रहं निरर्गलं यथा स्यात्तथा भजस्व ।
पादमूलमिति तासु निजोत्कर्षख्यापनम् । अस्मान् पुनरतथाभूताना
सम्यग्दर्शनप्रसङ्गादिष्वपि त्यज । तत्रान्यासां भजने स्वेषां त्यागे
च सद्आचारं दृष्टान्तयति देव इति । स हि त्यक्तविषयकर्मादितया स्वं
भजतो मुमुक्षूनेव भजति नान्यानिति ।

अथ शास्त्रार्थद्वारा तद्उपदेशं निराकुर्वन्ति यत्पत्य्अपत्य [भागवतम्
१०.२९.३२] इति । स्वधर्मः सुष्ठु अधर्मः । धर्मविदेति सोपहासम् । उक्तं
छलेन प्रतिपादितम् । भर्तुः शुश्रूषणमित्यादावन्यथा
योजनाभिप्रायात् । एतदधर्मनिराकरणोपदेशवाक्यम् । तत्पदे
उपदेष्टरि ईशे स्वतन्त्राचारे त्वय्येवास्तु त्वमेवाधर्मान्निवर्तस्व इत्य्
अर्थः । ततो युष्माकं किमित्यत आहुः प्रेष्ठ इति । बन्धुरात्मा सुन्दर
स्वभावो भवान् प्राणिमात्राणां किल प्रेष्ठः । ततस्तेनैव सर्वे वयः
मङ्गलिनः स्यामेत्यर्थः ।

अथवा मद्अभिस्नेहादित्यादिकं निराकुर्वन्ति कुर्वन्ति हि [भागवतम् १०.२९.३३] इति ।
आर्तिं द्यन्ति छिन्दन्ति इति तादृशैः पत्यादिभिर्हेतुभूतैः स्वे (पगे १३३)
आत्मनि देहादौ
नित्यप्रिये सति याः कुशला भवन्ति ताः किं त्वयि रतिं कान्तभावं कुर्वन्ति
अपि तु नैवेत्यर्थः । तत्तस्मात्नोऽस्मभ्यं प्रसीद इमं दुराग्रहं
त्यजेत्यर्थः । तत्र वरदेश्वरेति सोपलम्भं सम्बोधनम् । एष एव
वरोऽस्मभ्यं दीयतामिति बोधकम् ।

तदेव व्यञ्जयन्ति त्वयि चिराद्धृता अवस्थिता या आशा तृष्णा तां व्याप्य
वयं मा स्म मा भवाम । तस्यां त्वन्मनःस्थितायां तृष्णायां वयम्
उदासीना एव भवाम इत्यर्थः । ततस्तां छिन्द्या इति । अरविन्दनेत्रेति ।
एतादृशेऽपि नेत्रे कौटिल्यं न युक्तमिति भावः । मा स्मेत्यस्तेर्मायोगे
लङि रूपम् ।

आशायाः कर्मत्वं च गोदोहमस्तीतिवत् । श्रवणाद्दर्शनादित्यादिसूचितं
निजभावजन्मापलपन्ति चित्तम् [भागवतम् १०.२९.३४] इति । नोऽस्माकं चित्तं सुख
एव वर्तते न तु भवता तस्मादपहृतम् । यस्माग्गृहेषु निर्विशति । तत्र
चिह्नं करावपि गृहकृत्यार्थं निर्विशत इति । यदुक्तं सुमध्यमा इति
तत्राहुः पादौ कथं तव पादमूलात्पदमपि न चलतः । ततः कथं
व्रजं न यामः, अपि तु याम एवेत्यर्थः । यत्तूक्तं व्रजं प्रति न यात
किं त्विहैव स्थीयतामिति तत्राहुः करवाम किं वेति ।

अगृहान् प्रतियातेति सतृष्णं यदुक्तं तत्राहुः सिञ्च [भागवतम् १०.२९.३५] इति । अङ्ग,
हे कामुक, नोऽस्माकं स्वाभाविकाथासावलोककसहितात्कलगीताज्जातो यस्
तव हृच्छयाग्निस्तं त्वद्अधरामृतपूरकेणैव सिञ्च । अस्मदीयस्य तस्य
कथञ्चिदप्राप्यत्वादिति । अन्योऽपि रसलुब्धो लोभ्यवस्तुनोऽप्राप्तौ
निजौष्ठमेव लेढीति नर्म च व्यञ्जितम् ।

तत्र हेतुमाह नो इति । धत्ते पदं त्वमविता यदि विघ्नमूर्ध्नि [भागवतम्
१०.४.१०] इत्य्आदिवतत्र चेच्छब्दोऽपि निश्चये । ततश्च यस्मात्निश्चितमेव
वयं ते तव विरहजाग्न्य्उपयुक्तदेहा नो भवामः । ततो ध्याने विषयेऽपि
तव पदयोः पदवीमपि न यामः न स्पृशामः । सखे इति सम्बोध्य
प्राचीनमिथोबाल्यक्रीडागतसौहृद्यप्रकटनेन निजवचस आर्जवं
प्रकटितवत्यः ।

ननु सख्येन बाल्यक्रीडायामपि स्पर्शादिकं जातमेवास्ति तर्हि कथम्
अहो इदानीमुदासीनाः स्थ । तत्राहुः यर्हि [भागवतम् १०.२९.३६] इति । हे अम्बुजाक्ष
अरण्यजनाः पशुपक्ष्य्आदयस्तेषां प्रियस्य बाल्यभावेन तैरेव कृत
मैत्रस्य तव यर्हि यदा क्वचिदपि रमाया रमण्या दत्तावसरं पाद
तलं जातं, तद्अनुगतावुन्मुखं बभूवेत्यर्थः । तत्प्रभृत्येव वयं
तदपि नास्प्राक्ष्म न स्पृष्टवत्यः । किमुतान्यदङ्गम् । तदेवं निज
दाढ्येनैव पूर्वं त्वयाभिरमिताः कारितबाल्यक्रीडा अपि वयमधुना
अञ्जसः अनायासेन अन्येषां गुरुजनादीनां समक्षं स्थातुं पारयामः ।
बतेति शङ्कायाम् । अन्यथा तैरपि त्यज्येमहीति भावः ।

अथ प्रीयन्ते मयि जन्तवः इत्यत्र कामिन्यो यूयं कान्तभावात्मकमेव
स्नेहं कर्तुमर्हथेति यदभिप्रेतं तत्र लक्ष्म्य्आदिरूपमुदाहरणम्
आशङ्क्य परिहरन्ति श्रीर्[भागवतम् १०.२९.३७] इति । श्रीरपि वक्षसि तथा प्रसिद्धेः
श्रीविष्णोरुरसि पदं लब्ध्वापि यस्य तव श्रीगोकुलवृन्दावनस्थितं
पदाम्बुजरजस्तुलस्या वृन्दया सह चकमे । त्वज्जन्मत आरभ्य
नन्दस्य व्रजो रमाक्रीडो बभूवेति तुलसीलक्षणरूपान्तरा वृन्दादेवी
वृन्दावने नित्यवासमकरोदिति च मुनिजनप्रसिद्धेः । कथम्भूतम्
अपि रजश्चकमे । भृत्यैर्व्रजसम्बन्धिभिर्जुष्टं शिरो
धारणादिनोपभुक्तमपि । सा तु कीदृङ्महिमापि । यस्याः स्वविषयक
(पगे १३४) कृपावीक्षणे उत अपि । अन्यसुराणां तत्पार्षदादीनामपि
प्रयासस्तादृशमहिमापि । वयं चेति चशब्दः काकुसूचकस्यापिशब्दस्य
समानार्थः । ततो यथा श्रीर्यथा च वृन्दा तद्वद्वयमपि मुघ्दाः
सत्यः तस्य तव पादरजः प्रपन्नाः अपि तु नैवेत्यर्थः ।

प्राक्तनं वाक्यं निगमयन्ति तन्नः [भागवतम् १०.२९.३८] इति । वृजिनार्दनेति
कर्मण्यनेव । हे सर्वदुःखनिवारक, ततस्तस्मात्नोऽस्मान् प्रति
प्रसीद इमां दुर्दृष्टिं त्यजेत्यर्थः । ननु यूयमपि गृहादि
त्यागेनात्रागत्य तद्वदेव मत्पादरजः प्रपन्नाः तत्राहुः न तेऽङ्घ्रि
मूलमिति । तद्वदसतोर्विसृज्य त्वद्उपासनाशाः सत्यस्तवाङ्घ्रिमूलं न
प्राप्ता अपि तु कौतुकेनैव ज्योत्स्नायां वृन्दावनदर्शनार्थमागता इत्य्
अर्थः । अतस्त्वदीयतादृशनिरीक्षणजाततीव्रकामेन
तप्तात्मानो यास्तासामेव दास्यं देहि न तु मादृशीनाम् । अत्र षष्ठी
चात्यन्तदानाभावे सम्प्रदानत्वं न भवतीति विवक्षया । अतस्तदपि
दानं गोकुलेऽस्मिन्नातिस्थिरीभविष्यतीति भावः ।

पुरुषभूषणेति सम्बोधनं च श्लिष्टम् । पुरुषान् गोकुलगतान् सखि
जनानेव भूषयति न त्वद्यापि गोकुलरमणीं काञ्चिदपि । अतस्तादृश
तप्तात्मानोऽपि नायिकाः कल्पनामात्रमय्य इति भावः । अत्र
भावान्तरेणागतिसूचनात्दृष्टं वनं कुसुमितम् [भागवतम् १०.२९.२१] इत्यनेन
तद्भावोद्दीपनमपि नादृतम् ।

अथ श्रवणाद्[भागवतम् १०.२९.२७] इत्यादौ दर्शनान्मयि भावः इत्यनेन यन्
निजसौन्दर्यबलं दर्शितं तत्राहुः वीक्ष्य [भागवतम् १०.२९.३९] इति । अत्राप्य्
अन्त्यश्चशब्दः काक्वाम् । पूर्वस्तु तत्तद्उक्तसमुच्चये । एतदपि एतच्
चापि विलोक्य दास्यो भवाम, अपि तु न सर्वथैव इत्यर्थः ।

ननु यद्येवं दृढव्रता भवत तर्हि कथमिहैव सर्वां रात्रिं न
तिष्ठथेत्याशङ्क्य पुनः सशङ्कमाहुः का स्त्र्यङ्ग ते [भागवतम् १०.२९.४०]
इति । यद्यप्येव तथापि अङ्ग हे कलपदायतवेणुगीत, हे सम्मोहित
सम्मोहनाख्यकामबाणमोहित, त्रिलोक्यामेषा का स्त्री या ते त्वत्तः
सकाशातार्यचरितात्सद्आचाराद्धेतोरपि न चलेत् । अस्त्वस्माकं परम
साधुमर्यादाव्रतानां दूरतो वार्ता ।

तदेवं ततश्चलने हेतुं सम्बोधनद्वयेन गुणगतं भावगतं च
तदीयं दोषमुक्त्वा रूपगतं चाहुः त्रैलोक्येति । तथा आर्यचरितादेव
हेतोरिदं च रूपं विलोक्य का न चलेत् । यत्यस्मात्गोद्विजेति । सुन्दरीणां
सुन्दरपरपुरुषनिकटस्थितिर्हि बाढं लोकविगानाय स्यादिति ।

रजन्येषा [भागवतम् १०.२९.१९] इत्यादौ इह वीरस्य मम सन्निधौ स्थेयमित्य्
अत्र बलाकारमप्याशङ्क्य सस्तुतिकमिव प्रार्थयन्ते व्यक्तं भवान्
[भागवतम् १०.२९.४१] इति । यस्मादीदृशो जातस्तस्माथे आर्तबन्धो धर्मच्युति
भयतोऽपि व्रजजनांस्त्रायमाण, किङ्करीणां गृहदासीनामपि भवद्
दर्शनजातकामतप्तेष्वपि स्तनेषु करपङ्कजं नो निधेहि नार्पय ।
अस्तु तावत्स्तनानां वार्ता तासां शिरःसु च मा निधेहि ।

तदेवं सति मादृशीनां तु सत्कुलजातानां परमसतीनां तत्तद्वार्तां
मनसापि न निधेहीति भावः । तदेवं श्रीकृष्णप्रार्थनाप्रत्याख्यान
रूपोऽर्थो व्याख्यातः । स्वयं दूत्यविशेषेण प्रार्थनारूपो व्यङ्गोऽर्थश्
च प्रायः प्रसिद्ध एव । तत्र धर्मशास्त्रोपदेशबलेन यत्पत्य्आदीनाम्
अनुवृत्तेर्नित्यत्वं श्रीभगवता स्थापितं ज्ञानशास्त्रमालम्ब्य तन्
निराकर्तुं प्रतिभावचलनेनैव तस्य परमात्मतत्त्वं कल्पयन्त्यः
सर्वोपदेशानां तद्अनुगतावेव तात्पर्यं स्थापयन्ति यत्पत्य्अपत्य [भागवतम्
१०.२९.३२] इति । एतत्स्वधर्मोपदेशवाक्यं सर्वोपदेश(पगे १३५)वाक्यानां
तात्पर्यास्पदे त्वय्येवास्तु । त्वद्भजन एव पर्यवस्यत्वित्यर्थः । कथम्
अहं तद्आस्पदम् । तत्राहुः त्वमात्मा परमात्मेति । ततः तमेतं
वेदानुवचनेन ब्राह्मणा विविदिषन्ति [Bआऊ ४.४.२२] इत्य्आदिशास्त्रबलेन
त्वमेव तद्आस्पदमित्यर्थः ।

अथ मम परमात्मत्वमपि कुतः ? तत्र सप्रतिभमाहुः किल
प्रसिद्धौ तनुभृतां प्रेष्ठः निरुपाधिप्रेमास्पदं बन्धुर्
निरुपाधिहितकारी च भवानिति । तच्च द्वयं परमात्मलक्षणत्वेन
आत्मनस्तु कामाय सर्वं प्रियं भवति [Bआऊ २.४.५] इत्यादिज्ञानशास्त्रे
प्रसिद्धम् । तस्मात्त्वमेव परमात्मेति सिद्धम् । तस्मात्त्वद्
उपासनोन्मुखानामस्माकं ब्राह्मणो निर्वेदमायात्, नास्त्यकृतः कृतेन
[ंुण्डकऊ १.२.१२] इति बलवत्तरज्ञानशास्त्रोपदेशेन स्वधर्म
परित्यागेऽपि न दोष इति भावः । तासां तद्ऐश्वर्यज्ञानं च तन्
माधुर्यानुभवातिशयेनोदेतुं न शक्नोतीति पूर्वमेव दर्शितम् । तत्र च
विशेषतः सद्आचारं प्रमाणयन्ति कुर्वन्ति हि [भागवतम् १०.२९.३३] इति । कुशलाः
सारासारविद्वंसः सन्तः । हि प्रसिद्धौ । विशेषत इत्यर्थः । स्व आत्मनि
परमात्मनीति पूर्वाभिप्रायेण । स्वे आत्मनि अन्तःकरणे नित्य
प्रियत्वेनानुभूयमानो यस्त्वं तस्मिंस्त्वयीत्यर्थः । इत्यभिप्रायेणवा ।
यस्मात्ते चैवम्भूते त्वय्येव रतिं कुर्वन्ति न तु धर्मादौ तद्धेतौ
गृहादौ वा ।

तस्मादस्माकं पत्य्आदिभिः किम् ? यर्ह्यम्बुजाक्ष [भागवतम् १०.२९.३६] इत्य्
आदिषु रमादिशब्दाः श्रीर्यत्पदाम्बुजेत्यादिवदेव व्याख्येयाः । इति
वाचिकानुभावेषु संलापव्याख्या ।

॥ १०.२९ ॥ श्रीशुकः ॥ ३३२ ॥

[३३३]

सन्देशस्तु प्रोषितस्य स्ववार्ताप्रेषणं भवेत्[ऊण्११.९३] । स यथा

हे नाथ हे रमानाथ व्रजनाथार्तिनाशन ।
मग्नमुद्धर गोविन्द गोकुलं वृजिनार्णवात् ॥ [भागवतम् १०.४७.५२]

[३३४]

अन्यार्थकथनं यत्तु सोऽपदेश इतीरितः [ऊण्११.९७] । स यथानिःस्वं
त्यजन्ति गणिकाः [भागवतम् १०.४७.७८] इत्यादि जारा भुक्ता रतां स्त्रियमित्यन्तम् ।
स्पष्टम् ।

॥ १०.४७ ॥ श्रीगोप्य उद्धवम् ॥ ३३४ ॥

[३३५]

यत्तु शिक्षार्थवचनमुपदेशः स उच्यते [ऊण्११.९९] । स यथा
बलदेवागमने

किं नस्तत्कथया गोप्यः कथाः कथयतापराः ।
यात्यस्माभिर्विना कालो यदि तस्य तथैव नः ॥ [भागवतम् १०.६५.१४]

स्पष्टम् ।

॥ १०.६५ ॥ ताः ॥ ३३५ ॥

[३३६]

व्याजेनात्माभिलाषोक्तिर्व्यपदेश इतीर्यते [ऊण्११.१०३] । स यथाकृष्णं
निरीक्ष्य [भागवतम् १०.२१.१२] इत्यादौ देव्यो विमानगतयः स्मरनुन्नसाराः इत्य्
आदि । स्पष्टम् ।

॥ १०.२१ ॥ ताः ॥ ३३६ ॥

[३३७]

एवं प्रलापानुलापापलापादिदेशनिर्देशा अपि पञ्च वाचिकेषु ज्ञेयाः । इत्य्
अनुभावाः । अथ व्यभिचारिणः । अत्र निर्वेदः सावमाने स्यात्चरणरज
उपास्ते यस्य भूतिर्वयं का [भागवतम् १०.४७.१५] इति । स्पष्टम् ।

॥ १०.४७ ॥ ताः ॥ ३३७ ॥

[३३८]

अनुतापो विषादकः अक्षण्वतां फलम् [भागवतम् १०.२१.७] इत्यादौ दृश्यः ।
दैन्यमौर्जित्यराहित्ये तन्नः प्रसीद वृजिनार्दन [भागवतम् १०.२९.३८] इत्यादि ।
स्पष्टम् ।

॥ १०.२१ ॥ ताः ॥ ३३८ ॥

[३३९]

ग्लानिर्निष्प्राणता मता [Bऋष्२.४.२६] काचिद्रासपरिश्रान्ता [भागवतम् १०.३३.१०] इत्य्
आदौ दर्शिता । स्वेदात्मा श्रमः तासां रतिविहारेण [भागवतम् १०.३३.२०] (पगे १३६)
इत्यादि ।

[३४०]

उल्लासे विवेकशमने मदः तद्अङ्गसङ्गप्रमदाकुलेन्द्रियाः [भागवतम्
१०.३३.१८] इत्यादि । स्पष्टम् ।

॥ १०.३३ ॥ श्रीशुकः ॥ ३४० ॥

[३४१]

अन्यस्य हेलने गर्वः । तस्याः स्युरच्युत नृपा भवतोपदिष्टाः [भागवतम्
१०.६०.४४] इत्यादि । स्पष्टम् ।

॥ १०.६० ॥ श्रीरुक्मिणी ॥ ३४१ ॥

[३४२]

शङ्का स्वानिष्ठतर्किते । अपि मय्यनवद्यात्मा दृष्ट्वा किञ्चिज्जुगुप्सितम्
[भागवतम् १०.५३.२४] इत्यादि । स्पष्टम् ।

॥ १०.५३ ॥ सा ॥ ३४२ ॥

[३४३]

त्रासो भिया मनःक्षोभे क्रोशन्तं कृष्ण रामेति विलोक्य स्वपरिग्रहम्
[भागवतम् १०.३४.२७] इति । स्पष्टम् ।

॥ १०.३४ ॥ श्रीशुकः ॥ ३४३ ॥

[३४४]

आवेगश्चित्तसम्भ्रमे दुहन्त्योऽभिययुः काश्चिद्दोहं हित्वा समुत्सुकाः
[भागवतम् १०.२९.५] इत्यादि । स्पष्टम् ।

॥ १०.२९ ॥ सः ॥ ३४४ ॥

[३४५]

उन्मादो हृदयभ्रान्तौ गायन्त्य उच्चैरमुमेव संहता [भागवतम् १०.३०.४]
इत्यादि । स्पष्टम् ।

॥ १०.३० ॥ सः ॥ ३४५ ॥

[३४६]

अपस्मारो मनोलये

मयि ताः प्रेयसां प्रेष्ठे दूरस्थे गोकुलस्त्रियः ।
स्मरन्त्योऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्यविह्वलाः ॥ [भागवतम् १०.४६.५]

[३४७]

व्याधिस्तत्प्रभवे भावे धारयन्त्यतिकृच्छ्रेण प्रायः प्राणान्
कथञ्चन [भागवतम् १०.४६.६] इति । स्पष्टम् ।

॥ १०.४६ ॥ श्रीभगवानुद्धवम् ॥ ३४६३४७ ॥

[३४८]

मोहो हृन्मूढतात्मनि । निजपदाब्जदलैः [भागवतम् १०.३५.१७] इत्यादौ, कुज
गतिं गमिता इत्यादि । स्पष्टम् ।

॥ १०.३५ ॥ श्रीगोप्यः ॥ ३४८ ॥
[३४९]

प्राणत्यागे मृतिः सास्मिन्नसिद्धवपुषां रतौ । अन्तर्गृहगताः काश्चित्
[भागवतम् १०.२९.९] इत्यादौ श्रीकृष्णसन्दर्भे व्याख्याता ।

अन्यत्र कृष्णकृत्येभ्यो बलिनः क्लेशशङ्कया ।
आलस्यमचिकीर्षायां कृत्रिमं तेषु चोज्ज्वले ॥

तत्र कृष्णकृत्येभ्योऽन्यत्र तद्यथातद्अङ्गसङ्ग इत्यादौ केशान्
दुकूलं कुचपट्टिकां वा । नाञ्जः तु प्रतिव्योढुमलं व्रजस्त्रियः [भागवतम्
१०.३३.१७] इति ।

॥ १०.३३ ॥ श्रीशुकः ॥ ३४९ ॥

[३५०]

अथोज्ज्वले कृष्णसहितविहारकृत्येषु च कृत्रिमं तद्यथा न पारयेऽहं
चलितुम् [भागवतम् १०.३०.३७] इत्यादि । स्पष्टम् ।

॥ १०.३० ॥ श्रीराधा ॥ ३५० ॥

[३५१]

जाड्यमप्रतिपत्तौ स्यात्

तमागतं समाज्ञाय वैदर्भी हृष्टमानसा ।
न पश्यन्ती ब्राह्मणाय प्रियमन्यन्ननाम सा ॥ [भागवतम् १०.५३.३१]

स्पष्टम् ।
॥ १०.५३ ॥ श्रीशुकः ॥ ३५१ ॥

[३५२]

व्रीडेत्याहु अधृष्टताम् ।

पत्युर्बलं शरासारैश्छन्नं वीक्ष्य सुमध्यमा ।
सव्रीडमैक्षत्तद्वक्त्रं भयविह्वललोचना ॥ [भागवतम् १०.५४.४]

इदं भावसाङ्कार्येऽप्युदाहार्यम् ।

॥ १०.५४ ॥ सः ॥ ३५२ ॥

[३५३]

अवहित्ताकारगुप्तौ । सभाजयित्वा तमनङ्गदीपनम् [भागवतम् १०.३२.१५] इत्य्
आदि । अत्र सम्भाजनादिना कोपाच्छादनम् ।

॥ १०.३२ ॥ सः ॥ ३५३ ॥
(पगे १३७)
[३५४]

स्मृतिः प्राग्ज्ञातचिन्तने
ताः किं निशाः स्मरति यासु तदा प्रियाभिर्
वृन्दावने कुमुदकुन्दशशाङ्करम्ये । [भागवतम् १०.४७.४३] इत्यादौ दर्शिता ।

अहो वितर्क इत्युक्तः न लक्ष्यन्ते पदान्यत्र [भागवतम् १०.३०.३१] इत्यादि ।

॥ १०.३० ॥ श्रीगोप्यः ॥ ३५४ ॥

[३५५]

ध्यानं चिन्तेति भण्यते कृत्वा मुखान्यवशुचः [भागवतम् १०.२९.२९] इत्यादि ।
स्पष्टम् ।

॥ १०.२९ ॥ श्रीशुकः ॥ ३५५ ॥

[३५६]

मतिः स्यादर्थनिर्धारे

त्वं न्यस्तदण्डमुनिभिर्गदितानुभाव
आत्मात्मदश्च जगतामिति मे वृतोऽसि । [भागवतम् १०.६०.३९] इति । स्पष्टम् ।

॥ १०.६० ॥ श्रीरुक्मिणी ॥ ३५६ ॥

[३५७]

औत्सुक्यं समयाक्षमा निशम्य गीतं तद्अनङ्गवर्धनम् [भागवतम् १०.२९.४]
इत्यादि । स्पष्टम् ।

॥ १०.२९ ॥ श्रीशुकः ॥ ३५७ ॥

[३५८]
औग्र्यं चान्त्ये कृत्रिमं क्वापि । यथा क्रूरस्त्वमक्रूरः [भागवतम् १०.३९.२१] इत्य्
आदौ । तच्च क्वापि कृत्रिमं, यथा देहि वासांसि धर्मज्ञ नो चेद्राज्ञे
ब्रुवामहे [भागवतम् १०.२२.१५] इति । स्पष्टम् ।

॥ १०.२२ ॥ श्रीव्रजकुमार्यः ॥ ३५८ ॥

[३५९]

अमर्षस्त्वसहिष्णुता । पतिसुतान्वय [भागवतम् १०.३१.१६] इत्यादौ कितव योषितः
कस्त्यजेन्निशि ॥ इति । स्पष्टम् ।

॥ १०.३१ ॥ श्रीगोप्यः ॥ ३५९ ॥

[३६०]

असूयान्योदयद्वेषे तस्या अमूनि नः क्षोभम् [भागवतम् १०.३०.३०] इत्यादौ ।

चापल्यं चित्तलाघवे श्वो भाविनि त्वमजितोद्वहने [भागवतम् १०.५२.४१] इत्यादौ
मां राक्षसेन विधिनोद्वह वीर्यशुल्कामिति । स्पष्टम् ।

॥ १०.५२ ॥ श्रीरुक्मिणी ॥ ३६० ॥

[३६१]

चेतोनिमीलने निद्रा

एवं चिन्तयती बाला गोविन्दहृतमानसा ।
न्यमीलयत कालज्ञा नेत्रे चाश्रुकलाकुले ॥ [भागवतम् १०.५३.२६]

स्वप्नः सुप्तिरितीर्यते । एष च ऊषादृष्टान्तेनानुमेयः । बोधो निद्रादि
विच्छेद इति त्रिंशत्त्रयाधिकाःन्यमीलयत कालज्ञा नेत्रे इत्यनन्तरम् ।

[३६२]

एवं वध्वाः प्रतीक्षन्त्या गोविन्दागमनं नृप ।
वाम ऊरुर्भुजो नेत्रमस्फुरन् प्रियभाषिणः ॥ [भागवतम् १०.५३.२७]

तेन स्फुरणेन जजागारेत्यर्थः ।

॥ १०.५३ ॥ श्रीशुकः ॥ ३६१३६२ ॥

[३६३]

अथ कान्ताभावः स्थायी । तस्य च हेतुद्वयम् । श्रीकृष्णस्वभावो
वामाविशेषस्वभावश्चेति । प्रथमो, यथा कान्यं श्रयीत तव पाद
सरोजगन्धमाघ्राय [भागवतम् १०.६०.४२] इत्यादिषु ।

[३६४]

उत्तरो, यथा

नैवालीकमहं मन्ये वचस्ते मधुसूदन ।
अम्बाया एव हि प्रायः कन्यायाः स्याद्रतिः क्वचित् ॥
व्यूढायाश्चापि पुंश्चल्या मनोऽभ्येति नवं नवम् ।
बुधोऽसतीं न बिभृयात्तां बिभ्रदुभयच्युतः ॥ [भागवतम् १०.६०.४७४८] इति ।

यद्भवतोक्तमथात्मनोऽनुरूपम् [भागवतम् १०.६०.१७] इत्यादिकं तत्तव वाक्यं
स्त्रीजातौ प्रायो नानृतं मन्ये । यत अम्बाया यथा क्वचिदेकत्र साल्व एव
रतिर्जाता तथान्यस्याः कन्याया एकत्र रतिः प्रायः एव स्यात् । न तु
नियमेन । किं च व्यूढाया अपि इति । यद्वा कन्याया अपि क्वचिदेकत्र रतिः
स्यात् । प्राय इति साध्व्या एवेत्यर्थः । तत्र दृष्टान्तः अम्बाया (पगे १३८)
इवेति । पुंश्चल्यास्तु व्यूढाया अपि मनो अवं नवमभ्येति । तस्मात्परम
पुण्यशीलाया एव त्वयि स्वभावतो रतिर्भवेदिति भावः ।

॥ १०.६० ॥ श्रीरुक्मिणी ॥ ३६४ ॥

[३६५]

एष च स्थायी साक्षाद्उपभोगात्मकस्तद्अनुमोदनात्मकश्चेति द्विविधः ।
पूर्वः साक्षान्नायिकानाम् । उत्तरः सखीनाम् । उभयव्यपदेशानाम्
उभावपि । तत्रोपभोगात्मकः स सामान्यतो यथाव्कृष्णं निरीक्ष्य
वनितोत्सवरूपशीलम् [भागवतम् १०.२१.१२] इति । स्पष्टम् ।

॥ १०.२१ ॥ श्रीगोप्यः ॥ ३६५ ॥

[३६६]

स एव पुनः सम्भोगेच्छानिदानः सैरिन्ध्र्य्आदौ यथा सहोष्यतामिह
प्रेष्ठ [भागवतम् १०.४८.९] इत्यादि । स्पष्टम् ।

॥ १०.४८ ॥ सैव ॥ ३६६ ॥

[३६७]

क्वचिद्भेदितसम्भोगेच्छः पट्टमहिषीषु यथा, स्मायावलोकलव
दर्शित [भागवतम् १०.६१.४] इत्यादिषु । स्वरूपाभिन्नसम्भोगेच्छः श्रीव्रज
देवीषु, यथा यत्ते सुजातचरणाम्बुरुहं [भागवतम् १०.३१.१९] इत्यादिषु । आसां
चैष स्वाभाविक एव । अतएव स्वपरित्यागजातेर्षया दोषं कल्पयित्वापि तत्
परित्यागासामर्थ्योक्तिः । यथा मृगयुरिव कपीन्द्रम् [भागवतम् १०.४७.१७] इत्य्
आदौ दुस्त्यजस्तत्कथार्थः इति ।

एष चासु बहुभेदो वर्तते । एकत्र भावे खलु मिथुनस्य मिथ आदर
विशेषः । तत्र प्रेयसीनां त्वदीयत्वाभिमानातिशयेन कान्तं प्रति
पारतन्त्र्यविनयस्तुतिदाक्षिण्यप्राचुर्यम् । अन्यत्र मदीयत्वातिशयः ।
यत्र परतन्त्रकान्ततयान्तर्मर्मज्ञतानर्मकौटिल्याभास
प्राचुर्यम् । एतद्युगलस्य च भेदस्य बह्व्अंशस्वल्पांशतत्साङ्कर्य
भेदेनापरासु च बहुविध इति ।

एते च भावा यथोक्ताः
काचित्कराम्बुजं शौरेर्जगृहेऽञ्जलिनां मुदा ।
काचिद्दधार तद्बाहुमंसे चन्दनरूषितम् ॥
काचिदञ्जलिनागृहात्तन्वी ताम्बूलचर्वितम् ।
एका तद्अङ्घ्रिकमलं सन्तप्ता स्तनयोरधात् ॥
एका भ्रूकुटिमाबद्ध्य प्रेमसंरम्भविह्वला ।
घ्नतीवैक्षत्सन्दष्टदशनच्छदा ॥
अपरानिमिषद्दृग्भ्यां जुषाणा तन्मुखाम्बुजम् ।
आपीतमपि नातृप्यत्सन्तस्तच्चरणं यथा ॥
तं काचिन्नेत्ररन्ध्रेण हृदिकृत्य निमील्य च ।
पुलकाङ्गुल्युपगुह्यास्ते योगीवानन्दसम्प्लुता ॥
सर्वास्ताः केशवालोकपरमोत्सवनिर्वृताः ।
जहुर्विरहजं तापं प्राज्ञं प्राप्य यथा जनाः ॥ [भागवतम् १०.३२.४९]

अत्रादरविशेष्मयप्राग्उक्तभावा काचित्कराम्बुजमित्यत्र
प्रथमोक्ता । इयं च सर्वाग्रस्थितत्वादादौ वर्ण्यते । ततो ज्येष्ठेति
गम्यते । ततश्च सर्वादौ तयैव मिलनं कृष्णस्य । तथा तस्यामेव श्री
कृष्णस्याप्यादरातिशयोऽवगम्यते । एवं तथाञ्जलिना करग्रहणात्तस्या
अपि तस्मिन्नादरो व्यक्तः । तत्पारतन्त्र्यादिकमपि । मध्यस्थितत्वं
चास्याः । ततः साध्वेवेदं प्रथमोदाहरणम् ।

अथ मदीयत्वातिशयमयद्वितीयोदाहरणम् । एका भ्रूकुटिमाबध्य
इत्यादि । एषा खलु मध्यतो वर्णनया मध्यस्थितेत्यवगम्यते । मध्य
स्थितत्वं चास्याः परमदुर्लभतां व्यनक्ति । ततो भावविशेषधारिता
चास्या गम्यते । तस्य साक्षात्प्रत्यायकं च मदीयत्वातिशयादिबोधक
भ्रूभङ्ग्य्आदिकमेवास्ति । इयं च श्रीराधैव ज्ञेया ।

ईदृश एव भावोऽस्याः कार्त्तिकप्रसङ्गे व्रतरत्नाकरधृतभविष्य
वचने दृश्यते

तस्मिन् दिने च भगवान् रात्रौ राधागृहं ययौ ।
सा च क्रुद्धा तमुदरे काञ्चीदाम्ना बबन्ध ह ॥
कृष्णस्तु सर्वमावेद्य निजगेहमहोत्सवम् ।
प्रियां प्रसादयामास ततः (पगे १३९) सा तमवोचयत् ॥ इति ।

ततः सिद्धे च तस्या भावस्य तादृशत्वे यथा राधा प्रिया इत्यादि पाद्मादि
वचनानुसारेण अनयाराधितो नूनं [भागवतम् १०.३०.२८] इत्याद्य्अनुसारेण च तन्
माहात्म्यात्तादृशभावमाहात्म्यमेव स्फुटमुपलभ्यते ।
द्वारकायामेतद्अनुगतभावत्वेनैव श्रीसत्यभामापि सर्वतः
प्रशस्ता । तत्र भावसादृश्यं सर्वतः प्रशस्तत्वं च यथा श्रीविष्णु
पुराणे

यदि ते तद्वचः सत्यं सत्यात्यर्थं प्रियेति मे ।
मद्गेहनिस्फुटार्थाय तदायं नीयतां तरुः ॥ [Vइড়् ५.३०.३३] इति ।

पाद्मकार्त्तिकमाहात्म्ये श्रीकृष्णवाक्यं च यथा न मे त्वत्तः
प्रियतमा इत्यादि । श्रीहरिवंशे वैशम्पायनवचनं च तन्निर्धारकम्
 सौभाग्ये चाधिकाभवदिति ।

अथ या च पूर्वभावोपलक्षिता सापि तद्भावविरोधिभावत्वेन तत्
प्रतिपक्षनायिका स्यात् । चन्द्रावल्येव सेति च प्रसिद्धम् । तथोक्तं श्री
बिल्वमङ्गलेन

राधामोहनमन्दिरादुपागतश्चन्द्रावलीमूचिवान्
राधे क्षेममयेति तस्य वचनं श्रुत्वाह चन्द्रावली ।
कंस क्षेममये विमुग्धहृदये कंसः क्व दृष्टस्त्वया
राधा क्वेति विलज्जितो नतमुखस्मेरो हरिः पातु वः ॥ इति ।

अत्र चन्द्रावल्याः सदृशभावा काचिदञ्जलिनेत्यादिना वर्णिता । एका तद्
अङ्घ्रिकमलमित्यादिना च । एते तत्सख्यौ पद्माशैव्ये इत्यभियुक्त
सिद्धिः । श्रीराधायाः सदृशभावा च । अपरिनिमिषद्दृग्भ्यामित्यादिना
वर्णिता । तं काचिद्[भागवतम् १०.३२.८] इत्यादिना च । मदीयोऽसौ स्वयमेव माम्
अनुभविष्यतीति स्वयं ग्राहस्पर्शाद्य्अभावेन वाम्यस्पर्शात् ।

ततश्चैते तत्सख्यौ । एते च प्रायस्तत्सनामत्वात् । तद्अनुगततया
पाठाच्चानुराधाविशाखे भवेताम् । ये खलु विशाखा ध्याननिष्ठिका
इति, राधानुराधा इति भविष्योत्तरपठिते तत्रानुराधैव ललितेत्य्
अभियुक्तप्रसिद्धिः । सङ्करभावा च काचिद्दधार [भागवतम् १०.३२.४] इत्य्
आदिनोक्ता । तद्बाहोरंसे धारणेन पूर्वस्या दाक्षिण्यांशेन साम्यात् ।
उत्तरस्या एषा खलु श्यामलेत्यभियुक्तप्रसिद्धिः । अत्राष्टमी च विष्णु
पुराणोक्ता यथा

काचिदायान्तमालोक्य गोविन्दमतिहर्षिता ।
कृष्ण कृष्णेति कृष्णेति प्राह नान्यदुदीरितम् ॥ [Vइড়् ५.१३.४४] इति ।

अस्या नातिस्फुटभावत्वात्ताटस्थ्यम् । एषा च भद्रेत्यभियुक्त
प्रसिद्धिः । तेषां भावानां परमानन्दैकरूपत्वं दर्शयति सर्वा [भागवतम्
१०.३२.९] इति ।

॥ १०.३२ ॥ श्रीशुकः ॥ ३६७॥

[३६८]

अथानुमोदनात्मके कान्तभावे साध्ये तत्सम्भावनार्थं तदीय
लेशानुमोदनमात्रस्योदाहरणं यथा

अस्यैव भार्या भवितुं रुक्मिण्यर्हति नापरा ।
असावप्यनवद्यात्मा भैष्म्याः समुचितः पतिः ॥
किञ्चित्सुचरितं यन्नस्तेन तुष्टस्त्रिलोककृत् ।
अनुगृह्णातु गृह्णातु वैदर्भ्याः पाणिमच्युतः ॥
एवं प्रेमकलाबद्धा वदन्ति स्म पुरौकसः । [भागवतम् १०.५३.३७३९]

अत्र नानावासनजनानामेषां हृदि तत्तन्नानाविलासमयस्य कान्त
भावस्य पूर्णस्वरूपस्पर्शायोग्यत्वात्कथञ्चित्तद्दाम्पत्यस्थिति
मात्रलक्षणस्य तदीयसामान्यांशस्यैवानुमोदनमात्रं जातम् । अतएव
प्रेमकलाबद्धा इत्युक्तम् । प्रेम्नः कान्तभावस्य या कला कोऽपि लेशस्
तेन बद्धास्तद्अनुमोदनसुखानुकूला इत्यर्थः । तत एवं यस्य
कलयापि विषमभावानाम् (पगे १४०) अपि सर्वेषां पुरौकसां तथा चित्त
वृन्दमुल्लासितम्, यथा युगपदैकमत्यमेव सर्वभावातिक्रमेण
सर्वेषां जातम् । स एव यत्र भावराकाधीशः स्वयमुदयते तच्चित्तानां
तादृश उल्लासस्तु परात्पर एव स्यादिति भावः ।

[३६९]

अथ साक्षात्तद्अनुमोदनात्मकपूर्णकान्तभावस्योदाहरणमाह

अप्येणपत्न्युपगतः प्रिययेह गात्रैस्
तन्वन् दृशां सखि सुनिर्वृतिमच्युतो वः ।
कान्ताङ्गसङ्गकुचकुङ्कुमरञ्जितायाः
कुन्दस्रजः कुलपतेरिह वाति गन्धः ॥

बाहुं प्रियांस उपधाय गृहीतपद्मो
रामानुजस्तुलसिकालिकुलैर्मदान्धैः ।
अन्वीयमान इह वस्तरवः प्रणामं
किं वाभिनन्दति चरन् प्रणयावलोकैः ॥ [भागवतम् १०.३०.१११२]

एणपत्नि एणत्वप्रयोगेण हे प्रशस्तनेत्रे पत्नीत्वप्रयोगेण बुद्ध्या तु
हे मादृशमानुषीतुल्ये इत्यर्थः । तत्रापि हे सखि, वक्ष्यमाण
सौभाग्यभरेण हे लब्धमद्विधसख्ये, प्रियया सह अच्युतः श्री
कृष्णः । श्लेषेण तस्याः सकाशादविश्लिष्टः सन् गात्रैरुभयोः परस्परम्
आसङ्गेन शोभाविशेषं प्राप्तैरङ्गैः कृत्वा वस्त्वादृशीनां दृशां
नेत्राणां सुनिर्वृतिं केवलश्रीकृष्णदर्शनजानन्दादपि अतिशयितम्
आनन्दं तन्वन् विस्तारयनुत्तरोत्तरमुत्कर्षयनपि किमुपगतः युष्मत्
समीपं प्राप्तोऽभूत् ।

ननु कथमिदं भवतीभिरनुमितमित्याशङ्क्यानुमानलिङ्गं तन्
मिथुनश्लाघागर्भवचनेनाहुः कान्तेति । कुलपतेर्व्रजनाथवंश
तिलकस्य या कुन्दस्रक्तस्या गन्धः सौरभ्यमिह वाति वायुसङ्गेन
प्रसरति । कथम्भूतायाः स्रजः । कान्ता सर्वसाद्गुण्येन तस्यापि
लालसास्पदरूपा या स्यात्तस्या अङ्गसङ्गे कुचकुङ्कुमेन रञ्जितायाः ।
अतः सन्ततपरिचयविशेषेण तत्तत्सौरभ्यविशेषस्यात्रास्माभिर्
अवधारितत्वात्भवतीनामत्र चरन्तीनां समीपं प्राप्त एवासौ तया युत
इत्यर्थः ।

अथ तां तद्दर्शनजातेन हर्षेण सम्प्रति तद्वियोगजातेन दुःखेन च
स्थगितवचनमाशङ्क्य तेन च तयोः सङ्गममेव निर्धार्य
परमानन्देन तद्अवसरोचितं तदीयविलासविशेषं वर्णयन्त्यस्तत्र
पुष्पादिभरनम्राणां तरूणामपि तदीयसौविदल्लादिभृत्यविशेष
भावेन तन्नमस्कारमुत्प्रेक्ष्य पुनस्तेषामेव तत्सन्निधिजन्य
सौभाग्यविशेषं तान् प्रत्येव पृच्छन्त्यस्तयोस्तादृशविलासावेशातिशयम्
आहुः बाहुं प्रियांस इति । अन्वीयमानः अनुगम्यमानः । परस्परं
प्रणयावलोकैश्चरन् क्रीडन् । इह वो युष्माकं प्रणामं किं वाभिनन्दति
सादरं गृह्णाति । अपि तु विलासाविष्टस्य तस्य तद्अभिनन्दनं न
सम्भावयाम इत्यर्थः ।

॥ १०.३० ॥ श्रीराधासख्यः ॥ ३६९ ॥

[३७०]

तदेवमालम्बनादिस्थाय्य्अन्तर्भावसंवलनं चमत्कारावहतया
उज्ज्वलाख्यो रसः स्यात् । तस्य च भवेद्द्वयं विप्रलम्भः सम्भोगश्चेति ।
तत्र विप्रलम्भो विप्रकर्षेण लम्भः प्राप्तिर्यस्य स तथा । यथोक्तम्

यूनोरयुक्तयोर्भावो युक्तयोर्वा तयोर्मिथः ।
अभीष्टालिङ्गनादीनामनवाप्तौ प्रकृष्यते ।
स विप्रलम्भो विज्ञेयः सम्भोगोन्नतिकारकः ॥ [ऊण्१५.२] इति ।

तदुन्नतिकारकत्वमन्यत्र चोक्तम्
न विना विप्रलम्भेन सम्भोगः पुष्टिमश्नुते ।
काषायिते हि वस्त्रादौ भूयानेवाभिवर्धते ॥ [ऊण्१५.३]

यदुक्तं स्वयं कृष्णेन नाहं तु सख्यो भजतोऽपि जन्तून् [भागवतम् १०.३३.२०]
इत्यादि । अन्यत्र च

यत्त्वहं भवतीनां वै दूरे (पगे १४१) वर्ते प्रियो दृशाम् ।
मनसः सन्निकर्षार्थं मद्अनुध्यानकाम्यया ॥
यथा दूरचरे प्रेष्ठे मन आविश्य वर्तते ।
स्त्रीणां च न तथा चेतः सन्निकृष्टेऽक्षिगोचरे ॥ [भागवतम् १०.४७.३४३५] इति ।

तस्य विप्रलम्भस्य चत्वारो भेदाः पूर्वरागो मानः प्रेमवैचित्त्यं
प्रवासश्चेति । अथ सम्भोगश्च यूनोः सङ्गतयोः सम्बद्धतया भोगो
यत्र स भाव उच्यते । यथोक्तम्

दर्शनालिङ्गनादीनामानुकूल्यान्निषेवया ।
यूनोरुल्लासमारोहन् भावः सम्भोग उच्यते ॥ [ऊण्१५.१८८] इति ।

स च पूर्वरागानन्तरज इत्यादिसंज्ञया चतुर्विधः ।

तत्र पूर्वरागः ।
रतिर्या सङ्गमात्पूर्वं दर्शनश्रवणादिजा ।
तयोरुन्मीलति प्राज्ञैः पूर्वरागः स उच्यते ॥ [ऊण्१५.५]

स च पट्टमहिषीषु श्रीरुक्मिण्या यथा

सोपश्रुत्य मुकुन्दस्य रूपवीर्यगुणश्रियः ।
गृहागतैर्गीयमानास्तं मेने सदृशं पतिम् ॥ [भागवतम् १०.५२.२३] इत्यादि ।
स्पष्टम् ।

॥ १०.५२ ॥ श्रीशुकः ॥ ३७० ॥

[३७१]

अथ व्रजदेवीनाम् । तत्र यदासां क्वचिद्बाल्येऽपि सम्भोगो वर्ण्यते तत्
खलु औपपतिकभाववतीनां तासां मध्ये कासाञ्चिन्निमित्तविशेषं
प्राप्य कदाचित्कदाचित्तद्भावाविर्भावप्रभावेण कैशोराविर्भावात्
सङ्गच्छते । यथा भविष्ये कार्त्तिकप्रसङ्गे बाल्येऽपि भगवान् कृष्णः
कैशोरं रूपमाश्रितः इत्यादिनोक्तम् । अन्यदा तद्आच्छादने सति तत्
कैशोरादिकमाच्चन्नमेव तिष्ठति । तस्माद्भावादीनाम्
अविच्छेदाभावान्नातिरसाधायकत्वमिति नात्रोट्टङ्क्यते ।

अथ महातेजस्वितया ष्ष्ठवर्षमेवारभ्य कैशोराविर्भावविच्छेदे सति
तासामपि पुनः पूर्वरागो जायते । ततोऽन्यासां तु सुतरां स तूदाह्रियते ।
यथा

आश्लिष्य समशीतोष्णं प्रसूनवनमारुतम् ।
जनास्तापं जहुर्गोप्यो न कृष्णहृतचेतसः ॥ [भागवतम् १०.२०.४५]

गोप्यस्तु न जहुः । तत्र हेतुः कृष्णेति । विरहे प्रत्युत तापकरत्वादिति
भावः ।

॥ १०.२० ॥ श्रीशुकः ॥ ३७१ ॥

[३७२]

तद्विवरणं च

इत्थं शरत्स्वच्छजलं पद्माकरसुगन्धिना ।
न्यविशद्वायुना वातं सगोगोपालकोऽच्युतः ॥
कुसुमित वनराजिशुष्मिभृङ्ग
द्विजकुलघुष्टसरःसरिन्महीध्रम् ।
मधुपतिरवगाह्य चारयन् गाः
सहपशुपालबलश्चुकूज वेणुम् ॥
तद्व्रजस्त्रिय आकर्ण्य वेणुगीतं स्मरोदयम् ।
काश्चित्परोक्षं कृष्णस्य स्वसखीभ्योऽन्ववर्णयन् ॥
तद्वर्णयितुमारब्धाः स्मरन्त्यः कृष्णचेष्टितम् ।
नाशकन् स्मरवेगेन विक्षिप्तमनसो नृप ॥
बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं
बिभ्रद्वासः कनककपिशं वैजयन्तीं च मालाम् ।
रन्ध्रान् वेणोरधरसुधया पूरयन् गोपवृन्दैर्
वृन्दारण्यं स्वपदरमणं प्राविशद्गीतकीर्तिः ॥
इति वेणुरवं राजन् सर्वभूतमनोहरम् ।
श्रुत्वा व्रजस्त्रियः सर्वा वर्णयन्त्योऽभिरेमिरे ॥
अक्षण्वतां फलमिदं न परं विदामः
सख्यः पशूननुविवेशतयोर्वयस्यैः ।
वक्त्रं व्रजेशसुतयोरनुवेणुजुष्टं
यैर्वा निपीतमनुरक्तकटाक्षमोक्षम् ॥
चूतप्रवालबर्हस्तवकोत्पलाब्ज
मालानुपृक्तपरिधानविचित्रवेशौ ।
मध्ये विरेजतुरलं पशुपालगोष्ठ्यां
रङ्गे यथा नटवरौ क्व च गायमानौ ॥
गोप्यः किमाचरदयं कुशलं स्म वेणुर्
दामोदराधर(पगे १४२) सुधामपि गोपिकानाम् ।
भुङ्क्ते स्वयं यदवशिष्टरसं ह्रदिन्यो
हृष्यत्त्वचोऽश्रु मुमुचुस्तरवो यथार्याः ॥ [भागवतम् १०.२१.१९]

तथा वृन्दावनं सखि भुवो वितनोति कीर्तिम् [भागवतम् १०.२१.१०] इत्यादि । धन्याः
स्म मूढमतयोऽपि हरिण्य एता [भागवतम् १०.२१.११] इत्यादि । कृष्णं निरीक्ष्य
[भागवतम् १०.२१.१२] इत्यादि । गावश्च कृष्णमुख [भागवतम् १०.२१.१३] इत्यादि । प्रायो
बताम्ब मुनयः [भागवतम् १०.२१.१४] इत्यादि । नद्यस्तदा तदुपधार्य [भागवतम्
१०.२१.१५] इत्यादि । दृष्ट्वातपे व्रजपशून् [भागवतम् १०.२१.१६] इत्यादि । पूर्णाः
पुलिन्द्य [भागवतम् १०.२१.१७] इत्यादि । हन्तायमद्रिरबला [भागवतम् १०.२१.१८] इत्यादि ।
गा गोपकैर्[भागवतम् १०.२१.१९] इत्यादि च स्मर्तव्यम् ।

इत्थमिति । इत्थं पूर्वाध्यायवर्णितप्रकारेण । कुसिमितेति पूर्वेणान्वयः ।
अत्रत्यं वनं तद्अन्तर्वनम् । शुष्मिणो मत्ताः । तद्व्रजेति कृष्णस्य वेणु
गीतमाश्रुत्य । तथापि परोक्षं लज्जया निजभावावरणाय तद्अग्रजादि
वर्णनसहयोगेनाच्छन्नं यथा स्यात्तथैवावर्णयन् । समुचितवर्णनं
हि प्रीतिमात्रं बोधयति न तु कान्तभावमिति । तद्वर्णयितुमिति तथापि
नाशकन् । परोक्षवर्णनायां न समर्था बभूवुः । तत्र हेतुः
स्मरन्त्य इति । तत्र च हेतुः स्मरवेगेनेति । पूर्वोक्तं कृष्णचेष्टितं
वर्णयन्ति बर्हापीडमिति । अधरसुधयेति फुत्कारस्य तत्प्राचुर्यं
विवक्षितम् । ततश्च युक्त एव तद्अनुभवेन तासां तादृशमोह इति
भावः । नाशकन्नित्येतद्विवृणोति इतीति । अभिरेमिरे उन्मदा बभूवुः ।

अथ यथा नाशकंस्तथा तद्वाक्यद्वारैव दर्शयति श्रीगोप्य ऊचुरित्य्
आदिना । तत्र द्विधा परोक्षीकरणा शक्तिः । एकत्राज्ञाननतोऽपि भाव
प्राबल्येनैवार्थान्तराविर्भावेण अन्यत्र भावपारवश्येन ज्ञानत एव
तद्उद्घाटनेन । तत्र प्रथमेन यथा अक्षणवतामिति । अर्थान्तरं
चात्र व्रजेशसुतयोर्मध्ये कनिष्ठत्वेन तदनु पश्चात्वेणुजुष्टं
मुखं तद्यैर्निपीतमिति योज्यम् । अथोत्तरेण यथा चूतप्रवालेत्यादि
द्वयम् । तत्र प्रथमं परोक्षीकरणे । द्वितीयं तद्अशक्ताविति ज्ञेयम् ।
एवमग्रे च गावश्च कृष्णमुखनिर्गतवेणुगीतेत्यादिषु विजातीय
भाववर्णनमपि परोक्षविधाने मन्तव्यम् ।

अथोपसंहारः

एवंविधा भगवतो या वृन्दावनचारिणः ।
वर्णयन्त्यो मिथो गोप्यः क्रीडास्तन्मयतां गताः ॥
हेमन्ते प्रथमे मासि नन्दव्रजकुमारिकाः ।
चेरुर्हविष्यं भुञ्जानाः कात्यायन्य्अर्चनव्रतम् ॥ [भागवतम् १०.२१.२०]

तन्मयतां तद्आविष्टताम् । स्त्रीमयः षिङ्ग इतिवत् ।

॥ १०.२१ ॥ श्रीशुकः ॥ ३७३ ॥

[३७४]

तथा तासु कुमारीणाम्
हेमन्ते प्रथमे मासि नन्दव्रजकुमारिकाः ।
चेरुर्हविष्यं भुञ्जानाः कात्यायन्य्अर्चनव्रतम् ॥ [भागवतम् १०.२२.१] इत्यादि ।

स्पष्टम् ।

॥ १०.२२ ॥ सः ॥ ३७४ ॥

[३७५]

अत्र कामलेखादिप्रस्थापनं मतम् । तत्रोदाहरणं श्रुत्वा गुणान्
भुवनसुन्दर शृणवतां ते [भागवतम् १०.५२.३७] इत्यादि श्रीरुक्मिणी
सन्देशादिकं ज्ञेयम् ।

अथ पूर्वरागानन्तरजः सम्भोगः । तत्र सम्भोगस्य सामान्याकारेण
सन्दर्शनसंजल्पसंस्परशसंप्रयोगलक्षणभेदचतुष्टय
भिन्नत्वं दृश्यते । सन्दर्शनं सम्यग्दर्शनं यत्र स भावः इत्यादि ।

अथ श्रीरुक्मिण्याः सन्दर्शनसंस्पर्शनाख्यौ तद्अनन्तरजौ
सम्भोगौ यथा

सैवं शनैश्चलयती चलपद्मकोशौ
प्राप्तिं तदा भगवतः प्रसमीक्षमाणा ।
उत्सार्य वामकरजैरलकानपाङ्गैः (पगे १४३)
प्राप्तान् ह्रियैक्षत नृपान् ददृशेऽच्युतं च ॥
तां राजकन्यां रथमारुरुक्षतीं
जहार कृष्णो द्विषतां समीक्षताम् । [भागवतम् १०.५३.५४५५]

भगवतः प्राप्तिं तत्रागमनं ह्रिया प्रसमीक्षमाणा सलज्जं द्रष्टुम्
आरभमाणा प्राप्तान् पुरतः स्थितान्नृपानैक्षत । ततश्च व्यूकुलचित्ता
तत्रैव पुनरच्युतमपि ददृश इत्यर्थः ।

॥ १०.५३ ॥ श्रीशुकः ॥ ३७५॥

[३७६]

अथ व्रजकुमारीणां सन्दर्शनसंजल्पो, यथा
तासां वासांस्युपादाय नीपमारुह्य सत्वरः ।
हसद्भिः प्रहसन् बालैः परिहासमुवाच ह ॥ [भागवतम् १०.२२.९] इत्यादि ।

अत्रैवं विवेचनीयम् । तेन यद्यपि तासां स्वविषयप्रेमोत्कर्षो जायत एव
तथापि तद्अभिव्यञ्जकचेष्टाविशेषद्वारा साक्षात्तद्आस्वादाय तादृशी
लीला सलज्जा विस्तारिता । विदग्धानां च यथा वनितानुरागास्वादने वाञ्छा
न तथा तत्स्पर्शादावपि । तत्र लज्जाच्छेदो नाम पूर्वानुरागव्यञ्जको
दशाविशेषो वर्तते । तथोक्तम्

नयनप्रीतिः प्रथमं चिन्तासङ्गस्तथा सङ्कल्पः ।
निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः ।
उन्मादो मूर्च्छा मृतिरित्येताः स्मरदशा दशैव स्युः ॥ [ऊण्१५.७१]

तेषु च व्यञ्जकेषु कुलकुमारीणां लज्जाच्छेद एव पराकाष्ठा । ता हि
दशमीमप्यङ्गीकुर्वन्ति, न तु वैजात्यम् । ततोऽनुरागातिशय
स्वादनार्थं तथा परिहसितम् । सखायश्च ते न मयोदितपूर्वं वा
अनृतं तदिमे विदुः [भागवतम् १०.२२.११] सन्तततद्अविनाभावव्यक्त्या हसद्भिः
[भागवतम् १०.२२.९] इत्यादौ बालशब्दप्रयुक्त्या च तदीयसख्यव्यतिरिक्त
भावान्तरास्पर्शिनस्तद्अङ्गनिर्विशेषा अत्र बाला एव च । ये चोक्ता
गौतमीयतन्त्रे प्रथमावरणपूजायाम्

दामसुदामवसुदामकिङ्किणीर्गन्धपुर्ष्पकैः ।
अन्तःकरणरूपास्ते कृष्णस्य परिकीर्तिताः ।
आत्माभेदेन ते पूज्या यथा कृष्णस्तथैव ते ॥ इति ।

ततो रहस्यत्वात्तादृशानुरागास्वादकौतुकप्रयोजनकनर्म
परिपाटीमयत्वात्तस्यां लीलायां न रसवत्त्वव्याघातः प्रत्युत उल्लास
एव ।

तथैव तस्यां लीलायां श्रीकृष्णस्याभिप्रायं मुनीन्द्र एव व्याचष्टे

भगवानाहता वीक्ष्य शुद्धभावप्रसादितः ।
स्कन्धे निधाय वासांसि प्रीतः प्रोवाच सस्मितम् ॥ [भागवतम् १०.२२.१८]

आहता आगताः । लज्जात्यागेऽपि स्त्रीजातिस्वभावेन लज्जांशावशेषात्
नम्रतयेषद्भग्नदेहा वा । एवमुत्कण्ठाभिव्यक्त्या तद्भाव
मुग्धत्वाभिव्यक्त्या च शुद्धः परमौज्ज्वल्येनावगतो यो भावस्तेन
तदास्वादनेन जनितचित्तप्रसक्तिः ।

अथ पुनरपि यूयं विवस्त्रा यदपि धृतव्रता [भागवतम् १०.२२.१९] इत्यादिकं
तल्लज्जांशावशेषनिःशेषतादर्शनकौतुकार्थं श्रीकृष्णनर्म
वाक्यम् । तद्अनन्तरमित्यच्युतेन [भागवतम् १०.२२.२०] इत्यादिकं तासामपि
तथैव तद्अनन्तरमपि स्वयं तथैव व्याचष्टे

दृढं प्रलब्धास्त्रपया च हापिताः
प्रस्तोभिताः कृईडनवच्च कारिताः ।
वस्त्राणि चैवापहृतान्यथाप्यमुं
ता नाभ्यसूयन् प्रियसङ्गनिर्वृताः ॥ [भागवतम् १०.२२.२२]

(पगे १४४)

[३७९]
१०२२०२९१ अथ गोपैः परिवृतो भगवान् देवकीसुतः
१०२२०२९३ वृन्दावआद्गतो दूरं चारयन् गाः सहाग्रजः

१०२२०३६३ तरूणां नम्रशाखानां मध्येन यमुनां गतः

[३८०]
१०२२०३०१ निदाघार्कतपे तिग्मे छायाभिः स्वाभिरात्मनः
१०२२०३०३ आतपत्रायितान् वीक्ष्य द्रुमानाह व्रजौकसः
इत्यादि ।



१०२३०२११ यमुनोपवनेऽशोकनवपल्लवमण्डिते
१०२३०२१३ विचरण्तं वृतं गोपैः साग्रजं ददृशुः स्त्रियः
१०२३०२२१ श्यामं हिरण्यपरिधिं वनमाल्यबर्ह
१०२३०२२२ धातुप्रवालनटवेषमनुव्रतांसे
१०२३०२२३ विन्यस्तहस्तमितरेण धुनानमब्जं
१०२३०२२४ कर्णोत्पलालककपोलमुखाब्जहासम्
१०२३०२३१ प्रायः श्रुतप्रियतमोदयकर्णपूरैर्
१०२३०२३२ यस्मिन्निमग्नमनसस्तमथाक्षिरन्ध्रैः
१०२३०२३३ अन्तः प्रवेश्य सुचिरं परिरभ्य तापं
१०२३०२३४ प्राज्ञं यथाभिमतयो विजहुर्नरेन्द्र ॥ [भागवतम् १०.२३.२१२३]

१०२३०३४१ तत्रैका विधृता भर्ता भगवन्तं यथाश्रुतम्
१०२३०३४३ हृदोपगुह्य विजहौ देहं कर्मानुबन्धनम्

(पगे १४५)
एवं लीलानरवपुर्[भागवतम् १०.२३.३७]

॥ १०.२२ ॥ श्रीशुकः ॥ ३७८३८२ ॥

[३८३]

अथ तद्अनन्तरमेव शरदि सर्वासामेव श्रीव्रजदेवीनां सन्दर्शनादि
सर्वात्मक एव पूर्वरागान्तरजः सम्भोगो वर्ण्यते । तत्र कुमारीणाम्
अपि तादृशप्राप्तावकृतार्थंमन्यानां पूर्वरागांशो नातिगतः । कस्याश्चित्
पूर्णाः पुलिन्द्यः [भागवतम् १०.२१.१७] इत्यनुसारेण कासाञ्चित्तु यर्ह्यम्बुजाक्ष
[भागवतम् १०.२९.३६] इत्यादावस्प्राक्ष तत्प्रभृतीः इत्यनेन श्रुतो यः स्पर्शः
सोऽपि वेणुगीतकृततन्मूर्च्छादिशमनानुरोधेनैव न तु सम्भोग
रीत्येति मन्तव्यः । यत एव तस्य तासामपि अपूर्ववत्प्रत्याख्यान
प्रार्थनावाक्ये सङ्गच्छेते ।

अथ तासां स यथा

निशम्य गीतं तद्अनङ्गवर्धनं
व्रजस्त्रियः कृष्णगृहीतमानसाः ।
आजग्मुरन्योन्यमलक्षितोद्यमाः
स यत्र कान्तो जवलोलकुण्डलाः ॥ [भागवतम् १०.२९.४] इत्यादि । स्पष्टम् ।

॥ १०.२९ ॥ श्रीशुकः ॥ ३८३ ॥

[३८४]

अथ तद्अन्तराले मानरूपो विप्रलम्भः । तत्र यथोक्तम्

अहेरिव गतिः प्रेम्णः स्वभावकुटिला भवेत् ।
अतो हेतोरहेतोश्च यूनोर्मान उदञ्चति ॥ [ऊण्१५.१०२]

तथा
अहेतोर्नेति नेत्युकेर्हेतोर्यन्मान उच्यते ।
अस्य प्रणय एव स्यान्मानस्य पदमुत्तमम् ॥ [ऊण्१५.७६] इति ।

ततोऽस्य सहेतुर्निर्हेतुश्चेति भेदद्वये च सति हेतुरपि यथोक्तः
हेतुरीर्ष्याविपक्षादेर्वैशिष्ट्ये प्रेयसा कृते ।
भावः प्रणयमुख्योऽयमीऋषामानत्वमृच्छति ॥ [ऊण्१५.७७] इति ।

यथा च
स्नेहं विना भयं न स्यान्नेर्ष्या च प्रणयं विना ।
तस्मान्मानप्रकारोऽयं द्वयोः प्रेमप्रकाशकः ॥ [ऊण्१५.७८] इति ।

अतएव हरिवंशे
रुषितामिव तां देवीं स्नेहात्सङ्कल्पयन्निव ।
भीतभीतोऽतिशनकैर्विवेश यदुनन्दनः ॥
रूपयौवनसम्पन्ना स्वसौभाग्येन गर्विता ।
अभिमानवती देवी श्रुत्वैवेर्ष्यावशं गता ॥ इति ।

अतः प्रियकृतस्नेहभङ्गानुमानेन सहेतुरीर्ष्यामानो भवति । एष च
विलासः श्रीकृष्णस्यापि परमसुखदः । यथा चोक्तं श्रीरुक्मिणीं प्रति
स्वयमेव त्वद्वचः श्रोतुकामेन क्ष्वेल्याचरितमङ्गने [भागवतम् १०.६०.२९]
मुखं च प्रेमसंरम्भस्फुरिताधरमीक्षितुम् [भागवतम् १०.६०.३०] इत्यादि ।
श्रीरुक्मिण्यामपि तद्अविक्षिप्तिवं व्यक्तम् । जाड्यं वचस्तव गदाग्रज
[भागवतम् १०.६०.४०] इत्यादौ ।

युक्तं च तत्कान्ताभावाख्यायाः प्रीतेः पोषकत्वेन (पगे १४६) तद्
भावस्यावगमात् । प्राचीनार्वादीनकविसम्प्रदायसम्मतत्वाच्च ।
तस्मादादरणीय एव मानाख्यो भावः । तत्र सर्वासां युगपत्त्यागेन
सङ्गप्राथम्येन च तथानुदयान्निगूढस्तन्मानलेशो रासे श्रीव्रज
देवीनां जातः । स च परित्यागजेर्ष्याहेतुक एव ज्ञेयः । यथा

सभाजयित्वा तमनङ्गदीपनं
सहासलीलेक्षणविभ्रमभ्रुवा ।
संस्पर्शनेनाङ्ककृताङ्घ्रिहस्तयोः
संस्तुत्य ईषत्कुपिता बभाषिरे ॥ [भागवतम् १०.३२.१५] इत्यादि ।

स्पष्टम् ।

॥ १०.३२ ॥ श्रीशुकः ॥ ३८४ ॥

[३८५]

एष च स्तुत्य्आदिभिः शाम्यति । यथैव तास्तुष्टाव

एवं मद्अर्थोज्झितलोकवेद
स्वानां हि वो मय्यनुवृत्तयेऽबलाः ।
मया परोक्षं भजता तिरोहितं
मासूयितुं मार्हथ तत्प्रियं प्रियाः ॥ [भागवतम् १०.३२.२१]

न पारयेऽहं निरवद्यसंयुजां [भागवतम् १०.३२.२२] इत्यादि । स्पष्टम् ।

॥ १०.३२ ॥ श्रीभगवान् ॥ ३८५ ॥
अथ निर्हेतुः प्रणयमानः । निर्हेतुत्वं च केवलप्रणयविलसित्वेन हेत्व्
अभावान्मन्यते । एष नायकस्यापि भवति । भगवत्प्रीतिमये रसे स
तूद्दीपनोऽपि प्रसङ्गादत्रोदाहरणीयः । यथा तासां तत्सौभाग्यमदं
वीक्ष्य मानं च केशव [भागवतम् १०.२९.४८] इत्यादिप्रकरणं योजनान्तरेण
मन्यते । तत्र मानः प्रणयमानः । तस्य हेतुः सौभगमदः । ततो
मानस्य प्रशमरूपाय तासां प्रसादाय स्वयमपि प्रणय
मानेनैवान्तरधीयत ।

तथाग्रेऽपि यां गोपीमनयत्कृष्णो विहायान्याः स्त्रियो वने [भागवतम् १०.३०.३६] इत्य्
आदौ तस्याः प्रणयमानः । येनैवोक्तं न पारयेऽहं चलितुं नय मां
यत्र ते मनः [भागवतम् १०.३०.३८] इति ।

अथ पूर्ववत्तस्यापि प्रणयमानः । प्रणयकोपेनैव सोऽप्येतद्
अनन्तरमेनां स्कन्ध आरुह्यताम् [भागवतम् १०.३०.३९] इत्युक्तवान्
ततोऽन्तर्हितवांश्च । अत्र श्रीव्रजदेवीनामहेतुः श्रीकृष्णसय तु हेत्व्
आभासजोऽसौ । यासां खलु प्रणयः स्वप्रवाहाद्य्उद्रेकेन स्वरसावर्त
रूपं कौटिल्यं स्पृशन्मानाख्यप्रीतिविशेषतां प्राप्नोति । तासामेव
मानाख्यविप्रलम्भोऽपि शुद्धो जायते ।

ततोऽन्यासां पुनर्हेतुलाभेऽपि विषादभयचिन्ताप्राय एव जायते । यथा
श्रीरुक्मिणीं प्रति श्रीकृष्णस्य सप्रणयपरिहासवचनमयेऽध्याये तद्
वृत्तम् । तत्र श्रीकृष्णस्य सकौतुकोऽयमभिप्रायः । इयं खलु सरसल
प्रेमवती परमगाम्भीर्यवती च । ततो ममाभीष्टः प्रियाकोपविलासः
प्रेमनिर्बन्धप्रकाशकसविकारकण्ठोक्तिविशेषो वा नास्यां स्फुटम्
उपलभ्यते । तस्मात्कोपविलासो वा तज्जननाभावे तु तादृशोक्तिर्वा
यथास्यां प्रकाशते तथा बाढं परिहासेन प्रयतिष्ये । तत्र यस्यां कोप
जनने भ्रातृवैरूप्यादिकमपि कारणं नासीत् । तस्यां तत्रान्यत्
परमायोग्यमेव किन्तु मदविश्लेषसुखमेवास्याः सर्वस्वमिति तद्
दर्पन्यक्कारेणैव कोपः सम्भवेत् । यदि ततोऽपि कोपो नाविर्भवेत् । तथापि
मद्विश्लेषभयेन पूर्वानुरागवदधुनापि विकारविशेषसहित
निगदेनैव प्रेमनिर्बन्धं प्रकाश्येतेति । तथा हि तत्र तां रूपिणीम् [भागवतम्
१०.६०.१०] इत्यादौ प्रीतः स्मयनित्यनेन व्यक्तम् । परिहासमयत्वं तु
विशेषतोऽप्युक्तम् । प्रसङ्गेन तस्याः प्रेमसारल्यादिद्वयमपि

तद्दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेमबन्धनम् ।
हास्यप्रौठिमजानन्त्याः करुणः सोऽन्वकम्पत ॥ [भागवतम् १०.६०.२५] इति ।

हास्यं परिहासः । तत्र प्रौढिः अवश्यमेनां सरलप्रेमाणमपि
गम्भीरामपि क्षोभयिष्यामीति (पगे १४७) गर्वः । तां प्रणयरस
कौटिल्याभावेनाजानन्त्या इत्यर्थः । एव अग्रेऽपि हास्यप्रौढिभ्रमच्
चित्ताम् [भागवतम् १०.६०.२८] इत्युक्तम् ।

तत्र तेन परिहासेन कोपविलासादिदर्शनमेवाभीष्टमिति स्वयम्
एवोक्तम्

मा मा वैदर्भ्यसूयेथा जाने त्वां मत्परायणाम् ।
त्वद्वचः श्रोतुकामेन क्ष्वेल्याचरितमङ्गने ॥
मुखं च प्रेमसंरम्भ स्फुरिताधरमीक्षितुम् ।
कटाक्षेपारुणापाङ्गं सुन्दरभ्रुकुटीतटम् ॥
अयं हि परमो लाभो गृहेषु गृहमेधिनाम् ।
यन्नर्मैरीयते यामः प्रियया भीरु भामिनि ॥ [भागवतम् १०.६०.२९३१] इति ।

अत्र यद्यपि तस्याः प्राग्भयमेव वर्णितं तथापि तत्रासूयाप्रयोगः
प्रोत्तम्भनार्थ एव । तत्प्रयोगेण हि स्वस्य तद्अधीनताक्षिप्यते । अतएव
भामिनीत्यपि सम्बोधितम् ।

अथ तस्य प्रेमनिर्बन्धप्रकाशकविकारदर्शनेच्छापि प्राक्तनैव
वाक्येन व्यक्ता । तद्दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेमबन्धनम्
[भागवतम् १०.६०.२५] इत्यनेन । तथा निगदेनैव तद्व्यक्तिदर्शनेच्छा स्वयमेव
व्यञ्जिता साध्व्येतच्छ्रोतुकामैस्त्वं राजपुत्रि प्रलम्भिता [भागवतम्
१०.६०.४९] इति । पूर्वं हि त्वं वै समस्तपुरुषार्थमयः फलात्मा [भागवतम्
१०.६०.३८] इत्यादिकम् । तयापि निगदितमस्ति । अत्र परिहासज्ञानानन्तरं तद्
दिदृक्षिता किञ्चित्कोपव्यक्तिश्च जातास्ति जाड्यं वचस्तव गदाग्रज [भागवतम्
१०.६०.४०] इत्यादिषु । जाड्यस्य प्राचुर्यविवक्षया जाड्यमेव वच इति
सामानाधिकरण्येनोक्तं माधुर्यमेव नु मनोनयनामृतं नु
[Kअर्णामृत ६८] इतिवत् ।

अथ तद्अविश्लेषदर्पन्यक्कार एव तत्क्षोभे हेतुरित्यत्रापि श्रीशुक
वाक्यम्
एतावदुक्त्वा भगवानात्मानं वल्लभामिव
मन्यमानामविश्लेषात्तद्दर्पोघ्न उपारमत् ॥ [भागवतम् १०.६०.२१] इति ।

अन्यस्य च तत्र हेतुत्वं स्वयमेव निराकृतम्
भ्रातुर्विरूपकरणं युधि निर्जितस्य
प्रोद्वाहपर्वणि च तद्वधमक्षगोष्ठ्याम् ।
दुःखं समुत्थमसहोऽस्मद्वियोगभीत्या
नैवाब्रवीः किमपि तेन वयं जितस्ते ॥ [भागवतम् १०.६०.५६] इति ।

अत्र च प्रकरणे तस्याः प्रणयस्यापि तादृशत्वाभावात्मानायोग्यत्वमपि
दर्शितम् । तस्मात्साधूक्तं यासां खलु प्रणयः इत्यादि ।

अथ मानानन्तरजः सम्भोगो, यथा
इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः ।
जहुर्विरहजं तापं तदङ्गोपचिताशिषः ॥ [भागवतम् १०.३३.१] इत्यादि ।

स्पष्टम् ।

॥ १०.३३ ॥ श्रीशुकः ॥ ३८६ ॥

[३८७]

अथ प्रेमवैचित्त्यम् । तल्लक्षणं च
प्रियस्य सन्निकर्षेऽपि प्रेमोन्मादभ्रमाद्भवेत् ।
या विश्लेषधियार्तिस्तत्प्रेमवैचित्त्यमुच्यते ॥ [ऊण्१५.१४७]

तद्यथा
कृष्णस्यैवं विहरतो गत्य्आलापेक्षितस्मितैः ।
नर्मक्ष्वेलिपरिष्वङ्गैः स्त्रीणां किल हृता धियः ॥
ऊचुर्मुकुन्दैकधियो गिर उन्मत्तवज्जडम् ।
चिन्तयन्त्योऽरविन्दाक्षं तानि मे गदतः शृणु ॥
श्रीमहिष्य ऊचुः
कुररि विलपसि त्वं (पगे १४८) वीतनिद्रा न शेषे
स्वपिति जगति रात्र्यामीश्वरो गुप्तबोधः ।
वयमिव सखि कच्चिद्गाठनिर्विद्धचेता
नलिननयनहासोदारलीलेक्षितेन ॥ [भागवतम् १०.९०.१३१५]

तथा

नेत्रे निमीलयसि [भागवतम् १०.९०.१६] इत्यादि, भो भोः सदा निष्टनसे उदन्वन् [भागवतम्
१०.९०.१७] इत्यादि, त्वं यक्ष्मणा [भागवतम् १०.९०.१८] इत्यादि, किं न्वाचरितम् [भागवतम्
१०.९०.१९] इत्यादि, मेघ श्रीमन् [भागवतम् १०.९०.२०] इत्यादि, प्रियराव [भागवतम् १०.९०.२१]
न चलसि [भागवतम् १०.९०.२२] इत्यादि, शुष्यद्ध्रदाः [भागवतम् १०.९०.२३] इत्यादि ।

हंस स्वागतमास्यतां पिब पयो ब्रूह्यङ्ग शौरेः कथां
दूतं त्वां नु विदाम कच्चिदजितः स्वस्त्यास्त उक्तं पुरा ।
किं वा नश्चलसौहृदः स्मरति तं कस्माद्भजामो वयं
क्षौद्रालापय कामदं श्रियमृते सैवैकनिष्ठा स्त्रियाम् ॥ [भागवतम् १०.९०.२४]

एवं विहरतः कृष्णस्य गत्य्आदिभिः स्त्रीणां धियो हृताः । ततश्च ता
मुकुन्दैकधियः समाहिता इव क्षणमगिरः सत्यः पुनरनुराग
विशेषेणोन्मत्ता इव विहरन्तमपि तमरविन्दाक्षं परोक्षवच्चिन्तयन्त्यो
जडं विवेकशून्यं यथा स्यात्तथा ऊचुः । तानि वचनानि मे मम गदतो
वाक्यतः शृण्विति ।

अथ विरहस्पर्शीनि तान्येवोन्मादवाक्यान्याहुः कुररीत्यादि । हे कुररि
जगति त्वमेवैका रात्र्यां विलपसि अतएव न शेषे न निद्रासि । ईश्वरोऽस्मत्
स्वामी तु गुप्तबोधः क्वचिदाच्छन्नः स्वपिति । तस्मादस्माकं तव च
विलापादिसाधर्म्यादिदमनुमीयत इत्याहुः वयमिवेति । एवमन्यत्रापि
योजनीयम् । तदैव दैवादागतं हंसं दूतं कल्पयित्वाहुः हंसेति ।
नोऽस्मान् प्रति पुरा रहसि उक्तं किं वा स्मरति । स्मरतु मामेवेत्य्
आशयेनाहुः तमिति । यदि च तद्आग्रहस्तदा हे क्षौद्र सौहृद्य
चाञ्चल्येन क्षुद्रस्य तस्य दूत, तमेव कामदं युवतिजनक्षोभकम्
अत्रालापय आह्वय । किन्तु यासामाद्य वयं त्यक्ताः तां श्रियमृते । तां
सोल्लुण्ठं स्तौति । स्त्रियां मध्ये सैव एकत्र तस्मिन्निष्ठा यस्यास्तादृशी ।
ततः कथं तस्यां नासज्येतेति व्यञ्जितम् । काक्वा स्वेषामपि तन्निष्ठत्वं
व्यज्य सोल्लुण्ठत्वं दर्शितम् ।

अथ तासां तद्विधाशेषविप्रलम्भानन्तरजं नित्यमेव सर्वात्मक
सम्भोगमाह

इतीदृशेन भावेन कृष्णे योगेश्वरेश्वरे ।
क्रियमाणेन माधव्यो लेभिरे परमां गतिम् ॥ [भागवतम् १०.९०.२५]

विष्णोः श्रीकृष्णस्य एव सम्बन्धिनीं गतिं नित्यसंयोगं लेभिरे । अत्र
हेतुः माधव्यः मधुवंशोद्भवस्य श्रीकृष्णस्यैव नित्यप्रेयस्यस्
ताः ।

॥ १०.९० ॥ श्रीशुकः ॥ ३८८ ॥

[३८९]

अथ प्रवासः । नानाविधश्चैष तद्अनन्तरसङ्गश्च श्रीव्रजदेवी
रेवाधिकृत्योदाहरणीयः । सङ्गत्य्अर्थं तत्र प्रवासलक्षणम्

पूर्वसङ्गतयोर्यूनोर्भवेद्देशान्तरादिभिः ।
व्यवधानं तु यत्प्राज्ञैः स प्रवास इतीर्यते ॥
तज्जन्यविप्रलम्भोऽयं प्रवासत्वेन कथ्यते । [ऊण्१५.१५२१५३] इत्यर्थः ।

अत्र
चिन्ता प्रजागरोद्वेगौ तानवं मलिनाङ्गता ।
प्रलापो व्याधिरुन्मादो मोहो मृत्युर्दशा दश ॥ [ऊण्१५.१६७]

अयं च किञ्चित्दूरगमनमयः सुदूरगमनमयश्च । तत्र पूर्वोऽपि
द्विविधः । एकलीलागतः लीलापरम्परा (पगे १४९) न्तरालगतश्च । पूर्वो
यथा

अन्तर्हिते भगवति सहसैव व्रजाङ्गनाः ।
अतप्यंस्तमचक्षाणाः करिण्य इव यूथपम् ॥ [भागवतम् १०.३०.१] इत्यादि ।

[३९०]

तथा,
ततश्चान्तर्दधे कृष्णः सा वधूरन्वतप्यत । [भागवतम् १०.३०.३९] इति स्पष्टम् ।

॥ १०.३० ॥ सः ॥ ३८९३९० ॥

[३९१]

अत्र प्रलापाख्या दशा चहा नाथ रमण प्रेष्ठ [भागवतम् १०.३०.४०] इत्यादिः ।
स्पष्टम् ।

॥ १०.३० ॥ श्रीराधा ॥ ३९१ ॥

[३९२]

तथा
जयति तेऽधिकं जन्मना व्रजः श्रयत इन्दिरा शश्वदत्र हि ।
दयित दृश्यतां दिक्षु तावकास्त्वयि धृतासवास्त्वां विचिन्वते ॥ [भागवतम् १०.३१.१]

तथा
शरद्उदाशये साधुजात [भागवतम् १०.३१.२] इत्यादि । विषजलाप्ययाद्[भागवतम् १०.३१.३]
इत्यादि । न खलु गोपिकानन्दन [भागवतम् १०.३१.४] इत्यादि । मधुरया गिरा [भागवतम्
१०.३१.८] इत्यादि । विरचिताभयं [भागवतम् १०.३१.५] इत्यादि । व्रजजनार्तिहन् [भागवतम्
१०.३१.३] इत्यादि ।
प्रणतदेहिनां [भागवतम् १०.३१.७] इत्यादि । तव कथामृतं [भागवतम् १०.३१.९] इत्यादि ।
प्रहसितं [भागवतम् १०.३१.१०] इत्यादि । चलसि यद्व्रजाच्[भागवतम् १०.३१.११] इत्यादि । दिन
परिक्षये [भागवतम् १०.३१.१२] इत्यादि । प्रणतकामदं [भागवतम् १०.३१.१३] इत्यादि ।
सुरतवर्धनं [भागवतम् १०.३१.१४] इत्यादि । अटति यद्भवान् [भागवतम् १०.३१.१५] इत्य्
आदि । पतिसुतान्वय [भागवतम् १०.३१.१६] इत्यादि । रहसि संविदं [भागवतम् १०.३१.१७] इत्य्
आदि । व्रजवनौकसां [भागवतम् १०.३१.१८] इत्यादि ।

यत्ते सुजातचरणाम्बुरुहं स्तनेषु
भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
तेनाटवीमटसि तद्व्यथते न किं स्वित्
कूर्पादिभिर्भ्रमति धीर्भवद्आयुषां नः ॥ [भागवतम् १०.३१.१९]

तत्र विषजलाप्ययादित्यादिकं सर्वस्यैव गोकुलस्य स्वरक्षणीयता
दृष्ट्याप्यस्मानधुना रक्षेत्यभिप्रायम् । वृषात्मजाद्वत्सात्
मयात्मजात्व्योमासुरादित्यर्थः । पुनश्च तत्तद्अलौकिककर्म
लक्ष्यीकृत्य न खलु गोपिकानन्दनो भवानित्यादिद्वये याचकरीत्या
दैन्येन तत्र परमेश्वरत्त्वारोप इयं स्तुतिः । ततो विश्वस्यापि स्व
रक्षणीयतादृष्ट्याप्यस्मानधुना रक्षेति पूर्ववत् । तत्रापि सात्वतानां
वैष्णवानां श्रीमन्नन्दादीनां कुलेऽवतीर्णत्वात् । तत्रापि बाल्येऽस्मत्
सखित्वाप्तेर्वैशिष्ट्यमेव युज्यते इत्यर्थः । वृष्णिधुर्य इति तेषामपि
यदुवंशोत्पन्नत्वात् ।

तथा च स्कान्दे मथुरामाहात्म्ये
गोवर्धनश्च भगवान् यत्र गोवर्धनो धृतः ।
रक्षिता यादवाः सर्वे इन्द्रवृष्टिनिवारणात् ॥ इति ।

तत्रैवान्यत्र अपि श्रीगोविन्दकुण्डप्रस्तावे
यत्राभिषिक्तो भगवान्मघोना यदुवैरिणा इति ।

अथवा विषजलाप्ययादित्यादिना स्तुत्वा पुनः सप्रणयेर्ष्यमाहुः, न
खल्वित्यर्धेन । एवं दुरवस्थापन्नानामस्माकमुपेक्षया भवान्
खलु निश्चयेन गोपिकायाः सर्वेषां व्रजवासिनामस्माकं रक्षाकारिण्याः
श्रीव्रजेश्वर्या नन्दनो नास्ति किन्तु कस्यापि सुखेन दुःखेन चास्पृष्टत्वाद्
अखिलदेहिनामन्तरात्मदृक्शुद्धजीवद्रष्टा परमात्मास्ति । एवमपि
नूनं ब्राह्मणार्थि (पगे १५०) तत्वेनानासक्ततयैव सर्व
रक्षावतीर्णत्वान्नास्मानुपेक्षितुमर्हति इति पुनः सदैन्यमाहुः
विखनसेत्यर्धेन । पूर्ववत्तद्अभिप्रायेणैव विरचिताभयमित्यादिकम्
अप्युक्तम् ।

प्रणतदेहिनामिति । श्रीनिकेतनमपि प्रणतदेहिप्रभृतीनां पाप
कर्षणादिरूपम् । तत एव परमकरुणामयत्वेनावगतमस्माकं कुचेष्व्
अपि हृच्छयकर्तनाय कर्तुमुचितमित्यर्थः । हृच्छयनिदानं तद्
अनुरूपं प्रतीकारान्तरं चाहुः मधुरयेति ।

नूनं यत्सौरभ्यदिग्धतयैव तव गीर्मधुरा मनो मोहयति तद्
एवाधरसीधु भवेदत्रौषधभित्यर्थः । अहो तवाधरसीधु तादृश
पुण्यहीनाभिः कथं सुलभं स्यात् । यतः सा मधुरा गीरप्यस्तु दूरे ।
गुरुगोष्ठीनियमबन्दनकत्वमापन्नाभिरस्माभिः
प्रसङ्गान्तरेणापि जनपरम्पराप्रख्यायमानमपि तव चरितामृतम्
अपि दुर्लभमित्याह, तव कथामृतमिति । तद्ये गृणन्ति तेऽपि अस्मभ्यं
भूरिदा जाताः । कुतः पुनर्युष्माकं मय्येतावाननुरागस्तत्राहुः
प्रहसितमित्यादि । कथं मम प्रहसितादीनामेतादृशत्वं तत्राहुःहे
कुहकेति । तादृशी कापि कुहना या त्वयि विद्यते तां त्वमेव वेत्सीत्यर्थः ।
एवमन्यान्यपि योजनीयानि । परमप्रकर्षेणाहुः यत्ते सुजात इति ।

॥ १०.३१ ॥ श्रीगोप्यः ॥ ३९२ ॥

[३९३]

एतद्अनन्तरं सम्भोगोदाहरणं च दर्शितम् । तं विलोक्यागतं प्रेष्ठम्
[भागवतम् १०.३२.३] इत्यादिभिः । अत्र च क्रमेण विरहसन्तापधुतिः । तत्र
प्रथमतो यथा

सर्वास्ताः केशवालोकपरमोत्सवनिर्वृताः ।
जहुर्विरहजं तापं प्राज्ञं प्राप्य यथा जनाः ॥ [भागवतम् १०.३२.९]

द्वितीयो यथा तद्दर्शनाह्लादविधूतहृद्रुजः [भागवतम् १०.३२.१३] इत्यादि ।
तृतीयो यथा

इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः ।
जहुर्विरहजं तापं तदङ्गोपचिताशिषः ॥ [भागवतम् १०.३३.१]

स्पष्टम् ।

॥ १०.३३ ॥ श्रीशुकः ॥ ३९३ ॥

[३९४३९७]

अथ द्वितीयं किञ्चिद्दूरप्रवासमाह
गोप्यः कृष्णे वनं याते तमनुद्रुतचेतसः ।
कृष्णलीलाः प्रगायन्त्यो निन्युर्दुःखेन वासरान् ॥ [भागवतम् १०.३५.१]

तत्र च तासां प्रलापाख्यामवस्थामाह श्रीगोप्य ऊचुः
वामबाहुकृतवामकपोल
वल्गितभ्रूरधरार्पितवेनुम् ।
कोमलाङ्गुलीभिराश्रितमार्गं
गोप्य ईरयति यत्र मुकुन्दः ॥

व्योमयानवनिताः सह सिद्धैर्
विस्मितास्तदुपधाय सलज्जाः ।
काममार्गनसमर्पितचित्ताः
कश्मलं ययुरपस्मृतनिव्यः ॥ [भागवतम् १०.३५.२३]
यथा
हन्त चित्रमबलाः शृणुतेदम् [भागवतम् १०.३५.४] इत्यादि वृन्दशो व्रजवृषा [भागवतम्
१०.३५.५] इत्य्आद्य्अन्तम् । बर्हिणस्तबक [भागवतम् १०.३५.६] इत्यादि तर्हि भग्न
गतयः [भागवतम् १०.३५.७] इत्याद्य्अन्तम् । अनुचरैः [भागवतम् १०.३५.८] इत्यादि वनलतास्
[भागवतम् १०.३५.९] इत्याद्य्अन्तम् । दर्शनीयतिलकः [भागवतम् १०.३५.१०] इत्यादि सरसि सारस
[भागवतम् १०.३५.११] इत्याद्य्अन्तम् । सहबलः [भागवतम् १०.३५.१२] इत्यादि महद्(पगे
१५१) अतिक्रमण [भागवतम् १०.३५.१३] इत्यादि विविधगोपचरणेषु [भागवतम् १०.३५.१४]
इत्यादि सवनशस्[भागवतम् १०.३५.१५] इत्याद्य्अन्तम् । निजपदाब्जदलैर्[भागवतम्
१०.३५.१६] इत्यादि व्रजति तेन वयं [भागवतम् १०.३५.१७] इत्य्आद्य्अन्तम् । मणिधरः
[भागवतम् १०.३५.१८] इत्यादि क्वणितवेणुरव[भागवतम् १०.३५.१९] इत्य्आद्य्अन्तम् । कुन्द
दाम [भागवतम् १०.३५.२०] इत्यादि मन्दवायुः [भागवतम् १०.३५.२१] इत्य्आद्य्अन्तं च तत्
तद्युगलं स्मर्तव्यम् ।

अत्र सहसिद्धैरिति तेषामपि तादृशवेणुवाद्यमहिम्ना वैन्ता
भावापत्तिः सूचिता । अनुचरैरिति । अत्रादिपुरुष इवाचलभूतिरित्यनेनैव
बोध्यते । एवमेव सर्वत्र तासां प्रेमकृतसर्वोत्तमतास्फूर्त्या क्वचित्
तद्ऐश्वर्यवर्णनमुत्प्रेक्सैव यत्पत्य्अपत्येत्य्आदिवदिति ।

वनलता इति । अत्र विष्णुं सर्वत्रैव स्फुरन्तं श्रीकृष्णमित्यर्थः । निज
पदाब्जेति । अत्र व्रजभूशब्देन तत्स्थानि तृणादीनि लक्ष्यन्ते । तेषां च
खुरतोदशमनं स्पर्शमाहात्म्येन नित्यमङ्कुरशालित्वकरणात् ।
अतएवापरिमितचतुष्पदविगाहेऽपि तच्चारस्य समावेशः सिध्यतीति ज्ञेयम् ।
एतद्अनन्तरं दर्शानात्मकसम्भोगो यथा

वत्सलो व्रजगवां यदगध्रो
वन्द्यमानचरणः पथि वृद्धैः ।
कृत्स्नगोधनमुपोह्य दिनान्ते
गीतवेणुरनुगेडितकीर्तिः ॥

उत्सवं श्रमरुचापि दृशीनाम्
उन्नयन् खुररजश्छुरितस्रक् ।
दित्सयैति सुहृद्आशिष एष
देवकीजठरभूरुडुराजः ॥ [भागवतम् १०.३५.२२२३]

अत्र देवकीजठरभूरिति सङ्केतनामग्रहणम् । सङ्केतमूलं तु
प्रागयं वसुदेवस्य क्वचिज्जातस्तवात्मजः [भागवतम् १०.८.१४] इति ज्ञेयम् ।
अथवा, अनेनैवाप्रसिद्धोऽपि देवकीशब्दोऽत्र श्रीयशोदायामेव ज्ञेयः ।
तत्र तस्या एव तन्मातृत्वेन प्रसिद्धत्वात्नाभेरसावृषभ आस
सुदेवीसूनुः [भागवतम् २.७.१०] इत्यत्र मेरुदेव्या एव सुदेवीति संज्ञावत् । द्वे
नाम्नी नन्दभार्याया यशोदा देवकीति च इति पुराणान्तरवचनं च
तथा ।

एवं मदविघूर्णितलोचन ईषत्[भागवतम् १०.३५.२४] इति यदुपतिर्द्विरदराज
विहारः [भागवतम् १०.३५.२५] इति स्मर्तव्यम् । व्रजगवामिति तत्र स्थिता बाल
वृद्धा गावस्तेषामप्युपलक्षणत्वेनोक्ताः । तथैतद्अग्रे

एवं व्रजस्त्रियो राजन् कृष्णलीलानुगायतीः ।
रेमिरेऽहःसु तच्चित्तास्तन्मनस्का महोदयाः ॥ [भागवतम् १०.३५.२६]

एवमपराह्णेषु तदीयागमनानन्देन नित्यमहःस्वपि रेमिरे ।

॥ १०.३५ ॥ श्रीशुकः ॥ ३९४३९७ ॥

[३९८]

अथ दूरप्रवासः । स च भावी भवन् भूतश्चेति त्रिविधः । तत्र भावी
यथा
गोप्यस्तास्तदुपश्रुत्य बभूवुर्व्यथिता भृशम्
रामकृष्णौ पुरीं नेतुमक्रूरं व्रजमागतम् ॥ [भागवतम् १०.३९.१३]

तासां विलापश्च
अहो विधातस्तव न क्वचिद्दया
संयोज्य मैत्र्या प्रणयेन देहिनः ।
तांश्चाकृतार्थान् वियुनङ्क्ष्यपार्थकं
विक्रीडितं तेऽर्भकचेष्टितं यथा ॥ [भागवतम् १०.३९.१९]

तथा
यस्त्वं प्रदर्श्यासितकुन्तलावृतं [भागवतम् १०.३९.२०] इत्यादि । क्रूरस्त्वमक्रूर
[भागवतम् १०.३९.२१] इत्यादि । न नन्दसूनुः क्षणभङ्गसौहृदः [भागवतम् १०.३९.२२]
इत्यादि ।
सुखं प्रभाता रजनीयम् [भागवतम् १०.३९.२३] इत्यादि । तासां मुकुन्दः [भागवतम्
१०.३९.२४] इत्यादि । अद्य ध्रुवं तत्र दृशो भविष्यते [भागवतम् १०.३९.२५] इत्यादि ।
(पगे १५२) मैतद्विधस्याकरुणस्य [भागवतम् १०.३९.२६] इत्यादि । अनार्द्रधीरेष
[भागवतम् १०.३९.२७] इत्यादि । निवारयामः [भागवतम् १०.३९.२८] इत्यादि । यस्यानुराग [भागवतम्
१०.३९.२९] इत्यादि । योऽह्नः क्षये व्रजमनन्तसखः [भागवतम् १०.३९.३०] इत्य्
आदिकं च स्मर्तव्यम् ।

भवन् च, यथा
गोप्यश्च दयितं कृष्णमनुव्रज्यानुरञ्जिताः ।
प्रत्यादेशं भगवतः काङ्क्षन्त्यश्चावतस्थिरे ॥ [भागवतम् १०.३९.३४] इत्यादि ।

ता निराशा निववृतुर्गोविन्दविनिवर्तने ।
विशोका अहनी निन्युर्गायन्त्यः प्रियचेष्टितम् ॥ [भागवतम् १०.३९.३७] इत्यन्तम् ।

विशोका विविधशोकवृत्तयः सत्यः । तत्तद्गाने तत्तल्लालसायाः साक्षाद्
इव स्फूर्तेर्वा विशोकप्राया अहनी अहोरात्रं निन्युर्यापयामासुः ।

॥ १०.३९ ॥ श्रीशुकः ॥ ४०० ॥

[४०१]

भूतो, यथा
ता मन्मनस्का मत्प्राणा मद्अर्थे त्यक्तदैहिकाः [भागवतम् १०.४६.४] इत्य्
आदिना दर्शितः । अत्र दूतमुखेन परस्परसन्देश्च दृश्यते । दूताः
स्फुरितसङ्ख्यांशा उद्ध्वबलदेवादयः । तत्र तं प्रश्रयेणावनताः सु
सत्कृतमव्रीडहासेक्षणसूनृतादिभिः [भागवतम् १०.४७.३] इत्य्आदिदिशा पूर्वं
रचिताकारगुप्तीनामपि तासां महार्त्या महासङ्कोचपरित्यागमप्य्
आह
इति गोप्यो हि गोविन्दे गतवाक्कायमानसाः ।
कृष्णदूते समायाते उद्धवे त्यक्तलौकिकाः ॥ [भागवतम् १०.४७.९]

अपृच्छन्न् [भागवतम् १०.४७.३] इति प्राक्तनक्रिययान्वयः ।

॥ १०.४७ ॥ श्रीशुकः ॥ ४०१ ॥

[४०२]

अतएव

गोप्यो हसन्त्यः पप्रच्छू रामसन्दर्शनादृताः ।
कच्चिदास्ते सुखं कृष्णः पुरस्त्रीजनवल्लभः ॥ [भागवतम् १०.६५.९] इत्यादि ।

हसन्त्यः प्रेमेर्ष्यया कृष्णमुपहसन्त्य इत्यर्थः ।

॥१०.६५ ॥ श्रीशुकः ॥ ४०२ ॥

[४०३]

यथैव श्रीमद्उद्धवसन्निधावुन्मादवचनमपि दर्शितम् ।

काचिन्मधुकरं दृष्ट्वा ध्यायन्ती कृष्णसङ्गमम् ।
प्रियप्रस्थापितं दूतं कल्पयित्वेदमब्रवीत् ॥ [भागवतम् १०.४७.११]

काचिच्छ्रीराधा । तथैव आख्यातं वासनाभाष्ये । एतद्विवरणं च श्री
दशमटिप्पन्यां दृश्यमिति ।

[४०४]

तत्र उन्मादेनैव मानिनीभङ्ग्याह अष्टभिःमधुप कितवबन्धो
[भागवतम् १०.४७.१२] इत्यादि ।
[४०५]

माने कारणमाह सकृदधरसुधां [भागवतम् १०.४७.१३] इत्यादि

[४०६]

अत्र किंवदन्तीमाश्रित्य पद्मायाः प्रतिनायिकात्वेनोपन्यासः क्रियते । दूत
प्रस्तुतिप्रत्याख्यानं किमिह [भागवतम् १०.४७.१४] इति ।

[४०७]

विजयते सर्वं वशीकरोति इति विजयः श्रीकृष्णः स एव सखा त्वद्बन्धुः ।
तस्य सखीनां सम्प्रति माथुरीणामेवाग्रतः तस्य विजयस्य तद्वशीकार
पर्यन्तस्य प्रसङ्गः । तथापि तद्आसक्तौ तद्दोष एव कारणमिति स्व
दोषं परिहरन्ती दैन्यमालम्ब्य तस्य निर्दयत्वं प्रतिपादयति दिवि भुवि
च [भागवतम् १०.४७.१५] इत्यादि ।
[४०८]

अपि च । एवमपि अस्मद्विधकृपणपक्षपाते सत्येव तत्र उत्तमश्लोक
शब्दो भवितुमर्हति सम्प्रति तु तस्य तद्अभावदर्शनान्न सदयत्वं
तद्अभावान्यतरामुत्तमश्लोकत्वमपि इति भावः । (पगे १५३) स्व
कौमल्यमुद्रया जनितं तच्चाटुकारोद्यमतिशयं मत्वाह विसृज शिरसि
[भागवतम् १०.४७.१६] इत्यादि ।

[४०९]

ततः प्रणयेर्षया तस्मिन् दोषमारोप्यापि स्वस्व्यास्तदीयासक्ति
परित्यागासामार्थ्यं वर्णयन्ती तत्तद्दोषं परिहरति मृगयुर्[भागवतम्
१०.४७.१७] इत्यादि ।

[४१०]

यतस्तेऽप्यसिता एवंविधास्तस्मादसितस्य श्यामजातिमात्रस्य सख्यैः
प्रणयबन्धैः । पुनः तत्कथाया यद्दुस्त्यजत्वं तत्खलु तस्यापि
दोषत्वेनैव स्थापयति यदनुचरित [भागवतम् १०.४७.१८] इत्यादि ।

[४११]

कर्णस्यैव पीयूषं न तु मनस इत्यापातमात्रस्वाद्यत्वं बोधितम् ।
विधूतद्वन्द्वधर्मत्वादेव विनष्टा अचेतनप्राया जाताः । इह
वृन्दावने व्हङ्गाः शुकादयोऽपि भिक्षोः सन्न्यासिनश्चर्यां
देहादिनैरपेक्ष्यं चरन्ति आचरन्तो दृश्यन्त इत्यर्थः । ततः सानुतापम्
आह वयमृतम् [भागवतम् १०.४७.१९] इति ।

[४१२]

तदेवमष्टकेन मानभङ्गीं व्यज्य स्वकाठिन्यातिशयेन दूतं
निवर्तमानमाशङ्क्य कलहान्तरिताभङ्ग्या द्वयेनाह प्रियसखा [भागवतम्
१०.४७.२०] इति ।

[४१३]

तत्रापि सकौटिल्यमर्धेनाह नयसीति । द्वन्द्वं मिथुनीभावः ।
दुस्त्यजद्वन्द्वत्वे हेतुः सततमिति । अत्र तद्वक्षसि स्थिता लक्ष्मी रेखैव
प्रेमेर्ष्यया साक्षात्तद्रूपत्वेनोत्प्रेक्षिता । अन्ते सदैन्यमाह अपि बत
[भागवतम् १०.४७.२१] इति ।

श्रीकृष्णसन्देशो यथोदाहृतः श्रीकृष्णसन्दर्भे भवतीनां वियोगो मे
[भागवतम् १०.४७.२९] इत्यादिकः । अत्र प्रकाशान्तरेण सर्वव्रजसहितस्य तस्य
नित्यवृन्दावनविहाररूपोऽर्थस्तत्रैव प्रतिपादितः । यस्तु व्यक्तो ज्ञान
योगप्रतिपादकः स च दुःखादौ शमयितव्ये लोकरीत्या सम्भवतीत्य्
एके । तत्र ज्ञानयोगोपदेशेन तासां न शान्तिरिति द्वितीयसन्देशो यत्त्वहं
भवतीनां वै [भागवतम् १०.४७.३४] इत्यादिकः । या मया क्रीडता रात्र्याम् [भागवतम्
१०.४७.३७] इत्यन्तः ।
अत्र यत्त्वहमित्यादौ अपि स्मरथ नः सख्यः स्वानामर्थचिकीर्षया
गतान् [भागवतम् १०.८२.४२] इत्यादि वक्ष्यमाणानुसारेण कार्यान्तरस्यापि भवत्
प्रेमसुखवृद्धिफलत्वमेवेत्यभिप्रायः ।

ततस्ताः कृष्णसन्देशैर्व्यपेतविरहज्वराः ।
उद्धवं पूजयां चक्रुर्ज्ञात्वात्मानमधोक्षजम् ॥ [भागवतम् १०.४७.५३]

इत्यत्रापि व्यपेतविरहज्वरत्वं तद्आगमनादिश्रवणेनापातशान्ति
रूपमेव क्वचिद्गदाग्रजः सौम्य [भागवतम् १०.४७.४०] इत्य्आद्य्उक्तेः । आत्मानं
तस्य तद्दूततया तत्प्रेर्यत्वेनान्तःकरणाधिष्ठातारमधोक्षजं श्री
कृष्णमेव मत्वा तद्आत्मकत्वेनोद्धवं पूजयाञ्चक्रुरित्यर्थः । यथा
चोक्तम्

तमागतं समागम्य कृष्णस्यानुचरं प्रियम् ।
नन्दः प्रीतः परिष्वज्य वासुदेवधियार्चयत् ॥ [भागवतम् १०.४६.१४] इति ।

॥ १०.४७ ॥ श्रीशुकः ॥ ४०३४१३ ॥

[४१४]

एवं श्रीबलदेवद्वारकसन्देशोऽप्यनुमेयः

सङ्कर्षणस्ताः कृष्णस्य सन्देशैर्हृदयंगमैः ।
सान्त्वयामास भगवान्नानानुनयकोविदः ॥ [भागवतम् १०.६५.१६] इत्यनुसारेण ।

अथ तद्अनन्तरजः सन्दर्शनादिमयः सम्भोगः कुरुक्षेत्र प्रसिद्धः ।
यथा

गोप्यश्च कृष्णमुपलभ्य चिरादभीष्टं (पगे १५४)
यत्प्रेक्षणे दृशिषु पक्ष्मकृतं शपन्ति ।
दृग्भिर्हृदीकृतमलं परिरभ्य सर्वास्
तद्भावमापुरपि नित्ययुजां दुरापम् ॥ [भागवतम् १०.८२.३९]

[४१५]

तदेवं तासामवस्थामुक्त्वा श्रीभगवतोऽपि तद्विषयकस्नेहमयीम्
ईहामाह

भगवांस्तास्तथाभूता विविक्त उपसङ्गतः ।
आश्लिष्यानामयं पृष्ट्वा प्रहसन्निदमब्रवीत् ॥ [भागवतम् १०.८२.४०]

[४१६]

अन्तःसक्षोभेणापि रुक्ष एव प्रहासोऽयं स्वापराधं क्षमयता
प्रपञ्चितः । तत्र स्वव्यवहारोपपत्त्या सान्त्वयति

अपि स्मरथ नः सख्यः स्वानामर्थचिकीर्षया ।
गतांश्चिरायिताञ्छत्रु पक्षक्षपणचेतसः ॥ [भागवतम् १०.८२.४१]
[४१७]

किं वा रोषेण स्मरणमपि न कुरुथेति भावः । तत्र स्वदोषनिवारणं
स्वानामिति । स्वानां स्वेषामस्मत्पितुः श्रीव्रजराजस्य बन्धुवर्गाणां
यादवानाम् । उभयेषामपि यादवत्वेन ज्ञान्तीनामिति वा । तत्रातिविलम्बे
कारणं शत्रुपक्षेति । ततश्च भवतीनां निर्विघ्नः संयोगोऽप्यनेन
भविष्यतीति भावः । आत्मनो वामान्तरसङ्गमाशङ्क्य परमेश्वर
पारतन्त्र्योपपादानेन सान्त्वयति

अप्यवध्यायथास्मान् स्विदकृतज्ञाविशङ्कया ।
नूनं भूतानि भगवान् युनक्ति वियुनक्ति च ॥ [भागवतम् १०.८२.४२] इत्यादि
द्वयम् ।

[४१८]

स्वस्य परमेश्वरत्वप्रसिद्धिमाशङ्क्य सङ्कुचन् तथापि विरहजात
प्रेमातिशयोऽयं युष्मद्अभीष्टाव्याघातायैव जात इत्याह

मयि भक्तिर्हि भूतानाममृतत्वाय कल्पते ।
दिष्ट्या यदासीन्मत्स्नेहो भवतीनां मद्आपनः ॥ [भागवतम् १०.८२.४४]

टीका चमयि भक्तिमात्रमेव तावदमृतत्वाय कल्पते । यत्तु
भवतीनां मत्स्नेह आसीत्तद्दिष्ट्या अतिभद्रम् । कुतः मद्आपनः मत्
प्रापणः इत्येषा ।

[४१९]

तत्र स्वप्राप्तौ विश्वासार्थं देशान्तरस्थितस्यापि स्वस्य श्रीकृष्णाख्य
नराकृतिपरब्रह्मणः सर्वाश्रयत्वमनुभावयति अहं हि सर्व
भूतानाम् [भागवतम् १०.८२.४४] इत्यादिद्वये ।

[४२०]

उक्तं च दामोदरलीलायां न चान्तर्न बहिर्यस्य [भागवतम् १०.९.१३] इत्यादि ।
अत्र च पद्यद्वये प्रकाशान्तरेण वृन्दावन एव सर्वव्रजसहिततदीय
नित्यविहारः श्रीकृष्णसन्दर्भे दर्शितः । स एवात्रानुसन्धेयः । तत्र च
तासां तथैवानुभवोदेयो जात इत्याह अध्यात्मशिक्षये [भागवतम् १०.८२.४५] इति ।

आत्मानं स्वं श्रीकृष्णमधिकृत्य या शिक्षा तया । विरहोद्भुततद्
अनुस्मरणजीर्णदेहास्तं श्रीकृष्णं तथैवान्वभवन्निति । एके त्वाहुः
 अहं हीत्यादिकं लोकरीत्या दुःखनिवारणार्थमेव ब्रह्मज्ञानम्
उक्तम् । न तु तत्र तात्पर्यम् । यथा रुक्मिवैरूप्यकृतौ श्रीबलदेवेन
वहति न तु तत्र तात्पर्यं, तद्वत् । तदेवमेव तादृशाध्यात्मशिक्षयापि
तास्तमेवाध्यगान्न तु ब्रह्मेति ।

[४२१]

तथापि तासां साक्षात्प्राप्त्य्उत्कण्ठामाह आहुश्च ते नलिननाभ
पदारविन्दम् [भागवतम् १०.८२.४८] इत्यादि ।
तत्र हे नलिननाभ, नोऽस्माकं दुःखोद्रेकेण त्वच्चिन्तनारम्भ
जायमानमूर्छानां ते तव पदारविन्दं मनस्यप्युदियात् । यत्खलु
यथा भवतोपदिस्टं तद्अनुसारेणाक्षुभितबोधैर्(पगे १५५) योगेश्वरैर्
हृदि विचिन्त्यमित्यादि श्रीकृष्णसन्दर्भव्याख्या द्रष्टव्या (Kऋष्णष्
१७०) ॥

॥ १०.८२ ॥ श्रीशुकः ॥ ४१४४२१ ॥

[४२२]

तदेवं सन्दर्शनसंस्पर्शनसंजल्पात्मकसम्भोगोऽत्र दर्शितः ।
तस्मिन्मासत्रयसंवासात्मके च वैशेष्ट्यान्तरमप्यूह्यम् । अथ पुनस्
तद्अनन्तरजातविप्रलम्भानन्तरमपि भावी योऽपुनर्विच्छेदः
सम्भोगः स च तत्रैव सूचितोऽस्ति । यता तथानुगृह्य भगवान् गोपीनां स
गुरुर्गतिः [भागवतम् १०.८३.१] इति ।

आहुश्चेत्यादिना यथा तासां साक्षात्तत्प्राप्तिपर्यन्तमभीष्टं
तथानुगृह्य गतिर्नित्यतया प्राप्तव्यः ।

॥ १०.८३ ॥ श्रीशुकः ॥ ४२२ ॥

[४२३]

एवमेव श्रीकृष्णसअन्दर्भे पाद्मोत्तरखण्डाद्य्अनुसारेण दर्शितम्
अस्ति । तत्र हि श्रीकृष्णस्य द्वारकातो वृन्दावने पुनरागमनम् । तदा
प्रापञ्चिकलोकप्रकटतया मासद्वयं ताभिः क्रीडा । तद्अनन्तरं च
तद्अप्रकटतया ताभ्यो नित्यसंयोगदानमिति । एकादशेऽपि स्वयम्
एवोद्धवं प्रति तदेव स्पष्टमुक्तम् । तत्र रामेण सार्धं मथुरां
प्रणीत [भागवतम् ११.१२.१०] इत्य्आदिद्वये वियोगतीव्राधयस्ता मत्तोऽन्यं सुखाय
न ददृशुरिति । तास्ताः क्षपा मया हीनाः कल्पसमा बभूवुः [भागवतम्
११.१२.११] इति चातीतप्रयोगेण तदानीं विरहस्य नास्तित्वं बोधितम् ।

तद्अनन्तरं स्वप्राप्तिसुखोल्लासश्च वर्णितः । ता नाविदन्मय्यनुषङ्ग
बद्धधियः [भागवतम् ११.१२.१२] इत्य्आदिद्वयेन । अनु महाविरहस्य पश्चाद्
यः सङ्गस्तेन बद्धधियः सत्यः परमानन्दावेशेन तदानीं किमपि
नाविदन् । हर्षमोहं प्रापुरित्यर्थः ।

तत्र तज्ज्ञानस्य कृष्णैकतानतायां दृष्टान्तः यथेति । अस्यार्थान्तरमपि
श्रीकृष्णसन्दर्भे कृतमस्ति मत्कामा रमणं जारम् [भागवतम् ११.१२.१३] इत्य्
आदौ तद्अनन्तरपद्ये तं च यादृशं प्रापुस्तथा विशिनष्टि । विवृतं च
तत्रैव सङ्क्षेपतश्च । मां श्रीकृष्णाख्यं परमं ब्रह्म प्रापुः । तं
च मन्नित्यप्रेयसीलक्षणं स्वस्वरूपमजानन्त्यो जाररूपं पूर्वं
प्रापुः । तथापि मयि कामः रमणत्वेनाभिलाषो यासां तादृश्यः सत्यो
रमणरूपं तु पश्चादिति ।

ततः परकीयाभासत्वं च तासां कालकतिपयमयत्वेनैव व्याख्यातम् ।
एवमेवाभिप्रेतमस्मदुपजीव्यश्रीमच्चरणानामुज्ज्वलनीलमणौ
तत्रोपक्रमे
नेष्टा यदङ्गिनि रसे कविभिर्परोढा
तद्गोकुलाम्बुजदृशां कुलमन्तरेन ।
आशांसया रसविधेरवतारितानां
कंसारिणा रसिकमण्डलशेखरेण ॥ [ऊण्५.३]

इत्यत्रावतारसमय एव तथा व्यवहारनिगमनात् । उपसंहारे च ललित
माधवस्य [७.१८] दग्धं हन्त दधानया वपुः इत्यादावौपपत्य
भ्रमहानान्तरलीलायां सर्वफलस्य समृद्धिमद्आख्यस्य
सम्भोगस्य दर्शितत्वात् ।

तदेवमस्य विप्रलम्भचतुष्टयपुष्टस्य सम्भोगचतुष्टयस्य
सन्दर्शनादित्रयात्मकस्यावान्तरभेदा अन्येऽपि ज्ञेयाः । यथा लीला
चौर्यं सङ्गानं रासः जलक्रीडा वृन्दावनविहार इत्यादयः । तत्र लीला
चौर्यं यथा तासां वासांस्युपादाय नीपमारुह्य सत्वरः [भागवतम् १०.२२.९]
इत्यादि । स्पष्टम् ।

॥ १०.२२ ॥ श्रीशुकः ॥ ४२३ ॥

[४२४]

सङ्गानं काचित्समं मुकुन्देन [भागवतम् १०.३३.९] इत्यादौ । एवं

कदाचिदथ गोविन्दो रामश्चाद्भुतविक्रमः ।
विजह्रतुर्वने रात्र्यां मध्यगौ व्रजयोषिताम् ॥ (पगे १५६)
उपगीयमानौ ललितं स्त्रीजनैर्बद्धसौहृदैः ।
स्वलङ्कृतानुलिप्ताङ्गौ स्रग्विनौ विरजोऽम्बरौ ॥ [भागवतम् १०.३४.२०२१] इत्यादि ।

प्रायो होरिकावसरोऽयम् । व्रज एव गानेन सभ्रातृकस्यापि तस्य स्त्रीजनैर्
विहारात् । तथा भविष्योत्तरविधानात् । तथैवाद्याप्यार्यावर्तीयप्रजानाम्
आचारोऽपि दृश्यते । अत्र च निशामुखं मानयन्तावुदितोडुपतारकम् [भागवतम्
१०.३४.१३] इति तन्मोहात्सवशालिन्यां फाल्गुनपौर्णमास्यां हेमन्तशिशिर
हिमकुज्झटिकान्ते चन्द्राद्य्उल्लासे तद्उल्लासो वर्णितः । तस्मात्तदानीं
सख्योल्लासधारिणा श्रीरामेणापि युतिः सङ्गतैव । वने रात्र्यामिति पाठस्
तु क्वाचित्क एव । तत्र च व्रजान्तस्थमेव वनं ज्ञेयम् ।

॥ १०.३४ ॥ श्रीशुकः ॥ ४२४ ॥

[४२५४२७]

रासः । तत्रारभत गोविन्दो रासक्रीडामनुव्रतैः [भागवतम् १०.३३.२] इत्यादि ।
जलक्रीडा सोऽम्भस्यलं युवतिभिः परिषिच्यमानः [भागवतम् १०.३३.२३] इत्यादि ।
वृन्दावनविहारः ततश्च कृष्णोपवने जलस्थलप्रसूनगन्धानिल
जुष्टदिक्तटे [भागवतम् १०.३३.२४] इत्यादि । स्पष्टम् ।

॥ १०.३३ ॥ सः ॥ ४२५४२७॥

[४२८]

अथ सम्प्रयोगो यथाबाहुप्रसारपरिरम्भकरालकोरुनीवी [भागवतम्
१०.२९.४६] इत्यादि । स्पष्टम् ।

॥ १०.२९ ॥ सः ॥ ४२८ ॥

[४२९]

इयं च श्रीकृष्णचन्द्रस्योज्ज्वललीला राससम्बन्धिन्यप्यनन्तत्वेन
सम्मता एवं शशाङ्कांशुविराजिता निशाः [भागवतम् १०.३३.२५] इत्यादौ । अथ
सर्वसौभाग्यवतीमूर्ध्वमणेः श्रीराधिकायाः सम्बन्धिनीं लीलां
वर्णयन्ति

कस्याः पदानि चैतानि याताया नन्दसूनुना ।
अंसन्यस्तप्रकोष्ठायाः करेणोः करिणा यथा ॥
अनयाराधितो नूनं भगवान् हरिरीश्वरः ।
यन्नो विहाय गोविन्दः प्रीतोऽयमनयद्रहः ॥
धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्यब्जरेणवः ।
यान् ब्रह्मेशो रमा देवी दधुर्मूर्ध्न्यघनुत्तये ॥
तस्या अमूनि नः क्षोभं कुर्वन्त्युच्चैः पदानि यत् ।
यैकापहृत्य गोपीनां रहो भुङ्क्तेऽच्युताधरम् ॥
न लक्ष्यन्ते पदान्यत्र तस्या नूनं तृणाङ्कुरैः ।
खिद्यत्सुजाताङ्घ्रितलामुन्निन्ये प्रेयसीं प्रियः ॥
इमान्यधिकमग्नानि पदानि वहतो वधूम् ।
गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः ॥
१ रावरोपिता कान्ता पुष्पहेतोर्महात्मना ।
अत्र प्रसूनावचयः प्रियार्थे प्रेयसा कृतः ॥
प्रपदाक्रमणे एते पश्यतासकले पदे ।
केशप्रसाधनं त्वत्र कामिन्याः कामिना कृतम् ।
तानि चूडतया कान्तामुपविष्टमिह ध्रुवम् ॥ [भागवतम् १०.३०.२७३४]

अत्र कस्या इति सर्वासां वाक्यम् । अनया इति सुहृदाम् । धन्या इति तट्स्थानाम् ।
तस्या इति प्रतिपक्षाणाम् । न लक्ष्यन्त इति ताः खेदयन्तीनां सखीनाम् ।
इमानीति तद्असहमानानां प्रतिपक्षाणाम् । अत्रावरोपितेति सार्धं पुनः
सखीनाम् । केशेति पुनः प्रतिपक्षाणामर्धम् । तानीति पुनः सखीनाम्
इति ज्ञेयम् । तन्मिथुनविषयकतत्तच्छब्दप्रयोगेण
सौहृदादिव्यञ्जनात् । या तु विलोक्यार्ताः समब्रुवन् [भागवतम् १०.३०.२६] इति
सर्वासामेवार्तिरुक्ता सापि स्वस्योत्कण्ठाविशेषेण सर्वत्र सङ्गच्छत एव ॥

॥ १०.३० ॥ श्रीव्रजदेव्यः ॥ ४२९ ॥

तत्र तस्याः श्रीवृन्दावनेश्वर्या लीलायां प्राक्प्रदर्शितमप्येणपत्नी
[भागवतम् १०.३०.११] इत्य्आदिद्वयं चानुसन्धेयम् ॥

तत्र विस्तरशङ्कातो या या व्याख्या न विस्तृता ।
सा श्रीदशमटिप्पन्यां दृश्या रसमभीप्सुभिः ॥

तदेवमनेन सन्दर्भेण शास्त्रप्रयोजनं व्याख्यातम् । तथा चैवम्
अस्तु ।
आलीभिः परिपालितः प्रवलितः सानन्दमालोकितः
प्रत्याशं सुमनःफलोदयविधौ सामोदमामोदितः ।
वृन्दारण्यभुवि प्रकाशमधुरः सर्वातिशायिश्रिया
राधामाधवयोः प्रमोदयतु मामुल्लासकल्पद्रुमः ॥

तादृशभावं भावं प्रथयितुमिह योऽवतारमायातः ।
आदुर्जनगणशरणं स जयति चैतन्यविग्रहः कृष्णः ॥

इति श्रीकलियुगपावनस्वभजनविभाजनप्रयोजनावतारश्रीश्री
भगवत्कृष्णचैतन्यदेवचरणानुचरविश्ववैष्णवराजसभाजन
भाजनश्रीरूपसनातनानुशासनभारतीगर्भे श्रीभागवतसन्दर्भे
प्रीतिसन्दर्भो नाम षष्ठः सन्दर्भः ॥

श्रीभागवतसन्दर्भे सर्वसन्दर्भगर्भगे ।
प्रीत्याख्यः षष्ठः सन्दर्भः समाप्तिमिह सङ्गतः ॥

समाप्तोऽयं षष्ठः सन्दर्भः । सम्पूर्णोऽयं ग्रन्थः ।
श्रीप्रीतिसन्दर्भः