← प्रथमः भागः श्रीभाष्यम्
द्वितीयः भागः
[[लेखकः :|]]

2.1.1

स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्न अन्यस्मृत्यनवकाशदोषप्रसङ्गात् ।। 1 ।।

2.1.1

 

प्रथमाध्याये प्रत्यक्षादिप्रमाणगोचरादचेतनात् तत्संसृष्टात्तद्वियुक्ताच्च चेतनात् अर्थान्तरभूतं निरस्तनिखिलाविद्याद्यपुरुषार्थगन्धं अनन्तज्ञानानन्दैकतानं अपरिमितोदारगुणसागरं निखिल-जगदेककारणं सर्वान्तरात्मभूतं ब्रह्म वेदान्तवेद्यमित्युक्तम् ।

अनन्तरमस्यार्थस्य सम्भावनीयसमस्तप्रकारदुर्धर्षणत्वप्रतिपादनाय द्वितीयोऽध्याय आरभ्यते । प्रथमं

2.1.1

 

तावत् कपिलस्मृतिविरोधाद्वेदान्तानां अतत्परत्वमाशङ्कय तन्निराक्रियते । कथं स्मृतिविरोधाच्छØतेरन्यपरत्वम् ? उक्तं हि "विरोधे त्वनपेक्ष्यं स्यात्" इति श्रुतिविरुद्धायाः स्मृतेरनादरणीयत्वम् । सत्यम्, "औदुम्बरीं स्पृष्ट्वो-द्गायेत्" इत्यादिषु स्वत एवार्थनिश्चयसम्भवात् तद्विरुद्धा स्मृतिरनादरणीयैव; इह तु वेदान्तवेद्यतत्त्वस्य दुरवबो-धत्वेन परमर्षिप्रणीतस्मृतिविरोधे सति अयमर्थ इति निश्चयात् योगास्मृत्या श्रुतेरतत्परत्वोपपादनमविरुद्धम् ।

2.1.1

 

एतदुक्तं भवति - प्राचीनभागोदितनिखिलाभ्युदयसाधनभूताग्निहोत्रदर्शपूर्णमासज्योतिष्टोमादिकर्माणि यथावद-भ्युपगच्छता श्रुतिस्मृतीतिहासपुराणेषु "ऋषिं प्रसूतं कपिलम्" इत्यादिवाक्यैराप्तत्वेन सङ्कीर्तितेन परमर्षिणा कपिलेन परमनिःश्रेयसतत्साधनावबोधित्वेन उपनिबद्धस्मृत्युपबृंहणेन विना अल्पश्रुतैर्मन्दमतिभिः वेदान्तार्थ-निश्चयायोगात् यथाश्रुतार्थग्रहणे चाप्तप्रणीतायास्साङ्खयस्मृतेः सकलाया एव अनवकाशप्रसङ्गाच्च स्मृतिप्रसिद्ध एवार्थो वेदान्तवेद्य इति बलादभ्युपगमनीयमिति । न च वाच्यं मन्वादिस्मृतीनां ब्रह्मैककारणत्ववादिनीनामेवं-सत्यनवकाशत्वदोषप्रसङ्ग इति; धर्मप्रतिपादनपरप्राचीनभागोपबृंहण एव सावकाशत्वात् । अस्यास्तु कृत्स्नाया-स्तत्त्वप्रतिपादनपरत्वात्तथानभ्युपगमे निरवकाशत्वमेव स्यात् । तदिदमाशङ्कते - स्मृत्यनवकाशदोषप्रसङ्ग इति चेदिति ।

तत्रोत्तरम्-नान्यस्मृत्यनवकाशदोषप्रसङ्गादिति । अन्या हि मन्वादिस्मृतयो ब्रह्मैककारणतां वदन्ति; यथाह मनुः - "आसीदिदं तमोभूतम्" इत्यारभ्य "ततः स्वयम्भूर्भगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादिवृत्तौजाः ।

2.1.1

 

"प्रादुरासीत्तमोनुदः" "सोऽभिध्याय शरीरात्स्वात् सिसृक्षुविर्विधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यमपा

2.1.1

 

-सृजत्"इति । भगवद्गीतासु च "अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा" "अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते" इति च । महाभारते "कुतः सृष्टमिदं सर्वं जगत्स्थावरजङ्गमम् । प्रलये च कमभ्येति तन्मे ब्रूहि पितामह" इति पृष्ट आह "नारायणो जगन्मूर्तिरनन्तात्मा सनातनः" इति । तथा "तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम" इति, "अव्यक्तं पुरुषे ब्रह्मन्निष्क्रिये सम्प्रलीयते" इति च । आह च भगवान्पराशरः "विष्णोस्सकाशादुद्भूतं जगत्तत्रैव च स्थितम्, स्थितिसंयमकर्तासौ जगतोऽस्य जगच्च सः" इति । आह चापस्तम्बः "पूः प्राणिनः सर्व एव

2.1.1

 

गुहाशयस्य अहन्यमानस्य विकल्मषस्य" इत्यारभ्य "तस्मात्कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकस्स नित्यः" इति । यदि कपिलस्मृत्या वेदान्तवाक्यार्थव्यवस्था स्यात्, तदैतासां सर्वासां स्मृतीनामनवकाशत्वरूपा महान् दोषः प्रसज्येत । अयमर्थः-यद्यपि वेदान्तवाक्यानाम् अतिक्रान्तप्रत्यक्षादिसकलेतरप्रमाणसम्भावनाभूमि-भूतार्थप्रतिपादनपरत्वात् तत्तदर्थवैशद्यायाल्पश्रुतानां तदर्थानुसारिणीनामाप्ततमप्रणीतानां बह्वीनां स्मृतीनां तदुपबृंहणाय प्रवृत्तानामनवकाशत्वं मा

प्रसाङ्क्षीदिति श्रुतिविरुद्धार्था कपिलस्मृतिरुपेक्षणीया । उपबृंहणं च श्रुतिप्रतिपन्नार्थविशदीकरणम्; तच्च विरुद्धार्थया स्मृत्या न शक्यते कर्तुम् । न चैतासां स्मृतीनां प्राचीनभा-गोदितधर्मांशविशदीकरणेन सावकाशत्वम्; परब्रह्मभूतपरमपुरुषाराधनत्वेन धर्मान्विदधतीनामेतासामाराध्य भूतपरमपुरुषप्रतिपादनाभावे सति तदाराधनभूतधर्मप्रतिपादनासम्भवात् । तथा हि परमपुरुषाराधनरूपता सर्वेषां कर्मणां स्मर्यते "यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिदिं्ध विन्दति मानवः" "ध्यायेन्नारायणं देवं स्नानादिषु च कर्मसु । ब्रह्मलोकमवाप्नोति न चेहावर्तते पुनः "यैस्स्वकर्मपरैर्नाथ

2.1.1

 

नरैराराधितो भवान् । ते तरन्त्यखिलामेतां मायामात्मविमुक्तये" इति । न चैहिकामुष्मिकसांसारिकफलसा-धनकर्मप्रतिपादनेनतासां सावकाशत्वम्; यतस्तेषामपि कर्मणां परमपुरुषाराधनत्वमेव स्वरूपम्; यथोक्तं "येऽप्यन्यदेवताभक्तता यजन्ते श्रद्धयाऽन्विताः । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् । अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्तिते" इति; तथा "यज्ञैस्त्वमिज्यसे नित्यं सर्वदेव-मयाच्युत । हव्यकव्यभुगेकस्त्वं पितृदेवस्व-रूपधृक्" इति । यदुक्तं "ऋषिं प्रसूतं कपिलम्" इति कपिलस्याप्ततया सङ्कीर्तनात्तत्स्मृत्यनुसारेण वेदान्तार्थव्य-वस्तापनं न्याय्यमिति; तदसत्, बृहस्पतेः श्रुतिस्मृतिषु सर्वेषामतिश-यितज्ञानानां निदर्शनत्वेन सङ्कीर्तनात्तत्प्र-णीतेन लोकायतेन श्रुत्यर्थव्यवस्थापनप्रसक्तेरिति ।

2.1.2

अथ स्यात्, कपिलस्य स्वयोगमहिम्ना वस्तुयाथात्म्योपलब्धेस्तत्स्मृत्यनुसारेण वेदान्तार्थो व्यवस्थाप-यितव्य इति; अत उत्तरं पठति -

2.1.2

इतरेषां चानुपलब्धेः ।। 2 ।।

2.1.2

 

चशब्दस्तुशब्दार्थश्चोदिताशङ्कानिवृत्त्यर्थः । इतरेषाम्-मन्वादीनां बहूनां स्वयोगमहिमसाक्षात्कृत-परावरतत्त्वयाथात्म्यानां निखिलजगद्भेषजभूतस्ववाक्यतया "यद्वै किञ्चन मनुरवदत्तद्भेषजम्" इति श्रुतिप्रसि-द्धानां कपिलदृष्टप्रकारेण तत्त्वानुपलब्धेः श्रुतिविरुद्धाकपिलोपलब्धिर्भ्रान्तिमूलेति न तया यथोक्ता वेदान्तार्थ-श्चालयितुं शक्य इति सिद्धम् ।। इति स्मृत्यधिकरणम् ।।

2.1.3

एतेन योगः प्रत्युक्तः ।। 3 ।।

2.1.3

 

एतेन कापिलस्मृतिनिराकरणेन योगस्मृतिरपि प्रत्युक्ता । का पुनरत्राधिकाशङ्का, यन्निराकरणाय न्यायातिदेशः, योगस्मृतावपीश्वराभ्युपगमान्मोक्षसाधनतया वेदान्तविहितयोगस्य चाभि-धानात् वक्तुर्हिरण्यगर्भस्य सर्ववेदान्तप्रवर्तनाधिकृतत्वाच्च तत्स्मृत्या वेदान्तोपबृंहणं न्याय्यमिति ।

परिहारस्तु-अब्रह्मात्मकप्रधानकारणवादान्निमित्तकारणमात्रेश्वराभ्युपगमात् ध्यानात्मकस्य योगस्य ध्येयैकनिरूपणीयस्य ध्येयभूतयोरात्मेश्वरयोर्ब्रह्मात्मकत्वजगदुपादानतादिसवर्कल्याणगुणात्मकत्वविरहेणा-वैदिकत्वाद्वक्तुर्हिरण्यगर्भस्यापि क्षेत्रज्ञभूतस्य कदाचिद्रजस्तमोऽभिभवसम्भवाच्च योगस्मृतिरपि तत्प्रणीत-रजस्तमोमूलपुराणवद्भ्रान्तिमूलेति न तया वेदान्तोपबृंहणं न्याय्यमिति ।। इति योगप्रत्युक्तयधिकरणम् ।।

2.1.4

न विलक्षणत्वादस्य तथात्वं च शब्दात् ।। 4 ।।

2.1.4

 

पुनरपि स्मृतिविरोधवादी तर्कमवलम्बमानः प्रत्यवतिष्ठते-यत्साङ्खयस्मृतिनिराकरणेन जगतो ब्रह्मकार्यत्वमुक्तम्,तन्नोपपद्यते; अस्य प्रत्यक्षादिभिरचेतनत्वेनाशुद्धत्वेनानीश्वरत्वेन दुःखात्मकत्वेन चोपलभ्यमानस्य चिदचिदात्मकस्य जगतः भवदभ्युपेतात्सर्वज्ञात्सर्वेश्वराद्धेयप्रत्यनीकादानन्दैकतानाद्ब्रह्मणो विलक्षणत्वात् । न केवलं प्रत्यक्षादिभिरेव जगतो वैलक्षण्यमुपलभ्यते, शब्दाच्च तथात्वम्-विलक्षणत्वम् उपल-भ्यते "विज्ञानं चाविज्ञानं च" "एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणे अर्पिताः" समाने वृक्षे पुरुषो निमग्नोऽग्नीशया शोचति मुह्यमानः" "अनीशश्चात्मा बध्यते भोक्तृभावात्" इत्यादिभिः । कार्यस्य हि जगतोऽचेतनत्वदुःखित्वादयो निर्द्दिश्यन्ते । यद्धि यत्कार्यम्, तत्तस्मादविलक्षणम्, यथा मृत्सुवर्णादिकार्यं घट-रुचकादि; अतो ब्रह्मविलक्षणस्यास्य जगतस्तत्कार्यत्वं न सम्भवतीति साङ्खयस्मृत्यनुरोधेन कार्यसलक्षणं प्रधा-नमेव कारणं भवितुमर्हति । अवश्यं च शास्त्रस्यानन्यापेक्षस्यातीन्द्रियार्थगोचरत्वेपि तर्कोऽनुसरणीयः, यतस्स-र्वेषां प्रमाणानां क्वचित् क्वचिद्विषये तर्कानुगृहीतानामेवार्थनिश्चयहेतुत्वम् । तर्को हि नाम अर्थस्वभावविषयेण

3.अधिकरणम्

 

न तावत्सर्वधर्मसारूप्यम्, कार्यकारणभावानुपपत्तेः । न हि मृत्पिण्डकार्येषु घटशरावादिषु पिण्डत्वाद्यनुवृत्ति-र्दृश्यते । अथ येन केनचिद्धर्मेण सारूप्यम्, तज्जगद्ब्रह्मणोरपि सत्तादिलक्षणं सम्भवति । तदुच्यते; येन स्व-भावेन कारणभूतं वस्तु वस्त्वन्तराद्य्वावृत्तं तस्य स्वभावस्य तत्कार्येऽप्यनुवृत्तिः कार्यस्य कारणसालक्षण्यम्, येन ह्याकारेण मृदादिभ्यो हिरण्यं व्यावर्तते, तदाकारानुवृत्तिस्तत्कार्येषु कुण्डलादिषु दृश्यते । ब्रह्म च हेयप्रत्यनीक-ज्ञानानन्दैश्वर्यस्वभावम्, जगच्च तत्प्रत्यनीकस्वभावमिति न तदुपादानम् । ननु च वैलक्षण्येपि कार्यकारणभावो दृश्यते, यथा चेतनात्पुरुषादचेतनानि केशनखदन्तलोमानि जायन्ते, यथा चाचेतनाद्गोमयाच्चेतनो वृश्चिको जायते; चेतनाच्चोर्णनाभेरचेतनस्तन्तुः, नैतदेवम्, यतस्तत्राप्यचेतनांश एव कार्यकारणभावः ।

2.1.5

अथ स्यात्- अचेतनत्वेनाभिमतानामपि चैतन्ययोगः श्रुतिषु श्राव्यते "तं पृथिव्यब्रवीत्" "आपो वा अकामयन्त" "ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्माणं जग्मुः" इति नदीसमुद्रपर्वतादीनामपि चेतनत्वं पौराणिका आतिष्ठन्ते, अतो न वैलक्षण्यमिति । अत उत्तरं पठति -

2.1.5

अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ।। 5 ।।

2.1.5

तुशब्दश्चोदिताशङ्कानिवृत्त्यर्थः, पृथिव्याद्यभिमानिन्यो देवताः "तं पृथिव्यब्रवीत्" इत्यादिषु पृथिव्या-दिशब्दैर्व्यपदिश्यन्ते । कुतः ? विशेषानुगतिभ्याम् विशेषः विशेषणम्, देवताशब्देन विशेष्य पृथिव्यादयोऽ-भिधीयन्ते, "हन्ताहमिमास्तिस्रो देवताः" इति तेजोऽबन्नानि देवताशब्देन विशेष्यन्ते "सर्वा ह वै देवता

अहंश्रेयसे विवदमानाः" "ते देवाः प्राणे निःश्रेयसं विदित्वा" इति च; अनुगतिः-अनुप्रवेशः । "अग्निर्वाग्भूत्वा

2.1.5

 

मुखं प्राविशत् आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत् वायुः प्राणो भूत्वा नासिके प्राविशत्" इत्यादिना वागाद्य-भिमानित्वेनाग्न्यादीनामनुप्रवेशः श्रूयते अतो जगतोऽचेतनत्वेन विलक्षणत्वाद्ब्रह्मकार्यत्वानुपपत्तेस्तर्कानुगृही-तस्मृत्यनुरोधेन जगतः प्रधानोपादानत्वं वेदान्तैः प्रतिपाद्यते इति ।। 5 ।।

2.1.6

एवं प्राप्तेऽभिधीयते -

2.1.6

दृश्यते तु ।। 6 ।।

2.1.6

 

तुशब्दात्पक्षो विपरिवर्तते; यदुक्तं जगतो ब्रह्मविलक्षणत्वेन ब्रह्मोपादानत्वं न सम्भवतीति । तदयुक्तम्, विलक्षणयोरपि कार्यकारणभावदर्शनात् । दृश्यते हि माक्षिकादेर्विलक्षणस्य क्रिम्यादेस्तस्मादुत्पत्तिः । ननूक्त-मचेतनांश एव कायर्कारणभावात्तत्र सालक्षण्यम् । सत्यमुक्तम्, न तावता कायर्कारणयोर्भवदभिमतसालक्ष-ण्यसिद्धिः, यथाकथञ्चित्सालक्षण्ये सर्वस्य सर्वसालक्षण्येन सर्वस्मात्सर्वोत्पत्तिप्रसङ्गभयाद्वस्तुनो वस्त्वन्तरा-द्य्वावृत्तिहेतुभूतस्याकारस्यानुवृत्तिस्सालक्षण्यं भवताऽभ्युपेतम्, स तु नियमोमाक्षिकादिभ्यः क्रिम्याद्युत्पत्तौ न दृश्यत इति ब्रह्मविलक्षण्यस्यापि जगतो ब्रह्मकार्यत्वं नानुपपन्नम् । न हि मृद्धिरण्यघटमकुटादिष्विव वस्त्वन्त-रव्यावृत्तिहेतुभूत असाधारणाकारानुवृत्तिः माक्षिकगोमयक्रिमिवृश्चिकादिषु दृश्यते ।। 6 ।।

2.1.7

असदिति चेन्न प्रतिषेधमात्रत्वात् ।। 7 ।।

2.1.7

 

यदि कार्यभूताज्जगतः कारणभूतं ब्रह्म विलक्षणम् तर्हि कायर्कारणयोर्द्रव्यान्तरत्वेन कारणे परस्मिन् ब्रह्मणि कार्यं जगन्न विद्यत इत्यसत एव जगत उत्पत्तिः प्रसज्यत इति चेत्,-नैतदेवम्; कार्यकारणयोः साल-क्षण्यनियमप्रतिषेधमात्रमेव हि पूर्वसूत्रेऽभिप्रेतम्, न तु कारणात्कार्यस्य द्रव्यान्तरत्वम्, कारणभूतं ब्रह्मैव स्वस्माद्विलक्षणजगदाकारेण परिणमत इत्येतत्तु न परित्यक्तम्, क्रिमिमाक्षिकयोरपि हि सति च वैलक्षण्ये

2.1.8

 

कुण्डलहिरण्ययोरिव द्रव्यैक्यमस्त्येव ।। अत्र चोदयति -

2.1.8

अपीतौ तद्वत्प्रसङ्गादससञ्जसम् ।। 8 ।।

2.1.8

 

अपीतावित्यपीतिपूर्वकसृष्टयादेः प्रदर्शनार्थम्, "सदेव सोम्येदमग्र आसीत्" आत्मा वा इदमेक एवाग्र आसीत्" इत्यादिषु अप्ययावस्थोपदेशपूर्वकत्वदर्शनात्सृष्टयादेः । यदि कार्यकारणयोर्द्रव्यैक्यमभ्युपेतम् तदा कार्यस्य जगतो ब्रह्मणि अप्ययसृष्टयादिषु सत्सु ब्रह्मण एव तत्तदवस्थान्वय इति कार्यगतास्सर्व एवापुरुषार्था ब्रह्मणि प्रसज्येरन्, सुवर्ण इव कुण्डलगता विशेषाः । ततश्च वेदान्तवाक्यं सर्वमसमञ्जसं स्यात्, "यस्सर्व-ज्ञस्सर्ववित्" "अपहतपाप्मा विजरो विमृत्युः" "न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते" "तयोरन्यः पिप्पलं स्वाद्वत्ति अनीशश्चात्मा बध्यते भोक्तृभावात्" "अनीशया शोचति मुह्यमानः" इत्येकस्मिन्नेव

वस्तुन्येषां परस्परविरुद्धानां प्रसक्तेः । अथोच्येत -चिदचिद्वस्तुशरीरकस्य परस्यैव ब्रह्मणः कार्यकारणभावा-च्छरीरभूतचिदचिद्वस्तुगतत्वाच्च दोषाणाम, न शरीरिणि ब्रह्मणि कार्यावस्थे कारणावस्थे च प्रसङ्ग इति । तदयुक्तम्, जगद्ब्रह्मणोः शरीरशरीरिभावस्यैवासम्भवात्; सम्भवे च ब्रह्मणि शरीरसम्बन्धनिबन्धनदोषा-णामनिवार्यत्वात्; न हि चिदचिद्वस्तुनोर्बह्मणः शरीरत्वं सम्भवति, शरीरं हि नाम कर्मफलरूपसुखदुःख-

2.1.8

 

भोगसाधनभूतेन्द्रियाश्रयः पञ्चवृत्तिप्राणाधीनधारणः पृथिव्यादिभूतसङ्घातविशेषः, तथाविधस्यैव लोकवेदयोः शरीरत्वप्रसिद्धेः, परमात्मनश्च "अपहतपाप्मा विजरः" "अनश्नन्नन्यो अभिचाकशीति अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स #ृणोत्यकर्णः" "अप्राणो ह्यमनाः" इत्यादिभिः कर्मतत्फलभोगयोरभावादिन्द्रियाधीन-भोगत्वाभावात्प्राणवत्त्वाभावाच्च न तं प्रति चेतनाचेतनयोश्शरीरत्वम् । न चाचेतनव्यष्टिरूपतृणकाष्ठादीनां समष्टिरूपस्य भूतसूक्ष्मस्य चेन्द्रियाश्रयत्वादि सम्भवति । भूतसूक्ष्मस्य पृथिव्यादिसङ्घातत्वं च न विद्यते । चेत-नस्य तु ज्ञानैकाकारस्य सर्वमेतन्न सम्भवतीति नतरां शरीरत्वसम्भवः । न च भोगायतनत्वं शरीरत्वमिति शरी-रत्वसम्भवः, भोगायतनेषु वेश्मादिषु शरीरत्वाप्रसिद्धेः । यत्र वर्तमानस्यैव

सुखदुःखोपभोगः, तदेव भोगायत-नमिति चेन्न; परकायप्रवेशजन्मसुखदुःखोपभोगायतनस्य परकायस्य प्रविष्टशरीरत्वाप्रसिद्धेः, ईश्वरस्य तु स्वत-स्सिद्धनित्यनिरतिशयानन्दस्य भोगं प्रति चिदचितोरायतनत्वनियमो न सम्भवति; एतेन भोगसाधनमात्रस्य शरीरत्वं प्रत्युक्तम् । अथ मतम्-यदिच्छाधीनस्वरूपस्थितिप्रवृत्ति यत् तत्तस्य शरीरमिति, सर्वस्येश्वरेच्छाधीन-स्वरूपस्थितिप्रवृत्तित्वेनेश्वरशरीरत्वं सम्भवतीति; तदपि न साधीयः, शरीरतया प्रसिद्धेषु तत्तच्चेतनेच्छायत्त-स्वरूपत्वाभावात् । रुग्णशरीरस्य तदिच्छाधीन प्रवृत्तित्वाभावात् मृतशरीरस्य तदायत्तस्थितित्वाभावाच्च, सालभञ्जिकादिषु चेतनेच्छाधीनस्वरूपस्थितिप्रवृत्तिषु तच्छरीरत्वाप्रसिद्धेश्च, चेतनस्य नित्यस्येश्वरेच्छायत्त-स्वरूपत्वाभावाच्च न तच्छरीरत्वसम्भवः । न च यद्येकनियाम्यं यदेकधार्यं यस्यैकशेषभूतम्, तत्तस्य शरीरमिति वाच्यम्; क्रियादिषु व्यभिचारात् । "अशरीरं शरीरेषु" "अपाणिपादो जवनो ग्रहीता" इत्यादिभिश्च ईश्वरस्य

2.1.8

 

शरीराभावः प्रतिपाद्यते,अतो जगद्ब्रह्मणोः शरीरशरीरिभावस्यासम्भवात्तत्सम्भवे च ब्रह्मणि दोषप्रसङ्गाद्ब्रह्मकारणवादे वेदान्तवाक्या-नामसामञ्जस्यमिति ।।

2.1.9

अत्रोत्तरम् -

2.1.9

न तु दृष्टान्तभावात् ।। 9 ।।

2.1.9

 

नैवमसामञ्जस्यम्-एकास्यैवावस्थाद्वयान्वयेपि गुणदोषव्यवस्थितेर्दृष्टान्तस्य विद्यमानत्वात् । तुश-ब्दोऽत्र हेयसम्बन्धगन्धस्यासम्भावनीयतां द्योतयति । एतदुक्तं भवति; चिदचिद्वस्तुशरीरतया तदात्मभूतस्य परस्य ब्रह्मणः सङ्कोचविकासात्मककार्यकारणभावावस्थाद्वयान्वयेऽपि न कश्चिद्विरोधः, यतः सङ्कोचविकासौ

परब्रह्मशरीरभूतचिदचिद्वस्तुगतौ । शरीरगतास्तु दोषाः नात्मनि प्रसज्यन्ते, आत्मगताश्च गुणा न शरीरे; यथा देवमनुष्यादीनां सशरीराणां क्षेत्रज्ञानां शरीरगता बालत्वयुवत्वस्थविरत्वादयो नात्मनि सम्बध्यन्ते; आत्म-गताश्च ज्ञानसुखादयो न शरीरे । अथ च "देवो जातो मनुष्यो जातः" तथा स एव बालो युवा स्थविरश्च" इति व्यपदेशश्च मुख्यः, भूतसूक्ष्मशरीरस्यैव क्षेत्रज्ञस्य देवमनुष्यादिभाव इति "तदन्तरप्रतिपत्तौ" इति वक्ष्यत इति । यत्पुनरुक्तं-चिदचिदात्मकस्य जगतः स्थूलस्य सूक्ष्मस्य च परमात्मानं प्रति शरीरभावो नोपपद्यत इति; तत् अनाकलितसम्यङ्न्यायानुगृहीतवेदान्तवाक्यगुणस्य स्वमतिपरिकल्पितकुर्तकविजृम्भितम्; सर्व एव हि वेदा-न्तः स्थूलस्य सूक्ष्मस्य चेतनस्याचेतनस्य समस्तस्य च परमात्मानं प्रति शरीरत्वं श्रावयन्ति; वाजसनेयके ताव-त्काण्वशाखायां माध्यन्दिनशाखायां चान्तर्यामिब्राह्मणे "यः पृथिव्यां तिष्ठन् यस्य पृथिवी शरीरम्" इत्यारभ्य पृथिव्यादिसमस्तमचिद्वस्तु "यो विज्ञानो तिष्ठन्...यस्य विज्ञानं शरीरम्" "य आत्मनि तिष्ठन्...यस्यात्मा शरीरम्" इति चेतनं च पृथक्पृथङ्#िनर्दिश्य तस्य तस्य परमात्मशरीरत्वमभिधीयते । सुवालोपनिषदि च "यः पृथिवीमन्तरे सञ्चरन् यस्य पृथिवी शरीरम्" इत्यारभ्य तद्वदेव चिदचितोस्सर्वावस्थयोः परमात्मशरीरत्वम-भिधाय "एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः" इति तस्य सर्वभूतानि प्रत्यात्मत्वम-

2.1.9

 

भिधीयते । स्मरन्ति च "जगत्सर्वं शरीरं ते" "यदम्बु वैष्णवः कायः" "तत्सर्वं वै हरेस्तनुः" "तानि सर्वाणि तद्वपुः" "सोऽभिध्याय शरीरात्स्वात्" इत्यादि । भूतसूक्ष्मात्स्वाच्छरीरादित्यर्थः । लोके च शरीरशब्दो घटादि-शब्दवदेकाकारद्रव्यनियतवृत्तिभनासादितः क्रिमिकीटपतङ्गसर्पनरपशु प्रभृतिष्वत्यन्तविलक्षणाकारेषु द्रव्येषु अगौणः प्रयुज्यमानो दृश्यते । तेन तस्य प्रवृत्तिनिमित्त व्यवस्थापनं सर्वप्रयोगानुगुण्येनैव कार्यम् । त्वदुक्तञ्च "कर्मफल भोगहेतुः" इत्यादिकं प्रवृत्तिनिमित्त लक्षणं न सर्वप्रयोगानुगुणम् । यथोक्तेषु ईश्वरशरीरतया अभिहि-तेषु पृथिव्यादिषु अव्याप्तेः । किञ्च ईश्वरस्य इच्छाविग्रहेषु मुक्तानां च "स एकधा भवति" इत्यादि वाक्यावगतेषु विग्रहेषु तल्लक्षणं अव्याप्तम् कर्मफलयोग निमित्तत्वाभावात्तेषाम् । परमपुरुषेच्छाविग्रहाच्च न पृथिव्यादि भूतस-ङ्घात विशेषाः । "न भूतसङ्घसंस्थानो देहोऽस्य परमात्मनः" इति स्मृतेः । अतो भूतसङ्घातरूपत्वं च शरीरस्या-व्याप्तम्, पञ्चवृत्तिप्राणाधीनधारणत्वं च स्थावरशरीरेष्वव्याप्तम् । स्थावरेषु हि प्राणसद्भावेऽपि तस्य पञ्चधा अवस्थाय शरीरस्यधारकत्वेनावस्थानं नास्ति । अहल्यादीनां कर्मनिमित्तशिलाकाष्ठादिशरीरेष्विन्द्रियाश्रयत्वं च सुखदुःखहेतुत्वं चाव्याप्तम्; अतो तस्य चेतनस्य यद्द्रव्यं सर्वात्मना स्वार्थे नियन्तुं धारयितुं च शक्यं तच्छेषतै-कस्वरूप च तत्तस्य शरीरमिति शरीरलक्षणमास्थेयम् । रुग्णशरीरादिषु नियमनाद्यदर्शनं विद्यमानाया एव

2.1.9

 

नियमनशक्तेःप्रतिबन्धकृतम्, अग्न्यादेः शक्तिप्रतिबन्धादौष्ण्याद्यदर्शनवत् । मृतशरीरं च चेतनवियोगसमय एव विशरितु-मारब्धम्, क्षणान्तरे च विशीर्यते । पूर्वं शरीरतया परिक्लृप्तसङ्घातैकदेशत्वेन च तत्र शरीरत्वव्यवहारः, अतः सर्वंपरमपुरुषेण सर्वात्मना स्वार्थे नियाम्यं धार्य तच्छेषतैकस्वरूपमिति सर्वं चेतनाचेतनं तस्य शरीरम् । "अशरीरं शरीरेषु" इत्यादि च कर्मनिमित्तशरीरप्रतिषेधपरम्, यथोक्तसर्वशरीरत्वश्रवणात्, उपरितनाधिकरणेषु चैतदुपपादयिष्यते । "अपीतौ तद्वत्प्रसङ्गादसमञ्जसम्" "न तु दृष्टान्तभावात्" इति सूत्रद्वयेन "इतरव्यपदेशात्" इत्यधिकरणसिद्धोऽर्थः स्मारितः ।।

2.1.10

स्वपक्षदोषाच्च ।। 10 ।।

2.1.10

 

न केवलं ब्रह्मकारणवादस्य निर्दोषतयैतत्समाश्रयणम्; प्रधानकारणवादस्य दुष्टत्वाच्च तत्परित्यज्यै-तदेव समाश्रयणीयम् । प्रधानकारणवादे हि जगत्प्रवृत्तिर्नोपपद्यते । तत्र हि निर्विकारस्य चिन्मात्रैकरसस्य पुरु-षस्य प्रकृतिसन्निधानेन प्रकृतिधर्माध्यासनिबन्धना जगत्प्रवृत्तिः । निर्विकारस्य चिन्मात्ररूपस्य प्रकृतिधर्माध्-यासहेतुभूतं प्रकृतिसन्निधानं किंरूपमिति विवेचनीयम् । किं प्रकृतेः सद्भाव एव, उत तद्गतः कश्चिद्विकारः, अथ पुरुषगत एव कश्चिद्विकारः । न तावत्पुरुषगतः, अनभ्युपगमात् । नापि प्रकृतेर्विकारः, तस्याध्यासकार्यतया-ऽभ्युपेतस्याध्यासहेतुत्वासम्भवात्; सद्भावमात्रस्य सन्निधानत्वे मुक्तस्याप्यध्यासप्रसङ्ग इति त्वत्पक्षे जग-

2.1.10

 

त्प्रवृत्तिर्नोपपद्यते । अयमर्थः साङ्खयपक्षप्रतिक्षेपसमये "अभ्युपगमेऽप्यर्थाभावात्" इत्यादिना प्रपञ्चयिष्यते ।।

2.1.11

तर्काप्रतिष्ठानादपि ।। 11 ।।

2.1.11

 

तर्कस्याप्रतिष्ठितत्वादपि श्रुतिमूलो ब्रह्मकारणवाद एव समाश्रयणीयः, न प्रधानकारणवादः । शाक्यो-लूक्याक्षपादक्षपणकपिलपतञ्जलितर्काणामन्योन्यव्याघातात्तर्कस्याप्रतिष्ठितत्वं गम्यते ।।

2.1.12

अन्यथाऽनुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ।। 12 ।।

2.1.12

 

इदानीं विद्यमानानां शाक्यादीनां तर्कानुद्दूष्यान्यथा प्रधानकारणवादमतिक्रान्ततदुपदर्शितदूषणत्वे-नानुमास्यामह इति चेत्, एवमपि पुरुषबुद्धिमूलतर्कैकावलम्बनस्य तथैव देशान्तरकालान्तरेषु त्वदधिककुत-र्ककुशलपुरुषोत्प्रेक्षिततर्कदूष्यत्वसम्भावनया तर्काप्रतिष्ठानदोषादनिर्मोक्षो दुर्वारः, अतोऽतीन्द्रियेऽर्थे शास्त्रमेव प्रमाणम्, तदुपबृंहणायैव तर्क उपादेयः, तथा चाह "आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्काणानु-सन्धत्ते स धर्मं वेद नेतरः" इति । वेदाख्यशास्त्राविरोधिनेत्यर्थः । अतो वेदविरोधित्वेन वेदार्थविशदीकरणरूप-

2.1.12

 

वेदोपबृंहणतर्कोपादानाय साङ्खयस्मृतिर्नादरणीया । ।। विलक्षणत्वाधिकरणं समाप्तम् ।।

2.1.13

एतेन शिष्टापरिग्रहा अपि व्याख्याताः ।। 13 ।।

2.1.13

 

शिष्टाः-परिशिष्टाः, न विद्यते वेदपरिग्रहो येषामित्यपरिग्रहाः; शिष्टाश्चापरिग्रहाश्च शिष्टापरिग्रहाः । एतेन वेदापरिगृहीतसाङ्खयपक्षक्षपणेन परिशिष्टाश्च वेदापरिगृहीताः कणभक्षाक्षपादक्षपणकभि-क्षुपक्षाः क्षपिता वेदितव्याः । परमाणुकारणवादेऽमीषां सर्वेषां संवादात्कारणवस्तुविषयस्य तर्कस्याप्रतिष्ठितत्वं

2.1.13

 

न शक्यते वक्तुमित्यधिकाशङ्का । तावन्मात्रसंवादेऽपि तर्कमूलत्वाविशेषात्परमाणुस्वरूपेऽपि शून्यात्मकत्वा-शून्यात्मकत्व-ज्ञानात्मकत्वार्थात्मकत्व-क्षणिकत्वनित्यत्वैकान्तत्वानेकान्तत्व-सत्यासत्यात्मकत्वादिविसंवा-ददर्शनाच्च अप्रतिष्ठितत्वमेवेति परिहारः ।।

2.1.14

भोक्त्रापत्तेरविभागश्चेत् स्याल्लोकवत् ।। 14 ।।

2.1.14

 

पुनरपि साङ्खयः प्रत्यवतिष्ठते-यदुक्तं स्थूलसूक्ष्मचिदचिद्वस्तुशरीरस्य परस्य ब्रह्मणः कार्यकारणरूपत्वाज्जीवब्रह्मणोः स्वभावविभाग उपपद्यत इति; स तु विभागो न सम्भवति, ब्रह्मणः सशरीरत्वे

2.1.14

 

तस्य भोक्तृत्वापत्तेः, सशरीरत्वे जीवस्येवेश्वरस्यापि सशरीरत्वप्रयुक्तसुखदुःखयोर्भोक्तृत्वस्यावर्जनीयत्वात् । ननु च "सम्भोगप्राप्तिरिति चेन्न वैशेष्यात्" इत्यत्रेश्वरस्य भोगप्रसङ्गपरिहार उक्तः, नैवम्, तत्र ह्युपास्यतया हृदयाय-तने सन्निहितस्य शरीरान्तर्वर्तित्वमात्रेण भोगप्रसङ्गो न विद्यत इत्युक्तम्, इह तु जीववद्ब्रह्मणोऽपि सशरीरत्वे तद्वदेव सुखदुःखयोर्भोक्तृत्वप्रसङ्गो दुर्वार इत्युच्यते; दृश्यते हि सशरीराणां जीवानां शरीरगतबालत्वस्थविरत्वा-दिवि#ाकारासम्भवेऽपि शरीरधातुसाम्यवैषम्यनिमित्तसुखदुःखयोगः । श्रुतिश्च "न ह वै सशरीरस्य सतः प्रियाप्रि-ययोरपहतिरस्ति । अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः" इति । अतः सशरीरब्रह्मकारणवादे जीवेश्वरस्वभा-वविभागासम्भवात् केवलब्रह्मकारणवादे मृत्सुवर्णादिवज्जगद्गतापुरुषार्थादिसर्वविशेषाश्रयत्वप्रसङ्गाच्च प्रधान-कारणवाद एव ज्यायानिति चेत् -

अत्रोत्तरम्-स्याल्लोकवदिति । स्यादेव विभागो जीवेश्वरस्वभावयोः, नहि जीवस्य शरीरधातुसाम्यवैष-म्यनिमित्तं सुखदुःखयोर्भोक्तृत्वं सशरीरत्वकृतम्, अपि तु पुण्यपापरूपकर्मकृतम् । "न ह वै सशरीरस्य" इत्यपि कर्मारब्धदेहविषयम्, "स एकधा भवति त्रिधा भवति" "स यदि पितृलोककामो भवति" "स तत्र पर्येति जक्षत् क्रीडन् रममाणः" इति कर्मबन्धविनिर्मुक्तस्याविर्भूतस्वरूपस्य सशरीरस्यैवापुरुषार्थगन्धाभावात् । अपहतपाप्म-नस्तु परमात्मनः स्थूलसूक्ष्मरूपकृत्स्नजगच्छरीरत्वेऽपि कर्मसम्बन्धगन्धो नास्तीति नतरामपुरुषार्थगन्धप्रसङ्गः । लोकवत्-यथा लोके राजशासनानुवर्तिनां तदतिवर्तिनां च राजानुग्रहनिग्रहकृतसुखदुःखयोगेऽपि न शरीरित्व-मात्रेण शासके राज्ञ्यपि शासनानुवृत्त्यतिवृत्तिनिमित्तसुखदुःखयोर्भोक्तृत्वप्रसङ्गः । यथाह द्रमिडभाष्यकारः "यथा लोके राजा प्रचुरदन्दशूके घोरेऽनर्थसङ्कटेऽपि प्रदेशे वर्त्तमानो व्यजनाद्यवधूतदेहो दोषैर्न स्पृश्यते, अभिप्रेतांश्च लोकान् परिपालति भोगांश्च गन्धादीनविश्वजनोपभोग्यान् धारयति, तथाऽसौ लोकेश्वरो भ्रमत्स्वसामर्थ्य-

2.1.14

 

चामरो दोषैर्न स्पृश्यते, रक्षति च लोकान् ब्रह्मलोकादीन् भोगांश्चाविश्वजनोपभोग्यान् धारयति" इति । मृत्सु-वर्णादिवद्ब्रह्मस्वरूपपरिणामस्तु नैवाभ्युपगम्यते, अविकारत्वनिर्दोषादिश्रुतेः । यत्तु परैर्ब्रह्मकारणवादे भोक्तृ-भोग्यविभागाभावमाशङ्कय समुद्रफेनतरङ्गदृष्टान्तेन विभागप्रतिपादनपरं सूत्रं व्याख्यातम्, तदयुक्तम्; अन्तर्भा-वितशक्तयविद्योपाधिकाद्ब्रह्मणस्सृष्टिमभ्युपगच्छतामेवमाक्षेपपरिहारयोरसङ्गतत्वात् । कारणान्तर्गतशक्तयवि-द्योपाध्युपहितस्य भोक्तृत्वादुपाधेश्च भोग्यत्वात् । विलक्षणयोस्तयोः परस्परभावापत्तिर्हि न सम्भवति, स्वरू-पपरिणामस्तु तैरपि नाभ्युपेयते "न कर्माविभागादिति चेन्नानादित्वात्" इति क्षेत्रज्ञानां तद्गतकमर्णां चानादि-त्वप्रतिपादनात् । स्वरूपपरिणामाभ्युपगमेऽपि भोक्तृभोग्याविभागाशङ्का कस्यचिदपि न जायते मृत्सुवर्णादि-परिणामरूपघटशरावकटकमुकुटादिविभागवद्भोक्तृभोग्यविभागोपपत्तेः । स्वरूपपरिणामे च ब्रह्मण एव भोक्तृ-भोग्यत्वापत्तिरिति पुनरप्यसामञ्जस्यमेव । ।।इति भोक्त्रापत्त्यधिकरणम् ।।

2.1.15

तदनन्यत्वमारम्भणशब्दादिभ्यः ।। 15 ।।

2.1.15

 

"असदिति चेन्न प्रतिषेधमात्रत्वात्" इत्यादिषु कारणभूताद्ब्रह्मणः कार्यभूतस्य जगतो-ऽनन्यत्वमभ्युपगम्य ब्रह्मणो जगत्कारणत्वमुपपादितम्, इदानीं तदेवानन्यत्वमाक्षिप्य समाधीयते । तत्र

2.1.15

 

काणादाः प्राहुः-न कारणात्कार्यस्यानन्यत्वं सम्भवति, विलक्षणबुद्धिबोध्यत्वात्, न खलु तन्तुपटमृत्पिण्ड-घटादिषु कायर्कारणविषया बुद्धिरेकरूपा । शब्दभेदाच्च, न हि तन्तवः पट इत्युच्यन्ते, पटो वा तन्तव इति ।

2.1.15

 

कार्यभेदाच्च, न हि मृत्पिण्डेनोदकमाह्रियते घटेन वा कुड्यं निर्मीयते । कालभेदाच्च, पूर्वकालञ्च कारणम्, अपर-कालं च कार्यम् । आकारभेदाच्च, पिण्डाकारं कारणम्, कार्यं च पृथुबुध्नोदराकारम्, तथा सत्यामेव मृदि घटो नष्ट इति व्यवह्रियते । सङ्खयाभेदश्च दृश्यते बहवस्तन्तवः एकश्च पटः । कारकव्यापारवैयर्थ्यञ्च, कारणमेव चेत्कार्यं किं कारकव्यापारसाध्यं स्यात् ? सत्यपि कार्ये कार्योपयोगितया कारकव्यापारेण भवितव्यं चेत्, सर्वदा कारकव्यापारेण नोपरन्तव्यम् । सर्वस्य सर्वदा सत्त्वेन नित्यानित्यविभागश्च न स्यात् । अथ कार्यं सदेव पूर्व-मनभिव्यक्तं कारकव्यापारेणाभिव्यज्यते, अतः कारकव्यापारार्थवत्त्वं नित्यानित्यविभागश्चोच्यते, तदसत्; अभिव्यक्तेरभिव्यक्तयन्तरापेक्षत्वेऽनवस्थानात्, अनपेक्षत्वे कार्यस्य नित्योपलब्धिप्रसङ्गात्, तदुत्पत्त्यभ्युपगमे चासत्कार्यवादप्रसङ्गात् । किञ्च कारकव्यापारस्याभिव्यञ्जकत्वे घटार्थेन कारकव्यापारेण करकादेरप्यभिव्यक्तिः प्रसज्यते, सम्प्रतिपन्नाभिव्यञ्जकभावेषु दीपादिष्वभिव्यङ्गयविशेषनियमादर्शनात्; न हि घटार्थमारोपितः प्रदीपः करकादीन्नाभिव्यनक्ति, अतोऽसतः कार्यस्योत्पत्तिहेतुत्वेनैव कारकव्यापारार्थवत्त्वम्, अतश्च सत्कार्यवादा-सिद्धिः । न च नियतकारणोपादानं सत एव कार्यत्वं साधयति, कारणशक्तिनियमादेव तदुपपत्तेः । नन्वसत् कार्यवादिनोऽपि कारकव्यापारो नोपपद्यते, प्रागुत्पत्तेः कार्यस्यासत्त्वात्, कार्यादन्यत्र कारकव्यापारेण भवित-व्यम्; तत्रान्यत्वाविशेषात्तन्तुगतकारकव्यापारेण घटोत्पत्तिरपि प्रसज्यते, नैवम्; यत्कार्योत्पादनशक्तं यत्कार-णम् तद्गतकारकव्यापारेण तत्कार्योत्पत्तिसिद्धेः । अत्राहुः-कारणादनन्यत्कार्यम्, न हि परमार्थतः कारणव्यति-रिक्तं कार्यं नाम वस्त्वस्ति; अविद्यानिबन्धनत्वात्सकलकार्यतद्य्ववहारयोः, अतो यथा कारणभूतात् मृद्द्र-व्याद्घटादिषु विकारेषुपलभ्यमानाद्य्वतिरिक्तं घटशरावादिकार्यं व्यवहारमात्रालम्बनं मिथ्या, कारणभूतं मृद्द्रव्य-

2.1.15

 

मेव सत्यम् तथा निर्विशेषसन्मात्रात् कारणभूताद्ब्रह्मणोऽन्योऽहङ्कारादिव्यवहारालम्बनः कृत्स्नः प्रपञ्चो मिथ्या, कारणभूतं सन्मात्रं ब्रह्मैव सत्यम्; तस्मात्कारणव्यतिरिक्तं कार्यं नास्तीति कारणादनन्यत्कार्यम् । न च वाच्यं शुक्ति-कारजतादीनामिव घटादिकार्याणामसत्यत्वाप्रसिद्धेर्दृष्टान्तानुपपत्तिरिति; यतस्तत्रापि युक्तया मृद्द्रव्यमा-त्रमेव सत्यतया व्यवस्थाप्यते, तदतिरिक्तं तु युक्तया बाध्यते, का पुनरत्र युक्तिः, मृद्द्रव्यमात्रस्यानुवर्त्तमानत्वं तदतिरिक्तस्य च व्यावर्तमानत्वम् । रज्जुसर्पादिषु ह्यनुवर्त्तमानस्याधिष्ठानभूतस्य रज्ज्वादेस्सत्यता व्यावर्त्तमानस्य च सर्पभूदलनाम्बुधारादेरसत्यता दृष्टा तथाऽनुवर्त्तमानमधिष्ठानभूतं मृद्द्रव्यमेव सत्यम् व्यावर्त्तमानास्तु घटशरा-वादयोऽसत्यभूताः । किञ्च सत आत्मनो विनाशाभावादसतश्च शशविषाणादेरुपलब्द्धयभावादुपलब्धिविनाश-योगि कार्यं सदसद्भयेमनिर्वचनीयमिति गम्यते । अनिर्वचनीयं च शुक्तिकारजतादिवन्मृषैव । तस्य चानिर्व-चनीयत्वं प्रतीतिबाधाभ्यां सिद्धम् । किञ्च कार्यमुत्पादयन्मृदादिकारणद्रव्यं किमविकृतमेव कार्यमुत्पादयति ? उत किञ्चनविशेषमापन्नम् ? न तावदविकृतमुत्पादयति सर्वदोत्पादकत्वप्रसङ्गात् । नापि विशेषान्तरमापन्नम्, विशेषान्तरापत्तेरपि विशेन्तरापत्तिपूर्वकत्वेन भवितव्यम् तस्या अपि तथेत्यनवस्थानात् । अविकृतमेव देश-

2.1.15

 

कालनिमित्तविशेषसम्बन्धं कार्यमुत्पादयतीति चेन्न; देशादिविशेषसम्बन्धोऽपि ह्यविकृतस्य विशेषान्तरमा-पन्नस्य च पूवर्वन्न सम्भवति । न च वाच्यम् मृत्सुवर्णदुग्धादिभ्यो घटरुचकदध्यादीनामुत्पत्तिर्दृश्यते; शुक्ति-कारजतादिवत् देशकालादिप्रतिपन्नोपाधौ बाधश्च न दृश्यते, अतः प्रतीतिशरणानां कारणात्कार्योत्पत्तिरव-श्याश्रयणीयेति; विकल्पासहत्वात्-किं हेमादिमात्रमेव स्वस्तिकादेरारम्भकम्, उत रुचकादि, अथ रुचका-द्याश्रयो हेमादिः ? न तावद्धेमादिमात्रमारम्भकम्; हेमव्यतिरिक्तस्य कार्यस्याभावात्, स्वात्मानं प्रत्यात्मन आरम्भकत्वासम्भवाच्च । हेमव्यतिरिक्तं स्वस्तिकं दृश्यत इति चेत्-न, हेमव्यतिरिक्तं तत्, हेमप्रत्यभिज्ञाना-त्तदतिरिक्तवस्त्वन्तरानुपलब्धेश्च । बुद्धिशब्दान्तरादिभिर्वस्त्वन्तरत्वं साधितमिति चेन्न, अनिरूपितवस्त्वव-लम्बनानां बुद्धिशब्दान्तरादीनां शुक्तिकारजतशब्दबुद्धयादिवत् भ्रान्तिमूलत्वेन वस्त्वन्तरसद्भावस्यासाधक-त्वात् । नापि रुचकादि स्वस्तिकादेरारम्भकम्, स्वस्तिके हि रुचकं पट इव तन्तवो भवतापि नोपलभ्यते । नापि रुचकाश्रयभूतं हेम, रुचकाश्रयाकारेण हेम्नः स्वस्तिकेऽनुपलब्धेः, अतो मृदादिकारणातिरिक्तस्य कार्य-स्यासत्यत्वदर्शनाद्ब्रह्मव्यतिरिक्तं कृत्स्नं जगत्कार्यत्वेन मिथ्याभूतम्, तदिदं ब्रह्मव्यतिरिक्तमिथ्यात्वसुखप्रति-पत्तये काल्पनिकमृदादिसत्यत्वमाश्रित्य कार्यस्यासत्यत्वं प्रतिपादितम् । परमार्थतस्तु मृत्सुवर्णादिकारणमपि घटरुचकादिकार्यवन्मिथ्याभूतम्, ब्रह्मकार्यत्वाविशेषात् । "ऐतदात्म्यमिदं सर्वं तत्सत्यम्" "नेह नानास्ति किञ्चन" "मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति" "यत्र हि द्वैतमिव भवति तदितरं इतरं पश्यति" "यत्र त्वस्य सवर्मात्मैवाभूत्तत्केन कं पश्येत्" "इन्द्रो मायाभिः पुरुरूप ईयते" इत्येवमेवादिभिः श्रुतिभिश्च ब्रह्मव्य-

2.1.15

 

तिरिक्तस्य मिथ्यात्वमवगम्यते । न चागमावगतार्थस्य प्रत्यक्षविरोधः शङ्कनीयः । यथोक्तप्रकारेण कार्यस्य सर्वस्य मिथ्यात्वावगमात् प्रत्यक्षस्य सन्मात्रविषयत्वाच्च, विरोधे सत्यप्यसम्भावितदोषस्य चरमभाविनः स्व-रूपसद्भावादौ प्रत्यक्षाद्यपेक्षत्वेऽपि प्रमितौ निराकाङ्क्षस्य निरवकाशस्य शास्त्रस्य बलीयस्त्वात्; अतः कारणभू-ताद्ब्रह्मणोऽन्यत्सर्वं मिथ्या । न च प्रपञ्चमिथ्यात्वेन जीवमिथ्यात्वमाशङ्कनीयम्, ब्रह्मण एव जीवभावात् । ब्रह्मैव हि सर्वशरीरेषु जीवमावमनुभवति, "अनेन जीवेनात्मनाऽनुप्रविश्य" "एको देवः सर्वभूतेषु गूढः" "एको देवो बहुधा निविष्टः" "एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते" "नान्योऽतोस्तिं द्रष्टा" इत्येवमादिभ्यः । नन्वेकमेव ब्रह्म सर्वशरीरेषु जीवभावमनुभवतीति चेत् "पादे मे वेदना शिरसि मे सुखम्" इतिवत्सर्वशरीरेषु सुखदुःखप्रति-सन्धानं स्यात्, जीवेश्वरबद्धमुक्तशिष्याचार्यज्ञत्वाज्ञत्वादिव्यवस्था च न स्यात् । अत्र केचिदद्वितीयत्वं ब्रह्मणो-ऽभ्युपयन्त एवैवं समादधते-एकस्यैव ब्रह्मणः प्रतिबिम्बभूतानां जीवानां सुखित्वदुःखित्वादय एकस्यैव मुखस्य प्रतिबिम्बानां मणिकृपाणदर्पर्णादिषूपलभ्यमानानामल्पत्वमहत्त्वमलिनत्वविमलत्वादिवत्तत्तदुपाधिवशाद्य्वव-स्थाप्यन्ते । ननु "अनेन जीवेनात्मनाऽनुप्रविश्य" इत्यादिश्रुतेर्न जीवा ब्रह्मणो भिद्यन्त इत्युक्तम् सत्यं परमा-र्थतः, काल्पनिकं तु भेदमाश्रित्येयं व्यवस्थोच्यते । कस्य पुनः कल्पना ? न तावद्ब्रह्मणः, तस्य परिशुद्धज्ञाना- त्मनः कल्पनाशून्यत्वात् । नापि जीवानाम्, इतरेतराश्रयत्वप्रसङ्गात्, कल्पनाधीनो हि जीव भावः, जीवाश्रया च कल्पनेति । नैतदेवम्, अविद्याजीवभावयोर्बीजाङ्कुरन्यायेनानादित्वात् । किञ्च प्रासादनिगरणादिवदुपपन्न-

2.1.15

 

तैकवेषायां अवस्तुभूतायामविद्यायां नेतरेतराश्रयत्वादयो वस्तुदोषा अनवक्लृप्तिमावहन्ति । वस्तुतो ब्रह्माव्य-तिरिक्तानां जीवानां स्वतो विशुद्धत्वेऽपि कृपाणादिगतमुखप्रतिबिम्बश्यामतादिवत् औपाधिकाशुद्धिसम्भवाद-विद्याश्रयत्वोपपत्तेः काल्पनिकत्वोपपत्तिः । प्रतिबिम्बगतश्यामतादिवज्जीवगताशुद्धिरपि भ्रान्तिरेव, अन्य-थाऽनिर्म्मोक्षत्वप्रसङ्गात् । जीवानां भ्रमस्य प्रवाहानादित्वान्न तद्धेतुरन्वेषणीय इति । तदेतदविदिताद्वैतया थात्म्यानां भेदवादश्रद्धालुजनसबहुमानावलोकनलिप्साविजृम्भितम् । तथा हि; जीवस्याकल्पितस्वाभाविक-रूपेणाविद्याश्रयत्वे ब्रह्मण एवाविद्याश्रयत्वमुक्तं स्यात् । तदतिरिक्तेन तस्मिन् कल्पितेनाकारेणाविद्याश्रयत्वे जडस्याविद्याश्रयत्वमुक्तं स्यात् । न खल्वद्वैतवादिनस्तदुभयव्यतिरिक्तमाकारमभ्युपगच्छन्ति । कल्पिताकार-विशिष्टेन स्वरूपेणैवाविद्याश्रयत्वमिति चेत्, तन्न । स्वरूपस्य अखण्डैकरसस्याविद्यामन्तरेण विशिष्टरूपत्व-सिद्धेः, अविद्याश्रयाकार एव हि निरूप्यते । किञ्च बन्धमोक्षादिव्यवस्थासिद्धयर्थं हि जीवाज्ञानवादाश्रयणम्,

2.1.15

 

सा तु व्यवस्था जीवाज्ञानपक्षेऽपि न सिध्यति । अविद्याविनाश एव हि मोक्षः, तत्रैकस्मिन् मुक्ते अविद्याविना-शादितरेऽपि विमुच्येरन् । अन्यस्यामुक्तत्वादविद्या तिष्ठतीति चेत् तर्ह्येकस्याप्यमुक्तिः स्यात्, अविद्याया अवि-नष्टत्वात् । प्रतिजीवमविद्याभेदः कल्प्यते, तत्र यस्याविद्या विनष्टा स मोक्ष्यते, यस्य त्वविनष्टा स वत्स्यत इति चेत्-तन्न; प्रतिजीवमिति जीवभेदमाश्रित्य ब्रूषे, स जीवभेदः किं स्वाभाविकः उताविद्याकल्पितः ? न तावत्-स्वाभाविकः, अनभ्युपगमात् भेदसिद्धयर्थस्य चाविद्याकल्पनस्य व्यर्थत्वात् । अथाविद्याकल्पितः तत्रेयं जीव-भेदकल्पिकाऽविद्या किं ब्रह्मणः, उत जीवानाम् ? ब्रह्मण इति चेत् आगतोऽसि मदीयं मार्गम् । अथ जीवानां किमस्या जीवभेदक्लृप्तिसिद्धयर्थतां विस्मरसि । अथ प्रतिजीवं बद्धमुक्तव्यवस्थासिद्धयर्थं याः अविद्याः कल्प्यन्ते ताभिरेव जीवभेदोऽपीति मनुषे, जीवभेदसिद्धौ तास्सिद्धयन्ति तासु सिद्धासु जीवभेदसिद्धिरितीतरेत-राश्रयत्वम् । न चात्र बीजाङ्कुरन्यायः सिद्धयति, बीजाङ्कुरेषु ह्यन्यदन्यद्बीजमन्यस्यान्यस्याङ्कुरस्योत्पादकम्, इह तु याभिरविद्याभिर्ये जीवाः कल्प्यन्ते तानेवाश्रित्य तासां सिद्धिरित्यशकनीयता । अथ बीजाङ्कुरन्यायेन पूर्वपूर्व-जीवाश्रयाभिरविद्याभिरुत्तरोत्तरजीवकल्पनां मन्यसे, तथा सति जीवानां भङ्गुरत्वमकृताभ्यागमकृतविप्रणाशा-दिप्रसङ्गश्च; अत एव ब्रह्मणः पूर्वपूर्वजीवाश्रयाभिरविद्याभिरुत्तरोत्तरजीवभावकल्पनमित्यपि निरस्तम् । अविद्याप्रवाहेऽभ्युपगम्यमाने तत्तत्कल्पितजीवभावस्यापि तद्वत्प्रवाहानादिता स्यात् । न ध्रुवरूपता, आमो-

2.1.15

 

क्षाच्च जीवस्य ध्रुवत्वमिष्टं न सिद्धयेत् । यच्चोक्तं अविद्याया अवस्तुरूपत्वेनानुपपन्नतैकवेषाया नेतरेतराश्रय-त्वादयो वस्तुदोषा अनवक्लृप्तिमावहन्तीति, तथा सति मुक्तान् परं च ब्रह्माश्रयेदविद्या; शुद्धविद्यास्वरूप-त्वादशुद्धिरूपा न तत्र प्रसजतीति चेत् किमुपपत्त्यनुवर्त्तिन्यविद्या ? एवं तर्ह्युक्ताभिरुपपत्तिभिर्ज्जीवानपि नाश्र-येत् । किञ्च जीवाश्रयाया अविद्यायास्तत्त्वज्ञानोदयान्नाशे सति जीवो नश्येद्वा, न वा ? यदि नश्येत्स्वरूपो-च्छित्तिलक्षणो मोक्षः स्यात्; नो चेदविद्यानाशेप्यनिर्मोक्षः, ब्रह्मस्वरूपव्यतिरिक्तजीवत्वावस्थानात् ।

यच्चोक्तं मणिकृपाणदर्पणादिषूपलभ्यमानमुखमलिनत्वविमलत्वादिवच्छुद्धयशुद्धयादिव्यवस्थोपपत्तिरिति । तत्रेदं विमर्शनीयम्; अल्पत्वमलिनत्वादय औपाधिका दोषाः कदा नश्येयुरिति । कृपाणाद्युपाध्यपगम इति चेत् किं तदाल्पत्वाद्याश्रयः प्रतिबिम्बं तिष्ठति वा, न वा ? तिष्ठतीति चेत् तत्स्थानीयस्य जीवस्यापि स्थितत्वाद-निर्मोक्षप्रसङ्गः । नश्यति चेत् तद्वदेव जीवनाशात्स्वरूपोच्छित्तिलक्षणो मोक्षः स्यात् । किञ्च यस्य ह्यपुरुषार्थ-रूपदोषप्रतिभासः तस्य तदुच्छेदः पुरुषार्थः । तत्र किमौपाधिकदोषप्रतिभासो बिम्बस्थानीयस्य ब्रह्मणः,उत प्रतिबिम्बस्थानीयस्य जीवस्य, उतान्यस्य कस्यचित् ? आद्ययोः कल्पयोर्दृष्टान्तोऽयं न सङ्गच्छते, मुखस्य मुख-प्रतिबिम्बस्य चाल्पत्वादिदोषप्रतिभासशून्यत्वात्, न हि मुखं तत्प्रतिबिम्बं वा चेतयते, ब्रह्मणो दोषप्रतिभासे ब्रह्माविद्याप्रसङ्गश्च । तृतीयोऽपि कल्पो न कल्पते जीवब्रह्मव्यतिरिक्तस्य द्रष्टुरभावात् । किञ्च अविद्याकल्प्यस्य जीवस्य कल्पकः क इति निरूपणीयम् । न तावदविद्या, अचेतनत्वात् । नापि जीवः, आत्माश्रयदोषप्रसङ्गात्, शुक्तिकारजतादिवदविद्याकल्प्यत्वाच्च जीवभावस्य, ब्रह्मैव कल्पकमिति चेत् ब्रह्माज्ञानमेवायतम् । किञ्च ब्रह्माज्ञानानभ्युपगमे किं ब्रह्म जीवान् पश्यति वा न वा ? न पश्यति चेत् ईक्षापूर्विका विचित्रसृष्टिर्नामरूपव्या-करणमित्यादि ब्रह्मणो न स्यात् । अथ पश्यति, अखण्डैकरसं ब्रह्म नाविद्यामन्तरेण जीवान् पश्यतीति ब्रह्माज्ञान-प्रसङ्गः, अत एव मायाऽविद्याविभागवादोपि निरस्तः, अज्ञानमन्तरेण हि मायिनोऽपि ब्रह्मणो

2.1.15

 

जीवदर्शित्वं न स्यात् । न च मायावी परानदृष्ट्वा मोहयितुमलम् । नापि माया मायाविनो दर्शनसाधनम्, दृष्टेषु परेषु तन्मोह-नसाधनमात्रत्वात्तस्याः । अथ ब्रह्मणो माया तस्य जीवदर्शित्वं कुर्वती जीवमोहनस्य हेतुरिति मन्यसे तर्हि परिशुद्धस्याखण्डैकरसस्वप्रकाशस्य ब्रह्मणःपरदर्शनं कुवर्ती माया, मायाऽपरपर्याया अविद्यैव स्यात् । अथ मतम् विपरीतदर्शनहेतुरविद्या, माया तु मिथ्याभूतं ब्रह्मव्यतिरिक्तं मिथ्यात्वेनैव दर्शयन्ती न ब्रह्मणो विप-रीतदर्शनहेतुः, अतस्तस्या नाविद्यात्वमिति । नैवम्, चन्द्रैकत्वे ज्ञायमाने द्विचन्द्रदर्शनहेतोरप्यविद्यात्वात् । यदि च ब्रह्म मिथ्यात्वेनैव स्वव्यतिरिक्तं जानाति, न तर्हि तन्मोहयति । न ह्यनुन्मत्तो मिथ्यात्वेन ज्ञातान् मोह-यितुमीहते । अथापुरुर्षाथाऽपरमार्थदर्शनहेतुरविद्या, माया तु ब्रह्मणो नापुरुषार्थदर्शनहेतुः, अतोऽस्या नाविद्यात्वामिति मतम् । तन्न; द्विचन्द्रज्ञानस्य दुःखहेतुत्वाभावेनापुरुषार्थत्वाभावेऽपि तद्धेतुरविद्यैव, तन्निरसने च प्रयस्यन्ति; यदि च नापु-रुषार्थदर्शनकरीमाया, तर्ह्यनुच्छेद्यतया नित्या ब्रह्मस्वरूपानुबन्धिनी स्यात् । अस्तु को दोष इति चेत्, द्वैतदर्शनमेव दोषः । "यत्र हि द्वैतमिव भवति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्" इत्याद्यद्वैतश्रुतयः प्रकुप्येयुः । परमार्थविषया अद्वैतश्रुतयः, मायायास्त्वपरमार्थत्वादविरोध इति चेत्, अपरिच्छिन्नानन्दैकस्वरूपस्य ब्रह्मणः अपरमार्थभूतमायादर्शनं तद्वत्ता च अविद्यामन्तरेण नोपपद्यते । किञ्च अपरमार्थभूतया नित्यया मायया किं प्रयोजनं ब्रह्मणः ? जीवमोहनमिति चेत्; अपुरुषार्थेन मोहनेन किं प्रयोजनम् ? क्रीडेति चेत्, अपरिच्छिन्नानन्दस्य किं क्रीडया ? परिपूर्णभोगानामेव क्रीडा पुरुषार्थत्वेन लोके

2.1.15

 

दृष्टेति चेत्; नैवमिहोपपद्यते । न ह्यपरमार्थभूतैः क्रीडोपकरणैरपरमार्थतया प्रतिभासमानैर्निष्पन्नयाऽपरमार्थ-भूतया क्रीडया अपरमार्थभूतेन च तत्प्रतिभासेनानुन्मत्तानां क्रीडारसो निष्पद्यते । मायाश्रयतयाभिमतब्रह्मव्य-तिरेकेणाविद्याश्रयस्य जीवस्य कल्पनाऽसम्भवश्च पूर्ववदेव द्रष्टव्यः, अतो ब्रह्मैवानाद्यविद्याशबलं स्वगतनानात्वं पश्यतीत्यद्वितीयत्वं ब्रह्मणोऽभ्युपयद्भिरभ्युपेतव्यम् ।

यत्तु बन्धमोक्षव्यवस्था नोपपद्यत इति, न तद्ब्रह्माज्ञानवादिनश्चोद्यम्, एकस्यैव ब्रह्मणोऽज्ञस्य स्वाज्ञाननि-वृत्त्या मोक्ष्यमाणत्वात् बद्धमुक्तादिव्यवस्थाया एवाभावात् व्यवह्रियमाणायाश्च बद्धमुक्तशिष्याचार्यादिव्यव-स्थायाः काल्पनिकत्वात्स्वप्नदर्शिन इव चैकस्यैवाविद्यया सर्वकल्पनोपपत्तेः, स्वप्नदृशा ह्येकेन दृष्टाः शिष्याचा-र्यादयः तदविद्याकल्पिता एव; अत एव बह्वविद्याकल्पनमपि न युक्तिमत् । पारमार्थिकी बन्धमोक्ष व्यवस्था स्वपरव्यवस्था च जीवाज्ञानवादिनापि नाभ्युपेयते । अपारमार्थिकी त्वेकस्यैवाविद्ययोपपद्यते, प्रयोगश्चबन्ध-मोक्षव्यवस्थाः स्वपरव्यवस्थाश्च स्वाविद्याकल्पिताः, अपारमार्थिकत्वात्, स्वप्नदृष्टव्यवस्थावदिति । शरीरान्त-राण्यपि मयैवात्मवन्ति, शरीरत्वात्, एतच्छरीरवत् । शरीरान्तराण्यपि मदविद्याकल्पितानि शरीरत्वात् कार्य-त्वात् जडत्वात् कल्पितत्वाद्वा, एतच्छरीरवत् । विवादाध्यासितं चेतनजातमहमेव, चेतनत्वात्, यदनहं तदचे-तनं दृष्टम्, यथा घटः, अतः स्वपरविभागो बद्धमुक्तशिष्याचार्यादिव्यवस्थाश्चैकस्याविद्याकल्पिताः । द्वैतवा-दिनापि बद्धमुक्तव्यवस्थादुरुपपादा; अतीतानां कल्पानामानन्त्यादेकैकस्मिन् कल्पे एकैकमुक्तावपि सर्वेषां मोक्षसम्भवादमुक्तानुपपत्तेः । अनन्तत्वादात्मनाममुक्ताश्च सन्तीति चेत्, किमिदमनन्तत्वम् ? असङ्खयेयत्व-मिति चेन्न; भूयस्त्वादल्पज्ञैरसङ्खयेयत्वेपीश्वरस्य सर्वज्ञस्य सङ्खयेया एव । तस्याप्यशक्यत्वे सर्वज्ञत्वं न स्यात्;

2.1.15

 

आत्मना निस्सङ्खयत्वादीश्वरस्याविद्यमानसङ्खयावेदनाभावो नासावज्र्ञ्यमावहतीति चेत्, भिन्नत्वे सङ्खयावि-धुरत्वं नोपपद्यते । आत्मनः सङ्खयावन्तः, भिन्नत्वात्; माषसर्षपघटपटादिदिवत् । भिन्नत्वे चात्मानं घटादि-वज्जडत्वमनात्मत्वं क्षयित्वं च प्रसज्यते । ब्रह्मणश्चानन्तत्वं न स्यात् । अनन्तत्वं नाम-परिच्छेदरहितत्वम् । भेदवादे च वस्त्वन्तराद्विलक्षणत्वेन ब्रह्मणो वस्तुतः परिच्छेदरहितत्वं न शक्यते वक्तुम्, वस्त्वन्तरभाव एव हि वस्तुतः परिच्छेदः । वस्तुतः परिच्छिन्नस्य देशतः कालतश्चापरिच्छिन्नत्वं न युज्यते, वस्त्वन्तराद्विलक्षणत्वेन वस्तुतः परिच्छिन्ना एव घटादयो देशतः कालतश्च परिच्छिन्ना हि दृष्टाः, तथा सर्वे चेतनाः ब्रह्म च वस्तुतः परिच्छिन्नाः देशकालाभ्यामपि परिच्छिद्यन्ते । एवञ्च "सत्यं ज्ञानमनन्तम्" इत्यादिभिस्सर्वप्रकारपरिच्छेदरहितत्वं वदद्भिर्विरोधः । उत्पत्तिविनाशादयश्च जीवानां ब्रह्मणश्च प्रसज्येरन्, कालपरिच्छेद एव ह्युत्पत्तिविनाशभागित्वं, अतः एकस्यैवापरिच्छिन्नस्य ब्रह्मणोऽविद्याविजृम्भितं ब्रह्मादिस्तम्बपर्यन्तं कृत्स्नं जगत्; सुखदुःखप्रतिसन्धान-व्यवस्थादयोऽपि स्वाप्नव्यवस्थावदविद्यास्वाभाव्यादुपपद्यन्ते; तस्मादेकमेव नित्यमुक्तस्वप्रकाशस्वभावमनाद्य-विद्यावशाज्जगदाकारेण विवर्तत इति परमार्थतो ब्रह्मव्यतिरिक्ताभावात्तदनन्यत्वं जगत इति ।

अत्रोच्यते-निर्विशेषस्वप्रकाशमात्रं ब्रह्मानाद्यविद्यातिरोहितस्वस्वरूपं स्वगतनानात्वं पश्यतीत्येतत् प्रकाशस्वरूपस्य निरंशस्य प्रकाशनिवृत्तिरूपतिरोधाने स्वरूपनाशप्रसङ्गेन तिरोधानासम्भवादिभ्यः सकल- प्रमाणविरुद्धं स्ववचनविरुद्धं चेति पूर्वमेवोक्तम् । यत्पुनरुक्तं कारणव्यतिरिक्तं कार्यं युक्तिबाधितत्वेन शुक्ति-कारजतादिवद्भ्रम इति, तदयुक्तम्; युक्तेरभावात् । यत्त्वनुवर्त्तमानस्य कारणमात्रस्य सत्यत्वं व्यावर्तमानानां

2.1.15

 

घटशरावादिकार्याणामसत्यत्वमिति; तदप्यन्यत्र दृष्टस्यान्यत्र व्यावर्तमानता न बाधिकेत्यादिभिः पूर्वमेव परिहृतम् । यच्चोपलभ्यमानत्वविनाशित्वाभ्यां सदसदनिर्वचनीयत्वेन कार्यस्य मृषात्वमिति, तदसत्; उप-लब्धिविनाशयोगो हि न मिथ्यात्वं साधयति, किन्त्वनित्यत्वम्, यद्देशकालसम्बन्धितया तदुपलब्धं तद्देश-कालसम्बन्धितया बाधितत्वमेव हि तस्य मिथ्यात्वे हेतुः, देशान्तरकालान्तरसम्बन्धितयोपलब्धस्यान्यदेश-कालसम्बन्धित्वेन बाधित्वं देशान्तरकालान्तरव्याप्तिमात्रं साधयति; न तु मिथ्यात्वम् । प्रतियोगश्च घटा-दिकार्यं सत्यम्, देशकालादिप्रतिपन्नोपाधावबाधितत्वात्, आत्मवत् । यच्चोक्तं-कारणस्वरूपादविकृताद्वि-कृताच्च कार्योत्पत्तिर्न सम्भवतीति, तदसत्; देशकालादिसहकारिसमवहितात्कारणात्कार्योत्पत्तिसम्भवात् । तत्समवधानं च विकृतस्याविकृतस्य च न सम्भवतीति यदुक्तं, तदयुक्तम्; पूर्वमकृतस्यैव कालादिसमवधान-सम्भवात् । अविकृतत्वाविशेषात्पूर्वमपि देशकालादिसमवधानं प्रसज्यत इति चेन्न; देशकालादिसमवधानस्य कारणान्तरायत्तस्यैतदायत्तत्वाभावात्; अतो देशकालादिसमवधानरूपविशेषमापन्नं कारणं कार्यमुत्पादयतीति न किञ्चिदवहीनम् । कारणस्य च कार्यं प्रत्यारम्भकत्वमबाधितं दृश्यमानं न केनापि प्रकारेणापह्नोतुं शक्यते । यत्तु हेमादिमात्रस्य रुचकादिकार्यस्यैतदाश्रयस्य वा हेमादेरारम्भकत्वं न समभवतीति, तदयुक्तम्; हेमादिमात्र-

2.1.15

 

स्यैव यथोक्तपरिकरयुक्तस्यारम्भकत्वसम्भवात् । न चारम्भकहेमव्यतिरिक्तं कार्यं न दृश्यत इति वक्तुं शक्यम्,

हेमातिरिक्तस्य स्वस्तिकस्य दर्शनात् बुद्धिशब्दान्तरादिभिर्वस्त्वन्तरस्य साधितत्वाच्च । न चायं शुक्तिकारजता-दिवद्भ्रमः, उत्पत्तिविनाशयोरन्तराल उपलभ्यमानस्य तद्देशकालसम्बन्धितया बाधादर्शनात् । न चास्या उपल-ब्धेर्बाधिका काचिदपि युक्तिर्दृश्यते, प्रागनुपलब्धस्वस्तिकोपलब्धिवेलायामपि हेमप्रत्यभिज्ञा स्वस्तिकाश्रयतया हेम्नोऽप्यनुवृत्तेरविरुद्धा, श्रुतिभिस्तु प्रपञ्चमिथ्यात्वसाधनं पूर्वमेव निरस्तम् । यच्चान्यदत्र प्रत्यक्षाविरोधादि प्रतिवक्तव्यं तदपि सर्वं पूर्वमेव सूक्तम् । यच्चोक्तम्-एकेनात्मना सर्वाणि शरीराण्यात्मवन्तीति, तससत्; एक-स्यैव सर्वशरीरप्रयुक्तसुखदुःखप्रतिसन्धानप्रसङ्गात् । सौभरिप्रभृतिषु ह्यात्मैकत्वेनाऽनेकशरीरप्रयुक्तसुखादि-प्रतिसन्धानमेकस्य दृश्यते । न चाहमर्थस्य ज्ञातृत्वात्तद्भेदात्प्रतिसन्धानाभावो नात्मभेदादिति वक्तुं शक्यम्;

2.1.15

 

आत्मा ज्ञातैव, स चाहमर्थ एव, अन्तःकरणभूतस्त्वहङ्कारो जडत्वात्करणत्वाच्च शरीरेन्द्रियादिवन्न ज्ञातेत्यु-

पपादितत्वात् । यच्च शरीरत्वजडत्व-कार्यत्वकल्पितत्वैः सर्वशरीराणामेकस्य अविद्याकल्पितत्वमुक्तम्, तदपि

सर्वशरीराणामविद्याकल्पितत्वस्यैवाभावादयुक्तम् । तदभावश्चाबाधितस्य सत्यतोपपादनात् । यच्च चेतनाद-न्यस्य जडत्वदर्शनात्सर्वचेतनानामनन्यत्वमुक्तं तदपि सुखदुःखव्यवस्थया भेदोपपादनादेव निरस्तम् । यत्तु मयैवात्मवन्ति मदविद्याकल्पितान्यहमेव सर्वं चेतनजातमित्यहमर्थस्यैक्यमुपपादितम् तदज्ञातस्वसिद्धान्तस्य भ्रान्तिजल्पितम्; अहं त्वमाद्यथर्विलक्षणं चिन्मात्रं ह्यात्मा त्वन्मते । किञ्च निर्विशेषचिन्मात्रातिरेकि सर्वं मिथ्येति वदतो मोक्षार्थश्रवणादिप्रयत्नो निष्फलः, अविद्याकार्यत्वात्; शुक्तिकाराजतादिषु रजताद्युपादानादि-प्रयत्नवत् । मोक्षार्थप्रयत्नोऽपि व्यर्थः, कल्पिताचार्यायत्तज्ञानकार्यत्वात् शुकप्रह्लादवामदेवादिप्रयत्नवत् । तत्त्वमस्यादिवाक्यजन्यज्ञानं न बन्धनिवर्तकम्, अविद्याकल्पितवाक्यजन्यत्वात्स्वयमविद्यात्मकत्वात्, अवि-द्याकल्पितज्ञात्राश्रयत्वात् कल्पिताचार्यायत्तश्रवणजन्यत्वाद्वा, स्वाप्नबन्धनिवत्तर्नवाक्यजन्यज्ञानवत् । किञ्च निर्विशेषचिन्मात्रं ब्रह्म मिथ्या, अविद्याकार्यज्ञानगम्यत्वात् अविद्याकल्पितज्ञात्राश्रयज्ञानगम्यत्वात् अविद्या-त्मकज्ञानगम्यत्वाद्वा, यदेवं तत्तथा, यथा स्वाप्नगन्धर्वनगरादिः । न च निर्विशेषचिन्मात्रं ब्रह्म स्वयं प्रकाशते, येन न प्रमाणान्तरमपेक्षते । यत्त्वात्मसाक्षिकं स्वयं प्रकाशज्ञानं दृश्यते, तत्तु ज्ञेयविशेषसिद्धिरूपं ज्ञातृगतमेव दृश्यत इति पूर्वमेवोक्तम् । यानि च तस्य निविर्शेषत्वसाधकानि यौक्तिकानि ज्ञानान्युपन्यस्तानि तानि चान-न्तरोक्तैरविद्याकार्यत्वादित्यादिभिरनुमानैर्निरस्तानि । न च निर्विशेषस्य चिन्मात्रस्याज्ञानसाक्षित्वमहङ्कारादि-

2.1.15

 

जगद्भ्रमश्चोपपद्यते साक्षित्वभ्रमादयोऽपि हि ज्ञातृविशेषगता दृष्टाः, न ज्ञप्तिमात्रगताः, न च तस्य प्रकाशत्वं स्वायत्तप्रकाशता वा सिध्यति; प्रकाशो हि कस्यचित्पुरुषस्य कञ्चनाथर्विशेषं प्रतिसिद्धिरूपो दृश्यते, तत एव हि तस्य स्वयम्प्रकाशतोपपद्यते भवद्भिरपि । न चातादृशस्य निर्विशेषस्य प्रकाशता सम्भवति ।

यः पुनः स्वगोष्ठीष्वपरमार्थादपि परमाथर्कार्यं दृश्यत इत्युद्घोषः सोऽपि, तानि कार्याणि सर्वाण्यबाधितक-ल्पानि व्यावहारिकसत्यानि; वस्तुतस्त्वविद्यात्मकान्येवेति स्वाभ्युपगमादेव निरस्तः । अस्माभिरपि सर्वत्रपर-मार्थादेव कारणात्सर्वकार्योत्पत्तिमुपपादयद्भिः पूर्वमेव निरस्तः । न च त्वयैषामनुमानानां श्रुतिविरोधो वक्तुं शक्यते, श्रुतेरप्यविद्याकार्यत्वेनाविद्यात्मकत्वेन चोक्तदृष्टान्तेभ्यो विशेषाभावात् । यत्तु ब्रह्मणोऽपारमार्थिकज्ञा-नगम्यत्वेऽपि पश्चात्तनबाधादर्शनाद्ब्रह्म सत्यमेवेति, तदसत्; दुष्टकारणजन्यज्ञानगम्यत्वे निश्चिते सति पश्चात्तन-बाधादर्शनस्याकिञ्चित्करत्वात् । यथा शून्यमेव तत्त्वमिति वाक्यजन्यज्ञानस्य पश्चात्तनबाधादर्शनेऽपि दोषमूल-त्वनिश्चयादेव तदर्थस्यासत्यत्वम् । किञ्च "नेह नानास्ति किञ्चन" "विज्ञानमानन्दं ब्रह्म" इति विज्ञानमात्रातिरि-क्तस्य कृत्स्नस्य वस्तुजातस्य निषेधकत्वेन सर्वस्मात् परत्वात्पश्चात्तनबाधादर्शनमुच्यते, शून्यमेव तत्त्वमिति तस्याप्यभावं वदतस्तस्मात्परत्वेन पश्चात्तनबाधो दृश्यते । सर्वशून्यत्वातिरेकिनिषेधासम्भवात्तस्यैव पश्चात्तन-बाधादर्शनम्; दोषमूलत्वं तु प्रत्यक्षादीनां वेदान्तजन्मनः सर्वशून्यज्ञानस्याप्यविशिष्टम्;

अतः सर्वं विज्ञानजातं पारमार्थिक-ज्ञातृगतम्; स्वयं च परमार्थभूतमर्थविशेषसिद्धिरूपम्; तत्र किञ्चित्, ज्ञानं दोषमूलम्; दोषश्च परमार्थः, किञ्चिच्च निर्दोषं पारमार्थिकसामग्रीजन्यमिति यावन्नाभ्युपेयते, न तावत्स-त्यमिथ्यार्थव्यवस्था,लोकव्यवहारश्च सेत्स्यति। लोकव्यवहारो हि पारमार्थिको भ्रान्तिरूपश्च पारमार्थिकज्ञातृग-तार्थविशेषसिद्धिरूपप्रकाशपूर्वकः, निर्विशेष-सन्मात्रस्य तु पारमार्थिकस्याऽपारमाथिर्कस्य च प्रतिभासादेर्हेतु-त्वासम्भवाल्लोकव्यवहारो न सम्भवति ।

2.1.15

 

यच्च तैर्निरधिष्ठानभ्रमासम्भवात् सर्वाध्यासाधिष्ठानस्य सन्मात्रस्य पारमार्थिकत्वमुक्तम्, तदपि दोषदोषा-श्रयत्वज्ञातृत्वज्ञानानामपारमार्थ्येपि भ्रमोपपत्तिवदधिष्ठानापारमार्थ्येपि भ्रमोपपत्तेर्निरस्तम् । अथ अधिष्ठानापा-रमार्थ्ये न क्वचिद्भ्रमो दृष्ट इति सन्मात्रस्य पारमार्थिकत्वमवश्याश्रयणीयमिति मन्यसे हन्त तर्हि दोषदोषाश्रय-त्वज्ञातृत्वज्ञानानामपारमार्थ्येऽपि न क्वचिद्भ्रमो दृष्ट इति दर्शनानुगुण्येन तेषामपि पारमार्थ्यमवश्याश्रयणीय-मिति न कश्चिद्विशेषोऽन्यत्र तत्संरम्भात् । यत्तु भेदपक्षेऽप्यतीतकल्पानामानन्त्यात्सर्वेषामात्मनां मुक्तत्वेन ब-द्धासम्भवाद्बद्धमुक्तव्यवस्था न सम्भवतीति; तदात्मानन्त्येन परिहृतम् । यत्त्वात्मनां भिन्नत्वे माषसर्षपघटप-टादिवत्सङ्खयावत्त्वमवर्ज्जनीयमिति, तत्र घटादीनामप्यनन्तत्वात् दृष्टान्तः साध्यविकलस्स्यात्, दशघटाः सहस्रं माषा इति सङ्खयावत्त्वं दृश्यत इति चेत्-सत्यम् , तत्तु न घटादिस्वरूपगतम्, अपि तु देशकालाद्युपाधिमद्घटा-दिगतम्, तादृशं तु सङ्खयावत्त्वमात्मनामभ्युपगच्छामः । न च तावता सर्वमुक्तिप्रसङ्गः,आत्मस्वरूपानन्त्यात् ।

2.1.15

 

यत्तु आत्मनां भिन्नत्वे घटादिवज्जडत्वानात्मत्वक्षयित्वप्रसङ्ग इति, तदयुक्तम्; एकजातीयानां भेदस्य तज्जाती-यानां जात्यन्तरीयत्वानापादकत्वात् । न हि घटादीनां भेदस्तेषां पटत्वमापादयति ।

यत्तु भिन्नत्वे वस्तुतः परिच्छेदाद्देशकालाभ्यामपि परिच्छेदो ब्रह्मणः प्रसज्यत इत्यनन्तत्वं ब्रह्मणो न सिध्य-तीति, तदयुक्तम्; वस्तुतः परिच्छिन्नानामपि देशकालपरिच्छेदस्य न्यूनाधिकभावेनानियमदर्शनात्; देशकालस-म्बन्धेयत्तायाः प्रमाणान्तरायत्तनिर्णयत्वेन ब्रह्मणः सर्वदेशकालसम्बन्धस्यापि प्रमाणान्तरादापततो विरोधाभा-वात् । वस्तुतः परिच्छेदमात्रादपि सर्वप्रकारपरिच्छेदरहितत्वाभावादानन्त्यासिद्धिरिति चेत्, तद्भवतोऽप्यविद्या-विलक्षणत्वं ब्रह्मणो अभ्युपेयतः समानम्; अतस्सतोऽविद्याविलक्षणत्वाभ्युपगमाद्ब्रह्मणोऽपि भिन्नत्वेन भेदप्र-युक्ता दोषास्सर्वे तवापि प्रसज्येरन् । यद्यविद्याविलक्षणत्वं नाभ्युपेयते; तर्ह्यविद्यात्मकत्वमेव ब्रह्म स्यात् ।

2.1.15

 

"सत्यं ज्ञानमनन्तं ब्रह्म" इति लक्षणवाक्यमपि तत एवापाथर्कं स्यात् । भेदतत्त्वानभ्युपगमे हि स्वपक्षपरपक्षसा-धनदूषणादिविवेकाभावात्सर्वमसमञ्जसं स्यात् । आनन्त्यप्रसिद्धिश्च देशकालपरिच्छेदरहितत्वमात्रेण; न वस्तु-तोऽपि परिच्छेदरहितत्वेन, तथाविधस्य शशविषाणायमानस्यानुपलब्धेः । भेदवादिनस्तु सर्वचिदचिद्वस्तुशरीर-त्वेनब्रह्मणस्सर्वप्रकारत्वात्स्वतः परतोऽपि परिच्छेदो न विद्यते । तदेवं कारणाद्भिन्नस्य कायर्स्य सत्यत्वाद्ब्रह्म-कार्यं कृत्स्नं जगद्ब्रह्मणोऽन्यदेव ।

इति प्राप्ते प्रचक्ष्महे - तदनन्यत्वमारम्भणशब्दादिभ्यः । तस्मात्-परमकारणाद्ब्रह्मणः, अनन्यत्वं जगतः आरम्भणशब्दादिभ्यः तदुपपादयद्भयोऽवगम्यते । आरम्भणशब्द आदिर्येषां वाक्यानाम्, तान्यारम्भणशब्दा-दीनि "वाचारम्भणं विकारोनामधेयं मृत्तिकेत्येव सत्यम्" "सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं, तदैक्षत

2.1.15

 

बहु स्यां प्रजायेयेति तत्तेजोऽसूजत" "अनेन जीवेनात्मनाऽनुप्रविश्य" "सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदा-यतनाः सत्प्रतिष्ठाः ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो" इत्येतानि; प्रकरणान्तरस्था-न्यप्येवञ्जातीयकान्यत्राभिप्रेतानि । एतानि हि वाक्यानि चिदचिदात्मकस्य जगतः परस्माद्ब्रह्मणोऽनन्यत्व-मुपपादयन्ति । तथा हि-"स्तब्धोऽस्युत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्" इति कृत्स्नस्य जगतो ब्रह्मैककारणत्वम्, कारणात्कार्यस्यानन्यत्वं च हृदि निधाय कारणभूतब्रह्मविज्ञानेन कार्यभू-तस्य सर्वस्य विज्ञाने प्रतिज्ञाते सति कृत्स्नस्य ब्रह्मैककारणतामजानता शिष्टेण "कथं नु भगवःस आदेशः" इत्य-न्यज्ञानेनान्यज्ञातताऽसम्भवं चोदितो जगतो ब्रह्मैकारणतामुपदेक्ष्यन् लौकिकप्रतीतिसिद्धं कारणात्कायर्स्यान-न्यत्वं तावत् "यथा सोम्येकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात्" इति दर्शयति । यथैकमृत्पिण्डारब्धानां घटशरवादीनां तस्मादनतिरिक्तद्रव्यतया तज्ज्ञानेन ज्ञाततेत्यर्थः । अत्र काणादवादेन कारणात् कार्यस्य द्रव्या-न्तरत्वमाशङ्कय लोक-प्रतीत्यैव कारणात्कार्यस्यानन्यतामुपपादयति "वाचारम्भणं विकारो नामधेयं मृत्तिके-त्येव सत्यम्" इति । आरभ्यते आलभ्यते स्पृश्यत इत्यारम्भणम्; "कृत्यल्युटो बहुलम्" इति कर्माणि ल्युट् । वाचा-वाक्पूर्वकेण व्यवहारेण हेतुनेत्यर्थः । घटेनोदकमाहरेत्यादि वाक्पूर्वको ह्युदकाहरणादिव्यवहारः, तस्य

2.1.15

 

व्यवहारस्य सिद्धये तेनैव मृद्द्रव्येण पृथुबुध्नोदरत्वादिलक्षणो विकारः-संस्थानविशेषः तत्प्रयुक्तं च घट इत्यादि नामधेयम्, स्पृश्यते-उद-काहरणादिव्यवहारविशेषसिद्धयर्थं मृद्द्रव्यमेव संस्थानान्तरनामधेयान्तरभाग्भवति । अतो घटाद्यपि मृत्तिके-त्येव सत्यम्, मृत्तिकाद्रव्यमित्येव सत्यम्, प्रमाणेनोपलभ्यत इत्यर्थः, न तु द्रव्यान्त-रत्वेन; अतस्तस्यैव मृद्धिरण्यादेर्द्रव्यस्य संस्थानान्तरभाक्तवमात्रेण बुद्धिशब्दान्तरादय उपपद्यन्ते, यथेकस्यैव देवदत्तस्यावस्थाभेदैः "बालो युवा स्थविरः" इति बुद्धिशब्दान्तरादयः कार्यविशेषाश्च दृश्यन्ते ।

यदुक्तं-सत्यामेव मृदि घटो नष्ट इति व्यवहारात्कारणादन्यत्कायर्मिति, तदुत्पत्तिविनाशादीनां कारणभूत-स्यैव द्रव्यस्यावस्थाविशेषत्वाभ्युपगमादेव परिहृतम् । तत्तदवस्थस्यैकस्यैव तस्यैव द्रव्यस्य ते ते शब्दास्तानि तानि च कार्याणीति युक्तम् । द्रव्यस्य तत्त-दवस्थत्वं कारकव्यापारायत्तमिति तस्यार्थवत्त्वम् । अभिव्यक्तयनु-बन्धीनि चोद्यानि तस्या अनभ्युपगमादेव परिहृतानि । उत्पत्त्यभ्युपगमेऽपि सत्कार्यवादो न विरुध्यते; सत एवोत्पत्तेः । विप्रतिषिद्धमिदमभिधीयते, पूर्वमेव सत्, तदुत्पद्यते चेति । अज्ञातोत्पत्तिविनाशयाथात्म्यस्येदं चोद्यम्; द्रव्यस्योत्तरोत्तरसंस्थानयोगः पूर्व-पूर्वसंस्थानसंस्थितस्य विनाशः, स्वावस्थस्य तूत्पत्तिः, अतः सर्वावस्थस्य द्रव्यस्य सत्त्वात् सत्कार्यवादो न विरुध्यते । संस्थानस्यासत उत्पत्तावसत्कार्यवादप्रसङ्ग इति चेत्

2.1.15

 

असत्कार्यवादिनोऽप्युत्पत्तेरनुतत्तिमत्त्वे सत्कार्यवादप्रसङ्गः । उत्पत्तिमत्त्वे चानवस्था । अस्माकं त्ववस्थानं पृथक्प्रतिपत्तिकार्ययोगानर्हत्वादवस्थावत एवोत्प-त्त्यादिकं सर्वमिति निरवद्यम् । कपालत्वचूर्णत्वपिण्डत्वा-वस्थाप्रहाणेन घटत्वावस्थावदेकत्वावस्थाप्रहाणेन बहुत्वावस्था, तत्प्रहाणेनैकत्वावस्था चेति न कश्चिद्विरोधः । तथा "सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्" इति, सदेवेदम् इदानीं विभक्तनामरूपत्वेन नानारूपं जगत् अग्रे नामरूपविभागाभावेनैकमेवासीत्, सर्वशक्तित्वेनाधिष्ठात्रन्तरासहतया अद्वितीयं चेत्यनन्यत्वमेवोपपा-दितम् । तथा "तदैक्षत बहु स्यां प्रजायेय" इति स्रक्ष्यमाणतेजःप्रभृतिविविधिविचित्रस्थिरत्रसरूपजगत्त्वेन आत्मनो बहुभवनं सङ्कल्प्य जगत्सर्गाभिधानात् कार्यभूतस्य जगतः परमकारणात्परस्माद्ब्रह्मणोऽनन्यत्वमव-

त्तिमत्त्व इति । अस्माकं त्विति -अपृथक्सिद्धधर्मतया पृथक् प्रतिपत्तिकार्यानर्हव्यतिरिक्तानाम् उत्पत्त्यादिकं पृथगपेक्षते, पृथक्प्रतिपत्तिकार्यानर्हधर्माः पृथगुत्पत्तिनिरपेक्षाः, अत एव ह्युत्पत्तेरुत्पत्त्वादिनैरपेक्ष्यम्; तस्मादपृ-थक्सिद्धधर्मास्तु स्वयं धर्मिण उत्पत्त्याद्यवस्थाभूता इत्यर्थः । अवस्थैव वस्तुन उत्पत्तिः, न त्ववस्थाया उत्पत्तिर्ना-मास्तीति स्वपक्षवैषम्यद्योतनार्थस्तुशब्दः । सङ्खयाभेदं परिहरति - कपालत्वेति । सद्वारकत्वादविरोधः, कालभेदा-च्चविरोध इत्यर्थः ।

एवं वाचारम्भणमित्यादिवाक्यस्यार्थ उक्तः । अथ सूत्रस्थादिशब्दोपात्तेषु वाक्येषु सदेवेत्यादिकं दार्ष्टान्तिकवाक्यं व्याचष्टे - तथेति । तथा अनन्यत्वमेवोपादितमित्यन्वयः । सच्छब्दः प्रमाणसम्बन्धार्हतां वदति । यद्वा ब्रह्म वदति । अन्यतरार्थत्वे अप्यनन्यपदार्थत्वं सिध्यति, सदेवेत्यवधारणेन कदाचिदसत्यत्वं व्यावर्तितम् । एकमेवेति नामरूप-विभागाभाव उक्तः । अद्वितीयपदेनाधिष्ठात्रन्तरनिषेध इत्यर्थः । सदेवेत्यादिवाक्यस्थमिदंशब्दं व्याचष्टे - विभक्त-नामरूपत्वेनेति । इदं जगत्सदेव चेत् कथं सृष्टयाद्युपपत्तिरित्यत्राह- अग्र इति । अद्वितीयपदं व्याचष्टे - सर्वशक्ति-त्वेनेति । एषां पदानामुक्तार्थपरत्वमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपादनार्थत्वादेवावगम्यते, न हि सजातीयविजा-तीयादिव्यावृत्त्या प्रतिज्ञोपपादनोपयोगः । एषां पदानामुक्तार्थैकपरत्वमुपरितनवाक्यैरप्युपपादयति -तथा तदैक्षतेति ।

2.1.15

 

सीयते । सच्छब्दवाच्यस्य परस्य ब्रह्मणः सर्वज्ञस्य सत्यसङ्कल्पस्य निरवद्यस्यैव सदेवेदमिति निर्द्देशार्हजग-त्त्वम्, सच्छब्दवाच्यस्यैव जगतो नामरूपविभागाभावेनैकत्वमधिष्ठात्रन्तरनिरपेक्षत्वम्, पुनरपि तस्यैव विचित्रास्थिरत्रसरूपजगत्त्वेन बहुभवनसङ्कल्परूपेक्षणम् यथासङ्कल्पं सर्गश्च कथमुपपद्यत इत्याशङ्कयाह

2.1.15

 

"सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवताः अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति तासां त्रिवृत्तं त्रिवृत्तम्" इत्यादि । "तिस्रो देवताः" इति कृत्स्नमचिद्वस्तु निर्द्दिश्य स्वात्मकजीवानुप्रवेशेनैतद्विचित्रनामरूप-भाक्करवाणीत्युक्तम् । अनेन जीवेनात्मना - मदात्मकजीवेन आत्मतया अनुप्रविश्यैतद्विचित्रनामरूपभाक्कर-वाणीत्यर्थः । स्वात्मनो जीवस्य चात्मतयाऽनुप्रवेशकृतं नामरूपभाक्तवमित्युक्तं भवति । "तत्सृष्ट्वा तदेवानु-प्राविशत् तदनुप्रविश्य सच्च त्यच्चाभवत्" इति श्रुत्यन्तरेण स्पष्टम्, सजीवं जगत्परेण ब्रह्मणा आत्मतयाऽनुप्र-विष्टमिति; तदेतत्कार्यावस्थस्य च कारणावस्थस्य च चिदचिद्वस्तुनः सकलस्य स्थूलस्य सूक्ष्मस्य च परब्रह्म-शरीरत्वम्, परस्य च ब्रह्मण आत्मत्वमन्तर्यामिब्राह्मणादिषु सिद्धं स्मा-रितम् । अनेन पूर्वोक्ता शङ्का निरस्ता । अचिद्वस्तुनि सजीवे ब्रह्मण्यात्मतयाऽवस्थिते नामरूपव्याकरणवच- नाच्चिदचिद्वस्तुशरीरकं ब्रह्मैव जगच्छब्द-वाच्यमिति "सदेवेदमग्र एकमेवासीत्" इत्यादि सर्वमुपपन्नतरम्, शरीर-भूतचिदचिद्वस्तुगताः सर्वे विकाराश्चा-पुरुषार्थाश्चेति ब्रह्मणो निरवद्यत्वं कल्याणगुणाकरत्वं च सुस्थितम् । तदेतत् "अधिकं तु भेदनिर्देशात्" इत्य-नन्तरमेव वक्ष्यति । तथा "ऐतदात्म्यमिदं सर्वम्" इति कृत्स्नस्य चेतनाचेतनस्य ब्रह्मतादात्म्यमुपदिशति । तदेव च तत्त्वमसीति निगमयति । तथा प्रकरणान्तरस्थेष्वपि वाक्येषु "सर्वं खल्विदं ब्रह्म" "आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम्" "इदं सर्वं यदयमात्मा" "ब्रह्मैवेदं सर्वम्" इत्यनन्यत्वं प्रतीयते, तथाऽन्यत्वं च निषिध्यते "सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद" "नेह नानास्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति" इति । तथा "यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्" इत्यविदुषो द्वैतदर्शनं विदुषश्चाद्वैतदर्शनं प्रतिपादयदनन्यत्वमेव तात्त्विकमिति प्रतिपादयति । तदेवमारम्भणश-ब्दादिभ्यो जगतः परमकारणात्परस्माद्ब्रह्मणोऽनन्यत्वमुपपाद्यते । अत्रेदं तत्त्वम्-चिदचिद्वस्तुशरीरतया तत्प्रकारं ब्रह्मैव सर्वदा सर्वशब्दाभिधेयम् । तत्कदाचित्स्वस्मात् स्वशरीरतयापि पृथग्व्यपदेशानर्हसूक्ष्मदशापन्नचिदचिद्व-

2.1.15

 

स्तुशरीरम्, तत्कारणावस्थं ब्रह्म । कदाचिच्च विभक्तनामरूपव्यवहारार्हस्थूलदशापन्नचिदचिद्वस्तुशरीरम्, तच्च कार्यावस्थमिति कारणात्परस्माद्ब्रह्मणः कार्यरूपं जगदन्यत्, शरीरभूतचिदचिद्वस्तुनः शरीरिणो ब्रह्मणश्च कारणावस्थायां कार्यावस्थायां च श्रुतिशतसिद्धया स्वभावव्यवस्थया गुणदोषव्यवस्था च "न तु दृष्टान्तभावात्" इत्यत्रोक्ता । ये तु कार्यकारणयोरनन्यत्वं कार्यस्य मिथ्यात्वाश्रयणेन वर्णयन्ति; न तेषां कार्यकारणयोरनन्यत्वं सिध्यति सत्यमिथ्यार्थयोरैक्यानुपपत्तेः, तथा सति ब्रह्मणो मिथ्यात्वं जगतः सत्यत्वं वा स्यात् ।

ये च कार्यमपि पारमार्थिकमभ्युपयन्त एव जीवब्रह्मणोरौपाधिकमन्यत्वम्, स्वाभाविकं चानन्यत्वम्, अचिद्ब्रह्मणोस्तु द्वयमपि स्वाभा-विकमिति वदन्ति; तेषामुपाधिब्रह्मव्यतिरिक्तवस्त्वन्तराभावान्निरवयवस्या-खण्डितस्य ब्रह्मण एवोपाधिसम्बन्धाद्ब्रह्मस्वरूपस्यैव हेयाकारपरिणामाच्छक्तिपरिणामाभ्युपगमे शक्तिब्रह्म-णोरनन्यत्वाच्च जीवब्रह्मणोः कर्मवश्यत्वापहतपाप्मत्वादिव्यवस्थावादिन्योऽचिद्ब्रह्मणोश्च परिणामापरिणामवा-दिन्यः श्रुतयो व्याकुली भवेयुः व्याकुप्येयुः ।

ये पुनः निरस्तनिखिलभोक्तृत्वादिविकल्पविप्लवं सर्वशक्तियुक्तं सन्मात्रद्रव्यमेव कारणं ब्रह्म; तच्च प्रलयवेलायां शान्ता-शेषसुखदुःखानुभवविशेषं स्वप्रकाशमपि सुषुप्तात्मवदचिद्विलक्षणमवस्थितम्, सृष्टिवेलायां मृत्तिकाद्रव्यमिव घटशरावादिरूपम्, समुद्र इव च फेनतरङ्गबुद्बु-दादिरूपो भोक्तृभोग्यनियन्तृरूपेणांशत्रया-वस्थमवतिष्ठते; अतो भोक्तृभोग्यनियन्तृत्वानि तत्प्रयु#ुक्ताश्च गुणदोषाः शरावत्वघटत्वमणिकत्ववत्तद्गतकार्य-भेदवच्च व्यवतिष्ठन्ते; भोक्तृभोग्यनियन्तॄणां सदात्मनैकत्वं च घटशरीवमणिकादीनां मृदात्मनैकत्ववदुपपद्यते; अतस्सन्मात्रद्रव्यमेव सर्वावस्थावस्थितमिति ब्रह्मणोऽनन्यज्जगदातिष्ठन्ते; तेषां सकलश्रुति स्मृतीतिहासपुराण-न्यायविरोधः सर्वा हि श्रुतयः सस्मृतीतिहासपुराणाः सर्वेश्वरेश्वरं सदैव सर्वज्ञं सर्वशकिं्त सत्यसङ्कल्पं निरवद्यं देश-कालानवच्छिन्नानवधिकातिशयानन्दं परमकारणं ब्रह्म प्रतिपादयन्ति, न पुनरीश्वरादपि परमीश्वरांशि सन्मात्रम् । तथाहि "सदेव सोम्येदमग्र आसीदेकमेवाद्वि-तीयम् तदैक्षत बहु स्यां प्रजायेयेति ब्रह्म वा इदमग्र आसीदेकमेव तदेकं सन्न व्यभवत् तच्छ्रेयोरूपमत्यसृजत क्षत्रं यान्येतानि देवक्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्ज्जन्यो यमो मृ-त्युरीशानः" इति "आत्मा वा इदमेकमेवाग्र आसीत् नान्यत्किञ्चन मिषत् स पेक्षत लोकान्नु सृजा इति" "एको ह वै नारायण आसीन्न ब्रह्मा नेशानो नेमेद्यावापृथिवी न नक्षत्राणि नापो नाग्निर्न सोमो न सूर्यः स एकाकी न रमते तस्य ध्यानान्तस्थस्य" इत्यादिभिः परमकारणं सर्वेश्वरेश्वरो नारायण एवेत्यवगम्यते । सद्ब्रह्मात्मशब्दा हि तुल्य-प्रकरणस्थास्तत्तुल्यप्रकरणस्थेन नारायणशब्देन विशेषितास्तमेवावगभयन्ति "तमीश्वराणां परमं महेश्वरं तद्देव-तानां परमं च दैवतम् । "स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः इतीश्वरस्यैव कारणत्वं

2.1.15

 

श्रूयते । स्मृतिरपि मानवी" "ततः स्वयम्भूर्भगवान्" इति प्रकृत्य "सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः।

अप एव ससर्जादौ तासु वीर्यमुपासृजत्" इति । इतिहासपुराणान्यपि पुरुषोत्तममेव परमकारणमभिदधति "नारा-यणो जगन्मूर्तिरनन्तात्मा सनातनः । स सिसृक्षुः सहस्रांशादसृजत्पुरुषान् द्विधा" "विष्णोः सकाशादुद्भूतं जग-त्तत्रैव च स्थितम्" इत्यादिषु । न चेश्वरः सन्मात्रमेवेति वक्तुं शक्यम्, तस्य तदंशत्वाभ्युपगमात्सविशेषत्वाच्च । न च तस्य ज्ञानानन्दाद्यनन्तकल्याणगुणयोगः कादाचित्क इति वक्तुं शक्यते, तेषां स्वाभाविकत्वेन सदात-नत्वात्, "परास्य शक्तिविर्विधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" "यः सर्वज्ञः सर्ववित्" इत्यादिभ्यः । ज्ञानानन्दादिशक्तियोग एवास्य स्वाभाविक इति मा वोचः, शक्तिः स्वाभाविकी, ज्ञानबलक्रिया च स्वाभावि-कीति पृथङ्निर्देशाल्लक्षणाप्रसङ्गाच्च । न च पाचकादिवत् "सर्वज्ञ" इत्यादिषु शक्तिमात्रे कृत्प्रत्यय इति वक्तुं शक्यम्, कृत्प्रत्ययमात्रस्य शक्तावस्मरणात्, "शक्तौ हस्तिकवाटयोः" इत्यादिषु केषाञ्चिदेव कृत्प्रत्ययानां शक्तिविषयत्वस्मरणात् पाचकादिषु त्वगत्या लक्षणा समाश्रीयते ।

किञ्च-ईश्वरस्य तदंशविशेषत्वात्तस्य चांशित्वे तरङ्गात्समुद्रस्येवांशादंशिनोऽधिकत्वात् "तमीश्वराणां परमं महेश्वरम्" "न तत्समश्चाभ्यधिकश्च दृश्यते" इत्या- दीनीश्वरविषयाणि परश्शतानि वचांसि बाध्येरन् । किञ्च सन्मात्रस्य सर्वात्मकत्वेंऽशित्वे चेश्वरस्य तदंशविशे-षत्वात्तस्य सर्वात्मकत्वांशित्वोपदेशा व्याहन्येरन् । न हि मणिकात्मकत्वं तदंशत्वं वा घटशरावादेः । स्वांशेषु सर्वेषु सन्मात्रस्य पूर्णत्वेनेश्वरांशेऽपि तस्य पूर्णत्वात्तदात्मकानि तदंशाश्चेतराणि वस्तूनीति चेन्न; घटेऽपि सन्मात्रस्य पूर्णत्वादीश्वरस्यापि घटात्मकत्व -

2.1.15

 

तदंशत्वप्रसङ्गात् । न च सन्मात्रस्य घटोऽस्ति पटोऽस्तीति वस्तु-धर्मतययाऽवगतस्य द्रव्यत्वं कारणत्वं वोपपद्यते; व्यवहारयोग्यता हि सत्त्वम्; विरोधिव्यवहारयोग्यता तद्य्ववहारयोग्यस्यासत्त्वम् द्रव्यमेव सदित्यभ्युपगमे क्रियादीनामसत्त्वप्रसङ्गः, क्रियादिषु काशकुशावलम्बने-

नापिसर्वत्रेकरूपा सत्तादुरुपपादा । सदात्मना च सर्वस्याभिन्नत्वे सर्वज्ञत्वेन सर्वस्वभावप्रतिसन्धानात्सर्व-गुणदोषसङ्करप्रसङ्गश्च पूर्वमेवोक्तः, अतो यथोक्तप्रकारमेवानन्यत्वम् ।।

अथोच्येत-एकस्यैवावस्थान्तरयोगेऽपि बुद्धिशब्दान्तरादयो बालत्वयुवत्वादिषु दृश्यन्ते; मृद्दारुहिर-ण्यादिषु द्रव्यान्तरत्वेऽपि दृश्यन्ते; तत्र मृद्घटादिषु कार्यकारणेषु बुद्धिशब्दान्तरादयोऽवस्थानिबन्धना एवेति कुतो निर्णीयत इति ।

2.1.16

तत्रोत्तरम् -

2.1.16

भावे चोपलब्धे #ः ।। 16 ।।

2.1.16

 

कुण्डलादिकार्यसद्भावे च कारणभूतहिरण्यस्योपलब्धेः, "इदं कुण्डलं हिरण्यम्" इति हिरण्यत्वेन प्रत्य-भिज्ञानादित्यर्थः । न चैवं हिरण्यादिषु द्रव्यान्तरेषु मृदादय उपलभ्यन्ते; अतो बालयुवादिवत्कारणभूतमेव द्रव्य-मवस्थान्तरापन्नं कार्यमिति गीयते; द्रव्यान्तरवादिनाप्यभ्युपेतेनावस्थान्तरयोगेन बुद्धिशब्दान्तरादिषूपपन्नेष्व-नुपलब्धद्रव्यान्तरकल्पनानुपपत्तेश्च । न च जातिनिबन्धनेयं प्रत्यभिज्ञा, जात्याश्रयभूतद्रव्यान्तरानुपलब्धेः ।

2.1.16

 

एकमेव हेमजातीयं द्रव्यं कार्यकारणोभयावस्थं दृश्यते । न च द्रव्यभेदे समवायिकारणानुवृत्त्या कार्ये प्रतिसन्धा-नमिति वक्तुं शक्यम्, द्रव्यान्तरत्वे सत्याश्रयानुवृत्तिमात्रेण तदाश्रितद्रव्यान्तरे प्रतिसन्धानानुपपत्तेः । गोम-यादिकार्ये वृश्चिकादौ गोमयादिप्रतिसन्धानं न दृश्यत इति चेन्न; तत्राप्याद्यकारणभूतपृथिवीद्रव्यप्रत्यभिज्ञानात् । अग्निकार्ये धूमेऽग्निप्रत्यभिज्ञानं न दृश्यत इति चेत्-भवतु, न तत्र प्रत्यभिज्ञानम्; तथापि न दोषः, अग्नेर्निमित्त-कारणमात्रत्वात् । अग्निसंयुक्तार्द्रेन्धनाद्धि धूमो जायते । गन्धैक्याच्चार्द्रेन्धनकार्यमेव धूमः, अतः कार्यभावे च तदेवेदमित्युपलब्धेर्बुद्धिशब्दान्तरादयोऽवस्थाभेदमात्रनिबन्धना इत्यवगम्यते । तस्मात्कारणादनन्यत्कार्यम् ।।

2.1.17

इतश्च -

2.1.17

सत्त्वाच्चापरस्य ।। 17 ।।

2.1.17

 

अपरस्य-कार्यस्य कारणे सत्त्वाच्च कारणात्कार्यस्यानन्यत्वम् । लोकवेदयोर्हि कार्यमेव कारणतया व्यपदिश्यते; यथा लोके "सर्वमिदं घटशरावादिकं पूर्वाह्णे मृत्तिकैवासीत्" इति; वेदे च "सदेव सोम्येदमग्र आसीत्" इति ।

2.1.18

असद्य्वपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषाद्युक्तेः शब्दान्तराच्च ।। 18 ।।

2.1.18

 

यदुक्तं कारणे कार्यस्य सत्त्वं लोकवेदाभ्यामवगम्यत इति, तदयुक्तम्; असद्य्वपदेशात्- "असदेवेदमग्र आसीत्" "असद्वा इदमग्र आसीत्" "इदं वाग्रे नैव किञ्चनासीत्" इति; लोके च "सर्वमिदं घटशरावादिकं पूर्वा-ह्णे नासीत्" इति; अतो यथोक्तं नोपपद्यत इति चेत्-तन्न; धर्मान्तरेण तथा व्यपदेशात् । स खल्वसद्य्वपदेशस्त-स्यैव कार्यद्रव्यस्य पूर्वकाले धर्मान्तरेण-संस्थानान्तरेण; न भवदभिप्रेतेन तुच्छत्वेन । सत्त्वासत्त्वे हि द्रव्यधर्मा-वित्युक्तम् । तत्र सत्त्वधर्माद्धर्मान्तरमसत्त्वम् । इदंशब्दनिर्दिष्टस्य जगतः सत्त्वधर्मो नामरूपे; असत्त्वधर्मस्तु तद्विरोधिनी सूक्ष्मावस्था; अतो जगतो नामरूपयुक्तस्य तद्विरोधिसूक्ष्मदशापत्तिरसत्त्वम् । कथमिदमवगम्यते ? वाक्यशेषाद्युक्तेः शब्दान्तराच्च । वाक्यशेषस्तावत् "इदं वा अग्रे नैव किञ्चनासीत्" इत्यत्र "तदसदेव सन्मनो-ऽकुरुत स्यामिति" इति । अनेन वाक्यशेषगतेन मनस्कारलिङ्गेनासच्छब्दार्थे तुच्छातिरिक्ते निश्चिते तदैकार्थ्यात् "असदेवेदम्" इत्यादिष्वप्यसच्छब्दस्यायमेवार्थ इति निश्चीयते । युक्तेश्च असत्त्वस्य धर्मान्तरत्वमवगम्यते; युक्तिर्हि सत्त्वासत्त्वे पदार्थधर्माववगमयति । मृद्द्रव्यस्य पृथुबुध्नोदराकारयोगो घटोऽस्तीति व्यवहारहेतुः, तस्यैव तद्विरोध्यवस्थान्तरयोगो घटो नास्तीतिव्यवहारहेतुः, तत्र कपालाद्यवस्थायास्तद्विरोधित्वेन सैव घटावस्थस्य नास्तीति व्यवहारहेतुः । न च तद्य्वतिरिक्तो घटाभावो नाम कश्चिदुपलभ्यते; न च तत्कल्प्यते, तावतैवाभाव-

2.1.18

 

व्यवहारोपपत्तेः । तथा शब्दान्तराच्च पूर्वकाले धर्मान्तरयोग एवावगम्यते । शब्दान्तरं च पूर्वोदाहृतं "सदेव सोम्येदमग्र आसीत्" इत्यादिकम् । तत्र हि "कुतस्तु खलु सोम्येवं स्यात्" इति तुच्छत्वमाक्षिप्य "सदेव सो-म्येदमग्र आसीत्" इति स्थापितम् । "तद्धेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यां व्याक्रियत" इति सुस्पष्टमुक्तम् ।

2.1.19

 

इदानीं कार्यस्य कारणादनन्यत्वे निदर्शनद्वयं द्वाभ्यां सूत्राभ्यां दर्शयति -

2.1.19

पटवच्च ।। 19 ।।

2.1.19

 

यथा तन्तव एव व्यतिषङ्गविशेषभाजः पट इति नामरूपकार्यान्तरादिकं भजन्ते; तद्वद्ब्रह्मापि ।।

2.1.20

यथा च प्राणादिः ।। 20 ।।

2.1.20

 

यथा च वायुरेक एव शरीरे वृत्तिविशेषं भचमानः प्राणापानादिनामरूपकार्यान्तराणि भजते; तद्वत् ब्रह्मै-कमेव विचित्रस्थिरत्रसरूपं जगद्भवतीति परमकारणात्परस्माद्ब्रह्मणोऽनन्यत्वं जगतः सिद्धम् ।।

2.1.21

इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ।। 21 ।।

2.1.21

 

जगतो ब्रह्मानन्यत्वं प्रतिपादयद्भिः "तत्त्वमदि" "अयमात्मा ब्रह्म" इत्यादिभिर्जीव- स्यापि ब्रह्मानन्यत्वं व्यपदिश्यत इत्युक्तम्; तत्रेदं चोद्यते; यदीतरस्य जीवस्य ब्रह्मभावोऽमीभिर्वाक्यैर्व्यप-दिश्यते तदा ब्रह्मणः सार्वज्ञ्यसत्यसङ्कल्पत्वादियुक्तस्यात्मनो हितरूपजगदकरणमहितरूपजगत्करणमि- त्यादयो दोषाः प्रसज्येरन् । आध्यात्मिकाधिदैविकाधिभौतिकानन्तदुः रवाकरं चेदं जगत्; न चेदृशे स्वानर्थे स्वाधीनो बुद्धिमान्प्रवर्तते । जीवाद्ब्रह्मणो भेदवादिन्यः श्रुतयो जगद्ब्रह्मणोरनन्यत्वं वदता त्वयैव परित्यक्ताः, भेदे सत्यनन्यत्वासिद्धेः । औपाधिकभेदविषया भेदश्रुतयः स्वाभाविकाभेदविषयाश्चाभेदश्रुतय इति चेत्-तत्रेदं वक्तव्यम्; स्वभावतः स्वस्मादभिन्नं जीवं किमनुपहितं जगत्कारणं ब्रह्म जानाति वा, न वा ? न जानाति चेत्सर्वज्ञत्वहानिः, जानाति चेत्-स्वस्मादभिन्नस्य जीवस्य दुःखं स्वदुःखमिति जानतो ब्रह्मणो हिताकरणा-हितकरणादिदोषप्रसक्तिरनिवार्या । जीवब्रह्मणोरज्ञानकृतोभेदः, तद्विषया भेदश्रुतिरिति चेत्; तत्रापि जीवा-ज्ञानपक्षे पूर्वोक्तो विकल्पस्तत्फलं च तदवस्थम् । ब्रह्माज्ञानपक्षे स्वप्रकाशस्वरूपस्य ब्रह्मणोऽज्ञानसाक्षित्वं तत्कृतजगत्सृष्टिश्च न सम्भवति । अज्ञानेन प्रकाशस्तिरोहितश्चेत् तिरोधानस्य प्रकाशनिवृत्तिकरत्वेन प्रका-शस्यैव स्वरूपत्वात्स्वरूपनिवृत्तिरेवेति स्वरूपनाशादिदोषसहस्रं प्रागेवोदीरितम्; अत इदमसङ्गतं ब्रह्मणो जगत्कारणत्वम् । इति प्राप्तेऽभिधीयते -

2.1.22

अधिकं तु भेदनिर्द्देशात् ।। 22 ।।

2.1.22

 

तुशब्दः पक्षं व्यावर्तयति; आध्यात्मिकादिदुःखयोगार्हात्प्रत्यगात्मनः अधिकम्-अर्थान्तरभूतं ब्रह्म । कुतः? भेदनिर्देशात्-प्रत्यगात्मनो हि भेदेन निर्द्दिश्यते परं ब्रह्म "य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः" "पृथगात्मनां प्रेरितारं च मत्वा

2.1.23

अश्मादिवच्च तदनुपपत्तिः ।। 23 ।।

2.1.23

 

अश्मकाष्ठलोष्ठतृणादीनामत्यन्तहेयानां सततविकारास्पदानामचिद्विशेषाणां निरवद्यनिर्विकार-निखिलहेयप्रत्यनीककल्याणैकतानस्वेतरसमस्तवस्तुविलक्षणानन्तज्ञानान्दैकस्वरूपनानाविधानन्तमहा-विभूतिब्रह्मस्वरूपैक्यं यथा नोपपद्यते तथा चेतनस्याप्यनन्तदुःखयोगार्हस्य खद्योतकल्पस्यापहतपाप्मेत्या-दिवाक्यावगतसकलहेतयप्रत्यनीकानवधिकातिशयासङ्खयेयकल्याणगुणाकरब्रह्मभावानुपपत्तिः । सामाना-धिकरण्यनिर्देशः "यस्यात्मा शरीरम्" इत्यादिश्रुतेर्जीवस्य ब्रह्मशरीरत्वात् ब्रह्मणो जीवशरीरतया तदात्म-त्वेनावस्थितेर्जीवप्रकारब्रह्मप्रतिपादनपरश्चैतदविरोधी, प्रत्युतैतस्यार्थस्योपपादकश्चेति "अवस्थितेरिति काश-कृत्स्नः" इत्यादिभिरसकृदुपपादितम् । अतस्सर्वावस्थं ब्रह्म चिदचिद्वस्तुशरीरमिति सूक्ष्मचिदचिद्वस्तुशरीरं ब्रह्म कारणम्; तदेव ब्रह्म स्थूलचिदचिद्वस्तुशरीरं जगदाख्यं कार्यमिति जगद्ब्रह्मणोः सामानाधिकरण्योपपत्तिः जगतो ब्रह्मकार्यत्वम् ब्रह्मणोऽनन्यत्वम् अचिद्वस्तुनो जीवस्य च ब्रह्मणश्च परिणामित्वदुःखित्वकल्याणगुणाकरत्व-

2.1.23

 

स्वभावासङ्करस्सर्वश्रुत्यविरोधश्च भवति । "सदेव सोम्येदमग्र आसीदेकमेव" इत्यविभागावस्थायामप्यविद्यु-क्तजीवस्य ब्रह्मशरीरतया सूक्ष्मरूपेणावस्थानमवश्याभ्युपगन्तव्यम्, "वैषम्यनैर्घृण्ये न सापेक्षत्वात्;" "न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च" इति सूत्रद्वयोदितत्वात्तदानीमपि सूक्ष्मरूपेणा-वस्तानस्य । अविभागस्तु नामरूपविभागाभावादुपपद्यते; अतो ब्रह्मकारणत्वं सम्भवत्येव । ये पुनरस्यैव जीवस्याविद्यावियुक्तावस्थामभिप्रेत्येवं भेदं वर्णयन्ति तेषामिदं सर्वमसङ्गतं स्यात्; न हि तदवस्थस्य सर्वज्ञत्वं सर्वेश्वरत्वं समस्तकारणत्वं सर्वात्मत्वं सर्वनियन्तृत्वमित्यादीनि सन्ति । अनेनैव रूपेण ह्याभिः श्रुतिभिः प्रत्यगात्मनो भेदः प्रतिपाद्यते; तस्य सर्वस्याविद्यापरिकल्पितत्वात् । तत्सर्वं ह्यविद्यापरिकल्पितं त्वन्मते । न चाविद्यापरिकल्पितस्याविद्यावस्थायां शुक्तिकारजतादिभेदवत्परस्परभेदोऽत्र सूत्रकारेण "अधिकं तु भेदनि-र्द्देशात्" इत्यादिषु प्रतिपाद्यते; ब्रह्मजिज्ञासा कर्त्तव्येति जिज्ञास्यतया प्रक्रान्तस्य ब्रह्मणो जगज्जन्मादिकारणस्य

2.1.23

 

वेदान्तवेद्यत्वम् तस्य च स्मृतिन्यायविरोधपरिहारश्च क्रियते; "अपीतौ तद्वत्प्रसङ्गादसमञ्जसम्" "न तु दृष्टा-न्तभावात्" इति सूत्रद्वयमेतदधिकरणसिद्धमनुवदति; तत्र हि विलक्षणयोः कार्यकारणभावसम्भव एवाधि-करणार्थः । "असदिति चेन्न प्रतिषेधमात्रत्वात्" इति च पूर्वाधिकरणस्थमनुवदति ।।

2.1.24

उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ।। 24 ।।

2.1.24

 

परस्य ब्रह्मणः सर्वज्ञस्य सत्यसङ्कल्पस्य स्थूलसूक्ष्मावस्थसर्वचेतनाचेतनवस्तुशरीरतया

2.1.24

 

सर्वप्रकारत्वेन सर्वात्मत्वं सकलेतरविलक्षणत्वं चाविरुद्धमिति स्थापितम्; इदानीं सत्यसङ्कल्पस्य परस्य ब्रह्मणः सङ्कल्पमात्रेण विचित्रजगत्सृष्टियोगो न विरुद्ध इति स्थाप्यते । ननु च परमिरशक्तीनां कारककला-पोपसंहारसापेक्षत्वदर्शनेन सर्वशक्तेर्ब्रह्मणः कारककलापानुपसंहारेण जगत्कारणत्वविरोधः कथमाशङ्कयते ? उच्यते; लोके तत्तत्कार्यजननशक्तियुक्तस्यापि तत्तदुपकरणापेक्षित्वदर्शनात्सर्वशक्तियुक्तस्य परस्य ब्रह्मणोऽपि तत्तदुपकरणविरहिणः स्रष्टृत्वं नोपपद्यत इति कस्यचिन्मन्दधियः शङ्का जायत इति सा निराक्रियते । घटपटा-दिकारणभूतानां कुलालकुविन्दादीनां तज्जननसामर्थ्ये सत्यपि कानिचिदुपकरणान्युपसंहत्यैव जनयितृत्वं दृश्यते । तज्जननाशक्ताः कारककलापोपसंहारेऽपि जनयितुं न शक्नुवन्ति; शक्ताः पुनः कारककलापोपसंहारे जनयन्तीत्येतानेव विशेषः । ब्रह्मणोऽपि सर्वशक्तेः सर्वस्य जनयितृत्वं तदुपकरणानामनुपसंहारे नोपपद्यते, प्राक्सृष्टेश्चासहायत्वं "सदेव सोम्येदमग्र आसीत्" "एको ह वै नारायण आसीत्" इत्यादिषु पतीयते; अतः स्रष्टृत्वं नोपपद्यत इत्येवं प्राप्तम् । तदिदमाशङ्कते-उपसंहारदर्शनान्नेति चेदिति ।

परिहरति - न क्षीरवद्धीति । न सर्वेषां कार्यजननशक्तानामुपसंहारसापेक्षत्वमस्ति; यथा क्षीरजला-देर्दधिहिमजननशक्तस्य तज्जनने; एवं ब्रह्मणोऽपि स्वयमेव सर्वजननशक्तेः सर्वस्य जनयितृत्वमुपपद्यते । हीति प्रसिद्धवन्निर्द्देशश्चोद्यस्य मन्दताख्यापनाय । क्षीरादिष्वातञ्चनाद्यपेक्षा न दध्यादिभावाय; अपि तु शैध्य्रार्थं रसविशेषार्थं च ।।

2.1.25

देवादिवदपि लोके ।। 25 ।।

2.1.25

 

यथा देवादयः स्वे स्वे लोके सङ्कल्पमात्रेण स्वापेक्षितानि सृजन्ति तथाऽसौ पुरुषोत्तमः कृत्स्नं जगत् सङ्कल्पमात्रेण सृजति । देवादीनां वेदावगतशक्तीनां दृष्टान्ततयोपादानम्, ब्रह्मणो वेदावकतशक्तेः सुखग्र-हणायेति प्रतिपत्तव्यम् ।।

2.1.26

कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ।। 26 ।।

2.1.26

 

"सदेव सोम्येदमग्र आसीत्" "इदं वा अग्रे नैव किञ्चनासीत्" "आत्मा वा इदमेक एवाग्र आसीत्" इत्यादिषु कारणावस्थायां ब्रह्मैकमेव निरवयवमासीदिति कारणावस्थायां निरस्तचिद-चिद्विभागतया निरवयवं ब्रह्मैवासीत्दियुक्तम्; तदविभागमेकं निरवयवमेव ब्रह्म बहु स्यामिति सङ्कल्प्य आकाशवाय्वादिविभागं ब्रह्मादिस्तम्बपर्यन्तं क्षेत्रज्ञविभागं चाभवदिति चोक्तम्; एवं सति तदेव परं ब्रह्म कृत्स्नं कार्यत्वेनोपयुक्तमित्यभ्युपगन्तव्यम् । अथ चिदंशः क्षेत्रज्ञविभागविभक्तः, अचिदंशश्चाकाशादिवि-भागविभक्त इत्युच्यते, तदा "सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयम्" "ब्रह्मैकमेव आत्मैक एव" इत्ये-वमादयः कारणभूतस्य ब्रह्मणो निरवयवत्ववादिनः शब्दाः कुप्येयुः-बाधिता भवेयुः । यद्यपि सूक्षमचिदचि-द्वस्तुशरीरं ब्रह्म कारणम्, स्थूलचिदचिद्वस्तुशरीरं ब्रह्मकायर्मित्यभ्युपगम्यते; तथापि शरीर्यंशस्यापि कार्य-त्वाभ्युपगमादुक्तदोषो दुर्वारः, तस्य निरवयवस्य बहुभवनं च नोपपद्यते । कार्यत्वानुपयुक्तांशस्थितिश्च नोप-पद्यते । तस्मादसमञ्जसमिवाभाति । अतो ब्रह्मकारणत्वं नोपपद्यते ।। इत्याक्षिप्ते समाधत्ते -

2.1.27

श्रुतेस्तु शब्दमूलत्वात् ।। 27 ।।

2.1.27

 

तुशब्द उक्तदोषं व्यावर्तयति । नैवमसामञ्जस्यम्; कुतः ? श्रुतेः-श्रुतिस्तावन्निरवयवत्वं ब्रह्मणस्ततो विचित्रसर्गं चाह, श्रौतेऽर्थे यथाश्रुति प्रतिपत्तव्यमित्यर्थः । ननु च श्रुतिरपि अग्निना सिञ्चेदितिवत्परस्परा-न्वयायोग्यमर्थं प्रतिपादयितुं समर्था; अत आह-शब्दमूलत्वादिति । शब्दैकप्रमाणकत्वेन सकलेतरवस्तु-विसजातीयत्वादस्यार्थस्य विचित्रशक्तियोगो न विरुध्यत इति न सामान्यतो दृष्टं साधनं दूषणं वा अर्हति ब्रह्मा ।

2.1.28

आत्मनि चैवं विचित्राश्च हि ।। 28 ।।

2.1.28

 

किञ्च, एवम्-वस्त्वन्तरसम्बन्धिनो धर्मस्य वस्त्वन्तरे चारोपणे सति, अचेतने घटादौ धर्मास्त-द्विसजातीये चेतने नित्ये आत्मन्यपि प्रसज्यन्ते । तदप्रसक्तिश्च भावस्वभाववैचित्र्यादित्याह-विचित्राश्च हीति । यथा अग्निजलादीनामन्योन्यविसातीयानामोष्ण्यादिशक्तयश्च विसजातीया दृश्यन्ते; तद्वल्लोकदृष्टविसजातीये परे ब्रह्मणि तत्रतत्रादृष्टः सहस्रशः शक्तयस्सन्तीति न किञ्चिदनुपपन्नम् । यथोक्तं भगवता पराशरेण "निर्गुण-स्याप्रमेयस्य शुद्धस्याप्यमलात्मनः । कथं सर्गादिकर्तृत्वं ब्रह्मणोऽभ्युपगम्यते" । इति सामान्यदृष्टया परिचोद्य "शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः । यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः । भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता" इति । श्रुतिश्च "किं स्विद्वनं क उ स वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा पृच्छतेदुतद्यदध्यतिष्ठद्भुवनानि धारयन् । ब्रह्म वनं ब्रह्म स वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा विब्रवीमि वो ब्रह्माध्यतिष्ठद्भुवनानि धारयन्" इति । सामान्यतो दृष्टं चोद्यं सर्ववस्तुविलक्षणे परे ब्रह्मणि नावतरतीत्यर्थः ।।

2.1.29

इतश्च -

2.1.29

स्वपक्षदोषाच्च ।। 29 ।।

2.1.29

 

स्वपक्षे-प्रधानादिकारणवादे लौकिकवस्तुविसजातीयत्वाभावेन प्रधानादेर्लोकदृष्टा दोषास्तत्र भवे-

2.1.29

 

युरिति सकलेतरविलक्षणं ब्रह्मैव कारणमभ्युपगन्तव्यम् । प्रधानं च निरवयवम्; तस्य निरवयवस्य कथ- मिव महदादिविचित्रजगदारम्भ उपपद्यते । सत्त्वं रजस्तम इति तस्यावयवा विद्यन्त इति चेत् तत्रेदं विवे-चनीयम् किं सत्त्वरजस्तमसां समूहः प्रधानम्; उत सत्त्वरजस्तमोभिरारब्धं प्रधानम् ? अनन्तरे कल्पे प्रधानं कारणमिति स्वाभ्युपगमविरोधः, स्वाभ्युपेतसङ्खयाविरोधश्च । समूहपक्षे च तेषां निरवयवत्वेन प्रदेशभेद-मनपेक्ष्य संयुज्यमानानां न स्थूलद्रव्यारम्भकत्वसिद्धिः । परमाणुकारणवादेऽपि तथैव अणवो हि निरंशाः निष्प्रदेशाः प्रदेशभेदमनपेक्ष्य परस्परं संयुज्यमाना अपि न स्थूलकार्यारम्भाय प्रभवेयुः ।

2.1.30

सर्वोपेता च तद्दर्शनात् ।। 30 ।।

2.1.30

 

सकलेतरवस्तुविसतीया परा देवता सर्वक्तयुपेता च । तथैव परां देवतां दर्शयन्ति हि श्रुतयः "पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" तथा "अपहतपाप्मा विजरो विमृत्युर्विशोकोविजि-घत्सोऽपिपासः" इति सकलेतरविसजातीयतां परस्या देवतायाः प्रतिपाद्य "सत्यकामः सत्यसङ्कल्पः" इति सर्वशक्तियोगं प्रतिपादयन्ति । तथा "मनोमयः प्राणशरीरो भारूपः सत्यकामः सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तो अवाक्यनादरः" इति च ।

2.1.31

विकरणत्वान्नेति चेत्तदुक्तम् ।। 31 ।।

2.1.31

 

यद्यप्येकमेव ब्रह्म सकलेतरविलक्षणं सर्वशक्ति; तथापि "न तस्य कार्यं करणं च विद्यते" इति करणवि-रहिणस्तस्य न कार्यारम्भः सम्भवतीति चेत्; तत्रोत्तरम्- "शब्दमूत्लबात्" "विचित्राश्च हि" इत्युक्तम् ।

2.1.31

 

शब्दैकप्रमाणकं सकलेतरविलक्षणं तत्तत्करणविरहेणापि तत्तत्कार्यसमर्थमित्यर्थः । तथा च श्रुतिः "पश्यत्य- चक्षुः स #ृणोत्यकर्णः । अपाणिपादो जवनो ग्रहीता" इत्येवमाद्या ।

2.1.32

न प्रयोजनवत्त्वात् ।। 32 ।।

2.1.32

 

यद्यपीश्वरः प्राक् सृष्टेरेक एव सन् सकलेतरविलक्षणत्वेन सर्वार्थशकितयुक्तः स्वयमेव विचित्रं जगत्स्रष्टुं शक्नोति; तथापीश्वरकारणत्वं न सम्भवति, प्रयोजनवत्त्वाद्विचित्रसृष्टेः, ईश्वरस्य च प्र-योजनाभावात् । बुद्धिपूर्वकारिणामारम्भे द्विविधं हि प्रयोजनं-स्वार्थः परार्थो वा । न हि परस्य ब्रह्मणः स्व-भावत एवावाप्तसमस्तकामस्य जगत्सर्गेण किञ्चन प्रयोजनमनवाप्तमवाप्यते । नापि परार्थः, अवाप्तकामस्य परार्तता हि परानुग्रहेण भवति; न चेदृशगर्भजन्मजरामरणनरकादिनानाविधानन्तदुःखबहुलं जगत्करुणावान् सृजति, प्रत्युत सुखैकतानमेव जनयेज्जगत्करुणया सृजन्; अतः प्रयोजनताभावाद्ब्रह्मणः कारणत्वं नोप- पद्यत इति ।।

2.1.33

 

एवं प्राप्ते प्रचक्ष्महे -

2.1.33

लोकवत्तु लीलाकैवल्यम् ।। 33 ।।

2.1.33

 

अवाप्तसमस्तकामस्य परिपूर्णस्य स्वसङ्कल्पविकार्यविविधविचित्रचिदचिन्मिश्रजगत्सर्गे लीलैव केवलं

2.1.33

 

प्रयोजनम्, लोकवत्-यथा लोके सप्तद्वीपा मेव मेदिनीमधितिष्ठतः सम्पूर्णशौर्यवीर्यपराक्रमस्यापि महाराजस्य केवललीलैकप्रयोजनाः कन्तुकाद्यारस्भादृश्यन्ते; तथैव परस्यापि ब्रह्मणः स्वसङ्कल्पमात्रावकप्तजगज्जन्मस्थि-तिध्वंसादेर्लीलैव प्रयोजनमिति निरवद्यम् ।।

2.1.34

वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ।। 34 ।।

2.1.34

 

यद्यपि परमपुरुषस्य सकलेतरचिदचिद्वस्तुविलक्षणस्याचिन्त्यशक्तियोगात्प्राक्सृष्टेरेकस्य निरवयवस्यापि विचित्रचिदचिन्मिश्रजगत्सृष्टिः सम्भाव्येत, तथापि देवतिर्यङ्मनुष्यस्थावरात्मनोत्कृष्टमध्यमापकृष्टसृष्टया पक्षपातः प्रसृज्येत, अतिघोरदुःखयोगकरणान्नैर्घृण्यं चावर्जनीयमिति । तत्रोत्तरम्-न सापेक्षत्वादिति । न प्रसज्येयातां वैषम्यनर्घृण्ये, कुतः ? सापेक्षत्वात्-सृज्यमानदेवादिक्षेत्रज्ञकर्मसापेक्षत्वाद्विषमसृष्टेः । देवादीनां क्षेत्रज्ञानां देवादिशरीरयोगं तत्तत्कर्मसापेक्षं दर्शयन्ति हि श्रुतिस्मृतयः "साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा भवति पापः पापेन कर्मणा" तथा भगवता पराशरेणापि देवादिवैचित्र्यहेतुः सृज्यमानानां क्षेत्रज्ञानां प्राचीनकर्मशक्तिरेवेत्युक्तं "निमित्तमात्रमेवासौ सृज्यानां सर्गकर्माणि । प्रधान-कारणीभूता यतो वै सृज्यशक्तयः । निमित्तमात्रं मुक्तवैव नान्यत्किञ्चिदपेक्षते । नीयते तपतां श्रेष्ठ स्वशक्तया वस्तु वस्तुताम्" इति । स्वशक्तया-स्वकर्मणैव देवादिवस्तुताप्रष्तिरिति ।

2.1.35

न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च ।। 35 ।।

2.1.35

 

प्राक्सृष्टेः क्षेत्रज्ञा नाम न सन्ति कुतः ? अविभागश्रवणात्, "सदेव सोम्येदमग्र आसीत्" इति; अतः तदानीं तदभावात्तत्कर्म न विद्यते, कथं तदपेक्षं सृष्टिवेषम्यमित्युच्यत इति चेन्न अनादित्वात् क्षेत्रज्ञानां

2.1.35

 

तत्कर्मप्रवाहाणां च । तदनादित्वेऽप्यविभाग उपपद्यते च; यतस्तत् क्षेत्रज्ञवस्तुपरित्यक्तनामरूपं ब्रह्मशरीर-त्तयापि पृथग्व्यपदेशानर्हमतिसूक्ष्मम् । तथा अनभ्युपगमे अकृताभ्यागमकृतविप्रणाशप्रसङ्गश्च । उपलभ्यते च तेषामनादित्वं "न जायते म्रियते वा विपश्चित्" इति । सृष्टिप्रवाहानादित्वं च "सूर्याचन्द्रमसौ धाता यथा-पूर्वमकल्पयत्" इत्यादौ । "तद्धेदं तार्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत" इति नामरूपव्याकरणमा-त्रश्रवणात् क्षेत्रज्ञानं स्वरूपानादित्वं सिद्धम् । स्मृतावपि "प्रकृतिं पुरुषं चैव विद्धयनादी उभावपि" इति । अतस्सर्वविलक्षणत्वात्सर्वशक्तित्वाल्लीलैकप्रयोजनत्वात् क्षेत्रज्ञकर्मानुगुण्येन विचित्रसृष्टियागाद्ब्रह्मैव जग-त्कारणम् ।

2.1.36

सर्वधर्मोपपत्तेश्च ।। 36 ।।

2.1.36

 

प्रधानपरमाण्वादीनां कारणत्वे यद्धर्मवैकल्यमुक्तं वक्ष्यमाणं च, तस्य सर्वस्य धर्मजातस्य कारणत्वो-पपादिनो ब्रह्मण्यमुपपत्तेश्च ब्रह्मैव जगत्कारणमिति स्थितम् ।।

इति श्रीमद्भगवद्रामानुजविरचिते शारीरक-मीमांसाभाष्ये द्वितीयस्याध्यायस्य प्रथमः पादः ।।



2.2.1 ।। रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च ।।

2.2.1

 

उक्तं जगज्जन्मादिकारणं परं ब्रह्मेति; तत्र परैरुद्भाविताश्च दोषाः परिहृताः, इदानीं स्वपक्षरक्षणाय परपक्षाः प्रतिक्षिप्यन्ते । इतरथा कस्यचिन्मन्दधियः तेषां पक्षाणां युत्तयाभासमूलतामजानतः प्रामाणिकत्वशङ्कया वैदिकपक्षे किंचिछद्धावैकल्यं जायेतापि । अतः परपक्षप्रतिक्षेपाय अनन्तरः पादः प्रवतर्ते ।तत्र प्रथमं तावत् कापिलमतं निरस्यते, वैदिकानुमतसत्कार्यवादाद्यर्थसंग्रहेण एतस्य सत्पक्षनिक्षेप-सम्भावनाभ्रमहेतुत्वातिरेकात् । "इक्षतेर्नाशब्दम्" इत्यादिभिः वैदिकवाक्यानां अतत्परत्वमात्रमुक्तम्; अत्रैव तत्पक्षस्वरूपप्रतिक्षेपः क्रियत इति न पौनरुक्तयाशङ्का । एषा हि सांख्यानां दर्शनस्थितिः "मूलप्रकृतिरविकृतिः महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः" इति तत्त्वसंग्रहः । मूलप्रकृतिर्नाम सुखदुःखमाहात्मकानि लाघवप्र्रकाशचलनोपष्टम्भनगौरवावरण कार्याण्यत्यन्तातीन्द्रियाणि कार्य्यै-

2.2.1

 

कनिरूपणविवेकान्यन्यूनातिरेकाणि समतामुपतानि सत्त्वरजस्तमांसि द्रव्याणि; सा च सत्त्वरजस्तमसां साम्यरूपा प्रकृतिएका स्वयमचेताऽनेकचेतनभोगापवर्गार्था नित्या सर्वगता सततविक्रिया न कस्यचिद्विकृतिः, अपि तु परमकारणमेव । महदाद्यास्तद्विकृतयोः, अन्येषां च प्रकृतयः सप्त; महानहङ्कारः शब्दतनमात्रं स्पशत-न्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रमिति । तत्र अहङ्कारस्त्रिधा - वैकातिकस्तैजसो भू#ादिश्च, क्रमात्सा-त्त्विको राजसस्तामसश्च; तत्र वैकारिकः सात्त्विक इन्द्रिवादिः, भूतादिस्तामसो महाभतहेतुभूततन्मात्रहेतुः, तैजसो राजसस्तूभयोरनुग्राहकः । आकाशादीनि पञ्च महाभूतानि । श्रोत्रादीनि पञ्च ज्ञानेन्द्रियाणि, वागादीनि पञ्च कम्र्मेन्द्रियाणि, मन इति केवलविकाणाः षोडश; पुरुषस्तु निष्परिणामत्वेन न कस्यचित्प्रकृतिः, न कस्य-चिद्विकृति; । तत एव निर्धर्म्मकश्चैतन्यमात्रवपुर्नित्यो निष्क्रियः सर्वगतः प्रतिशरीरं भिन्नश्च; निर्विकारत्वान्नि-ष्क्रियत्वाच्च तस्य कर्तृत्वं भोक्तृत्वं च न सम्भवति । एवम्भूतेऽपि तत्त्वे मूढाः प्रकृतिपुरुषसन्निधिमात्रेण पुरुषस्य चैतन्यं प्रकृतावध्यस्य प्रकृतेश्च कर्तृत्वं स्पटिकमणाविव जपाकुसुमस्यारुणिमानं पुरुषऽध्यस्य अहं कर्ताभोक्तेति#े मन्यन्ते । एवमज्ञानाद्भोगः तत्त्वज्ञानाच्चापवर्गः । तदेतत्प्रत्वक्षानुमानागमैः साधयन्ति, तत्र प्रत्यक्षसिद्धेषु पदार्थेषु नातीव विवादपदमस्ति । आगमोऽपि कपिलादिसर्वज्ञज्ञानमूल इति, सोऽपि प्रथमे काण्डे प्रमाण

2.2.1

 

लक्षणे निरस्यप्रयः । यदिदं प्रधानमेव जगत्कारणमित्यनुमानम्, तन्निरसनेन तन्मतं सर्वं निरस्तं भवतीति तदेव निरस्यते । ते चैवं वर्णयन्ति - कृत्स्नस्य जगतः एकमूलत्वमवश्याभ्युपगमनीयम्; अनेकेभ्यः कार्य्येत्पत्त्य-भ्युपगमे कारणानवस्थानात् । तन्तुप्रभृतयो ह्यवयवाः स्वांशभूतढः षड्भिः पार्श्चैः परस्परं स्युज्यमानां अवयविनमुत्पादयन्ति; ते च तन्त्वादयः स्वावयवैस्तथाभूतैरुत्पाद्यन्ते; ते च तथाभूतैः स्वावयवैरिति परमा-णुभिरपि स्वकीयैः षह्भिः पार्श्चैः स्युज्यमानैरेव स्वकार्य्येत्पादनमभ्युपेतव्यम्, अन्यथा प्रथिमानुपपत्तेः । परमाणवोऽप्यंशित्वेन स्वांशैस्तथततैवोत्पाद्यन्ते, ते च स्वांशैरिति न क्कचित्कारणव्यवस्थितिः, अतः कारण व्यवस्थासिद्धयर्थमेकं द्रव्यं विविधविचित्रपरिणामशक्तियुक्तम् स्वयमप्रच्युतस्वरूपमेव महदाद्यनन्तावस्थाश्रयः कारणमाश्रयणीयम् । तच्चैकं कारणं गुणत्रयसाम्यरूपं प्रधानमिति तत्कल्पने हेतुनुपन्यस्यन्ति "भेदानां परिमाणातसमन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागात् अविभागाद्वैश्चरूप्यस्य ।। कारणमस्त्यव्यक्तम्"

2.2.1

 

इति । अयमर्थः - विश्वरूप्यमेव वैश्वरूप्यम्; विचित्रसन्निवेशं तनुभुवनादिकृत्स्नं जगत्; तच्च जगद्विचित्रसन्निवे-शत्वेन कार्य्यभूतं तत्सरूपाव्यक्तकारणकम् कुतः? कार्य्यत्वात्; कार्य्यस्य हि सर्वस्य तत्सरूपात्कारणविशेषा-द्विभागस्तस्तिन्नेवाविभागश्च दृश्यते; यथा घटमुकुटादेः कार्य्यस्य तत्सरूपान्मृत्सुवणदिः कारणाद्विभागस्त-स्मिन्नेव चाविभागः, अतो विश्वरूपस्य जगतस्त्सरूपात्प्रधानादुत्पत्तिः तस्मिन्नेव लयश्चेति

प्रधानकारणकमेव जगत् । गुणत्रयसाम्यरूपं प्रधानमेव जगत्सरूपकारणम्; सत्त्वरजस्तमोमयसुखदुःखमोहात्मकत्वाजगतः । यथा मृदात्मनो घटस्य मृद्द्रव्यमेव कारणम्, तदेव हि तदुत्पत्त्याख्यप्रवृत्तिशक्तिमत, तथा दर्शनात् । अव्यक्तस्य गुणसाम्यरूपस्य देशतः कालतश्चापतिमितस्यैव कारणत्वम् भेदानाम् महदहङ्कारतन्मात्रातीनां परिमितत्वादव-गम्यते । महनादीनि च घटादिवत्परिमितानि कृत्स्नजगदुत्पत्तौ न प्रभवन्ति, अतस्त्रिगुणं जगद्गुणत्रयसाम्यरूप- प्रधानैककारणमिति निश्चीयते ।। अत्रोच्यते - रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च - अनुमी#ेयत इत्यनुमानम्,

2.2.1

 

न भवदुक्तं प्रधानं विचित्रजगद्रचनेसमर्थम्, अचेतनत्वे सति तत्स्वभावाभिज्ञानधिष्ठितत्वात्; पदेवं तत्तथा, यथा रथप्रासादादिनिर्माणे केवलदार्वादिकम् । दार्वादेरचेतनस्य तज्ज्ञानधिष्ठितस्य कार्य्यारम्भानुपपत्तेदर्शनात, तज्ज्ञानधिष्ठितस्य कार्य्यारम्भप्रवृत्तेर्दर्शनाच्च न प्राज्ञानधिष्ठितं प्रधानं कारणमित्युक्तं भवति । चकारादनवय-स्यानैकान्त्यं समुच्चिनोति; न ह्यन्वितं शौक्लयगोत्वादि कारणत्वव्याप्तम्, न च वाच्यं माभृदन्वितानामपि शौक्लयादिधर्माणां कारणत्वम्, द्रव्यस्य तु हेमादेः कार्य्येऽन्वितस्य कारणत्वव्याप्तिरस्त्येव; सत्त्वादीन्यपि द्रव्याणि कार्य्येऽन्वितानि कारणत्वव्याप्तानि - इति । यतः सत्त्वादयो द्रव्यधर्म्माः, न तु द्रव्यस्वरूपम्, सत्त्वा-दयो हि पृथिव्यादिद्रव्यगतलघुत्वप्रकाशादि#ेहेतुभूताः तत्स्वभावविशेषा एव न तु मृद्धिरण्यादिवद् द्रव्यतया

2.2.1

 

कार्य्यान्विता उपलभ्यन्त; गुणा इत्येव च सत्त्वादीनां प्रसिद्धिः । यच्च कारणव्यवथासिद्धये जगत एकमूल-त्वमुक्तं तदपि सत्वादीनामनेकत्वान्नोपपद्यते । अत एव कारणव्यवस्था च न सिद्धयति । साभ्यावस्थाः सत्वादय एव हि प्रधानमिति त्वन्मतम् । अतः कारणबहुत्वादनवस्था तदवस्थैव । न च तेषामपरिमितत्वेन व्यवस्थासिद्धिः । अपरिमितत्वे हि त्रयाणामपि सर्वगतत्वेन न्यूनाधिकभावाभावद्वैपमयासिद्धेः कार्य्यारम्भा-सम्भवात् । कार्य्यारम्भायैव परिमितत्वमवश्याश्रयणीयम् ।।

2.2.2

 

यत्र रथादिषु स्पष्टं चेतनाधिष्ठितत्वं दृष्टं तद्वयतिरिक्तं सर्वं पक्षीकृतमित्याह -

2.2.2 पयोऽम्बुवच्चेत्तत्रापि ।

2.2.2

 

यदुक्तं प्रधानस्य प्राज्ञानधिष्ठितस्य विचित्रजगद्रचनानुपपत्तिरिति, तन्न; यतः पयोऽम्बुवत्प्रवृत्तिरुपपद्यते । पयसस्तावद्दधिभावेन परिणममानस्यानन्यापेक्षस्याद्यपरिस्पन्दनप्रभृतिपरिणामपरम्परा स्वत एवोपपद्यते; यथा च वारिदसवमुक्तस्याम्बुन एकरसस्य नालिकेलतालचूतकपित्थनिम्बतिन्ति#ृण्यादिविचित्ररसरूपेण परिणाम-

प्रवृत्तिः स्वत एव दृश्यते; तथा प्रधानस्यापि परिणामस्वभावस्याऽन्यानधिष्ठितस्यैव प्रतिसर्गावस्थायां सदृश-परिणामेनावस्थितस्य सर्गावस्थायां गुणववैषम्यनिमित्तविचित्रपरिणाम उपपद्यते । यथोक्तं "परिणामतः" सलिलवत् प्रतिप्रतिगुणाश्रयविशेषा"दिति । तदेवमव्यक्तमनन्यापेक्षं प्रवर्तत इति चेत् अत उत्तरं - तत्रापीति; यत् क्षीरजलादिदृष्टान्ततया निदर्शिम्, तत्रापि प्राज्ञानधिष्ठाने प्रवृत्तिर्नोपपद्यते । तदपि पूर्वमेव पक्षीकृतमित्य-भिप्रायः । "उपसंहारदशर्नान्नेति चेन्न क्षीरवद्धि" इत्यत्र दृष्टपरिकरान्तरतहितस्यापि स्वासाधारणपरिणाम उपपद्यत इत्येतावदुक्तम्, न प्राज्ञाधिष्ठितत्वं नराकृतम्, "योऽप्सु तिष्ठन्" इत्यादिश्रुतेः ।।2 ।।

2.2.3 2.2.3

2.2.3

 

इतश्च - सत्यसंकल्येश्वराधिष्ठानापेक्षपरिणामित्वे सर्गव्यतिरेकेण प्रतिसर्गावस्थयाऽनवस्थितप्रसंगाच्च न प्राज्ञा-नधिष्ठितं

प्रधानं कारणम्; प्राज्ञाधिष्ठितत्वे तस्य सत्यसंकल्पत्वेन सर्गप्रतिसर्गविचित्रसृष्टिव्यवस्थासिद्धिः । न च वाच्यं प्राज्ञाधिष्ठितत्वेऽपि तस्यावाप्तसमस्तकामस्य परिपूर्णस्यानवधिकातिशयानन्दस्य निरवद्यस्य निरञ्जनस्य प्सर्गप्रतिसगर्व्यवस्ताहेत्व भावाद्विषमसृष्टौ निर्दयत्वप्रसंगाच्च समानाऽयं दोष इति; परिपूर्णस्यापि लीलार्थप्रवृ-त्तसम्भवात्, सर्वज्ञस्य तस्य परिणामविशेषापन्नप्रकृतिदर्शनरूपसर्गप्रतिसर्गविशेषहेतोस्मम्भवात्, क्षात्रज्ञकर्म्म-

2.2.3

 

णामेव विषमसृष्टेव्यवस्थापकत्वाच्च । नन्वेवं क्षेत्रज्ञपुण्यापुण्यरूपकर्म्मभिरेव सर्वाः व्यवस्थाः सिद्धयन्तीति कृतमीश्वरेणाधिष्ठात्रा; पुण्यापुण्यरूपानुष्ठितकर्म्मसंस्कृता प्रकृतिरेव पुरुषार्थानुरूपं तथा तथा व्यवस्थया परिणंस्यतेः यथा विपादिद्वषितानामन्नपानादीनामौषधिविशेषाप्यायितानां च सुखदुःखहेतुभूतः परिणामविशेषो देशकालव्यवस्थया दृश्यते; अतस्सर्गप्रतिसर्गव्यवस्था देवादिविषमसृष्टिः कैवल्यव्यवस्था च सर्वप्रकारपरिणाग-शक्तियुक्तस्य प्रधानस्यैवोपपद्यते इति । अनभिज्ञे; भवान्पुण्यापुण्यकर्म्मस्वरूपयोः, पुण्यापुण्यस्वरूपे हि शास्त्रैकसमधिगम्ये; शास्त्रं चानादिनिधनाविच्छिन्नपाठसम्प्रदायानाघ्रातप्रमादादिदोषगन्धवेदाख्याक्षरराशिः, तच्च परमपुपाराधनतद्विपर्य्ययरूपे कर्म्मणी पुण्यापुण्ये, तदनुग्रहनिग्रहायत्ते च तत्फले सुखदुःखे इति वदति । तथाह द्रमिडाचार्य्यः "फलसंविभत्सया हि कर्मभिरात्मानं पिप्रीपन्ति स प्रीतोऽलं फलाये"ति शास्त्रमर्थ्यादा इति । तथा च श्रुतिः "इष्टापूतं बहुधा जातं विश्वं विभर्ति भुवनस्य नाभिः" इति । तथा च भगवता स्वयमेवोक्तम् "यत प्रवृत्तिर्भूतानां येन सर्वमिदं ततं स्वकर्मणा तमभ्यर्च्य सिदिं्ध विन्दति मानवः" इति "तानहं द्विषतः क्रूरान्-संसारेषु नराधमान् । क्षिपाम्यजस्त्रमशुभानासुरीष्वेव योनिषु" इति च स भगवान्पुरुषोत्तमोऽवाप्तसमस्तकामः सर्वज्ञः सर्वेश्वरः सत्यसंकल्पः स्वमाहात्म्यानुगुणलीलाप्रवृत्तः एतानि कर्माणि समीचीनान्येतान्यसमीचीनानीति कर्म्मद्वैविध्यं संविधाय तदुपादानोचितदेहेन्द्रियादिकं तन्नियमनशकिं्त च सर्वेषां क्षेत्रज्ञानां सामान्येन प्रदिश्य

2.2.3

 

स्वशासनावबोधिशास्त्रं च प्रदर्श्य तदुपसंहारार्थं चान्तरात्मतयाऽनुप्रविश्य अनुमन्तृतया च नियच्छँस्तिष्ठति । क्षेत्रज्ञासातु तदाहितशक्तयस्तत्प्रदिष्टकरणकलेवरादिकास्तदाधाराश्च स्वयमेव स्वेच्छानुगुण्येन पुण्यापुण्य-रूपेकर्म्कणी उपाददते; ततश्च पुण्यरूपकर्म्मकारिणं स्वशासनानुवर्तिनं ज्ञात्वा धर्मार्थकाममौक्षैर्वर्धयते; शासनातिवर्तनं च तद्विपर्ययैर्योजयति, अतः स्वातन्त्र्#ादिवैकल्यचोद्यानि नावकाशं लभन्ते । दया हि नाम

2.2.3

 

स्वार्थनिरपेक्षा परदुःखासहिष्णुता, सा च स्वशासनातिवृत्तिव्यवसायिन्यपि वर्तमाना न गुणायावकल्पते; प्रत्युतापुंस्त्वमेवावहति; तन्निग्रह एव तत्र गुणः, अन्यथा शत्रुनिग्रहादीनामगुणत्वप्रसंगात् । स्वशासनाति-वृत्तिव्यवसायनिवृत्तिमात्रेणाऽनाद्यनन्तकल्पोपचितदुर्विषहानन्तापराधानङ्गीकारेण निरतिशयसुखसमवृद्धये स्वयमेव प्रयतते । यथोक्तं "तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ।। तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता"इति । अतः प्राज्ञान-धिष्ठितं प्रधानन्न कारणम् ।। 3 ।।

2.2.4

अथ स्यात् - यद्यपि प्राज्ञानधिष्ठितायाः प्रकृतेः परिस्पन्दप्रवृत्तिरपि न सम्भवतीत्युक्तम्, तथाऽप्यनपेक्षाया एव परिणामप्रवृत्तिः सम्भवति, तथा दर्शानात्; धेन्वादिनोपयुक्तं हि तृणोदकादि स्वयमेव क्षीराद्याकारेण परिणम-मानं दृश्यते । अतः प्रकृतिरपि स्वमेव जगदाकारेण परिणंस्यते - इति । तत्राह -

2.2.4 2.2.4

2.2.4

 

नैतदुपपद्यते, तृणादेः प्राज्ञानधिष्ठितस्य परिणामाभावाद्दृष्टान्तासिद्धेः, कथमसिद्धिः ? अन्यत्राभावात् । यदि हि तृणोदकादिकमनुडुहाद्युपयुक्तं प्रहीणं वा क्षीराकारेण पर्यणंस्यत; ततः प्राज्ञानधिष्ठितमेव परिणमत इति वक्तु-

2.2.4

 

मशक्ष्यत; न चैतदस्ति; अतो धेन्वाद्युपयुक्तं प्राज्ञ एव क्षीरीकरोति "पयोऽम्बुवच्चेत्तत्रापी"त्युक्तमेवात्र प्रपञ्चितं तत्रैव व्यभिचारप्रदर्शनाय ।। 4 ।।

2.2.5 2.2.5

2.2.5

 

अथोच्येत - यद्यपि, चैतन्यमात्रवषुः पुरुषो निषितक्रयः, प्रधानमपि दृक्छक्तिविकलम्; तथापिपुरुषसन्निधा-नादचेतनंप्रधानं प्रवर्तते, तथा दर्शनात्; गभनशक्तिविकलदृक्छक्तियुक्तपङ्गुसन्निधानात्तच्चैतन्योपकृतो दृक्छ-क्तिविकलः प्रवृत्तिशक्तोऽन्धः प्रवर्तते; अयस्कान्ताश्मसन्निधानाच्चायः प्रवर्तते । एवं प्रकृति-पुरुषसंयोगकृतो जगत्सर्गः प्रवर्तते । ययोक्तं "पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रथानस्य । षड्ग्वन्धवदुभयोरपि संयोरपि संयोगस्तत्कृतः सर्गः"इति । पुरुषस्य प्रधानापभोगार्थं कैवल्यार्थं च पुरुषसन्निधानात्प्रधानं सर्गादौ प्रवर्तत इत्यर्थः । अत्रोत्तरं - तथापीति । एवमपि प्रधानस्य प्रवृत्त्यसम्भवस्तदवस्थ एव, पङ्गोर्गमनशक्तिविकलस्यापि मार्गदर्शनतदुपदेशादयः कादाचित्का विशेषाः सहस्रशः सन्ति; अन्धोऽपि चेतनः संस्तदुपदेशाद्यवगमेन प्रवर्तते; तथाऽयस्कान्तमणेरप्ययःसमीपागमनादयस्सन्ति, पुरुषस्य तु निष्क्रियस्य न तादृशविकाराः सम्भवन्ति । सन्निधानमात्रस्य नित्यत्वेन नित्यसर्गप्रसंगो नित्यमुक्तत्वेन बन्धाभावोऽपवर्गाभावश्च ।। 5 ।।

2.2.6 2.2.6

2.2.6

 

गुणानामुत्कर्षनिकर्षनिबन्धनाङ्गाङ्गिभावाद्धि जगत्प्रवृत्तिः प्रतिप्रतिगुणाश्रयविशेषादिति वतद्भिर्भवा-द्भिरभ्युपगम्यते । प्रतिसर्गावस्थायान्तु साम्यावस्थानां सत्त्वरजस्तमसामन्योन्याधिक्यन्यूनत्वाभावा-दङ्गाङ्गिभावानुपपत्तेर्न जगत्सगर् उपपद्यते; तदाऽपि वैषम्याभयुपगमे नित्यसर्गप्रसंगः । अतश्च न प्राज्ञान- धिष्ठितं प्रधानं कारणम् ।। 6 ।।

2.2.7 2.2.7

2.2.7

 

दूषितप्रकारातिरिक्तप्रकारान्तरेण प्रधानानुमितौ च प्रधानस्य ज्ञातृत्वशक्तिवियोगात् त एव दोषाः प्रादुःष्युः । अतो न कथञ्चिदप्यनुमानेन प्रधानसिद्धिः ।। 7 ।।

2.2.8 2.2.8

2.2.8

 

अनुमानेन प्रधानसिद्धयभ्युपगमेऽ#ीप प्रधानेन प्रयोजनाभावान्नतदनुमातव्यम् "पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्ये"ति प्रधानस्य प्रयोजनं पुरुषभोगापवर्गावभिमतौ, तौ च न सम्भवतः; पुरुषस्य चैतन्यमात्रवपुषो निष्क्रियस्य निर्विकारस्य निर्मलस्य तत एव नित्यमुक्तस्वरूस्य प्रकृतिदर्शनरूपो भोगस्तद्वियोगरूपोऽपवर्गश्च न सम्भवति । एवंरूपस्यैव प्रकृतिसन्निधानात्तत्परिणामविशेषसुखदुःखदर्शनरूपभोगसम्भावनायां प्रकृतिसन्नि-धानस्य नित्यत्वेन कदाचिदप्यपवर्गो न सेत्स्यति ।। 8 ।।

2.2.9 2.2.9

2.2.9

 

विप्रतिषिद्धं चेदं सांख्यानां दर्शनम् । तथाहि - प्रकृतेः परार्थत्वेन दृश्यत्वेन भोग्यत्वेन च प्रकृतेर्भोक्तारम-धिष्ठातारं द्रष्टारं साक्षिणं च पुरुषमभ्युपगम्य प्रकृत्यैव साधनभृत्या तस्य कैवल्यमपि प्राप्यं वदन्त एव तस्य नित्यनिर्विकार चैतन्यमात्रस्वरूपतया अकर्तृत्वं कैवल्यं च स्वरूपमेवाहुः; एवम्भूतनिर्विकारोदासीनपुरु-षसन्निधानात्प्रकृतेरितराध्यासेन सर्गादिप्रवृतिं पुरुषभोगापवर्गार्थत्वं चाहुः "संघातपरार्थत्वात् त्रिगुणादि-विषर्य्ययादधिष्ठानात् । पुरुषोऽस्ति भोक्तृभावात्कैवल्यार्थप्रवृत्तेश्च । तस्माच्च विपर्य्यासात्सिद्धं साक्षित्वमस्य

2.2.9

 

परुषस्य । कैवल्यं माध्यस्थ्यं द्रव्टृत्वं कर्त्तृभावश्च" इति । "पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य"इत्युत्त-वैवमाहुः "तस्मान्न वध्वते नापि मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः" इति । तथा "तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वे च तथा कर्त्तेव भवत्युदासीनः । पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य । पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः" इति । साक्षित्वद्रष्टृत्वभोक्तृ-त्वादयो नित्यनिर्विकारस्याकर्तुरुदासीनकैवल्यैकस्वरूपस्य न सम्भवन्ति । एवंरूपस्य तस्याध्यासमूलो भ्रमोऽपि न सम्भवति, अध्यासभ्रमयोरपि विकारत्वात्, प्रकृतेश्च तौ न सम्भवतः, तयोश्चेतनधर्म्मत्वात ।

2.2.9

 

अध्यासो हि नाम चेतनस्यान्यास्मिन्नन्यधर्मानुसन्धानं, स च चेतनधर्म्मो विकारश्च । न च पुरुषस्य प्रकृति-सन्निधिमात्रेणाध्यासादयः सम्भवन्ति, निर्विकारत्वादेव सम्भवन्ति चेत् नित्यं प्रसज्येरन्; सन्निधेरकिञ्चि-त्करत्वं च, न विलक्षणत्वादित्यत्र प्रदिपादितं, प्रकृतिरेव संसरति वध्यते मुच्यते चेत् कथं नित्यमुक्तस्य पुरुषस्योपकारिणी सेत्यच्यते? वदन्ति हि "नानाविधैरुपायैरूपकारिण्यनुपकारिणः पुंसः । गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति" इति । यथा प्रकृतिर्येन परुषेण यथास्वभावा दृष्टा तस्मात्पुरुषात्तदानीमेव निवर्तत इति चाहुः । "रङ्गस्य दर्शयित्वा निवतर्ते नर्तकी यथा नृत्तात् । पुरुषस्य यथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः ।। प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति । या दृष्टास्मीऽति पुनर्न दर्शनमुपैति पुरुषस्ये"ति तदप्यसंगतम्, पुरुषो हि नित्यमुक्तत्वान्निविर्कारत्वान्न तां कदाचिदपि पश्यति, नाध्यस्यति च, स्वयं च स्वात्मानं न पश्यति, अचेतनत्वात् । पुरुषस्य स्वात्मदर्शनं स्वदर्शनमिति नाध्यस्यति च, स्वयमचेनत्वात्पु-रुषस्य च दर्शनरूपविकारासम्भवात् । अथ सन्निधिमात्रमेव दर्शनमित्युच्ते सन्निधेर्नित्यत्वेन नित्यदर्शनप्रसंग इत्युक्तम्, स्वरूपातिरिक्तकादाचित्कसन्निधिरपि नित्यनिर्विकारस्य नोपपद्यते । किञ्च मोक्षहेतुस्तु स्वसन्नि-धानरूपमेव दर्शनं चेद्वन्धहेतुरपि तदेवेति नित्यवद्वन्धो मोक्षन्च स्याताम्, अयथादर्शनं बन्धहेतुः, यथावत्स्व-रूपदर्शनं माक्षहेतुरिति चेत् उभयविधस्यापि दर्शनस्य सन्निधावरूपतानतिरेकात् सदोभयप्रसंग एव । सन्निधेरनित्यत्वे तस्य हेतुरन्वेषणीयः, तस्यापीत्यनवस्था । अथैतद्दोषपरिजिहीर्षया स्वरूपसद्भाव एव सन्निधिरिति, तथा स्वरूपस्य नित्यत्वेन नित्यवद्वन्धमोक्षौ । अत एवमादेर्विप्रतिषेधात् सांख्यानां दर्शनमसमञ्जसम् । येऽपि

2.2.9

 

कूटस्थनित्यनिर्विशेषस्वप्रकाशचिन्मात्रं ब्रह्माविद्यासाक्षित्वेनापारमार्धिकवन्धमोक्षभागिति वदन्ति, तेषा-मप्युक्तर्नात्याऽविद्यासाक्षित्वाध्यासाद्यसम्भवादसामञ्जस्यमेव; इयांस्तु विशेषः, सांख्याः जननमरणप्रति-नियमादिव्यवस्थासिद्धयर्थं पपुरुषबहुत्वमिच्छन्ति । ते तु तदपि नेच्छन्तीति सुतरामसामञ्जस्यम् । यत्तु प्रकृतेः पारमार्थिकत्वेऽप्यपारमार्थिकत्वेऽपि नित्यनिर्विकारस्वप्रकाशैकरसचिन्मात्रस्य स्वव्यतिरिक्तसाक्षित्वाद्य-नुपपत्तेः । अपारमार्थिकत्वे तु तस्य दृश्यत्ववाध्यत्वाभ्युपगमात्सुतरामसंगतम् । औपाधिकभेदवादेऽपि उपाधि-सम्बन्धिनो ब्रह्मणोऽयमेव स्वभाव इत्युपाधिसम्बन्धाद्यनुपपत्तेरसामञ्जस्यं पूर्वमेवोक्तम् ।।

।। रचनानुपपत्त्यधिकरणं समाप्तम् ।।

2.2.10 महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ।। 10 ।।

2.2.10

 

प्रधानकारणवादस्य युक्तयाभासमूलतया विप्रतिषिद्धत्वाच्चासामञ्जस्यमुक्तम्, सम्प्रति परमाणुकारणवादस्याप्यसामञ्जस्यं प्रतिपाद्यते - महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्यामिति, असमञ्ज-समिति वर्तते, वा शब्दश्चार्थे । ह्रस्वपरिमण्डलाभ्यां द्वयणुकपरमाणुभ्यां, महद्दीर्घवत्, त्र्यणुकोत्पत्तिवादवत्, अन्यच्च तदभ्युपगतंसर्वमसमञ्जसम्; परमाणुभ्यो द्वयणुकादिकमेण जगदुत्पत्तिवादवदन्यदप्यसमञ्जसमित्यर्थः । तथाहि - तन्तुप्रभृतयो ह्यवयवाः स्वांशैः षड्भिः पार्श्वैः संयुज्यमानाः अवयविनमुक्पादयन्ति, परमाणवोऽपि

2.2.10

 

स्वकीयैः षड्भिः पाश्वैः संयुज्यमाना एव द्वयणुकादीनामुत्पादका भवेयुः, अन्यथा परमाणूनां प्रदेशभेदाभावे सति सहस्रपरमाणुसंयोगेऽप्येकस्मात्परमाणोरनतिरिक्तपरिमाणतया अणुतिवह्रस्वत्वमहत्त्वदीर्घत्वाद्यसिद्धिः स्यात्, प्रदेशभेदाभ्युपगमे परमाणवोऽपि सांशाः स्वकीयैरंशैः । तेच स्वकीयैरंशैरित्यनववस्था । न च वाच्य-मवयवाल्पत्वमहत्त्वाभ्यां हि सर्षपमहीधरयोवैषम्यम् परमाणोरप्यनन्तावयवत्वे अवयवानन्त्यसाम्यात्सषर्-पमहीधरयोर्वैषम्यासिद्धेरवयवापकषर्काष्ठाऽवश्याभ्युपगमनीयेति परमाणूनां प्रदेशभेदाभावे सत्येकपरमाणुपरि-माणातिरेकी प्रथिमा न जायेतेति सर्पपमहीधरयोरेवासिद्धेः । किं कुर्म्म इति चद् - वैदिकः पक्षः परिगृह्यताम् । यत्तु परैर्ब्रह्मकारणवाददूषणपरिहारपरमिदं सूत्रं व्याख्यातम्; तदसंगतं, पुनरुक्तं च, ब्रह्मकारणवादे परोक्ता-न्दोषान् पूर्वस्मिन् पादे परिहृत्य परपक्षप्रतिक्षेपो ह्यस्मिन् पादे क्रियते । चेतनाद्व्रह्मणो जगदुत्पत्तिसम्भवश्च "न विलक्षणत्वा"दित्यत्रैव प्रपञ्चितः । अतो ह्रस्वपरिमण्डलाभ्यां महद्दीर्घाणुह्रस्वोत्पत्तिवदन्यच्च तदभ्युपगतं सर्वमसमञ्जसमित्येव सूत्रार्थः ।। 10 ।।

2.2.11

किमत्रान्यदसमञ्जसमित्यत्राह -

2.2.11 उभयथाऽपि न कर्म अतस्तदभावः ।। 11 ।।

2.2.11

 

परमाणुकारणवादे हि परमाणुगतकर्मजनित तत्संयोगपूवर्कद्वयणुकादिक्रमेण जगदुतपत्तिरिष्यते; तत्र निखिलजगदुत्पत्तिकारणभूतपरमाणुगतमाद्यं कर्मादृष्टकारितमित्यभ्युपम्यते । अग्नेरूर्ध्वज्वलनं वायो-स्तिर्य्यग्गमनमणुमनसोश्चाद्यं कर्मेत्यदृष्टकारितानि" इति, तदिदं परमाणुगतं कर्म स्वगतादृष्टकारि-तमात्मगतादृष्टकारितं वा ? उभयथाऽपि न सम्भवति, क्षेत्रज्ञपुण्यपापानुष्ठानजनितस्यादृष्टस्य परमाणु-गतत्वासम्भवात्, सम्भवे च सदोत्पादकत्वप्रसंगः । आत्मगतस्य चादृष्टस्य परमाणुगतकर्मोत्पत्तिहेतुत्वं न सम्भवति । अथादृष्टवदात्मसंयोगादणुषु कर्मोत्पत्तिस्तदा तस्यादृष्टप्रवाहस्य नित्यत्वेन नित्यसर्गप्रसंगः । नन्वदृष्टं विपाकापेक्षं फलायालम् । कानिचिददृष्टानि तदानीमेव विपच्यन्ते कानिचिज्जन्मान्तरे कानिचित्-कल्पान्तरे । अतो विपाकापेक्षत्वानान सवर्दोत्पादकत्वप्रसंक इति । नैतत्, अनन्तैरात्मभिस्संकेतपूर्वक-मयुगपदनुष्ठितानेकविविधकर्मजनितानामदृष्टानामेकस्मिन् काले एकरूपविपाकस्याप्रामाणिकत्वात् । अत एव युगपसिर्वसंहारो द्विपरार्द्धकालमविपाकेनावस्थानं च न संगच्छते । न चेश्वरेच्छाहितविशेषादृष्टसंयोगादणुषु कमर्, आनुमानिकेश्वरासिद्धेः "शास्त्रयोनित्वा"दित्यत्रोपपादितत्वात्, अतो जगदुत्पत्तेरणुगतकर्मपूव्रकत्वा-भावः ।। 11 ।।

2.2.12 समवायाभ्युपगमाच्च साम्यादनवस्थितेः ।। 12 ।।

2.2.12

 

समवायाभ्युपगमाच्चासमञ्जसम्, कुतः साम्यादनवस्थितेः । समवायस्यापयवयविजातिगुणवदुपपादकान्तरापे-क्षासाम्यादुपपादकान्तरस्यापि तथेत्यनवस्थितेरसमञ्जसमेव । एतदुक्तं भवति, अयुतसिद्धानामाधाराधेयभृता-नामिह प्रत्ययहेतुर्यः सम्बन्धः ससमवाय इति समवायोऽभ्युपगम्यते । अपृथक्स्थित्युपलब्धीनां जात्यादीनां तथाभावस्य निर्वाहकत्वेन चेत्समवायोऽभ्युपगम्यते, समवायस्यापि तत्साम्यात्तथाभावहेतुरन्वेषणीयः, तस्यापि तथेत्यनवस्थितिः ; समवायस्य तदपृथक्सिद्धत्वं स्वभाव इति परिकल्प्यते चेत्, - जातिगुणानामे-वैषस्यवभावः परिकल्पनीयः ; न पुनरदृष्टचरं समवायं अभ्युपगम्य तस्यैप स्वभाव इति कल्पयितुं युक्तमिति ।। 12 ।।

2.2.13

समवायस्य नित्यत्वे अनित्यत्वे चायं दोषः समानः, नित्यत्वे दोषान्तरं चाह -

2.2.13 नित्यमेव च भावात् ।। 13 ।।

2.2.13

 

समवायस्य सम्बन्धत्वात् सम्बन्धस्य नित्यत्वे सम्बन्धिनो जगतश्च नित्यमेव भावादसमञ्जसम् ।। 13 ।।

2.2.14 रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ।। 14 ।।

2.2.14

 

परमाणूनां पार्थिवाप्यतैजसवायवीयानां चतुर्विधानां रूपरसगन्धस्पर्शवत्त्वाभ्युपगमादभिमत-नित्यत्व सूक्ष्मत्व-निरवयवत्वादिविपर्ययेणानित्यत्वस्थूलत्वसावयवत्वादि प्रसज्यते, रूपातदिमतां घटादीनामनित्यत्वं तथावि-धकारणान्तरारब्धत्वादिदर्शनात् । न हि दर्शनानुगुण्येनादृष्टाऽर्थः कल्प्यमानः स्वाभिमतविशेषेव्यवस्थापयितुं शक्यः, दर्शनानुगुण्येन हि परमाणूनां रूपादिमत्त्वं त्वया कल्प्यते । अतोऽप्यसमञ्जसम् ।। 14 ।। अथैतद्दोष-परिजिहीर्षया परमाणूनां रूपादिमत्त्वं नाभ्युपगम्यते, तत्राह -

2.2.15 उभयथा च दोषात् ।। 15 ।।

2.2.15

 

न केवलं परमाणूनां रूपादिमत्त्वाभ्युपगम एव दोषः, रूपादिविरहेऽपि कारणगुणपूर्वकत्वात् कार्य्यगुणानां

2.2.15

 

पृथिव्यादयो रूपादिशून्याः स्युः । तत्परिजिहीर्षया रूपादिमत्त्वाभ्युपगमे पूर्वोक्तदोष इत्युभयथा च दोषादसमञ्जसम् ।। 15 ।।

2.2.16 अपरिग्रहाच्चात्यन्तमनपेक्षा ।। 16 ।।

2.2.16

 

कापिलपक्षस्य श्रुतिन्यायविरोधपरित्यक्तस्यापि सत्कार्य्यवादादिना क्कचिदंशे वैदिकैः परिग्रहोऽस्ति, अस्य तु काणादपक्षस्य केनाप्यंशेनापरिग्रहादनुपपन्नत्वाच्चत्यन्तमनपेक्षैव निश्रेयसाथिर्भिः कार्या ।। 16 ।।

2.2.17 समुदाय उभयहेतुकेऽपि तदप्राप्तिः ।। 17 ।।

2.2.17

 

परमाणुकारणवादिनो वैशेषिका निरस्ताः; सौगताश्च जगतः परमाणुकारणत्वम-

2.2.17

 

भ्युपगच्छन्तीत्यनन्तरं तन्मतेऽपि जगदुत्पत्तितद्वयवहारादिकं नोपपद्यत इत्युच्यते "ते चतुर्विधाः, केचित्पार्थिवाप्यतैजसवायवीयपरमाणुसङ्घातरूपान् भृतभौतिकान् वाह्यांश्चित्तचैत्तरूपाश्चाभ्यन्तरानथान् प्रत्यक्षानुमान-सिद्धानभ्युपयन्ति । अन्ये तु - बाह्यार्थान् सर्वान् पृथिव्यादीन् विज्ञानानुमेयान् वदन्ति । अपरे तु - अर्थशून्यं विज्ञानमेव परमाथसत्, बाह्यार्थास्तु स्वाप्रार्थकल्पा इत्याहुः । त्रयोऽप्येते स्वाभ्युपगतं वस्तु क्षणिकमाचक्षते, उक्रभूतभौतिकचित्तचैत्तव्यतिरिक्तमात्माकाशादिकं स्वरूपेणैव नानुमन्वते । अन्ये तु - सर्वशून्यत्वमेव संगिरन्ते, तत्र ये बाह्यार्थास्तित्ववादिनस्ते तावन्निरस्यन्ते, ते चैवं मन्यन्ते, रूपरसस्पर्शगन्धस्वभावाः पार्थिवाः परमाणवः, रूपरसस्पर्शस्वभावाश्चाप्याः, रूपरसस्पर्शस्वभावास्तैजसाः, स्पर्शस्वभावाश्च वाय-वीयाः, पृथिव्यप्तेजावायुरूपेण संहन्यन्ते, तेभ्यश्च पृथिव्यादिभ्यः शरीरेन्द्रियविषयरूपसङ्घाता भवन्ति, तत्र च

2.2.17

 

शरीरान्तर्वर्तिग्राहकाभिमानारूढो विज्ञानसन्तान एवात्मत्वेनावतिष्ठत्ते, तत एव सर्वो लौकिकव्यवहारः प्रवर्तत इति । तत्राभिधीयते समुदाये उभयहेतुकेपि तदमाप्तिः योऽयमगुहेतुकः पृथिव्यादिभूतात्मकः समुदायः यश्च पृथिव्यादिहेतुकः शरीरेन्द्रियविषयरूपसमुदायस्तस्मिन्नुभयहेतुकेऽपि समुदाये तत्प्राप्तिर्नापपद्यते, जगदात्मक-समुदायोत्पत्तिर्नोपपद्यत इत्यर्थः परमाणूनां पृथिव्यादिभूतानां च क्षणिकत्वाभ्युपगमात् क्षणध्वंसिनः परमाणवो भूतानि च कदा संहतौ व्याप्रियन्ते, कदा संहन्यन्ते, कदा विज्ञानविषयभूताः, कदा च हानोपादानादिव्यवहा-रास्पदतां भजन्ते । को वा विज्ञानात्मा, कं च विषयं स्पृशति, कश्च विज्ञानात्मा कमर्थ कदा वेदयते, कं वा विदितमर्थ कश्च कदोपादत्ते, सप्रष्टा हि नष्टः स्प्रष्टश्च नष्टः, तथा वेदिता विदितश्च नष्टः कथं चान्येन स्पृष्टमन्यो वेदयते, कथं चान्येन विदितमर्थमन्य उपादत्ते । सन्तानानामेकत्वेऽपि सन्तानिभ्यस्तेषां वस्तुतो वस्त्वन्तरत्वा-नभ्युपगमान्न तन्निबन्धनं व्यवहारादिकमुपपद्यते अहमर्थ एवात्मा, स च ज्ञातैवेति चापपादितं पुरस्तात् ।।17।।

2.2.18 इतरेतरप्रत्ययत्वादुपपन्नमिति चेन्न सङ्घातभावानिमित्तत्वात् ।। 18 ।।

2.2.18

 

अयिद्यादीनामितरेतरहेतुत्वेनोपपन्नं सङ्घातभावादिकमिति चेत्, एतदुकं भवति, यद्यपि क्षणिकास्सर्वे भावा-

2.2.18

 

स्तथाऽप्यविद्ययैतत्सर्वमुपपद्यते । अविद्या हि नाम विपरीतबुद्धिः । क्षणिकादिषु स्थिरत्वादिगोचरा तया संस्काराख्या रागद्वेषादयो जायन्ते, ततश्चित्ताभिज्वलनरूपं विज्ञानं, ततश्च नामाख्याश्चित्तचैत्ताः, पृथिव्यादिकं च रूपिद्रव्यम् । ततः षडायतनाख्यमिन्द्रियषटम्,ततः स्पर्शाख्यः कायः, ततो वेदनादय ततश्च पुनरप्यविद्यादया यथोक्ता इत्यनादिरियमविद्यादिकाऽन्योन्यमूला चक्रपरिवृत्तिः । एरच्च सर्वं प्रथिव्यादिभूतभौतिकसङ्घातमन्तरेण नोपपद्यते, अतः सङ्घातभावादिकमुपपन्नमिति । तत्रोत्तरं - न सङ्घातभावानिमित्तत्वादिति । नैतदुपपद्यते, एषामाविद्यदीनां पृथिव्यादिभूतभौतिकसंघातभावं प्रत्यनिमित्तत्वात् । न खलु अस्थिरादिषु स्थिरत्वादिबुद्धया-

2.2.18

 

त्मिकाऽविद्या तन्निमित्ता रागद्वेषादयो वाऽर्थान्तरस्य क्षणिकस्य संहतिहेतुतां प्रतिपद्यन्ते । शुक्तिकारजतादि-बुद्धिर्हि न शुक्तयाद्यर्थसंहतिहेतुर्भवति । किञ्च यस्य क्षणिके स्थिरत्वबुद्धिः स तदैव नष्ट इति कस्य रागादय उत्पद्यन्ते, संस्काराश्रयं स्थिरमेकद्रव्यमनभ्युपगच्छतां संस्कारानुवृत्तिरपि न शकें कपयितुम् ।। 18 ।।

2.2.19 उत्तरोत्पादे च पूर्वनिरोधात् ।। 19 ।।

2.2.19

 

इतश्च क्षणिकत्वपक्षे जगदुत्पत्तिर्नोपपद्यते; उत्तरक्षणोत्पत्तिवेलायां पूर्वक्षणस्य विनष्टत्वात् तस्योत्तरक्षणं प्रति हेतुत्वानुपपत्तेः, अभावस्य हेतुत्वे सर्वं सर्वत्र सर्वदोत्पद्यत । अथ पूवक्षणवर्तित्वमेव हेतुत्वमित्युच्यते, एवं तर्हि कश्चिदेव घटक्षणस्तदुत्तरकालभाविनां सर्वेपामेव गोमहिपाश्वकुड्य पापाणादीनां त्रैलोक्यवर्तिनां हेतुः स्यात् । अथैकजातीयस्यैव पूर्वक्षणवर्त्तिनो हेतुत्वमिष्यते, तथाऽपि सर्वदेशवर्त्तिनामुत्तरक्षणभाविनां घटानामेक एव पूर्वक्षणवर्ती घटो हेतुः स्यात् । अथैकस्यैव हेतुरेक इति मनुषे, तथाऽपि कस्यैकस्य को हेतुरिति न ज्ञायते । अथ यस्मिन्देशे यो घटक्षणः स्थितस्तद्देशसम्बन्धिन एवोत्तरघटक्षणस्य स हेतुरिति, किं देशस्य स्थिरत्वं मनुषे; किञ्च चक्षुरादि संप्रयुक्तस्यार्थस्य ज्ञानोत्पत्ति काले अनवस्थितत्वात् न कस्याचिदर्थस्य ज्ञानविषयत्वं सम्भ-वति ।। 19 ।।

2.2.20 असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ।। 20 ।।

2.2.20

 

असत्यपि हेतौ कार्य्यमुत्पद्यते चेत् - सर्वं सर्वदात्पद्येतेत्युक्तम् । न केवलमुत्पत्तिविरोध एव, प्रतिज्ञा च

2.2.20

 

भवतामपरुध्येत । अधिपतिसहकार्यालम्बनसमनन्तरप्रत्ययाशचत्वारो विज्ञानोत्पत्तौ हेतवः इति वः प्रतिज्ञा अधिपतिरिन्द्रियम् । अथ प्रतिज्ञानुपरोधाय घटक्षणेस्थित एव घटक्षणान्तरोत्पत्तिरिष्यते तथा च सति द्वयोः कार्यकारणयोर्घटक्षणयोर्यौगपद्येनापलब्धिः प्रसज्येत । न च तथोपलभ्यते, क्षणिकत्वप्रतिज्ञा चैवं हीयेत । क्षणिकत्वं स्थितमेवेति चेत् - इन्द्र्रयसम्बन्धज्ञानयोर्यौगपद्यं प्रसज्येत ।। 20 ।।

2.2.21 प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात् ।। 21 ।।

2.2.21

 

एवं तावदसत उत्पत्तिर्निरस्ता; सतो निरन्वयविनाशोऽपि नापपद्यत इत्युच्यते; क्षणिकत्ववादिभिर्मुद्गराभिधा-ताद्यन्नतरभावितयोपलब्धियोग्यः सदृशसन्तानावसानरूपः स्थूलो यः, सदृशसन्ताने प्रतिक्षणभावी चोपलब्ध्य-नर्हः सूक्ष्मश्च या #ेनिरन्वयो विनाशः प्रतिसंख्यानिरोधाप्रतिसंख्यनिरोधशब्दाभ्यामभिधीयेते, तो न सम्भवत इत्यर्थ #ः । कुतः? अविच्छेदात् सतो निरन्वयविच्छेदासम्भवात् । असम्भवश्च सत उत्पत्तिविनाशौ नामावस्था-न्तरापत्तिरेव; अवस्थायोगि तु द्रव्यमेकमेव स्थिरमिति कारणादनन्यत्वं कार्यस्योपपादयद्भिरस्माभिः "तदनन्य-त्वम्" इत्यत्र प्रतिपादितः । निर्वाणस्य दीपस्य निरन्वयविनाशदर्शनादन्यत्रापि विनाशो निरन्वयोऽनुमीयत इति चेन्न, घटशरावादौ मृदादिद्रव्यानुवृत्त्युपलब्ध्या सतो द्रव्यस्यावस्थान्तरापत्तिरेव विनाश इति निश्चिते सति प्रदीपादौ सूक्ष्मदशापत्त्याऽप्यनुपलम्भोपपत्तेः,तत्राप्यवस्थान्तरापात्तकल्पनस्यैव युक्तत्वात् ।। 21 ।।

2.2.22 उभयथा च दोषात् ।। 22 ।।

2.2.22

 

क्षणिकत्ववादिभिरभ्युपेतात्तुच्छादुत्पत्तिरुत्पन्नस्य तुच्छतापत्तिश्च न सम्भवतीत्युक्तम्; तदुभयप्रकाराभ्युपगतो दोषश्च भवति । तुच्छादुत्पत्तौ तुच्छात्मकमेव कार्य्यं स्यात्, यद्धि यस्मादुत्पद्यते, तत्तदातत्मकं दृष्टं, यथा भृत्सुवर्णादेरुत्पन्नं मणिकमुकुटादि भृत्सुवर्णाद्यात्मकं दृष्टम्, न च जगत्तुच्छात्मकं भवद्भिरभ्युपगम्यते; न च प्रतीयते । सतो निरन्वयविनाशे सत्येकक्षणादूर्ध्वं कृत्स्नस्य जगतस्तुच्छतापत्तिरेव स्यात्, पश्चात् तुच्छाज्ज-गदुत्पत्तावनन्तरोक्तं तुच्छात्मकत्वमेव स्यात्, अत उभयथापि दोषान्न भवदुक्तप्रकारावुत्पत्तिनिरोधौ ।। 22 ।।

2.2.23 आकाशे चाविशेषात् ।। 23 ।।

2.2.23

 

बाह्याभ्यन्तरवस्तुनः स्थिरत्वप्रतिपादनाय प्रतिसंख्याप्रतिसंख्योनिरोधयोस्तुच्छरूपता निराकृता; तत्प्रसंगेन ताभ्यां सह तुच्छत्वेन सौगतैः परिगणितस्याकाशस्यापि तुच्छता प्रतिक्षिष्यते। आकाशे च निरुपाख्यता न युक्ता, भावरूपत्वेनाभ्युपगतपृथिव्यादिवदाकाशस्यापि अबाधितप्रतीतिसिद्धत्वाविशेषात् । प्रतीयते ह्याकाशे "अत्र श्येनः पतति, अत्र गृध्रः" इति श्येनादिपतनदेशत्वेन, न च पृथिव्याद्यभावमात्रमाकाश इति वक्तुं शक्यं, विकल्पासहत्वात्; पृथिव्यादेः प्रागभावः, प्रध्वंसाभावः, इतरेतराभावः,अत्यन्ताभावो वा आकाशः; सर्वथा-ऽप्याकाशप्रतीत्यनुपपत्ति । स्यात् । प्रागभावप्रध्वंसाभावयोराकाशत्वे पृथिव्यादिषु वर्तमानेषु आकाशप्रतीत्य-योगात् निराकाशं जगत्स्यात् । इतरेतराभावस्याकाशत्वेऽपीतरेतराभावस्य तत्तद्वस्तुगतत्वेन तेषामन्तराले आकाशप्रतीतिर्न स्यात् । अत्यन्ताभावस्तु पृथिव्यादीनां न सम्भवति । अभावस्य विद्यमानपदार्थावस्थाविशे-षत्वोपपादनाच्चाकाशस्य अभावरूपत्वेऽपि न निरुपाख्यत्वम् । अण्डान्तर्वर्तिनश्चाकाशास्य त्रिवृत्करणोपदेश-प्रदर्शितपञ्चीकरणेन रूपवत्त्वाच्चाक्षुपत्वेऽप्यविरोधः ।। 23 ।।

2.2.24 अनुस्भृतेश्च ।। 24 ।।

2.2.24

 

पूर्वप्रस्तुतं वस्तुनः स्थिरत्वमेवोपपाद्यते, अनुस्मरणं पूर्वानुभृतवस्तुविषयं ज्ञानं प्रत्यभिज्ञानमित्यर्थः, तदेवेत-मिति सर्वं वस्तुजातमतीतकालानुभृतं प्रत्यभिज्ञायते; न च भार्वाद्भर्ज्वालादिष्विव सादृश्यनिबन्धनोऽयमे-कत्वव्यामोह इति वक्तुं शक्यम् व्यामुह्यतो ज्ञातुरेकस्यानभ्युपगमात्, न ह्यन्यानुभूतेनैकत्वं सादृश्यं वा स्वानु-भूतस्यान्योऽनुसन्धत्ते, अतो भिन्नकालावस्त्वाश्रयसादृश्यानुभवनिबन्धनमेकत्वव्यामोहं वदद्भिर्ज्ञातुरेकत्व-मवश्याश्रयणीयम्; न #ु ज्ञेयेष्वपि घटादिषु ज्वालादिष्विव भेदसाधनप्रमाणमुपल भामहे, येन सादृश्यनिबन्धनां प्रत्यभिज्ञां कल्पयेम, यदपि चेदमुच्यते प्रत्यक्षानुमानाभ्यां घटादेः क्षणिकत्वं सिद्धयति । प्रत्यक्षं तावद्वर्तामाना-र्थविषयमवर्तमानाद्वस्तुनो व्यावृत्तं त्वविषयमवगमयति नीलमिव र्पातात्, एवं च भूतभविष्यभ्द्यां वर्तमानस्य वस्त्वन्तरत्वमवगतं भवति, अनुमानमपि अर्थक्रियोकारित्वात्सत्त्वाच्च घटादिः क्षणिकः, यदक्षणिकं शशविषा-णादि तदनर्थक्रियाकारी असच्च, तथा अन्यत्यघटक्षणसत्त्वात्पूर्वघटक्षणसत्त्वानि विनाशीनि घटक्षणसत्त्वात् अन्त्यघटक्षणसत्त्ववादिति ।। तच्च कार्यकारणभावानुपपत्त्यादिभिः पूर्वमेव निरस्तम् । किञ्च प्रत्यक्षगम्या वर्त-मानस्यावर्तमानाद्वयावृत्तिर्न वर्त्तमानस्य वस्त्वन्तरत्वमवगमयति, अपि तु वर्तमानकालयोगितामात्रम्, न च तावतावस्त्वन्तरत्वं सिध्यति, तस्यैव कालान्तरयोगसम्भवात् । यत्तु सत्त्वादर्थाक्रियाकारित्याच्चेति क्षणिकत्वे

2.2.24

 

हेतुद्वयमुक्तम्, तदभिमतविपरीतसाधनत्वाद्विरुद्धम्, सत्त्वादथर्क्रियाकारित्वाद्वा घटादि स्थास्नु यदस्थास्नु तदसदनर्थक्रियाकारि च यथा शशविषाणमित्यपि हि वक्तुं शक्यम् । किञ्च अर्थक्रिराकारित्वमक्षणिकत्वमेव साधयेत्; क्षणध्वंसिनो हि व्यापारासम्भवादर्थक्रियाकारित्वं न सम्भवतीत्युक्तम्, तथाऽन्त्यघटक्षणस्य हेतुतो नाशदर्शनादितरेऽपि घटक्षणा हेत्वपेक्षविनाशाः स्युरिति आमुद्गरादिहेतूपनिपातात्स्थास्नुत्वमेव । न च वाच्यं, न मुद्गरादयो विनाशहेतवः, अपि तु कपालादिविसदृशसन्तानोत्पत्तिहेतव इति कपालत्वावस्थापत्तिरेव घटादीनां विनाश इत्युपपादितत्वात्कपालोत्पत्तिव्यतिरिक्तत्वाभ्युपगमेपि विनाशस्य विनाशहेतुत्वमेव मुद्गरादेरानन्तर्या-द्युक्तम्, अतः प्रत्यभिज्ञया स्थिरत्वमवगम्यमानं न केनापि प्रकारेणापह्नोतुं शक्यम् । पूर्वापरकालसम्बन्ध्यर्थैक्यविषयायाः प्रत्यभिज्ञाया अन्यविषयत्वं ब्रुवन्नीलादि ज्ञानानामपि नीलादेरर्थान्तरविषयत्वं ब्रूयात् । किञ्च प्रमातृप्रमेययोः क्षणिकत्वं वदद्भिर्व्याप्त्यवधारण तत्स्मरणपूर्वकरनुमरनरभ्युपगमोऽपि दुःशकः । तथेदं क्षणिक-

2.2.24

 

मित्यादिप्रतिज्ञापूर्वकहेतुपन्यासादिकमपि नोपपद्यते भवताम् । प्रतिज्ञोपक्रमक्षण एव वक्तुर्विनष्टत्वात्, न ह्यन्येनोपक्रान्तम् अजानद्भिरन्यैः समापयितुं शक्यम् ।। 24 ।।

2.2.25 नासतो दृष्टत्वात् ।। 25 ।।

2.2.25

 

एवं तावद्वैभाषिकसौत्रान्तिकयोर्वाह्यार्थास्तित्ववादिनोः साधारणानि दूषणान्युक्तानि । तत्र यदुक्तं संप्रयुक्तस्यार्थस्य ज्ञानोत्पत्तिकाले अनवस्थित्वान्न कस्यचिदर्थस्य ज्ञानविषयत्वं सम्भवतीति, तत्र सौत्रान्तिकः प्रत्यवतिष्ठते - न ज्ञानकालेऽवस्स्थानमर्थस्य ज्ञानाविषयत्वहेतुः, ज्ञानोत्पत्तिहेतुत्वमेव हि ज्ञानविषयत्वम्, न चैतावता चक्षुरादेर्ज्ञानविषयत्वप्रसंगः, स्वाकारसमर्पणेन ज्ञानहेतोरेव ज्ञानविषयत्वाभ्युपगमात् ज्ञानेस्वाकारं समर्प्य विनष्टोऽप्यर्थो ज्ञानगतेन नीलाद्याकारेणानुमीयते न च पूर्वपूर्वज्ञानेनोत्तरोत्तरज्ञानाकारसिद्धिः, नीलज्ञानसन्ततौ पीतज्ञानानुत्पत्तिप्रसंगाततोऽर्थकृतमेव ज्ञानवैचत्र्यमिति । अत्रोच्यते - "नासतो दृष्टत्वात्" इति । योऽयं ज्ञाने नीलादिराकार उपलभ्यते स विनष्टस्यासतोऽर्थस्याकारो भवितुं नार्हति । कुतः ? अदृष्टत्वात् । न खलु धर्मिणि विनष्टे तद्धर्मस्यार्थान्तरे संक्रमणं दृष्टम् । प्रतिविम्वादिकमपि स्थिरस्यैव भवति । तत्रापि न धर्ममात्रस्य ।

2.2.25

 

अतोऽर्थवैचित्र्यकृतं ज्ञानवैचित्र्यमर्थस्य ज्ञानकाले अवस्थानादेव भवति ।। 25 ।।

पुनरपि साधारणं दूषणमाह -

2.2.26 उदासीनानामपि चैवं सिद्धिः ।। 26 ।।

2.2.26

 

एवं क्षणिकत्वासदुत्पत्त्यहेतुकविनाशाद्यभ्युपगमे उदासीनानामनुद्युञ्जानानामपि सर्वार्थसिद्धिस्स्यात् । इष्टप्रा-प्तिरनिष्टनिवृत्तिर्वा प्रयन्तादिभिस्साध्यते; क्षणध्वंसे हि सर्वेषां भावानां पूर्वपूर्व वस्तु तद्गतो वा विशेषः संस्का-रादिकोऽविद्यादिर्वा उत्तरत्र न कश्चिदनुवर्तत इति प्रयन्तादिभिः साध्यं न किञ्चिदस्ति, एवं सत्यहेतुसाध्यत्वात्स-र्वसिद्धीनामुदासीनानामप्यैहिकामुष्मिकफलं मोक्षश्च सिद्धयेत् ।। 26 ।।

2.2.27 नाभाव उपलब्धेः ।। 27 ।।

2.2.27

 

विज्ञानमात्रास्तित्ववादिनो योगाचाराः प्रत्यवतिष्ठन्ते । यदुक्तमर्थवैचित्र्यकृतं ज्ञानवैचित्र्यमिति तन्नोपपद्यते । अर्थवत् ज्ञानानामेव साकाराणां स्वयमेव विचित्रत्वात् । तच्च स्वरूपवैचित्र्यं वासनावशादेव उपपद्यते । वासना च विलक्षणप्रत्ययप्रवाह एव । यद्घटाकारं ज्ञानं कपालाकारज्ञानस्योत्पादकं, तस्य तथाविधस्योत्पादकं तत्पूर्वघटज्ञानम् । तस्य च तथाविधस्योत्पादकं ततः पूर्वघटज्ञानं इत्येवं रूपः प्रवाह एव वासने-

2.2.27

 

त्युच्यते । कथं वहिष्ठसर्पपमहीधरादेराकार आन्तरस्य ज्ञानस्यैवेत्युच्यते ? इत्यमर्थस्यापि व्यवहारयोग्यत्वं ज्ञानप्रकाशायत्तम्, अन्यथा स्वपरवेद्ययोरनतिशयप्रसंगात् । प्रकाशमानस्य च ज्ञानस्य साकारत्वमवश्याश्रय-णीयम्, निराकारस्य प्रकाशायोगात् । एकश्चायमाकार उपलभ्यमानो ज्ञानस्यैव । तस्य च वहिर्वदवभाप्तोऽपि भ्रमकृतः, ज्ञानार्थयोः सहोपलम्भनियमाच्च ज्ञानादव्यतिरिक्तोऽर्थः । किञ्च वाह्यमर्थमभ्युपद्भिरपि घटपटशदि-विज्ञानेषु ज्ञानस्य तत्तदर्थासाधारण्यं तत्तदर्थसारूप्यमन्तरेण नोपपद्यत इत्यवश्यं ज्ञानेऽर्थसरूपं रूपमास्थेयम् । तावतैव सर्वव्यवहारोपपत्तेः, तद्वयतिरिक्ताथर्कल्पना निष्प्रामाणिका । अतोविज्ञानमात्रमेव तत्त्वं न वाह्या-र्थोऽस्तीत्येवं प्राप्ते प्रचक्ष्महे - नाभाव उपलब्धेः - इति, ज्ञानातिरिक्तस्यार्थस्याभावो वक्तुं न शक्यते; कुतः ? उपलब्धेः - ज्ञातुरात्मनोऽर्थविशेषव्यवहारयोग्यतापादनरूपेण ज्ञानस्योपलब्धेः । एवमेव हि सर्वे लौकिकाः प्रतियन्ति "घटमहं जानामि" इति । एवंरूपेण सकर्मकेण सकर्तृकेन ज्ञाधात्वर्थेन सर्वलोकसाक्षिकमपरो क्षमव-भासमानेनैव ज्ञानमात्रमेव परमार्थ इति साधयन्तः सर्वलोकेपहासोपकरणं भवन्तीति वेद्गवादच्छह्मप्रच्छन्न-वौद्धनिराकरणे निपुणतरं प्रपञ्चितम् । यत्तु "सहोपलम्भनियमादभेदो नीलतद्धियोः" इति तत्स्ववचनविरुद्धं साहित्यस्यार्थभेदहेतुकत्वात् । तदथर्व्यवहारयोग्यतैकस्वरूपस्य ज्ञानस्य तेन सहोपलम्भनियमः तस्मादवै-

2.2.27

 

लक्षण्यसाधनमिति च हास्यम्, निरन्वयविनाशिनां ज्ञानानामनुवर्त्तमानस्थिराकारविरहाद्वासना च दुरुपपादा । विनष्टेनपूर्वज्ञानेनानुत्पन्नमुत्तरज्ञानं कथं वास्यते । अतो ज्ञानवैचित्र्यमप्यर्थवैचित्र्यकृतमेव । तत्तदर्थव्यवहार-योग्यतापादनरूपतया साक्षात्प्रतीयमानस्य ज्ञानस्य तत्तदर्थसम्बन्धायत्तं तत्तदसाधारण्यम् । सम्बन्धश्च संयोग-लक्षणः । ज्ञानमपि हि द्रव्यमेव । प्रभाद्रव्यस्य प्रदीपगुणभूतस्येव ज्ञानस्याप्यात्मगुणभूतस्य द्रव्यत्वमविरुद्ध-मित्युक्तम् । अतो न वाह्याथर्ताभावः ।। 27 ।।

2.2.28

यत्परैः स्वप्रज्ञानदृष्टान्तेन जागरितज्ञानानामपि निरालम्बनत्व-मुक्तम्; तत्राह -

2.2.28 वैधर्म्याच्च न स्वप्नादिवत् ।। 28 ।।

2.2.28

 

स्वप्रज्ञानवैधर्म्याज्जागरितज्ञानानामर्थशून्यत्वं न युज्यते वक्तुम्, स्वप्रज्ञानानि हि निद्रादिदोषदुष्टकरणजन्यानि वाधितानि च, जागरितज्ञानानि तू तद्विपरितानीति तेषां न तत्साम्यम्, सर्वेषां च ज्ञानानामर्थशून्यत्वे भवद्भिः साध्योऽप्यर्थो न सिद्धयति, निरालम्बनानुमानस्याप्यर्थशून्यत्वात्, तस्यार्थवत्त्वेज्ञानत्वस्यानैकान्त्यात्सुतरा-मर्थशून्यत्वासिद्धिः ।। 28 ।।

2.2.29 न भावोऽनुपलब्धेः ।। 29 ।।

2.2.29

 

न केवलस्यार्थशून्यस्य ज्ञानस्य भावः सम्भवति, कुतः ? क्कचिदप्यनुपलब्धेः । न ह्यकर्तृकस्याकर्मकस्य वा ज्ञानस्य क्कचिदुपलब्धिः "स्वप्रज्ञानादिष्वपि नार्थशून्यत्वमिति ख्यातिनिरूपणे प्रतिपादितम् ।। 29 ।।

।। इति उपलब्ध्यधिकरणम् ।।

2.2.30 सर्वथाऽनुपपत्तेश्च ।। 30 ।।

2.2.30

 

अत्र सर्वशून्यवादी माध्यमिकः प्रत्यवतिष्ठते - शून्यवादे एव हि सुगतमतकाष्ठा । शिष्यबुद्धि-योग्यतानुगुण्येनार्थाभ्युपगमादिना क्षणिकत्वादय उक्ताः विज्ञानं बाह्यार्थाश्च सर्वे न सन्ति, शून्यमेव तत्त्वम् । अभावापत्तिरेव च मोक्ष इत्येव बुद्धस्याभिप्रायः । तदेव हि युक्तम्, शून्यस्याहेतुसाध्यतया स्वतः सिद्धेः । सत एव हि हेतुरन्वेषणीयः, तच्च सत् भावादभावाच्च नोत्पद्यते; भावात्तावन्न कस्यचिदुत्पत्तिर्दृष्टा, न हि घटादिरनुपमृदिते पिण्डादिके जायते । नाप्यभावादुत्पत्तिः सम्भवति, नष्टे पिण्डादिके ह्यभावादुत्पद्यमानं घटादिकमभावात्मकमेव स्यात् । तथा स्वतः परतश्चोत्पत्तिर्न सम्भवति । स्वतस्स्वोत्पत्तावात्माश्रयदोषप्रसंगात् प्रयोजनाभावाच्च । परतः परोत्पत्तौ परत्वाविशेषात् सर्वेषां सर्वेभ्य उत्पत्तिप्रसंगः । जन्माभावादेव विनाशस्याप्य भावः, अतः शून्यमेव तत्त्वम् । अतो जन्मविनाशसदसदादयो भ्रान्तिमात्रम् । न च निरधिष्ठानभ्रमासम्भवा-द्भमाधिष्ठानं किञ्चित्पारमाथिर्कं तत्त्वमाश्रयितव्यम् । दोषदोषाश्रयत्वज्ञातृत्वाद्यपारमाथ्र्थेऽपि भ्रमोपपत्तिव-दाधिष्ठानापारमार्थ्येऽपि भ्रमोपपत्तेः । अतः शून्यमेव तत्त्वमिति प्राप्ते उच्यते - सर्वथानुपपत्तेश्च इति । सर्वथाऽनुपपत्तेः सर्वशून्यत्वं च भवदभिप्रेतं न सम्भवति । किं भवान्सर्वं सदिति वा प्रतिजानीते ? । असदिति वा ? । अन्यथा वा ? । सर्वथा तवाभिप्रेतं तुच्छत्वं न सम्भवति, लोके भावाभावशब्दयोस्तत्प्रतीत्योश्च विद्य-

2.2.30

 

मानस्यैव वस्तुतोऽवस्थाविशेषगोचरत्वस्य प्रतिपादितत्वात् । अतस्सर्वं शून्यमिति प्रतिजानता सर्वं सदिति प्रतिजानतेव सर्वस्य विद्यमानस्यावस्थाविशेषयोग्यतैव प्रतिज्ञाता भवतीति भवदभिमता तुच्छता न कुतश्चिदपि सिद्धयति ।किञ्च कुतश्चित्प्रमाणाच्छूत्यत्वमुपत्वभ्य शून्यत्वं सिषाधयिषता तस्य प्रमाणस्य सत्यत्वमभ्युपेत्यम्,

2.2.30

 

तस्यासत्यत्वे सर्वं सत्यं स्यादिति सर्वथा सर्वशून्यत्वं चानुपपन्नम् ।। 30 ।। ।। इति सर्वथानुपपत्त्यधिकरणम् ।।

2.2.31

नैकस्मिन्नसम्भवात् ।। 31 ।।

2.2.31

 

निरस्तास्सौगताः । जैना अपि परमाणुकारणत्वादिकं जगतो वदन्तीत्यनन्तरं जैनपक्षः प्रतिक्षिष्यते । ते किल मन्यन्ते - जीवानीवात्मकं जगदेतन्निरीश्वरम्; तच्च षड्द्रव्यात्मकम् । तानि

2.2.31

 

च द्रव्याणि जीवधर्माधर्मपुद्गलकालाकाशाख्यानि । तत्र जीवा - वयाः, योगसिद्धाः, कुक्ताश्चेति त्रिविधाः । धर्मो नाम गतिमतां गतिहेतुभूतो द्रव्यविशेषो जगद्वयापी । अधर्मश्च स्थितिहेतुभूतोव्यापि । पुद्गलो नाम - वर्णगन्धरसस्पर्शवस्द्रव्यम्; तच्च द्विविधम् - परमाणुरूपम्, तत्संघातरूपं च । पवनज्वलनसलिल-धरणीतनुभुवनादिकम् । कालस्त्वमूदस्ति भुवष्यनीति व्यवहारहेतुरणुरूपो द्रव्यविशेषः । आकाशोऽप्येको ऽनन्तप्रदेशश्च, तेषु चाणुव्यतिरिक्तानि द्रव्याणि पञ्चास्तिकाया इति च संग्रह्यन्ते । जीवास्तिकायो धर्मास्तिकायो-ऽधर्मास्तिकायः पुद्गलास्तिकाय आकाशास्तिकाय इति । अनेकदेशवर्तिनि द्रव्येऽस्तिकायशब्दः प्रयुज्यते; जीवानां मोक्षोपयोगिनमपरमपि संग्रहं कुर्वन्ति - "जीवाजीवास्त्रववन्ध-निर्जरसम्वरमोक्षा" इति मोक्षसंग्रहेण मोक्षोपायश्च गृहीतः, स च सम्यग्ज्ञानदर्शनचारित्ररूपः । तत्र जीवस्तु ज्ञानदर्शनसुखवीर्यगुणः । अजीवश्च जीवभोग्यवस्तुजातम्; आस्त्रवः तदुपभोगोपकरण-गूतमिन्द्रियादिकम् । बन्धश्चाष्टविधः - घातिकर्मचतुष्टयम-घातिकर्मचतुष्टयं चेति । तत्राद्यम् - जीवगुणानां स्वाभाविकानां ज्ञानदर्शनवीर्थ्यसुखानां प्रतिघातकरम्; अपरं शरीरसंस्थानतदभिमानतत्स्थिति-तत्प्रयुक्तसुखदुःखोपेक्षाहेतुभूतम् । निर्जरं मोक्षसाधनमर्हदुपदेशावगतं तपः ।

2.2.31

 

सम्वरो नामेन्द्रियनिरोधिस्समाधिरूपः । मोक्षस्तु निवृत्तरागादिक्तेशस्य स्वाभाविकात्मस्वरूपाविर्भावः । पृथिव्यादिहेतुभूताश्चाणवो वैशेषिकादीनामिव न चतुर्विधाः । अपित्वेकस्वभावाः । पृथिव्यादिभेदस्तु परिणामकृतः ।सर्वं च वस्तुजातं सत्त्वासत्त्वनित्यत्वानित्यत्वभिन्नत्वाभिन्नत्वादिभिरनैकान्तिकमिच्छन्ति स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यम्, स्यादस्ति चावक्तव्यं च, स्यान्नास्ति चावक्तव्यं च, स्यादस्ति च नास्ति चावक्तव्यं च, इति सर्वत्र सप्तभङ्गीनयावतारात् । सर्वं वस्तुजातं द्रव्यपर्यायात्मकमिति द्रव्यात्मना सत्त्वैकत्वनित्यत्वाद्युपपादयन्ति; पर्यायात्मना च तद्विपरीतम् । पर्यायाश्च द्रव्यस्यावस्थाविशेषाः । तेषां च भावाभावरूपत्वात् सत्त्वासत्त्वादिकं सर्वमुपपन्नमिति ।। अत्राभिधीयते - नैकस्मिन्नसम्भवादिति । नैतपुपपद्यते, कुतः? एकस्मिन्नसम्भवात् - एकस्मिन्वस्तुनि अस्तित्वनास्तित्वादे -र्विरुद्धस्य छायातपवद्युगपदसम्भवात् । एतदुक्तं भवति, द्रव्यस्य तत्तद्विशेषणभूतपर्यायशब्दाभिधेयावस्था -विशेषस्य च पृथक्पदार्थत्वान्नैकस्मिन् विरुद्धधर्मसमावेशः सम्भवतीति । तथा ह्येकेनास्तित्वादिना ऽवस्था-

2.2.31

 

विशेषण विशिष्टस्य तदानीमेव न तद्विपरीतनास्तित्वादिविशिष्टत्वं सम्भवति । उत्पतिविनाशाख्य-परिणामविशेषास्पदत्वं च द्रव्यस्यानित्यत्वम्, तद्विपरीतं च नित्यत्वं तस्मिन्कथं समवैति; विरोधिधर्मा- श्रयत्वं च भिन्नत्वं, तद्विपरीतं चाभिन्नत्वं कथं वा तस्मिन्समवैति? यथाऽश्वत्वमहिषत्वयोर्युगपदेकस्मिन्न-सम्भवः । अयमर्थः पूर्वमेव भेदाभेदवादिनिरसनसमये "तत्तु समन्वयात्" इत्यत्र प्रपञ्चितः । कालस्य पदार्थ-विशेषणतयैव प्रतीतेः तस्य पृथगस्तित्वनास्तित्वादयो न वक्तव्याः, न च परिहर्त्तव्याः । कालोऽस्ति नास्तीति व्यवहारो व्यहर्तृणां जात्याद्यस्तित्वनास्तित्वव्यपहारतुल्यः, जात्यादयो हि द्रव्यविशेषणतयैव प्रतीयन्त इति पूर्वमेवोक्तम् । कथं पुनरेकमेव ब्रह्म सर्वत्मकमिति श्रोत्रियैरुच्यते?; सर्वचेतनाचेतनशरीरत्वात्सर्वज्ञस्य सर्वशक्तेः सत्यसङ्कल्पस्य पुरुषोत्तमस्येत्युक्तम् । शरीरशरीरिणोस्तद्धर्माणां चात्यन्तवैलक्षण्यमप्युक्तम्,

2.2.31

 

किञ्च नीवादीनां षण्णां द्रव्याणामेकद्रव्याणामेकद्रव्यपर्यायत्वाभावात्तेषु द्रव्यैकत्वेन पर्यायात्मना चैकत्वा-नेकत्वादयो दुरुपपादाः । अथोच्येतषडेतानि द्रव्याणि स्वकीयैः पर्यायैःस्वेन स्वेन चात्मना तथा भवन्तीति । एवमपि सवर्मनैकान्तिकमित्यभ्युपगमविरोथः, अन्योन्यतादत्मयाभावात् । अतो न युक्तमिदं जैनमतम् । ईश्वरानधिष्ठितपरमाणुकारणवादे पूर्वोक्तदोषास्तथैवावतिष्ठन्ते ।। 31 ।।

2.2.32

एवं चात्माकार्त्स्न्यम् ।। 32 ।।

2.2.32

 

एवं भवदभ्युपगमे सत्यात्मनश्चाकार्त्स्न्यम् प्रसज्यते । जीवोऽसङ्खयातप्रदेशो देहपतिमाण इति हि भवतां स्थितिः । तत्र हस्त्यादिशरीरेऽवस्थितस्यात्मनस्ततो न्यूनपरिमाणे पिपीलिकाशरीरे प्रविशतोऽल्पदेशब्या-पित्वेनाकार्त्स्न्यं प्रसज्यते - अपरिपूर्णता प्रसज्यत इत्यर्थः ।। 32 ।।

2.2.33

अथ सङ्कोतविकासधर्मतयाऽऽत्मनः पर्यायशब्दाभिधेयावस्थान्तरापत्त्या विरोधः परिह्रियत इत्युच्यते; तत्राह-

2.2.33

न च पर्य्यायादप्यविरोधो विकारदिभ्यः ।। 33 ।।

2.2.33

 

न च सङ्कोचविकासरूपावस्थान्तरापत्त्याऽपि विरोधः परिहर्तुं शक्यते विकारतत्प्रयुक्तानित्यत्वादिदोष-प्रसक्ते-

2.2.33

 

र्घटादितुल्यत्वप्रसङ्गात् ।। 33 ।।

2.2.34

अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः ।। 34 ।।

2.2.34

 

जीवस्य यदन्त्यं परिमाणं मोक्षावस्थागतं तस्य पश्चाद्देहान्तरपरिग्रहाभावादवस्थितत्वाभावादात्मनश्च मोक्षा-

2.2.34

 

वस्थस्य तत्परिमाणस्य चोभयोर्नित्यत्वात्तदेवात्मनः स्वाभाविकं परिमाणमिति पूर्वमपि तस्मादविशेषः स्यात्, अतो देहपरिमाणत्वमात्मनो न स्यादित्यसङ्गतमेवेदमार्हतमतम् ।। 34 ।।

2.2.35

पत्युरसामञ्जस्यात् ।। 35 ।।

2.2.35

 

कपिलकणादसुगतार्हतमतानामसामञ्जस्याद्वेदवाह्यत्वाच्च निःश्रेयसार्थिभिरना-दरणीयत्वमुक्तम्, इदानीं पशुपतिमतस्य वेदविरोधादसामञ्जस्याच्चानादरणीयतोच्यते । तन्मतानुसारिणश्च-

2.2.35

 

तुर्विधाः । कापालाः, कालामुखाः, पाशुपताः, शैवाश्चेति सर्वे चैते वेदविरुद्धां तत्त्वप्रक्रियामैहिकामुष्मिकनि-श्रेयससाधनकल्पनाश्च कल्पयन्ति । निर्मित्तोपादानयोर्भेदम्, निमित्तकारणं च पशुपतिमाचक्षते । तथा निःश्रे-यससाधनमपि मुद्रिकाषट्कधारणादिकम्, यथाऽऽहुः कापालाः - "मुद्रिकाषट्कतत्त्वज्ञः परमुद्राविशारधः । भगासनस्थमात्मानं ध्यात्वा निर्वाणमृच्छति । कण्ठिका रुचकं चैव कुण्डलं च शिस्वामणिः । भस्मयज्ञो- पवीतं च मुद्राषटकं प्रचत्तते ।। आभिर्मुद्रितदेहस्तु न भूय इह जायत" इत्यादिकम् । तथा कालामुखा अपि कपालपात्रभोजनशवभस्मस्नानतत्प्राशनलगुडधारणसुराकुम्भस्थापन-तदाधारदेवपूजादिकमैहिकामुष्मिकसक-लफलसाधनमभिदधति । "रुद्राक्षकङ्कणं हस्ते जटा चैका च मस्तके । कपालं भस्मना स्नान"मित्यादि च प्रसिद्धं शैवागमेषु । तथा केनचित्क्रियाविशेषेण विजातीयानामपि ब्राह्मण्यप्राप्तिमुत्तमाश्रमप्राप्तिं चाहुः "दीक्षाप्रवेशमात्रेण ब्राह्मणो भवति क्षणात् । कपालं ब्रतमास्थाय यतिर्भवति मानवः"इति । तत्रेदमुच्यते पत्युरसामञ्जस्यादिति । नैकस्मिन्नसम्भवादित्यतो नेत्यनुवर्तते । पत्युः पशुपतेर्मतं नादरणीयम्, कुतः - असामञ्जस्यात्; #्रसामञ्जस्यं चान्योन्यव्याघाताद्वेदविरोधाच्च । मुद्रिकाषटकधारणभगासनस्थात्मध्यानसुराकुम्भस्थापनतत्स्थदेवतार्चनगूढाचारश्मशानभस्मस्नानप्रणवपूर्वाभिध्यानान्यन्योन्यविरुद्धानि । वेदविरुद्धं चेदं तत्त्वपरिकल्पनमुपासनमाचारश्च । वेदाः खलु परं ब्रह्म नारायणमेव जगन्निमित्तमुपादानं च वदन्ति - "नारा-यणः परं ब्रह्म तत्त्वं नारायणः परः नारायणपरो ज्योतिरात्मा नारायणः परः, "तदैक्षत बहु स्यां प्रजा-येयेति, सोऽकामयत बहु स्यां प्रजायेये"ति, "तदात्मानं स्वयमकुरुत"इत्यादयः परब्रह्मभूतपरमपुरुषवेदन मेव च मोक्षसाधनमुपासनं वदन्ति - "वेदाहमेतं पुरुषं महान्तम् आदित्यवणं तमस्तु पारे । तमेतं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यत" इत्यादिनैकतां गताः सर्वे वेदान्ता। तदितिकर्त्तव्यताभूतं कर्म च वेदविहितव-र्णाश्रमसम्बतन्ध-यज्ञादिकमेव वदन्ति - "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽना-

2.2.35

 

शकेन, एतमेव लोकमिच्छन्तः प्रव्राजिनः प्रव्रजन्ति" इत्यादयः । केवलपरतत्त्वप्रतिपादनपरनारायणानुवा-कसिद्धतत्त्वपराः केषुचिदुपासनादिविधिपरेषु वाक्येषु श्रुताः प्रजापतिशिवेन्द्राकाशप्राणादिशब्दा इति "शास्त्र-दृष्टया तूपदेशो वामदेवव"दित्यत्र प्रतिपादितम् । तथा "एको ह वै नारायण आसीन्न ब्रह्मा नेशान" इत्यारभ्य "स एकाकी न रमेते"ति सृष्टिवाक्योदितं स्त्राष्टारं नारायणमेव समानप्रकरणस्थाः सदेव सोभ्येदमग्र आसीत्"इत्यादिषु साधारणाः सद्व्रह्मादिशम्दा। प्रतिपादयन्तीति "जन्माद्यस्य यत" इत्यत्र प्रतिपादितम् । अतो वेदवि-रुद्धतत्त्वोपासनानुष्ठानाभिधानात्पशु#ापतिमतमनादरणीयमेव ।। 35 ।।

2.2.36

अधिष्ठानानुपपत्तेश्च ।। 36 ।।

2.2.36

 

वेदवाह्यानामनुमानाद्धि केवलनिमित्तेश्वरकल्पना, तथा सति दृष्टानुसारेण कुलालादिवदधिष्ठानं कर्त्तव्यम् । न च कुलालादेर्मृदाद्यधिष्ठानवत्पशुपतेर्निमिक्षभूतस्य प्रधानाधिष्ठानमुपपद्यते अशषीरत्वात्; सशरीराणामेव हि कुलालादीनामधिष्ठानशक्तिर्दृष्टा । न चेश्वरस्य सशरीरत्वमभ्युपगन्तव्यम्, तच्छरीरस्य सावयवस्य नित्यत्वे

2.2.36

 

अनित्यत्वे च "शास्त्रयोनित्वा"दित्यत्र दोषस्योक्तत्वात् ।। 36 ।।

2.2.37

करणवच्चेन्न भोगादिभ्यः ।। 37 ।।

2.2.37

 

यथा भोक्तुर्जीवस्य करणकलेवराद्यधिष्ठानमशरीरस्यैव दृश्यते तद्वन्महेश्वरस्याप्यशरीरस्य च प्रधानाधिष्ठा-नमुपपद्यत इति चेन्न, भोगादिभ्यः । पुण्यपापरूपकर्मफलभोगार्थठ पुण्यपापरूपादृष्टकारितं हि तदधिष्ठानं तद्वत् पशुपतेरपि पुण्यपापरूपादृष्टवत्तया तत्फलभोगादि सर्वं प्रसज्येत, अतो नाधिष्ठानसम्भवः ।। 37 ।।

2.2.38

अन्तवत्त्वमसर्वज्ञता वा ।। 38 ।।

2.2.38

 

वा शब्दश्चार्थे । पशुपतेः पुण्यपापरूपादृष्टवत्त्वे जीववदन्तवत्त्वं सृष्ठिसंहाराद्यास्पदत्वमसर्वज्ञता च स्यादित्यना-दरणीयत्वे सिद्धेऽपि पशुपतिमतस्य वेदविरुद्दताख्यापनार्तं पत्युरसामञ्जस्यादिति पुनरारम्भः यद्यपि पाशुपतशैव-

2.2.38

 

योर्वेदाविरोधिन इव केचन धर्माः प्रतियन्ते, तथाऽपि वेदविरुद्धनिमित्तोपादानभेदकल्पनापरावरतत्वव्यत्य-यकल्पनामूलत्वात्सर्वमसमञ्जसमेवेति "असामञ्जस्यात् "इत्युक्तम् ।। 38 ।।

2.2.39

उत्पत्त्यसम्भवात् ।। 39 ।।

2.2.39

 

कपिलादितन्त्रसामान्याद्भगवदभिहितपरमनिःश्रेयससाधनाववोधिनि पञ्चरात्रतन्त्रे-ऽप्यप्रामाण्यमाशङ्कय निराक्रियते; तत्रैवमाशङ्कते "परमकारणात्परब्रह्मभूताद्वासुदेवात्सङ्कर्षणो नाम जीवो

2.2.39

 

जायते सङ्कर्षणात्प्रद्युम्नसंज्ञं मनो जायते तस्मादनिरुद्धसंज्ञोऽहङ्कारो जायते" इति हि भागवतप्रक्रिया । अत्र जीवस्योत्पत्तिः श्रुतिविरुद्धा प्रतीयते; श्रुतयो हि जीवस्याऽनादित्वं वदन्ति । "न जायते भ्रियते वा विपश्चित्" इत्याद्याः ।। 39 ।।

2.2.40

न च कर्त्तुः करणम् ।। 40 ।।

2.2.40

 

सङ्कर्षणात्प्रद्युम्रसंज्ञं मनो जायत इति कर्त्तुर्जीवात्करणस्य मनस उत्पत्तिर्न सम्भवति, "एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च" इति परस्मादेव ब्रह्मणो मनसोऽप्युत्पत्तिश्रुतेः, अतः श्रुतिविरुद्धार्थप्रतिपादनादस्यापि तन्त्रस्य प्रामाण्यं प्रतिषिध्यत इति ।। 40 ।। एवं प्राप्ते प्रचक्ष्महे -

2.2.41

विज्ञानादिभावे वा तदप्रतिषेधः ।। 41 ।।

2.2.41

 

वाशब्दात्पक्षो विपरिवर्तते, विज्ञानं चादि चेति, परब्रह्मविज्ञानादि सङ्कर्षणप्रद्युमानिरुद्धानामपि परब्रह्मभावे सति तत्प्रतिपादनपरस्य शास्त्रस्य प्रामाण्यं न प्रतिषिध्यते । एतदुक्तं भवति - भागवतप्रक्रियामजानतामिदं चोद्यं यज्जीवोत्पत्तिविरुद्धाऽभिहितेति । वासुदेवाख्यं परं ब्रह्मैवाश्रितवत्सलं स्वाश्रितसमाश्रयणीयत्वाय स्वेच्छया चतुर्धाऽवतिष्ठत इति हि तत्प्रक्रिया, यथा पौष्करसंहितायां " कर्त्तव्यत्वेन वै यत्र चातुरात्म्यमुपा- स्यते । क्रमागौः स्वसंज्ञाभिर्ब्राह्मणैरागमं तु तत्" इत्यादि । तुच्च चातुरात्म्योपासनं वासुदेवाख्यपरब्रह्मोपा-

2.2.41

 

सनमिति सात्वतसंहितायामुक्तम् "ब्राह्मणानां हि द्व्र्रह्म वासुदेवाख्ययाजिनाम् । विवेकदं परं शास्त्रं ब्रह्मोपनि-षदं महत्" इति । तद्धि वासुदेवाख्यं परं ब्रह्म सम्पूर्णषाड्गुण्यवपुः सूक्ष्मव्यूहविभवभेदभिन्नं यथाधिकारं भक्तै-र्ज्ञानपूर्वेण कर्मणाऽभ्यर्चितं सम्यक् प्राप्यते । विभावार्चनाद्व्यूहं पाप्य व्यूहार्चनात्परं ब्रह्म वासुदेवाख्यं सूक्ष्मं प्राप्यते - इति वदन्ति । विभवो हि नाम रामकृष्णादिप्रादुर्भावगणः । व्यूहो वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धरू-पश्चतुर्व्यूहः । सूक्ष्मं तु केवलपाड्गुण्यविग्रहं वासुदेवाख्यं परं ब्रह्म । यथा पौष्करे "यस्मात्सम्यक् परं ब्रह्म वासु-देवाख्यमव्ययम् । अस्मादवाप्यते शास्त्रात् ज्ञानपूर्वेण कर्मणा" इत्यादि । अतः सङ्कर्षणादीनामपि परस्यैव ब्रह्मणः स्वेच्छाविग्रहरूपत्वात् "अजायमानो बहुधा विजायत" इति श्रुतिसिद्धस्यैवाश्रितवात्सल्यनिमि-त्तस्वेच्छाविग्रहसङ्ग्रहरूपजन्मनोऽभिधानात् तदभिधायिशास्त्र-प्रामाण्यस्याप्रतिषेधः - इति । तत्र जीयमनो-ऽहङ्कारतत्त्वानामधिष्ठातारः सङ्कर्षणप्रद्युम्नानिरुद्धा इति तेषामेव जीवादिशब्दैरुभधानमविरुद्धम्; यथा-ऽऽकाशप्राणादिशब्दैबर्रह्मणोऽभिधानम् ।। 41 ।।

2.2.42

विप्रतिषेधाच्च ।। 42 ।।

2.2.42

 

विप्रतिषिद्धा हि जीवोत्पत्तिस्तस्मिन्नपि तन्त्रे; यथोक्तं परमसंहितायाम् । "अचेतना परार्था च नित्या सतत-

2.2.42

 

विक्रिया #ः त्रिगुणा कर्मिणां क्षेत्रं प्रकृतेरूपमुच्यते ।। व्याप्तिरूपेण सम्बन्धस्यस्याश्च पुरुषस्य च । सह्यनादिर-नन्तश्च परमार्थेन निश्चितः" इति । एवं सर्वास्वपि संहितासु जीवस्य नित्यत्ववचनाज्जीवस्वरूपोत्पत्तिः पञ्च-रात्रतन्त्रे प्रतिषिद्धैव । जन्ममरणादिव्यवहारस्तु लोकवेदयोर्जीवस्य यथोपपद्यते, तथा "नात्माश्रुते"रित्यत्र वक्ष्यते । अतो नीवस्योत्पत्तिस्तत्रापि प्रतिषिद्धैवेति जीवोत्पत्तिवादनिमित्ताप्रामाण्यशङ्का दूरोत्सारिता । यश्चैष केषां चिदुद्धोषः "साङ्गेषु वेदेषु निष्ठामलभमानः शाण्डिल्यः पञ्चरात्रशास्त्रमधीतवान्" इति साङ्गेषु वेदेषु पुरुषार्थनिष्ठा न लब्धेति वचनात् वेदविरुद्धं तन्त्रमिति, सोऽप्यनाघ्रातवेदवचसामनाकलिततदुपबृंहणन्या-यकलापानां श्रद्धामात्रविजृम्भितः; यथा "प्रातः प्रातरनृतं ते वदन्ति पुरे दयाज्जुह्वति येऽग्रिहोत्रम्" इति अनुदितहोमनिन्दोदितहोमप्रशंसार्थेत्युक्तम्; यथा च भूमविद्याप्रकमे नारदेन " ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमम्" इत्यारभ्य सर्वं विद्यास्थानमभिधाय "सोऽहंभगवो मन्त्रवि-देवास्मिन्नेत्मवित्" इति भूमयिद्याव्यतिरिक्तास #ु सर्वासु विद्यास्वात्मवेदनालाभवचनं वक्ष्यमाणभूमविद्या-प्रशंसार्थं कृतम्; अथवा अस्य नारदस्य साङ्गेषु वेदेषु#े यत्परतत्त्वं प्रतिपाद्यते, तदलाभनिमित्तशेऽयं वादः, एव-मेव शाण्डिल्यस्येति । पश्चाद्वेदान्तवेद्यवासुदेवाख्यपरब्रह्मतत्त्वाभिधानादवगम्यते, तथा वेदार्थस्य दुर्ज्ञा-

2.2.42

 

नतया सुखाववोधार्थः शास्त्रारम्भः परमसंहितायामुच्यते "अधीता भगवन्वेदाः साङ्गोपाङ्गाः सविस्तराः । श्रु-तानि च मयाऽङ्गानि वाकोवाक्ययुतानि च ।। न चैतेषु समस्तेषु संशयेन विना क्कचित् । श्रेयोमार्गं प्रपश्यामि येन सिद्धिभर्विष्यति" इति । "वेदान्तेषु यथासारं सङ्गृह्य भगवान् हरिः । भक्तानुकम्पया विद्वान् । सञ्चिक्षेप यथासुखम्" इति च । अतः स भगवान्वेदैकवेद्यः परब्रह्माभिधानो वासुदेवो निखिलहेयप्रत्यनीककल्याणैक-तानानन्तज्ञानानन्दाद्यपरिमितोदारगुणसागरः सत्यसङ्कल्पश्चातुर्वण्य-चातुराश्रम्यव्यवस्थयाऽवस्थितान्धर्मार्थकाममोक्षाख्यपुरुषार्थाभिमुखान् भक्तानवलोक्यापारकारुण्य-सौशील्यवात्सल्यौदार्यमहोदधिः स्वस्वरूप-स्वविभूतिस्वाराधनतत्फलयाथात्म्याववोधिनो वेदान् ऋग्यजुः - सामाथर्वभेदभिन्नानपरिमितशाखान् विध्य-

2.2.42

 

र्थवादमन्त्ररूपान् स्वेतरसकलसुरनरदुरवगाहाँश्चावधार्य तदर्थयाथात्म्याववोधिपञ्चरात्रं शास्त्रं स्वयमेव निरमिमीतेति निरवद्यम् । यत्तु परैः सूत्रचतुष्टयं कस्यचिद्विरुद्धांशस्य प्रामाण्यनिपेधपरं व्याख्यातं तत्सूत्राक्ष-राननुगुणं सूत्रकाराभिप्रायविरुद्धं च । तथा हि सूत्रकारेण वेदान्तन्यायाभिधांयीनि सूत्राण्यभिधाय, वेदोप-वृंहणाय च भारतसंहितां शतसाहस्त्रिकां कुर्वता मोक्षधर्मे ज्ञानकाण्डेऽभिहितं "गृहस्थो ब्रह्मचारी च वानप्र-स्थोऽथ भिक्षुकः । य इच्छेत्सिद्धिमास्थातुं देवतां कां यजेत सः" इत्यारभ्य महता प्रबन्धेन पञ्चोत्रशास्त्रप्रक्रियां प्रतिपाद्य "इदं शतसहस्राद्धि भारताख्यानविस्तरात् । आविध्य मतिमन्थानं दध्नो घृतमिवोद्धृतम् ।। नवनीतो यथा दधनो द्विपदां ब्राह्मणो यथा । आरण्यकं च वेदेभ्य ओपधीभ्यो यथाऽमृतम् ।। इदं महोपनिपदं चतुर्वेदस-मन्वितम् । साङ्खययोगकृतान्तेन पञ्चरात्रानु#ाब्दितम् ।। इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम् । ऋग्यजुःसामभि-र्जुष्टमथर्वाङ्गिरसस्तथा ।। भविष्यति प्रमाणं वा एतदेवानुशासनम्" इति साङ्खययोगशब्दाभायां ज्ञानयोगकर्म-योगावभिहितौ; यथोक्तं "ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योभिनाम्" इति; भीष्मपर्वण्यपि "ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः । अर्चनीयश्च सेव्यश्च पूजनीयश्च माधवः ।। सात्वतं विधिमास्थाय गीतः सङ्ग-र्षणेन यः" इति । कथमेवं ब्रुवाणो वादरायणो वेदविदग्रेसरो वेदान्तवेद्यपरब्रह्मभूरवासुदेवोपासनार्चनादि-प्रतिपादनपरस्य सात्वतशास्त्रस्याप्रामाण्यं ब्रूयात् । ननु च "साङ्ख्यं योगः पञ्चरात्रं वेदाः पाशुपतं तथा । किमे-तान्येकनिष्ठानि वा मुने" इत्यादिना साङ्ख्यादीनामप्यादरणीयतोच्यते, शारीरकेऽपि साङ्खयादीनि प्रति-

2.2.42

 

षिध्यन्ते; #ैअत इदमपि तन्त्रं तत्तुल्यम्; नेत्युच्यते, यतस्तत्रापीममेव शारीरकोक्तन्यायमवतारयति "किमेता-न्येकनिष्ठानि पृथङ्निष्ठानि वा" इति प्रश्रस्यायमर्थः किं साङ्ख्ययोगपाशुपतवेदपञ्चरात्राणि एकतत्त्वप्रतिपा-दनपराणि, पृथक्तत्वप्रतिपादनपराणि वा, यदैकत्त्वप्रतिपादनपराणि, किं तदेकं तत्त्वम्? । यदा पृथक्तत्त्व-प्रतिपादनपराणि तदैषां परस्परविरुद्धार्थप्रतिपादनपरत्वाद्वस्तुनि विकल्पासम्भवाच्छैकमेव प्रमाणमङ्गीकर-णीयम्, किं तदेकमित्यस्योत्तरं ब्रुवन् "ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै । साङ्ख्यस्य वक्ता कपिल" इत्यारभ्य साङ्खययोगपाशुपतानां कपिलहिरण्यगर्भपशुपतिकृतत्वेन पौरुषेयत्वं प्रतिपाद्य "अवान्तरतषा नाम वेदाचार्य्यः स उच्यते" इति वेदानामपौरुषेयत्वमभिधाय"पञ्चरात्रस्य वक्ता नारायणः स्वयम्" इति पञ्चरात्रतन्त्रस्य वक्त नारायथः स्वयमेवेत्युक्तवान् । एवं वदतश्चायमाशयः - पौरुषेयाणां तन्त्राणां परस्पर-विरुद्धवस्तुवा#ि#ादतया अपौरुषेयत्वेन निरस्त प्रमादादिनिखिलदोषगन्धवेदवेद्यवस्तुविरुद्धाभिधायित्वच्च यथावस्थितवस्तुनि प्रामाण्यं दुर्ल्लभम्; वेदवेद्यश्च परब्रह्मभूतोनारायणः; अतस्तत्तन्त्राभिहितप्रधानपुरुष-पशुपतिप्रभृतितत्त्वस्य वेदान्तवेदेयपरब्रह्मभूतनारायणात्मकतयैव वस्तु त्वमभ्युपगमनीयमिति । तदिदमाह च "सर्वेषु च नृपश्रेष्ठ ! ज्ञानेष्वेतेषु दृश्यते । यथागमं यथान्यायं निष्ठानारायणः प्रभुः" इति । "यतागमं यथा-न्याय"मिति न्यायानुगृहीततत्तदागमोक्तं वस्तु परामृशतो नारायण एव सर्वस्य वस्तुनो निष्ठेति दृश्यते ।

2.2.42

 

अब्रह्मात्मकतया तत्तत्तन्त्राभिहिनानां तत्त्वानां "सर्वं खल्विदं ब्रह्म" "विश्वं नारायथ" इत्यादिना सर्वस्य ब्रह्मा-त्मकतामनुसन्दधानस्य च नारायण एव निष्ठेति प्रतीयत इत्यर्थः । अतो वेदान्तवेद्यः परब्रह्मभूतो नारायणः स्वयमेव पञ्चरात्रस्य कृत्स्नस्य वक्तेति, तत्स्वरूपतदुपासनाभिधायि तत्तन्त्रमिति च तस्मिन्नितरतन्त्रसामान्यं न केनचिदुद्भावयितुं शक्यम् । अतस्तत्रैवेदमुच्यते "एवमेकं साङ्खययोगं वेदारण्यकममेव च । परस्पराङ्गान्ये-तानि - पञ्चरात्रं तु कथ्यते" इति; साङ्ख्यञ्च योगश्च साङ्ख्ययोगम्, वेदाश्चारण्यकानि च वेदारण्यकम्, परस्पराङ्घान्येतान्येकतत्वप्रतिपादनपरतयैकीभूतानि - एकं पञ्चतात्रमिति कथ्यते । एतदुक्तं भवति साङ्ख्योक्तानि पञ्चर्विशतितत्त्वानि, योगोक्तं च यमनियमाद्यत्मकं योगम्, वेदोदितकर्मस्वरूपाण्यङ्गीकृत्य तत्त्वानां ब्रह्मात्मकत्वम्, योगस्य च ब्रह्मोपासनप्रकारत्वं कर्मणां च तदाराधनरूपतामभिदधति ब्रह्मस्वरूपं प्रतिपाद-यन्त्यारण्यकानि । एतदेव परेण ब्रह्मणा नारायणेन स्वयमेव पञ्चरात्रतन्त्रे विशदीकृतमिति । शारीरके च साङ्ख्योक्ततत्त्वानामब्रह्मात्मकतामात्रं निराकृतम्; न स्वरूपम् । योगपाशुपतयोश्चेश्वरस्य केवलनिमित्तका-रणता परावरतत्त्वविपरीतकल्पना, वेनवहिष्कृताचारो निराकृतः न योगस्वरूपम्, पशुपतिस्वरूपं च । अतः साङ्ख्यं योगः पञ्चरात्रं वेदाः पाशुपतं तथा आत्मप्रमाणान्येतानि न हन्तव्यानि हेतुभिः" इति तत्तदभिहित-तत्तत्स्वरूपमात्रमङ्गीकार्य्यम्; जिनसुगताभिहिततत्त्ववत्सर्वं न बहिष्कार्य्यमित्युच्यते । यथाऽऽगमं "यथान्यायं निष्ठा नारायणः प्रभु"रित्यनेनैकार्य्यात् ।। 42 ।।



2.3.1

न वियदश्रुतेः ।। 1 ।।

2.3.1

 

सांख्यादिवेदबाह्यतन्त्राणां न्यायाभासमूलतया विप्रतिषेधाच्चासामञ्जस्यमुक्तम्, इदानीं स्वपक्षस्य विप्रतिषेधादिदोषाभावख्यापनाय ब्रह्मकार्य्यतयाऽभिमतचिदात्मकप्रपञ्चस्य कायर्ताप्रकारो विशोध्यते । तत्र वियदुत्पद्यते न वेति संशय्यते । किं युक्तं न वियदुत्पद्यत इति, कुतः? अश्रुतेः; सम्भावितस्य हि श्रवणसम्भवः, असम्भावितस्य तु गगनकुसुमवियदुत्पत्त्यादेः शब्दाभिधेयत्वं न सम्भवति । न खलु निरवयवस्य सर्वगतस्याकाशस्यात्मन इव उतपत्तिर्निरूपयितुं शक्यते; अत एव चोत्पत्त्यसम्भवात् छान्दोग्ये

2.3.1

 

सृष्टिप्रकरणे तेजःप्रभृतीनामेवोत्पत्तिराम्नायते - "तदैक्षत बहु स्यां प्रजायेयेतितत्तेजोऽसृजत" इति । तैत्तिरी-यकाथर्वणादिषु "तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः" "एतस्माज्जायते प्राणो मनः सर्वेन्दिऽयाणि च खं वायुर्ज्योतिराप" इत्यादिषु श्रूयमाणा वियदुत्पत्तिरर्थविरोधाद्वाध्यत इति ।। 1 ।। एवं प्राप्तेऽभिधीयते-

2.3.2

अस्ति तु ।। 2 ।।

2.3.2

 

अस्ति त्वाकाशस्योत्पत्तिः । अतीन्द्रियार्थविषया हि श्रुतिः प्रमाणान्तरातीतामपि वियदुत्पतिं्त प्रतिपादयितुं समर्थैव । न च श्रुतिप्रतिपन्नेऽर्थे तद्विरोधिनिरवयवत्वादिहेतुकमनुत्पत्त्यनुमानमुदेतुमलम्; आत्मनोऽनुत्पत्तिर्न

2.3.2

 

निरवयवत्वप्रयुक्तेति वक्ष्यते ।। 2 ।।

2.3.3

पुनश्चोदयति -

2.3.3

गौण्यसम्भवाच्छब्दाच्च ।। 3 ।।

2.3.3

 

"तस्माद्वा एतस्मादात्मन आकाशः सम्भूत" इत्यादि वियदुत्पत्तिश्रुतिर्गौणीति कल्पयितुं युक्तम्, "तत्तेजोऽ-सृजत" इति सिसृक्षोर्ब्रह्मणः प्रथमं तेज उत्पद्यत इति तेजउत्पत्तिप्राथम्येन वियदुत्पत्तिप्रतिपादनासम्भवात् "वायुश्चान्तरिक्षं चैतदभृत"मिति वियतोऽभृतत्वशब्दाच्च ।। 3 ।।

2.3.4

कथमेकस्य सम्भूतशब्दस्याकाशापेक्षया गौणत्वम्, अग्न्याद्यपेक्षया मुख्यत्वमिति चेत्तत्राह -

2.3.4

स्याच्चैकस्य ब्रह्मशब्दवत् ।। 4 ।।

2.3.4

 

एमस्यैव "तस्माद्वा एतस्मादात्मन आकाशः संभूत"इत्याकाशे मुख्यात्वासम्भवात्, गौणतया प्रयुकस्य सम्भृतशब्दस्य वायोरग्विरित्यादिष्वनुक्तस्य मुख्यत्वं स्यादेव - ब्रह्मशब्दवत्; यथाब्रह्मशब्दः "तस्मादेतद्व्रह्म नामरूपमन्नं च जायते" इत्यत्र

प्रधाने गौणतया प्रयुक्तस्तस्मिन्नं च जायते" इत्यत्र प्रधाने गौणतया प्रयुक्त -स्तस्मिन्नेव प्रकरणे "तपसा चीयते ब्रह्म ततोऽन्नमभिजायत"इति ब्रह्मणि मुख्यतया प्रयुज्यते; तद्वत् । अनुपङ्गे

2.3.4

 

च श्रवणावृत्ताविवाभिधानावृत्तिर्विद्यत एवेत्यर्थः ।। 4 ।।

2.3.5

परिहरति

2.3.5

प्रतिज्ञाहानिरव्यतिरेकात् ।। 5 ।।

2.3.5

 

छान्दोग्यश्रुत्यनुसारेणान्यासां वियदुत्पत्तिवादिनीनां श्रुतीनां गौणत्वं कल्पयितुं न युज्यते; यतः छान्दोग्य -श्रुत्यैव वियदुत्पत्तिरङ्गीकृता । "येनाश्रुतं श्रुत"मित्यादिना ब्रह्मज्ञानेन सर्वज्ञानप्रतिज्ञानात्, तस्या हि प्रतिज्ञाया अहानिराकाशस्यापि ब्रह्मकार्य्यत्वेन तदव्यतिरेकादेव भवति ।।

2.3.6

शब्देम्यः ।। 6 ।।

2.3.6

 

इतश्च वियदुतपत्तिश्छान्दोप्ये प्रतीयते "सदेव सोम्येदमग्र आसीदेकमेवाद्वितीय"मिति प्राक् सृष्टेरेकत्वावधारण-शब्दात् "ऐतदात्म्यमिदं सर्वं"मित्येवामादिशब्देभ्यश्च कार्य्यत्वेन ब्रह्मणोऽव्यतिरेकप्रतीतेः, न च "तत्तेजोऽसृ-

2.3.6

 

जत" इति तेजस उत्पत्तिश्रुतिर्वियदुत्पतिं्त वारयति, वियदुत्पत्त्यवचनमात्रेण तेजसः प्रतीयमानं प्राथम्यं श्रुत्य-न्तप्रतिपन्नां वियदुत्पतिं्त न निवारयितुमलम् ।। 6 ।।

2.3.7

यावद्विकारं तु विभागो लोकवत् ।। 7 ।।

2.3.7

 

तुशब्दश्चार्थे, "ऐतदात्म्यमिदं सर्व"मित्यादिभिराकाशस्य विकारत्ववचनेन तस्याकाशस्य ब्रह्मणोऽपि विभा-गः - उत्पत्तिरप्युक्तैव । लोकवत्, - यथा लोक एते सर्वे देवदत्तपुत्रा" इत्यभिधाय तेषु केपाञ्चित् तत उत्पत्ति वचनेन सर्वेषामुत्पत्तिरुक्ता स्यात् तद्वत्, एवं च सति "वायुश्चान्तरिक्षं चैतदमृत"मिति सुराणामिव चिरका-लस्थायित्वाभिप्रायम् ।। 7 ।।

2.3.8

एतेन मातरिश्वा व्याख्यातः ।। 8 ।।

2.3.8

 

अनेनैव हेतुना मातविश्वनो वायोरप्युत्पत्तिर्व्याख्याता, वियन्मातरिश्वनोः पृथग्योगकरणं "तेजोऽतस्तथा ह्याह" इति मातरिश्वनः परामर्शार्थम् ।। 8 ।।

2.3.9

असम्भवस्तु सतोऽनुपपत्तेः ।। 9 ।।

2.3.9

 

तुशब्दोऽवधारणार्थः, असम्भवः - अनुत्पत्तिः । सतः ब्रह्मण एव तद्वयतिरिक्तस्य कस्यचिदनुत्पत्तिर्न सम्भ-

2.3.9

 

वति - अनुपपत्तेः; एतदुक्तं भवति - वियन्मातरिश्वतोरुत्पत्तिप्रतिपादनमुदाहरणार्यम्, उत्पत्त्यसम्भवस्तु सतः परमकारस्य परस्यैव ब्रह्मणः तद्वयतिरिक्तस्य कृत्स्नस्याव्यक्तमहदहङ्कारतन्मात्रेन्द्रियवियत्पवनादिकस्य प्रप-ञ्चस्यैकविज्ञानेन सर्वविज्ञानप्रतिज्ञादिभिरवगतकार्य्यभावस्यानुत्पत्तिर्नोपपद्यत इति ।। 9 ।।

।। वियदधिकरणं समाप्तम् ।।

2.3.10

तेजोऽतस्तथा ह्याह ।। 10 ।।

2.3.10

 

ब्रह्मब्यतिरिक्तस्य कृत्स्नस्य ब्रह्मकार्य्यत्वमुक्तम्; इदानीं व्यवहितकार्य्याणां किं केवलात्तत्तदनन्तरकारणभूताद्वस्तुन उत्पत्तिः; अहोस्वित् तत्तद्रूपाद्व्रह्मण? इति चिन्त्यते । किं युक्तम्? केवला-

2.3.10

 

त्तत्तद्वस्तुन इति कुतः? तेजस्तावत् अतः - मातरिश्वन एवोत्पद्ये "वायोरग्निः" इति ह्याह ।। 10 ।।

2.3.11

आपः ।। 11 ।।

2.3.11

 

आपोऽपि अतः - तेजस एवोत्पद्यन्ते "अग्नेरापः" "तदपोऽसृजत" इत्याह ।। 11 ।।

2.3.12

पृथिवी ।। 12 ।।

2.3.12

 

पृथिवी अद्भय उत्पद्यते - "अद्भयः पृथिवी" "ता अन्नमसृजन्ते" इत्याह ।। 12 ।।

नन्वन्नशब्देन कथं पृथिव्यभिधीयते? अत आह -

2.3.13

अधिकाररूपशब्दान्तरेभ्यः ।। 13 ।।

2.3.13

 

महाभूतसृष्टयधिकारात्पृथिव्येवान्नशब्देनोक्तेति प्रतीयते । अदनीयस्य सर्वस्य पृथिवीविकारत्वात्कारणे कार्य्यशब्दः । तथा वाक्यशेषे भूतानां रूपसंशब्दने "यदग्नेरोहितं रूपं तेजस्तद्रूपं यच्छुक्लं तदपां यत् कृष्णं तदन्नस्य" इत्यप्तेजसोः सजातीयमेवान्नशब्दवाच्यं प्रतीयते । शब्दान्तरं च समानप्रकरणे "अग्नेरापः अभ्द्यः पृथिवी" इति श्रूयते । अतः पृथिव्येवान्नशब्देनाच्यत इत्यभ्द्य एव पृथिवी जायते । उदाहृताः तेजःप्रभृतयः प्रदर्शनार्थाः । महदादयोऽपि स्वानन्तरवस्तुन एवोत्पद्यन्ते; यथाश्रुत्यभ्युपगमाविरोधात्, "एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी" तस्मादेतद्व्रह्म नामरूपपन्नं च

2.3.13

 

जायते" "तस्माद्वा एतस्मादात्मनः आकाशः संभूतः" "तत्तेजाऽसृजत" इत्यादयो ब्रह्मणः परम्परया कार-णत्वेप्युपपद्यन्त इति । 13 ।।

2.3.14

एवं प्राप्ते प्रचक्ष्महे -

2.3.14

तदभिध्यानादेव तु तल्लिङ्गात्सः ।। 14 ।।

2.3.14

 

तुशब्दात् पक्षो व्यावृत्तः, महदादिकार्याणामपि तत्तदनन्तरवस्तुशरीरकः स एव पु#ुरुषोत्तमः कारणम्, कुतः? तदभिध्यानरूपात्तल्लिङ्गात्; अभिध्यानम् - बहु स्यामिति सङ्कल्पः "तत्तेज ऐक्षत बहु स्यां प्रजायेयेति, ता आप एक्षन्त वह्वयः स्याम प्रजायेमिह" इत्यात्मनो बहुभवनसङ्कल्परूपेक्षणश्रवणान्महदहङ्कारा-काशादीनामपि कारणानां तथाविधेक्षापूर्विकैव स्वकाय्यर्सृष्टिरिति गम्यते, तथाविधं चेक्षणं तत्तच्छरीरकस्य परस्यैव ब्रह्मण उपपद्यते । श्रूयते च सर्वशरीरकत्वेन सर्वात्मकत्वं परस्य ब्रह्मणोऽन्तर्याभिब्राह्मणे "यः पृथिव्यां तिष्ठन्, योऽप्सु तिष्ठन्, यस्तेजसि तिष्ठन् यो वायौ तिष्ठन्, य आकाशे तिष्ठन्" इत्यादि । सुवालोपनिपदि च "यस्य पृथिवी शरीर" मित्यारभ्य "यस्याहङ्कारः, शरीरं यस्य बुद्धिः शरीरं, यस्याव्यक्तं शरीर" मित्यादि ।। 14 ।।

2.3.15

"एतस्माज्जायते प्राणो मनःसर्वेन्द्रियाणि च" इत्यादिषु । यच्चोक्तम् - श्रूयमाणा ब्रह्मणः प्राणादिसृष्टिः परम्परयाऽप्युपपद्यत इति; अत्रोच्यते -

2.3.15

विपर्ययेण तु क्रमोऽत उपपद्यते च ।। 15 ।।

2.3.15

 

तुशब्दोऽवधारणार्थः । अव्यक्तमहदहङ्काराकाशादिक्रमाद्विपर्ययेण यः सर्वेषां कार्य्याणां ब्रह्मानन्तर्यरूपः क्रमः "एतस्माज्जायते प्राणः" इत्यादिषु प्रतीयते, स च क्रमस्तत्तद्रूपाद्व्रह्मणस्तत्तत्कार्य्योत्पत्तेरेवोपपद्यते । परम्परया

2.3.15

 

कारणत्वे ह्यानन्नतर्यश्रवणमुपरुध्येत । अतः "एतस्माज्जायते" इत्यादिकमपि सर्वस्य ब्रह्मणः साक्षात्सम्भ-वोत्तम्भनम् ।। 15 ।।

2.3.16

अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ।। 16 ।।

2.3.16

 

विज्ञानसाधनत्वादिन्द्रियाणि विज्ञानमित्युच्यन्ते; यदुक्तम् "एतस्माज्जायते" इत्यादिना सर्वस्य ब्रह्मणोऽ-नन्तरकार्य्यत्वं श्राव्यते; अतश्चानेन वाक्येन सर्वस्य साक्षाद्व्रह्मण उत्पत्तिरभिध्यानलिङ्गावगतोत्तभ्यत इति; तन्नोपपद्यते - क्रमविशेषपरत्वादस्य वाक्यस्य; अत्रापि सर्वेषां क्रमप्रतीतेः । स्वादिषु तावत् श्रुत्यन्तरसिद्धः क्रमोऽत्रापि प्रतीयते - तैः सह पाठलिङ्गाद्भूतप्राणयोरन्तराले विज्ञानमनसी अपि क्रमेणोत्पद्यत इति प्रती- यते । अतः सर्वस्य साक्षाद्व्रह्मण एव सम्भवस्योत्तम्भकमिदां वाक्यं न भवति इति चेत् तन्न, अविशेषात् "एतस्माज्जायते प्राणः" इत्यनेनाविशेषात् । विज्ञानमनसोः स्वादीनां च "एतस्माज्जायते" इत्यनेन साक्षात्सम्भवरूपसम्बनधस्याभिधेयस्य सर्वेषां प्राणादिपृथिव्यन्तानामविशिष्टत्वात्स एव विधेयः न क्रमः । श्रुत्यन्तरसिद्धक्रमविरोधाच्च नेदं क्रमपरम्, "पृथिव्यप्सु प्रलीयते"

इत्यारभ्य "तमः एकीभवति" इत्यन्तेन क्रमान्तरप्रतीतेः, अतोऽव्यक्तादिशरीरकात् परस्माद्व्रह्मण एव सर्वकार्याणामुत्पत्तिः । तेजःप्रभृतयश्च शब्दा-स्तदात्मभूतं ब्रह्मैवाभिदधति ।। 16 ।।

2.3.17

नन्वेवं सर्वशब्दानां ब्रह्मवाचित्वे सति तैस्तैश्शब्दैस्तत्तद्वस्तुव्यपदेशो व्युत्पत्तिसिद्ध उपरुध्येत; तत्राह-

2.3.17

चराचरव्यपाश्रयस्तु स्यात्तद्वयपदेशो भाक्तस्तद्भावभावित्वात् ।। 17 ।।

2.3.17

 

तुशब्दश्चोदितशङ्कानिवृत्त्यर्थः; निखिलजङ्गमस्थावरव्यपाश्रयस्तत्तच्छव्दव्यपदेशो भाक्तः - वाच्यैकदेशे भज्यत इत्यर्थः । समस्तवस्तुप्रकारिणो ब्रह्मणः प्रकारभूतवस्तुग्राहिप्रत्यक्षादिप्रमाणाविषयत्वाद्वेदान्त-श्रवणात्प्राक् प्रकार्य्यप्रतीतेः, प्रकारिप्रतीतिभावभावित्वाच्च तत्पर्य्यवसानस्य, लोके तत्तद्वस्तुमात्रे वाच्यैकदेशे ते ते शब्दा खखभङ्कत्वा भङ्कत्वाव्यपदिश्यन्ते । अथवा तेजःप्रभृतिभिः शब्दैस्तत्तद्वस्तुमात्र-वाचितया व्युत्पन्नैर्ब्रह्मणो व्यपदेशो भाक्तः स्यात् - अमुख्यः स्यादित्याशङ्कयचराचरव्यपाश्रयस्तु - इत्यच्यते । चराचरव्यपाश्रयः तद्वयपदेशः - तद्वाचिशब्दः, चराचरवाचिशब्दो ब्रह्मण्यभाक्तो मुख्य एव, कुतः ब्रह्मभावभावित्वात् सर्वशब्दानां वाचकभावस्य, नामरूपव्याकरणश्रुत्या हि तथाऽवगतम् ।। 17 ।। ।। तेजोधिकरणं समाप्तम् ।।

2.3.18

नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः ।। 18 ।।

2.3.18

 

वियदादेः कृत्स्नस्य परस्माद्व्रह्मण उत्पत्तिरुक्ता, इदानीं जीवस्याप्युपत्तिरस्ति नेति संशय्यते; किं युक्तमस्तति#ि, कुतः, एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्तेः, प्राक्सष्टेरेकत्वावधारणाच्च । विय-दादेरिव जीवस्याप्युत्पत्तिवादिन्यः श्रुतयश्च सन्ति-"यतः प्रसूता जगतः प्रसू#ूती तोयेन जीवान् व्यससर्ज भूम्याम्" "प्रजापतिः प्रजा असृजत" "सन्मूलाः सोभ्येमाः सर्वाः प्रजा सदायतना सत्प्रतिष्ठा" "यतो वा इमानि भृतानि जायन्त" इति । एवं सचेतनस्य जगत उत्पत्तिवचनाज्जीवस्याप्युत्पत्तिः प्रतीयते-न च वाच्यं ब्रह्मणो नित्यत्वात्तत्त्वमस्यादिभिश्च जीवस्य ब्रह्मत्वावगमात् जीवस्य नित्यत्वमिति "ऐतदात्म्यमिदं सर्वं" "सर्वं खल्विदं ब्रह्म" इत्येवगादिभिर्वियदादेरनि ब्रह्मत्वावगमात्तस्यापि नित्यत्वप्रसक्तेः । अतो जीवोऽपि वियदादिवदुत्पद्यत इत्येवं प्राप्तेऽभिधीयते-नात्मा श्रुतेरिति । नात्मोत्पद्यते; कुतः? श्रुतेः, "न जायते म्रियते वा विपश्चित्, ज्ञाज्ञौ द्वावजा"वित्यादिभिर्जीवस्योत्पत्तिप्रतिषेधो हि श्रुयते । आत्मनो नित्यत्वं च ताभ्यः श्रुतिभ्य एवावगम्यते "नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्" "अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे" इत्यादिभ्यः । अतश्च नात्मोत्पद्यते, कथं तर्हि एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपद्यते; इत्थमुपपद्यते- जीवस्यापि कार्य्यत्वात्कार्य्यकारणयोरनन्यत्वाच्च । एवं तर्हि वियदादिवदुत्पत्तिमत्त्वमङ्गीकृतं स्यात्; नेत्युच्यते-कार्य्यत्वं हि नामैकस्य द्रव्यस्यावस्थान्तरापत्तिः, तज्जीवस्याप्यस्त्येव । इयांस्तु विशेषः- वियदादेरचेतनस्य यादृशोऽन्यथाभावो न तादृशो जीवस्य, ज्ञानसङ्कोचविकासलक्षणो जीवस्यान्यथाभावः, वियदादेस्तु स्वरूपान्यथाभावलक्षणः । सेयं स्वरूपान्यथाभावलक्षणोत्पत्तिर्जीवे प्रतिषिध्यते ।

2.3.18

 

एतदुक्तं भवति-भोग्यभोक्तृनियन्तृन् विविक्तस्वभावान् प्रतिपाद्य भोग्यगतमुत्पत्त्यादिकं भोक्तरिप्रतिषिध्य तस्य नित्यतां च प्रतिपाद्य भोग्यगतमुत्पत्त्यादिकं भोक्तृगतं चापुरुषार्थाश्रयत्वं नियन्तरिप्रतिषिध्य तस्य नित्य-त्वं, निरवद्यत्वं, सर्वदा सर्वज्ञत्वं, सत्यसङ्कल्पत्वं,करणाधिपाधिपत्वं, विश्वस्यपतित्वं, च प्रतिपाद्य सर्वाव-स्थयोश्चिदचितोस्तं प्रतिशरीरत्वं तस्य चात्मत्वं प्रतिपादितम्, अतस्सर्वदाचिदचिद्वस्तुशरीरतया तत्प्रकारं ब्रह्म; कदाचित्स्वस्माद्विभक्तव्यपदेशानर्हतिसूक्ष्मदशापन्नचिदचिद्वस्तुशरीरं तिष्ठति, तत्कारणावस्थं ब्रह्म; कदाचिच्च विभक्तनामरूपस्थूलचिदद्विस्तु शरीरं, तच्च कार्य्यावस्थं, तत्र कारणावस्थस्य कार्यावस्थापत्तावचिदंशस्य कारणावस्थायां शब्दादिविहीनस्य भोग्यत्वाय शब्दादिमत्तयां स्वरूपान्यथाभावरूपविकारो भवति, चिदंशस्य च कर्मफलविशेषभोकतृत्वाय तदनुरूपज्ञानविकासरूप-विकारो भवति, उभयप्रकारविशिष्टे नियन्त्रंशे तदवस्थतदुभयविशिष्टतारूपविकारो भवति; कारणावस्थाया अवस्थान्तरापत्तिरूपो विकारः प्रका-रद्वये प्रकारिणि च समानः । अत एवैकस्यावस्थान्तरापत्तिरूप-विकारापेक्षया "येनाश्रुतं श्रुत"मित्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय मृदादिदृष्टान्तः "यथा सोम्यैकेन" इत्यादिना निदर्शितः । ईदृशज्ञानसङ्कोचविकासकरतत्तद्देहसम्बन्धवियोगाभिप्रायाः जीवस्योत्पत्तिमरण-वादिन्यः "प्रजापत्तिः प्रजा असृजत" इत्याद्याः श्रुतयः अचिदंशवत्स्वरूपान्यथात्वाभावाभिप्राया उत्पत्तिप्रतिषेधवादिन्यो नित्यत्ववादिन्यश्च "न जायते म्रियते" इत्याद्याः, "नित्यो नित्याना"मित्याद्याश्च श्रुतयः । स्वरूपान्यथात्वज्ञानसङ्कोचविकासरूपोभयविधानिष्टविकाराभावा-भिप्रायः, "स वा एव महानज आत्माऽजरोऽमरोऽमृतो ब्रह्म" "नित्यो नित्याना"मित्याद्याः परविषयाः श्रुतयः । एवं सर्वदा चिदचिद्वस्तु-विशिष्टस्य ब्रह्मणः प्राक्सृष्टेरेकत्वावधारणं च नामरूपविभागाभावादुप-

2.3.18

 

पद्यते । "तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां नानात्वैकत्वे वदति-इति । ये त्वविद्योपाधिकं जीवत्वं वद-न्ति, ये च पारमार्थिकोपाधिकृतम्, ये च सन्मात्र स्वरूपं ब्रह्म स्वयमेव भोक्तृभोग्यनियन्तृरूपेण त्रिधाऽव-स्थितं वदन्ति, सर्वेऽप्येते अविद्याशक्तेरुपाधिशक्तेर्भोक्तृभोग्यनियन्तृशक्तीनां च प्रलयकालेऽवस्थानेऽपि तदानीमेकत्वावधारणं नाम रूपविभागाभावादेवोपादयन्ति । "वैषम्यनैर्घृण्ये न सापेक्षत्वात् कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च" इति सूत्राभ्यां जीवभेदस्य तत्कर्मप्रवाहस्य चानादित्वाभ्युपगमाच्च । इयान् विशेषः- एकस्यानाद्यविद्या ब्रह्म स्वयमेव मुह्यति, अन्यस्य पारमार्थिकानाद्युपाधिना ब्रह्म स्वयमेव बध्यते, उपादिब्रह्मव्यतिरिक्तवस्त्वन्तराभावात् । अपरस्य ब्रह्मैव विचित्राकारेण परिणमते, कर्म-फलानि चानिष्टानि भुङ्क्ते; नियन्त्रशस्य भोक्तृत्वाभावेऽपि सर्वज्ञत्वात्स्वस्मादभिन्नं भोक्तारमनुसन्दधा- तीति स्वयमेव भुङ्क्ते; अस्माकं तु स्थूलसूक्ष्मावस्थचिदचिद्वस्तुशरीरं ब्रह्म कार्यकारणोमयावस्थावस्थित- मपि सर्वदा निरस्तनिरिखलदोषगन्धं सत्यसङ्कल्पत्वाद्यपरिमितोदारगुणसागरमवतिष्ठते । प्रकारभूतचिद-

2.3.19

ज्ञोऽत एव ।। 19 ।।

2.3.19

 

वियदादिवज्जीवो नोत्पद्यत इत्युक्तम्, तत्प्रसङ्गेन जीस्वरूपं निरूप्यते । किं सुगत-कपिलाभिमतचिन्मात्र-मेवात्मनः स्वरूपम्? उत कणभुगभिमतपाषाणकल्पस्वरूपमचित्स्वरूपमेवागन्तुक-

2.3.19

 

चैतन्यगुणकम्? । अत ज्ञातृत्वमेवास्य स्वरूपम्? इति, किं युक्तं चिन्मात्रमिति । कुतः, तथा श्रुतेः । अन्त-र्यामिब्राह्मणे हि "य आत्मनि तिष्ठ"न्निति माध्यन्दिनीयपर्यायस्य स्थाने "यो विज्ञाने तिष्ठ"न्निति काण्वा अधीयते तथा- "विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च" इति कर्तुरात्मनो विज्ञानमेव स्वरूपं श्रूयते । स्मृतिषु च ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः" इत्यादिष्वात्मनो ज्ञानस्वरूपत्वं प्रतीयते । अपरस्तु-जीवात्मनो ज्ञानत्वे ज्ञातृत्वे च स्वाभाविकेऽभ्युपगम्यमाने तस्य सर्वगतस्य सर्वदा सर्वत्रोपलब्धिप्रसङ्गात्, करणानां च वैयर्थ्यात्, सुषुप्तिमूर्च्छादिषु सतोऽप्यात्मनश्चैतन्यानुपलब्धेर्जाग्रतस्सामग्रयां सत्यां ज्ञानोत्पत्तिदर्शनादस्य न ज्ञानस्वरूपम्; नापि ज्ञातृत्वम्, आगन्तुकमेव चैतन्यं, सर्वगतत्वं चात्मनोऽवश्याभ्युपेत्यम्, सवर्त्र कार्य्यो-पलब्धेः सर्वत्रात्मनः सन्निधानाभ्युपगमाच्छरीरगमनेनैव कार्य्यसम्भवे सति गतिकल्पनायां प्रमाणाभावाच्च । श्रुतिरपि सुषुप्तिवेलायां ज्ञानाभावं दर्शयति "नाहं खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एव

2.3.19

 

इमानि भूतानि" इति । तथा मोक्षदशायां ज्ञानाभावं दर्शयति "न प्रेत्य सञ्ज्ञास्ति" इति; ज्ञानस्वरूपमित्या-दिप्रयोगस्तु ज्ञानस्य तदसाधारणगुणत्वेन लाक्षणिक इति- एवं प्राप्ते प्रचक्ष्महे- ज्ञोऽत एव । ज्ञ एव- अयमात्माज्ञातृत्वस्वरूप एव, न ज्ञानमात्रम्, नापि जडस्वरूपः, कुतः? अत एव नुतेरेवेत्यर्थः । नात्मा श्रुते"रिति प्रकृता श्रुतिः- अतश्शब्देन परामृश्यते । तथा छान्दोग्ये प्रजापतिवाक्ये मुक्तामुक्तात्मस्वरूपकथने "अथ यो वेदेदं जिघ्राणीति स आत्मा" "मनसैवैतान्कामान्पश्यन् रमते य एते ब्रह्मलोके" "सत्यकामः सत्यसङ्कल्पः" "नोपजनं स्मरन्निदं शरीरम्" अन्यत्रापि "न पश्यो मृत्युं पश्यति" तथा वाजसनेयके "कतम आत्मा" इति पृष्टवा "योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः" इति; "तथा विज्ञातारमरे केन विजानीयात्" "जानात्येवायं पुरुषः" तथा "एष हि द्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्त्ता विज्ञानात्मा पुरुषः" "एवमेवास्य परिद्रष्टुरिमाः षोडशकला" इति ।। 19 ।।

2.3.20

यत्तूक्तं ज्ञातृत्वे स्वाभाविके सति सर्वगतस्य तस्य सर्वदा सर्वत्रोपलब्धिः प्रसज्येत इति; तत्रोच्यते-

2.3.20

उत्क्रान्तिगत्यागतीनाम् ।। 20 ।।

2.3.20

 

नायं सर्वगतः, अपि त्वणुरेवायमात्मा; कुतः? उत्क्रान्तिगत्यागति#ीनां श्रुतेः । उत्क्रान्तिस्तावच्छÜयते "तेन

2.3.20

 

प्रद्योतेनैष आत्मानिष्क्रामति चक्षुषो वा मूर्ध्नो वा अन्येभ्यो वा शरीरदेशेभ्यः" इति । गतिरपि "ये वै केचास्मा-ल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति" इति । आगतिरपि "तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मणे" इति । विभुत्वे ह्येता उत्क्रान्त्यादयो नोपपद्येरन् ।। 20 ।।

2.3.21

स्वात्मना चोत्तरयोः ।। 21 ।।

2.3.21

 

च शब्दोऽवधारणे । यद्यपि शरीरवियोगरूपत्वेन उत्क्रान्तिः स्थिरस्यात्मनः कथञ्चिदुपपद्यते; गत्यागती तु न कथञ्चिदुपपद्येते । अतस्ते स्वात्मनैव सम्पाद्ये ।। 21 ।।

2.3.22

नाणुरतच्छØतेरिति चेन्नेतराधिकारात् ।। 22 ।।

2.3.22

 

"योऽयं विज्ञानमयः प्राणेषु" इति जीवं प्रस्तुत्य "स वा एव महानज आत्मा" इति महत्वश्रुतेर्नाणुर्जीव इति चेन्नेतराधिकाराज्जीवादितरस्य प्राज्ञस्य तत्राधिकारात्, यद्यप्युपक्रमे जीवः प्रस्तुतः तथाऽपि यस्यानुवित्तः प्रतिबुद्ध आत्मेति मध्ये परः प्रतिपाद्यते इति तत्सम्बन्धीदं महत्त्वम्, न जीवस्य ।। 22 ।।

2.3.23

स्वशब्दोन्मानाभ्यां च ।। 23 ।।

2.3.23

 

साक्षादणुशब्द एव श्रूयते "एषोऽणुरात्मा चेतसा वेदिव्तयो यस्मिन्प्राणः पञ्चधा संविवेश" इति । उद्धृत्य मानम्-उन्मानम्, अणुसदृशं वस्तूद्धृत्य तन्मानत्वं जीवस्य श्रुयते "बालाग्रशतभागस्य शतधा कल्पितस्य च भागो जीवः स विज्ञेयः" इति । "आराग्रमात्रो ह्यवरोऽपि दृष्ट" इति च, अतोऽणुरेवायमात्मा ।। 23 ।।

2.3.24

 

अथ स्यादात्मनोऽणुत्वे सकलशरीरव्यापिनी वेदना नोपपद्यत इति, तत्र मतान्तरेण परिहारमाह -

2.3.24

अविरोधश्चन्दनवत् ।। 24 ।।

2.3.24

 

यथा हरिचन्दनविन्दुर्देहैकदेशवर्त्यपि सकलदेहव्यापिनमाह्लादं जनयति, तद्वदात्माऽपि देहैकदेशवर्त्तीसकल-देशवर्तिर्नी वेदनामनुभवति ।। 24 ।।

2.3.25

अवस्थितिवैशेष्यादिति चेन्नाऽभ्युपगमाद्धृदि हि ।। 25 ।।

2.3.25

 

हरिचन्दनविन्द्वादेर्द्देहदेशविशेषावस्थितिविशेषात् तथा भावः, आत्मनस्तु तन्न विद्यत इति चेत्-न, आत्म-नोऽपि देहदेशविशेषे स्थित्यभ्युपगमात् हृदयदेश ह्यात्मनः स्थितिः श्रूयते "हृदि ह्ययमात्मा तत्रैकशतं नाडी-ना"मिति । तथा "कतम आत्मा" इति प्रकृत्य "योऽयं विज्ञानमयः प्राणेषु हृद्यन्तज्र्योतिः" इति, आत्मनो देश-विशेषस्थितिख्यापनाय चन्दनदृष्टान्तः प्रदर्शितः । न तु चन्दनस्य देशविशेषापेक्षा ।। 25 ।।

2.3.26

एकदेशवर्त्तिनः सकलदेहव्यापिकार्य्यकरत्वप्रकारं स्वमतेनाह -

2.3.26

गुणाद्वाऽऽलोकवत् ।। 26 ।।

2.3.26

 

वाशब्दो मतान्तरव्यावृत्त्यर्थः, आत्मा स्वगुणेन ज्ञानेन सकलदेहं व्याप्यावस्थितः, आलोकवत्; यता मणि-द्युमणिप्रभृतीनामेकदेशवर्त्तिनामालोकोऽनेकदेशव्यापी दृश्यते तद्वद्धृदयस्थस्यात्मनो ज्ञानं सकलदेहं व्याप्य वर्त्ततेः ज्ञातुः प्रभास्थानीयस्य ज्ञानस्य स्वाश्रयादन्यत्र वृत्तिर्मणिप्रभावदुपपद्यते- इति प्रथमसूत्रे स्थापितम् ।। 26 ।।

2.3.27

 

ननूक्तं ज्ञानमात्रमेवात्मेति तत्कथं ज्ञानस्य स्वरूपव्यतिरिक्तगुणत्वमुच्यते; तत्राह -

2.3.27

व्यतिरेको गन्धवत्तथा च दर्शयति ।। 27 ।।

2.3.27

 

यथा पृथिव्या गन्धस्य गुणत्वेनोपलभ्यमानस्य ततो व्यतिरेकः, तथा जानामीति ज्ञातुर्गुणत्वेन प्रतीयमानस्य ज्ञानस्यात्मनो व्यतिरेकः सिद्धः; दर्शयति च नुतिः "जानात्येवायं पुरुषः" इति ।। 27 ।।

2.3.28

पृथगुपदेशात् ।। 28 ।।

2.3.28

 

स्वशब्देनैव विज्ञानं विज्ञातुः पृथगुपदिश्यते "न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते" इति ।। 28 ।।

2.3.29

यत्तूक्तं "यो विज्ञाने तिष्ठन्, विज्ञानं यज्ञं तनुते, ज्ञानस्वरूपमत्यन्तनिर्मलम्" इत्यादिषु ज्ञानमेवात्मेति व्यप-दिश्यत इति; तत्राह-

2.3.29

तद्गुणसारत्वात्तु तद्वयपदेशः प्राज्ञवत् ।। 29 ।।

2.3.29

 

तु शब्दश्चोद्यं व्यावर्तयति । तद्गुणसारत्वात् विज्ञानगुणसारत्वादात्मनो विमानमिति व्यपदेशः, विज्ञानमेवास्य सारभूतो गुणः, यथा प्राज्ञस्यानन्दः सारभूतोगुण इति प्राज्ञ आनन्दशब्देन व्यपदिश्यते "यदेष आकाश आनन्दो न स्यात्, आनन्दो ब्रह्मेति व्यजाना"दिति प्राज्ञस्य ह्यानन्दस्सारभूतो गुणः "स एको ब्रह्मण आनन्दः, आनन्दं ब्रह्मणो विद्वान्न विभेति कुतश्चने"ति, यथा वा "सत्यं ज्ञानमनन्तं ब्रह्मे"ति विपश्चितः प्राज्ञस्य ज्ञानशब्देन व्यप-देशः "सह ब्रह्मणा विपश्चिता, यस्सर्वज्ञ" इत्यादिषु प्राज्ञस्य ज्ञानं सारभूतो गुण इति विज्ञायते ।। 29 ।।

2.3.30

यावदात्मभावित्वाच्च न दोषतद्दर्शनात् ।। 30 ।।

2.3.30

 

विज्ञानस्य यावदात्मभाविधर्मत्वात् तेन तद्वयपदेशो न दोषः । तथा च खण्डादयो यावत्स्वरूपभाविगोत्वा-दिधर्मशब्देन गौरिति व्यपदिश्यमाना दृश्यन्ते-स्वरूप

निरूपणधर्मत्वादित्यर्थः । चकारात् ज्ञानवदात्मनोऽपि स्वप्रकाशत्वेन विज्ञानमिति व्यपदेशे न दोष इति समुच्चिनोति ।।

2.3.31

यच्चोक्तं सुषुप्त्यादिषु ज्ञानाभावात् ज्ञानस्य न स्वरूपानुबन्धिधर्मत्वमिति, तत्राह -

2.3.31 पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् । 31।

2.3.31

तुशब्दश्चोदिताशङ्कानिवृत्त्यर्थः । अस्य ज्ञानस्य सुषुप्त्यादिष्वपि विद्यमानस्य जागर्यादिष्वभिव्यक्तेस्सम्भवात्, स्वरूपानुबन्धिधर्मत्वोपपत्तिः (पुंस्त्वादिवत्) । यथा पुंस्त्वाद्यसाधारणस्य धातोर्बाल्यावस्थायां सतोऽप्यनभिव्यक्तस्य युवत्वेऽभिव्यक्तौ पुंसस्तद्वत्ता न कादाचित्की भवति । सप्तधातुमयत्वं हि शरीरस्य स्वरूपानुबन्धि । । तत्सप्तधातु त्रिमलं द्वियोनि चतुर्विधाहारमयं शरीरम् इति शरीरस्वरूपव्यपदेशात् । सुषुप्त्यादिष्वप्यहमर्थः प्रकाशत इति प्रागेवोक्तम् । तस्य विद्यमानस्य ज्ञानस्य विषयगोचरत्वं जागर्यादावुपलभ्यते । एते चात्मनो ज्ञातृत्वादयो धर्माः प्रागेवोपपादिताः । अतो ज्ञातृत्वमेव जीवात्मनः स्वरूपम् । स चायमात्माऽणुपरिमाणः । । न प्रेत्य संज्ञास्तीत्यपि न मुक्तस्य ज्ञानाभाव उच्यते, अपि तु । एतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यतीति संसारदशायां यद्भूतानुविधायिप्रयुक्तं जन्मनाशादिदर्शनं तन्मुक्तस्य न विद्यते, । न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् । सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वशः ।, । नोपजनं स्मरन्निदं शरीरम्, । मनसैतान् कामान् पश्यन्रमते इत्यादिश्रुत्यैकार्थ्यात् ।

2.3.32

संप्रति ज्ञानात्मवादे तस्य सर्वगतत्वे दूषणमाह -

2.3.32 नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा ।32।

2.3.32

अन्यथा सर्वगतत्वपक्षे तस्य ज्ञानमात्रत्वपक्षे च नित्यमुपलब्ध्यनुपलब्धी सहैव प्रसज्येयाताम्; अन्यतरनि-

2.3.32

 

यमो वा-उपलब्धिरेव वा नित्यं स्यात्, अदनुपलब्धिरेव वा; एतदुक्तं भवति-लोके तावद्वर्तमानयोरात्मोप-लब्ध्यनुपलब्ध्योरयं ज्ञानात्मा सर्वगतो हेतुः स्यात्; उपलब्धेरेव वा- अनुपलब्धेरेव वा; उभयहेतुत्वे सर्वदा-सर्वत्रोभयं प्रसज्येत यद्युपलब्धेरेव, सर्वस्य सर्वदा सर्वत्रानुपलभ्भो न स्यात्, अथानुपलब्धेरेव सर्वदा सर्व-त्रोपलब्धिर्न स्यात्- इति । अस्माकं शरीरस्यान्तरेवावस्थितत्वादात्मनस्तत्रैवोपलब्धिर्नान्यत्रेति व्यवस्था- सिद्धिः । करणायत्तोपलब्धेरपि सर्वेषामात्मनां सर्वगतत्वेन सर्वैः करणै सर्वदा संयुक्तत्वाददृष्टादेरप्यनियमा-दुक्तदोषः समानः ।। 32 ।। ।। ज्ञाधिकरणं समाप्तम् ।।

2.3.33

कर्त्ता शास्त्रार्थवत्त्वात् ।। 33 ।।

2.3.33

 

अयमात्मा ज्ञाता स चाणुपरिमाण इत्युक्तम्, इदानीं किं स एव कर्त्ताः उत स्वय-मकर्तैव सन्नचेतनानां गुणानां कर्तृत्वमात्मन्यध्यस्यतीति चिन्त्यते । किमत्र युक्तम् अकर्तैवात्मेति, कुतः? आत्मनो ह्यकर्तृत्वं गुणानामेव च कर्तृत्वमध्यात्मशास्त्रेषु श्रूयते । तथा हि कठवल्लीषु जीवस्य "न जा- यते म्रियते" इत्यादिना जन्मजरामरणादिकं सर्वं प्रकृतिधर्मं प्रतिषिध्य हननादिषु क्रियासु कर्तृत्वमपि प्रतिषि-ध्यते "हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते" इति । हन्ता-रमात्मानं जानन्न जानात्यात्मानमित्यर्थः । तथा च भगवता स्वयमेव जीवस्याकर्तृत्वं स्वरूपं; कर्तृत्वाभि-

2.3.33

 

मानस्तुरव्यामाह इत्युच्यते- "प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्त्ताऽहमिति मन्यते ।। नान्यं गुणेभ्यः कर्त्तारं यदा द्रष्टाऽनुपश्यति । कार्य्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।। पुरुषः सुख-दुःखानां भोक्तृत्वे हेतुरुच्यते" इति च । अतःपुरुषस्य भोक्तृत्वमेव प्रकृतेरेव तु कर्तृत्वम्-इति ।। एवं प्राप्ते प्रचक्ष्महे-कत्र्ता शास्त्रार्थवत्वात्-इति । आत्मैव कर्त्ता । न गुणाः, कस्मात्? शास्त्रार्थवत्त्वात्; शास्त्राणि हि "यजेत स्वर्गकाम" मुमुक्षुबर्रह्मोपासीत" इत्येवमादीनि स्वर्गमोक्षादिफलस्य भोक्तारमेव कर्तृत्वे नियुञ्जते, न ह्यचेतनस्य कर्तृत्वेऽन्यो नियुज्यते । शासनाच्च शास्त्रम्, शासनं च प्रवर्तनं; शास्त्रस्य च प्रवर्तकत्वं बोध-जननद्वारेण, अचेतनं च प्रधानं न बोधयितुं शक्यम् । अतः शास्त्रफलं प्रयोक्तरि" सति । यदुक्तं "हन्ता चेन्मन्यते" इत्यादिना हननक्रियायामकर्तृत्वमात्मनः श्रूयत इति; तदात्मनो नित्यत्वेन हन्तव्यत्वा भावादुच्यते यच्च "प्रकृतेः क्रियमाणा"नीत्यादिना गुणानामेव कर्तृत्वं स्मथ्यत इति; तत्सासारिकप्रवृत्तिष्वस्यं कर्तृता सत्त्वरजस्तमोगुणसंसर्गकृता; न स्वरूपप्रयुक्तेति प्राप्ताप्राप्तविवेकेन गुणानामेव कर्तृत्वमित्युच्यते । तथा च तत्रैवोच्यते "कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु" सति । तथा तत्रैवात्मनश्च कर्तृत्वमभ्युपेत्योच्यते "तत्रैवं सति कर्त्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः" इति । "अधिष्ठानं तथा कर्त्ता करणं च पृथग्विधम् । विविधाच पृथक् चेष्टा दैवं चैवात्र पञ्चमम्" इत्यधिष्ठानादिदैवपर्य्यन्तसापेक्षे सत्या-त्मनः कर्तृत्वे य आत्मानमेव केवलङ्कर्त्तारं मन्यते, न स पश्यतीत्यर्थः ।। 33 ।।

2.3.34

उपादानाद्विहारोपदेशाच्च ।। 34 ।।

2.3.34

 

"स यथा महाराज" इति प्रकृत्य "एवमेवैष एतान्प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते" इति प्राणा-नामुपादाने विहारे च कर्तृत्वमुपदिश्यते ।। 34 ।।

2.3.35

व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ।। 35 ।।

2.3.35

 

"विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च" इति लौकिकवैदिकक्रियासु कर्तृत्वव्यपदेशाच्च कर्त्ता । विज्ञानशब्देन नात्मनो व्यपदेशः, अपि त्वन्तःकरणस्य बुद्धेरिति चेत्,- एवं सति निर्देशविपर्ययः स्यात्-बुद्धेः करणत्वाद्विज्ञानेनेति करणविभक्तिनिर्देशः स्यात् ।। 35 ।।

2.3.36

उपलब्धिवदनियमः ।। 36 ।।

2.3.36

 

आत्मनोऽकर्तृत्वे दोष उच्यते । यथाऽऽत्मनो विभुत्वे नित्योपलब्ध्यनुपलब्धिप्रसङ्ग इत्यादिनोपलब्धेरनियम उक्तः; तद्वदात्मनोऽकर्तृत्वं प्रकृतेश्च कर्तृत्वे तस्याः सर्वपुरुषसाधारणत्वात्सर्वाणि कर्माणि सवोषां भोगाय स्युः, नैव वा कस्यचित् । आत्मनां विभुत्वाभ्युपगमात्सन्निधानमपि सर्वोषामविशिष्टम्,अत एव चान्तः-करणादीनामपि नियमो नोपपद्यते; यदायत्ता व्यवस्था स्यात् ।। 36 ।।

2.3.37

शक्तिविपर्ययात् ।। 37 ।।

2.3.37

 

बुद्धेः कर्तृत्वे कर्त्तुरन्यस्य भोक्तृत्वानुपपत्तेर्भोक्तृत्वशक्तिरपि तस्य एव स्यादित्यात्मनो भोक्तृत्वशक्तिर्हीयेत । भोक्तृत्वं च बुद्धेरेव सम्पद्यत इत्यात्मसद्भावे प्रमाणाभावश्च स्यात् । "पुरुषोऽस्ति भोक्तृभावात्" इति हि तेषा- मभ्युपगमः ।। 37 ।।

2.3.38

समाध्यभावाच्च ।। 38 ।।

2.3.38

 

बुद्धेः कर्तृत्वे मोक्षसाधनभूतसमाधावपि सैव कर्त्री स्यात् । स च समाधिः प्रकृतेरन्योऽस्मीत्येवंरूपः, न च प्रकृतेरन्योऽस्मीति प्रकृतिः समाधातुमलम् ।। अतोऽप्यात्मैव कर्त्ता ।। 38 ।।

नन्वात्मनः कर्तृत्वेऽभ्युगम्यमाने सर्वदा कर्तृत्वं नोपरमेतेत्यत्राह -

2.3.39

यथा च तक्षोभयथा ।। 39 ।।

2.3.39

 

वागादिकरणसम्पन्नोऽप्यात्मा यदेच्छति, तदा करोति, यदा तु नेच्छति, तदा न करोति; यथा तक्षा वास्यादकरणमात्रधानेऽपीच्छानुगुण्येन करोति, न करोति च । बुद्धि#ेम्त्वचेतनायाः कर्तृत्वे तस्याः भोगवाञ्छादिनियमकारणाभावात् सर्वदा कर्तृत्वमेव स्यात् ।। 39 ।। ।। कत्र्त्रधिकरणं समाप्तम् ।।

2.3.40

परात्तु तच्छØतेः ।। 40 ।।

2.3.40

 

इदं जीवस्य कर्तृत्वं किं स्वातन्त्र्#ेण? उत परमात्मायत्तम्? इति । किं प्राप्तं? स्वातन्त्र्#ेणेति । परमात्मायत्तत्वे हि विधिनिषेधशास्त्रानर्थक्यं प्रसज्येत । यो हि स्वबुद्धया प्रवृत्तिनिवृत्त्यारम्भशक्तः; स एव नियोज्यो भवति । अतः स्वातन्त्र्#ेणास्य कर्तृत्वम्-इति प्राप्तेऽभिधीयते-परात्तु तच्छÜतेः-इति । तु शब्दः पक्षं व्यावर्तयति; तत्-कर्तृत्वम् अस्य जीवस्य परात्- परमात्मन एव हेतोर्भवति, कुतः श्रुतेः "अन्तः-प्रविष्टः शास्ता जनानां सर्वात्मा, य आत्मनि निष्ठन्नात्मनोऽन्तरो यमयति यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृत" इति । स्मृतिरपि "सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च" "ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन! तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया" इति ।। 40 ।।

2.3.41

नन्वेवं विधिनिषेधशास्त्रानर्थक्यं प्रसज्येतेत्युक्तं, तत्राह -

2.3.41

कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धा वैयर्थ्यादिभ्यः ।। 41 ।।

2.3.41

 

सर्वासु क्रियासु पुरुषेण कृतं प्रयत्नमुद्योगमपेक्ष्यान्तर्यामी परमात्मा तदनुमतिदानेन प्रवर्तयति; परमात्मा-

2.3.41

 

नुमतिमन्तरेणास्य प्रवृत्तिर्नोपपद्यते-इत्यर्थः । कुत एतत्? विहितप्रतिषिद्धावैयर्थ्यादिभ्यः, आदिशब्देनानु-ग्रहनिग्रहादयो गृह्यन्ते । यथा द्वयोः साधारणे धने परस्वत्वापादनमन्यतरानुमतिमन्तरेण नोपपद्यते, अथा-ऽपीतरानुमितिः स्वेनैव कृतेति तत्फलं तस्यैव भवति; पापकर्म्मसु निवर्तनशक्तस्याप्यनुमन्तृत्वं न निर्दयत्व-मावहतीति साङ्खयसमवनिरूपणे प्रतिपादितम् । नन्वेवम् "एष ह्येव साधु कम्मर् कारयति तं यमेभ्या लोकेभ्य उन्निनीषति एष एवासाधु कमर् कारयति तं यमधो निनीषति" इत्युन्निनीषयाऽधोनिनीषया च स्वयमेव साध्वसाधुनी कर्मणी कारयत्येतन्नोपपद्यते । उच्यते-एतन्न सर्वसाधारणं, यस्त्वतिमात्रपरम-पुरुषानुकूल्ये व्यवस्थितः प्रवर्त्तते, तमनुगृह्णन् भगवान्स्वयमेव स्वप्राप्त्युपायेष्वतिकल्याणेषु कर्मस्वेव रुचिं जनयति, यश्चातिमात्रप्रातिकूल्ये व्यवस्थितः प्रवर्त्तते; तं निगृह्णन्स्वप्राप्तिविरोधिष्वधोगतिसाधनेषु कर्मसु रुचिं जनयति । यथोक्तं भगवता स्वयमेव "अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्त्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः" इत्यारभ्य "तेषां सततयुक्तानां भजतां प्रतीतिपूर्वकम् । ददामि बुद्धियोगन्तं येन मामुपयान्ति ते ।।

2.3.41

 

तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्म भावस्थो ज्ञानदीपेन भास्वता" इति; तथा "असत्यमप्र-तिष्ठं ते जगदारहुनीश्वरम्" इत्यादि, "मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः" इत्यन्तमुकत्वा "तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । क्षिपाम्यजस्त्रमशुभानासुरीष्वेव योनिषु" इत्युक्तम् ।। 41 ।। । इति परायत्ताधिकरणम् ।

2.3.42

अशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ।। 42 ।।

2.3.42

 

जीवस्य कर्तृत्वं परमपुरुषायत्तमित्युक्तम्; इदानीं किमयं जीवः परस्मादत्यन्तभिन्नः? उत परमेव ब्रह्म भ्रान्तम्? उत ब्रह्मैवोपाध्यवच्छिन्नम? अथ ब्रह्मांश? इति संशय्यते । श्रुतिविप्रतिपत्तेः संशयः । ननु "तदनन्यत्वमारम्भणशब्दादिभ्यः" "अधिकं तु भेदनिर्द्देशा"दित्यत्रैवायमर्थो निर्णीतः । सत्यम्, स एव नानात्वैकत्वश्रुतिविप्रतिपत्त्याऽऽक्षिप्य जीवस्य ब्रह्मांशत्वोपपादनेन विशेषता निर्णीयते । यावद्धि जीवस्य ब्रह्मांशत्वं न निर्णीतं, तावज्जीवस्य ब्रह्मणोऽनन्यत्वं ब्रह्मणस्तस्मादधिकत्वं च न प्रतितिष्ठति । किं तावत्प्राप्तम्? अत्यन्तभिन्न इति; कुतः, "ज्ञाज्ञौ द्वावजावीशनीशा"वित्यादिना भेदनिर्द्देशात् । ज्ञाज्ञयोरभेद श्रुतयस्तु "अग्निना सिञ्चे"दितिवद्विरुद्धार्थप्रतिपादनादौपचारिक्यः । ब्रह्मर्णोऽशो जीवस्य ब्रह्मैकदेशत्वे तद्गता दोषा ब्रह्मणि भवेयुः । न च ब्रह्मखण्डो जीव इत्यशत्वोपपत्तिः, खण्डनानर्हत्वद्व्रह्मण।, प्रागुक्तदोषप्रसङ्गाच्च । तस्मादत्यन्तभिन्नस्य च तदंशत्वं दुरुपपादम्, यद्वा भ्रान्तं ब्रह्मैव जीवः, कुतः "तत्त्वमसि, अयमात्मा ब्रह्म"-

2.3.42

 

इत्यादिब्रह्मात्मभावोपदेशात् । नानात्ववादिन्यस्तु प्रत्यक्षादिसिद्दार्थानुवादित्वादनन्यथासिद्धाद्वैतोपदेशप- राभिः श्रुतिभिः प्रत्यक्षादय इवाविद्यान्तर्गताः ख्याष्यन्ते । अथवा ब्रह्मैवानाद्युपाध्यवच्छिन्नं जीवः । कुतः, तत एव ब्रह्मात्म भावोपदेशात् । न चायमुपाधिर्भ्रान्तिपरिकल्पित इति वक्तुं शक्यम्, बन्धमोक्षादिव्यवस्था

नुपपत्तेरिति । एवं प्राप्तेऽभिधीयते ब्रह्मांश इति कुतः? नानाव्यपदेशात्, अन्यथा च-एकत्वेन व्यपदेशात् । उभयथा हि व्यपदेशो दृश्यते । नानात्वव्यपदेशस्तावत्स्त्रष्ट्टत्वसृज्यत्वनियन्तृत्वनियाम्यत्वसर्वज्ञत्वाज्ञत्व-स्वाधीनत्वपराधीनत्वशुद्धत्वाशुद्धत्वकल्याणगुणाकरत्वतद्विपरीतत्वपतित्वशेषत्वादिभिर्दृश्यते । अन्यथा चाभेदेन व्यपदेशोऽपि "तत्त्वमसि, अयमात्मा ब्रह्म"इत्यादिभिर्दृश्यते । अपि दाशकितवादित्वमधीयत एके "ब्रह्मदाशाब्रह्मदासा ब्रह्मेमे कितवाः" इत्याथवर्णिका ब्रह्मणो दाशकितवादित्वमप्यधीयते । ततश्च सर्वजी-वव्यापित्वेनाभेदो व्यपदिश्यत इत्यर्थः । एवमुभयव्यपदेशमुख्यत्वसिद्धये जीवोऽयं ब्रर्ह्मेऽश इत्यभ्युपगन्त- व्यः । न च भेदव्यपदेशानां प्रत्यक्षादिप्रसिद्धार्थत्वेनान्यथासिद्धत्वं, ब्रह्मसृज्यत्वतन्नियाम्यत्वतच्छरीरत्व-तच्छेपत्वतदाधारत्वतत्पाल्यत्वतत्संहार्य्यत्वतदुपासकत्वतत्प्रसादलभ्यधर्मार्थकाममोक्षरूपपुरुषार्थभाकत्वादयः तत्कृतश्च जीवब्रह्मबणोर्भेदः प्रत्यक्षाद्यगोचरत्वोनान्यथासिद्धः, अतो न जगत्सृष्टयादिवादिनीनां प्रमा-णान्तरसिद्धभेदानुवादेन मिथ्यार्थोपदेशपरत्वम् । न चाखण्डैकरसचिन्मात्रस्वरूपेण ब्रह्मणाऽऽत्मनोऽत-द्भावानुन्धानं, बहुभवनसङ्कल्पपूर्वकवियदादिसृष्टिं, जीवभावेन तत्प्रवेशं, विचित्रनामरूपव्याकरणं, तत्कृ-तानन्तविषयानुभवनिमित्तसुखदुःखभागित्वं, भोक्तृत्वेन तत्र स्थित्वा तन्नियमनेनान्तर्यामित्वं, जीवभूत- स्य स्वस्य कारणब्रह्मात्म भावानुसन्धानं, संसारमोक्षं, तदुपदेशशास्त्रं च कुर्वाणेन भ्रमितव्यमित्युपदिश्यते, तथा सति उन्मत्तप्रलपितत्वापातात् ।। उपाध्यवच्छिन्नं ब्रह्म जीव इत्यपि न साधीयः, पूर्वनिर्दिष्टनियाम्य-

2.3.42

 

त्वादिव्यपदेशवाधादेव । न हि देवदत्तादेरेकस्यैव गृहाद्युपाधिभेदान्नियन्तृनियाम्यभावादिसिद्धिः । अत उभ-यव्यपदेशोपपत्तये जीवोऽयं ब्रह्मर्णोऽश इत्युभ्युपेत्यम् ।। 42 ।।

2.3.43

मन्त्रवर्णात् ।। 43 ।।

2.3.43

 

"पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि" इति मन्त्रवर्णाच्च ब्रह्मांशो जीवः । अंशवाची हि पादशब्दः । "विश्वाभूतानि" इति जीवानां बहुत्वाद्वहुवचनं मन्त्रे, सूत्रेऽप्यंश इत्येकवचनं जात्यभिप्रायम् । "नात्मा श्रुते"-रित्यत्राप्येकवचनं जात्यभिप्रायम् "नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्" इत्यादिश्रुति- भ्य ईश्वराद्भेदस्यात्मनां बहुत्वनित्यत्वयोश्चाभिधीयमानत्वात् । एवं नित्यानामात्मनां बहुत्वे प्रामाणिके सति ज्ञानस्वरूपत्वेन सर्वेषाभेकरूपत्वेऽपि भेदकाकार आत्मयाथात्म्यवेदनक्षमैरवगम्येत । "असन्ततेश्चाव्यतिकर" इत्यनन्तरमेव च आत्मबहुत्वं वक्ष्यति ।। 43 ।।

2.3.44

अपि स्मर्यते ।। 44 ।।

2.3.44

 

ममैवांशो जीवलोके जीवभूतः सनातन" इति जीवस्य पुरुषोत्तमाठात्वं स्मर्थ्यते, अतश्चायमंशः ।। 44 ।।

2.3.45

 

अंशत्वेऽपि जीवस्य ब्रह्मैकदेशत्वेन जीवगता दोषा ब्रह्मण एवेत्याशङ्कयाह -

2.3.45

प्रकाशादिवत्तु नैवं परः ।। 45 ।।

2.3.45

 

तु शब्दश्चोद्यं व्यावर्तयति; प्रकाशादिवज्जीवः परमात्मर्नोऽशः, यथाऽग्न्यादित्यादेर्भास्वतो भोरूपः प्रकार्शो- ऽशो भवति, यता गवाश्वशुक्लकृष्णादीनां गोत्वादिविशिष्टनां वस्तूनां गोत्वादीनि विशेषणान्यंशाः, यथा वा देहिनो देवमनुष्यादेर्देर्होऽशः, तद्वत् । एकवस्त्वेकदेशत्वं ह्यंशत्वम्, विशिष्टस्यैकस्य वस्तुनो विशेषणमंश एव । तथा च विवेचकाः विशिष्टे वस्तुनि विशेषणांशोऽयं विशेष्यांशोऽयमिति व्यपदिशन्ति । विशेषणविशेष्ययोरंशांशित्वेऽपि स्वभाववैलक्षण्यं दृश्यते । एवं जीवपरयोर्विशेषणविशेष्ययोरंशाशित्वं स्वभावभेदश्चोपपद्यते । तदिदमुच्यते-नैवं पर इति, यथाभूतो जीवः, तथा भूतो न परः । यथैव हि प्रभायाः प्रभावानन्यथाभूतः, तथा प्रभास्थानीयात् स्वांशाज्जीवादंशी परोऽप्यर्थान्तरभूत इत्यर्थः । एवं जीवपरयो-र्विशेषणविशेष्यत्वकृतं स्वभाववैलक्षण्यामाश्रित्य भेदनिर्द्देशाः प्रवर्तन्ते । अभेदनिर्द्देशास्तु पृथक्सिद्धयनर्ह-विशेषणानां विशे-

2.3.45

 

ष्यपर्यन्तत्वमाश्रित्य मुख्यत्वे नोपपद्यन्ते । "तत्त्वमसि, अयमात्मा ब्रह्म" इत्यादिषु, तच्छब्दब्रह्मशब्दवत् त्वमयमात्मेति शब्दा अपि-जीवशरीकब्रह्मवाचकत्वेनैकार्थाभिधायित्वात्-इत्ययमर्थः प्रागेव प्रपञ्चितः ।। 45 ।।

2.3.46

स्मरन्ति च ।। 46 ।।

2.3.46

 

एवं प्रभाप्रभावद्रूपेण शक्तिशक्तिमद्रूपेण शरीरात्मभावेन चांशांशिभावं जगद्व्रह्मणोः पराशरादयः स्मरन्ति-"एकदेशस्थितस्याग्नेज्योत्स्ना विस्तारिणी यथा । परस्य ब्रह्मणः शक्तिस्तथेदमखिलं जगत् ।। यत्किञ्चित्सृ-ज्यते येन सत्त्वजातेन वै द्विज! । तस्य सृज्यस्य सम्भूतौ तत्सर्वं वै हरेस्तनुः" इत्यादिना । चकाराच्छु तयो- ऽपि-"यस्यात्मा शरीरम्" इत्यादिन्राऽऽत्मशरीरभावेनांशांशित्वं वदन्तीत्युच्यते ।। 46 ।।

2.3.47

एवं ब्रह्मणोंऽशत्वे ब्रह्मप्रवत्र्त्यत्वे ज्ञत्वे च सर्वेषां समाने केषाञ्चिद्वेदाध्ययनतदर्थानुष्ठानाद्यनुज्ञा, केषाञ्चि-त्तत्परिहारः, केषाञ्चिद्दर्शनस्पर्शनाद्यनुज्ञा, केषाञ्चित्तत्परिहारश्च, शास्त्रेषु कथमुपपद्यत इत्याशङ्कयाह -

2.3.47

अनुज्ञापरिहारौ देहासम्बन्धाज्ज्योतिरादिवत् ।। 47 ।।

2.3.47

 

सर्वेषां ब्रह्मांशत्वज्ञत्वादिनैकरूपत्वे सत्यपि ब्राह्मणक्षत्रियवैश्यशूद्रादिरूपशुच्युशुचिदेहसम्बन्ध-निबन्धनावनुज्ञापरिहारावुपपद्यते; ज्योतिरादिवत्-यथाऽग्नेग्नित्त्वेनैकरूपत्वेऽपि श्रोत्रियागारादग्नि-राह्रयते, श्मशानादेस्तु परिह्रियते, यथा चान्नादि श्रोत्रियादेरनुज्ञायते; अभिशस्तादेस्तु परिह्रियते ।। 47 ।।

2.3.48

असन्ततेश्चाव्यतिकरः ।। 48 ।।

2.3.48

 

ब्रह्मांशत्वादिनैकरूत्वे सत्यपि जीवानामन्योन्यभेदादणुत्वेन प्रतिशरीरं भिन्नत्वाच्च भोगव्यतिकरोऽपि न सम्भवति । भ्रान्तब्रह्मजीववादे चोपहितब्रह्मजीववादे च जीवपरयोर्जीवानां च भोगव्यतिकरादयः सर्वे दोषा-स्सन्तीत्यभिप्रायेण स्वपक्षे भोगव्यतिकराभाव उक्तः ।। 48 ।।

2.3.49

ननु भ्रान्तजीववादेऽप्यविद्याकृतोपाधिभेदाद्भोगव्यवस्थादय उपपद्यन्ते; अत आह -

2.3.49

अभास एव च ।। 49 ।।

2.3.49

 

अखण्डैकरसप्रकाशमात्रस्वरूपस्य स्वरूपतिरोधानपूर्वकोपाधिभेदोपपादनहेतुराभासः एव, प्रकाशैकस्व-रूपस्य प्रकशतिरोधानं प्रकाशनाश एवेति प्रागेवेपपादितम् । आभासा एवेति वा पाठः तथा सति हेतव आभा- साः, चकारात् "पृथगात्मानं प्रेरितारं च मत्वा, ज्ञाज्ञौ द्वौ तयोरन्यः पिप्पलं स्वाद्वत्ति" इत्यादिश्रुतिविरोधश्च । अविद्यापरिकल्पितोपाधिभेदे हि सर्वोपाधिरुपहितस्वरूपस्यैकत्वाभ्युपगमाद्भोग-व्यतिकरस्तदवस्थ एव ।। 49 ।।

2.3.50

पारमार्थिकोपाध्युपहितब्रह्मजीववादे उपाधिभेदहेतुभृतानाद्यदृष्टवशाद्वयवस्था भविष्यतीत्याशङ्कयाह -

2.3.50

अदृष्टानियमात् ।। 50 ।।

2.3.50

 

उपाधिपरम्पराहेतुभूतस्यादृष्टस्यापि ब्रह्मस्वरूपाश्रयत्वेन नियमहेत्वभावादव्यवस्थैव, उपाधिभिरदृष्टैश्च स्व-सम्बन्धेन ब्रह्मस्वरूपच्छेदासम्भवात् ।। 50 ।।

2.3.51

अभिसन्ध्यादिष्वपि चैवम् ।। 51 ।।

2.3.51

 

अदृष्टहेतुभूताभिसन्ध्यादिष्वपि उक्तादेव हेतोरनियम एव ।। 51 ।।

2.3.52

अनन्तरसूत्रशङ्कामाह - पारमार्थिकेति । इदमप्याशङ्कयाहेत्यपि शब्दार्थः- अदृष्टा-

2.3.52

प्रदेशभेदादिति चेन्नान्तर्भावात् ।। 52 ।।

2.3.52

 

यद्यप्येकमेव ब्रह्मस्वरूपम्, तच्छेदानर्हं नानाविधोपाधिभिः सम्बध्यते; तथाऽप्युपाधिसम्बन्धिब्रह्मप्रदेश-भेदादुपपद्यत एव भोगव्यवस्थेति चेत्-तन्न, उपाधीनां तत्र तत्र गमनात्सर्वप्रदेशानां सर्वोपाध्यन्तर्भावा-द्वयतिक।रस्तदवस्थ एव । प्रदेशभेदेन सम्बन्धेऽपि सर्वस्य ब्रह्मप्रदेशत्वात्तत्तत्प्रदेशसम्बन्धि दुःखं ब्रह्मण एव स्यात् । पूर्वत्र "नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा" "उपलब्धिवदनियम" इत्याभ्यां सूत्राभ्यां वेदाबाह्यानां सर्वगतजीववादिनां दोष उक्तः; अत्र तु "आभास एव च" इत्यादिभिः सूत्रैर्वेदावलम्बिनामात्मैकत्ववादिनां दोष उच्यते ।। 52 ।। ।। इत्यंशाधिकरणम् ।। 7 ।।

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये

प्रथमस्याध्यस्य तृतीयः पादः ।।।।



2.4.1

तथा प्राणाः ।। 1 ।।

2.4.1

 

ब्रह्मव्यतिरिक्तस्य वियदादेः कृत्स्नस्य कार्य्यत्वेनोत्पत्तावुक्तायां जीवस्य कार्य्यत्वेऽपि स्वरूपान्यथाभाव-लक्षणोत्पत्तिरपोदिता, तत्प्रसङ्केन जीस्वरूपं विशोदितम्; सम्प्रति जीवोपकरणानामिन्द्रियाणां प्राणस्य चोत्पत्त्यादिप्रकारो विशोध्यते । तत्र किमिद्रियाणां कार्य्यत्वं जीववत्? उत वियदादिवदिति चिन्त्यते । किं युक्तं? जीववदेवेत्याह पूर्वपक्षी-तथा प्राणाः- इति । प्राणाः- इन्द्रियाणि । यथा जीवो नोत्पद्यते, तथेन्द्रिया-ण्यपि नोत्पद्यन्ते । कुतः? श्रुतेः । यथा जीवस्यानुत्पत्तिः श्रुतेरवम्यते, तथा प्राणानामप्यनुपत्तिः श्रुतेरेवावगम्यते । तथा प्राणा इति प्रमाणमप्यतिदिश्यते ।। का पुनरत्र श्रुतिः " असद्वा इदमग्र आसीत् तदाहुः किं तदासीदिति ऋषयो वावते अग्रे सदासीत् तदाहुः के ते ऋषय इति प्राणा वाव ऋषयः" इति जगदुत्पत्तेः प्रागिन्द्रियाणां सद्भावः श्रूयते । प्राणशब्दे बहुवचनादिन्द्रियाण्येवेति निश्चीयते । न चेयं श्रुतिः "वायुश्चान्तरिक्षं चैतदमृतम्" "सैषाऽनस्तमिता देवता यद्वायु" इतिवच्चिरकालावस्थायित्वेन परिणेतुं शक्या, "असद्वा इदमग्र आसीत्" इति कृत्स्रनप्रपञ्चप्रलयवेलायामप्यवस्तित्वश्रवणात् । उत्पत्तिवादिन्यस्तु जीवोत्पत्तिवादिन्य इव नेतव्या इति ।। एवं प्राप्तेऽभिधीयते-वियदादिवदेव प्राणाश्चोत्पद्यन्ते; कुतः? "सदेव सोम्येदमग्र

2.4.1

 

आसीत्" "आत्मा वा इदमेक एवाग्र आसीत्" इत्यादिषु प्राक्सृष्टेरेकत्वावधारणात् "एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च" इति इन्द्रियाणामुत्पत्तिश्रवणाच्च, प्रागवस्तानासम्भवात् । न चात्मोत्पत्तिवादवदि-न्द्रियोत्पत्तिवादाः परिणेतुं शक्याः, आत्मवदुत्पत्तिप्रतिषेधनुतीनां नित्यत्वश्रुतीनां चाऽदर्शनात्, "असद्वा इदमग्र आसीत्" इत्यादिवाक्येऽपि प्राणशब्देन परमात्पैव निर्द्दिश्यते "सर्वाणि ह वा इमानि भूतानि प्राणमे-वाभिसंविशन्ति प्राणमभ्युज्जिहते" इति प्राणशब्दस्य परमात्मन्यपि प्रसिद्धेः । "प्राणा वाव ऋषयः" इति ऋषि-शब्दश्च सर्वज्ञे तस्मिन्नेव युज्यते, न त्वचेतनेष्विन्द्रियेषु ।। 1 ।।

2.4.2

ऋषयः प्राणा इति च बहुवचनश्रुतिः कथमुपपद्यत इति चेत्तत्राह -

2.4.2

गौण्यसम्भवात्तत्प्राक् श्रुतेश्च ।। 2 ।।

2.4.2

 

बहुवचनश्रुतिर्गौणी, बह्वर्थासम्भवात्; तस्यैव परमात्मनः सृष्टेः प्रागवस्थानश्रुतेरेव ।। 2 ।।

2.4.3

तत्पूर्वकत्वद्वाचः ।। 3 ।।

2.4.3

 

इतश्च प्राणशब्दः परमात्मवचनः; वाचः- परमात्मव्यतिरिक्तविषयस्य नामधेयस्य वाग्विषयसूतवियदादि-सृष्टिपूर्वकत्वात् । "तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत" इति नामरूपभाजामभावात् तदानीं वागादीन्द्रियकार्य्याभावाच्च तानि न सन्तीत्यर्थः ।। 3 ।। ।। इति प्राणोत्पत्त्यधिकरणम् ।।

2.4.4

सप्तगतोर्विशेषितत्वाच्च ।। 4 ।।

2.4.4

 

तानीद्रियाणि किं सप्तैव स्युः, अथवैकादशेति चिन्त्यते । श्रुतिविप्रतिपत्तेः संशयः । किं प्राप्तम्, सप्तेति । कुतः?

गतेर्विशेषितत्वाच्च । गतिस्तावज्जायमानेन भ्रियमाणेन च जीवेन सह लोकेषु सञ्चरणरूपा सप्तानामेव श्रूयते "सप्त इमे लाका येषु चरन्ति प्राणा गुहाशया निहिता सप्त सप्त" इति । वीष्सा पुरुषभेदाभिप्राया । विशेषिताश्च ते गतिमन्तः प्राणाः स्वरूपतः "यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च न विचेष्टेत तामाहुः परमां गतिम्" इति । शरीरान्तस्सञ्चरणं विहाय मोक्षार्थगमनं परमा गतिः । एवं जीवेन सह जन्ममरणयोः सप्तानामेव गतिश्रवणात्, योगदशायां ज्ञानानीति विशेषितत्वाच्च जीवस्य कर- णानि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणबुद्धिमनांसि सप्तैवेति गम्यते । यानि त्वितराणि विषयाणां ग्राहकत्वेन "अष्टौ ग्रहाः" "सप्त वै शीर्षण्याः प्राणा द्वाववाञ्चौ" इत्यादिषु चतुदर्शपर्य्यन्तानि प्राणप्रतिपादकवाक्येषु वाक्-षाणिपादपायूपस्थाहङ्कारचित्ताख्यानीन्द्रियाणि प्रतीयन्ते, तेषां जीवेन सह गतिश्रवणाभावा-ज्जीवस्याल्पा-

2.4.4

 

ल्पोपकारकत्वमात्रेणौपचारिकः प्राणव्यपदेशः ।। 4 ।।

2.4.5

इति प्राप्ते प्रचक्ष्महे -

2.4.5

तहस्तादयस्तु स्थितेऽतो नैवम् ।। 5 ।।

2.4.5

 

न सप्तैवेन्द्रियाणि, अपि त्वेकादश, हस्तादीनामपि शरीरे स्थिते जीवे तस्य भागोपकरणत्वात्कार्य्यभेवदाच्च । दृश्यते हि श्रोत्रादीनामिव हस्तादीनामपि कार्य्यभेद आदानादिः; अतस्त्रेपि सन्त्येव । अतो नैवम्-अतो हस्तादयो न सन्तीत्येवं न मन्तव्यमित्यर्थः । अध्यवसायाभिमानचिन्तावृत्तिभेदान्मन एव बुद्धयहङ्कारचित्त-शब्दैर्व्यपदिश्यत इत्येकादशेन्द्रियाणि । अतः "दशेमे पुरुषे प्राणा आत्मैकादश" इत्यात्मशब्देन मनोऽभिधीयते । "इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः" "तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश । एकादशं मनश्चात्र"-त्यादिश्रुतिस्मृतिसिद्धेन्द्रियसङ्ख्या स्थिता । अधिकसङ्खयावादा मनोवृत्तिभेदाभि-प्रायाः; न्यूनव्यपदेशास्तु तत्र तत्र विवक्षितगमनादिकायर्विशेषप्रयुक्ताः ।। 5 ।। ।। सप्तगत्यधिकरणं समाप्तम् ।।

2.4.6

अणवश्च ।। 6 ।।

2.4.6

 

"" त एते सर्व एव समाः सर्वेऽनन्ताः" इत्यानन्त्यश्रवणाद्विभुत्वं प्राणानाम्-इति प्राप्तेऽभिधीयते-प्राणम-नूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति" इत्युतक्रान्त्याद्#िश्रवणात्परिमितत्वे सिद्दे सत्युत्क्रान्त्यादिषु पार्श्वस्थैरनुपलभ्यमानत्वादणवश्च प्राणाः । आनन्त्यश्रुतिस्तु "अथ यो हैताननन्तानुपास्ते" इत्युपासन-श्रवणाद् उदास्यप्राणविशेषण भूतकार्य्यबाहुल्याभिप्राया ।। 6 ।।

2.4.7

श्रेष्ठश्च ।। 7 ।।

2.4.7

 

प्राणसम्वादे शरीरस्थितिहेतुत्वेन श्रेष्ठतया निर्णीतो मुख्यप्राणः "आनीदवातं स्वधया तदेक" मिति महाप्र-लयसमये स्वकार्य्य भूतप्राणनसद्भावनवणात् "एतस्माज्जायत" इति जन्मश्रवणस्य जीवजन्मनवणवदुप-पत्तेर्नोत्पद्यते इत्याशङ्कय प्राक्सृष्टेरेकत्वावधारणादिविरोधात् "एतस्माज्जायते प्राणः" इति पृथिव्यादितुल्यो-त्पत्तिश्रवणादुत्पत्तिनिषेधाभावाच्च, जायता एव श्रेष्ठश्च प्राण इत्युच्यते । "आनीदावात"मिति तु न जैवंश्रेष्ठं प्राणम-

2.4.7

 

भिप्रेत्योच्यते, अपि तु परस्य ब्रह्मण एकस्यैव विद्यमानत्वमुच्यते "अवात"मिति तत्रैव श्रवाणात् । पूर्वणैव तुल्यन्यायत्वेऽपि पृथग्योगकरणमुत्तरचिन्तार्थम् ।। 7 ।। प्राणाणुत्वाधिकरणं समाप्तम् ।। 3 ।।

2.4.8

न वायुक्रिये पृथगुपदेशात् ।। 8 ।।

2.4.8

 

सोऽयं श्रेष्ठः प्राणः किं महाभूतद्वितीयवायुमात्रं तस्य वा स्पन्दरूपा क्रिया, अथवा वायुरेव कञ्चन विशेषमापन्नः- इति विशये वायुरेवेति प्राप्तं "यः प्राणः स वायु"रिति व्यपदेशात् । यद्वा वायुमात्रे प्राणत्वप्रसिद्धयभावाद्उछ्वासनिश्श्वासादिवायुक्रियायां प्राणशब्दप्रसिद्धेश्व तत्क्रियैव-इति प्राप्ते वायुमा-त्रम्, न च तत्क्रिया इत्युच्यते; कुतः पृथगुपदेशात् "एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । स्वं वायु"-रिति तत एव पृथगुपदेशाद्वायुक्रियाऽपि न भवति प्राणः, न हि तेजःप्रभृतीनां क्रिया तैः सह पृथग्द्रव्यतयो-पदिश्यते "यः प्राणस्य वायु"रिति तु वायुरेवावस्थान्तरमापन्नः प्राणः; न तेजःप्रभृतिवत्तत्त्वान्तरमिति ज्ञापना-र्थम् । उछ्वासनिश्श्वासादावपि प्राणः स्पन्दत इति क्रियावतित द्रव्य एव प्राणशब्दप्रसिद्धिः; न क्रियामात्रे ।। 8 ।।

2.4.9

 

किमयं प्राणो वायोर्विकारःसन्नग्निवद्भूतान्तरम्? नेत्याह -

2.4.9

चक्षुरादिवत्तु तत्सहशिष्टयादिभ्यः ।। 9 ।।

2.4.9

 

नायं भूतविशेषः अपि तु चक्षुरादिवज्जीवोपकरणविशेषः । तच्चोपकरणत्वमुपकरणविशेषभूतैन्द्रियैः सह शिष्ट-#्यादिभ्याऽवगम्यते । चक्षुरादिभिस्सहायं प्राणः शिष्यते प्राणसम्वादादिषु । तत्संजातीयत्वे हि तैस्सह शासनं युज्यते । प्राणशब्दपरिगृहीतेषु करणेष्वस्य विशिष्याभिदानमादिशब्देन गृह्यते, "अथ ह वा य एवायं मुख्यः प्राणः" "योऽयं मध्यमः प्राणः" इत्यादिषु विशिष्याभिधानात् ।। 9 ।।

2.4.10

चक्षुरादिवदस्यापि करणत्वे तद्वदस्यापि जीवं प्रत्युपकारविशेषरूपक्रियया भवितव्यम्, सं तु न दृश्यते, अतो नायं चक्षुरादिवद्भवितुमर्हतीति चेत्, तत्राह-

2.4.10

अकरणत्वाच्च न दोषस्तथा हि दर्शयति ।। 10 ।।

2.4.10

 

अकरणत्वात्-करणं क्रिया, अक्रियत्वात् अस्य प्राणस्य जीवं प्रत्युपकारविशेषरूपक्रियारहितत्वाच्च यो दोष उद्भाव्यते, स नास्ति; यत उपकारविशेषरूपां शरीरेन्द्र्रयधारणादिरूपं क्रियां दर्शयति श्रुतिः "यस्मिन्नुत्क्रा- न्ते इदं शरीरं पापिष्ठतरमिव दृश्यते स एव श्रेष्ठः" इत्युक्त्वा वागाद्युत्क्रमणेऽपि शीरस्येन्द्रियाणां च स्थितिं दर्शयित्वा प्राणोत्क्रमणे शरीरेन्द्रियशैथिल्याभिधानात् । अतः प्राणापानव्यानोदानसमानाकारेण पञ्चधा-ऽवस्थितोऽयं प्राणः शरीरेन्दियधारणादिना जीवस्योपकरोतीति चक्षुरादिवत्करणत्वम् ।। 10 ।।

2.4.11

 

नन्वेवं नामभेदात् कार्य्यभेदाच्च प्राणापानादयः तत्त्वान्तराणि स्युस्तत्राह -

2.4.11

पञ्चवृत्तिर्मनोवद् व्यपदिश्यते ।। 11 ।।

2.4.11

 

यथा कामादिवृत्तिभेदे तत्कार्य्यभेदेऽपि न कामादिकं मनसस्तत्त्वान्तरं "कामस्सङ्कल्पो विचिकित्संश्रद्धाऽश्रद्धा-धृतिरधृतिह्रर्वर्भीरित्येतत्सर्वं मन एव" इति वचनात् । एवं प्राणोऽपानो व्यान उदानस्समान इत्येतत्सर्वं प्राण एव" इति वचनादपानादयोऽपि प्राणस्यैव वृत्तिविशेषाः, न तत्त्वान्तरमित्यवगम्यते ।। 11 ।।

।। वायुक्रियाधिकरणं समाप्तम् ।।4 ।।

2.4.12

अणुश्च ।। 12 ।।

2.4.12

 

अणुश्चायं पूर्ववदुत्क्रान्त्यादिश्रवणात् "तमुत्क्रामन्तं प्राणोऽनूत्क्रामति" इत्यादिषु । अधिकाशङ्का तु "सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण" "प्राणे सर्वं प्रतिष्ठितं" "सर्वं हीदं प्राणेनावृतम्"

2.4.12

 

अणुश्च किमंह पाणः सर्वगतः? ऊताणुः?, किं "सम एभिर्लोकै" रित्यानन्त्यव्यपदेशो विभुत्वं गयमति, नेति उत्क्रा-न्तिश्रवणमानन्त्यस्य गौणतामवगमयति नेति यदा नावगमयति-तदानन्त्यव्यपदेशस्य विभुत्वगमकत्वात्सर्वगतः, यदा गौणत्वं गमयति-तदाऽ#्रनन्त्योक्तेर्गौणत्वादणुरिति, "सम एभिन्त्रिभि"रित्यादिवाक्यानि नैकत्र क्रमपठितानि "श्रेष्ठश्चे"ति सूत्रे श्रुत्या पूर्वपक्षोत्यानेऽपि परिहारः पूर्वाधिकरणेन तुल्यः, एकत्वावदारणादिभिरुत्पविमत्तत्वे सिद्धे

2.4.12

 

इत्यादिश्रवणात् महापरिमाण इति ।। परिहारस्तु-उत्क्रानत्यादिश्रवणातापरिच्छिन्नत्वे निश्चिते सर्वस्य प्राणिजातस्य प्राणायत्तस्थितित्वेन वैभववादोपपत्तिः- इति ।। 12 ।। ।। श्रेष्ठाणुत्वाधिकरणं समाप्तम् ।। 5 ।।

2.4.13

ज्योतिराद्यधिष्ठानं तु तदामननात्प्राणवता शब्दात् ।। 13 ।।

2.4.13

 

सश्रेष्ठानां प्राणानां ब्रह्मणानां ब्रह्मण उत्पत्तिरियत्ता परिमाणं चोक्तम्, तेषां प्राणा नामग्न्यादिदेवता-धिष्ठितत्वं च पूर्वमेव "अभिमानिव्यपदेशस्तु विशेषानुगतिभ्या"मित्यनेन सूत्रेण प्रसङ्गादुपपादितम् जीवस्य च स्वभोगसाधनानामेषामधिष्ठातृत्वं लोकसिद्धम्, "एवमेवैष एतान् प्राणान् गृहीत्वा स्वेशरीरे यथा कामं परिवर्त्तते" इत्यादिनुतिसिद्धं च । तदिदं जीवस्याग्न्यादिदेवतानां च प्राणविषयमधिष्ठानं किं स्वायत्तम्? उत परमात्मायत्तमिति विशये नैरपेक्ष्यात्स्वायत्तम् ।। इति प्राप्त उच्यते-ज्योतिराद्यधिष्ठानमिति । प्राणवता जीवेन सह ज्योतिरादीनामग्न्यादिदेवतानां प्राणविषयमधिष्ठानम्, तदामननात्-तस्य परात्मन आमननाद्भवति । आमननम्-आभिमुख्येन मननम्, परमात्मनः सङ्कल्पादेव भवतीत्यर्थः । कुत एतत्? शब्दा-त्-इन्द्रियाणां साभिमानिदेवतानां जीवात्मनश्च स्वकाय्र्येषु परमपुरुषमननायत्तत्वशास्त्रात् । यथाऽन्तर्य्यामि-ब्राह्मणादिषु "योऽग्नौ तिष्ठन्नग्नेन्तरो यमग्निर्न वेद यस्याग्निः शरीरं योऽग्निमन्तरो यमयति स त आत्मा-न्तयोम्यमृतः" "यो वायौ तिष्ठन्" "य आदित्ये तिष्ठन्" "य आत्मनि तिष्ठन्" "यश्चक्षुषि तिष्ठन्" इत्यादि । यथा च "भीषास्माद्वातः पवते भीषोदेति सूर्य्यः । भीषाऽस्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः" इति । तथा "एतस्य वा अक्षरस्य प्रशासने गागिर् सूर्याचन्द्रमसौ विधृतौ तिष्ठतः" इत्यादि ।। 13 ।।

2.4.14

तस्य च नित्यत्वात् ।। 14 ।।

2.4.14

 

सर्वेषां परमात्माधिष्ठितत्वस्य नित्यत्वात्, स्वरूपानुबन्धित्वेन नियतत्वाच्च तत्सङ्कल्पादेवैषामधिष्ठातृत्व-मवर्जनीयम् । "तत्सृष्टवा तदेवानुप्राविशत् तदनुप्रविश्य सच्च त्यच्चाभवत्" इत्यादिनापरमपुरुषस्य नियन्तृत्वेन सर्वचिदचिद्वस्त्वनुप्रवेशः स्वरूपानुबन्धी श्रूयते; स्मर्यते च "विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्" इति ।। 14 ।। ।। ज्योतिराद्यधिषांनाधिकरणं समाप्तम् ।। 6 ।।

2.4.15

त इन्द्रियाणि तद्वयपदाशादन्यत्र श्रेष्ठात् ।। 15 ।।

2.4.15

 

किं सर्वे प्राणशब्दनिर्दिष्टा इन्द्रियाणि, उत श्रेष्ठप्राणव्यतिरिक्ता एवेति विशेये प्राण-

2.4.15

 

शब्दवाच्यत्वात्करणत्वाच्च सर्व एवेन्द्रियाणि ।। इति प्राप्त उच्यते- श्रेष्ठव्यतिरिक्ता एव प्राणा इद्रियाणि, कुतः

श्रेष्ठादन्येष्वेव प्राणेषु तद्व्यपदेशात् । "इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः" इत्यादिभिश्चक्षुरादिषु#े समनेस्केष्वेवेन्द्रियशब्दो व्यपदिश्यते ।। 15 ।।

2.4.16

भेदश्रु#ेतेर्वैलक्षण्याच्च ।। 16 ।।

2.4.16

 

"एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च" इत्यादिष्विन्द्रियेभ्यः प्राणस्य पृथक् श्रवणात् प्राणव्यति-रिक्तानामेवेन्द्रियत्वमवगम्यते । मनसः पृथक्श्रवणेऽपि तस्यान्यत्रेन्द्रियान्तर्भाव उक्तः "मनःषष्ठानीन्द्रिया-णि" इत्यादौ । वैलक्षण्यं चक्षुरादिभ्यः श्रेष्ठप्राणस्योपलभ्यते, सुषुप्तौ हि प्राणस्य वृत्तिरुपलभ्यते, चक्षुरादीनां तु वृत्तिर्नोपलभ्यते । कार्य्यं च चक्षुर्वागादीनां समनस्कानां ज्ञानकर्मसाधनत्वम्, प्राणस्य तु शरीरेन्द्रियधारणम्, प्राणाधी-नधारणत्वात्त्विन्द्रियेषु प्राणशब्दव्यपदेशः, तथा च श्रुतिः "त एतस्यैव सर्वेरूपमभवन् तस्मादेत एतेनाख्याय-न्ते" इति । रूपमभवन् शरीरमभवन् तदधीनप्रवृत्तयोऽभवन्नित्यर्थः ।। 16 ।। ।। इति इन्द्रियाधिकरणम् ।।

2.4.17

संज्ञामूर्तिकलृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ।। 17 ।।

2.4.17

 

भूतेन्द्रियादीनां समष्टिसृष्टिः, जीवानां कर्तृत्वं च परस्माद्व्रह्मण इत्युक्तं पुरस्तात् । जीवानां स्वेन्द्रियाधिष्ठानं च परायत्तमिति चानन्तरं स्थिरीकरणाय स्मारितम् । या त्त्वियं नामरूपव्या-करणात्मिका प्रपञ्चव्यष्टिसृष्टिः, सा किं समष्टिजीवरूपस्य हिरण्यगर्भस्यैव कर्म? उत तेजःप्रभृतिशरीरकस्य परस्यावादिसृष्टिवद्धिरण्यगर्भ-शरीरकस्य परस्य ब्रह्मणः, इतीदानीं चिन्त्यते । किं युक्तं? समष्टिजीवस्येति, कुतः "अनेन जीवेनात्मानऽनुपविश्य नामरूपे व्याकरवाणि" इति जीवकर्तृकत्वश्रवणात् । न हि परा देवता स्वेन

2.4.17

 

रूपेण नामरूपे व्याकरवाणीत्यैक्षत, अपि तु स्वांशभूतेन जीवरूपेण "अनेन जीवेनात्मना" इति वचनात् । नन्वेवं चारेणानुप्रविश्य परबलं सङ्कलयादीतिवत् व्याकरवाणीत्युत्तमपुरुषः कर्तृस्थक्रियश्च प्रविशतिर्लाक्ष- णिकः स्यात् । नैवं, तत्र राजचारयोः स्वरूभेदाल्लाक्षणिकत्वम् इह तु जीवस्यापि स्वांशत्वेन स्वरूपत्वात् तेन रूपेण प्रवेशो व्याकरणं चात्मन एवेति न लाक्षणिकत्वप्रसङ्गः । न च सहयोगलक्षणेयं तृतीया, कारक-विभक्तौ सम्भवन्त्यामुपपदविभक्तेरन्याय्यत्वात् । न च करणे तृतीया ब्रह्मकर्तृकयोः प्रवेशव्याकरणयोर्जीव- स्य साधकतमत्वाभावात् । न च जीवस्य कर्तृत्वं प्रवेशमात्रं पर्य्यवस्यति, नामरूपव्याकरणन्तु ब्रह्मण एवेति शक्यं वक्तुम्, कत्त्वाप्रत्ययेन समानकर्तृकत्वप्रतीतेः । जीवस्य स्वांशत्वेन स्वरूपत्वेऽपि परस्वरूपव्यावृ- त्त्यर्थः अनेन जीवेन" इति पराकत्वेन परामर्शः । अतो हिरण्यगर्भकर्तृकेयं नामरूपव्याक्रिया । अत एव च स्मृतिषु चतुर्मुखकर्तृकसृष्टिप्रकरणे नामरूपव्याकरणं सङ्कीर्त्यते "नामरूपञ्च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः" इत्यादि ।। एवं प्राप्तेऽभिधीयते-संज्ञामूर्तिक्लृप्तिस्तु-इति । तु शब्दः पक्षं व्यावर्तयति; संज्ञामूर्तिक्लृप्तिः- नामरूपव्याकरणम्, तत्त्रिवृत्कुर्वतः परस्यैव ब्रह्मणः, तस्यैव नामरूपव्याकरणोपदेशात् । त्रिवृत्करणं कुर्वत एव हि नामरूपव्याकरणमुपदिश्यते "सेयं देवतैक्षत हन्ताऽहमिमास्तस्त्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि तासां त्रिवृतं त्रिवृतमेकैकां करवाणि" इति समानकर्तृकत्वप्रतीतेः । त्रिवृत्करणं चतुर्मुखस्याण्डान्तर्वर्तिनो न सम्भवति, त्रिवृत्कृतैस्तेजोबन्नैर्ह्यण्ड-

2.4.17

 

मुत्पाद्यते, चतुर्मुखस्य चाण्डे सम्भवः स्मर्य्यते "तस्मिन्नण्डेऽभवद्व्रह्मा सर्वलोकपितामहः" इति । अस्त्रि#िवृत्क-रणं च परस्यैव ब्रह्मणः, तत्समानकर्तृकं नामरूपव्याकरणञ्च तस्यैवेति विज्ञायते । कथं तर्ह्यनेन जीवेनेति सङ्गच्छते; "आत्मना जीवेन" इति सामानाधिकरण्यात् जीवशरीरं परं ब्रह्मैव जीशब्देनाभिधीयते, यथा "तत्तेज ऐक्षत" "तदपोऽसृजत" "ता आप ऐक्षन्त" "ता अन्नमसृजन्त" इति तेजःप्रभृतिशरीरकं परमेव ब्रह्माभिधीयते । अतो जीवसमष्टिभूतहिरण्यगर्भशरीरकस्य परस्यैव ब्रह्मणः कर्म नामरूपव्याकरणम् । एवं च "प्रविश्य नामरूपे व्याकरवाणि" इति प्रविशतिरुत्तमपुरुषश्चाक्लिष्टौ मुख्यार्थावेव भवतः । प्रवेशव्याकरणयोः समानकर्तृकत्वमप्युपपद्यते । चतुर्मुखशरीरकस्य परस्यैव ब्रह्मणः कर्म देवादिविचित्रसृष्टिरिति चतुर्मु-खकर्तृकसृष्टिप्रकरणे नामरूपव्याक्रियोपदेशश्चोपपद्यते । अतः "सेयं देवता" इत्यादिवाक्यस्यायमर्थः- इमास्तेजोवन्नरूपास्तिस्त्रो देवताः अनेन जीवेन जीसमष्टिविशिष्टेनात्मना ऽनुप्रविश्य नामरूपे व्याकरवाणि-देवादिविचित्रसृष्टितन्नामधेयानि च करवाणि तदर्थमन्योन्यसंसर्गमप्राप्तानामेषां तेजोवन्नानां विशेषसृष्टय-समर्थानां तत्सामर्थ्यायैकैकां त्रिवृतं करवाणीति, अतः परस्यैव ब्रह्मणः कर्मेदं नामरूपव्याकरणम् ।। 17 ।।

अथ स्यात् नामरूपव्याकरणस्य त्रिवृत्करणेनैककर्तृकत्वात्परमात्मकर्तृकत्वमिति न शक्यते वक्तुं, त्रिवृ-

2.4.17

 

त्करणस्यापि जीवकर्तृकत्वसम्भवात् । अण्डसृष्टवृत्तरकालं हि चतुर्मुखसअष्टजीवेषु त्रिवृत्करणप्रकार उप-दिश्यते- "यथा तु खलु सोम्येमास्तिस्त्रो देवताः पुरुषं प्राप्य त्रिवृत् त्रिवृदेकैका भवति तन्मे विजानीहीति" "अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो भागस्तत्पुरीषं भवति यो मध्यमस्तन्मासं योऽणिष्ठस्तन्मनः" इत्यादिना । तथा पूर्वस्मिन्नपि वाक्ये "यदग्नेरोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत् कृष्णं तदन्नस्यर" इत्यादिना चतुर्मुखसृष्टाग्न्यादित्यचर्न्दविद्युत्सु त्रिवृत्करणं श्रूयते "सेयं देवतेमास्तिस्त्रो देवता अनेन जीवे-नात्मनाऽनुप्रविश्य नामरूपे व्याकरोत् तासां त्रिवृतं त्रिवृतमेकैकामकरोत्" इति ।।

2.4.18

तत्राह -

2.4.18

मांसादिभौमं यथाशब्दमितरयोश्च ।। 18 ।।

2.4.18

 

यदुक्तमण्डसृष्टयुत्तरकालं चतुर्मुखसृष्टदेवतादिविषयोऽयं "तासां त्रिवृतं त्रिवृतमेकैकामकरो"दिति त्रिवृत्क-रणोपदेश इति, तन्नोपपद्यते "अन्नमशितं त्रेदाविधीयते" इत्यत्र मांशमनसोः पुरीषादणुत्वेनाणीयस्त्वेन च व्यपदिष्टयोः कारणानुविदायित्वेनाऽ#्रऽप्यतैजसत्वप्रसङ्गात्, "आपः पीताः" इत्यत्रापि मूत्रप्राणयोः स्थविष्ठा-णीयसोः पार्थिवत्वतैजसत्वप्रसङ्गाच्च । न चैवमिष्यते; मांसादेर्हि भौमत्वमिष्यते पुरीषवन्मांसमनसी अपि भौमे - पार्थिवे इष्येते "अन्नमशितं त्रेधा" इति प्रक्रमात्, यथाशब्दमितरयोश्च-इतरयोरपि "आपः पीतास्तेजो-

2.4.18

 

अशित"मिति पर्याययोर्यथाशब्दं विकारा इष्यन्ते । "आपः पीतास्त्रेधा विधीयन्ते" इत्यपामेव त्रेधा परिणामः शब्दात्प्रतीयते; तथा "तेजोऽशितं त्रेधा विधीयते इत्यपिक तेजस एव त्रेधा परिणामः शब्दात्प्रतीयते; अतः पुरीषमांसमनांसि पृथिवीविकाराः, मूत्रलोहितप्राणाः अव्विकाराः, अस्थिमज्जावाचस्तेजोविकारा इति प्रतिपत्तव्यम्; "अन्नमयं हि सोम्य मनः, आपोमयः प्राणः तेजोमयी वाक्" इति वाक्यशेषाविरोधाच्च । अतः तासां त्रिवृतं त्रिवृतमेकैकामकरो"दित्युक्तस्त्रिवृत्करणप्रकारः "अन्नमशित"मित्यादिना न प्रदर्श्यते; तथा सति मनः- प्राणवाचां त्रयाणामप्यणीयस्त्वेन तैजसत्वात् " अन्नमयं हि सोम्य मनः" इत्यादिर्विरुध्यते । प्रा-गेव त्रिवृत्कृतानां पृथिव्यादीनां पुरुषं प्राप्तानाम् "अन्नमशित"मित्यादिनैकैकस्य त्रेधा परिणाम् उच्यते । अण्डसृष्टेः प्रागेव च तेजोवन्नानां त्रिवृत्करणेन भवितव्यम्, अत्रिवृत्कृतानां तेषां कार्य्यारम्भासामर्थ्यात् । अन्योन्यसंयुक्तानामेव हि कार्य्यारम्भसामर्थ्यम्; तदेव च त्रिवृत्करणम् । तथा च स्मर्थ्यते "नानावीर्य्याः पृथग्भूतास्ततस्ते सहतिं विना । नाशकनुवन्प्रजाः स्त्रष्टुमसमागम्य कृत्स्नशः ।। नाशकनुवन्प्रजाः स्त्रष्टुम-समागम्य कृत्स्नशः ।। समेत्याऽन्योन्यसंयोगं परस्परसमाश्रयाः । महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते" इति । अत एवच "अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरोत्तासां त्रिवृतं त्रिवृतमेकैकामकरो"

2.4.18

 

दिति पाठक्रमोऽर्थक्रमेण वाध्यते । अण्डान्तर्वर्त्तिष्वग्न्यादित्यादिषु त्रिवृत्करणप्रदर्शनं श्वेतकेतोः शुश्रूषोर-ण्डान्तर्वर्तित्वेन; तस्य वहिष्ठवस्तुषु त्रिवृत्करणप्रदर्शनायोगात् त्रिवृत्कृतानां कार्य्येष्वग्न्यादित्यादिषु क्रियते ।। 18 ।।

2.4.19

स्यादेतत् "अन्नमशितम्, आपः पीताः, तेजोऽशित"मिति त्रिवृत्कृतानामन्नादीनामेकैकस्य तेजोवन्नात्मकत्वेन त्रिरूपस्य कथमन्नमापस्तेज इत्येकैवरूपेण व्यपदेश उपपद्यते-इति; तत्राह -

2.4.19

वैशेष्यात्तु तद्वादस्तद्वादः ।। 19 ।।

2.4.19

 

वैशेष्यं-विशेषभावः । त्रिवृत्करणेन त्रिरूपेऽप्यककस्मिन्नन्नाद्याधिक्यात्तत्र तत्रान्नादिवादः । द्विरुक्तिरध्याय-परिसमाप्तिं द्योतयति ।। 19 ।।

संज्ञाभूर्तिक्लृप्त्यधिकरणम् ।। 8 ।।



3.1.1 तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ।। 1 ।।

3.1.1

अतिक्रान्ताध्यायद्वयेन निखिलजगदेककारणं निरस्तनिखिलदोषगन्धमपरिमितो-दारगुणसागरं सकलेतरविलक्षणं परं ब्रह्म मुमुक्षुभिरुपास्यतया वेदान्ताः प्रतिपादयन्तीत्ययमर्थः स्मृतिन्याय-विरोधपरिहारपरपक्षप्रतिक्षेपवेदान्तवाक्यपरस्परविरोधपरिहाररूपकार्य्यस्वरूपसंशोधनैस्तद्दुर्धर्षणत्वहेतुभिः सह स्थापितः; अतोऽध्यायद्वयेन ब्रह्मस्वरूपं प्रतिपादितम् । उत्तरेणेदानीं तत्प्राप्त्युपायैः सह प्राप्तिप्रकारश्चि-न्तयितुमिष्यते । तत्र तृतीयाध्याये उपायभूतोपासनविषया चिन्ता वर्त्तते। उपासनारम्भाभ्यर्हितोपायश्च प्राप्यवस्तुव्यतिरिक्तवैतृष्ण्यं, प्राप्यतृष्णा चेति; तत्सिद्धयर्थं जीवस्य लोकान्तरेषु सञ्चरतो जाग्रतः स्वपतः सुषुप्तस्य मूर्च्छतश्च दोषाः, परस्य च ब्रह्मणस्तद्रहितता, कल्याणगुणाकरत्वं च प्रथमद्वितीययोः पादयोः

3.1.1

प्रतिपाद्यते । तत्र देहाद्देहान्तरङ्गच्छन्नयं जीवो देहान्तरारम्भहेतुभिर्भूतसूक्ष्मैः सम्परिष्वक्त एव गच्छति, उत नेति चिन्तायां-यत्र यत्र जीवो याति; तत्र तत्र भूतसूक्ष्माणां सुलभत्वादसम्प्ररिष्वक्तो यातीति प्राप्तम् । पश्चा-दपि पूर्वपक्षवीजान्युपन्यस्य निरसिष्यति । तत्र सिद्धान्तमाह-तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः- इति ।

3.1.1

संज्ञामूर्तिकलृप्तिरिति मूर्तिशब्देन देहः प्रस्तुतः स तच्छब्देन परामृश्यते । तदन्तरप्रतिपत्तौ देहान्तरगमने भूतसूक्ष्मैः संपरिष्वक्तो जीवो रंहति गच्छतीत्यर्थः । कुतः प्रश्ननिरूपणाभ्यां, प्रश्नप्रतिवचनास्यां पञ्चग्निविद्यायामेवं प्रश्नप्रतिवचने आम्नायेते, श्वेतकेतुं किलारुणेयं पाञ्चालः प्रवाहणः कर्मिणां गन्तव्यदेशं, पुनरावृत्तिप्रकारं देवया-नपितृयाणपथव्यावर्त्तने, अमुष्यलोकस्याप्राप्तारं च, वेत्थेति पृष्ट्वेदमपि पप्रच्छ "वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति" इति । तत इमं पश्चिमं प्रश्नं प्रतिब्रुवंश्च द्यलोकमग्नित्वेन रूपयित्वा "तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति" इत्यादिना देवाख्या जीवस्य प्राणा अग्नित्वेन

3.1.1

रूपिते द्युलोके श्रद्दाख्यं वस्तु प्रक्षिपन्ति, सा च श्रद्धा सोमराजाख्यामृतमयदेहरूपेण परिणमते; तं चामृतमयं देहं त एव प्राणाः पर्ज्जन्येऽग्नित्वेन रूपिते प्रक्षिपन्ति स; च देहस्तत्र प्रक्षिप्तो वर्षं भवति; तच्छ वर्षं त एव प्राणाः पृथिव्यामग्नित्वरूपितायां प्रक्षिपन्ति, तच्च तत्र प्रक्षिप्तमन्नं भवति, तच्चान्नं त एव पुरुषेऽग्नित्वरूपिते प्रक्षिपन्ति । तत्र तच्च रेतोभवति, तच्च त एव योषायामग्नित्वरूपितायां प्रक्षिपन्ति, तच्च तत्र प्रक्षिप्तं गर्भो भवति इत्युकत्वाह "इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति" इत्येवं पञ्चम्यामाहुतौ हुतायामापः पुरुषशब्दा-

3.1.1

भिलप्या भवन्तीत्यर्थः । एवमुक्ते पूर्वास्वप्याहुतिष्वनुवर्त्तमानानामेवापां सूक्ष्मरूपाणामिदानीं पुरुषाकारत्वं भवतीत्युक्तं भवति । अत एवं प्रश्नप्रतिवचनाम्यां देहहेतुभूतैर्भूतसूक्ष्मैः सह तत्र तत्र यातीति गम्यते ।। 1 ।।

3.1.2

नन्वापः पुरुषवचस इत्युक्तेऽपां पुरुषाकारपरिणामप्रतीतेर्गच्छता जीवेन तासामेव परिष्वङ्ग प्रतियते अतः कथं सर्वेषां भूतसूक्ष्माणां परिष्वङ्ग इति त तत्राह-

3.1.2 त्र्यात्मकत्वात्तु भूयस्त्वात् ।। 2 ।।

3.1.2

 

तु शब्दश्चोद्यं व्यावर्त्तयति । देहारम्भिकाणामपां केवलानां न देहारम्भसम्भवः, देहाद्यारम्भाय हि तासां त्रिवृतं त्रिवृतमेकैकामिति त्रिवृत्करणम् । केवलानामपां श्रवणं तु तासां भूयस्त्वात्, देहे च लोहितादिभूय-स्त्वेनारम्भकेष्वपां भूयस्त्वं गम्यते ।। 2 ।।

3.1.3 प्राणगतेश्च ।। 3 ।।

3.1.3

इतश्च भूतसूक्ष्मपरिषवक्तस्य गमनमिति गम्यते, उत्क्रामति जीवे प्राणानां तदनुगतिः श्रूयते, "तमुत्क्रामन्तं

3.1.3

प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वेप्राणा अनूत्क्रामन्ति" इति, र्स्मयते च "मनः षष्ठानीन्द्रियाणि प्रकृति-स्थानि कर्षति । शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्" इति । न च निराश्रयाणां गतिरुपपद्य इति तदाश्रयभूतानां भूतसूक्ष्माणामपि गतिरभ्युपगन्तव्या ।। 3 ।।

3.1.4 अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ।। 4 ।।

3.1.4

"यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति, वातं प्राणश्चक्षुरादित्यम्" इत्यादिना प्राणानां जीवमरणकालेऽग्न्या-दिष्वप्ययश्रवणान्न तेषां जीवेन सह गमन मिति गतिश्रुतिरन्यथा नेयेति चेन्न-भाक्तत्वात् अग्न्यादिष्वप्य-यश्रवणस्य । कथं भाक्तत्वम्? "ओषधीर्लोमानि वनस्पतीन्केशाः" इत्यनपियद्भिर्लोमादिभिः सह श्रवणात् । अतश्चक्षुराद्यप्ययश्रुतिरधिष्ठातृदेवतापक्रमणपरा ।। 4 ।।

3.1.5 प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ।। 5 ।।

3.1.5

यदुक्तमद्भिस्सूक्ष्माभिर्भूतान्तरसंसृष्टाभिः परिष्वक्तो जीवो गच्छतीति प्रश्नप्रतिवचनाभ्यामवगम्यत इति; तन्नो-पपद्यते, द्युलोकाग्निविषये प्रथमे होमेऽपां होम्यत्वाश्रवणात् । "तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति" इति श्रद्धैव होम्यत्वेन श्रुता । श्रद्धा नाम जीवस्य मनोवृत्तिविशेषत्वेन प्रसिद्धा । अतो नापस्तत्र होम्या इति चेत्- न, यतस्ताः- आप एव श्रद्धाशब्देन तत्राभिधीयन्तेः कुतः? प्रश्नप्रतिवचनोपपत्तेः "वेत्थ यथा पञ्चम्यामाहुता-वापः पुरुषवचसो भवन्ति" इति प्रश्नस्य प्रतिवचनोपक्रमे हि श्रद्धा द्युलोकाग्नौ होम्यत्वेन श्रुता; तत्र यदि श्रद्धाशब्देनापो नोच्येरन् ततोऽन्यथा प्रश्नोऽन्यथा प्रतिवचनमित्यसङ्गतं स्यात् । "इति तु पञ्चम्यामाहुतावापः

3.1.6

कथमप्त्वं सूचयतीत्यत्राह - वेत्थेति । प्रश्नगतप्रकारस्य प्रति-

पुरुषावचसः" इति प्रतिवचननिगमनं च श्रद्धाया अप्त्वमेव सूचयति । "वेत्थ यथा" इति हि प्रश्नगतः प्रकारः "इति तु पञ्चम्याम्" इतीतिशब्देन परिहारे निगम्यते । श्रद्धासोमराजवर्षान्नरेतोगर्भरूपेणाऽपां परिणाममुकत्वा ह्येवमापः पुरुषवचस इति निगम्यते । श्रद्धाशब्दस्य चाप्सु वैदिकप्रयोगो दृश्यते "अपः प्रणयति श्रद्धा वा आपः" इति । श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति" इति सोमाकारेण परिणामश्चापामेवोपपद्यते । अतो भूतान्तरसंसृष्टाभिरद्भिः सम्परिष्वक्तो जीवो रंहतीत्युपपन्नम् ।। 5 ।।

3.1.6 अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ।। 6 ।।

3.1.6

यत्पुनरुक्तमद्भिः सम्परिष्वक्तो जीवो यातीत्ययमर्थ एतस्म्राद्वाक्यादवगम्यत इति; तन्नोपपद्यते, अस्मिन् वाक्ये जीवस्याश्रवणात् । अत्र हि श्रद्धादय एवाम्व्ववस्थाविशेषा होम्यत्वेन श्रुताः, न तु जीवस्तत्परिष्वक्त इति चेत्-तन्न, इष्टादिकारिणां प्रतीतेः- अस्मिन्नेव वाक्ये ह्युत्तरत्र ब्रह्मज्ञानविधुरेष्टापूर्वदत्तकारिणो द्यु#ुलोकं प्राप्य सोमराजानो भवन्ति । पुण्यकर्मावसाने च पुनरागत्य गर्भं प्राप्तुवन्तीत्युच्यते "अथ य इमे ग्रामे इष्टा - पूतेर् दत्तमित्युपासते ते धूममभिसम्भवन्ति" इत्यारभ्य "पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति" "तस्मिन् यावत्स्म्पातमुषित्वा अथैतमेवाध्वानं पुनर्निवर्तन्ते" "यो यो ह्यन्न-मत्ति योयो रेतः सिञ्चति तद्भूय एव भवति" इति । अत्रापि द्युलोकाग्नौ "श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा

3.1.6

सम्भवति" इति तदेकार्थत्वाच्छ्द्धावस्थदेहविशिष्टः सोमरूपदेहविशिष्टो भवतीत्युक्तमिति गम्यते । देहस्य जीवविशेषणत्तैकस्वरूपस्य वाचकः शब्दो विशेष्ये जीव एव पर्यवस्यति, अतः सम्परिषवक्तो जीवो याती-त्युपपद्यते ।। 6 ।।

3.1.7

ननु च "तं देवा भक्षयन्ति" इति देवैर्भक्ष्यमाणत्ववचनात्सोमो राजेति न जीव उच्यते, जीवस्यानदनीयत्वात् तत्राह-

3.1.7 भाक्तं वाऽनात्मवित्त्वात् तथा हि दर्शयति ।। 7 ।।

3.1.7

वाशब्दश्चोद्यं व्यावर्त्तयति । इष्टादिकारिणोऽनात्मवित्त्वात्स देवानां भोगोपकरणत्वेनेहामुत्र च वर्तते । इहे- ष्टादिना तदाराधनं कुर्वन्नुपकरोति, आराधनप्रतीतैर्देवैर्दत्तममुं लोकं प्राप्य तत्र तत्समानभोगस्तदुपकरणं भवति । "यथापशुरेवं स देवानाम्" इत्यनात्मविदो देवानामुपकरणत्वं दर्शयति श्रुतिः । स्मृतिरप्यात्मविदां ब्रह्मप्राप्तिमनात्मविदां च देवभोग्यत्वं दर्शयति "देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि" इति । अतो जीवस्य देवानां भोगोपकरणत्वाभिप्रायमन्नत्वेन भक्ष्यत्ववचनम्, अतस्तद्भाक्तम्, तेन तृप्तिरेव च देवानां भक्षणमिति श्रूयते " न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति" इति । तस्माद्भूतसूक्ष्मैः सम्प-रिष्वक्तो जीवो रंहतीति सिद्धम् ।। 7 ।। ।। इति तदन्तरप्रतिपत्त्यधिकरणम् ।। 1 ।।

3.1.8 कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च ।। 8 ।।थ

3.1.8

केवलेष्टापूर्त्तदत्तकारिणां धूमादिनामपि पितृयाणेन पथा गमनं कर्मफलावसाने पुनरावर्त्तनं चाम्नां तम् "यावत्सम्पातमुषित्वाऽथैततमेवाध्वानं पुनर्निवर्त्तन्ते" इति । तत्र प्रत्यवरोहन् जीवः किमनुशय-

3.1.8

वान्प्रत्यवरोहति? उत न? इति संशय्यते; किं युक्तम्, कमर्णः कृत्स्नस्योपभुक्तत्वान्नानुशयवानिति प्राप्तम् । अनुशयो ह्युपभुक्तशिष्टं कर्म । तच्च कृत्स्नफलभोगे सति नावशिष्यते । यावत्सम्पातमुषित्वेति वचनात्कृ-त्स्नोपभोगश्च ज्ञायते । सम्पतन्त्यनेन स्वर्गं लोकमिति सम्पातः कर्मोच्यते । श्रुत्यन्तरं च "प्राप्यान्तं कर्मण- स्तस्य यत्किञ्चेह करोत्ययम् । तस्माल्लोकात्पुनरेत्यस्मै लोकायकर्मणे"इति ।। एवं प्राप्तेऽभिधीयते-अनुशय-वान्प्रत्यवरोहति-इति । कुतः दृष्टस्मृतिभ्यां-श्रुतिस्मृतिभ्यामित्यर्थः । श्रुतिस्तावत् "तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन् ब्राह्मयोनिं क्षत्रिययोनिं वैश्ययोनिं वा अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा" इति प्रत्यवरूढान्प्रति-श्रूयते । "अमुष्माल्लोकात्प्रत्यवरूढेषु रमणीयकर्माणो रमणीयां ब्राह्मणादियोनिं प्रतिपद्यन्ते; कपूयचरणाः- कुत्सितकर्माणः कुत्सितां श्वसूकरचण्डालादियोनिं पतिपद्यन्त इति प्रत्यवरूढानां पुण्यपापकर्मयोगं दर्शयति । स्मृतिरपि "वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुः श्रुतवित्तवृत्तसुखमेधसो हि जन्म प्रतिपद्यन्ते विष्वञ्चो विपरीता नश्यन्ति" इति । तथा "ततः परिवृत्तौ कर्मफल-शेषेण जातिं रूपं वर्णं बलं मेधां प्रज्ञां द्रव्याणि धर्मानुष्ठानमिति प्रतिपद्यन्ते तच्चक्रवदुभयोर्लोकयोः सुख एव वर्त्तते" इति । "यावत्सम्पात"मिति फलदानप्रवृत्तकर्मविशेषविषयम्, "यत्किञ्चेह करोत्यय"मितीदमपि

3.1.9 चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिः ।। 9 ।।

3.1.9

"रमणीयचरणाः" "कपूयचरणाः" इति न चरणशब्देन पुण्यापापरूपं कर्माभिधीयते, चरणशब्दस्य लोकवेद-योराचारे प्रसिद्धेः, लौकिकाः खलु चरणमाचारः शीलं वृत्तमिति पर्यायानभिमन्यन्ते, वेदे च "यान्यनवद्यानि कर्माणि तानि सेवितव्यानि" "यान्यस्माकं सुचरितानि नानि त्वयोपास्यानि" इति चरणकर्मणी भेदेन व्यप-दिश्येते; अतश्चरणाव्छीलाद् योनिविशेषप्राप्तिः, नानुशयादिति चेत्-तन्न, चरणश्रुतिः कर्मोपलक्षणार्थेति का-र्ष्णाजिनिराचार्यो मन्यते, केवलादाचारात्सुखदुःखप्राप्त्यसम्भवात् । सुखदुःखे हि पुण्यपापरूपकर्मफले ।। 9 ।।

3.1.10 आनर्थक्यमिति चेन्न तदपेक्षत्वात् ।। 10 ।।

3.1.10

एवं तर्ह्यफलत्वादाचारस्य स्मृतिविहितस्यानर्थक्यमेव चेत्-तन्न, तदपेक्षत्वात् पुण्यस्य कर्मणः । आचा- रवत एव पुण्यकर्मस्वधिकारः- "सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकमर्सु" "आचारहीनं न पुनन्ति वेदाः" इत्यादिवचनेभ्यः । अतश्चरणश्रुतिः कर्मोपलक्षणार्थेति कार्ष्णाजिनेरभिप्रायः ।। 10 ।।

3.1.11 सुकृतदुष्कृते एवेति तु बादरिः ।। 11 ।।

3.1.11

"पुण्यं कर्माचरति" "पापं कर्माचरति" इति कर्मणि चरतेः प्रयोगात्पृथङ्निर्देशस्य च प्रत्यक्षश्रुतिसिद्धाचारा-नुमितश्रुतिसिद्धविषयत्वेन गोवलीवर्द्दन्यायेनोपपत्तेः। मुख्ये सम्भवति न लक्षणा न्याय्येति सुकृतदुष्कृते एव चरणशब्दाभिधेये इति बादरिराचार्य्यो मन्यते । अत्र वादरिमतमेव स्वमतम्; आचारानुमितश्रुतिविहि-

3.1.11

तसन्ध्यावन्दनादेः कर्मान्तराधिकारसम्पादनं फलमिति तु स्वीकृतम्, अतः सानुशया एव प्रत्यवरोह- न्ति ।। 11 ।। ।। कृतात्ययाधिकरणं समाप्तम् ।। 2 ।।

3.1.12 अनिष्टादिकारिणामपि च श्रुतम् ।। 12 ।।

3.1.12

केवलेष्टापूर्त्तदत्तकारिणश्चन्द्रमसं गत्वा सानुशया एव निवर्त्तन्त इत्युक्तम्, इदानी-मनिष्टादिकारिणोऽपि चन्द्रमसं गच्छन्ति नेति चिन्त्यते । ये विहितं न कुर्वन्ति, ये च निषिद्धं कुवÐन्त, ते उभयेऽपि पापकर्माणोऽनिष्टादिकारिणः । किं युक्तं? ते अपि चन्द्रमसं गच्छन्तीति; कुतः, तेषामपि हि तद्गमनं श्रुतं "ये वै केचास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति" इत्यविशेषेण सवोषामेव गति-श्रवणात् ।।12 ।।

3.1.12

एवं तर्हि सुकृतदुष्कृतकारिणोरुभयोरप्यविशिष्टैव गतिः स्यात्, नेत्याह -

3.1.13 संयमने त्वनुभूयरेषामारोहावरोहौ तद्गतिदर्शनात् ।। 13 ।।

3.1.13

तुशब्दः शङ्कां व्यावर्त्तयति, इतरेषामनिष्टादिकारिणां चन्द्रारोहावरोहौ संयमने-यमशासने तत्प्रयुक्तयातना

3.1.13

अनुभूयैव, नान्यथा; कुतः, तद्गतिदर्शनात्; दृश्यते हि पापकर्मणां यमवश्यतया तद्गमनम् "अयं लोको नास्ति न पर इतिमानी पुनः पुनर्वशमापद्यते मे" "वैवस्वतं सङ्गमनं जनानां यमं राजानम्" इत्यादिषु ।। 13 ।।

3.1.14 स्मरन्ति च ।। 14 ।।

3.1.14

स्मरन्ति च सर्वेषां यमवश्यतां पराशरादयः "सर्वे चे#ैते वशं यान्ति यमस्य भगवन् किल" इत्यादिषु ।। 14 ।।

3.1.15 अपि सप्त ।। 15 ।।

3.1.15

पापकर्मणां गन्तव्यत्वेन रौरवादीन् सप्त नरकानपि स्मरन्ति ।। 15 ।।

3.1.16

ननु सप्तसु लोकेषु गच्छतां कथं यमसदनप्राप्तिः, अत आह -

3.1.16 तत्रापि तद्वयापारादविरोधः ।। 16 ।।

3.1.16

तेष्वपि सप्तसु यमाज्ञयैव गमनादविरोधः । अतोऽनिष्टादिकारिणामपि यमलोकं प्राप्य स्वकर्मानुरूपं यातना-श्चानुभूय पश्चाच्चन्द्रारोहावरोहौ स्तः ।। 16 ।।

3.1.17

इति प्राप्त उच्यते -

3.1.17 विद्याकर्मणोरिति तु प्रकृतत्वात् ।। 17 ।।

3.1.17

तुशब्दः पक्षव्यावृत्त्यर्थः । अनिष्टादिकारिणामपि चन्द्रप्राप्तिरस्तीत्येतन्नोपपद्यते; कुतः? विद्याकर्मणोरिति विद्याकर्मणोः फलभोगार्थत्वाद्देवयानपितृयाणयोः । एतदुक्तं भवति - अनिष्टादिकारिणां यथा विद्याविधुर-

3.1.17

त्वाद्देवयानेन पथा गमनं न सम्भवति; तद्वदेवेष्टापूर्तदत्तविधुरत्वात्पितृपाणेन चन्द्रगमनमपि न सम्भवतीति । देवयानपितृयाणयोर्विद्याविषयत्वं पुण्यकर्मविषयत्वं च कथमवगम्यत इति चेत्-प्रकृतत्वात्तयोः । प्रकृता हि देवयाने विद्या, पितृयाणे च कर्म, "तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धां तप इत्युपासते" इत्युकत्वा "तेऽÐच्चषमभिसम्भवन्ति अर्चिषोऽहः" इत्यादिना देवयानवचनात्, "अथ य इमे ग्रामे इष्टापूर्त्ते दत्तमित्युपासते" इत्युकत्वा "ते धूम-मभिसम्भवन्ति" इत्यादिना पितृयाणवचनाच्च । "ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्च- न्ति" इत्येतदपि वचनं "य इष्टादिकारिणस्ते सर्वे" इति परिणेयम् ।। 17 ।।

3.1.18

ननु पापकर्मणां चन्द्रगमनाभावे पञ्चमाहुत्यसम्भवात् शरीरारम्भ एव नोपपद्यते; "पञ्चम्यामाहुतावापः पुरु-षवचसो भवन्ति" इति हि शरीरारम्भः श्रूयते, स चाहुतिश्चन्द्रप्राप्तिपूविर्केति दर्शितम्; अतः शरीरारम्भायैव तेषामपि चन्द्रारोहावरोहाववश्याभ्युपेत्यावित्यत आह -

3.1.18 न तृतीये तथोपलब्धेः ।। 18 ।।

3.1.18

न तृतीयस्य स्थानस्य शरीरारम्भाय पञ्चमाहुत्यपेक्षा; कुतः? तथोपलब्धेः- तृतीयस्थानशब्देन केवलपाप-

3.1.18

कर्माण उच्यन्ते, तेषां देहारम्भे पञ्चमाहुत्यनपेक्षत्वमुपलभ्यते "वेत्थ यथा केनासौ लोको न सम्पूर्यते" इत्य- स्य प्रश्नस्य प्रतिवचने "अथैतयोः पथोर्न कतरेण च तानीमानि क्षुद्राण्यसकृदावर्त्तीनि भूतानि भवन्ति जाय- स्य म्रियस्वेत्येतत्तृतीयं स्थानं तेनासौ लोको न सम्पूर्यते" इति तृतीयस्थानस्य द्युलोकारोहावरोहाभावेन द्युलोकासंपूर्तिवचनादस्य तृतीयस्थानस्य शरीरारम्भाय न पञ्चमाहुत्यपेक्षा । पञ्चम्यामाहुतावितिं चापां

3.1.18

पञ्चमाग्निसम्बन्धस्य पुरुषवचस्त्वहेतुत्वमात्रं प्रतिपादयति, नान्यन्निवारयति, अवधारणाश्रवणात् ।। 18 ।।

3.1.19 स्मर्यतेऽपि च लोके ।। 19 ।।

3.1.19

पुण्यकर्मणामपि केषाचित्पञ्चमाहुत्यनपेक्षया देहारम्भो लोके स्मर्यते द्रौपदीधृष्टद्युम्नप्रभृतीनाम् ।। 19 ।।

3.1.20 दर्शनाच्च ।। 20 ।।

3.1.20

श्रुतावपि दृश्यते केषाञ्चित्पञ्चमाहुत्यनपेक्षया देहारम्भः "तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्ति अण्डजं जीवजमुद्भिज्जम्" इति एवमुद्भिज्जस्वेदजयोर्भूतयोः पञ्चमाहुतिमन्तरेणोत्पत्तिर्द्दश्यते ।। 20 ।।

3.1.21

ननु स्वेदजानामत्र न सङ्कीर्त्तनमस्ति "त्रीण्येव वीजानि" इति वचनात्; तत्राह -

तृतीयशब्दावरोधः संशोकजस्य ।। 21 ।।

3.1.21

संशोकजस्य-स्वेदजस्यापि "अण्डजं जीवजमुद्भिज्जम्" इत्यत्र तृतीयेनोद्भिज्जशब्देनावरोधः सङ्ग्रहो विद्यते इत्यर्थः; अतः केवलपापकर्मणां चन्द्रप्राप्तिर्न सम्भवति ।। 21 ।।

।। अनिष्टादिकायर्धिकरणं समाप्तम् ।। 3 ।।

3.1.22 तत्स्वाभाव्यापत्तिरुपपत्तेः ।। 22 ।।

3.1.22

इष्टादिकारिणो भूतसूक्ष्मपरिष्वक्ताः सानुशयाश्चन्द्रमसोऽवरोहन्तीत्युक्तम्, अवरोहप्रकारश्च 2अथैतमेवाध्वानं पुनर्निवर्त्तन्ते यथेतमाकाशमाकाशाद्वायुं वायुर्भू#ूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवति #्रअभ्रं भूत्वा मेधो भवति मेधो भूत्वा प्रवर्षति" इति वचनात् । यथेतमनेवं चेत्युक्तम्, तत्रा-स्याकाशादिप्रतिपत्तौ देवनुष्यादि भाववदाकाशादि भावः? उत तत्सादृश्यापत्तिमात्रमिति विशये श्रद्धाव- स्थस्य सोमभाववदविशेषादाकाशादिभावः- इति प्राप्ते तत्स्वाभाव्यापत्तिरेवेत्युच्यते । तत्स्वाभाव्यापत्तिः - तत्सादृश्यापत्तिरित्यर्थः । कुत एतत्? उपपत्तेः- सोमभावमनुष्यभावादौ हि सुखदुःखोपभोगाय तद्भावः;

3.1.22

अत्र त्वाकाशादौ सुखदुःखोपभोगाभावात् तद्भावानुपपत्तेस्तदापत्तिवचनं तत्संसर्गकृतत्सादृश्यापत्त्यभि- प्रायः ।। 22 ।। ।। तत्स्वाभाव्यापत्त्यधिकरणं समाप्तम् ।। 4 ।।

3.1.23 नातिचिरेण विशेषात् ।। 23 ।।

3.1.23

आकाशप्राप्तिप्रभृति यावद्व्रीह्यादिप्राप्ति किं तत्र तत्र नातिचिरं तिष्ठति, उताऽनियमः? इति विशये नियमहेत्वाभावादनियरः- इति प्राप्त उच्यते नातिचिरेण-इति । कुतः? विशे- षात्-उत्तरत्र व्रीह्यादिप्राप्तौ "अतो वै खलु दुर्निष्प्रपतर"मिति विशिष्यकृच्छ्निष्क्रमणत्वाभिधानात् पूर्वत्र

3.1.23

ह्याकाशादिप्राप्तावचिरं निष्क्रमणं गम्यते, दुर्निष्प्रपतरमिति छान्दसः तशब्दलोपः, दुर्निष्प्रपततरं-दुःखनि-ष्क्रमणतरमित्यर्थः ।। 23 ।। ।।नातिचिराधिकरणं समाप्तम् ।। 5 ।।

3.1.24 अन्याधिष्ठिते पूर्ववदभिलापात् ।। 24 ।।

3.1.24

अवरोहन्तो जीवाः व्रीह्यादिभावेन जायन्त इति श्रूयते, "मेधो भूत्वा प्रवर्षति त इह व्रीहियवा आषधिवनस्पतयस्तिलमाषा जायन्ते" सति । ते किमन्यै र्भोक्तृभिव्रीह्यादिशरीरैरधिष्ठितान् व्रीह्यादीनाश्लिष्यन्ति? उत ते भोक्तारो व्रीह्यादिशरीरा जायन्ते? इति विशये "जायन्ते" इति वचनात् देवो जायते मनुष्यो जायत इतिवद्व्रीह्यादिशरीरा एव्नइति प्राप्ते उच्यते-अन्याधिष्ठिते इति । जीवान्तरेणाधिष्ठिते व्रीह्यादिशरीरे तेषां संश्लेषमात्रमेव । कुतः? पूर्ववदभिलापात्-आकाशादिमेधपर्यन्तवत् केवलतद्भावाभिला- पात् । यत्र हि भोक्ततृत्वमभिप्रेतम्; तत्र तत्साधनभूतं कर्माभिलप्यते, रमणीयचरणाः कपूयचरणा इति । इह चाकाशादिवन्नाभिलप्यते कर्म, फलप्रदाने प्रवृत्तस्य स्वर्गोपभोग्यपलस्येष्टादेः कमर्णः स्वर्गोपभोगादेव समाप्तत्वात्, अनारब्धस्य "रमणीयचरणाः कपूयचरणाः" इति वक्ष्यमाणत्वात्, मध्ये कर्मान्तराभावाच्च । अत आकाशादिभाववचनवद् व्रीह्यादिभावेन जन्मवचनमौपचारिकम् ।। 24 ।।

3.1.25 अशुद्धमिति चेन्न शब्दात् ।। 25 ।।

3.1.25

नैतदस्ति-यदन्याधिष्ठिते व्रीह्यादिशरीरे संश्लेषमात्रम्, भोक्तृत्वहेत्वंभावान्न व्रीह्यादि भावेन जन्म-इति भोक्तृत्वहेतुसद्भावात् स्वर्गोप भोग्यफलमिष्टादिकर्मैवाशुद्धं पापमिश्रम्, अग्नीषोमीयादिहिंसायुक्तत्वात् । हिंसा च "न हिंस्यात्सर्वा भूतानी"ति निषिद्धत्वात् पापमेव । न चात्र पदाहवनीयादिवदुत्सर्गापवाद भावः सम्भवति, भिन्नविषयत्वात् । अग्निषोमीयहिंसाविधिर्हिंसायाः क्रतूपकारकत्वं बोधयति, "न हिंस्या"दिति

3.1.25

दुष्कृतस्तत्रत्वा देवः सविता दधातु" इति । चिकित्सकं च तादात्विकाल्पदुःखकारिणमपि रक्षकमेव वदन्ति, पूजयन्ति च तज्ज्ञाः ।। 25 ।।

3.1.26 रेतः सिग्योगोऽथ ।। 26 ।।

3.1.26

इतश्चौपचारिकं व्रीह्यादिजन्मवचनम्, व्रीह्यादिभाववचनान्तरं "यो यो ह्यन्नमत्ति यो यो रेतः #ि#ंञ्चति तद्भूय एव भवति" इति रेतः सिग्भावोऽनुशयिनां श्रूयमाणो यथा तद्योगमात्रं प्रतिपादयति; तद्वद्व्रीह्यादि भावो-ऽपीत्यर्थः ।। 26 ।।

3.1.27 योनेश्शरीरम् ।। 27 ।।

3.1.27

योनिप्राप्तेः पश्चादेवानुशयिनां शरीरप्राप्तिः, तत्रैव सुखदुःखोपभोगसद्भावात्, ततः प्रागाकाशादिप्राप्तिप्रभृति तद्योगमात्रमेवेत्यर्थः ।। अन्याधिष्ठिताधिकरणं ।। 6 ।।



3.2.1 सन्ध्ये सृष्टिराह हि ।। 1 ।।

3.2.1

एवं कर्मानुरूपगमनागमनजन्मादियोगेन जाग्रतो जीवस्य दुःखित्वं ख्यापितम् इदानीमस्य स्वप्नावस्था परीक्ष्यते, स्वप्नमधिकृत्य श्रूयते "न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथः सृजते, न तत्रानन्दा मुदः प्रमुदो भवन्त्यथानन्दान्मुदः प्रमुदः सृजते न तत्र वेशान्ताः पुष्करिण्यः स्त्रवन्त्यो वेशान्ताः पुष्करिण्यः भववन्त्यः सृजते स हि कर्त्ता" इति । तत्र संशयः- किमियं रथा-दिसृष्टिर्जीवेनैव क्रियते? आहोस्विदीश्वरेण-इति । किं युक्तम्, सन्ध्ये सृष्टिर्जीवेनेति । कुतः? सन्ध्यं-स्वप्न-

3.2.1

स्थानमुच्यते "सन्ध्यं तृतीयं स्वप्नस्थानम्" इति वचनात् सा तु जीवेनैव क्रियते, सृजते स हि कर्त्ता इत्याह हि । स्वप्नदृग्जीव एव तत्र प्रतीयते ।। 1 ।।

3.2.2 निर्म्मातारं चैके पुत्रादयश्च ।। 2 ।।

3.2.2

किञ्च-एनं जीवं स्वप्ने कामानां निर्मातारमेकेशाखिनोऽधीयते, "य एषु सुप्तेषु जागर्त्ति कामं कामं पुरुषो निम्मिर्माणः" इति । पुत्रादयश्च तत्र काम्यमानतया कामशब्देन निर्दिश्यन्ते, नेच्छामात्रं, पूर्वत्र हि "सर्वान् कामाञ् छन्दतः प्रार्थयस्व" "शतायुषः पुत्रपौत्रान् वृणीष्व" इति पुत्रादय एव कामाः प्रकृताः, अतो रथादीन् जीवः स्वप्ने सृजति; जीवस्य च सत्यसङ्कल्पत्वं प्रजापतिवाक्ये श्रुतम्, अत उपकरणाद्यभावेऽपि सृष्टिरुप- पद्यते ।। 2 ।।

3.2.3

इति प्राप्तेऽभिधीयते -

3.2.3 मायामात्रन्तु कार्त्स्न्#ेनानभिव्यक्तस्वरूपत्वात् ।। 3 ।।

3.2.3

तुशब्दः पक्षं व्यावर्त्तयति; स्वप्ने रथपुष्करिण्याद्यर्थजातं मायामात्रं परमपुरुषसृष्टमित्यर्थः । मायाशब्दो ह्याश्चर्य-

3.2.3

वाची "जनकस्य कुले जाता देवमायेव निर्मिता" इत्यादिषु तथा दर्शनात् । अत्रापि "न तत्र रथा न रथयोगा न पन्थानः"-सकलेतरपुरुषानुभाव्यतया न भवन्तीत्यर्थः । अथ "रथान् रथयोगान् पथः सृजते", स्वप्नदृ-गनुभाव्यतया तत्कालमात्रावसानान् सृजत इत्याश्चर्यरूपत्वमेवाह । एवंविधाश्चर्यरूपा सृष्टिः सत्य सङ्कल्प- स्य परमपुरुषस्यैवोपपद्यते, न जीवस्य; तस्य सत्यसङ्कल्पत्वादियुक्तस्यापि संसारदशायां कार्त्स्न्#ेनानभि-व्यक्तस्वरूपत्वान्न जीवस्य तथाविधाश्चर्यसृष्टिरुपपद्यते । "कामं कामं पुरुषो निÐम्ममाणः" इति च परमपुरु-षमेव निर्मातारमाह" "य एषु सुप्तेषु जागतिर् तदेव शुक्रं तद्व्रह्म तदेवामृतमुच्यते । तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन" इत्युपक्रमोपसंहारयोः परमपुरुषासाधारणस्वभावप्रतीतेः । अथ वेशान्तान् पुष्करिण्यः स्त्रव-न्त्यः सृजते स हि कर्त्ता" इति च तया श्रुत्यैकार्थ्यात् परमपुरुषमेव कर्त्तारमाह ।। 3 ।।

3.2.4

स्वाभाविकं चेज्जीवस्यापहतपात्मत्वादिकम्, कुतस्तन्नाभिव्यज्यत इत्यत आह -

3.2.4 पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्य्ययौ ।। 4 ।।

3.2.4

तुशब्दः शङ्काव्यावृत्त्यर्थः, पराभिध्यानात्-परमपुरुषसङ्कल्पात्, अस्य जीवस्य स्वाभाविकं रुपन्तिरोहितम् अनादिकर्मपरम्परया कृतापराधस्य ह्यस्य स्वाभाविकं कल्याणरूपं परमपुरुषस्तिरोधापयति; ततस्तत्सङ्क-ल्पादेव ह्यस्य जीवस्य बन्धमोक्षौ श्रुतौ यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते अथ सोऽभयं गतो भवति यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति" "एष ह्येवा-नन्दयाति" "भीषाऽस्माद्वातः पवते" इत्यादिषु ।। 4 ।।

3.2.5 देहयोगाद्वा सोऽपि ।। 5 ।।

3.2.5

सोऽपि तिरोभावो देहयोगद्वारेण वा भवति सूक्ष्माचिच्छक्तियोगद्वारेण वा; सृष्टिकाले देहावस्थेनाचिद्व-स्तुना संयोगाद्भवति, प्रलयकाले नामरूपविभागानर्हातिसूक्ष्माचिद्वस्तुयोगात् । अतोऽनभिव्यक्तस्वरूप-त्वात्स्वप्ने जीवो न रथादीन् सङ्कल्पमात्रेण स्त्रष्टुं शकनोति "तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन" इति सर्वेषु सुप्तेषु जागरणं सर्वलोकाश्रयत्वमित्यादयो हि परमपुरुषस्यैव सम्भवन्ति । अतो जीवानाम-ल्पाल्पकर्मानुगुलफलानुभवार्थं तावन्मात्रकालावसानान् तदेकानुभाव्यानर्थानुत्पादयति ।। 5 ।।

3.2.6 सूचकश्च हि श्रुतेराचक्षते च तद्विदः ।। 6 ।।

3.2.6

इतश्च स्वाप्नार्था न जीवसङ्कल्पपूर्वकाः; यतः स्वप्नोऽभ्युदयानभ्युदययोः सूचकः श्रुतेरवगम्यते "यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । समृदिं्ध तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने" इति; "अथ स्वप्ने पुरुषं कृष्ण- दन्तं पश्यति स एनं हन्ति" इत्यादेश्च । स्वप्नाध्यायविदश्च स्वप्नं शुभाशुभयोः सूचकमाचक्षते । सूचकत्वं

3.2.6

च स्वसङ्कल्पायत्तस्य नोपपद्यते; तथा चाशुभस्यानिष्टत्वात् शुभस्य सूचकमेव सृष्ट्वा पश्येत् । अतः स्वप्ने सृष्टिरीश्वरेणैव कृता ।। 6 ।।

।। सन्ध्याधिकरणं समाप्तम् ।। 1 ।।

3.2.7 तदभावो नाडीषु तच्छØ#ेतरात्मनि च ।। 7 ।।

3.2.7

इदानीं सुषुप्तिस्थानं परीक्ष्यते, इदामाम्नायते "यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानाति आसु तदा नाडीषु सृप्तो भवति" इति; तथा "अथ यदा सुषुप्ताह भवति यदा न कस्यचन वेद

3.2.7

हिता नाम नाड्यो हि द्वासप्ततिसहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते" इति; तथा "यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य ! तदा सम्पन्नो भवति" इति । एवं नाड्यः पुरीतद्व्रह्म सुषुप्तिस्थानत्वेन श्रूयते: किमेषां विकल्पः? समुच्चयो वेति विशये निरपेक्षत्वप्रतीतेर्युगपदनेकस्थानवृत्त्यस-म्भवाच्च विकल्पः- इति प्राप्ते उच्यते-तदभावः- इति । तदभावः- स्वप्नाभावः- सुषुप्तिर्नाडीषु पुरितत्यात्मनि च भवति, एषां स्थानानां समुच्चय इत्यर्थः । कुतः? तच्छØतेः- त्रयाणां स्थानत्वश्रुतेः । न च कार्यभेदेन समुच्चये सम्भवति पाक्षिकबाधगर्भविकल्पो न्यायः । सम्भवति च प्रासादखट्वापर्यङ्कवन्नाड्यादीनां कार्यभेदः । तत्र नाडीपुरीततौ प्रासादखट्वास्थानीयौ; ब्रह्म तु पर्यङ्कस्थानीयम् । अतो ब्रह्मैव साक्षात्सुषुप्तिस्थानम् ।। 7 ।।

3.2.8 अतः प्रवोधोऽस्मात् ।। 8 ।।

3.2.8

यतो ब्रह्मैव साक्षात्सुषुप्तिस्थानम्, अतोऽस्माद्व्रह्मणः एषां जीवानां प्रवोधः श्रूयमाण उपपद्यते,-"सत आगम्य न विदुः सत आगच्छामहे" इत्यादिषु ।। 8 ।। । तदभावाधिकरणं समाप्तम् ।।

3.2.9 स एव तु कर्म्मानुस्मृतिशब्दविधिभ्यः ।। 9 ।।

3.2.9

किं सुषुप्त एव प्रबोधसमये उत्तिष्ठति? उतान्य? इति संशये अस्य सकलोपाधि-विनिर्मुक्तस्य ब्रह्मणि सम्पन्नस्य मुक्तादविलक्षणत्वेन प्राचीनशरीरेन्द्रियादिसम्बन्धाभावादन्यः- इति प्राप्त उच्यते- स एव त्विति । तु शब्दः पक्षं व्यावर्त्तयति; स एवोत्तिष्ठति, कुतः? कर्मानुस्मृतिशब्दविधिभ्यः । कर्म तावत्सुषुप्तेन पूर्वकृतं पुण्यपापरूपं तत्वज्ञानात्प्राक् तेनैव भोक्तव्यम् । अनुस्मृतिरपि-य एवाहं सुप्तः स एव प्रतिबुद्धोऽस्मीति । शब्दोपि सुषुप्तप्रबुद्धस्स एवेति दर्शयति "त इह व्याघ्रो वा सिंहो वा वृको वा वरा- हो वा कीटो वा पतङ्गो वा मशको वा दंशो वा मशमो वा यद्यद्भवन्ति तथा भवन्ति" इति । विधयश्च मोक्षा-

3.2.9

र्थाः सुषुप्तस्यमुक्तत्वेऽनर्थकाः स्युः, न चासौ सर्वोपाधिविनिर्मुक्त आविर्भूतस्वरूपः "तद्यत्रैतत्सुषुप्तः" इति सुषुप्तं प्रकृत्य "नाह खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामि" इति वचनात् । मुक्तस्य च "परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते" "स तत्र पर्येति जक्षत् क्रीडन् रममाणः" "स स्वराह् भवति तस्य सर्वेषु लोकेषु कामचारो भवति" "सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वशः" इति सर्वज्ञत्वादि श्रूयते, अतः सुषुप्तः संसरन्नेवायस्तसर्वकरणो ज्ञान-भोगाद्यशक्तो विश्रमस्थानंपरमात्मानमुपसम्पद्याश्वस्तः पुनर्भोगायोत्तिष्टति ।। 9 ।।

।। कर्मानुत्मृतिशब्दविध्यधिकरणं समाप्तम् ।। 3 ।।

3.2.10 मुग्धेऽर्द्धसम्पत्तिः परिशेषात् ।। 10 ।।

3.2.10

मुग्धमधिकृत्य चिन्त्यते किमियं मूर्च्छा सुषुप्त्यादिष्वन्यतमाऽवस्था? उताव-स्थान्तरम्? इति विशये सुषुप्त्यादीनामन्यतमावस्थायामेव मूर्च्छाप्रासिद्धयुपपत्तेरवस्थान्तरकल्पने प्रमा-णाभावादन्यतमावस्था-इति प्राप्त उच्यते-मुग्धेऽर्द्धसम्पत्तिरिति । मुग्धे पुरुषे यातस्यावस्था-सा मरणायार्द्ध-सम्पत्तिः, कुतः- परिशेषात् । न तावत्स्वप्नजागरौ-ज्ञानाभावात्, निमित्तवैरूप्यादाकारवैरूप्याच्च, न सुषु-प्तिमरणे, निमित्तं हि मूर्च्छाया अभिधातादिः, पारिशेष्यान्मरणायार्द्धसम्पत्तिर्मूर्च्छा, मरणं हि सर्वप्राण-देहसम्बन्धोपरतिः, सूक्ष्मप्राणदेहसम्बन्धावस्थितिर्मूर्च्छा ।। 10 ।। ।। मुग्धाधिकरणम् समाप्तम् ।। 4 ।।

3.2.11 न स्थानतोऽपि परस्योभयलिङ्ग सर्वत्र हि ।। 11 ।।

3.2.11

दोषदर्शनाद्वैराग्योदयाय जीवस्यावस्थाविशेषानिरूपिताः । इदानीं ब्रह्मप्राप्तितृ-ष्णाजननाय प्राप्यस्य ब्रह्मणो निर्दोषत्वकल्याणगुणात्मकत्वप्रतिपादनायनारभते, तत्र जागरस्वप्रसुषुप्ति-मुग्ध्युत्क्रान्तिषु स्थानेषु तत्तत्स्थानप्रयुक्ता जीवस्य ये दोषास्ते तदन्तर्यामिणः परस्य ब्रह्मणोऽपि तत्र तत्रा-वस्थितस्य सन्ति; नेति विचार्य्यते । किं युक्तम्? सन्तीति, कुतः? तत्तदवस्थशरीरेऽवस्थानात् । ननु "सम्भोगप्राप्तिरिति चेन्न वैशेष्यात्" "स्थित्यदनाभ्यां च" इत्यादिषुपरस्याकर्मचश्यत्वेन दोषाभाव उक्तः- तत्कथमकर्मवश्यस्य परस्य ब्रह्मणस्तत्तत्स्थानसम्बन्धाद्दोष उच्यते, इत्थमुच्यते - कर्माण्यपि देहसम्ब-

3.2.11

न्धमापादयन्ति पुरुषार्थजननानि भवन्तीति "देहयोगाद्वा" इत्यत्रोक्तम् । तच्च दहेसम्बन्धस्यापुरूषार्थत्वेन भवति । इतरथा कर्माण्येव दुखं जनयिष्यन्ति किं देह सम्बन्धेन; अतोऽकर्मवश्यत्वे सत्यपि नानाविधाशुचि-देहसम्बन्धोऽपुरुषार्थ एव, अतस्तन्नियमनार्थं स्वेच्छया तत्प्रवेशेऽप्यपुरुषार्थसम्बन्धोऽवर्ज्जनीयः, पूयशोणि-तादिमज्जनं हि स्वेच्छाकारितमप्यपुरुषार्थ एव । अतो यद्यपि जगदेककारणं सर्वज्ञत्वादिकल्याणगुणाकरं च ब्रह्म, तथाऽपि "यः पृथिव्यां तिष्ठन्, य आत्मनि तिष्ठन्, यश्चक्षुपि तिष्ठन् यो रेतसि तिष्ठन्" इत्यादिवचनात् तत्र तत्रावस्थितस्य तत्तत्सम्बन्धरूपापुरुषार्थाः सन्ति-इति-एवं प्राप्ते प्रचक्ष्महे "न स्थानतोऽपि परस्य" इति न पृथिव्यात्मादिस्थानतोपि परस्य ब्रह्मणोऽपुरुषार्थगन्धः सम्भवति । कुतः? उभयलिङ्गं सर्वत्र हि-यतः सर्वत्र श्रुतिस्मृतिषु परब्रह्मोभयलिङ्गम्-उभयलक्षणमभिधीयते-निरस्तनिखिलदोषत्वकल्याणगुणाकरत्वलक्षणोपे-तमित्यर्थः "अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः" "समस्त-कल्याणगुणात्मकोऽसौ स्वशक्तिलेशोद्धृतभूतसर्गः । तेजोबलैश्वर्यमहावबोधसुवीर्यशकत्यादिगुणैकराशिः । परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे" "समस्तहेयरहितं विष्ण्वाख्यं परमं पदम्" इत्यादि-

3.2.11

श्रुतिस्मृतिभ्य उभयलक्षणं हि ब्रह्मावगतम् ।। 11 ।।

3.2.12 भेदादिति चेन्न प्रत्येकमतद्वचनात् ।। 12 ।।

3.2.12

यथा जीवस्य प्रजापतिवाक्यावगतापहपाप्मत्वाद्युभवलिङ्गस्यापि देवादिदेहयोगरूपावस्थाभेदादपुरुषार्थ- योगः; तथाऽन्तर्यामिणः परस्यापि स्वतोऽपहतपाप्मत्वाद्युभयलिङ्गस्य तत्तद्देवादिशरीरयोगरूपावस्थाभेदा-दपुरुषार्थयोगोऽवर्ज्जनीय

इति चेत्-तन्न, प्रत्येकमतद्वचनात् "यः पृथिव्यां तिष्ठन्, य आत्मनि निष्ठ"न्नित्या- दिषु प्रतिपर्यायं "स त आत्माऽन्तर्याम्यमृतः" इत्यन्तर्यामिणोऽमृतत्ववचनेन तत्र तत्र स्वेच्छयानियमनं कुर्व-तस्तत्तत्सम्बन्धप्रयुक्तापुरुषार्थप्रतिषेधात् । जीवस्य तु तत् स्वरूपन्तिरोहितमिति "पराभिध्यानात्तु तिरो-हित"मित्यत्रोक्तम् । ननु स्वेच्छया कुर्वतोऽपि तत्तद्वस्तुस्वभावायत्ता पुरुषार्थसम्बन्धोऽवर्ज्जनीय इत्युक्तम्; नैतद्युक्तं, न ह्यचिद्वस्त्वपि स्वभावतोऽपुरुषार्थस्वरूपं कमर्वश्यानां तु कर्मस्वभावानुगुण्येन परमपुरुषसङ्कल्-पादेकमेव वस्तु कालभेदेन पुरुषभेदेन च सुखाय दुःखाय च भवति; वस्तुस्वरूपप्रयुक्ते तु ताद्रूप्ये सर्वं सर्वदा सर्वस्य सुखायैव दुःखायैव वा स्यात्; न चैवं दृश्यते; तथा चोक्तं "नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजो-त्तम? । वस्त्वेकमेव दुःखाय सुखायेर्ष्यागमाय च । कोपाय च यतस्तस्माद्वस्तु वस्त्वात्मकं कुतः । तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते । तदेव कोपाय यतः प्रसादाय च जायते । तस्माद् दुःखात्मकं नास्ति न च किञ्चित्सुखात्मकम्" इति । अतो जीवस्य कर्मवश्यत्वात्तत्तत्कर्मानुगुण्येन तत्तद्वस्तुसम्बन्ध एवापुरुषार्थः स्यात्, परस्य तु ब्रह्मणः स्वाधीनस्य स एव सम्बन्धस्तत्तद्विचित्रनियमनरूपलीलारसायैव स्यात् ।। 12 ।।

3.2.13 अपि चैवमेके ।। 13 ।।

3.2.13

अपि चैके शाखिन एकस्मिन्नेव देहसंयोगे जीवस्यापुरुषार्थं परस्य तु तदभावं नियमनरूपैश्वर्यायत्तदीप्तियोगं च स्वशब्देनाधीयते "द्वा सुपर्णा सुयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यन-श्नन्नन्योऽभिचाकशीति" इति ।

3.2.14

अथ स्यात् "अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति ब्रह्मात्मकजीवानुप्रवेशपूर्वकं नामरूपव्याकरणमिति ब्रह्मणोऽपि तदात्मभूतस्य देवमनुष्यादिरूपत्वं तन्ना-मभाकत्वं चास्ति, ततश्च "ब्राह्मणो यजेत" इत्यादिविधिनिषेधशास्त्रगोचरत्वेन कर्मवश्यत्वमवर्ज्जनीयमिति तत्राह -

3.2.14 अरूपवदेव हि तत्प्रधानत्वात् ।। 14 ।।

3.2.14

देवादिशरीरानुप्रवेशे तेन तेन रूपेण युक्तमप्यरूपवदेव तद् ब्रह्म रूपरहिततुल्यमेव; जीववच्छरीरित्वनिबन्धनं कमर्वश्यत्वम् अस्य न विद्यत इत्यर्थः । कुतः? निर्वाहकत्वेन प्रधानत्वात् । "अकाशो ह वै नामरूपयोर्निर्व- हिता ते यदन्तरा तद्ब्रह्म" इति सर्वानुप्रवेशेऽपि नामरूपकार्यास्पर्शेन नामरूपयोर्निर्वोढ्#ृत्वमेव ब्रह्मणः प्रति-पादयति । ननु तच्छरीरकत्वेन तदन्तर्यामित्वे कथमरूपवदिति रूपसम्बन्धरहिततुल्यत्वमुच्यते, इत्थं- यथा जीवस्य तत्तज्जन्यसुखदुःखभाकत्वेन तत्तद्रूपसम्बन्धः, तथा तदभावात् परस्याऽरूपवत्त्वम् । विधिनिषे-धशास्त्राण्यपि कर्मवश्यमेवाधिकुर्वन्ति, तस्मादरूपतुल्यमेव परं ब्रह्म । ततश्चान्तर्यामिरूपेणावस्थितमपि

3.2.15

ननु च "सत्यं ज्ञानमनन्तं ब्रह्म" इत्यादिभिर्निर्विशेषप्रकाशैकस्वरूपं ब्रह्मावगम्यते, अन्यत्तु सर्वज्ञत्वसत्यस-ङ्कल्पत्वजगत्कारणत्वसर्वान्तरात्मत्वसत्यकामत्वादिकं "नेति नेति" इत्यादिभिः प्रतिषिध्यमानत्वेन मिथ्या-भूतमित्यवगन्तव्यम्, तत्कथं कल्याणगुणाकरत्वनिरस्तनिखिलदोषत्वरूपोभयलिङ्गत्वं ब्रह्मण इति; अत आह -

3.2.15 प्रकाशवच्चावैयथ्यात् ।। 15 ।।

3.2.15

यथा च "सत्यं ज्ञानमनन्तं ब्रह्म" इत्यादिवाक्यावैयर्थ्यात् प्रकाशस्वरूपत्वं ब्रह्मणोऽभ्युपगम्यते । तथा सत्य-सङ्कल्पत्वसर्वज्ञत्व(सर्व)जगत्कारणत्वसर्वात्मकत्वनिरस्त - निखिलाविद्यादिदोषत्वाद्यभिधायिवाक्यावैयर्थ्यादु-भयलिङ्गमेव ब्रह्म ।। 15 ।।

3.2.16 आह च तन्मात्रम् ।। 16 ।।

3.2.16

किञ्च "सत्यं ज्ञानमनन्तम्" इत्यादि वाक्यं ब्रह्मणः प्रकाशस्वरूपतामात्रं प्रतिपादयति, नान्यत् सत्यसङ्कल्प-त्वादिकं वाक्यान्तरावगतं निषेधति; "नेति नेति" इति चा निषेधस्य विषयोऽनन्तरमेव वक्ष्यते ।। 16 ।।

3.2.17 दर्शयति चाथो अपि स्मर्यते ।। 17 ।।

3.2.17

दर्शयति च वेदान्त(वाक्य)गणः कल्याणगुणाकरत्वं निरस्तनिखिलदोषत्वं च "तमीश्वराणां परमं महेश्वरन्तं दैवतानां परमं च दैवतम् । स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः । न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानवलक्रिया च" "यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयन्तपः" "भीषाऽस्माद्वातः पवते भीषोदेति सूर्यः" "स एको ब्रह्मण आनन्दः" । यतो वाचो निवर्त्तन्ते "आप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्न विभेति कुतश्चनेति" "नि- ष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्" इत्याति । स्मर्यते च "यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्" "मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् । हेतुनाऽनेन कौ- न्तेय जगद्धि परिवर्त्तते" "उत्तमः पुरुषस्त्वन्य परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य विभत्र्त्यव्यम ईश्वरः "सर्वज्ञः सर्वकृत्सर्वशक्तिर्ज्ञानबलर्द्धिमान् । अन्यूनश्चाप्यवृद्धिश्च स्वाधीनोऽनादिमान् वशी । क्लमतन्द्रीभ-यक्रोधकामादिभिरसंयुतः । निरवद्यः परः प्राप्तेर्निरधिष्ठोऽक्षरक्रमः" इत्यादिः । अतः सर्वत्रावस्थितस्यरपि ब्रह्मण उभयलिङ्गत्वात् तत्तत्स्थानप्रयुक्ताः दोषाः न परं ब्रह्म स्पृशन्ति ।। 17 ।।

3.2.18 अत एव चोपमा सूर्य्यकादिवत् ।। 18 ।।

3.2.18

यतो नानाविधेषु#े स्थानेषु स्थितस्यापि परस्य ब्रह्मणो न तत्प्रयुक्तदोषभाक्तवम्, अत एव जलदर्पणादिप्रति-बिम्बितसूर्य्यादिवत् परमात्मा तत्र तत्रावस्थितोऽपि निर्दोष इति शास्त्रेषूपमा क्रियते "आकाशमेकं हि यथा घटादिषु पृथप्भवेत् । तथात्मैको ह्यनेकस्थो जलाधारोष्विवांशुमान् । एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत्" इत्यादिषु ।। 18 ।।

3.2.19

अत्र चोदयति -

3.2.19 अम्बुवदग्रहणात्तु न तथात्वम् ।। 19 ।।

3.2.19

तुशब्दश्चोद्यं द्योतयति अम्बुवदिति सप्तम्यन्ताद्वतिः । अम्बुदपर्णादिषु यथा सूर्यमुखादयो गृह्मन्ते; न तथा पृथिव्यादिषु#ु स्थानेषु परमात्मा गृह्मते । अम्ब्वादिषु#े हिसूर्यादयो भ्रान्त्या तत्रस्था इव गृह्यन्ते; न परमार्थ-तस्तत्रस्थाः । इह तु "यः पृथिव्यां तिष्ठन्" योऽप्सु तिष्ठन्" "य आत्मनि तिष्ठन्3 इत्येवमादिना परमार्थत एव परमात्मा पृथिव्यादिषु स्थितो गृह्यते । अतः सूर्यादेरम्बुदर्पणादिप्रयुक्तदोषाननुषङ्गस्तत्र तत्र स्थित्यभावादेव। अतो न तथात्वं- दार्ष्टान्तिकस्य न दृष्टान्ततुल्यत्वमित्यर्थः ।। 19 ।।

3.2.20

परिहरति -

3.2.20 वृद्धिह्रासभाक्तवमन्तर्भावादुभयसामञ्जस्यादेवं दर्शनाच्च ।। 20 ।।

3.2.20

पृथिव्यादिस्थानान्तर्भावात् स्थानिनः परस्य ब्रह्मणः स्वरूपतो गुणतश्च पृथिव्यादिस्थानगतवृद्धिह्रासादि-दोषभाक्त्वमात्रं सूर्यादिदृष्टान्तेन निवत्र्त्यते । कथमिदमवगम्यते? उभयसामञ्जस्यादेवम् उभयदृष्टान्तसामञ्ज-स्यादेवमिति निश्चीयते । "आकाशमेकं हि यथा घटादिषु पृथग्भवेत्" । जलाधारेष्विवांशुमान्" इति दोषव-त्स्वनेकेषु वस्तुषु वस्तुतोऽवस्थितस्याकाशस्य, वस्तुतोऽनवस्थितस्यांशुमतश्चोभयस्यदृष्टान्तस्योपादानं हि परमात्मनः पृथिव्यादिगतदोषभाक्तवनिवत्तर्नमात्रे प्रतिपाद्ये समञ्जसं भवति । घटकरकादि#ेषु यथा वृद्धिह्रास-भाक्षु पृथक् पृथक् संयुज्यमानमप्याकाशं वृद्धिह्रासादिदोषैर्न स्पृश्यते; यथा च जलाधारेषु विषमेषु दृश्यमा-नोऽ#ंशुमांस्तद्गतवृद्धिह्रासादिभिर्न स्पृश्यते, तथाऽयं परमात्मा पृथिव्यादिषु नानाकारेष्वचेतनेषु चेतनेषु च स्थितस्तत्तद्गतवृद्धिह्रासादिदोषैरसंस्पृष्टः सर्वत्र वर्त्तमानोऽप्येक एवास्पृष्टदोषगन्धः कल्याणगुणाकर एव । एतदुक्तं भवति - यथा जलादिषु वस्तुतोऽनवस्थितस्यांशुमतो हेत्वभावाज्जलादिदोषानभिष्वङ्गः, तथा पृथि-व्यादिष्ववस्थितस्यापि परमात्मनो दोषप्रत्यनीकाकारतया दोषहेत्वभावान्न दोषसम्बन्ध इति, दर्शनाच्च-दृश्यते चैवं सर्वात्मना साधर्म्याभावेऽपि विवक्षितां-शसाधर्म्याद् दृष्टान्तोपादानम्, सिंह इव माणवक इत्यादौ ।

3.2.20

अतः स्वभावतो निरस्तनिखिलाज्ञानादिदोषग-न्धस्य समस्तकल्याणगुणाकरस्य पृथिव्यादिस्थानतोऽपि न दोषसम्भवः ।। 20 ।।

3.2.21

अथ स्यात् "द्वे वाव ब्रह्मणो रूपे मूर्त्तं चामूर्तमेव च" इति प्रकृत्य समस्तंस्थूलसूक्ष्मरूपं प्रपञ्चं ब्रह्मणो रूप- त्वेन परामृश्य "तस्य ह वा एतस्य पुरुषस्य रूपं यथा महारजनं वासः" इत्यादिना आकारविशेषं चाभिधाय "अथात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत्परमस्ति" इति सर्वं प्रकृतं ब्रह्मणः प्रकारमितिशब्देन परामृश्य तत्सर्वं प्रतिषिध्य सर्वविशेषाधिष्ठानं सन्मात्रमेव ब्रह्म; विशेषास्त्वेवंविधं स्वस्वरूपमजानता ब्रह्म-णा कल्पिता इति दर्शयति; अतः कथमुभयलिङ्गत्वं ब्रह्मण इति-अत्राह -

3.2.21 प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ।। 21 ।।

3.2.21

नैतदुपपद्यते-यद्व्रह्मणः प्रकृतविशेषवत्त्वं "नेति नेति" इति प्रतिषिध्यत-इति, तथा सति भ्रान्तजल्पितायमा-नत्वात् । न हि ब्रह्मणो विशेषणतया प्रमाणान्तराप्रज्ञातं सर्वं तद्विशेषणत्वेनोपदिश्य पुनस्तदेवानुन्मत्तः

प्रतिषेधति । यद्यपि निर्द्दिश्यमानेषु केचन पदार्थाः प्रमाणान्तरप्रसिद्धाः; तथाऽपि तेषां ब्रह्मणः प्रकारत्वम-प्रज्ञातमेव, इतरेषां तु स्वरूपं ब्रह्मणः प्रकारत्वं चाज्ञातम् । अतस्तेषामनुवादासम्भवादत्रैवोपदिश्न्ते । अतस्तन्निषेधो नोपपद्यते । यस्मादेवम् तस्मात् प्रकृतैतावत्त्वं ब्रह्मणः प्रतिषेधतीदं वाक्यम् । ये ब्रह्मणो विशेषाः प्रकृताः; तद्विशिष्टतया ब्रह्मणः प्रतीयमानेयत्ता "नेति

3.2.21

नेति" इति प्रतिषिध्यते #ः नेति नेति-नैवं नैवम्, उक्तप्रकारमात्रविशिष्टं न भवति ब्रह्म; उक्त प्रकारविशिष्ट- तया या ब्रह्मण इयत्ता प्रकृता; साऽत्रेतिशब्देन परामृश्यत इत्यर्थः । यतश्च निषेधानन्तरं ब्रह्मणो भूयो गुण- जातं ब्रवीति, अतश्च प्रकृतविशेषणयोगित्वमात्रं ब्रह्मणः प्रतिषेधति । ब्र्रवीति हि भूयो गुणजातं, "न ह्येत-स्मादिति नेत्यन्यत् परमस्ति अथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्य"मिति । अय- मर्थः-इति नेति नेति यद्व्रह्म प्रतिपादितं, तस्मादेतस्मादन्यद्वस्तु परं न ह्यस्ति ब्रह्मणोऽन्यत्स्वरूपतो गुणत-श्चोत्कृष्टं नास्तीत्यर्थः । तस्य च ब्रह्मणः सत्यस्य सत्यमिति नामधेयं तस्य च निर्वचनं "प्राणा वै सत्यं तेषा-मेष सत्यम्" इति । प्राणशब्देन प्राणसाहचर्य्याज्जीवाः परामृश्यन्ते, ते तावत् सत्यं, वियदादिवत्स्वरूपान्य-थाभावरूपपरिणामाभावात् तेषामेष सत्यं-तेभ्योऽप्येष परमपुरुषः सत्यम्, जीवानां कर्मानुगुण्येनज्ञा-नसङ्कोचविकासौ विद्येते; परमपुरुषस्य त्वपहतपाप्मनस्तौ न विद्येते । अतस्तेभ्योऽप्येष सत्यम् । अतश्चैवं वाक्यशेषोदितगुणजातयोगात् "नेति नेति"ति ब्रह्मणः सविशेषत्वं न प्रतिषिध्यते अपि तु पूर्वप्रकृतेयत्तामा- त्रम् । अत उभयलिङ्गमेव परं ब्रह्म ।। 21 ।।

3.2.22

ब्रह्मणः प्रमाणान्तरागोचरत्वेन तत्सम्बन्धितया मूर्त्तामूर्त्तादिरूपानुवादेन तन्निषेधासंभवात् प्रकृतेयत्ताप्रति- षेथ उक्तः; तदेव प्रमाणान्तरागोचरत्वं द्रढयति -

3.2.22 तदव्यक्तमाह हि ।। 22 ।।

3.2.22

तत्-ब्रह्म प्रमाणन्तरेण नैव व्यज्यते, आह हि शास्त्रं "न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनै- नम्" "न चक्षुषा गृह्मते नापि वाचा" इत्यादि ।। 22 ।।

3.2.23 अपि संराधने प्रत्यक्षानुमानाभ्याम् ।। 23 ।।

3.2.23

अपि च संराधने -सम्यक्ष्रोणने भक्तिरूपापन्ने निदिध्यासन एवास्य साक्षात्कारो नान्यत्रेति श्रुतिस्मृति-भ्यामवगम्यते । "नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यः तस्यैष आत्मा विवृणुते #ेतनूं स्वाम्" "ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः" इति श्रुतिः । स्मृतिरपि "नाहं वेदैनर् तपसा न दानेन न चेज्यया" "भक्तया त्वनन्यया शक्यः अहमेवंविधोऽर्ज्जुन ! । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परं " इति । भक्तिरूपापन्नमेवोपासनं संराधनं तस्य प्रक्षणनमिति प्रीणमेवोक्तम् । अतो निदिध्यासनाय ब्रह्मस्वरूपमुपदिशत् "द्वे वाव ब्रह्मणः" इत्यादिशास्त्रं ब्रह्मणो मूर्त्तामूर्त्तरूपद्वयादिविशि- ष्टतां प्रागसिद्धां नानुवदितुं क्षमम् ।। 23।।

2.3.24 प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ।। 24 ।।

2.3.24

इतश्च प्रकृतैतावत्त्वमेव प्रतिषेधति न मूर्त्तामूत्तादिविशिष्टत्वम्; यतः साक्षात्कृतपरब्रह्मस्वरूपाणां वामदेवा- दीनां दर्शने प्रकाशादिवत्-ज्ञानानन्ददिस्वरूपवन्मूर्त्तादिप्रपञ्चविशिष्टताया अपि ब्रह्मगुणत्वावैशेष्यं प्रती#ेयते "तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे #्रअहं मनुरभवं सूर्य्यश्च" इत्यादि । ब्रह्मस्वरूपभूतप्रकाशानन्दादिश्च तेषां वामदेवादीनां संराधनात्मके कर्मण्यभ्यासात् उपलभ्यते, तद्वच्चाभ्यस्तसंराधनानां तेषां मूर्त्तामूर्त्तादिविशि-ष्टत्वमप्यविशेषेण प्रतीयत इत्यर्थः ।। 24 ।।

3.2.25

उक्तं ब्रह्मण उभयलिङ्गत्वमुपसंहरति -

3.2.25 अतोऽनन्तेन तथा हि लिङ्गम् ।। 25 ।।

3.2.25

अत उक्तैर्हेतुभिर्ब्रह्मणोऽनन्तेन कल्याणगुणगणेन विशिष्टत्वं सिद्धम्, तथा हि सत्युभयलिङ्गं ब्रह्मोपपन्नं भवति ।। 25 ।। ।। उभयलिङ्गाधिकरणं समाप्तम् ।।

3.2.26

अस्मिन्नधिकरणेऽवान्तरशङ्कातत्परिहारबाहुल्यात् साध्यप्रतिपत्तिव्या- कुलता स्यादिति परमसाध्योपसंहारेण तन्निवृत्त्यर्थं सूत्रमभिप्रयन् व्याचष्टे - अत इति । तथा हि सतीति - इय-त्तानिषेधपरत्वे सति न केवलमुभयलिङ्गत्वाबाधः, अपि तूभयलिङ्गत्वमुपपादितं भवति हीत्यर्थः । ये तू भयलिङ्गत्वं

3.2.26 उभयव्यपदेशात्त्वहिकुण्डलवत् ।। 26 ।।

3.2.26

मूर्तामूर्तात्मकस्याचित्प्रपञ्चस्य ब्रह्मणो रूपत्वं "द्वे वाव ब्रह्मणो रूपे" इत्यादिनोपदिश्यते । "अथात आदेशो नेति नेति" इति मूर्त्तामूर्त्ताचिद्वस्तुरूपतया ब्रह्मण इयत्ता प्रतिषिद्धयते । "न ह्येतस्मादिति नेत्यन्यत्परमस्ति" इति ब्रह्मणोऽन्यदुष्कृष्टं न ह्यस्तीति प्रतिपादितम् । तदुपपादनाय "अथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम्" इति प्राणशब्दनिर्द्दिष्टेभ्यश्चेतनेभ्योऽप्येष सत्यमिति कदाचिदपि ज्ञानादिसङ्कोचाभावा- दुक्तम् । तथा "प्रधानक्षेत्रज्ञपतिर्गुणेशः" "पतिं विश्वस्यात्मेश्वरं" "नित्यो नित्यानां चेतनश्चेतनानाम्" इत्यादि-श्रुतेश्चायमर्थोऽवगम्यते । तस्याचिद्वस्तुनो ब्रह्मरूपत्वप्रकार इदानीं चिन्त्यते, ब्रह्मणो निर्दोषत्वसिद्धयर्थं किमस्याचिद्वस्तुनो ब्रह्मरूपत्वमहिकुण्डलन्यायेन? उत प्रभाप्रभावतोरिवैकजातियोगेन? उत जीवस्येव विशेषणविशेष्यतयांऽशांशिभावेन इति । इह स्थाप्यमानं विशेषणविशेष्यभावमङ्गीकृत्य "प्रकृतिश्च प्रति-ज्ञादृष्टान्तानुपरोधात्" "तदनन्यत्वमारम्भणशब्दादिभ्यः" इत्यत्र सूक्ष्मचिदचिद्वस्तुविशिष्टाद्व्रह्मणः स्थूल-चिदचिद्विशिष्टस्योत्पत्तिरनन्यत्व #ं चोक्तम् । किं युक्तम्? अहिकुण्डलवदिति; कुतः? उभयव्यपदेशात्,

3.2.26

"ब्रह्मैवेदं सर्वम्" "आत्मैवेदं सर्वम्" इति तादात्म्यव्यपदेशात् "हन्ताऽहमिमास्तिस्त्रो देवता अनेन जीवे-नौत्मनाऽनुप्रविश्य" इत्यादि भेदव्यपदेशाच्चाहेः कुण्डलभावर्जुभाववत्तस्यैव ब्रह्मणः संस्थानविशेषा एवाचि-द्वस्तूनि ।। 26 ।।

3.2.27 प्रकाशश्रयवद्वा तेजस्त्वात् ।। 27 ।।

3.2.27

वाशब्दः पक्षव्यावृत्त्यर्थः । ब्रह्मस्वरूपस्यैवाचिद्रूपेणावस्थाने भेदश्रुतयो ब्रह्मणोऽपरिणामित्ववादिन्योऽपि वाधिता भवेयुः, अतो यथा तेजस्त्वेन प्रभातदाश्रययोर्भिन्नयोरपि तादात्म्यम्; एवमचित्प्रपञ्चस्य ब्रह्मणो रूपत्वमि-त्यर्थः ।। 27 ।।

3.2.28 पूर्ववद्वा ।। 28 ।।

3.2.28

वाशब्दः पक्षद्वयव्यावृत्त्यर्थः । एकस्यैव द्रव्यस्यावस्थाविशेषयोगे ब्रह्मस्वरूपस्यैवाचिद्द्रव्यरूपत्वादुक्तदो-षादनिर्मोक्षः, अथ प्रभातदाश्रययोरिवाचिद्व्रह्मणोर्व्रह्मत्वजातियोगमात्रम्; एवं तर्ह्यश्वत्वगोत्ववद्व्रह्मापीश्वरे चिदचिद्वस्तुनोश्चानुवर्तमानं सामान्यमिति सकलश्रुतिस्मृतिव्यवहारविरोधः पूवर्वदेव, "अंशो नानाव्यपदे-शात्" "प्रकाशादिवत्तु नैवं परः" इति जीववत् पृथक्सिद्धयनर्हविशेषणत्वेनाचिद्वस्तुनो ब्रह्मांशत्वम्; विशि-ष्टवस्त्वेकदेशत्वेनाभेदव्यवहारो मुख्यः, विशेषणविशेष्ययोः स्वरूपस्वभावभेदेन भेदव्यवहारो मुख्यः, ब्रह्म-णो निर्दोषत्वं च रक्षितम् । तदेवं प्रकाशजातिगुणशरीराणां मणिव्यक्तिगुण्यात्मनः प्रत्यपृथक्सिद्धिलक्षण-

3.2.29 प्रतिषेधाच्च ।। 29 ।।

3.2.29

"स वा एष महानज आत्माऽजरोऽमरः, नास्य जरयैतज्जीर्यति" इत्यादिभिर्ब्रह्मणोऽचिद्धर्मप्रतिषेधाच्च विशे-षणविशेष्यत्वेनैवांशांशिभाव इत्यर्थः । अतः सूक्ष्मचिदचिद्वस्तुविशिष्टं कारणभूतं ब्रह्म, स्थूलचिदचिद्वस्तुवि-शिष्टं कार्यभूतं ब्रह्मेति कारणात्कार्यस्यानन्यत्वं, कारणभूतब्रह्मविज्ञानेन कायर्स्य ज्ञाततेत्यादि सर्वमुपपन्नम्; ब्रह्मणो निर्दोषत्वं च रक्षितम् । ब्रह्मणोनिर्दोषत्वेन कल्याणगुणाकरत्वेन चोभयलिङ्गत्वमपि सिद्धम् ।। 29 ।।

।। अहिकुण्डलाधिकरणं समाप्तम् ।।

3.2.30 परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ।। 30 ।।

3.2.30

इदानीमस्मात्परस्माज्जगन्निमित्तोपादानरूपपरमकारणात्परब्रह्मणः परमपि किञ्चि-त्तत्त्वमस्तीति कैश्चिद्धेत्वाभासैराशङ्कय निराक्रियते, अस्योपास्यस्य निर्दोषत्वानवधिकातिशयासङ्खयेयकल्या-

3.2.30

णगुणाकरत्वस्थेम्ने । तत्रेयमाशङ्का-यदिदं परं ब्रह्मोभयलिङ्गम्, एतस्मान्निखिलजगत्कारणात् परमपि किचित्तत्त्वमस्ति । कथम्? "अथ य आत्मा स सेतुर्विधृतिः" इत्यस्य परस्य सेतुत्वव्यपदेशात् । सेतुशब्दस्य च लोके कूलान्तरप्राप्तिहेतौ प्रसिद्धेः, इतोन्यदनेन प्राप्यमस्तीति गम्यते । तथा "एतं सेतुं तीर्त्वा अन्धसन्ननन्धो भवति" इति तरितव्यता चास्याभिधीयते । अतश्चान्यत्प्राप्यमस्ति, उन्मानव्यपदेशाच्च-उन्मितं-परिमितम् इदं परं ब्रह्म "चतुष्पाद्व्रह्मषोडशकलम्" इति उन्मानव्यपदेशात् । स चायमुन्मानव्यपदेशस्तेन सेतुना प्रप्य-स्यानुन्मितस्यास्तितां द्योतयति । तथा सम्बन्धव्यपदेशश्च सेतुसेतुमतोः प्रापकत्वप्राप्यत्वलक्षणो दृश्यते । "अमृतस्य परं सेतुं दग्धेन्धनमिवानलम्" "अमृतस्यैष सेतुः" इति, अतश्च परात्परमस्ति । भेदेन च परात्परं व्यपदिश्यते "परात्परं पुरुषमुपैति" "परात्परं यन्महतो महान्तम्" इति च । तथा "तेनेदं पूर्णं पुरुषेण सर्वम्" "ततो यदुत्तरतरं तदरूपमनामयम" इति । अत एभ्यो हेतुभ्यः परस्माद्व्रह्मणः परमपि किञ्चिदस्तीति गम्यते इति ।। 30 ।।

3.2.31

एवं प्राप्तेऽभिधीयते --

3.2.31 सामान्यात्तु ।। 31 ।।

3.2.31

तुशब्दः पक्षं व्यावर्त्तयति ।यत्तावदुक्तं सेतुव्यपदेशात् परात्परमस्तीति तन्नोपपद्यते । न ह्ययमत्र किचित्प्राप्यं प्रति सेतुरुच्यते "एषां लोकानामसम्भेदाय" इति सेतुसामान्येन सर्वलोकासङ्करकरत्वश्रुतेः । सिनोति-वध्नाति स्वस्मिन्सर्वं चिदचिद्वस्तुजातमसङ्कीर्णमिति सेतुरुच्यते । "एतं सेतुं तीर्त्वा" इति तरतिश्च प्राप्तिवचनः यथा वेदान्तं तरतीति ।। 31 ।।

3.2.32 बुद्धयर्थः पादवत् ।। 32 ।।

3.2.32

योऽयं "चतुष्पद्ब्रह्मषोडशकलं" "पादोऽस्य विश्वाभूतानि" इत्युन्मानव्यपदेशः, स बुद्धयर्थः-उपासनार्थः, "सत्यं ज्ञानमनन्तं बअह्म" इत्यादिभिर्ज्जगत्कारणस्य ब्रह्मणोऽपरिच्छिन्नत्वावगमात् स्वत उन्मितत्वासम्भ- वात् । जगत्कारणत्वं हि तस्यैव श्रूयते "तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः" "सोऽकामयत बहुस्यां प्रजायेयेति" इति । अतो यथा "वाक्पादः प्राणः पादश्चक्षुष्पादो मनः पाद" इत्यादिना ब्रह्मणो वागादिपादव्य-पदेश उपासनार्थः, एवमयमपि ।। 32 ।।

3.2.33

स्वयमनुन्मितस्य कथमुपासनार्थतयाऽप्युन्मानसंभवस्तत्राह -

3.2.33 स्थानविशेषात्प्रकाशादिवत् ।। 33 ।।

3.2.33

प्रतिपन्नवागादिस्थानविशेषरूपोपाधिभेदात्तत्सम्बन्धितयोन्मितत्वानुसन्धानं सम्भवति, यथा प्रकाशादेर्वि-ततस्य वातायनघटादिस्थानभेदैः परिच्छिद्यानुसन्धानसम्भव इत्यर्थः ।। 33 ।।

3.2.34 उपपत्तेश्च ।। 34 ।।

3.2.34

यदुक्तम् "अमृतस्यैष सेतुः" इति प्राप्यप्रापकसम्बन्धव्यपदेशात् प्रापकात्परं प्राप्यमन्यदस्तीति; तन्न, प्राप्यस्य परमपुरुषस्य स्वप्राप्तौ स्वस्यैवोपायत्वोपपत्तेः, "नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमे- वैष वृणुते तेन लभ्यस्तस्यैष विवृणुते तनूं स्वाम्" इत्यनन्योपायत्वश्रवणात् ।। 34 ।।

3.2.35 तथान्यप्रतिषेधात् ।। 35 ।।

3.2.35

यत्पुनरुक्तं "ततो यदुत्तरतरं" "परात्परं पुरुषम्" अक्षरात्परतः परः" इत्यादिभेदव्यपदेशात्परात्परमस्तीति, तन्नोपपद्यते, तत्रैव ततोऽन्यस्य प्रतिषेधात्, "यस्मात्परं नापरमस्ति किञ्चित् यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित्" यस्मादपरं परं नास्ति किञ्चित् न केनापि प्रकारेण परमस्तीत्यर्थः, तथाऽन्यत्रापि "न ह्येतस्मादिति नेत्यन्यत्परमस्तीति नेति" इति नेति निर्दिष्टादेतस्माद्व्रह्मणोऽन्यत्परं न ह्यस्तीत्यर्थः । तथा "न तस्येशे कश्चन

3.2.35

तस्य नाम महद्यशः" इति । तद्धि जगदुपादानकारणतयाऽनन्तरमुक्तं "सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि" स आपः प्रदुघे उभे इमे" इत्यादिना "अभ्द्यः सम्भूतो हिरण्यगर्भः इत्यष्टौ" इति च जगत्कारणं पुरुषमेनं प्रत्यभि-ज्ञापयति । "ततो यदुत्तरतर"मिति किमुच्यत इति चेत्, पूर्वत्र "वेदाहमेतं पुरुषं महान्तमाद्यिवर्णं तमसः पर-स्तात् । तमेवं विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय" इति परस्य ब्रह्मणो महापुरुषस्य वेदनमे-वामृतत्वसाधनं, नान्योऽमृतत्वस्य पन्था इत्युपदिश्य तदुपपादनाय "यस्मात्परं नापरमस्ति किञ्चिद्यस्मा-न्नाणीयो न ज्यायोऽस्ति कश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम्" इति पुरुषस्य परत्वं तद्वयतिरिक्तस्य परत्वासम्भवं च प्रतिपाद्य "ततो यदुत्तरतरं तदरूपमनामयम् । य एतद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति" इति पूर्वोक्तमर्थं हेतुतो निगमयति । यदुत्तरतरं पुरुषतत्त्वं तदेवारूपमनामयं यतस्ततो य एतत्पुरुषतत्त्वं विदुः त एवामृता भवन्त्यथेतरे दुःखमेवापियन्तीति । अन्यथोपक्रमविरोधोऽन-न्तरोक्तिविरोधश्च, "परात्परं पुरुषमुपैति दिव्यम्" इति पूर्वत्र "अक्षरात्परतः परः" इत्यक्षरादव्याकृताद्यः परः समष्टिपुरुषस्तस्मात्परो योऽदृश्यत्वादिगुणकः सर्वज्ञः परमपुरुषः स एवेहापि "परात्परः" इति समष्टिपुरुषा-त्परत्वेनोच्यते ।। 35 ।।

3.2.36 अनेन सर्वगतत्वमायामशब्दादिभ्यः ।। 36 ।।

3.2.36

अनेन ब्रह्मणा सर्वगतत्वं सर्वस्य जगतो व्याप्तत्वम्, आयामशब्दादिभ्यः-सर्वव्याप्तिवाचिशब्देभ्योऽवगम्य-मानमस्मात्परं नास्तीत्यवगमयति । आयामशब्दस्तावत् तेनेदं पूर्णं पुरुषेण" सर्वं "यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा । अन्तबहिश्च तत्सर्वं व्याप्य नारायणः स्थितः" "नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः" । आदिशब्दात् "ब्रह्मैवेदं सर्वम्" आत्मैवेदं सर्व"मित्यादयो गृह्मन्ते । अत इदं परं ब्रह्मैव सर्वस्मात्परम् ।। 36 ।।

।। इति पराधिकरणम् ।।

3.2.37 फलमत उपपत्तेः ।। 37 ।।

3.2.37

उक्तमुपासिसिषोपजननार्थं जीवस्य सर्वावस्थासु सदोषत्वं, प्राप्यस्य च परम-

3.2.38 श्रुतत्वाच्च ।। 38 ।।

3.2.38

"स वा एष महानज आत्माऽन्नादो वसुदानः" "एष ह्येवानन्दयाति" इति भोगापवर्गरूपं पलमयमेव ददाती- ति हि श्रूयते ।। 38 ।।

3.2.39

सम्प्रति पूर्वपक्षमाह -

3.2.39 धर्मं जैमिनिरत एव ।। 39 ।।

3.2.39

अत एव-उपपत्तेः, शास्त्राच्च यागदानहोमोपासनरूपधर्ममेव फलप्रदं जैमिनिराचार्यो मन्यते । लोके हि कृष्या-

दिकं दानादिकं च कर्म साक्षाद्वा एरम्परया वा स्वयमेव फलसाधनं दृष्टम्; एवं वेदेऽपि यागदानहोमा- दानां साक्षात्फलसाधनत्वाभावेऽपि परम्परया अपूर्वद्वारेण फलसाधनत्वमुपपद्यते । तथा "यजेत स्वर्गकामः" इत्यादिशास्त्रमपि सिषाधयिषितस्वर्गस्य कर्त्तव्यतया यागाद्यभिदधदन्यथानुपपत्त्या अपूर्वद्वारेण फलसाधन-त्वमवगमयति ।। 39 ।।

3.2.40 पूर्वं तु वादरायणो हेतुव्यपदेशात् ।। 40 ।।

3.2.40

तुशब्दः पक्षव्यावृत्त्यर्थः; पूर्वोक्तं परमपुरुषस्यैव फलप्रदत्वं भगवान् वादरायणो मन्यतेः कुतः? हेतुव्यपदेशा- त्-यज देवपूजायामिति देवताराधनभूतयागाद्याराध्यभूताग्निवाय्यवादिदेवतानामेव तत्तत्फलहेतुतया तस्मिन्स्तस्मिन्नपि वाक्ये #ेव्यपदेशात् "वायव्यं श्वेतमालभेत भूतिकामो वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति" इत्यादिषु कामिनः सिषाधयिषितफलसाधनत्वप्रकारोपदेशो-

3.2.40

ऽपि विध्यपेक्षित एवेति नातत्परत्वशङ्का युक्ता । एवमपेक्षितेऽपि फलसाधनत्वप्रकारे शब्दादेवावगते सति तत्परित्यागमश्रुतापूर्वादिपरिकल्पनं च प्रामाणिका न सहन्ते । लिङादयोऽपि देवताराधनभूतयागादेः प्रकृ-त्यर्थस्य कर्तृव्यापारसाध्यतां व्युत्पत्तिसिद्धां शब्दानुशासनानुमतामभिदधति; नान्यदलौकिकमिति प्रागेवो- क्तम् । तदेवं "वायुर्वै क्षेपिष्ठा देवता" इत्यादिशब्दाद्वाय्वादीनां फलप्रदत्वमवगम्यते । वाय्वाद्यात्मना च परम-पुरुष एवाराध्यतया फलप्रदायित्वेन चावतिष्ठित इति श्रूयते-"इष्टापूर्त्तं बहुधा जातं जायमानं विश्वं विभर्ति भुव-नस्य नाभिः । तदेवाग्निस्तद्वांयुस्तत्सूर्यस्तदुचन्द्रमाः" इति; अन्तर्यामिब्राह्मणे च "यो वायौ तिष्ठन् यस्य वायुः शरीरं, योऽग्नौ तिष्ठन्, य आदित्ये तिष्ठन्" इत्यादि श्रूयते । स्मर्यते च "यो यो यां यां तनुं भक्तः श्रद्ध-याऽर्चितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव दिधाम्यहम् ।। स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च ततः कामान्मयैव विहितान् हि तान्" इति । अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च" इति, प्रभु- रिति फलप्रदायीत्यर्थः । "देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि । यान्ति मद्याजिनोऽपि माम्" इति च । लोके च कृष्यादिभिर्विचित्ररूपान् द्रव्यविशेषान् सम्पाद्य तै राजानं भृत्यद्वारेण साक्षाद्वाऽर्चयन्ति, अÐच्चतश्च राजा तत्तदर्चनानुगुणं पलं च प्रयच्छन् दृश्यते । वेदान्तास्तु अतिपतितसकलेतरप्रमाणसम्भावना-भूमिं निरस्तसमस्ताविद्यादिदोषगन्धं स्वाभाविकानवधिकातिशयापरिमितोदारगुणसागरं पुरुषोत्तमं प्रति- पाद्य तदाराधनरूपाणि च यागदानहोमात्मकानि, स्तुतिनमस्कारकीर्त्तनार्चनद्यानानि च तदाराधनानि, आराधितात्परस्मात्पुरुषाद्भोगापवर्गरूपं फल च वदन्तीति सर्वं समञ्जसम् ।। 40 ।।

।। इति फलाधिकरणम् ।। 8 ।।

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये

तृतीयस्याध्यायस्य द्वितीयः पादः ।।



3.3.1 सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ।। 1 ।।

3.3.1

उक्तं ब्रह्मोपासिसिषोपजननाय वक्तव्यं ब्रह्मणः फलदायित्वपर्यन्तम्, इदानीं ब्रह्मोपासनानां गुणोपसंहारविकल्पनिर्णयाय विद्याभेदचिन्ता प्रस्तूयते । प्रथमं तावदेकस्या वैश्वानरविद्यादिकायाः अनेकशाखासु श्रूयमाणायाः किमेकविद्यात्वम्? उत विद्याभेद? इति चिन्त्यते ।

3.3.1

अत एव "तेषामेवेतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तुचीर्णम्" इति शिरोव्रतवतामाथर्वणिकानामेव विद्योपदोनियम उपपद्यते, विद्यैक्ये हि विद्याङ्गस्य शिरोव्रतस्यान्येषामपि शाखिनां प्राप्तेर्नियमो नोपपद्यते- एवं प्राप्ते उच्यते-सर्ववेदान्तप्रत्ययमेकमुपासनमिति, कुतः? चोदनाद्यविशेषात्, चोदना तावदुवपासीत विद्यादित्वेवं जातीयको धात्वर्थविशेषविधिः, आदिशब्देन "एकं वा संयोगरूपचोदनाख्याविशेषात्" इति कर्मकाण्डशाखान्तराधिकरणसूत्रोक्ताः संयोगरूपाख्या गृह्यन्ते, एषां चोदनादीनामविशेषात् सैवेयं वि- द्येति शाखान्तरे प्रत्यभिज्ञायते, तथा हि-छान्दोग्यवाजसनेयकयोः "वैश्वानरमुपास्ते" इति चोदना तावदेक-रूपा, वेद्यैकनिरूपणीयस्वरूपस्य विदिपर्यायस्योपासेर्वेद्यभूतवैश्वानरैक्यात् रूपमप्यविशिष्टम् । आख्या च वैश्वानरविद्येत्यविशिष्टा; फलसंयोगोऽप्युभयत्रापि ब्रह्मप्राप्तिरूपोऽविशिष्टः । अत एभिः प्रत्यभिज्ञाना-च्छाखान्तरेऽपि विद्यैक्यम् ।। 1 ।।

3.3.2

यत्तूक्तमविशेषपुनश्श्रवणात्प्रकरणान्तराच्च विधेयभेदप्रतीतेर्न विद्यैक्यमिति तदनुभाष्य परिहरति-

3.3.2 भेदान्नेति चेदेकस्यामपि ।। 2 ।।

3.3.2

अविशेषपुनश्श्रुत्या प्रकरणान्तराच्च विधेयभेदान्न विद्यैक्यमिति चेत् एकस्यामपि विद्यायां प्रतिपत्तृभेदात्पु-नःश्रुतिः प्रकरणान्तरं चोपपद्यते । यत्र ह्येकस्मिन् प्रतिपत्तरि पुनःश्रुतिः प्रकरणान्तरं च विद्यते तत्राऽन्यथा-नुपपत्त्या विधेयभेदाद्विद्याभेदः, प्रतिपत्तृभेदे तु तत्प्रतिपत्त्यर्थतया पुनःश्रुत्याद्युपपत्तेस्तत्र न विधेयान्तरसम्भ- वः ।। 2 ।।

3.3.3

यच्चोक्तं शिरोव्रतवतामाथर्वणिकानामेव विद्योपदेशनियमदर्शनाद्विद्याभेदः प्रतीयत इति, अत्राह -

3.3.3 स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराच्च सववच्च तन्नियमः ।। 3 ।।

3.3.3

नैतदस्ति-शिरोव्रतोपदेशनियमदर्शनं विद्याभेदं द्योतयतीति, शिरोव्रतस्य विद्याङ्गत्वाभावात्, स्वाध्यायस्य तथात्वे हि तन्नियमः- स्वाध्यायस्य तथात्वसिद्धयर्थं-तज्जन्यसंस्कारभाकत्वसिद्धयर्थं हि शिरोव्रतोपदेशनि- यमः, न विद्यायाः । कुत एतत्, "नैतदचीर्णव्रतोऽधीयीत" इति तस्याध्ययनसंयोगात्, समाचारेऽधिकाराच्च, समाचाराख्ये ग्रन्थे "इदमपि वेदव्रतेन व्याख्यातम्" इत्यतिदेशात्" "तेषामेवैतां ब्रह्मविद्यां वदेत" वेदविद्या-

3.3.4 दर्शयति च ।। 4 ।।

3.3.4

दर्शयति च श्रुतिरुपासनस्य सर्ववेदान्तप्रत्ययत्वम्, तथा हि छान्दोग्ये "तस्मिन् यदन्तस्तदन्वेष्टव्यम्" इत्यु-क्तवा "किं तत्र विद्यते यदन्वेष्टव्यम्" इति प्रश्नपूर्वकमपहतपाप्मत्वादिगुणाष्टकविशिष्टः परमात्मा तस्मिन्नु- पास्य इत्युक्तम् । तैत्तिरीयके तु छान्दोग्यस्थं प्रतिनिर्देशमुपजीव्य "तत्रापि दह्रं गगनं विशोकस्तस्मिन् यद-न्तस्तदुपासितव्यम्" इति गुणाष्टकविशिष्टस्य परमात्मन उपासनमुच्यते, तदुभयत्र विद्यैकत्वेन गुणोपसंहा-रादेवोपद्यपते ।। 4 ।।

3.3.5

तदेवं शाखान्तराधिकरणसिद्धं विद्यैक्यं स्थिरीकृत्य तत्प्रयेजनमाह -

3.3.5 उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ।। 5 ।।

3.3.5

एवं सर्ववेदान्तेषु समाने सत्युपासने वेदान्तान्तराम्नातानां गुणानां वेदान्तान्तरे उपसंहारः कर्त्तव्यः, कुतः?

विधिशेषवदर्थाभेदात्, यथैकस्मिन्वेदान्ते श्रुतो वैश्वानरदहरादिविधिशेषो गुणस्तद्विद्यासम्बन्धात्तदुपकार-रूपप्रयोजनसिध्द्यर्थमनुष्ठीयते, तथा वेदान्तान्तरोदितोऽपि तद्विद्यासम्बन्धित्वेन तदुपकाराविशेषादुपसंह- र्त्तव्य इत्यर्थः । चशब्दोऽवधारणे ।। 5 ।। ।। सर्ववेदान्तप्रत्ययाधिकरणं समाप्तम् ।।

3.2.6 अन्यथात्वं शब्दादिति चेन्नाऽविशेषात् ।। 6 ।।

3.2.6

एवं चोदनाद्यविशेषाद्विद्यैकत्वम्, एकत्वे च गुणोपसंहारः कर्त्तव्य इत्युक्तम्, अतः परं काश्चन विद्या अधिकृत्य प्रत्यभिज्ञाहेतुभूतचोदनाद्यविशेषोऽस्ति नेतीति निरूप्य निर्णीयते । अस्त्युद्गीथ-

3.2.6

विद्या वाजिनां छन्दोगानां च । वाजिनां तावत् "द्व्रया ह प्राजापत्या देवाश्चासुराश्च" इत्यारभ्य "ते ह वा देवा ऊचुः हन्तासुरान् यज्ञ उद्गीथेनात्ययाम" इत्युद्गीयेनासुरविध्वंसनं प्रतिज्ञायोद्गीथे वागादीमनः पर्यन्तदृष्टावसुरै-रभिभवमुक्तवा "अथ हेममासन्यं प्राणमूचुः" इत्यादिनोद्गीथे प्राणदृष्टया असुरपराभवमुकत्वा "भवत्यात्मना परऽस्य द्विषन् भ्रातृव्यो भवति य एवं वेद" इति शत्रुपराजयफलायोद्गीथे प्राणदृष्टिविर्हिता । एवं छन्दोगाना- मपि "देवासुरा ह वै यत्र संयेतिरे" इत्यारभ्य "तद्धदेवा उद्गीथमाजह्रुरनेनैनानभिहनिष्यामः" इत्युद्गीथेनासुर-पराभवं प्रतिज्ञाय तद्वदेवोद्गीथे वागादिदृष्टौ दोषमभिधाय "अथ ह य एवायं मुख्यप्राणस्तमुद्गीथमुपासाञ्चक्रिरे" सत्यादिनोद्गीथे प्राणदृष्टया असुरपराभवमुकत्वा 2यथाश्मानमाखणमृत्वा विध्वंसते एवं हैव स विध्वंसते य एवंविदि पापं कामयते" इति शत्रुपराभावायोद्गीथे प्राणदृष्टिर्विहिता, वेदनविषयविधिप्रत्ययाश्रवणेऽपि फल-

3.2.6

साधनत्वश्रवणाद्वेदनविषयो विधिः कल्प्यते । उद्गीथविद्यायु#ा#ः क्रत्वर्थत्वेन क्रतुसाद्गुण्यफलत्वेऽप्यार्थवांदिक- मपि फलं तदविरुद्धं ग्राह्यमेवेति देवताधिकरणे प्रतिपादितम् । तत्र संशय्यते किमत्र विद्यैक्यम्? उत नेति । किं युक्तं? विद्यैक्यमिति कुतः? उभयत्रोद्गीथस्यैवाध्यस्तप्राणभावस्योपास्यत्वश्रवणाच्चोदनाद्यविशेषात् । फलसंयोगस्तावच्छत्रुपरिभवरूपो न विशिष्यते, रूपमप्यध्यस्तप्राण भावोद्गीथाख्योंपास्यैक्यादविशिष्टम्, चोदना च विदिधात्वर्थगताऽविशिष्टा, आख्या चोद्गीथविद्येत्यविशिष्टा । अत्र राद्धान्तिच्छायया परिचोद्य परिहरति-अन्यथात्वं शब्दादिति चेन्नाविशेषात्-इति । यदुक्तं विद्यैक्यमिति, तन्नोपपद्यते, रूपभेदात्; रूपा-न्यथात्वं हि शब्दादेव प्रतीयते; वाजसनेयके हि "अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्" इत्युद्गानस्य कर्त्तरि प्राणदृष्टयाऽसुरपराभवमुकत्वा "य एवं वेद" इति कर्तर्येव प्राणदृष्टिरेवं-शब्दादवगम्यते, छान्दोग्ये "अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे" इत्युद्गानस्य कर्मण्युद्गीथे प्राणदृष्टयाऽसुरपराभवमुकत्वा "य एवंविदि पापं कामयते" इत्येवंशब्दात् कर्मण्येवोद्गीथे प्राणदृष्टिर्विहिता ।

3.2.6

अत एकत्र कर्त्तरि प्राणदृष्टिशब्दादन्यत्र कर्मणि प्राणदृष्टिशब्दाच्च रूपान्यथात्वं स्पष्टम् । रूपान्यथात्वे च विधेयभेदे सति केवलचोदनाद्यविशेषोऽकिञ्चित्कर इति विद्याभेद इति चेत्-तन्न, अविशेषेण ह्युभयत्रोद्गी-थसाधनकपरपरिभव उपक्रमे प्रतीयते, वाजसनेयके "ते ह देवा ऊचुर्हन्तासुरान् यज्ञ उद्गीथेनात्ययाम" इत्युपक्रमे श्रूयते, छान्दोग्येऽपि "तद्ध देवा उद्गीथमाजह्रुरनेनैनानभिहनिष्यामः" इति । अत उपक्रमाविरो- धाय "तेभ्य एष प्राण उदगायत्" इत्यध्यस्तप्राणभाव उद्गीथ उद्गानकर्मभूत एव पाकादिष्वोदनादिव-त्सौकर्यातिशयविवक्षया कर्त्तृत्वेनोच्यते; अन्यथोपक्रमगत उद्गीथशब्दः कर्त्तरिलाक्षणिकः स्यात्, अतो विद्यैक्यम् ।। 6 ।। इतिप्राप्ते प्रचक्ष्महे

3.3.7 न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ।। 7 ।।

3.3.7

नवेति पक्षं व्यावर्तयति, न चैतदस्ति, यद्विद्यैक्यमिति; कुतः? प्रकरणभेदात् "ओमित्येतदक्षरमुद्गीथमुपा-सीत" इति प्रकृतमुद्गीथावयवभूतं प्रणवं प्रस्तुत्य "एतस्य वा अक्षरस्योपव्याख्यानं भवति" "देवासुरा ह वै यत्र संयेतिरे" इत्यारभ्य "अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे" इत्युद्गीथाववयभूतप्रणवविष-यमुपासनं छन्दोगा अधीयते; वाजिनस्तु-तादृशप्राचीनप्रकरणाभावात्" हन्तासुरान् यज्ञ उद्गीथेनात्ययाम" इति-कृत्स्नमुद्गीथं प्रस्तुत्य "अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गाय" इत्यादिकृत्स्नोद्गीथविषयमधीयते; अतः प्रकरणभेदेन विधेयभेदः, विधेयभेदे च रूपभेद इति न

विद्यैक्यम् । किञ्च "अथ ह एवायं मुख्य #ः प्राणस्तमुद्गी-

3.3.7

थमुपासाञ्चक्रिरे" इति पूर्वप्रकृतः उद्गीथावयवभूतः प्रणव एवाध्यस्तप्राणभावश्छन्दोगानामुपास्यः, वाजिना- न्तु कृत्स्नस्योद्गीथस्य कर्त्तोद्गाता प्राणदृष्टयापास्य इति । "अथ हेममासन्यं प्राणमुचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत" इत्युद्गातरि प्राणाध्यासं निर्दिश्य "य एवं वेद" इत्युद्गातैवाध्यस्तप्राणभाव उपास्यो विधीयते, अतश्च रूपभेदः । न चोद्गातर्युपास्ये विहिते "उद्गीथेनात्ययाम" इत्याख्यायिकोपक्रमविरोधः शङ्क-नीयः; उद्गातुरुपासने उद्गीथस्योद्गानकर्मभूतस्यावश्यापेक्षितत्वात्तस्यापि परपरिभवाख्यं फलं प्रति हेतुत्वात् । अतो रूपभेदाद्विद्याभेद इति चोदनाद्यविशेषेऽपि न विद्यैक्यम् । परोवरीयस्त्वादिवत्-यथैकस्यामपि शाखा-यामुद्गीथावयवभूते प्रणवे परमात्मदृष्टिविधानसाम्येऽपि हिरण्मयपुरुषदृष्टिविधानात् परोवरीयस्त्वादिगुण-विशिष्टदृष्टिविधानमर्थान्तरभूतम् ।। 7 ।।

3.3.8 संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ।। 8 ।।

3.3.8

उद्गीथविद्येति संज्ञैक्यात् तत्-विद्यैक्यमुक्तं चेत्-तत् संज्ञैक्यं विधेयभेदेऽप्यस्त्यैव; यथा अग्निहोत्रसंज्ञानि-त्याग्निहोत्रे, कुण्डपायिनामयनाग्निहोत्रे च, यथा चोद्गीथविद्येति छान्दोग्ये प्रथमप्रापाठकोदितासु बह्वीसु विद्यासु ।। 8 ।।

3.3.9 व्याप्तेश्च समञ्जसम् ।। 9 ।।

3.3.9

छान्दोग्ये प्रथमप्रपाठके उवरास्वपि विद्यासूद्गीथावयवस्य प्रणवस्य प्रथमप्रस्तुतस्योपास्यत्वेन व्याप्तेश्च तन्म-ध्यगतस्य "तद्ध देवा उद्गीथमाजह्रुः" सत्युद्गीथशब्दस्य प्रणवविषयत्वमेव समञ्जसम् । अवयवे च समुदाय-शब्दः "पटो दग्धः" इत्यादिषु दृश्यते । अतश्चोद्गीथावयवभूतः प्रणव एवोद्गीथशब्दनिर्दिष्ट इति स एव प्राण-

3.3.9

दृष्टययोपास्यः छान्दोग्ये प्रतिपत्तव्यः । वाजसनेयके तु कृत्स्नोद्गीथविषय उद्गीथशब्द इति कृत्स्नोद्गीथस्य कर्त्तोद्गाता प्राणदृष्टयोपास्य इति विद्यानानात्वं सिद्धम् ।। 9 ।। ।। अन्यथात्वाधिकरणं समाप्तम् ।।

3.3.10 सर्वाभेदादन्यत्रेमे ।। 10 ।।

3.3.10

छान्दोग्यवाजसनेयकयोः प्राणविद्याऽऽम्नायते, "यो ह वै ज्येष्ठं श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च" इत्यादि । तत्र ज्यैष्ठयश्रैष्ठयगुणकं प्राणमुपास्यं प्रति- पाद्य वाक्चक्षुःश्रोत्रमनस्सु वसिष्ठत्वप्रतिष्ठात्वसंपव्वायतनत्वाख्यान् गुणान् प्रतिपाद्य वागादीनां दहेस्य च

3.3.10

प्राणायत्तस्थितित्वेन तदायत्ततत्तत्कार्य्यत्वेन च प्राणस्य श्रैष्ठयं प्रतिपाद्य वागादिसम्बन्धितया श्रुतान् वसि-ष्ठत्वादीन् गुणांश्च प्राणसम्बन्धितया प्रतिपादयति । एवं छान्दोग्यवाजसनेयकयोर्ज्यैष्ठयश्रैष्ठयगुणको वसि-ष्ठत्वादिगुणकश्च प्राण उपास्यः प्रतिपाद्यते । कौपीतर्कानां तु प्राणविद्यायां तथैव ज्यैष्ठयश्रैष्ठयगुणकः प्राण उपास्यः प्रतिपादितः, न पुनर्वासिष्ठत्वादयो वागादिसम्बन्धिनो गुणाः प्राणसम्बन्धितया प्रतिपादिताः । तत्र संशयः- किमत्र विद्या भिद्यते? उत न? इति, किं युक्तम्? भिद्यते इति । कुतः? रूपभेदात् । यद्यप्युभयत्र प्राण एव ज्यैष्ठयश्रैष्ठयगुणक उपास्यः, तथाऽप्येकत्र वसिष्ठत्वादिभिरपि गुणैर्युक्तः प्राण उपास्यः प्रतीयते; इतरत्र तु तद्विधुर इत्युपास्यरूपभेदाद्विद्याभेदः- इति प्राप्ते व्रूमः-सर्वाभेदादन्यत्रेमे, नात्र विद्याभेदः, अन्यत्र कौषीतकीनां प्राणविद्यायामपि इमे वसिष्ठत्वादयो गुणा उपास्याः सन्ति, कुतः? सर्वाभेदात्-प्रतिज्ञातप्राण-ज्यैष्ठयश्रैष्ठयोपपादनप्रकारस्य सर्वस्य तत्राप्यभेदात् । तथा हि छन्दोगवाजसनेयिनां प्राणविद्यायाम् "एता ह वै देवता अहंश्रेयसे व्यूदिरे" "अहंश्रेयसे विवदमानाः" इति चोपक्रम्य वागाद्यहकैकापक्रमणे अन्येषां सप्राणा-नामिन्द्रियाणां शरीरस्य च स्थितिं तत्तत्कार्यं चाविकलं प्रतिपाद्य प्राणोत्क्रमणे सर्वेषां विशरणमकार्यकरत्वं चाभिधाय सर्वेषांप्राणादीनस्थितित्व-तदधीनकार्यत्वाभ्यां प्राणस्य ज्यैष्ठयमुपपादितम् । एवमुपपादितं वा-गादिकार्यस्य प्राणाधीनत्वम् । "अथ हैनं वागुवाच यदहं वसिष्ठाऽस्मि त्वं तद्वसिष्ठोऽसि" इत्यादिना वागा-दिभिरनूद्यते । कौषीतकीनां प्राणविद्यायामपि प्राणज्यैष्ठयश्रैष्ठयप्रतिपादनाय वागादिषु वसिष्ठात्वादयः प्रति-

3.3.10

पादिताः । "अथ हेमा देवताः प्रजापतिं पितरमेत्याव्रुवन् को वै नः श्रेष्ठः" इत्यादिना वागादिगता गुणा वागा-दयश्च देहश्च प्राणाधीनाः इति प्राणस्य ज्यैष्ठयमुपपादितम्, वागादिभिः स्वस्वगुणानां वसिष्ठत्वादीनां प्राणा-धीनत्वानुवादमात्रं तु न कृतम्, नैतावता रूपभेदः, वागादीनां वसिष्ठत्वादिगुणान्वितानां प्राणाधीनकार्य-त्वोपपादनेनैव प्राणस्य वागादिवसिष्ठत्वादिगुणहेतुत्वस्य सिद्धत्वात्, तदेव हि प्राणस्य वसिष्ठत्वादिगुण-योगित्वं; यद्वागादिवसिष्ठत्वादिहेतुत्वम् । अतोऽत्रापि वसिष्ठत्वादिगुणयोगात् प्राणो ज्येष्ठः प्रतिपन्न इति नास्ति विद्याभेदः ।। 10 ।। ।। सर्वाभेदाधिकरणं समाप्तम् ।।

3.3.11

प्राणविद्याङ्गविषयमन्यदपि निरूपणमनन्तरमेव करिष्यते, यथा प्राणस्य वसिष्ठत्वाद्यनुसन्धानेन विना ज्यै-ष्ठयश्रैष्ठयानुसन्धानानुपपत्तेरनुक्तानामपि वसिष्ठत्वादीनां कौपीतकीप्राणविद्यायां प्राप्तः, तथा ब्रह्मस्वरूपा-नुसन्धानं यैर्गुणैर्विना नोपपद्यते ते ब्रह्मविद्यासु सर्वास्वनुसन्धेया इत्ययमर्थः प्रतिपाद्यते-

आनन्दादयः प्रधानस्य ।। 11 ।।

3.3.11

अत्र ब्रह्मस्वरूपगुणानां सर्वासु परविद्यासूपसंहारोऽस्ति, नेति विचार्यते । अप्र-करणाधीतानामुपसंहारे प्रमाणभावात् प्रकरणश्रुतानामेवोपसंहार इति, एवं प्राप्ते व्रूमः- आनन्दादयः प्रधान-स्य, अभेदादिति वर्त्तते, प्रधानस्य गुणिनो ब्रह्मणः गुणिनो ब्रह्मणः सर्वेषूपासनेष्वभेदात् गुण्यपृथग्भावाद्गु-णानां सर्वत्रानन्दादयस्तद्गुणा उपसंहर्त्तव्याः ।। 11 ।।

3.3.12

एवं तर्हि गुण्यपृथग्भावादेवानन्दादिवत् प्रियशिरस्त्वादयोऽपि "तस्य प्रियमेव शिरः" इत्यादौ ब्रह्मगुणत्वेन श्रुताः सर्वत्र प्रसज्येरन्, नेत्याह-

3.3.12 प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ।। 12 ।।

3.3.12

ब्रह्मस्वरूपगुणानां प्राप्तावुच्यमानायां प्रियशिरस्त्वादीनामप्राप्तिः तेषामब्रह्मगुणत्वात्; ब्रह्मणः पुरुषविध-त्वरूपणमात्रान्तर्गतत्वात् प्रियशिरस्त्वादीनाम् । अन्यथा शिरःपक्षपुच्छाद्यवयवभेदे सति ब्रह्मणोऽप्युपच-यापचयौ प्रसज्येयाताम् । तथा च सति "सत्यं ज्ञानमनन्तं ब्रह्म" इत्यादि विरुध्यते ।। 12 ।।नन्वेवमेव ब्रह्मसम्बन्धिनामेवैश्वर्यगाम्भीर्यौदार्यकारुण्यादीनां गुणानामनन्तानां गुण्यपृथक्स्थितत्वमात्रेण

3.3.13

अनन्तरसूत्रस्य शङ्कामाह - नन्विति । एवमेवेत्येवकारः, एवमेव प्रसञ्जेरत्रित्युत्तरत्रान्वयात् प्रसङ्गस्यावर्जनीय तत्राश्रुतानामप्युसंहारे सर्वे सर्वत्र प्रसज्येरन्, आनन्त्यादुपसंहाराशक्तिश्च, तत्राह -

3.3.13 इतरे त्वर्थसामान्यात् ।। 13 ।।

3.3.13

तु शब्दश्चोद्यं व्यावर्त्तयति, इतरे त्वानन्दादयः अथसामान्यत्सर्वत्रानुवर्त्तन्ते । ये त्वर्तसमानाः- अर्थस्वरूप-निरूपणधर्मत्वेनार्थप्रतीत्यनुन्धिनस्तेऽर्थस्वरूपवत्सर्वत्रानुवर्त्तन्ते । ते च गुणाः सत्यज्ञानान्दामलत्वानन्त-त्वानि । "यतो वा इमानि" इत्यादिना जगत्कारणतयोपलक्षितं ब्रह्म "सत्यं ज्ञानमतन्तं ब्रह्म" "आनन्दो बैह्म"

3.3.13

इत्यानन्दादिभिर्हि स्वरूपतो निरूप्यते । अत उपास्वब्रह्मस्वरूपावगमाय सर्वासु विद्यास्वानन्दादयोऽनुव- र्त्तन्ते । ये तु निरूपितस्वरूपस्य ब्रह्मणः कारुण्यादयोगुणाः प्रतिपन्नाः, तेषां गुण्यपृथक्स्थितत्व्रेपि प्रतीत्य-नुबन्धित्वाभावात् ये यत्र श्रुतास्ते तत्रोपसंहार्या इति निरवद्यम् ।। 13 ।।

3.3.14

यद्युपचयापचयप्रसङ्गात् प्रियशिरस्त्वादयो ब्रह्मणः पुरुषविधत्वरूपणमात्रार्थाः, न तु ब्रह्मगुणाः । तर्ह्यतथा-रूपस्य ब्रह्मणस्तथात्वेन रूपणं किमर्थं क्रियते, अतताभूतस्य हि तथात्वरूपणे केनचित्प्रयोजनेन भवित- व्यम्, "यथा आत्मानं

रथिनं विद्धि" इत्यादिनोपासकस्य तदुपकरणानां च रथिरथादित्वरूपणम् उपास-नोपकरण भूतशरीरेन्द्रियादिवशीकरणार्थं क्रियत इत्युक्तम् । न चेह तथाविधं किञ्चित्प्रयोजनं दृश्यते इति बलाद्व्रह्मगुणत्वं प्रियशिरस्त्वादीनामभ्युपेत्यम् । तत्राह -

3.3.14 आध्यानाय प्रयोजनाभावात् ।। 14 ।।

3.3.14

प्रयोजनान्तराभावादाध्यानायां रूपणोपदेशः क्रियते । आध्यानम्- अनुचिन्तनम्, उपासनमुच्यते "ब्रह्मविदा-पनोति परम्" इत्यत्रोपदिष्टाध्यानरूपवेदनसिद्धये ह्यानन्दमयब्रह्मप्रतिपत्त्यर्थमानन्दमयं ब्रह्म प्रियमोदादिरूपेण विभग्य शिरः पक्षादित्वेन रूपयित्वोपदिश्यते । यथा अन्नमयः पुरुषोऽयं देहः शिरः पक्षादिभिः "तस्येदमेव शिरः" इत्यादिना बुद्धावारोप्यते, यथा च प्राणमयमनोमयविज्ञानमयाः "तस्य प्राण एव शिरः" इत्यादिना

3.3.14

प्राणाद्यवयवैर्बुद्धावारोप्यन्ते; एवमेभ्योऽर्थान्तरभूतस्तदन्तरात्माऽऽनन्दमयोऽपि प्रियमोदादिभिरेकदेशैः शिरःप्रभृतित्वेन रूपितैराध्यानाय बुद्धावारोप्यते । एवमानन्दमयोपलक्षणत्वात् प्रियशिरस्त्वादीनां न सर्वदा आनन्दमयप्रतीतावनुवर्त्तन्ते ।। 14 ।।

3.3.15 आत्मशब्दाच्च ।। 15 ।।

3.3.15

"अन्योऽन्तर आत्माऽऽनन्दमयः" इत्यात्मशब्देन निर्देशादात्मनश्च शिरःपक्षपुच्छासम्भवात् प्रियशिरस्त्वाद-यस्तस्यसुखप्रतिपत्त्यर्थं रूपणमात्रमिति गम्यते ।। 15 ।।

3.3.16

ननु "अन्योऽन्तर आत्मा प्राणमयः" "अन्योऽन्तर आत्मा मनोमयः" इत्यात्मशब्दस्याऽनात्मस्वपि पूर्वं प्रयुक्तत्वात् "अन्योऽन्तर आत्माऽऽनन्दमयः" इत्यात्मशब्दस्यात्मविषयत्वं कथं निश्चीयते, तत्राह -

3.3.16 आत्मगृहीतिरितरबदुत्तरात् ।। 16 ।।

3.3.16

"अन्योऽन्तर आत्माऽऽनन्दमयः" इत्यत्रात्मशब्देन परमात्मन एव ग्रहणम्; इतरवत्, यथा इतरत्र "आत्मा वा इदमेक एवाग्र आसीत् स ईक्षत लोकान्नु सृजै" इत्यादिष्वात्मशब्देन परमात्मन एव ग्रहणम्; तद्वत् । कुत एतत्? उत्तरात् "सोऽकामयत बहु स्यां प्रजायेय" इत्यानन्दमयविषयादुवराद्वाक्यात् ।। 16 ।।

3.3.17 अन्वयादिति चेत्स्यादवधारणात् ।। 17 ।।

3.3.17

 

पूर्वत्र प्राणमयादिष्वनात्मस्वात्मशब्दान्वयदर्शनान्नोत्तरान्निश्चेतुं शक्यत इति चेत्-स्यादवधारणात्, स्यादेव निश्चयः, कुतः? अवधारणात्, पूर्वत्रापि "तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः" इति परमात्मन एव

3.3.18 कार्य्याख्यानादपूर्वम् ।। 18 ।।

3.3.18

पूर्वप्रस्तुतप्राणविद्याशेषभूतम् इदानीं चिन्त्यते । छान्दोग्यावाजसनेकयोर्ज्येष्ठं श्रेष्ठं च प्राणमुपास्यमक्तवा प्राणस्य वासस्त्वेनापोऽभिधीयन्ते । छान्दोग्ये तावत्" "सा होवाच किं मे वासो भविष्यतीत्याप इति होजुस्तमाद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति लम्भुको ह वासो भवत्यनग्नो भवति" इति । वाजसनेयके किं मे वासः" इति प्राणेन पृष्टा वागादय ऊचुः "आपो वास इति तद्विद्वांशश्श्रोत्रिया अशिष्यन्त आचामन्त्यशित्वा चाचामन्ति एतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते" "तस्मादेवंविदशिष्यन्नाचामेदशित्वा चाचामेदेतमेव तदनमनग्नं कुरुते" इति । तत्र संशयः किमत्राचमनं विधीयते? उतायां प्राणवासस्त्वानुसन्धानम्? इति । "अशिष्यन्नाचामेदशित्वा चाचामेत्" इति आचमने विधिप्रत्ययश्रवणात् "एतमेव तदनमनग्नं कुरुते" इति वेदने विधिप्रत्ययाभावादनग्नतासंकीर्त्तनस्य स्तु-

3.3.18

त्यर्थतयाऽन्वयोपपत्तेश्च, भोजनाङ्गस्याचमनस्य स्मृत्याचारप्राप्तत्वेन विधिप्रत्ययवलात्प्राणविद्याङ्गमाचमना-न्तरं विधीयते-इति प्राप्ते व्रूमः- आचमनीयानामषां प्राणस्य वसस्त्वानुसन्धानमेवेहापूर्वमप्राप्तं विधीयते, कार्य्याख्यानात्-अप्राप्ताख्यानात्, अप्राप्ताख्याने शब्दस्यार्थवत्त्वादित्यर्थः । एतदुक्तं भवति-"किं मे वासः" "आपो वासः" "अद्भिः परिदधति" "एतमेव तदनमनग्नं कुरुते" इत्युपक्रमोपसंहारयोर्वाक्यस्याषां प्राणवासो-दृष्टिपरत्वप्रतीतेराचमनस्य स्मृत्याचारप्राप्तत्वादाचमनमनूद्याचमनीयास्वप्सु प्राणवाससत्वानुसन्धानं विधी-यते-इति । अत एव च्छान्दोग्ये "तस्याद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्याच्चाद्भिः परिदधति" इत्यद्भिः परि-धानमेवोक्तम्; नाचमनम् ।। 18 ।। ।। कार्याख्यानाधिकरणं समाप्तम् ।।

3.3.19 समान एवं चाभेदात् ।। 19 ।।

3.3.19

वाजसनेयके अग्निरहस्य शाण्डिल्यविद्याऽऽम्नाता, "सत्यं ब्रह्मेत्युपासीत अथ खलु क्रतुमयोऽयं पुरुषः" इत्यारभ्य "स आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपं सत्यसङ्कल्पमाकाशा-

3.3.19

त्मानम्" इति । तथा तस्मिन्नेव बृहदारण्यके पुनरपि शाण्डिल्यविद्याऽऽम्नायते "मनोमयोऽयं पुरुषो भाः सत्यं तस्मिन्नन्तरर्हृदय यथा व्रीहिर्वा यवो वा स एष सर्वस्य वशी सवर्स्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्च" इति तत्र संशयः- किमत्र भिद्यते? उत नेति । संयोगचोदनाख्यानामविशेषेऽपि वशि-त्वाद्युपास्यगुणभेदेन रूपभेदाद् विद्याभेदः- इति प्राप्त उच्यते-समान एवमिति । यथाऽग्निरहस्ये "मानेमयः प्राणशरीरः भारूपः सत्यसङ्कल्पत्वगुणगणः श्रुतः, एवं वृहदारण्यकेऽपि मनोमयत्वादिके समाने सत्यधि- कस्य वशित्वादेश्च सत्यसङ्कल्पत्वगुणाभेदान्न रूपभेदः; अतो विद्यैक्यम् ।। 19 ।।

।। समानाधिकरणं समाप्तम् ।।

3.3.20 सम्बन्धादेवमन्यत्रापि ।। 20 ।।

3.3.20

वृहदारण्यके श्रूयते-" "सत्यं ब्रह्म" इत्युपक्रम्य "तद्यत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो पश्चायं दक्षिणेऽक्षिन्" इत्युपक्रम्य आदित्यमण्डलेऽक्षिणि च सत्यस्य ब्रह्मणो व्या- हृतिशरीरत्वेनोपास्यत्वमुक्तवा "तस्येपनिषदहरित्यधिदैवतम्" "तस्योपनिषदहमित्यध्यात्मम्" इति द्वे उप-

3.3.20

निदौ- रहस्यनामनी उपासनशेषतयाऽऽम्नायेते; ते किं यथाश्रुतस्थानविशेषनियतत्वेन व्यवस्थिते? उतोभय-त्रोभे अनियमेन? इति संशये सत्यस्य व्याहृतिशरीरस्यैवोपास्यस्य ब्रह्मणो द्वयोः स्थानयोः सम्बन्धादुणस्यै- क्येन रूपाभेदात् संयोगाद्यभेदाच्च विद्यैक्यादनियमेनेति प्राप्तम् । तदिदमुच्यते-सम्बन्धादेवमन्यत्रापि-इति । यथा मनोमयत्वादिगुणविशिष्टस्यैकत्वादुपास्यैक्येन रूपाभेदाद्विद्यैक्याद् गुणोपसंहारः, एवमन्यत्राऽक्ष्यादि-त्यसम्बन्धिनो ब्रह्मणः सत्यस्यैकत्वेन विद्यैक्यादुभयोरुभयत्रोपसंहारः ।। 20 ।।

3.3.21

एवं प्राप्ते प्रचक्ष्महे -

3.3.21 न वा विशेषात् ।। 21 ।।

3.3.21

न वैतदस्ति-यद्विद्यैक्यादुपसंहारः- इति । कुतः विशेषात्-उपास्यरूपविशेषात् । ब्रह्मण एकत्वेऽप्येकत्रादित्य-मण्डलस्थतयोपास्यत्वम्, इतरत्राक्ष्याधारतयोपास्यत्वमिति स्थानसम्बन्धित्वभेदेन रूपभेदाद्विद्याभेदः ।। नैवं शाण्डिल्यविद्याया उपास्यथानां भिद्यते उभयत्र हृदयाधारत्वेनोपास्यत्वात्, अतो व्यस्थिते इति ।। 21 ।।

3.3.22 दर्शयति च ।। 22 ।।

3.3.22

दर्शयति चाक्ष्याधारादित्याधारयोर्गुणानुपसंहारम् "तस्यैतस्य तदेव रूपं यदमष्य रूपम्" इत्यादिना रूपाद्य-तिदेशेन । स्वतो ह्यप्राप्तावतिदेशेन प्र्राप्त्यपेक्षा ।। 22 ।। ।। सम्बन्धाधिकरणं समाप्तम् ।।

3.3.23 सम्भृतिद्युव्याप्त्यपि चातः ।। 23 ।।

3.3.23

तै रीयके नारायणीयानां खिलेषु च "ब्रह्म ज्येष्ठा वीर्याः सम्मृतानि ब्रह्माग्रे ज्येष्ठं

3.3.23

दिवमाततान । ब्रह्म भूतानां प्रथमोऽत जज्ञे तेनार्हति ब्रह्मणा स्पर्द्धितुं कः" इति ब्रह्मणि ज्येष्ठानां वीर्याणां सम्भृतिः द्युव्याप्तिश्चेत्यादिगुणजातमाम्नातम् । तेषामुपासनविशेषमनारभ्याधीतानां गुणानां सर्वासु विद्य-सूपसंहारे प्राप्ते उच्यते-सम्भृतिद्युव्याप्त्यपि-इति । सम्भृतिद्यव्याप्तीति सामाहारद्वन्द्वादेकवद्भावः । सम्भृ-त्यादकमनारभ्याधीतमपि अत एव स्थानभेदाद्वयवस्थाप्यम्; न सर्वत्रोपसंहर्त्तव्यम् । कथमनारभ्याधीतानां स्थानविशेषनियतत्वम् स्वसामर्थ्यादिति व्रूमः, द्यव्याप्तिस्तावद्धृदयाद्यल्पस्थानगोचरासु विद्यासु नोपसंहर्त्तुं शक्या; सम्भृत्यादयोऽपि तत्सहचारिणः तत्तुल्यदेशा इत्यल्पस्थानविषयासु विद्यास्वनुपसंहार्याः । शाण्डि-ल्यदहरादिविद्यास्वल्पस्थानविषयासु "ज्यायान् पृथिव्याः" "यावान् वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः" इत्यादयस्तत्र तत्राशक्योपसंहाराः मनोमयत्वापहतपाप्मत्वादिविशिष्टस्योपास्यस्य माहात्म्य-प्रतिपादनपराः ।। 23 ।। ।। सम्भृत्यधिकरणं समाप्तम् ।।

3.3.24 पुरुषविद्यायामपि चेतरेषामनाम्नानात् ।। 24 ।।

3.3.24

तैत्तिरीयके पुरुषविद्याऽऽम्नायते "तस्यैवं विदुषो यज्ञस्याऽऽत्मा यजमानः श्रद्धा पत्नी शरीरमिध्ममुरो वेदिलोमानि वर्हिः" इत्यादिका । छान्दोग्येऽपि पुरुषविद्याऽऽम्नायते "पुरुषो वाव यज्ञस्तस्य यानि चतुर्विशतिवर्षाणि" इत्यादिका । तत्र संशयः- किमत्र विद्या भिद्यते? उत नेति । पुरुषविद्येति नामैक्यात्पुरुषावयवेषु यज्ञावयवकल्पनसाम्येन रूपैक्यात्तैत्तिरियके फलसंयोगाश्रवणात् "प्र ह षोडशं वर्षशतं जीवति" इति छान्दोग्येश्रुतस्यैव पुरुषविद्याफलत्वात् फलसंयोगस्याप्यविशेषात् विद्यैक्यम्-इति प्राप्त उच्यते-

3.3.24

उभयत्राम्नातयोर्विद्यायोः पुरुषविद्यात्वेऽपि विद्याभेदोऽस्त्येव, कुतः? इतरेषामनाम्नानात् । तथा हि "यत्सायं प्रातर्मध्यन्दिनं च तानि सवनानि" इत्यादयस्तैत्तिरीयके आम्नाताः छान्दोग्ये सवनत्वेन नाम्नायन्ते, त्रेधा विभक्तं पुरुषायुषं छान्दोग्ये सवनत्वेन कल्प्यते । छान्दाग्ये श्रुतानामशिशिषादीनां दीक्षादित्वकल्पनं तैत्ति-रीयके न कृतम्, यजमानपत्न्यादिपरिकल्पनं चान्यथा । अतो रूपमुभयत्र भिद्यते, तथा फलसंयोगोऽपि भिद्यते, तैत्तिरीयके हि पूर्वानुवाके "ब्रह्मणेत्वामहसे ओमित्यात्मानं युञ्जीत" इति ब्रह्मविद्यामभिधाय तत्फ-लत्वेन "ब्रह्मणो महिमानमाप्नोति" इत्युकत्वा "तस्यैवं विदुषः" इत्यादिनाऽऽम्नाता पुरुषविद्या अस्यैव ब्रह्म-विदुषो यज्ञत्वकल्पनमिति गम्यते । अतो ब्रह्मविद्याङ्गत्वात् ब्रह्मप्राप्तिरेवात्र फलम्, "फलवत्सन्निधावफलं तदङ्गम्" इति च न्यायात्तैत्तिरीयकाम्नादो पुरुषविद्या ब्रह्मविद्याङ्गमिति गम्यते । छान्दोग्ये त्वायुःप्राप्तिफला

3.3.24

पुरुषविद्येत्युक्तम् । अतो रूपसंयोगयोर्भेदाद्विद्याभेद इत्येकत्राम्नातानां गुणानामितरत्रानुपसंहारः ।। 24 ।।

।। पुरुषविद्याधिकरणं समाप्तम् ।।

3.3.25 वेधाद्यर्थभेदात् ।। 25 ।।

3.3.25

आथवर्णिका उपनिषदारम्भे "शुक्रं प्रविष्य हृदयं प्रविध्य" इत्यादीन्मन्त्रानधीयते, सामगाश्च रहस्यब्राह्मणा- रम्भे "देव सवितः प्रसुव यज्ञं प्रसुव" इत्याद्यामनन्ति; काठकास्तैत्तिरीयकाश्च "शंनो मित्रश्शं वरुणः" इत्या-दिकम्; शाययायनिनश्च "श्वेतोऽश्वो हरिनीलोऽसि" इत्यादिकम्: ऐतरेयिणस्तु महाब्रतब्राह्मणमधीयते "इन्द्रो हवै वृत्रं हत्वा महानभवत्" इत्यादि; कौषीतकिनोऽपि महाव्रतब्राह्मणमेव "प्रजापतिर्वै संवत्वरस्तस्यैष आत्मायन्महाव्रतम्" इति । वाजसनेयिनस्तु प्रवर्ग्यब्राह्मणम् "देवा ह वै सत्रं निषेदुः" इत्यादि । तत्र संशयः- किमुपनिषदारम्भेष्वधीताः "शुक्रं प्रविध्य" "शं नो मित्र" इत्यादयो मन्त्राः

3.3.25

इत्यादीनामभिचारादिशेषत्वमवम्गयते, एवमेव "ॠतं वदिष्यामि" "तेजस्विनाऽवधीतमास्तु" इत्यादिमन्त्र-सामर्थ्यादेव स्वाध्यायशेषत्वं "शन्नोमित्र" इत्यादिमन्त्राणामवम्यते अतो न तेषां विद्याङ्गत्वमिति । "शुक्रं प्रविध्य" इत्यादीनां प्रवर्ग्यादिब्राह्मणानां चेह पाठो दिवाकीत्र्त्यत्वारण्येऽनुवाक्यत्वकृतः ।। 25 ।।

।। वेधाद्यधिकरणं समाप्तम् ।।

3.3.26 हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्तुत्युपगानवत्तदुक्तम् ।। 26 ।।

3.3.26

 

छन्दोगा आमन्ति "अश्व इव रोमणि विधूय पापं चर्न्द इव रोहोर्मुखात्प्रमुच्यधूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवानि" इति; आथर्वाणिकाश्च "तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति" इति; शाट्यायनिनस्तु "तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्" इत्यादि । कौषीतकिनस्तु "तत्सुकृतदुष्कृते धूनुते तस्य प्रिया ज्ञातयः सुकृतमुपयन्ति अप्रिया दुष्कृतम्" इति । एवं क्कचित्पुण्यपापयोर्हानिः,क्कचित्प्रियाप्रियेषु तत्प्राप्तिः, क्कचिदुभयं च श्रुतम् । तदुभयमेकैकविद्यायां श्रुतमपि सर्वविद्याङ्गमास्थेयम्, सर्वब्रह्मविद्यानिष्ठस्यापि ब्रह्म प्राप्नुवतः पुण्यपापप्रहाणस्यावश्यम्भावित्वात #् प्रहीण-

3.3.26

विषयत्वाच्चोपायनस्य । तच्चिन्तनं च विधीयमानं सर्वविद्याङ्गं भवितुमर्हति । तत्रेदं विचार्यते-हानिचिन्तन-मुपायनचिन्तनमुभयचिन्तनं च विकल्पेरन्, उपसंह्रियेरन् वा । किं युक्तम्? विकल्पेरन्निति कुतः? पृथगा-म्नानसामर्थ्यात् । ससुच्चये हि सर्वत्रोभयानुसन्धानं स्यात्, तच्च कौषीतर्कावाक्येनैव सिद्धमित्यन्यत्राम्नान-मनर्थकमेव स्यात् । अतोऽनेकत्राम्नानस्य विकल्प एव प्रयोजनम् । न चाध्येतृभेदेन परिहर्तुं शक्यमनेक-त्राम्नानम्, अविशेषपुनः श्रवणं ह्यध्येतृभेदपरिहार्यम्, अत्र तु हानिरेव द्वयोः शाखयोः, उपायनमेव चैक- स्याम् । न च विद्याभेदेन व्यवस्थापयितुं शक्यम्, सर्वशेषभूतमिदमनुसन्धानमित्युक्तत्वात् ।

अत्रेदमुच्यते-हानौ तूपायनशब्दशेषत्वात्-इति । तुशब्दः पक्षं व्यावर्त्तयति; हानाविति प्रदर्शनार्थम्, केवला- यां हानौ केवले चोपायने श्रूयमाणे तयोरितरेतरसमुच्चयोऽवश्यं भावी कुतः? उपायनशब्दशेषत्वात्-उपायन-

3.3.26

शब्दस्य हानिवाक्यशेषत्वात् । उपायनवाक्यस्य हि हानिवाक्यशेषत्वमेवोचितम्, विदुषा त्यक्तयोः पुण्यपा-पयोः प्रवेशस्थानवाचित्वादुपायनवाक्यस्य ।। प्रदेशान्तराम्नातस्य वाक्यस्य प्रदेशान्तराम्नातवाक्यशेषत्वे दृष्टान्ता उपन्यस्यन्ते - कुशाच्छन्दस्तुत्युपगानवत् - इति । कौषीतकिनः "कुशा वानस्पत्याः" इत्यामनन्ति,

3.3.26

शाट्यायनिनां तु "औदुम्बर्य्यः कुशाः" इति वाक्यं सामान्येन वानस्पत्यत्वेनावगताः कुशाः औदुम्बर्य्य इति विशिंपत्तद्वाक्यशेषतामापद्यते; तथा "देवसुराणां छन्दोभिः" इत्यादिनाऽविशेषेण देवासुराणां छन्दसां प्रसङ्गे "देवच्छन्दांसि पूर्वम्" इति वचनं क्रमविशेषं प्रतिपादयत्तद्वाक्यशेषतरं गच्छति । तथा "हिरण्येन षो-डशिनः स्तोत्रमुपाकरोति" इत्यविशेषेण प्राप्त "समयाविषिते सूर्ये षोडशिनः स्तोत्रमुपाकरोति" सति विशे-

3.3.26

षविषयं वाक्यं तद्वाक्यशेषतां भजते; तथा ॠत्विज उपगायन्ति" इत्यविशेषप्राप्तस्य "नाध्वर्युरुपगायेत्" इति वाक्यमनध्वर्युविषयतामवगमयत्तद्वाक्यशेषत्वमृच्छति; एवं सामान्येनावगतमर्थं विशेषे व्यवस्थापयि- तुं क्षमस्य वाक्यस्य तच्छेषत्वमनभ्युपगच्छद्भिस्तयोरर्थयोर्विकल्पः समात्रयितव्यः; स च सम्भवन्त्यां गतौ न यज्यते; तदुक्तं पूर्वस्मिन्करण्डे "अपि तु वाक्यशेषत्वादन्याय्यत्वाद्विकल्पस्य विधीनामेकदेशः स्यात्"

3.3.26

इति । तदेवं केवलहानोपायनवाक्योरेकवाक्यत्वात् केवलस्य हानस्य केवलस्य चोपायनस्याभावाद्विकल्पो नोपपद्यते । कौषीतकिनामुभयाम्नानमविशेषपुनश्श्रवणत्वेन प्रतिपत्तृभेदादविरुद्धम् ।। 26 ।।

।। हान्यधिकरणं समाप्तम् ।।

3.3.27 साम्पराये तर्त्तव्याभावात्तथाह्यन्ये ।। 27 ।।

3.3.27

सुकुतदुष्कृतयोर्हानमुपायनं च सर्वासु विद्यासु चिन्तनीयमित्युक्तम्; तद्धानं किं देहवियोगकाले देहादुत्क्रान्तस्याध्वनि च? उत देहवियोगकाले एवेति विशये-उभयत्रेति युक्तम्, उभयथा श्रुतत्वात्; एवं हि कौषीतकिनः समामनन्ति "स एतं देवयानं पन्थानमापद्याग्निलोकं गच्छति" इत्युपक्रम्य "स आगच्छति विरजां नदीं तां मनसाऽत्येति तत्सुकृतदुष्कृते धूनुते" इति । अत्र वाक्ये अध्वनि सुकृतदुष्कृ-तहानिः प्रतियते । ताण्डिनस्तु "अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुस्वात्प्रमुच्य । धूत्वा शरीरम- कृतं कृतात्मा ब्रह्मलोकमभिसम्भवानि" इति । अत्र तु देहवियोगकाल एवेति प्रतीयते; शाट्यायनकेऽपि "तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्" इति पुत्रेषु दायसंक्रान्तिसमकालं सुकृ-तदुष्कृतसंक्रमणं श्रूयमाणं देहवियोगकाल इति गम्यते । अतः सुकृतदुष्कृतयोरेकदेशो देहवियोगकाले ही- यते; शेषस्त्वध्वनि-

इति प्राप्ते उच्यते-साम्पराये-इति । साम्पराये देहादपक्रमणकाले एव विदुषः सुकृतदुष्कृते निरवशेषं हीयेते । कुतः? तर्त्तव्याभावात् - विदुषो देहवियोगात्पश्चात्सुकृतदुष्कृताभ्यां तरितव्यभोगाभावात्, विद्याफलभूत-

3.3.27

ब्रह्मप्राप्तिव्यतिरेकेण हि सुकृतदुष्कृताभ्यां भोक्तव्ये सुखदुःखे न विद्येते । तथा ह्यन्ये देहवियोगादूर्ध्वं ब्रह्म-प्राप्तिव्यतिरिक्तसुखदुःखोपभोगाभावमधीयते अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः" "एष संप्रसादोऽस्मा-च्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते" "तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये" इति ।। 27 ।।

3.3.28 छन्दत उयाविरोधात् ।। 28 ।।

3.3.28

एवमर्थस्वाभाव्यात्सुकृतदुष्कृतहानिकालेऽवधृते सत्युभयाविरोधेन-श्रुतेरर्थस्वभावस्य चाविरोधेन छन्दतः- यथेष्टं पदानामन्वयो वर्णनीयः । कौषीतकीवाक्ये "तत्सुकृतदुष्कृते धूनुते" इति चरमश्रुतो वाक्यावयवः "एतं देवयानं पन्थानमापद्य" इति प्रथमश्रुतावयवात्प्रागनुगमयितव्य इत्यर्थः ।। 28 ।।

3.3.29

अत्र पूर्वपक्षी प्रत्यवतिष्ठते -

3.3.29 गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ।। 29 ।।

3.3.29

सुकृतदुष्कृतयोरेकदेशस्य देहवियोगकाले हानिः, शेषस्य च पश्चादिति उभयथा कर्मक्षये सत्येव गतेरर्थवत्त्वं-देवयानगतिश्रुतेरर्थवत्त्वमित्यर्थः । अन्यथा हि विरोधः- देहवियोगकाल एव सर्वकर्मक्षये सूक्ष्मशरीरस्यापि विनाशः स्यात्; तथा सति केवलस्यात्मनो गमनं नोपपद्यते । अत उत्क्रान्तिसमये विदुषो निश्शपकर्मक्षयो नोपपन्नः ।। 29 ।।

3.3.30

अत्रोत्तरम्

3.3.30 उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ।। 30 ।।

3.3.30

उपपन्न एव उत्क्रान्तिकाले सर्वकर्मक्षयः; कथम् तल्लक्षणार्थोपलब्धेः-क्षीणकर्मणोप्याविर्भूतस्वरूपस्य देह-सम्बन्धलक्षणर्थोपलब्धेः । परं ज्योतिरुपसंपद्यस्वेन रूपेणभिनिष्पद्यते" "स तत्र पर्येति जक्षत् क्रीडन् रम- माणः" "स स्वराड् भवति तस्यर सर्वेषु लोकेषु कामचारो भवति" "स एकधा भवति त्रिधा भवति" इत्यादिषु देहसम्बन्धाख्योऽर्थोह्युलभ्यते । अतः क्षीणकर्मणोऽपि सूक्ष्मशरीरयुक्तस्य देवयानेन गमनमुपपद्यते । कथं सूक्ष्मशरीरमप्यारम्भककर्मविनाशेऽवतिष्ठत इति चेत्-विद्यामाहात्म्यादिति व्रूमः । विद्या हि स्वयं सूक्ष्म-शरीरस्याऽनारम्भिकाऽपि प्राकृतसुखदुःखोपभोगसाधनस्थूलशरीरस्य सर्वकर्मणां च निरवशेषक्षयेऽपि स्व-फलभूतब्रह्मप्राप्तिप्रदानाय देवयानेन पथैनं गमयितुं सूक्ष्मशरीरं स्थापयति, लोकवत् - यथा लाकेसस्यादि-समृद्धयर्थमारब्धे तटाकादिके तद्धेतुषु तदिच्छादिषु विनष्टेष्वपि तदेव तटाकादिकमशिथिलं कुर्वन्तस्तत्र पार्नायपानादि कुर्वन्ति; तद्वत् ।। 30 ।।

3.3.31

अथ स्यात्-ज्ञानिनां साक्षात्कृतपरतत्वानां देहपातसमये कर्मणो निरवशेषक्षयाद्देहपातादूर्ध्वं सूक्ष्मशरीरमात्रं गत्यर्थमनुवर्त्तते, सुखदुःखानुभवो न विद्यते-इति यदुक्तम्, तन्नोपपद्यते; वसिष्ठावान्तरतपःप्रभृतीनां साक्षा-त्कृतपरतत्त्वानां देहपातादूर्ध्वं देहान्तरसङ्गमः, पुत्रजन्मविषत्त्यादिनिमित्तसुखदुःखानुभवश्च दृश्यते-इति । अत उत्तरं पठति-

3.3.31 यावदधिकारमवस्थितिराधिकारिकाणाम् ।। 31 ।।

3.3.31

नास्माभिः सर्वेषां ज्ञानिनां देहपातसमये सुकृतदुष्कृतयोर्विनाश उक्तः; अपि तु येषां ज्ञानिनां देहपातानन्तर-मर्चिरादिका गतिः प्राप्ता, तेषां देहपातसमये सुकृतदुष्कृतहानिरुक्ता । वसिष्ठादीनां त्वाधिकारिकाणां न देहपातानन्तरमर्चिरादिका गतिप्राप्तिः, प्रारब्धस्याधिकारस्यासमाप्तत्वात् । तेषां कर्मविशेषेणाधिकारविशेषं प्राप्तानां यावदधिकारसमाप्ति तदारम्भकं कर्म न क्षीयते । प्रारब्धस्य हि कर्मणो भोगादेव क्षयः । अत आधि-कारिकाणां तदारम्भकं कर्म यावदधिकारमवतिष्ठते । अतस्तेषां न देहपातादनन्तरमÐच्चरादिगतिप्राप्तिः ।। 31 ।।

।। साम्परायाधिकरणं समाप्तम् ।।

3.3.32

अनियमः सर्वेषामविरोधः शब्दानुमानाभ्याम् ।। 32 ।।

3.3.32

 

उपकोसलादिषु येषूपासनेष्वÐच्चरादिगतिः श्रूयते, किं तन्निष्ठानामेव तया ब्रह्म-प्रातिः, उत सर्वेषां ब्रह्मोपासननिष्ठानाम्-इति संशये; इतरेष्वनाम्नानात 2ये चेमेऽरण्ये श्रद्धा तप इत्युपासते" "श्रद्धां सत्यमुपासते" इतीतरसकलब्रह्मविद्योपस्थापकत्वे प्रमाणाभावाच्च तन्निष्ठानामेव-इति प्रातेऽभिधीयते-अनियमः- इति । सर्वेषां-सर्वोपासननिष्ठानां तयैव गन्तव्यत्वात् तन्निषांनामवेति नियमो नास्ति । सर्वेषां तयैव गमने हि सति शब्दानुमानाभ्यां-श्रुतिस्मृतिभ्यामविरोधः; अन्यथा विरोध एवेत्यर्थः । श्रुतिस्तावत् छन्दोग्यवाजसनेयवाक्ययोः पञ्चाग्निविद्यायामर्चिरादिमार्गेण सर्वब्रह्मोपसननिष्ठानां गमनमाह-

3.3.32

 

"य एवमेताद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते तेऽचिर्षमभिसम्भवन्ति" इति वाजसनेयके; "तद य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्ति" इति छान्दोग्ये; 2ये चेमेऽरण्ये3 इत्या-दिना श्रद्धापूर्वकं ब्रह्मोपासीनाँश्चोद्दिश्यार्चिरादिका गतिरुपदिश्यते, "सत्यं ज्ञानमनन्तं ब्रह्म" "सत्यं त्वेव विजिज्ञासितव्यम्" इति सत्यशब्दस्य ब्रह्मणि प्रसिद्धेः । तपश्शब्दस्यापि तेनैकार्थ्यात्सत्यतपश्शब्दाभ्यां ब्रह्मै-वाभिधीयते । श्रद्धापूर्वकं ब्रह्मोपासनं चान्यत्र श्रुतम्, "सत्यं त्वेव विजिज्ञासितव्यम्" इत्युपक्रम्य "श्रद्धात्वेव विजिज्ञासितव्या" इति । स्मृतिरपि "अग्निर्ज्योतिरहः शुक्लः षण्मास उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः" इति सर्वेषां ब्रह्मविदामनेनैव मार्गेण गमनमित्याह - एवंजातीयमाः श्रुतिस्मृतयो बह्वयः सन्ति । एवं सर्वविद्यासाधारणीयं गतिः प्राप्तैवोपकोसलविद्यादावनूद्यते ।। 32 ।।

।। अनियमाधिकरणं समाप्तम् ।।

3.3.33

अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ।। 33 ।।

3.3.33

 

वृहदारण्यके श्रूयते "एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवन्दन्ति अस्थूलमनण्व-ह्रस्वमदीर्घमलोहितमस्त्रेहमच्छायमतमोऽवाय्वनाकाशमसङ्गमरसमगन्धमची#ुष्कमश्रोत्रमवागमनोऽतेजस्कम-प्राणमसुस्वममात्रमनन्तरमवाह्यं न तदश्नाति किञ्चन एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः" इति । तथा आथर्वणे "अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्ण-मचक्षुःश्रोत्रं तदपाणिपादम्" इति । तत्र संशयः- किमिमे अक्षरशब्दनिर्द्दिष्टब्रह्मसम्बन्धितया श्रुताः अस्थूलत्वादयः प्रपञ्चप्रत्यनीकतास्वरूपाः सर्वासु ब्रह्मविद्यास्वनुसन्धेयाः? उत यत्र श्रूयन्ते तत्रैव-इति । किं युक्तं? यत्र श्रुता-स्तत्रैवेति । कुतः विद्यान्तरस्य रूपभूतानां गुणानां विद्यान्तरस्य रूपत्वे प्रमाणाभावात्, प्रतिषेधरूपाणामे-षामानन्दादिवत् स्वरूपावगमोपायत्वाभावाच्च । आनान्दादिभिरवगतस्वरूपे हि ब्रह्मणि स्थूलत्वादयः प्रपञ्चधर्माः प्रतिषिध्यन्ते, निराम्बनप्रतिषेधायोगात् ।।

3.3.33

 

एवं प्राप्ते प्रचक्ष्महे-अक्षरधियां त्ववरोधः- इति । अक्षरब्रह्मसम्बन्धिनीनामस्थूलत्वादिधियां सर्वब्रह्मवि-द्यास्ववरोधः-सङ्ग्रहणमित्यर्थः । कुतः? सामान्यतद्भावाभ्यां-सर्वेषूपासनेषूपास्यस्याक्षरस्य ब्रह्मणः समानत्वदस्थूत्वादीनां तत्स्वरूपप्रतीतौ भावाच्च । एतदुक्तं भवति-असाधारणाकारेण ग्रहणं हि वस्तुनो ग्रहणम् । न च केवलमानन्दादि ब्रह्मणोऽसाधारणमाकारमुपस्थापयति, प्रत्यगात्मन्यष्यानन्दादे-र्विद्यमानत्वात्, हेयप्रत्यनीको ह्यानन्दादिमर्ब्रह्मणोऽसाधारणं रूपम् । प्रत्यगात्मनस्तु स्वतो हेयविरहिणोऽपि हेयसम्बन्धयोग्यताऽस्ति । हेयप्रत्यनीकत्वं च चिदचिदात्मकप्रपञ्चधर्मभूतस्थूलत्वादि-विपरीतरूपम् । अतः असाधारणाकारेण ब्रह्मानुसन्दधताऽस्थूलत्वादिविशेषितज्ञानानन्दाद्याकारं ब्रह्मानुसन्धेयमिति अस्थूलत्वादीनामानन्दादिव-

3.3.33

 

द्व्रह्मस्वरूपप्रतीत्यन्तर्भावात्सर्वासु ब्रह्मविद्यासु तथैव ब्रह्मानुसन्धेयमिति । गुणानां प्रधानानुवर्त्तित्वे दृष्टा-न्तमाह-औपसदवदिति, यथा जामदग्न्यचतूरात्रपुरोडाश्युपसद्गुणभूतः सामवेदपठितः "अग्निर्वै होत्रं वेतु" इत्यादिको मन्त्रः प्रधानानुवर्त्तितया याजुर्वैदिकेनोपांशुत्वेन प्रयुज्यते, तदुक्तं प्रथमे काण्डे "गुणमुख्यव्यति- क्रमे तदर्थत्वान्मुख्येन वेदसंयोगः" इति ।। 33 ।।

3.3.34

 

नन्वेवं सर्वासु ब्रह्मविद्यासु ब्रह्मण एव गुणित्वाद् गुणानां च प्रधानानुवर्त्तित्वात् "सर्वकर्मा सर्वगन्धः सर्व रसः" इत्यादेर्गुणजातस्य प्रतिविद्यं व्यवस्थितस्याप्यव्यवस्था स्यात्तत्राह-

3.3.34

इयदामननात् ।। 34 ।।

3.3.34

 

आमननम्-आभिमुख्येन मननम्-अनुचिन्तनम् । आमननाद्धेतोरियदेव गुणजातं सर्वत्रानुसन्धेयत्वेन प्राप्तम्; यदस्थूलत्वादिविशेषितमानन्दादिकं, येन गुणजातेन विना ब्रह्मस्वरूपस्येतरव्यावृत्तस्यानुसन्धानं न सम्भवति तदेव सवर्त्रानुवर्त्तनीयम्, तच्चेयदेवेत्यर्थः । इतरे तु सर्वकर्मत्वादयः प्रधानानुवर्त्तिनोऽपि चिन्तनीयत्वेन प्रतिविद्यं व्यवस्थिता ।। 34 ।।

।। अक्षरध्यधिकरणं समाप्तम् ।। 14 ।।

3.3.35

अन्तरा भूतग्रामवत्स्वात्मनोऽन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् ।। 35 ।।

3.3.35

 

वृहदारण्यके उषस्तप्रश्न एवमाम्नायते "यत्साक्षादपरोक्षाद्व्रह्म य आत्मा सर्वान्तर-स्तन्मे व्याचक्ष्व" इति । तस्य प्रतिवचनं "यः प्राणेन प्राणिति स त आत्मा सर्वान्तरो योऽपानेनापानिति स त आत्मा" इत्यादि । अतुष्टेन तेन पुनः पृष्ट आह "न दृष्येर्द्रष्टारं पश्येर्न श्रुतेः श्रोतारं #ृणुयाः "न मतेर्मन्तारं मन्वीथाः न विज्ञाते-र्विज्ञातारं विजानीया एष त आत्मा सर्वान्तयोऽतोऽन्यदार्तम्" इति । तथा तदनन्तरं कहोलप्रश्ने चैवमा-म्नायते "यदेव साक्षादपरोक्षाद्व्रह्म य आत्मा सर्वान्तरः तन्मे व्याचक्ष्व" इति । प्रतिवचनं च "योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति एवं हैतमात्मानं विदित्वा ब्राह्मणः पुत्रोषणायाश्च

3.3.35

 

वित्तेषणायाश्च" इत्यादि "अतोऽन्यदार्त्तम्" इत्यन्तम् । तत्र संशय्यते-किमनयोर्विद्याभेदोऽस्ति? नेति । किं युक्तम्, भेद इति, कुतः? रूपभेदात् । प्रतिवचनभेदाद्रूपं भिद्यते । प्रश्नस्यैकरूप्येऽपि प्रतिवचनप्रकारो हि भेदेनोपलभ्यते । पूर्वत्र प्राणनादीनां कर्त्ता सर्वान्तरात्मत्वेनोच्यते; परत्राशनायापिपासादिरहितः । अतः पूर्वत्र प्राणिता देहेन्द्रियबुद्धिमनः- प्राणव्यतिरिक्तः प्रत्यात्मोच्यते; परत्र तु तदतिरिक्तोऽशनायापिपासादि-रहितः परमात्मा । अतो रूपं भिद्यते । भूतग्रामवतश्च प्रत्यगात्मनस्तस्य भूतग्रामस्य सर्वस्यान्तरात्मत्वेन सर्वान्तरत्वमप्युपपन्नम् । यद्यपि प्रत्यगात्मनः सर्वन्तरत्वं भूतग्राममात्रापेक्षत्वेनापेक्षिकम्, तथाऽपि तदेव ग्राह्यम्, अन्यथा मुख्यान्तरात्मपरिग्रहलोभात्परमात्मस्वीकारे प्रतिवचनभेदो नोपपद्यते । प्रतिवचनं हि पूर्वत्र प्रत्यगात्मविषयं, परमात्मनः प्राणितृत्वापानितृत्वाद्यसम्भवात्, परं च परमात्मविषयम्, अशनायापिपासाद्यतीतत्वात् । तदितमाशङ्कते-अन्तरा भूतग्रामवत्स्वात्मनोऽन्यथाभेदानुपपत्तिरिति चेत्-इति, अन्तरा-सर्वान्तरात्मत्वेन प्रथमप्रतिवचनं भूतग्रामवत्स्वात्मनः-भूतग्रामवान्-तदन्तरः स्वात्मा-प्रत्यगात्मा सर्वान्तर इत्युच्यते इत्यर्थः । अन्यथा "यः प्राणेन प्राणिति" "योऽशनायापिपासाद्यतीतः" इति प्रतिवचनभेदानुपत्तिरिति चेत् - अत्रोत्तरं नेति । न विद्याभेद इत्यर्थः । उभयत्र परविषयत्वात्प्रश्न-प्रतिवचनयोः । तथा हि -"यत्साक्षादपरोक्षाद्व्रह्म

3.3.35

 

य आत्मा सर्वान्तरः" इति प्रश्नस्तावत्परमात्मविषय एव, ब्रह्मशब्दस्य परमात्मासाधारणत्व्रेपि प्रत्यगात्म- न्यपि कदाचिदुपचरितप्रयोगदर्शनात्तद्वयावृत्त्या परमात्मप्रतिपत्त्यर्थं 2यत्संक्षाद्व्रह्म" इति विशेषणं क्रियते । अपरोक्षत्वमपि सर्वदेशसर्वकालसम्बन्धित्वम् "सत्यं ज्ञानमनन्तं ब्रह्म" इत्यनन्तत्वेनावगतस्य परमात्मन एवोपपद्यते । सर्वान्तरत्वमपि "यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरः" इत्यारभ्य "य आत्मनि तिष्ठन्नात्मनो-ऽन्तरः" इति सर्वान्तर्यामिणः परमात्मन एव सम्भवति । प्रतिवचनमपि तथैव परमात्मविषयम्, "यः प्राणेन प्राणिति" इति निरुपाधिकं प्राणस्य कर्तृत्वं परमात्मन एव, प्रत्यगात्मनः सुषुप्तौ प्राणनं प्रति कर्तृत्वाभावात् । एवमजानतोषस्तेन प्राणने कर्तृत्वमात्रमुक्तं मन्वानेन प्रत्यगात्मनोऽपि साधारणत्वंप्रतिवचनस्य मत्वा अतुष्टेन पुनः पृष्टस्तं प्रति प्रत्यगात्मनो व्वावृत्तं निरुपाधिकत्वेन प्राणनस्य कर्त्तारं परमात्मानमाह - "न दृष्टेर्द्रष्टारं पश्येः" इत्यादिना । इन्द्रियाधीनानां दर्शनश्रवणमननविज्ञानानां कर्तारं प्रत्यगात्मानं प्राणनस्य कर्तृत्वेनोक्त इति न मन्वीथाः, तस्य सुषुप्तिमूर्च्छादौ प्राणनादेरकर्तृत्वात् । "को ह्येवान्यात्कः प्राण्यात् यदेष आकाश आनन्दो न स्यात्" इति सर्व प्राणिप्राणनहेतुत्वं हि परमात्मन एव अन्यत्र श्रुतम् । अतः पूर्वप्रश्नप्रतिवचने परमात्मविषये, एवमुत्तरे अपि, अशनायाद्यतीतत्वस्य परमात्मासाधारणत्वात् । उभयत्र "अतोऽन्यदार्त्त"मित्युपसंहारश्चैकरूपः । प्रश्नप्रतिवचनावृत्तिस्तु कृत्स्नप्राणिप्राणनहेतोः परस्य ब्रह्मणोऽ-शनायाद्यतीतत्वप्रतिपादनाय । तत्र दृष्टान्तमाह-उपदेशवदिति । यथा सद्विद्यायाम् "उत तमादेशमप्राक्ष्यः" इति प्रक्रान्ते सदुपदेशे "भगवांस्तत्वेव मे तद्व्रवीत्विति3 "भूय एव मा भगवात् विज्ञापय"त्विति प्रश्नस्य "एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्य"मिति प्रतिवचनस्य च भूयो भूय आवृत्तिः सतो ब्रह्मणः तत्तन्माहात्म्यविशेषप्रतिपादनाय दृश्यते; तद्वत । अत एकस्यैव सर्वान्तरभूतस्य ब्रह्मणः कृत्स्नप्राणिप्राणन-हेतुत्वाशनायाद्यतीत्वप्रतिपादनेन रूपैक्याद्विद्यैक्यम् ।। 35 ।।

3.3.36

 

अथ स्यात्-यद्यप्युभे प्रश्नप्रतिवचने परब्रह्मविषये; तथाऽपि विद्याभेदोऽवर्ज्जनीयः, एकत्र सर्वप्राणिप्राणन-हेतुत्वेनोपास्यम्, इतरत्राशनायाद्यतीतत्वेनेत्युपास्यगुणभेदेन रूपभेदात्, प्रष्ट्टभेदाच्च । पूर्वत्र ह्युषस्तः प्रष्टा, उतरत्र तु कहोलः- इति; तत्राह -

3.3.36

व्यतिहारो विशिंषन्ति हीतरवत् ।। 36 ।।

3.3.36

 

नात्र विद्याभेदः, प्रश्नप्रतिवचनाभ्यामेकरूपार्थविषयाभ्यामेकेन च विधिपदेनैकवाक्यत्वप्रतीतेः । प्रश्नद्वयं तावत्सर्वान्तरात्मत्वविशिष्टब्रह्मविषयम् । द्वितीये प्रश्ने "यदेव साक्षादपरोक्षाद्व्रह्म य आत्मा सर्वान्तरः" इत्येवकारश्च पूर्वत्रोपस्तेन पृष्यगुणविशिष्टब्रह्मविषयत्वं कहोलप्रश्नस्यावधारयति । प्रतिवचनं चोभयत्र "स त आत्मा सर्वान्तरः" इति सर्वान्तरात्मत्वविशिष्यब्रह्मविषयमेकरूपमेव, विधिप्रत्ययश्चोवरत्रैव दृश्यते "तस्माद्व्र्#ाह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्" इति । एवं सर्वान्तरात्मत्वविशिष्टब्रह्मैकविषयत्वे द्वयोरवधृते सत्येकस्मिन्नेव सर्वान्तरात्मत्वविशिष्टे ब्रह्मण्युपास्ये उपस्तकहोलयोरितरेतरबुद्धिव्यतिहारः कतर्व्यः । उपस्तस्य या सर्वान्तरात्मनो ब्रह्मणः सर्वप्राणिप्राणनहेतुत्वविषया बुद्धिः; सा कहोलेनापि प्रष्ट्रा कार्या । या च कहोलस्य तस्यैव ब्रह्मणोऽशनायाद्यतीतत्वविषया बुद्धिः, सोषस्तेनापि कार्या । एवं व्यतिहारे कृते उभाभ्यां सर्वान्तरस्य ब्रह्मणशे जीवव्यावृत्तिरवगता भवति । एनं सर्वान्तरात्मानं प्रत्यगात्मनो व्यावृत्तमवगमयितुं सर्वप्राणिप्राणनहेतुत्वाशनायाद्यतीतत्वप्रतिपादनेन विशि#ॅषन्ति हि याज्ञवलक्यस्य प्रतिवचनानि । अतो ब्रह्मणः सर्वान्तरात्मत्वमेवोपास्यगुणः । प्राणनहेतुत्वादयस्तु तस्योपपादकाः, नोपास्याः । ननूपास्यगुणः सर्वान्तरात्मत्वमेव चेत्प्राणनहेतुत्वस्याशनायाद्यतीतत्वस्य च प्रष्ट्रोर्व्यतिहृत्या-नुसन्धानं किमर्थम्, तदुष्यते-सर्वप्राणिप्राणनहेतुत्वेन सर्वान्तरात्मनि जीवाद्वयावृत्ते ब्रह्मणि उपस्तेनाव-धृते सति कहोलेन

3.3.36

 

जीवस्य सर्वात्मनाऽसम्भावितेन स्वभावविशेषेण सर्वान्तरात्मा व्यावृत्तशेऽनुसन्धेय इति कृत्वा पुनः प्रश्नः कृतः । याज्ञवल्क्योऽपि तदभिप्रायमभिज्ञाय प्रत्यगात्मनोऽसम्भावितमशनायादिप्रत्यनीकत्वमुक्तवान् । अतश्चोपास्यस्य व्यावृविप्रतीतिसिद्धयर्थमुभाभ्यां परस्परबुद्धिव्यतिहारः कर्तव्यः, इतरवत्-यथेतरत्र सद्वि- द्यायां भूयोभूयः प्रश्नैश्च प्रतिवचनैश्च तदेव सद्व्रह्म व्यवच्छिद्यते; न पुनः पूर्वप्रतिपन्नद्गुणाद्गुणान्तर-विशिष्टतयोपास्यं प्रतिपाद्यते तद्वत् ।। 36 ।।

3.3.37

 

तत्रापि प्रश्नप्रतिवचनभेदे सति कथमैक्यमवगम्यत इति चेत्-तत्राह -

3.3.37

सैव हि सत्यादयः ।। 37 ।।

3.3.37

 

सैव हि-सच्छब्दाभिहिता परमकारणभूता परादेवतैव "सेयं देवतैक्षत" "तेजः परस्यां देवतायाम्" इति प्रकृता "यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति" इत्यादिषु पर्यायेषु सर्वेषूपाद्यते । यतः "ऐतदात्म्यमिदं सर्वं तत्सत्यं आत्मा" सति प्रथमपर्यायोदिताः सत्यादयः सर्वेषु पर्यायेषूपपाद्योपसंह्रियन्ते ।।

केचित्तु "व्यतिहारो विशिंषन्ति हीतरवत्" "सैव हि सत्यादयः" इति सूत्रद्वयमधिकरणद्वयं वर्णयन्ति । तत्र पूर्वेण "त्वं वा अहमस्मि भगवो देवते अहं यै त्वमसि भगवो देवते तद्योऽहं सोऽसौ योऽसौ योऽसौ सोऽहम्" इति वाक्ये जीवपरयोर्व्यतिहारानुसन्धानं प्रतिपाद्यत इत्युच्यते -इत्याहुः । तत् "सर्वं खल्विदं ब्रह्म" "ऐतदा-

3.3.37

 

त्म्यमिदं सर्वम्" "तत्त्वमसि" इत्यवगतसर्वात्मभावविषयत्वादस्य वाक्यस्य नात्र प्रतिपादनीयमपूर्व-मस्तीत्यनादरणीयम् । तत्तु वक्ष्यते "आत्मेति तूपगच्छन्ति ग्राहयन्ति च" इति । न च सर्वात्मत्वानु-सन्धानातिरेकेण परस्मिन् ब्रह्मणि जीवत्वानुसन्धानम्, जीवे च परब्रह्मत्वानुसन्धानं तथ्यंसम्भवति । उत्तरेण च सूत्रेण "स यो ह वै तन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्म" इत्यादिवाक्यप्रतिपादितस्य सत्योपासनस्य "तद्यत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्ष"न्नित्यादि-वाक्यप्रतिपादितोपासनस्य चैक्यं प्रतिपा-द्यत इति; तदप्युक्तम्, उवरवाक्ये अक्ष्यादित्यस्थानभेदेन विद्याभेदस्य पूर्वमेव "न वा विशेषा"दित्यनेन प्रतिपादितत्वात् । न च द्वयोरनयोर्व्याहृत्यादिशरीरकत्वेन रूपवतोः "हन्ति पाप्मानं जहाति च य एवं वेद" इति च पृथक्संयोगचोदनावतोद्वयोरुपासनयोः "स यो ह वै तन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति जयतीमांल्लोकान्" इति संयोगरूपादिमत्तया निरपेक्षेर पूर्वेणैकेनो-पासनेनाभेद सम्भवति । न च "हन्ति पाप्मानं जहाति" इति च गुणफलाधिकारत्वम्, प्रमाणाभावात् । पूर्वेणैकविद्यात्वं प्रमाणमिति चेत्-न, इतरेतराश्रयत्वात् । एकविद्यात्वे निश्चि#ेत सति पूर्वफलस्यैव प्रधानफलत्वेनोत्तरयोः फलयोर्गुणफलत्वम्, तयोर्गुणपलत्वे निश्चिते सति संयोगभेदाभावात् पूर्वेण विद्यैक्यमितीतरेतरानयत्वमित्येवमादिभिर्यथोक्तप्रकारमेव सूत्रद्वयम् ।। 37 ।।

।। अन्तरत्वाधिकरणं समाप्तम् ।।

3.3.38

कामादीतरत्र तत्र चायतनादिभ्यः ।। 38 ।।

3.3.38

 

छान्दोग्ये श्रूयते "अथ यदिदमस्मिन् ब्रह्मापुरे दहरं पुण्डी#ाकं वेश्म दहरोऽस्मिन्नन्तर आकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यम्" इत्यादि; वाजसनेयके च स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस्तस्मिश्छेते सवर्स्य वशी सर्वस्येशानः"इत्यादि । तत्र संशयः- किमनयोविर्द्याभेदः? उत नेति । किं युक्तं? भेद इति । कुतः रूपभेदात् । अपहतपाप्मत्वादिगुणाष्ट-कविशिष्ट आकाशः छान्दोग्य उपास्यः प्रतीयते; वाजसनेयके त्वाकाशे शयानो वशित्वादिगुणविशिष्ट उपा- स्यः प्रतीयते, अतो रूपभेदाद्विद्याभेदः ।

इति प्राप्ते प्रचक्ष्महे- न भेद इति । कुतः? रूपाभेदात्-इतरत्र तत्र च कामाद्येव हि रूपम् । वाजसनेयके छान्दोग्ये च सत्यकामादिविशिष्टमेव ब्रह्मोपास्यमित्यर्थः । कुतः एतदवगम्यते, आयतनादिभ्यः -हृदयाय-तनत्वसेतुत्वविधरणत्वादिभिस्तावदुभयत्र सैव विद्योति प्रत्यभिज्ञायते । वशित्वादयश्च वाजसनेयके श्रुताः छान्दोग्ये श्रुतस्य गुणाष्टकान्यतमभूतस्य सत्यसङ्कल्पत्वस्य विशेषा एवेति सत्यसङ्कल्पत्वसहचारिणां सत्यकामत्वादीनामपहतपाप्मत्वपर्यन्तानां सद्भावमवगमयन्ति । अतो रूपं न भिद्यते । संयोगोऽपि "परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनि#ेष्पद्यते" "अभयं वै ब्रह्म भवति" इति ब्रह्मप्राप्तिरूपो न भिद्यते । आकाशशब्दः छान्दोग्ये परमात्मविषय इति "दहर उतरेभ्य" इत्यत्र निर्णीतम् । वाजसनेयके त्वाकाशे शयानस्य वशित्वादि-

3.3.38

 

श्रवणात्तस्य शयानस्य परमात्मत्वे सति तदाधारभिधायिन आकाशशब्दस्य "तस्यान्ते सुषिरं सूक्ष्म" मिति हृदयान्तर्गतस्य सुषिरशब्दवाच्यस्याकाशस्याभिधायकत्वमवगम्यते । अतो विद्यैक्यम् ।। 38 ।।

3.3.39

 

अथ स्यात्-यदुक्तं वाजसनेयके वशित्वादिभिः सह सत्यकामत्वादिसद्भावोऽवगम्यते-इति; तन्नोपपद्यते, वशित्वादीनामेव तत्र परमार्थतः सद्भावाभावात्, तदभावश्च "मनसैवानुद्रष्टव्यम् नेह नानास्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति" "एकधैवानुद्रष्टव्यमेतदप्रमेयं ध्रुवम्" इति प्रकृतेन वाक्येन "स एष नेति नेत्यात्मा" इति वक्ष्यमाणेनोत्तरेण चोपास्यस्य ब्रह्मणो नेर्विशेषत्वप्रतीतेरवगम्यते । अतो वशित्वादयोऽपि स्थूलत्वादिवन्निषेध्या इति प्रतीयन्ते । अत एव छान्दोग्यऽपि सत्यकामत्वादयो न ब्रह्मणः पारमार्थिका गुणा उच्यन्ते । अतोऽपारमार्थिकत्वादेवंजातीयकानां गुणानां मोक्षार्थेषूपासनेषु लोप इति; तत्राह -

3.3.39

आदरालोपः ।। 39 ।।

3.3.39

 

ब्रह्मगुणत्वेन प्रमाणान्तराप्राप्तानां गुणानामेषां सत्यकामत्वादीनाम् "तस्मिन् यदन्तस्यदन्वेष्टव्यम् "एष आत्माऽपहतपाष्मा विजरो विमृत्युर्विशोको विजिधत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः" "सर्वस्य वशी सर्वन्येशानः" "एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय" इत्यादि-भिरनयोः श्रुत्योरन्यासु च मोक्षार्थोपासनोपास्यब्रह्मगुणत्वेन सादरमुपदेशादेषामलोपः, अपि तूपसंहार एव कार्यः । छान्दोग्य तावत् "तद्य इह आत्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान् तेषां सर्वेषु लाकेषु काम- चारो भवति" इति सत्यकामत्वादिगुणविशिष्टस्य ब्रह्मणो वेदनमभिधाय "अथ य इह आत्मानमननुविद्य व्रजन्त्वेतांश्च सत्यान्कामास्तेषां सर्वेषु लोकेष्वकामचारो भवति" इति अवेदननिन्दा क्रियमाणा गुणवि-शिष्टवेदनस्यादरं दर्शयति । तथा वाजसनेयके "सर्वस्य वशी सर्वस्येशानः" "एष सर्वेश्वर एष भूताधिपतिरेष

3.3.39

 

भूतपालः" इति भूयो भूय ऐश्वर्योपदेशात् गुणेष्वादरः प्रतीयते । एवमन्यत्रापि । न च मातापितृसहस्रेभ्योऽपि वत्सलतरं शास्त्रं प्रतारकवदपारमाथिकान्निरसनीयान् गुणान् प्रमाणान्तराप्रतिपन्नानादरेणोपदिश्य संसार-चक्रपरिवर्त्तनेन पूर्वमेव ब्रम्भ्रम्यमाणान् मुमुक्षून् भूयोऽपि भ्रमयितुमलम् । "नेह नानाऽस्ति किञ्चन" "एक-धैवानुद्रष्टव्य"मिति तु सर्वस्य ब्रह्मकार्यत्वेन तदात्मकत्वादेकधाऽनुदर्शनं विधाय अब्रह्मात्मकत्वेन पूर्वसि-द्धनानात्वदर्शनं निषेधतीत्ययमर्थः प्रागेव प्रपञ्चितः । "स एष नेति नेत्यात्मा" इत्यत्र चेतिशब्देन प्रमाणान्तरप्रतिपन्नं प्रपञ्चकारं परामृश्य न तथाविधं ब्रह्मेति सर्वात्मभूतस्य ब्रह्मणः प्रपञ्चविलक्षणत्वं प्रतिपाद्यते, तदेव चानन्तरमुपपादयति "अग्राह्यो न हि गृह्यते अशीर्यो न हि शीर्यते असङ्गो न हि सज्जयते अव्यथितो न व्यथते न रिष्यति" इति । प्रमाणान्तरग्राह्यविसजातीयत्वात् न विशीर्यते, एवमुत्तरत्रानु-सन्धेयम् । छान्दोग्ये ऽपि "नास्य जरयैतज्जीर्यति न वधेनास्य हन्यते एतत्सत्यं ब्रह्मपुरमस्मिन्कामाः समाहिता" इति सर्ववि-सजातीयत्वं ब्रह्मणः प्रतिपाद्य तस्मिन्सत्यकामत्वादयो विधीयन्ते ।। 39 ।।

3.3.40

 

ननु एवमपि "तद्य इह आत्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामास्तेषां सर्वेषु लोकेषु कामचारो भवति स यति पितृलोककामो भवति" इत्यादिना सत्यकामादिगुणविशिष्टवेदनस्य सांसारिकफलसम्बन्धश्रवणान्मु-मुक्षोर्ब्रह्मप्रेप्सोर्न सगुणं ब्रह्म उपास्यम् । परविद्याफलं च "परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनि#ेष्पद्यते" इतीदमेव । अतः सत्यकामत्वादयो ब्रह्मप्रेप्सोर्नोपसंहार्या इति, अत उत्तरं पठति -

3.3.40

उपस्थितेऽतस्तद्वचनात् ।। 40 ।।

3.3.40

 

उपस्थितिः- उपस्थानम्, ब्रह्मोपसम्पत्तिः, उपस्थिते ब्रह्मोपसम्पन्न; सर्वबन्धविनिर्मुक्ते स्वेन रूपेणाभिनि- ष्पन्ने प्रत्यगात्मन्यत एवोपसम्पत्तेरेव हेतोः सर्वेषु लोकेषु कामचार उच्यते "परं ज्योतिरुपसम्पद्य स्वेन रूपे-णाभिनिष्पद्यते" "स उत्तमः पुरुषः" "स तत्र पर्य्येति जक्षत् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनं स्मरन्निदं शरीरम्" "स स्वराड् भवति" "तस्य सर्वेषु लोकेषु कामचारो भवति" इति । तदेतच्चतुर्थे निपुणतरमुपपादयिष्टते । अतः सर्वेषु लोकेषु कामचारस्य मुक्तोपभोग्यफलत्वान्मुमुक्षोः सत्यकामत्वादयो गुणा उपसंहार्याः ।। 40 ।। ।। कामाद्यधिकरणं समाप्तम् ।।

3.3.41

तन्निर्धारणानियमस्तद्दृष्टेः पृतग्ध्यप्रतिब्धः फलम् ।। 41 ।।

3.3.41

 

"ओमित्येतदक्षरमुदगीथमुपासीत " इत्यादीनि कर्माङ्गाश्रयाण्युपासनानि कर्माङ्ग-

3.3.41

 

भूतोद्गीतादिमुखेन जुह्वादिमुखेन पर्णतादिवत् कर्माङ्गत्वेन निरूढानुष्ठानानीत्युद्गीथाद्युपासनसम्बन्धिनः "यदेव विद्यया करोति श्रद्धयोषनिषदा तदेव वीर्यवत्तरम्भवति" इति वर्त्तमानीनर्देशस्य पर्णतादिसम्बन्ध्य-पापश्लोकश्रवणवत् पृथक्फलत्वकल्पनायोगात् क्रतुषु नियमेनोपसंहार्याणीति ।

एवं प्राप्ते प्रचक्ष्महे-तन्निर्धारणानियमः-इति । निर्धारणं निश्चयेन मनसोऽवस्तापनम्, ध्यानामित्यर्थः । तन्निर्धारणानियमः- कर्मसूद्गीथाद्युपासनानामनियमः; कुतः? तद्दृष्टेः, उपलभ्यते ह्युपासनानुष्ठानानियमः "तेनौभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद" इत्यविदुषोऽप्यनुष्ठानवचनात् । न चाङ्गत्वे सत्युपासनस्यानु-ष्ठानानियम उपपद्यते । एवमुपासनस्यानङ्गत्वे निश्चिते सत्युपासनविधेः फलाकाङ्क्षायां रात्रिसत्रन्यायेन वीर्यवत्तरत्वं कर्मफलत्पृथग्भूतं फलमित्यवगम्यते । किमिदं वीर्यवत्तरत्वम्? कर्मफलस्यैवाप्रतिबन्धः । प्रतिबध्यते हि कर्मफलं प्रबलकर्मान्यतरफलेन तावन्तं कालम्; तदभावोऽप्रतिबन्धः । कर्मफलात्स्वर्गादि-लक्षणात् पृथग्भूतमेव फलम् । तद्दिमुच्यते-पृथग्ध्यप्रतिबन्धः फलमिति । अतः कर्माङ्गाश्रयाणामपि पृथक्फलत्वात् गोदोहनादिवत्कर्मसूद्गीथाद्युपासनानामनियमेनोपसंहारः ।। 41 ।। ।। तन्निर्धारणानियमा-धिकरणं समाप्तम् ।।

3.3.42

प्रदानवदेव तदुक्तम् ।। 42 ।।

3.3.42

 

दहरविद्यायाम्-"तद्य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान्" इति दहराकाशस्य परमात्मन #ुपासनमुकत्वा "एतांश्च सत्यान्कामा"निति गुणानामपि पृथगुपासनं विहितम् । तत्र संशयः- गुणचिन्तने-ऽपि तत्तद्गुणविशिष्टतया दहरस्यात्मनश्चिन्तनमावर्त्तनीयम्, उन नेति । दहराकाशस्यैवापहतपाप्मत्वादीनां गुणित्वात् तस्य च सकृदेवानुसन्धातुं सक्यत्वात्, गुणार्थं तच्चिन्तनं नावर्तनीयम् । इति प्राप्त उच्यते-प्रदानवदेव-इति । प्रदानवदावर्तनीयमेवेत्यर्थः । यद्यपि दहराकाश एक एवापहतपाष्मत्वा-दिगुणानां गुणी; स च प्रथमं चिन्तितः; तथाऽपि स्वरूपमात्रात् गुणविशिष्टाकारस्य भिन्नत्वात् "अपहत-

3.3.42

 

पाष्मा विजरः" इत्यादिना गुणविशिष्यतया चोपास्यत्वेन विहितत्वात्पूर्वं स्वरूपेणानुसंहितस्यापहतपाष्म-त्वादिविशिष्टतयाऽनुसन्धानार्थमावृत्तिः कर्तव्या । "यथेन्द्राय राज्ञे पुरोडाशमेकादशकपालं निर्वपेत्" "इन्द्रा-याधिराजाय" इन्द्रयस्वराज्ञे" इतीन्द्रस्यैव राजत्वादिगुणविशिष्टत्वेऽपि तत्तद्गुणसम्बन्ध्याकारस्य भिन्नत्वा-त्प्रदानावृत्तिः क्रियते, तदुक्तं साङ्कर्षणे "नाना वा देवतापृथक्त्वात्" इति ।। 42 ।। ।। प्रदानाधिकरणं समाप्तम् ।।

3.3.43

लिङ्गभृयस्त्वात्तद्धि वलीयस्तदपि ।। 43 ।।

3.3.43

 

तैत्तिरीयके दहरविद्यानन्तरमधीयते "सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् । विश्वं नारायणं देवमक्षरं परमं प्रभुम्" इत्यारभ्य "सोऽक्षरः परमः स्वराद" इत्यन्तम् । तत्र संशयः- किं पूर्वप्रकृतविद्ययैकविद्यात्वेन तदुपास्यविशेषनिर्द्धारणमनेन क्रियते? उत सर्ववेदान्तोदितपरविद्योपास्यविशेषनिर्धारणम्- इति । किं युक्तम्? दहरविद्योपास्यविशेषनिर्धारणमिति । कुतः? प्रकरणात् । पूर्वस्मिन्ननुवाके दहरविद्या हि प्रकृता "दहं विपाष्मं परवेश्मभूतं यत्पुण्डरीकं पुरमध्यसंस्थम् । तत्रापि दह्रह गगनं विशोकस्तस्मिन् यदन्त-स्तदुपासितव्यम्" इति । अस्मिश्चानुवाके "पद्मकोशप्रतीकाशं हृदयं चाष्यधोमुखम्" इत्यादिना हृदयपुण्ड-रीकाभिधानमस्य नारायणानुवाक्यस्य दहरविद्योपास्यनिर्धारणार्थत्वमुपोद्वलोयतीति ।

3.3.43

 

एवं प्राप्त प्रचक्ष्महे-लिङ्गभूयस्त्वादिति । अस्य निखिलपरविद्योपास्यविशेषनिर्धारणार्थत्वे भूयांसि लिङ्गानि दृश्यन्ते, तथा हि परविद्यास्वक्षरशिवशुम्भुपरब्रह्मपरज्योतिःपरतत्त्वपरमात्मादिशब्दनिर्दिष्टमुपास्यं वस्त्विह तैरेव शब्दैरनूद्य तस्य नारायणत्वं विधीयते; भूयसीषु विद्यासु श्रुताननूद्य नारायणत्वविधानभूयस्त्वं नारा- यण एव सर्वविद्यासुपास्यमस्थूलत्वादिविशेषितानन्दादिगुणकं परं ब्रह्मेति विशेषनिर्णये भूयो-बहुतरं लिङ्गं भवति । अत्र लिङ्गशब्दाश्चिन्हपर्यायः, चिन्हभूत वाक्यं बहुतरमस्तीत्यर्थः । तद्धि प्रकरणाद्वलीयः, तदप्यु- क्तम्-प्रथमे काण्डे "श्रुतिलिङ्गवाक्यप्रकरणस्तानसमाख्यानां समवाये परदौर्वल्यमर्थविप्रकर्षात्" इति । यत्तूक्तम्-"पद्मकोशप्रतीकाश"मित्यादिवचनं दहरशेषत्वमस्योपोद्वलयतीति; तन्न, बलीयसा प्रमाणेन सर्वविद्यो-पास्यनिर्धारणार्थत्वेऽधृते सति दहरविद्यायामपि तस्यैव नारायणस्योपास्यत्वेन तद्वचनोपपत्तेः । न च "सहस्रशीर्षम्" इत्यादिद्वितीयानिर्देशेन पूर्वानुवाकोदितोपासिना सम्बन्धः शङ्कनीयः, "तस्मिन् यदन्तस्तदुपासितव्यम्" इत्युपासिगतेन कृत्प्रत्ययेनोपास्यस्य कर्मणोऽभिहितत्वात्तदुपास्ये द्वितीयानुपपत्तेः, "विश्वमेवेदं पुरुषः" "तत्त्वं नारायणः परः इत्यादिप्रथमानिर्देशाच्च प्रथमार्थे द्वितीया वेदितव्या । "अन्तर्वहिश्च तत्सर्वं व्याप्य नारायणः स्थितः" "तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः । स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट्" इति निर्देशैः सर्वस्मात्परो नारायण एव सर्वत्रोपास्य इति निर्णीयमानत्वाच्च प्रथमार्थे द्वितीयेति निश्चीयते ।। 43 ।। ।। लिङ्गभूयस्त्वाधिकरणं समाप्तम् ।।

3.3.44

पूर्वविकल्पः प्रकरणात् स्यात् क्रिया मानसवत् ।। 44 ।।

3.3.44

 

वाजसनेयकेऽग्निरहस्ये मनश्चिदादयोऽग्नयः श्रूयन्ते "मनश्चितो वाक्चितः प्राणचितश्चक्षश्चितः श्रोत्रचितः कर्मचितोऽग्निचितः" इति । तत्र संशयः-किमेते मनश्चिदादयः साम्पादिकत्वेन विद्यारूपा अग्नयः क्रियामय-क्रत्वनुप्रवेशेन क्रियारूपाः? आहोस्विद्विद्यामयक्रत्वनुप्रवेशेन विद्यारूपा एवेति विशये क्रियारूपत्वं तावदाह-पूर्वविकल्पः-इत्यादिना । चित्याग्नित्वेन सम्पादितानामेषां मनश्चिदादीनां क्रत्वनुप्रवे-

3.3.44

 

शसाकाङ्क्षाणां स्वदेशे क्रतुविंध्यभावात् पूर्वत्र "असद्वा इ#ादमग्र आसीत्" इत्यादिनेष्टकचितस्याग्नेः प्रकृत- त्वात् तस्य च क्रियामयक्रत्वव्यभिचारित्वेन तत्र क्रतुसन्निधानात् तत्प्रकरणगृहीता मनश्चिदादः तेनेष्टकचि-तेनाग्निना विकल्प्यमानाः क्रियारूपा एव स्युः । विद्यारूपाणापि क्रियामयक्रत्वनुप्रवेशेन क्रियारूपत्वं मान-सग्रहवदुपपद्यते; यथा द्वादशाहे अविवाक्ये दशमेऽहनि मानसग्रहस्य मनोनिष्पास्यग्रहणासादनस्तोत्रशस्त्र-प्रत्याहारणभक्षणत्वेन विद्यारूपस्यापि क्रियामयक्रत्वङ्गतया क्रियारूपत्वम्, तथेहापि ।। 44 ।।

3.3.45

अतिदेशाच्च ।। 45 ।।

3.3.45

 

इतश्चेष्टकचितेनाग्निना मनश्चिदादीनां विकल्पः क्रियारूपत्वं चावगम्यत, "तेषामेकैक एव तावान् यावानसौ पूर्वः" इति पूर्वस्येष्यकचितस्याग्नेर्वीर्यं मनश्चिदादिष्वतिदिश्यते; तेन तुल्यकार्यत्वाद्विकल्पः, ततश्चेष्टकचि-तवत्तत्क्रतुनिवर्र्तनेन तदङ्गभूता मनश्चिदादयः क्रियामयक्रत्वनुप्रवेशेन क्रियारूपा एवेति ।। 45 ।।

3.3.46

 

एवं प्राप्ते प्रचक्ष्महे-

3.3.46

विद्यैव तु निर्धारणाद्दर्शनाच्च ।। 46 ।।

3.3.46

 

तुशब्दः पक्षं व्यावर्त्तयति; यदुक्तं मनश्चिदादयः क्रियामयक्रत्वनुप्रवेशेन क्रियामया एवेति; नैतदस्ति, विद्यारूपा एवैते विद्यारूपक्रत्वन्वयिना इत्यर्थः । कुतः निर्धारणाद्दशर्नाच्च, निर्धारणं तावत् "ते हैते विद्या-चित एव विद्याया हैवैत एवंविदश्चिता भवन्ति" इति वाह्मनश्चक्षुरादिव्यापाराणाम् इष्टकादिवच्चयनानुप-पत्तेर्मनसासम्पादिताग्नित्वेन विद्यारूपत्वे सिद्धेऽपि "विद्याचित एव" "विद्यया हैवैते" इति चावधारणं विद्या-मयक्रत्वन्वयेन विद्यारूपत्वज्ञापनार्थमिति निश्चीयते । दृश्यते चात्रैषां शेषी विद्यारूपः क्रतुः "ते मनसैवाधीयन्त मनसैवाचीयन्त मनसैषु ग्रहा अगृह्यन्त मनसाऽस्तुवन्त मनसाऽशंसन् यत्किञ्च यज्ञे कर्म क्रियते यत्किञ्च यज्ञीयं कर्म मनसैव तेषु मनोमयेषु मनश्चित्सुमनोमयमक्रियत" इति । इष्टकचितेष्वग्निषु यत्क्रियामयं यज्ञीयं कर्म क्रियते, तन्मनोनिर्वर्त्येषु मनश्चिदाद्यग्निषु मनोमयमेवाक्रियतेति वचनात् क्रतुरपि विद्यामयोऽत्र प्रतीयते ।। 46 ।।

3.3.47

 

नन्वत्र विधिपदाश्रवणात् फलसम्बन्धाप्रतीतेश्चेष्टकचिताग्न्युपस्थापितक्रियामयक्रतुप्रकरणाद्विद्यामय-क्रत्वन्वयेन विद्यारूपतैषां बाध्येत, नेत्याह -

3.3.47

श्रुत्यादिबलीयस्त्वाच्च न बाधः ।। 47 ।।

3.3.47

 

श्रुतिलिङ्गवाक्यानां प्रकरणाद्वलीयस्त्वेन श्रुत्याद्यवगतः क्रतुरेषां तदन्वयश्च दुर्बलेन प्रकरणेन बाधितुं न शक्यते, श्रुतिस्तावत् "ते हैते विद्याचित एव" इति, तां विवृणोति "विद्यया हैवैत एवंविदश्चिता भवन्ति" इति । विद्यया-विद्यामयेन क्रतुना सम्बद्धा मनश्चिदादयश्चिता भवन्तीत्यर्थः । "तान् हैतानेवंविदे सर्वदा सर्वाणि भूतानि विचिन्वन्त्यपि स्वपते" इति लिङ्गम् । वाक्यं च "एवंविदे चिन्वन्ति" इति । समभिव्याहारो वाक्यम् । एवंविदे-विद्यामयक्रतुमते सर्वदा सवर्णि भूतानि विचिन्वन्तीत्यर्थः । सर्वभूतकर्तृकं सर्वकाल- व्यापि चयनं मनसा सम्पादितं परिमितकर्तृकालक्रियामयेष्यकचितकार्यद्वारेण क्रत्वनुप्रवेशसम्भवमलभ- मानं विद्यामयक्रत्वनुप्रवेशे लिङ्गं भवति ।। 47 ।।

3.3.48

 

यच्चेदमुक्तं-विधिप्रत्ययाश्रवणात् फलसम्बन्धाप्रतीतेश्च क्रियामयात्क्रतोरन्योऽत्र विद्यामयः क्रतुर्न सम्भवति-इति, तत्राह-

3.3.48

अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश्च तदुक्तमः ।। 48 ।।

3.3.48

 

इष्टकचितान्वयिनः क्रियामयात्कतोर्विद्यामयृ#ोयं क्रतुः पृथक्तवेनानुबन्धादिभ्यः पृथक्तवहेतुभ्योऽवगम्यते । अनुबन्धाः यज्ञानुबन्धिनो ग्रहस्तोत्रशस्त्रादयः "मनसैषु ग्रहा अग्रह्यन्त मनसाऽस्तुवन्तमनसाऽशंसन्" इत्या-दिना प्रतिपादिताः । आदि#ाब्देन श्रुत्यादयः पूर्वोक्ता गृह्यन्ते, श्रुतिलिङ्गादिभिः सानुबन्धैर्विद्यामयः क्रतुः पृथ-गवगम्यत इत्यर्थः । प्रज्ञान्तरपृथक्त्ववत्- यथा प्रज्ञान्तरं दहरविद्यादि क्रियामयात्क्रतोः पृथग्भूतं श्रुत्यादि-भिरवगम्यते; एवमयमपि । एवं चानुबन्धादिभिः पृथग्भूते विद्यामये यज्ञेऽवगते सति विधिः परिकल्प्यते । दृष्टश्चानुवादसरूपेषु कल्प्यमानो विधिः । तदुक्तं "वचनानि त्वपूर्वत्वात्" इति । फलं च "तेषामेवैकैक एव तावान् यावानसौ पूर्वः" इत्यतिदेशात् स्वक्रतुद्वारेणेष्टकचितस्याग्नेर्यत्फलं तदेव मनश्चिदादीनामपि स्वक्रतु-द्वारेण फलमित्यवगम्यते ।। 48 ।।

3.3.49

 

यत्पुनरतिदेशेन तुलयकार्यत्वावगमात् क्रियामयक्रत्वनुप्रवेशोऽवगम्यत इत्युक्तम्, तत्राह -

3.3.49

न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ।। 49 ।।

3.3.49

 

नावश्यमतिदेशादवान्तरव्यापारस्यापि तुल्यतया भवितव्यम्, येन क्रियामयक्रत्वनुप्रवेश एषां स्यात् । यस्मात्कस्माच्चित्सामान्यमात्रादतिदेशोपलब्धेः, उपलभ्यते हि "स एष एव मृत्युर्य एतस्मिन्मण्डले पुरुषः" इत्यादिषु संहर्तृत्वादिसामान्यमात्रादतिदेशः, न हि तत्र मण्डलपुरुषस्य मृत्युवत्तल्लोकापत्तिः- तद्देशप्राप्तिरपि भवति;

3.3.49

 

एवमिहापि मनश्चिदादीनामिष्टकचिताग्निवद्भावातिदेशमात्रेणेष्टकचिताग्निदेशरूपक्रियामयक्रत्वनुप्रवेशेना-पि न भवितव्यम् । अत इष्टकचिताग्नेः स्वक्रतुद्वारेण यत्फलं तदेव मनश्चिदादीनामपि विद्यामयक्रतुद्वारेण फलमित्यतिदेशादवगम्यते ।। 49 ।।

3.3.50

परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ।। 50 ।।

3.3.50

 

परेण च ब्राह्मणेनास्यापि मनश्चिदाद्यभिधायिनः शब्दस्यताद्विध्यम्-तद्विधत्वम्, विद्यामयप्रतिपादित्वमवग- म्यते । परेण हि ब्राह्मणेन "अयं वाव लोक एषोऽग्निचितस्तस्याप एव परिश्रिताः" इत्यादिना "स यो हैतदेवं वेद लोकं पृणानमेनं भूतमेतत्सर्वमभिसमपद्यते" इति पृथक्फला विद्यैव विधीयते #ः अतोऽग्निरद्दस्यस्य क्रियै-कविषयत्वं नास्ति । एवं तर्हि विद्यामया मनश्चिदादयो वृहदारण्यकेऽनुबद्धव्याः किमर्थमिहानुबध्यन्ते; तत्रोच्यते-भू#ेयस्त्वात्त्वनुबन्धः-इति #ः मनश्चिदादिषु सम्पादनीयानामग्न्यङ्गानां भूयस्त्वात्तत्सन्निधाविहा-नुबन्धः कृतः ।। 50 ।। ।। पूर्वविकल्पाधिकरणं समाप्तम् ।।

3.3.51

एक आत्मनः शरीरे भावात् ।। 51 ।।

3.3.51

 

सर्वासु परविद्यासूपास्योपासनस्वरूपवदुपासकस्वरूपस्यापि ज्ञातव्यत्वमुक्तम्,

3.3.51

 

"त्रयाणामेव चैवमुपन्यासः प्रश्नश्च" इति । वक्ष्यति चास्य प्रत्यगात्मनः परमात्मात्मकत्वेनानुसन्धानम् "आत्मेति तूपगच्छन्ति ग्राहयन्ति च" इति । किमयं प्रत्यगात्माज्ञाता कर्त्ता भोक्तेहामुत्र सञ्चारक्षमोऽनु-सन्धेयः? उत प्रजापतिवांक्योदितापहतपाष्मत्वादिस्वरूपः? किं युक्तम्, ज्ञातृत्वाद्याकारमात्र इत्येके मन्यन्ते । कुतः- अस्योपासकस्यात्मनः शरीरे भावात् । आत्मनः शरीरे वर्त्तमानस्य तादृशमेव रूपं तावतैवानु-सन्धानेन तत्फलसिद्धयुपपत्तेश्च । न हि कर्मस्वधिकृतानां स्वर्गादिफलार्थिनां ज्ञातृत्वाद्यतिरेकेण फलानुभवदशायां यादृशं रूपं तादृशं रूपं साधनानुष्टानदशायामनुसन्धातव्यम्, तावतैव साधनानुष्ठान तत्फलयोः सिद्धेरतिरिक्तानुसन्धाने प्रयोजनाभावात्तदविशेषादिहापि तथैव । ननु चात्र "यथाक्रतुरस्मिंल्लोके पुरुषो भवति तथेतः प्रेत्य भवति" इति विशेषवचनादपहतपाष्मत्वाद्याकर एवानुसन्धातव्य इत्यवगम्यते; नैवम् "तं यथा यथोपासते" इत्युपास्यविषयत्वात्तस्य ।। 51 ।। एवं प्राप्ते प्रचक्ष्महे-

3.3.52

व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ।। 52 ।।

3.3.52

 

न त्वेतदस्ति यज्ज्ञातृत्वाद्याकार एवनुसन्धेय इति, अस्यात्मनः संसारदशायां मोक्षदशायां यो व्यतिरेकः सऽपहतपाष्मत्वादिकोऽनुसन्धेयः । अस्य मोक्षदशायां यादृशं रूपं तादृग्रूप एवोपासनवेलायामात्माऽनु-सन्धेय इत्यर्थः । कुतः तद्भावभावित्वात्तद्रूपापत्तेः, "यथाक्रतुरस्मिल्लोके पुरुषो भवति तथेतः प्रेत्य भवति तं यथा यथोपासते तथैव भवति" इति यथोपासनमेव हि प्राप्तिः श्रूयते, न च परस्वरूपमात्रविषयमेवेद-मिति वक्तुं शक्यते, प्रत्यगात्मनोऽप्युपास्यभूतपरब्रह्मशरीरतयोपास्यकोटिनिक्षिप्तत्वात्, अतः प्रजापति-वाक्योदितापहतपाष्मत्वादिगुणक्रप्रत्यगात्मशरीरपरमात्मोपासनस्य तथा रूपमेव प्राप्यमित्युक्तं भवति, अत एव "एवं क्रतुरिहामुं लोकं प्रेत्याऽभिसम्भाविताऽस्मि" इत्युच्यते, तस्मात्प्रत्यगात्मा प्राप्याकार एवानु-सन्धेयः । उपलब्धिवत्-ब्रह्मोपलब्धिवत्, यथा ब्रह्मोपलब्धिर्विहिता यथाऽवस्थितब्रह्मस्वरूपविषया तथा-ऽऽत्मोपलब्धिरपि यथाऽवस्थितात्मस्वरूपविषयेत्यर्थः । कर्मस्वात्मस्वरूपानुसन्धानं कर्माङ्गम्, "यजेत स्वर्गकामः"

3.3.52

 

इति कर्मानुष्ठानमेव हि फलाय चोद्यते, देहातिरिक्तज्ञातृत्वाद्याकारात्मावगातिः कालान्तरभाविफलसाध-नकर्माधिकारार्थेति तावन्मात्रमेव तत्रापेक्षितमिति न किञ्चिदपहीनम् ।। 52 ।।

।। शरीरेभावाधिकरणं समाप्तम् ।।

3.3.53

अङ्गाववद्धास्तु न शाखासु हि प्रतिवेदम् ।। 53 ।।

3.3.53

 

"ओमित्येतदक्षरमुद्गीथमुपासीत" "लोकेषु पञ्चविधं सामोपासीत" "उक्थमुक्थमिति वै प्रजा वदन्ति तदिदमेवोक्थमियमेव पृथिवी" "अयं वा व लोक एषोऽग्निचितः" इत्येवमाद्याः क्रत्वङ्गाश्रया उपासना भवन्ति । ताः किं यासु शाखासु श्रूयन्ते, तास्वेव नियताः? उत सर्वासु शाखासु उद्गीथादिषु सम्बध्यन्त इति विचारः । सर्ववेदान्तप्रत्ययत्वे स्थित्रेपि प्रतिवेदं स्वरभेदादुद्गीथादयो भिद्यन्त इति तत्र तत्र व्यवतिष्ठेरन्निति युक्ता शङ्का । किं युक्तम्-व्यवतिष्ठेरन्निति । कुतः "उद्गीथमुपासीत" इति सामान्येनोद्गीथसम्बन्धितया श्रुताया-स्तस्यामेव शाखायां स्वरविशेषयुक्तस्योद्गीथविशेषस्य सन्निधानात्तस्मन्नेव विशेषे पर्यवसानं युक्तमिति-एवमाद्यास्तास्वेव शाखासु व्यवतिष्ठेरन्निति ।।

3.3.53

 

एवं प्राप्ते प्रचक्ष्मह-अङ्गावबद्धास्त्विति । तु शब्दः पक्षं व्यावर्त्तयति, न ह्युद्गीथाद्यङ्गाववद्धा उपासनास्ता- स्वेव शाखासु व्यवतिष्ठेरन्, अपि तु प्रतिवेदं सम्भध्येरन्, सर्वासु शाखास्वित्यर्थः । हि शब्दो हेतौ यस्मा-च्छØत्यैवोद्गीथाद्युङ्गमात्राववद्धा।, तस्मात् यत्रोद्गीथादयस्तत्र सर्वत्र सम्बध्येरन् । यद्यपि स्वरभेदेनोद्गीथव्य- क्तयो भिद्यन्ते । तथाऽपि सामान्येनोद्गीथश्रुत्या सर्वा व्यक्तयः सन्निहिता इति न क्कचिद्व्यवस्थायां प्रमाण- मस्ति । सर्वशाखाप्रत्ययन्यायेन च सर्वासु शाखासु क्रतुरेकः ।अतः सर्वासु शाखास्वेकस्य क्रतो सन्निधा- नात् क्रत्वङ्गभूतोद्गीथादयोऽपि सन्निहिता इति नैकस्य सन्निधिविशेषोऽस्तीति न व्यवस्था ।। 53 ।।

3.3.54

मन्त्रादिवद्वाऽविरोधः ।। 54 ।।

3.3.54

 

  1. ंवाशब्दश्चार्थे, आदिशब्देन जातिगुणसङ्खयासादृश्यक्रमद्रव्यकर्माणि गृह्यन्ते, यथा मन्त्रादीनामेकैकशाखा-स्वाम्नातानामपि शेषिणः क्रतोः सर्वशाखास्वेकत्वेन यथायथं श्रुत्यादिभिः सर्वासु शाखासु विनियोगो न विरुध्यते; तद्वदिहाप्यविरोधः ।। 54 ।। ।। अङ्गाववद्धाधिकरणं समाप्तम् ।।


3.3.55

भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ।। 55 ।।

3.3.55

 

"प्राचीनशाल औपमन्यवः" इत्यारभ्य वैश्वानरविद्याऽऽम्नाता; तत्र वैश्वानरः परमात्मा त्रैलोक्यशरीर उपास्यः श्रुतः स्वार्लेकादित्वावय्वाकाशाप्पृथिव्यवयवः । तत्र च द्यौर्मूर्द्धा आदित्यश्चक्षु-

3.3.55

 

र्वायुः प्राणः आकाशः सन्देहो-मध्यकाय इत्यर्थः, आपो वस्तिः पृथिवी पादावित्यवयवविशेषाः; तत्र संशयः-किमस्य त्रैलोक्यशरीरस्य व्यस्तस्योपासनं कर्त्तव्यम्? उत व्यस्तस्य समस्तस्य च? अथ समस्त-स्यैवेति । किं युक्तम्, व्यस्तस्येति । कुतः? उपक्रमे व्यस्तोपसनोपदेशात् । तथा ह्युपदिश्यते-"औपमन्यवादयः किलोद्दालकषष्ठाः केकयमश्वपतिमुपसद्यात्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो व्रूहि" इति पप्रच्छुः । स च तेभ्यः प्रत्येकं स्वोपास्यान् द्युप्रभृतीनुक्तवद्गयो मूद्धादिषु व्यस्तेषूपासनं तत्र तत्र फलं चोक्तवान् "अत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्च्चसकुले य एतमेवमात्मानं वैश्वारनमुपास्ते मूर्द्धा त्वेष आत्मन इति एष वै सुतेजा आत्मा वैश्वानरः" इत्यादिना । तेषु तेषूपासनेषूपास्यस्य वैश्वानरत्वं चाह । अतो व्यस्तस्यैवोपासं कत्तर्व्यम् । परत्र "यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते" इति । द्वयुप्रभृतिप्रदोवच्छिन्नमात्रे वैश्वानरे उक्तस्य मूर्द्धाद्युपासनस्य समासेनोपसंहार इत्यवगन्तव्यम् । अपर आह-एवमेव समस्तस्याप्युपासनं कार्यमिति, पृथक् फलनिर्देशात् "यस्त्वेतमेवं प्रादेशमात्रमभिविमानं वैश्वानरमुपास्ते सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति" इति । न चैतावता वाक्यभेदः यथा भूमविद्योपक्रमे नामाद्युपासनं तत्फलं चाभि-

3.3.55

 

धाय "एष तु वा अतिवदिति यः सत्येनातिवदति" इत्यादिना भूमविद्यामुपद्विश्य " स स्वराड् भवति तस्य सर्वेषु लोकेषु कामचारो भवति" इति तत्फलं च व्यपदिशति । तत्र भूमविद्यापरत्वेऽपि वाक्यस्य नामाद्यवा-न्तरोपासनं तत्फलं चाङ्गीक्रियते; तथेहापीति ।

एवं प्राप्तेऽभिधीयते-भूम्नः ज्यायस्त्वमिति । भूम्नो विपुलस्य समस्तस्यैव, ज्यायस्त्वं-प्रामाणिकत्व-मित्यर्थः, एकवाक्यत्वावगतेः । तथा हि "प्राजीनशाल औपमन्यवः" इत्युपक्रम्य "उद्दालको ह वै भगवन्तोऽयमारुणिः सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छामः" इति वैश्वानरात्मबुभुत्सयौप-मन्यवादयः पञ्च महर्षयः तमुहालकमुपेत्य तत्र वैश्वानरात्मवेदनमलभमानास्तेन च सहाश्वपतिं केकयं वैश्वानरात्मवेदिनमुपसङ्गम्य "आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो व्रूहि" इति पृष्ट्वा तत्सकाशा-त्परमात्मानं वैश्वानरं स्वलोकादिपृथिव्यन्तशरीरमुपास्यमवगम्य तत्फलं च सर्वलोकसर्वंभूतसर्वात्मान्न-भूतब्रह्मानुभवमवगतवन्त इत्युपसंहारतो वाक्यस्यैकत्वमवगम्यते । एवमेकवाक्यत्वेऽवगते सत्यवयव-विशेषेषूपास्तिवचनं फलनिर्देशश्च समस्तोपासने#ैकदेशानुवादमात्रमिति निश्चीयते । क्रतुवत् - यथा "वैश्वानरं द्वादशकपालं निर्वषेत् पुत्रे जाते" इति विहितस्यैव क्रतोरेकदेशाः "यदष्टाकपालो भवति" इत्यादिभिरनूद्यन्ते; तथा समस्तोपासनमेव न्याय्यं न व्यस्तोपासनम् । तथा हि दर्शयतीयं श्रुतिः व्यस्तोपासनेऽनर्थं व्रुवती "मूर्द्धा ते व्यपतिष्यद्यन्मां नागमिष्यः" इति "अन्धोऽभविष्यो यन्मां नागमिष्यः" इत्यादिका । अत इदमप्यपास्तम्, यन्नामाद्युपासनसाम्यमुक्तम्, तत्र हि नामाद्युपासनेष्वनर्थो न श्रुतः, नामाद्युपासनेभ्यो भूमोपासनस्यातिशयितफलत्वं श्रुतम्

3.3.55

 

"एष तु वा अतिवदति यः सत्येनातिवदति"इति । तत एव तत्र भूमविद्यापरत्व्रेपि वाक्यस्य नामाद्युपासनानां सफलानां विवक्षितत्वम्, अन्यथाऽतिशयितफलत्वनिमित्तानिवादेन भूमविद्यास्तुत्यनुपपत्तेः । अतः समस्तोपासनमेव न्याय्यम् ।। 55 ।। ।। भूमज्यायस्त्वाधिकरणं समाप्तम् ।।

3.3.56

नाना शब्दादिभेदात् ।। 56 ।।

3.3.56

 

इह ब्रह्मविद्याः सर्वा ब्रह्मप्राप्तिरूपमोक्षैकफलाः; सद्विद्याभूमविद्यादहरविद्योपको-सलविद्याशाण्डिल्यविद्या-वैश्वानरविद्याऽऽनन्दमयविद्याऽक्षरविद्यादिकाः एकशाखागताः शाखान्तरगताश्चोदाहरणम् । अन्याः प्राणा-द्येकविषयफलाश्च । किमत्र विद्यैक्यमुत विद्याभेदः? इति संशय्यते । अत्रैवासां परस्परभेदे समर्थिते सत्येकस्या दहरविद्यादिकायाः सर्ववेदान्तप्रत्ययन्यायः । किं युक्तम्? विद्यैक्यमिति । कुतः? वेद्यस्य ब्रह्मण एकत्वात् । वेद्यं हि विद्याया रूपम् । अतो रूपैक्याद्विद्यैक्यमिति ।

एवं प्राप्तेऽभिधीयते-नाना-इति । नानाभूताः विद्याः कुतः? शब्दादिभेदात् । आदिशब्देनाभ्याससंख्यागुण-प्रक्रियानामधेयानि गृह्यन्ते । शब्दान्तरादिभिरत्र विधेयभेदहेतवोऽनुबन्धभेदा दृश्यन्ते । यद्यपि वेदोपासीते-

3.3.56

 

त्यादयः शब्दाः प्रत्यावृत्त्यभिधायिनः, प्रत्ययाश्च ब्रह्मैकविषयाः, तथाऽपि तत्त्प्रकरणोदितजगदेककारण-त्वापहतपाष्मत्वादिविशेषणविशिष्टब्रह्मविषयप्रत्ययावृत्त्यववोधिनः प्रत्ययावृत्तिरूपा विद्या भिन्दन्ति । ब्रह्मप्राप्तिरूपफलसम्बन्ध्युपासनविशेषाभिधायीनि च निराकाङ्क्षाणि वाक्यानि प्रतिप्रकरणं विलक्षण-विद्याभिधायीनीति निश्चीयते । अस्मिन्नर्थे "शब्दान्तरे कर्मभेदः" इत्यादिभिः पूर्वकाण्डोदितैः सूत्रैस्सिद्धेऽपि पुनरिह प्रतिपादनं वेदान्तवाक्यान्यविधेयज्ञानपराणीति कुदृष्टिनिरसनाय । अतो विद्याभेद इति स्थितम् ।। 56 ।।

।। शब्दादिभेदाधिकरणं समाप्तम् ।।

3.3.57

विकल्पोऽविशिष्टफलत्वात् ।। 57 ।।

3.3.57

 

ब्रह्मप्रातिफलानां सद्विद्यादहरविद्यादीनां नानात्वमुक्तम्; इदानीमासां विद्यानामेकस्मिन्, पुरुषे प्रयोजन-वत्त्वेन समुच्चयोऽपि सम्भवति, उत प्रयोजनाभावाद्विकल्प एवेति विशये किं युक्तम्, समुच्चय्रोपि, सम्भवतीति । कुतः? एकफलानां भिन्नशास्त्रार्थानामपि समुच्चयदर्शनात् । दृश्यते ह्येकस्यैव स्वर्गादेः साधनानामग्निहोत्रदर्शपूर्णमासादीनां तस्यैव स्वार्गस्य भूयस्त्वापेक्षयैकत्र पुरुषे समुच्चयः; एवमिहापि ब्रह्मानुभवभूयस्त्वापेक्षया समुच्चयोऽपि सम्भवतीति ।।

एवं प्राप्ते प्रचक्ष्महे-विकल्प एव; न समुच्चयः सम्भवतीति । कुतः? अविशिष्टफलत्वात्-सर्वासां हि ब्रह्मविद्यानामनवधिकातिशयानन्दब्रह्मानुभवः फलमविशिष्टं श्रूयते "ब्रह्मविदाप्नोति परम्" "स एको ब्रह्मण आन्दः श्रोत्रियस्य चाकामहतस्य" "यदा पश्यः पश्यते रुक्मवर्णं कर्त्तारमीशं पुरुषं ब्रहकमयोनिम् । तदा विद्वान्तपुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति" इत्यादिभ्यः । ब्रह्म हि स्वस्य परस्य च स्वयमनु-भूयमानमनवधिकातिशयानन्दं भवति । स च तादृशो ब्रह्मानुभव एकया विद्ययाऽवाप्यते चेत्किमन्ययेति न समुच्चयसम्भवः । स्वर्गादेर्हि देशतः कालतः स्वरूपतश्च परिमितत्वेन तत्र देशाद्यपेक्षया भूयस्त्वसम्भवा-त्तदर्थिनः समुच्चयः सम्भवति; इह तु तद्विपरीतस्वरूपे ब्रह्मणि तन्न सम्भवति । सर्वाश्च विद्या ब्रह्मानुभव-विरोध्यनादिकर्माविद्यानिरसनमुखेन ब्रह्मप्राप्तिफला इत्यविशिष्टफलत्वात्सर्वासां विकल्प एव ।। 57 ।।

3.3.58

 

ब्रह्मप्राप्तिव्यतिरिक्तफलास्तु विद्याः स्वर्गादिफलकर्मवद्यथेष्टं विकल्पेरन्, समुच्चीयेरन् वा, तासां परिमित-फलत्वेन भूयस्त्वापेक्षासम्भवात्, तदाह -

3.3.58

काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ।। 58 ।।

3.3.58

 

अपरिमितपलत्वाभावादित्यर्थः ।। 58 ।। ।। विकल्पाधिकरणं समाप्तम् ।।

3.3.59

अङ्गेषु यथाश्रयभावः ।। 59 ।।

3.3.59

 

उद्गीथादिक्रत्वङ्गेष्वाश्रिताः "ओमित्येतदक्षरमुद्गीथमुपासीत" इत्यादिका विद्याः किमुद्गीथादिवत् क्रत्वर्थतया क्रतुषु नियमेनोपादेयाः? उत गोदोहनादिवत्पुरुषार्थतया यथाकाममिति विशये नियमेनोपादेया इति युक्तम् । ननु चासां पुरुषार्थत्वेनानियमः प्रतिपादितः "तन्निर्धारणानियमस्तद्दृष्टेः प्रथग्ध्यप्रतिबन्धः फलम्" इत्यत्र । सत्यम्, तदेव द्रढयितुं कैश्चिल्लिङ्गदर्शनैर्युक्तया चाक्षिष्यते । तत्र हि "तेनोभौ कुरुतः" इत्यनियमदर्शनात् पृथक्फलत्वमुक्तम् । उपासनाश्रयभूतोद्गीथादिवदुपासनानामप्यङ्गतयोपादाननियमे बहवो हेतव उपलभ्यन्ते । न ह्यत्र "गोदोहनेन पशुकामस्य प्रणयेत्" इत्यादिवदुपासनाविधिवाक्ये फलसम्बन्धः श्रूयते । "उद्गीथ-मुपासीत" इत्युद्गीथादिसम्बन्धिदयैवोपासनं प्रतीयते, "यदेव" विद्यया करोति श्रद्धयो-

3.3.59

 

पनिषदा तदेव वीर्यवत्तरम्" इति वर्तमानापदेशरूपवाक्यान्तराद्धि फलसम्बन्धो ज्ञायते । स्वाक्येनैवाव्यभि-चरितक्रतुसम्बन्ध्युद्गीथादिसम्बन्धेन निर्ज्ञातक्रत्वङ्गभावस्य वाक्यान्तरस्थवर्तमानफलसम्बन्धनिर्देशोऽर्थ-वादमात्रं स्यात्, अपापश्लोकश्रवणादिवत् । अतो यथोद्गीथायः उपासनाश्रयाः क्रत्वङ्गतया पयोगविधिना नियमेनोपादीयन्ते, तथा तदाश्रिताश्चोपासनास्तन्मुखेन क्रत्वङ्गभूता इति नियमेनोपादेया एव ।। 59 ।।

3.3.60

शिष्टेश्च ।। 60 ।।

3.3.60

 

शिष्टिः-शासनम्, विद्यानमित्यर्थः । "उद्गीथमुपासीत" इत्युद्गीथाङ्गतयोपासनविधानाच्चोपादाननियमः "गो-दोहनेन पशुकामस्य प्रणयेत्" इत्यादिवद्विधिवाक्येऽधिकारान्राश्रवणात् उद्गीथाद्यङ्गभाव एव हि विधेय इति गम्यते ।। 60 ।।

3.3.61

समाहारात् ।। 61 ।।

3.3.61

 

"होतृपदनाद्धैवापि दुरुद्गीथमनुसमाहरति" इत्युपासनस्य समाहारनियमो दृश्यते । दुरुद्गीथं-वेदनविहीनमुद्गी- थम् । वेदनहानावन्येन समाधानं ब्रुवत्तस्य नियमेनोपादानं दर्शयति ।। 61 ।।

3.3.62

गुणसाधारण्यश्रुतेश्च ।। 62 ।।

3.3.62

 

उपासनगुणस्य उपासनाश्रयस्य प्रणवस्य सोपासनस्य "तेनेयं त्रयी विद्या वर्तते ओमित्याश्रावयत्योमिति शंसत्योमित्युद्गायति" इति साधारण्यश्रुतेश्चोपासनसमाहारो गम्यते, तेनेति प्रकृतपरामर्शात् सोपासन एव प्रणवः सर्वत्र सञ्चरति । अत उपासनस्य प्रणवसहभावनियमदर्शनाच्चोद्गीथाद्युपासनानामुद्गीथादि-वन्नियमेनोपादानम् ।। 62 ।।

3.3.63

इति प्राप्ते उच्यते --

3.3.63

न वा तत्सहभावाश्रुतेः ।। 63 ।।

3.3.63

 

न चेतदस्ति-यदुद्गीथाद्युपासनानां क्रतुषूद्गीथादिवदुपादाननियमः-इति । कुतः तत्सहभावाश्रुतेः-उद्गीथाङ्गभा-वाश्रुतेरित्यर्थः । अङ्गभावे हि सहभावनियमो भवति, यद्यपि उद्गीथमुपासीत" इत्यस्मिन् पदसमुदायेऽधिका-रान्तरं न प्रतीयते, तथाऽपि तदन्तरमेव "यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति" इति

3.3.63

 

विद्यायाः क्रतुवीर्यवत्तरत्वं प्रति साधनभावः प्रतिपाद्यते । तेन क्रतुफलात् पृथग्भूतपलसाधनभूता विद्या "उद्गीथमुपासीत" इति कर्त्तव्यतया विधीयते । क्रतुफलात् पृथग्भूतोद्गीथाङ्गतया विनियोगो नोपपद्यते । अथ उपासनस्याश्रयापेक्षायां सन्निहित उद्गीथ आश्रयमात्रं भवति । उद्गीथश्च क्रत्वङ्गभूत इति क्रतुप्रयुक्तोद्गीथा-द्याश्रये उपासने क्रत्वधिकारिण एव क्रतोर्वीर्यवत्तरत्वेच्छानिमित्तमिदमधिकारान्तरमिति न क्रतुषु तदुपादाननियमः ।

3.3.63

 

वीर्यवत्तरत्वं च क्रतुफलस्य प्रबलकर्मान्तरफलेनाप्रतिबन्ध इत्युक्तम् । क्रतोरविलम्बितफलत्वमित्यर्थः । पर्णतादीनां तु 2यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति" इति विद्यायाः फलसाधनत्ववदपापश्लोक-श्रवणादिफलं प्रति साक्षात्साधनभावो न श्रुत इति क्रत्वङ्गभूतजुह्वाद्यङ्गतया विनियोगाविरोधात्तदङ्गभूतानां फलान्तरसाधनभावकल्पनानुपपत्तेस्तत्र फलश्रुतिरर्थवामात्रं स्यात् ।। 63 ।।

3.3.64

दर्शनाच्च ।। 64 ।।

3.3.64

 

दर्शयति च श्रुतिरुपासनोपादानानियमम् "एवं विद्ध वै ब्रह्मा यज्ञं यजमानं सर्वाश्चÐत्वजोऽभिरक्षति" इति ब्रह्मणो वेदनेन सर्वेषां रक्षणं ब्रुवती । उद्गातृप्रभृतीनां वेदनस्यानियमे सत्येतदुपपद्यते । अनेन लिङ्गेन पूर्वोक्तानां समाहारादिलिङ्गानां प्रायिकत्वमवगम्यते । अतोऽनियम एवेति स्थितम् ।। 64 ।।

।। यथाश्रयभावाधिकरणं समाप्तम् ।।

।। इति श्रीभगवद्रमानुजविरचिते शारीरकमीमांसाभाष्ये तृतीयस्याध्यायस्य तृतीयः पादः ।।



3.4.1

पुरुषार्थोऽतश्शब्दादिति वादरायणः ।। 1 ।।

3.4.1

 

गुणोपसंहारानुपसंहारफला विद्यैकत्वानात्वचिन्ता कृता । इदानीं विद्यातः पुरुषार्थः? उत विद्याङ्गकात्कर्मणः? इति चिन्त्यते । किं युक्तम्? अतः- विद्यातः पुरुषार्थ इति भगवान्वादरायणो मन्यते, कुतः? शब्दात्, दृश्यते ह्यौपनिषदः शब्दो विद्यातः पुरुषार्थं ब्रुवन् "ब्रह्मविदाप्नोति परम्" "वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । तमेवं विद्वानमृत इह भवति । नान्यः पन्था विद्यतेऽयनाय" "यथा नद्यः स्यन्दमानाः समुद्र्रेस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्मरं पुरुष-

3.4.1

 

मुपैति दिव्यम्" इत्यादि ।। 1 ।।

3.4.2

अत्र पूवपक्षी प्रत्यवतिष्ठते -

3.4.2

शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः ।। 2 ।।

3.4.2

 

नैतदेवम्-यद्विद्यातः पुरुषार्थावाप्तिः शब्दावगम्यते-इति । न ह्येषः "ब्रह्मविदाप्नोति परम्" इत्यादिशब्दो वेद-नात्पुरुषार्थावाप्तिमवगमयति, कर्मसुकर्तृभूतस्याऽऽत्मनो याथात्म्यवेदनप्रतिपादनपरत्वात्, अतः कर्तुः

3.4.2

 

संस्कारद्वारेण विद्यायाः क्रतुशेषत्वात् तत्र फलश्रुतिरर्थवादमात्रम्, यथाऽन्येषु द्रव्यादिष्विति जैमिनिराचार्यो मन्यते । तदुक्तं "द्रव्यगुणसंस्कारकर्मसु परार्थत्वात् फलश्रुतिरर्थवादः स्यात्" इति । ननु च कर्मसु कर्तुर्जीवा-दन्यो मुमुक्षभिः प्राप्यतया वेदान्तेषु वेद्य उपदिश्यते इति प्रागेवोपपातया वेदान्तेषु वेद्य उपदिश्यते इति प्रागेवोपपादितम्-"नेतरोऽनुपपत्तेः" "भेदव्यपदेशाच्च" "अनुपपत्तेस्तु न शारीरः" इतरपरामर्शात्स इति चेन्नासम्भवात्" इत्येवमादिभिः सूत्रैः । तदेव ब्रह्म तत्त्वमस्यादिसामानाधिकरण्येन जीवादनतिरिक्त-मित्येतदपि "अधिकं तु भेदनिर्देशात्" इत्येवमादिभिर्निरस्तम् । सामानाधिकरण्यनिर्देशश्च "ऐतदात्म्यमिदं सर्वं" "सर्वं खल्विदं ब्रह्म" इति चेतनाचेतनसाधारणः, "यः पृथिव्यां तिष्ठन्" "य आत्मनि तिष्ठन्" इत्यादिनाऽवगततत्तदात्मतयाऽवस्थितिनिबन्धन इति "अवस्थितेरिति काशकृत्स्नः" इत्यादिभिरुपपादितम्, तत्कथं कर्मसु कर्त्तुरात्मनो याथात्म्योपदेशपरा वेदान्तशब्दा इति विद्यायाः कर्माङ्गत्वं प्रतिपाद्यते । उच्यते-वेदान्तवाक्यष्वेव विद्यायाः कर्मप्राधान्यं सूचयद्भिर्लिङ्गैस्तदुपवृहितसामानाधिकरण्यनिर्देशेन च वेदान्तशब्दा देहातिरिक्तजीवस्वरूपयाथात्म्योपदेशपरा इति वलादभ्युपगमनीयमिति पूर्वपक्षिणोऽभिप्रायः । ननु च कर्त्तृसंस्कारमुखेन

3.4.3

 

विद्यायाः क्रत्वनुप्रवेशो न शक्यते वक्तुम्, कर्त्तुर्लौकिकवैदिकसाधारणत्वेनाव्यभिचरितक्रतुसाम्बन्धित्वा-भावात् । नैवम्, लौकिकस्य कर्मणः कर्त्तुर्देहादव्यतिरिक्तत्वेऽप्युपपत्तेर्देहातिरिक्तनियत्यात्मस्वरूपस्य क्रतावेवोपयोगात्तत्त्स्वरूपप्रतिपादनमुखेन क्रत्वनुप्रवेशो न विरुद्धयते । अतो विद्यायाः क्रतुशेषत्वान्नातः पुरुषार्थः ।। 2 ।। कानि पुनस्तानि लिङ्गानि; यदुपवृंहितसमानाधिकरण्यनिर्देशेन वेदान्तशब्दा जीवस्वरूप-परा इति निर्णीयन्ते । तत्राह -

3.4.3

आचारदर्शनात् ।। 3 ।।

3.4.3

 

ब्रह्मविदां प्राधान्येन कर्मस्वेवाचारो दृश्यते-अश्वषतिः केकयः किलात्मवित्तमस्तद्विज्ञानायोपगतांस्तानृषीन् प्रत्याह - "यक्ष्यमाणो ह वै भगवन्तोऽहमस्मि" इति । तथा च जनकादयो ब्रह्मविदग्रेसराः कर्मनिष्ठाः स्मृतिषु दृश्यन्ते "कर्मणैव हि संसिद्धिमास्थिता जनकादयः" "इयाज सोऽपि सुबहून् यज्ञान् ज्ञानव्यपाश्रायः" इति । अतो ब्रह्मविदां कर्मप्रधानत्वदर्शनाद्विद्यायाः कर्तृस्वरूपवेदनरूपत्वेन कर्माङ्गत्वमेवेति न विद्यातः पुरुषार्थः ।। 3 ।।

3.4.4

 

लिङ्गमिदम्; प्राप्तिरुच्यतामित्यत्राह -

3.4.4

तच्छØतेः ।। 4 ।।

3.4.4

 

श्रुतिरेव हि विद्यायाः कर्माङ्गत्वमाह - "यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति" इति । नेयं श्रुतिः प्रकरणादुद्गीथमात्रविषयेति व्यवस्थापयितुं शख्या, यतः प्रकरणाच्छØतिर्वलीयसी, "यदेव विद्यया करोति" इति विद्यामात्रविषया हीयं श्रुतिः ।। 4 ।।

3.4.5

समन्वारम्भणात् ।। 5 ।।

3.4.5

 

"तं विद्याकर्मणी समन्वारभेते" इति विद्याकर्मणोः साहित्यं च दृश्यते । साहित्यं चोक्तेन न्यायेन विद्यायाः कर्माङ्गत्वे सत्येव भवति ।। 5 ।।

3.4.6

तद्वतो विधानात् ।। 6 ।।

3.4.6

 

विद्यावतः कर्मविधानात् विद्या कर्माङ्गमित्यवगम्यते-"आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मा-तिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे" इत्यादौ । "वेदमधीत्य" इत्यध्ययनवतः कर्माणि विदधदर्थावबोध-पर्यन्ताध्यनवत एव विदधाति । अर्थावबोधपर्यन्तं ह्यध्ययनमिति स्थापितम् । अतो ब्रह्मविद्य्रापि कर्मसु

3.4.6

 

विनियुक्तेति न पृथक्फलायावकल्पते ।। 6 ।।

3.4.7

नियमात् ।। 7 ।।

3.4.7

 

इतश्च न विद्यातः पुरुषार्थः । "कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः" इत्यात्मविदः पुरुषायुपस्य सर्वस्य कर्मसु नियमेन विनियोगात् कर्मण एव फलमित्यवगम्यते, विद्या तु कर्माङ्गम् ।। 7 ।।

3.4.8

एवं प्राप्ते प्रचक्ष्महे -

3.4.8

अधिकोपदेशात्तु वादरायणस्यैवं तद्दर्शनात् ।। 8 ।।

3.4.8

 

तुशब्दात्पक्षो व्यावृत्तः; विद्यात एव पुरुषार्थः, कुतः? अधिकरोपदेशात्-कर्मासु कर्त्तुर्जीवाद्वेयप्रत्यनीकानव-धिकातिशयासङ्खयेकल्याणगुणाकरत्वेनाधिकस्यार्थान्तरभूतस्य परस्य ब्रह्मणो वेद्यतयोपदेशात् भगवतो वादरायणस्य विद्यातः फलमित्येवमेव मतम् । लिङ्गानि तिष्ठन्तु, वेद्यतयोपदेशशस्तु तावत्कर्त्तुः प्रत्यगात्म-नोऽधिकसैव । कथं? तद्दर्शनात् - प्रत्यगात्मन्यशुद्धे शुद्धेऽप्यसम्भावनीयानन्तगुणाकरस्य वेद्यस्य निरस्तनि

3.4.8

 

खिलहयगन्धस्य स्वसङ्कल्पकृतजगदुदयविभवलयलीलस्य सर्वज्ञस्य सर्वशक्तेर्वाङ्गेनसापरिच्छेद्यानन्दस्य जीवाधिपस्य कृत्स्नस्य प्रशासितुः परस्य ब्रह्मणो वेदनोपदेशवाक्येषु दर्शनात् । "अपहतपाष्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः" "तदैक्षत बहु स्यां प्रजायेयेति तत्तेजो-ऽसृजत" "यः सर्वज्ञः सर्ववित्" "पराऽस्य शक्तिविर्विधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" " स एको ब्रह्मण आनन्दः" "यतो वाचो निवर्तन्ते -अप्राप्य मनसा सह आनन्दं ब्रह्मणो विद्वान्न विभेति कुतश्चनेति" "एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एप सेतुर्विधरणः" "स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः" "एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः" "एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः" "भीषाऽस्माद्वातः पवते । भेषोदेति सूर्यः । भीषाऽस्मादग्निश्चेन्द्रश्च । नृत्युर्धावति पञ्चमः" इत्यादिषुः । तस्माद्वेदनोपदेशशब्देषु कर्त्तुः प्रत्यगात्मनः खद्यातकल्पस्याविद्यादिहेयसम्बनतधयोग्यस्य गन्धोऽपि नास्तीति परमपुरुषविषयाया विद्यायास्तत्प्राप्ति-रूपममृतत्वं तत्र तत्र श्रूयमाणं पलमिति विद्यातः पुरुषार्थ इति सुष्ठूक्तम् ।। 8 ।।

3.4.9

लिङ्गान्यपि निरस्यन्ते --

3.4.9

तुल्यं तु दर्शनम् ।। 9 ।।

3.4.9

 

यदुक्तम्-ब्रह्मविदां कर्मानुष्ठानदर्शनाद्विद्याकर्माङ्गमिति, तन्न विद्याया अनङ्गत्वेऽपि तुल्यं दर्शनम्, ब्रह्मविदां कर्मानुष्ठानदर्शनमनैकान्तिकमित्यर्थः । अननुष्ठानस्यापि दर्शनात् । दृश्यते हि ब्रह्मविदां कर्मत्यागः "ॠषयः कावषेयाः किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे" इत्यादौ । अतो ब्रह्मविदां कर्मत्यागदर्शनान्न विद्या कर्माङ्गम् । कथमिदमुपपद्यते-ब्रह्मविदां कर्मानुष्ठानमननुष्ठानञ्च; फलाभिसन्धिरहितस्य यज्ञादिकर्मणो ब्रह्मविद्याङ्गत्वात् । तथाविधस्य कर्मणोऽनुष्ठानदर्शनमुपपद्यते । वक्ष्यति च "सर्वापेक्षा च यज्ञादिश्रुते-रश्ववत्" इति, फलार्थस्य तस्यैव यज्ञादेः कर्मणो मोक्षैवफलब्रह्मविद्याविरोधित्वात्तस्याननुषांन-दर्शनमुपपन्नतरम् । विद्यायाः कर्माङ्गत्वे कर्मत्यागः कथमपि नोपपद्यते ।। 9 ।।

3.4.10

 

यदुक्तम्-श्रुत्यैव विद्यायाः कर्माङ्गत्वमवगम्यत इति; तत्राह-

3.4.10

असार्वत्रिकी ।। 10 ।।

3.4.10

 

न सर्वविद्याविषयेयं श्रुतिः, अपि तूद्गीथविद्याविषयैव "यदेव विद्यया करोति" इति यच्छब्दस्यानिर्धारित-विशेषस्य "उद्गीथमुपासीत" इति प्रस्तुतोद्गीथविशेषनिष्ठत्वात् । न हि यत्करोति, तद्विद्ययेति सम्बध्यते, यदेव विद्यया करोति तदेव वीर्यवत्तरमिति विद्यया क्रियमाणं यच्छब्देन निर्दिश्य तस्य हि वीय्यर्वत्तरत्व-मुच्यते ।। 10 ।।

3.4.11

यच्चेदमुक्तं "तं विद्याकर्मणी समन्वारभेते" इति विद्याकर्मणोः साहित्यदर्शनाद्विद्या कर्माङ्गम्-इति; तत्राह -

3.4.11

विभागः शतवत् ।। 11 ।।

3.4.11

 

"तं विद्याकर्मणी समन्वारभेते" इत्यत्रोक्तेन न्यायेन विद्याकमर्णोर्भिन्नफलत्वाद्विद्या स्वस्मै फलाय समन्वारभते, कर्म च स्वस्मै फलायेति विभागो द्रष्टव्यः । शतवत्-थया क्षेत्ररत्रविक्रयिणं शदद्वयमन्वेतीत्युक्ते क्षेत्रार्थं शतम्, रत्नार्थं शतमिति विभागः प्रतीयते; तथेहापि ।। 11 ।।

3.4.12

अध्ययनमात्रवतः ।। 12 ।।

3.4.12

 

यदुक्तं-विद्यावतः कर्मविधानाद्विद्या कर्माङ्गमिति, नैतद्युक्तम्, "वेदमधीत्य" इति अध्ययनमात्रवतो विधानात् । न चाध्ययनविधिरेवार्थावबोधे प्रवर्त्तयति, आधानवदध्ययनस्याक्षरराशिग्रहणमात्रे पर्य्यवसानात् । गृहीतस्य च स्वाध्यायस्य फलवत्कर्मावबोधीत्वदर्शनात्तन्निर्णयफले तदर्थविचारे पुरुषः स्वयमेव प्रवर्त्तते ।

3.4.12

 

ततः कर्मार्थी कर्मज्ञाने प्रवर्त्तते, मोक्षार्थी च ब्रह्मज्ञाने-इति न विद्या कर्माङ्गम् । यद्यष्यध्ययनविधिरेवार्थाव- बोधे प्रवर्त्तयति, तथाऽपि न विद्या कर्माङ्गम्, अर्थज्ञानादर्थान्तरत्वाद्विद्यायाः । यधा जयोतिष्टोमादिकर्मस्व-रूपविज्ञानात्फलसाधनभूतं कर्मानुष्ठानमर्थान्तरम्, तथाऽर्थज्ञानरूपाद्व्रह्यस्वरूपविज्ञानादर्थान्तरमेव ध्यानोपासनादिशब्दवाच्या पुरुषाथर्साधनभूता विद्येति न तस्याः कर्मसम्भबन्धगन्धो विद्यते ।। 12 ।।

3.4.13

नाविशेषात् ।। 13 ।।

3.4.13

 

यच्चोक्तं "कुर्वन्नेवेह कर्माणि" इत्यात्मविदं ज्ञानाद्वयावृत्य यावज्जीवं कर्मानुष्ठाने नियमयतीति; तन्नोपपद्यते, अविशेषात्-न ह्यं नियमः फलसाधनभूतस्वतन्त्रकर्मविषय इति विशेषहेतुरस्ति, विद्याङ्गभूत-कर्मविषयतयाऽप्युपपत्तेः । "कर्मणैव हि संसिद्धिमास्थिता जनकादयः" इति च विदुषस्त्वाप्रयाणादुपासन-स्यानुवर्त्तमानत्वात् ।। 13 ।।

3.4.14

 

एवमर्थस्वाभाव्येन चोद्यं परिहृत्य "कुर्वन्नेवेह कर्माणि" इत्यस्यार्थमाह -

3.4.14

स्तुतये ऽनुमतिर्वा ।। 14 ।।

3.4.14

 

वाशब्दोऽवधारणार्थः, "ईशावास्यमिदं सर्वम्" इति विद्याप्रकरणाद्विद्यास्तुतये सर्वदा कर्मानुष्ठानानुमति-रियम् ।

विद्यामाहात्म्यात् सर्वदा कर्म कुर्वन्नपि न लिप्यते कर्मभिरिति हि विद्या स्तुता भवति । वाक्यशेष-श्चैवमेव दर्शयति-"एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे" इति । अतो न कमाङ्गं विद्या ।। 14 ।।

3.4.15

कामकारेण चैके ।। 15 ।।

3.4.15

 

अपि चैवमेके शाखिनः कामकारेण ब्रह्मविद्यानिष्ठस्य गार्हस्थ्यत्यागमधीयते "किं प्रजया करिष्यामो येषां नोयमामाऽयं लोकः" इति विदुषो विरक्तस्य कामकारेण गार्हस्थ्यकर्मत्यागं ब्रुव्रदिदं वचनं ब्रह्मविद्यायाः कर्मानङ्गत्वं दर्शयति । यज्ञादिकर्माङ्गत्वे हि विद्याया विद्यानिष्ठस्य कामकारेण गार्हस्थ्यत्यागो न सम्भवति । अतो न विद्या कर्माङ्गम् ।। 15 ।।

3.4.16

उपमर्दं च ।। 16 ।।

3.4.16

 

पुण्यापुण्यरूपस्य समस्तसांसारिकदुःखमूलस्य कर्मणो ब्रह्मविद्ययोपमर्दां च प्रतिवेदान्तमधीयते-"भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे" इत्यादिकम् । तद्विद्यायाः कर्माङ्गत्वे न सङ्गच्छते ।। 16 ।।

3.4.17

ऊर्ध्वरेतस्सु च शब्दे हि ।। 17 ।।

3.4.17

 

ऊर्ध्वरेतस्स्वाश्रमेउ ब्रह्मविद्यादर्शनात्तेष्वग्निहोत्रदर्शपूणमासादिकर्माभावाच्च न विद्या कर्माङ्गम् । ननूर्ध्वरेतस आश्रमा न सन्त्येव "यवज्जीवमग्निहोत्रं जुहोति" इत्यादिनाऽग्निहोत्रदशर्पूर्णमासादीनां यावज्जीवाधिकारश्रुतेः । श्रुतिविरुद्धानां स्मृतीनां चाप्रामाण्यात् । अत आह-शब्द हि-इति । वैदिके एव हि शब्दे ते दृश्यन्ते "त्रयो धर्मस्कन्धाः" ये चेमेऽरण्ये श्रद्धा तप इत्युपासते" "एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति" इत्यादौ । यावज्जीवश्रुतिस्त्वविरक्तविषया ।। 17 ।।

3.4.18

परामर्शं जैमिनिरचोदनाच्चापवदति हि ।। 18 ।।

3.4.18

 

यदिदम् "त्रयो धर्मस्कन्धाः" इत्यादौ वैदिके शब्दे ऊर्ध्वरेत आश्रमा दृश्यन्ते, अतस्ते सन्त्येवेति, नैतदुप-पद्यते, यतः "त्रयो धर्मस्कन्धाः" इत्यादिषु वाक्येषु तेषामाश्रमाणां परामर्शमात्रं क्रियते, अनुवादमात्र-मित्यर्थः । कुत एतत? चोदनात्-अविदानादित्यर्थः । न ह्यत्र विधिशब्दः श्रूयते; "त्रयो धमर्स्कन्धाः" इत्यादि#ेना हि प्रकृतं प्रणवेन ब्रह्मोपासनं स्तूयते, "ब्रह्मसंस्थोऽमृतत्वमेति" इत्युपसंहारात् । अतोऽन्यार्थ-मनुवादमात्रमत्र क्रियते तेषामाश्रमाणाम् । "ये चेमेऽरण्ये श्रद्धा तप इत्यपासदे" इति च देवयानविधिपर-त्वात्तत्रापि नाश्रमान्तरविधिसम्भवः । अपि चापवदति हि श्रुति राश्रमान्तरं "वीरहा वा एष देवानां योऽग्निमुद्वासयेत" इत्यादि#ेका । अत ऊर्ध्वरेतस आश्रमा न सन्तीति जैमिनिराचार्यो मन्यते ।। 18 ।।

3.4.19

अनुष्ठेयं वादरायणस्साम्यश्रुतेः ।। 19 ।।

3.4.19

 

गृहस्थाश्रयमवदाश्रमान्तरमप्यनुष्ठेयं भगवान् वादरायणो मन्यते । कुतः? साम्यश्रुतेः-उपादेयतयाऽभिमत-

3.4.19

 

गृहस्थाश्रमसाम्यं हि तेषामप्याश्रमाणां श्रूयते "त्रयो धर्मस्कन्धाः" इत्यारभ्य ब्रह्मसंस्थस्तुत्यर्थतया स्कीर्त्तनं गृहस्थाश्रमस्येतरेषां च समानम् । अथ गृहस्थाश्रमस्यानुवादः प्राप्तो सत्यामेव सम्भवतीति तस्य प्रप्तिर-वश्याभ्युपेत्येति मतम्, तदितरेषामपि समानम्, अन्यत्राऽभिनिवेशात् । न च गार्हस्थ्यधर्म एव "यज्ञो-ऽध्ययनं दानं तपो ब्रह्मचर्य" मिति सर्वैः शब्दैरभिधीयते, ब्रह्मचर्यतपसोर्गृहस्थस्यैव सम्भवादिति युक्तम्, "त्रयो धर्मस्कन्धाः" इति त्रित्वेन संगृह्य "प्रथमो द्वितीयस्तृतीयः" इति विभागवचनानुपपत्तेः । अतो "यज्ञो-ऽध्ययनं दान"मिति गृहस्थाश्रम उच्यते । अध्ययनशब्दो वेदाभ्यासपरः । तपःशशब्देन वैस्वानसपारिव्राज्य-योगर्रहणम्, उभयोस्तपःप्रधानत्वात् । तपः शब्दो हि कायक्लेशे रूढः, स चं द्वयोरपि समानः । ब्रह्मचारिधर्म एव ब्रह्मचयर्शब्देनाभिधीयते, "ब्रह्मसंस्थशब्दो यौगिकः सर्वाश्रमसाधारण।, सर्वेषामाश्रमिणां ब्रह्मसंस्था-सम्भवात् । ब्रह्मणि संस्थासंस्थितिर्ब्रह्मसंस्थत्वं, तच्च सर्वेषां सम्भवत्येव । ब्रह्मनिष्ठाविकलाः केवलाश्रमिणः पुण्यलोकभाजः; तेष्वेव ब्रह्मनिष्ठोऽमृतत्वभाग्भवति । तदेतद्विस्पष्टमुक्तं भगवता पराशरेण "प्राजापत्यं ब्राह्मणाना"मित्यारभ्य "ब्राह्मं संन्यासिनां स्मृत" मित्यन्तेन वर्णानामाश्रमाणां च केवलानां ब्रह्मलोक

3.4.19

 

प्राप्त्यन्तं फलमभिधाय "एकान्तिनः सदा ब्रह्मध्यायिनो योगिनो हि ये । तेषां तत्परमठ स्थानं यद्वै पश्यन्ति सूरयः" इति तेष्वेव ब्रह्मनिष्ठानां ब्रह्मप्राप्तिमभिदधाता । अतो गृहस्थाश्रमतुल्या ऊर्ध्वरेतस आश्रमा अपि दृश्यन्त इति तेऽप्यनुष्ठेयाः । "ये चेमेऽरण्ये श्रुद्धा तपः इत्युपासते" इति च अरण्ये-इति तपःप्रधानाश्रम-प्राप्त्यपेक्षत्वाद् देवयानविधानस्य तत्रापि तत्प्राप्तिरङ्गीकरणीया ।। 19 ।।

3.4.20

परामर्शपक्षे विधानपक्षे च गृहस्थाश्रमतुल्यमेषामप्यनुष्ठेयत्वमित्युपपाद्य विधिरेवायमाश्रमाणां सर्वेषां नानुवाद इत्युपपादयितुमाह --

3.4.20

विधिर्वा धारणवत् ।। 20 ।।

3.4.20

 

वाशब्दोऽवधारणार्थः । विधिरेवायमाश्रमाणाम्; धारणवत्; यथा दिष्टाग्निहोत्रे "अधस्तात्समिधं धारयन्ननु-द्रवेदुपरि हि देवेभ्यो धारयति" इत्यत्रानुवादसरूपादपि वाक्यादुपरि धारणस्याप्राप्तत्वद्विधिराश्रीयते; तदुक्तं शेषलक्षणे "विधिस्तु धारणेऽपूर्वत्वात्" इति; तथा अत्राप्यप्राप्तत्वाद्विधिरेवाश्रयणीयः "ब्रह्मचर्यं समाप्य गृही भवेद् गृहाद् वनी भूत्वा प्रव्रजेत् यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत् गृहाद्वा वनाद्वा यदहरेव विरजेत् तदहरेव प्रव्रजेत्" इति जावालानामाश्रमविधिमसन्तमिव कृत्वा एतेष्वन्यपरेष्वपि वाक्येष्वाश्रयमप्राप्ति-रवश्याश्रयणीयेत्युपपादितम् । एवमाश्रमान्तरविधानादृणश्रुतिर्यावज्जीवश्रुतिरपवादश्रुतिश्चाविरक्तविषया एवेति वेदितव्याः । अन्याश्च ब्रह्मविदः कर्मणामाप्रयाणादवश्यकर्तव्यताविधायिन्यः श्रुतयः स्मृतयश्च स्वस्वाश्रमधर्मविषयाः । अत ऊध्वर्रेतस्सु च ब्रह्मविद्याविधानाद्विद्यात पुरुषार्थ इति सिद्धम् ।। 20 ।।

।। पुरुषार्थाधिकरणं समाप्तम् ।।

3.4..21

स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ।। 21 ।।

3.4..21

 

इदमिदानीं चिन्त्यते,-"स एष रसानां रसतमः परमः परार्थ्योऽष्टमो य उद्गीथः" इति एवंजातीयकानि वाक्यानि क्रत्ववयवभूतोद्गीथादिस्तुतिमात्रपराणिए आहोस्विदुद्गीथादिषु रसतामादिदृष्टिविधानार्थानि-इति । अत्र प्रतिपादितमुपासनपरत्वमङ्गीकृत्योपासनस्य पुरुषार्तत्वेन क्रतुषूपादानानियम उक्तः । किं युक्तं? स्तुतिमात्रपराणीति ।

कुतः? उद्गीथाद्युपादानात् । क्रत्वङ्गभूतानि ह्युद्गीथादीन्युपादाय तेषां

3.4..21

 

रसतमादित्वं प्रतिपादितम्, यथा जुह्वादीनां पृथिव्यादित्वं प्रतिपादयतो वचनस्य "इयमेव जुहूः स्वर्गो लोक आहवनीयः" इत्यादिकस्य तत्स्तुतिमात्रपरत्वम्, तथेहापि । तदिदमाशङ्कते-स्तुतिमात्रमुपादानादिति चेत्- इति । उद्गीथाद्युपादानात्तत्स्तुतिमात्रमेवैषां वाक्यानां विवक्षितमिति चेत्-अत्रोत्तरं-नापूर्वत्वादिति । न स्तुतिमात्रत्वमुपपद्यते; कुतः अपूर्वत्वात्-अप्राप्तत्वात् । न ह्युद्गीथादयो रसतमादितया प्रमाणान्तरेण प्रति-पन्नाः, येन तत्प्राशस्त्य बुद्धयुत्पव्यर्थं रसतमादित्वेनानूद्येरन् । न चोद्गीथादिविधिरत्र सन्निहितः, येन "इय- मेव जुहूः स्वर्गो लोक आहवनीयः" इत्यादिवत्तदेकवाक्यत्वेन यया कयाचन विधया तत्स्तुतिपरत्वमाश्री- येत । अतः क्रतुवीर्यवत्त्वादिफलसिद्धयर्थमुद्गीथादिषु रसतमादिदृष्टिविधानमेव न्याय्यम् ।। 21 ।।

3.4.22

भावशब्दाच्च ।। 22 ।।

3.4.22

 

उपादीतेत्यादिभावशब्दाच्च विधिपरत्वमेव न्याय्यम्, विधिप्रत्यययुक्तो हि क्रियाशब्दो विधेयमेव स्वार्थमव-गमयति । तस्मादुपासनविधानार्था एताः श्रुतयः ।। 22 ।। ।। स्तुतिमात्राधिकरणं समाप्तम् ।।

3.4.23

पारिप्लवार्था इति चेन्न विशेषितत्वात् ।। 23 ।।

3.4.23

 

"प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम", "श्वेतकेतुर्हारुणेय आस" इत्येवमादीनि वेदान्तेष्वाख्यानानि किं पारिप्लवप्रयोगार्थानि, उत विद्याविशेषप्रतिपादनार्थनीति चिन्तायाम्

3.4.23

 

"आख्यानानि शंसन्ति" इत्याख्यानानां पारिप्लवे विनियोगान्न विद्याप्रधानत्वं न्याय्यमिति चेत्-न सवाण्याख्यानानि पारिप्लवप्रयोगे विनियोगमर्हन्ति । कुतः? विशेषितत्वात् विनियोगस्य । "आख्यानानि शंसन्ति" इत्युकत्वा तत्रैव "मनुर्वैवस्वतो राजा" इत्यादिना मन्वादीनामाख्यानानि विशेष्यन्ते । अतस्तेषामेव तत्र विनियोग इति गम्यते । तस्मान्न सर्वा वेदान्तेष्वाख्याननुतयः पारिप्लवप्रयोगार्थाः, अपि तु विद्याविध्यर्थाः ।। 23 ।।

3.4.24

तथा चैकवाक्योपबन्धात् ।। 24 ।।

3.4.24

 

"आत्मा वा अरे द्रष्टव्यः" इत्यादिविधिनैकवाक्यतयोपबन्धाच्चाख्यानानां विद्याविध्यर्थान्येव तानीति गम्यते; यथा "सोऽरोदीत्" इत्येवमादेः कर्मविध्यर्थत्वम्; न पारिप्लवार्थत्वम् ।। 24 ।।

।। पारिप्लवार्थाधिकरणं समाप्तम् ।।

3.4.25

अत एव चाग्नीन्धनाद्यनपेक्षा ।। 25 ।।

3.4.25

 

स्तुतिप्रसङ्गादवान्तरसङ्गतिविशेषेणार्थद्वयं चिन्तितम् । विद्यावन्त ऊर्ध्वरेतस आश्रमिणः सन्तीत्युक्तम् "ऊर्ध्वरेतस्सु च

शब्दे हि" इत्यादिभिः सूत्रैः । इदानीमूर्ध्वरेतसो यज्ञाद्यभावात्तदङ्गिका विद्या न सम्भवतीत्या-शङ्कयाह-अत एव चाग्नीन्धनाद्यनपेक्षा-इति । यत ऊर्ध्वरेतस आश्रमिणो विद्यासम्बन्धित्वेन श्रुत्या परिगृह्यन्ते "ब्रह्मसंस्थोऽमृतत्वमेति" "ये चेमेऽरण्ये श्रद्धा तप इत्युपासते" "एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति" "यदिच्छन्तो ब्रह्मचर्यं चरन्ति" इत्यादिकया । अत एवोर्ध्वरेतस्तु विद्याऽग्नीन्धना-द्यनपेक्षा, अग्नीन्धनम्-अग्न्याधानम्, आधानपूर्विकाग्निहोत्रदर्शपूर्णमासादिकर्मानपेक्षा तेषु विद्या । केवलस्वाश्रमविहितकर्मापेक्षेत्यर्थः ।। 25 ।। ।। अग्नीन्धनाद्यधिकरणं समाप्तम् ।।

3.4.26

सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ।। 26 ।।

3.4.26

 

यदि विद्या यज्ञाद्यनपेक्षैवामृतत्वं साधयति; तर्हि गृहस्थेष्वपि तदनपेक्षैव साधयितु-मर्हति, यज्ञादिश्रुतिरपि "विविदिषन्ति" इति शब्दात् कर्मणो वेदनाङ्गतां न प्रतिपादयतीति-अत आह-सर्वापेक्षा-इति । यज्ञादिसर्व-कर्मापेक्षैव विद्या कमर्वत्सुगृहस्थेषु, कुतः? यज्ञादिश्रुतेः, "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन" सत्यादिना यज्ञादयो हि विद्याङ्गत्वेन श्रूयन्त । यज्ञादिना विविदिषन्ति वेदितुमिच्छन्ति, यज्ञादिभिर्वेदनं प्राप्तुमिच्छन्तीत्यर्थः । यज्ञादीनां ज्ञानसाधनत्वे सत्येव यमादिभिर्ज्ञानं प्राप्तुमिच्छन्तीति व्यपदेश उपपद्यते; यथाऽसेर्हननसाधनत्वे सत्यसिना जिधांसतीति व्यपदेशः । अतो यज्ञादीनां ज्ञानसाधनत्वमवगम्यते । ज्ञानं च वाक्यार्थज्ञानादर्थान्तरभूतं ध्यानोपासनादिशब्दवाच्यं विशदतमप्रत्यक्षतापन्नस्मृतिरूपं निरतिशयप्रियमहरहरभ्यासोधयातिशयमाप्रयाणादनुवर्त्तमानं मोक्षसाध-

3.4.26

 

नमित्युक्तस्माभिः पूर्वमेव; वक्ष्यति च "आवृविरसकृदुपदेशात्" इत्यादिना । एवंरूपध्यानमहरहरनुष्ठीयमा-नैर्नित्यैर्नैमित्तिकैः कर्मभिः परमपुरुषाराधनरूपैः परमपुरुषप्रसादद्वारेण जायते-इति यज्ञादिना विविधिषन्तीति शास्त्रेण प्रतिपाद्यते । अतः कर्मवत्सु गृहस्थेषु यज्ञादिनित्यनैमित्तिकसर्वकर्मापेक्षा विद्या । अश्ववत्- यथा पुरुषगमनसाधनभूतोऽश्वः स्वपरिकरबन्धपरिकर्मापेक्षः, एवं मोक्षसाधनभूत्रापि विद्या नित्यनैमित्तिककर्मपरिकरापेक्षा । तदिदमाह स्वयमेव भगवान् "यज्ञ दानतपः कर्म न त्याज्यं कार्यमेव तत् । यज्ञो दादं तपश्चैव पावनानि मनीषिणाम्" "यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिदिं्ध विन्दति मानवः" इति ।। 26 ।।

।। सर्वापेक्षाधिकरणं समाप्तम् ।।

3.4.27

शमदमाद्युपेतः स्यात्तथाऽपि तु तद्विधेस्तदङ्गतया तेषामप्यवश्यानुष्ठेयत्वात् ।। 27 ।।

3.4.27

 

गृहस्थस्य शमदमादीन्यप्यनुष्ठेयानि? उत नेति चिन्तायाम् - आन्तरवाह्यकरणव्यापाररूपत्वात्कर्मानु-ष्ठानस्य शमदमादीनां तद्विपरीतरूपत्वाच्चाननुष्ठेयानि - इति प्राप्ते उच्यते - यद्यपि गृहस्थः करणव्यापार-रूपकर्मसु प्रवृतः, तथाऽपि स विद्वान् शमदमाद्युपेतः स्यात्; कुतः? तदङ्गतया तद्विधेः-विद्याङ्गतया तेषां विधेः, "तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्येत्" इति । विद्योत्पत्तेश्चित्तसमाधानरूपत्वेन दृष्टपरिकरत्वाच्छमादीनाम्, विद्यानिर्वृत्तये तेषां शमादीनामवश्यानु-ष्ठेयत्वाच्च तान्यप्यनुष्ठेयानि । न च करणव्यापारतद्विपर्ययरूपत्वेन कर्मणां शमदमादीनां च परस्परविरोधः, भिन्नविषयत्वात्-विहितेषु करणव्यापारः, अविहितेषु प्रयोजनशून्येषु च तदुपशम् इति । न च करण-व्यापाररूपकर्मसु वर्त्तमानस्य वासनावशात् शमादीनामुपादेयत्वासम्भवः, विहितानां कर्मणां परमपुरुषा-राधनतया तत्प्रसादद्वारेण निखिलविपरीतवासनोच्छेदहेतुत्वात् । अतो गृहस्थस्य शमदमादयोऽप्यनुष्ठेयाः ।। 27 ।। ।। समदामाद्यधिकरणं समाप्तम् ।।

3.4.28

सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ।। 28 ।।

3.4.28

 

वाजिनां चन्दोगानां च प्राणविद्यायाम् "न ह वा अस्यानन्नं जग्धं भवति नानन्नं परिगृहितं भवति" "न ह वा एवंविदि किञ्चनानन्नं भवति" इति प्राणविदः सर्वान्नानुमतिः सङ्कीत्यर्ते । किमियं प्राणविद्यानिष्ठस्य सर्वान्नानुमतिः सर्वदा, उत प्राणात्ययापत्ताविति विशये विशेषानुपादानात्सर्वदा - इति प्राप्त उच्यते-प्राणात्यये इति । चशब्दोऽवधारणे, प्राणात्ययापत्तावेवेत्यर्थः । कुतः? तद्दर्शनात्-दृश्यते ह्यन्यत्र ब्रह्मविदामपि प्राणात्ययापत्तावेव सर्वान्नाभ्यनुज्ञा, किं पुनः प्राणविदः । उषस्तः किल चाक्रायणो ब्रह्मविद-ग्रेसरो मटचीहतेषु कुरुषु दुर्भिक्षदूषितेष्विभ्यग्रामे वसन्ननशनेन प्राणसंशयमाषन्नो ब्रह्मविद्यानिष्पत्तये प्राणानामनवसादमाकाङ्क्षमाण सभ्यं कुल्माषान् स्वादन्तं भिक्षमाणस्तेन चोच्छिष्टेभ्योऽन्ये न विद्यन्त

3.4.28

 

इति प्रत्युक्तः पुनरपि "एतेषां मे देहि" इत्युक्त्वा तेन चेभ्येनोच्छिष्टेभ्य आदाय दत्तान्कुल्माषान् प्रतिगृह्या-नुपानप्रतिग्रहमिभ्येनार्थितः "उच्छिष्टं वै मे पीतं स्यात्" इति वदंश्चाक्रायणः किमेते कुल्माषा अनुच्छिष्टा इतीभ्येन पर्यनुयुक्तो "न वा अजीविष्यमिमानस्वादन् कामो म उदपानम्" इति कुल्माषास्वादने स्वस्य प्राणसंशयापत्तेस्तावन्मात्रस्वादनेन घृतप्राणस्य स्वस्योच्छिष्टोदकपानं कामकारितं निषिद्धं स्यादित्युकत्वा स्वस्वादितशेषं जायायै दत्त्वा तया च रक्षितानपरेद्युर्याजनेनार्जिजीषया जिगमिषुः पुनरपि प्राणसंशयमा-पन्नस्तानेवेभ्योच्छिष्यान् स्वोच्छिष्टभूतान् पर्युषितांश्चस्वाद । अतो ब्रह्मविदामपि प्राणसंशय एव सर्वान्ना-नुमतिदर्शनादत्राविशेषेण कीर्तितमपि प्राणविदः सर्वान्नीनत्वं प्राणात्ययापत्तावेवेति निश्चीयते ।। 28 ।।

3.4.29

अबाधाच्च ।। 29 ।।

3.4.29

 

"आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः" इति ब्रह्मविद्योत्पत्तावाहारशुद्धिविधानाबाधादपि ब्रह्मविदां सर्वान्नीनत्वमापद्विषयमवगम्यते । एवं ब्रह्मविदामतिशयितशक्तीनामपि सर्वान्नीनत्वस्याप-द्विषयत्वात् प्राणविदोऽलपशक्तेः सर्वान्नानुमतिरापद्विषयैव ।। 29 ।।

3.4.30

अपि स्मर्यते ।। 30 ।।

3.4.30

 

अपि चापद्विषयमेव सर्वान्नीनत्वं ब्रह्मविदामन्यषां च स्मयर्ते-"प्राणसंशयमापन्नो योऽन्नमत्ति यतस्ततः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा" इति ।। 30 ।।

3.4.31

शब्दश्चात्रोकामकारे ।। 31 ।।

3.4.31

 

यतो ब्रह्मविदामन्येषां च सर्वान्नीनत्वमापद्विषयमेव; अत एव सर्वेषामकामकारे शब्दः-कामकारस्य प्रतिषेधकः शब्दो वर्तते, अस्ति हि कठानां संहितायां कामकारस्य प्रतिषेधकः शब्दः, "तस्माद्व्राह्मणः सुरां न पिबति पाष्मना नोत्सृजा इति" इति । पाष्मना संम्पृष्टो न भवानीति मत्वा ब्राह्मणः सुरां न पिबतीत्यर्थः ।। 31 ।। ।। सर्वान्नानुमत्याधिकरणं समाप्तम् ।।

3.4.32

विहितत्वाच्चाश्रमकर्मापि ।। 32 ।।

3.4.32

 

यज्ञादिकर्माङ्गिका ब्रह्मविद्येत्युक्तम्, तानि च यज्ञादीनि कर्माण्यमुमुक्षुण केवलाश्र-

3.4.32

 

मिणाऽप्यनुष्ठेयानि, उत नेति चिन्तायां, विद्याङ्गानां सतां केवलाश्रमिशेषत्वे नित्यानित्यसंयोगविरोधः प्रसज्यत इति यज्ञादीनां केवलाश्रमधर्मत्वं न सम्भवति - इति प्राप्त उच्यते-"आश्रमकर्मापि-इति । आश्रमस्यकर्मापि भवति; केलाश्रमिणामप्यनुष्ठेयानीत्यर्थः । कुतः? "यावज्जीवप्रग्निहोत्रं जुहोति" इत्यादिना विहिवत्वात्-जीवननिमित्ततया नित्यवद्विहितत्वादित्यर्थः ।। 32 ।।

3.4.33

तथा विद्याङ्गतया च "तमेतं वेदानुवचनेत" इत्यादिना विहितत्वाद्विद्याशेषतयाऽप्यनुष्ठेयानीत्याह-

3.4.33

सहकारित्वेन च ।। 33 ।।

3.4.33

 

विद्योत्पत्तिद्वारेण विद्यासहकारितयाऽप्यनुष्ठेयानिः अग्निहोत्रादीनामिव जीवनाधिकारस्वार्गाधिकारवद्वि-

3.4.33

 

नियोगपृथक्त्वेनोभयार्थत्वं न विरुद्धयत इत्यर्थः ।। 33 ।।

3.4.34

तद्वदेव कर्मान्तरत्वमपि नास्तीत्याह -

3.4.34

सर्वथाऽपि त एवोभयलिङ्गात् ।। 34 ।।

3.4.34

 

सर्वथा विद्यार्थत्वे आश्रमार्थत्वेऽपि त एव यज्ञादय इति प्रतिपत्तव्यम्, न कर्मस्वरूपभेद इत्यर्थः । कुतः? उभयलिङ्गात्-उभयत्र श्रुतौ यज्ञादिशब्दैः प्रत्यभिज्ञाष्य विनियोगात्, कर्मस्वरूपभेदे प्रमाणभावाच्च ।। 34 ।।

3.4.35

अनभिभवं च दर्शयति ।। 35 ।।

3.4.35

 

"धर्म्मेण पापमपनुदतिं" इत्यदिभिश्च तानेव यज्ञादिधर्म्मान्निर्द्दिश्य तैर्विद्याया अनभिभवं पापकर्मभिरुत्पत्ति-प्रतिबन्धाभावं दर्शयति । अहरहरनष्ठीयमानैर्हि यज्ञादिभिर्विशुद्धेऽन्तःकरणे प्रत्यहं प्रकृष्यमाणा विदयोत्पद्यते,

3.4.36

अन्तरा चापि तु तद्दृष्टेः ।। 36 ।।

3.4.36

 

चतुर्णामाश्रमिणां ब्रह्मविद्यायामधिकार्रोस्ति; विद्यासहकारिण आश्रमधर्मा इति चोक्तम् । ये युनराश्रमान- न्तरा चर्तन्ते विधुरादयः; तेषां ब्रह्मविद्यायामधिकार्रोस्ति नवेति विशये-आश्रमधर्मेतिकर्त्तव्यताकत्वाद्वि-द्यायाः, अनाश्रमिणां चाश्रमधर्माभावान्नास्त्यधिकारः - इति प्राप्त उच्यते-अन्तरा चापि तु-इति । तु शब्दः पक्षव्यावृत्त्यर्थ।, चशब्दोऽवधारणेः ।

अन्तरावर्त्तमानानाम्-अनाश्रमिणामपि विद्यायामधिकारोऽस्त्येव कुतः? तद्दृष्टेः-दृश्यते हि रैक्कभीष्मसंवर्तादीनामनाश्रमिणामपि ब्रह्मविदयानिष्ठत्वम् । न चाश्रमधर्मैरेव विद्यानुग्रह इति शक्यं वक्तुम् "यज्ञेन दानेन तपसानाशकेन" इति दानादीनामाश्रमेष्वनैकान्तिकानामप्यनु-ग्राहकत्वदर्शनात् । यथोध्वर्रेतस्सु विद्यानिष्ठत्वदशॅनादग्निहोत्रादिव्यतिरिक्तैरेव विद्यानुग्रहः क्रियते, तथाऽ-नाश्रमिष्वपि विद्यादर्शनादाश्रमानियतैजर्पोषवासदानदेवताराधनादिभिर्विद्यानुग्रहः शक्यते कर्त्तुम् ।। 36 ।।

3.4.37

अपि स्मर्य्यते ।। 37 ।।

3.4.37

 

अपि चानाश्रमिणामपि जषादिभिरेव विद्यानुग्रहः स्मर्यते "जष्येनापि च संसिद्धयेद्व्राह्मणो नात्र संशयः ।

3.4.37

 

कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते" इति; संसिद्धयेत्-जपाद्यनुगृहीतया विद्यया सिद्धो भवतीत्यर्थः ।। 37 ।।

3.4.38

विशेषानुग्रहश्च ।। 38 ।।

3.4.38

 

न केवलं न्यायस्मृतिभ्यामयमर्थः साधनीयः । नूयते चानाश्रमनियतैधर्मर्म्मविशेषैर्विद्यानुग्रहः "तपसा ब्रह्म-चर्येण श्रद्धया विद्यवाऽऽत्मानमन्विष्येत्" इति ।। 38 ।।

3.4.39

अतस्त्वितरज्ज्यायो लिङ्गाच्च ।। 39 ।।

3.4.39

 

तुशब्दोऽवदारणे । अतः-अनाश्रमित्वात्, इतरत् आश्रमित्वमेव ज्यायः; अनाश्रमित्वमापद्विषयम्; शक्तस्य चाश्रमित्वमेवोपादेयमित्यर्थः । भूयोधर्म्मकाल्पधर्म्मकयोरतुल्यकार्य्यत्वात्, लिङ्गाच्च-स्मृतेरित्यर्थः । स्मर्थ्यते च शक्तं प्रत्याश्रमस्योपादेयत्वम् "अनाश्रमी न तिष्ठेत्तु दिनमेकमपि द्विजः" इत्यादिना । निवृत्तब्रह्मचर्यस्य मृतभार्य्यस्य चावैराग्ये सति दारालाभ आपत् ।। 39 ।। ।। विधुराधिकरणं समाप्तम् ।।

3.4.40

तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः ।। 40 ।।

3.4.40

 

नैष्ठिकवैखानसपरिव्राजकाश्रमेभ्यः प्रच्युतानामपि ब्रह्मविद्यायामधिकारोऽस्ति, नेति चिन्तायां विधुरादि-वदनाश्रमैकान्तैर्दानादिभिर्विद्यानुग्रहसम्भवादस्त्यधिकारः - इति प्राप्त उच्यते-तद्भूतस्य तु नातद्भावः-इति । तुशब्दः पक्षव्यावृव्यर्थः । तद्भूतस्य-नैष्ठिकाद्याश्रमनिष्ठस्य, नातद्भावः- ।अतथाभावः, अनाश्रमित्वेनावस्थानं न सम्भवति; कुतः? तद्रूपाभावेभ्यो नियमात्-तद्रूपाणि-तेषां नैष्ठिकादीनां रूपाणि-वेषाः धर्मा इत्यर्थः, तेषामभावाः-तद्रूपाभावाः; तेभ्यः शास्त्रैर्नियमात् । नैष्ठिकाद्याश्रमप्रविष्टान्स्वाश्रमधर्मनिवृत्तिभ्यो नियच्छन्ति हि शास्त्राणि "ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्" इति । "अरण्यमियात्ततो न पुनरेयात्" इति "संन्यस्याग्निं न पुनरावर्त्तयेत्" इति च । अतो विधुरादिवन्नैष्ठिकादीना-मनाश्रमित्वेनाऽवस्थानासम्भवान्न तानधिकरोति ब्रह्मविद्या । जैमिनेरपीत्यविगानं दशर्यन्नुक्तं स्वाभिमतं द्रढयति ।। 40 ।।

3.4.41

 

अथ स्यात्-नैष्ठिकादीनां ब्रह्मचर्य्यात् प्रच्युतानां प्रायश्चित्तादधिकारः सम्भवति, अस्ति च प्रायश्चित्तमधि-कारलक्षणे निरूपितम् "अवकीर्णिपशुश्च तद्वत" इति । अतः प्रच्युतब्रह्मचर्य्यस्य प्रायश्चित्तसम्भवात् कृतप्रायश्चित्तो ब्रह्मविद्यायामधिकरिष्यति-इति; तत्राह -

3.4.41

न चाधिकारिकमपि पतनानुमानात्तदयोगात् ।। 41 ।।

3.4.41

 

अधिकारलक्षणोक्तमपि प्रायश्चित्तं नैषिंकादीनां ततो भ्रष्टानां न सम्भवति; कुतः? पतनानुमानात् तदयोगात् - नैष्ठिकादीनां प्रच्युतानां पतनानुमानात् तदयोगात्-नैषिंकादीनां प्रच्युतानां पतनस्मृतेस्तस्य प्राश्चित्तस्या-सम्भवात् "आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते द्विजः । प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा" इति । अतोऽधिकारलक्षणोक्तं प्रायश्चित्तमितरब्रह्मचारिविषयम् ।। 41 ।।

3.4.42

उपपूर्वमपीत्येके भावमशनवत्तदुक्तम् ।। 42 ।।

3.4.42

 

नैष्ठिकादीनां ब्रह्मचर्य्यप्रच्यवनमुपपूर्वम्-उपपातकम्, महापातकेष्वपरिगणितत्वादिति तत्र प्रायश्चित्तस्य भावं - विद्यमानतामष्येके आचार्या मन्यन्ते; अशनवत् - यथा मध्वशनादिनिषेधस्तत्प्रायश्चित्तं चोपकुर्वा-

3.4.42

 

णस्य नैष्ठिकादीनां च समानम्; तदक्तं स्मृतिकारैः "उत्तरेषां चैतदविरोधि" इति । गुरुकुलवासिना यदुक्तम्, तत्स्वाश्रमाविरोध्युत्तरेषामप्याश्रमिणां सम्भवतीत्यर्थः तद्वदिहापि । ब्रह्मचर्य्यप्रच्यवने प्रायश्चित्तसम्भवा-द्व्रह्मविद्यायोग्यताऽप्यस्ति ।। 42 ।।

3.4.43

बहिस्तूभयथाऽपि स्मृतेराचाराच्च ।। 43 ।।

3.4.43

 

तुशब्दो मतान्तरव्यावृत्त्यर्थः । उपपातकत्वे महापातकत्वेऽप्येते वहिर्भूता एव ब्रह्मविद्यादिकारिभ्यः; ब्रह्म-विद्यायामनधिकृता इत्यर्थः । कुतः? स्मृतेः-पूर्वोक्तात् पतनस्मरणात् । यद्यपि कलुषनिर्हरणाय कैश्चिद्वचनैः प्रायश्चित्ताधिकारो विद्यते, तथाऽपि कर्माधिकारानुगुणशुद्धिहेतुप्रायश्चित्तं न सम्भवति, "प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा" इति स्मृतेरित्यर्थः । आचाराच्च-शिष्टा हि नैष्ठिकादीन्भ्रष्टान् कृतप्रायश्चित्ता- नपि वर्ज्जयन्ति, तेभ्यो ब्रह्मविद्यादिकं नोपदिशन्ति; अतस्तेषां नास्ति ब्रह्मविद्यायामधिकारः ।। 43 ।।

।। तद्भूताधिकरणं समाप्तम् ।।

3.4.44

स्वामिनः फलश्रुतेरित्यात्रेयः ।। 44 ।।

3.4.44

 

कर्माङ्गश्रयाण्युद्गीथाद्युपासनानि किं यजमानकर्त्तृकाणि? उतÐत्वक्कर्तृकाणीति चिन्तायां यजमानकर्त्तृ-काणक्षत्यात्रेयो मन्यते, कुतः? फलश्रुतेः-वेदान्तविहितेषु तहराद्युपासनेषु फलोपासनयोरेकाश्रयत्वदर्शना-दिह च क्रतुफलाप्रतिबन्धरूपस्योद्गीथोपासनफलस्य यजमानाश्रयत्वश्रवणादित्यर्थः । न च गोदोहनाधिव-दङ्गाश्रयत्वेन

यजमानकर्तृकत्वासम्भवः, गोदोहनादिषु ह्यध्वर्युकर्तृकप्रणयनाश्रयगोदोहनोपादानमन्येना-शक्यम्, इह तूद्गातअकर्तृकेऽप्युद्गीथे तस्योद्गीथादेः रसतमत्वानुसन्धानं यजमानेनैव कर्त्तुं शक्यते ।। 44 ।। इति प्राप्त्रेभिधीयते-

3.4.45

आÐत्वज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ।। 45 ।।

3.4.45

 

आÐत्वज्यम्- ॠत्विजः कर्मोद्गीथाद्युपासनमित्यौडुलोमिराचार्यो मन्येत; कुतः तस्मै हि प्रयोजनायÐत्वक्

3.4.45

 

परिक्रियते, फलसाधनभूतस्य साङ्गस्य क्रतोरुपादानायेत्यर्थः । कर्मविधिषु "ॠत्विजोवृणीते" "ॠत्विग्भ्यो दक्षिणां ददाति" इति ॠत्विक्कर्तृकत्वशास्त्रेण फलसाधनभूतं साङ्गं कमर् ॠत्विग्भिरनुष्ठेयमित्यवगम्यते; तदन्तर्गतानि कायिकानि मानसानि च कर्माणि ॠत्विक्कर्तृकाण्येव । न च शकत्यशक्ती तस्य निबन्धनम् । यद्यप्युद्गीथाद्युपासनं पुरुषार्थः, तथाऽपि क्रत्वधिकृताधिकारत्वात् क्रतोश्च साङ्गस्य ॠत्विक्कर्तृकत्वात् "यदेव विद्ययाकरोति तदेव वीर्य्यवत्तरम्" इति ॠत्क्किर्तृकक्रियोपयोगित्वेन विद्यायास्तदेककर्तृकत्वश्रवणादृत्वि-

3.4.45

 

क्कर्तृकाण्येतानि; दहरादिषूपासनेषु ॠत्विक्कर्तृकत्वाश्रवणात् "शास्त्रफलं प्रयोक्तरि" इति न्यायाच्च फलिकर्तृ-कत्वमेव ।। 45 ।। ।। स्वाम्यधिकरणं समाप्तम् ।।

3.4.46

सहकार्य्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ।। 46 ।।

3.4.46

 

"तस्माद्व्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिषांसद् बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः" इत्यत्र बाल्यपाण्डित्यवन्मौनमपि विधीयते? उतानूद्यते? इति विशये-मौनपाण्डित्यशब्द-योर्ज्ञानार्थत्वात्, "पाण्डित्यं निर्विद्य" इति विहितमेव ज्ञानम् "अथ मुनिः" इत्यनूद्यते । विधिशब्दो न ह्यत्र श्रूयत इति ।

3.4.46

 

एवं प्राप्ते व्रूमः-सहकार्यन्तरविधिः-इति । तद्वतः-विद्यावतः, विध्यादिवद्-विधीयत इति यज्ञादिः सर्वाश्रम- धर्मः शमदमदिश्च विधिशब्देनोच्यते । आदिशब्देन श्रवणमनने गृह्येते, सहकार्यन्तरविधिरित्यत्रापि विधीयत इति विधिः, सहकार्यन्तरं विधिश्चेति सहकार्यन्तरविधिः । एतदुक्तं भवति-यथा "तमेतं वेदानुवचनेन बाह्मणा विविदिषन्ति यज्ञेन दानेन" इत्यादिना "शान्तो दान्तः" इत्यादिना च सहकारी यज्ञादिः शमदमादिश्च विधीयते; यथा च "श्रोतव्यो मन्तव्यः" इति श्रवणमनने चार्थप्राप्ते विद्यासहकारित्वेन गृह्येते; तथा "तस्माद्व्र्#ाह्मणः पाण्डित्यं निर्विद्य" इत्यादिना पाण्डित्यं बाल्यं मौनमिति त्रितयं विद्यायाः सहकार्यन्तरं विधीयते-इति । मौनं च पाण्डित्यादर्थान्तरमित्याह -पक्षेणेति । मुनिशब्दस्य पक्षेण प्रकृष्यमननशीले व्यासादौ प्रयोगदर्शनान्मौनं पाण्डित्यबाल्ययोर्द्वयोस्तृतीयम् । यद्यपि "अथ मुनिः" इत्यत्र विधिप्रत्ययो न श्रूयते; तथाऽपि मौनस्याप्राप्तत्वात् विधेयत्वमङ्गीकरणीयम्-अथ मुनिः स्यात्-इति । इदं च मौनं श्रवणप्रतिष्ठार्थान्मननादर्थान्तरभूतमुपासनालम्बनस्य पुनः पुनः संशीलनं तद्भावनारूपम् । तदेवं वाक्यार्थः-ब्राह्मणः-विद्या-

3.4.46

 

वान् पाण्डित्वं निर्विद्य-उपास्यं ब्रह्मतत्त्वं परिशुद्धं परिपूर्णं च विदित्वा श्रवणमननाभ्यामप्राप्तं वेदनं प्रति-लभ्येत्यर्थः; तच्च भगवद्भक्तिकृतसत्त्वविवृद्धिकृतम्; यथोक्तं "नाहं वैदैः" इत्यारभ्य "भक्तया त्वनन्यया शक्यः ज्ञातुम्" इति । श्रुतिश्च "यस्य

देवे परा भक्तिः" "नायमात्मा प्रवचनेन लभ्यः" इत्यादिका । बाल्येन तिष्ठासेत्, बाल्यस्वरूपं चानन्तरमेव वक्ष्यते; बाल्यं च पाण्डित्वं च निर्विद्याथ मुनिः स्यात्, बाल्यपाण्डित्ये यथावदुपादाय परिशुद्धे परिपूर्णे ब्रह्मणि मननशीलो भवेन्निदिध्यासनरूपविद्यावाप्तये । एवं त्रितयो-पादानेन लब्दविद्यो भवतीत्याह "अमौनं मौनं च निर्विद्याथ ब्राह्मणः" इति । अमौनम्-मौनेतरसहकारिक-लापः, तं च मौनं च यथावदुपाददानो विद्याककाष्ठां तदेकनिष्पाद्यं लभेतेत्यर्थः । "स ब्राह्मणः केन स्यात्" इत्युक्तादुपायात्किमन्योऽप्युपायोऽस्तीति पृष्टे "येन स्यात्तेनेदृश एव" इति-येन मौनपर्यन्तेन ब्राह्मणः स्या-दित्युक्तम्, तेनैवेदृशः स्यात्; न केनाप्यन्येनोबायेनेति परिहृतम् । अतः सर्वेष्वाश्रमेषु स्थितस्य विदुषो यज्ञा-दिस्वाश्रमधर्मवत् पाण्डित्या#ि#ेदकं मौनतृतीयं विद्यायाः सहकार्यन्तरं विधीयते ।। 46 ।।

3.4.47

अथ स्यात्-यदि सर्वेष्वाश्रमेषु स्थितानां विदुषां तत्तदाश्रमधर्मसहकारिणी मौनतृतीयसचिवा विद्या ब्रह्म-प्राप्तिसाधनमुच्यते; कथं तर्हि छान्दोग्ये "अभिसमावृत्य कुटुम्बे शुचौ देशे" इत्यारभ्य "स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्त्तते" इति यावदायुषं र्गाहस्थ्यधर्मेण स्थितिदर्शनमुपपद्यते; अत आह -

3.4.47

कृत्स्नभावात्तु गृहिणोपसंहारः ।। 47 ।।

3.4.47

 

तुशब्दश्चोद्यं व्यावर्त्तयति; कृत्स्नभावात्-कुत्स्नेष्वाश्रमेषु विद्यायाःसद्भावात्, गृहिणोऽप्यस्तीति तेनोपसंहारः; तस्मात्सर्वाश्रमधर्म्मप्रदर्शनार्थो गृहिणोपसंहार इत्यभिप्रायः ।। 47 ।।

3.4.48

 

तथैतस्मिन्नपि वाक्ये "ब्राह्मणः पुत्रेषणायाश्च वित्तेषणायाश्च लोकेषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरति" इति पारिव्रज्यैकान्तधर्मं प्रतिपाद्य "तस्माद्व्र्#ाह्मणः पाण्डित्यं निर्विद्य" इत्यादिना पारिव्रज्यधर्मस्थितिहेतु-कमौनतृतीयसहकारिविधानं प्रदर्शनार्थमित्याह -

3.4.48

मौनवदितरेषामप्युपदेशात् ।। 48 ।।

3.4.48

 

सर्वेषणाविनिर्मुक्तस्य भिक्षाचरणपूर्वकमौनोपदेशः सर्वेषामाश्रमधर्माणां प्रदर्शनार्थः; कुतः? एवंविधमौनो-पदेशवदितरेषामाश्रमिणामपि "त्रयो धर्मस्कन्धाः" इत्यारभ्य "ब्रह्मसंस्थोऽमृतत्वमेति" इति ब्रह्मप्रेप्त्यारभ्यु-पदेशात् । उपपादितश्च पूर्वमेव ब्रह्मसंस्थशब्दः सर्वाश्रमिसाधारण इति । अतः सुष्ठूक्तम्-यज्ञादिसर्वाश्रम-धर्मवन्मौनतृतीय। पाण्डित्यादिर्विद्यासहकारित्वेन विधीयत-इति । ।। सहकार्यन्तरविध्यधिकरणं समाप्तम् ।।

3.4.49

अनाविष्कुर्वन्नन्वयात् ।। 49 ।।

3.4.49

 

"तस्माद्व्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्" इत्यत्र विदुषां बाल्यमुपादेयतया श्रुतम् । बालस्य भावः, कम्मर् वा बाल्यम् । बालभावस्य वयोवस्थाविशेषस्यानुपादेयत्वात् कम्मैवेह गृह्यते । तत्र किं बालस्य कर्म कामचारादिकं सर्वं विदुषोपादेयम्? उत दम्भादिरहितत्वमेवेति विशये-विशेषाभावात्सर्वमुपादेयम्; नियमशास्त्राणि च विशेषविधिनाऽनेन बाध्यन्त इति ।

एवं प्राप्तेऽभिधीयते-अनाविष्कुवर्न्-इति । बालस्य यत्स्वभावानाविष्काररूपं कर्म्म तदुपाददानो वर्त्तेत विद्वान्; कुतः?

अन्वयात्-तस्यैवान्वयात्, "बाल्येन तिष्ठासेत्" इत्यस्मिन् विधौ तस्यैव ह्यन्वयसम्भवः, इतरेषशं विद्याविरोधित्वश्रवणात्, "नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात्" । "आहारशुद्धौ सत्त्वशुद्धिः" इत्यादिषु ।। 49 ।। ।। अनाविष्काराधिकरणं समाप्तम् ।।

3.4.50

ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ।। 50 ।।

3.4.50

 

द्विविधा विद्या-अभ्युदयफला मुक्तिफला च । तत्राभ्युदयफला स्वसाधनभूतैः पुण्यकर्मभिः पुण्यकर्मानन्तर-मेवोत्पद्यते? उतानन्तरं? कालान्तरे वेत्यनियम इति संशयः । पूर्वकृतैः पुण्य-कर्मभिर्हि विद्वान् जायते; यथोक्तं भगवता "चतुविर्धा भजन्ते मां जनाः सुकृतिनोऽर्ज्जुन" इति । साधने निर्वृत्ते विलम्बहेत्वभावात् अनन्तरमेव-इति प्राप्त उच्यते-ऐहिकमप्रस्तुतप्रतिबन्धे-इति । ऐहिकम्-अभ्युदयफलमुपासनम्, #्रतिबन्धे सत्यनन्तरम्, प्रतिबन्धे सति तदुत्तरकालमित्यनियमः । कुतः? तद्दर्शनात्-दृश्यते हि प्रबलकर्मान्तरेण कर्मफलप्रतिबन्धाभ्युपगमः श्रुतौ "यदेव विद्यया करोति श्रुद्धयोप-निषदा तदेव वीर्यवत्तरम्" इत्युद्गीथविद्यायुक्तस्य कर्मणः फलाप्रतिबन्धश्रवणात् ।। 50 ।। ।। ऐहिकाधिकरणं समाप्तम् ।।

3.4.51

एवं मुक्तिफलानियमस्तवस्थावधृतेस्तदवस्थावधृतेः ।। 51 ।।

3.4.51

 

मुक्तिफलस्याप्युपासनस्य स्वासाधनभूतैरतिशयितकर्मभिरुत्पत्तावेवमेव कालानियमः; तस्याऽपि पूर्ववत्प्रतिबन्धाभावप्रतिबन्धसमाप्तिरूपावस्थावगतेः-अत्रापि तस्य हेतोः समानत्वादित्यर्थः । सर्वेभ्यः कर्मभ्यो मुक्तिफलविद्यासाधनस्य कर्मणः प्रबलत्वात्प्रतिबन्धासम्भव इत्यधिकाशङ्का । तत्रापि ब्रह्मविदपचाराणां पूर्वकृतानां प्रबलानां सम्भवात् प्रबिन्धसम्भव इति परिहारः । द्विरुक्तिरध्यायपरिसमाप्ति द्योतयति ।। 51 ।। ।। मुक्तिफलाधिकरणं समाप्तम् ।।

।। इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये तृतीयस्याध्यास्य चतुर्थः पादः ।।



4.1.1

आवृत्तिरसकृदुपदेशात् ।। 1 ।।

4.1.1

 

तृतीयेऽध्याये साधनैः सह विद्या चिन्तिता अथेदानीं विद्यास्वरूपविशोधनपूर्वकं विद्याफलं चिन्त्यते । तत्र "ब्रह्मविदापनोति परम्" "तमेवं विदित्वाऽतिमृत्युमेति" "ब्रह्म वेद ब्रह्मैव भवति" "यदा पश्यः पश्यते रुक्मवर्णम्" इत्यादिवेदान्तवाक्येषु ब्रह्मप्राप्तिसाधनतया विहितं वेदनं किं सकृत्कृतमेव शास्त्रार्थः? उत असकृदावृत्तमिति संशयः । किं युक्तम्? सकृत्कृतमिति "ब्रह्म वेद ब्रह्मैव भवति" इति वेदनमात्रस्यैव विधानादसकृदावृत्तौ प्रमाणाभावात् । न चावधातादिवेदनस्य ब्रह्मापरोक्ष्यं प्रति दृष्टोपायत्वात् यावत्कार्यमावृत्तिरिति शक्यं वक्तुम्, वेदनस्य दृष्टोपायत्वाभावात् । ज्योतिष्टोमादिकर्माणि वेदान्तविहितं च वेदनं परमपरुषाराधनरूपम्, आराधिताच्च परमपुरुषाद् धर्मार्थकामोक्षाख्यपुरुषार्थावाप्तिरिति हि "फलमत उपपत्तेः" इत्यत्र प्रतिपादितम् । अतो ज्यातिष्योमादिवद्यथाशब्दं सकृत्कृतमेव शास्त्रार्थः -

4.1.1

 

इति प्राप्ते प्रचक्ष्महे-आवृत्तिरसकृदिति । असकृदावृत्तमेव वेदनं शास्त्रार्थः, कुतः? उपदेशात्-ध्यानोपासन-पर्यायेण वेदनोपदेशात्, तत्पर्य्यायत्वं च विद्युपास्तिध्यायतीनामेकस्मिन् विषये वेदनोपदेशपरवाक्येषु प्रयोगादवगम्यते । तथा हि "माने ब्रह्मेत्युपासीत" इत्युपासिनोपक्रान्तोऽर्थः "भाति ना तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद" इति विदिनोपसंह्रियते, तथा "यस्तद्वेद यत्स वेद स मयैतदुक्तः" इत्युपक्रमेविदिनोक्तं रैक्कस्य ज्ञानम् "अनु म एताम्भगवोदेवतां शाधि यां देवतामुपास्से" इत्युपासिनोप-संह्रियते; तथा "ब्रह्मविदाप्नोति परम्" सत्यादिवाक्यसमानार्थेषु वाक्येषु "आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" इत्यादिषु ध्यायतिना वेदनमभिधीयते । ध्यानं च चिन्तनम्; तच्च स्मृति-सन्ततिरूपम्: न स्मृतिमात्रम्; उपा-

4.1.1

 

स्तिरिप तदेकार्थः, एकाग्रचित्तवृत्तिनैरन्र्त्ये प्रयोगदर्शनात्; तदुभयैकार्थ्यादसकृदावृत्तसन्ततस्मृतिरिह "ब्रह्म वेद ब्रह्मैव भवति" "ज्ञात्वा देवं मुच्यते सर्वपाशैः" इत्यादिषु वेदनादिशब्दैरभिधीयत इति निश्चीयते ।। 1 ।।

4.1.2

लिङ्गाच्च ।। 2 ।।

4.1.2

 

लिङ्गं-स्मृतिः । स्मृतेश्चायमर्थोऽवगम्यते । समर्थ्यते हि मोक्षसाधनभूतं वेदनं स्मृतिसन्ततिरूपम् । "तद्रूपप्रत्यये चैका सन्ततिश्चान्यनिस्स्पृहा । तध्द्यानं प्रथमैः षड्भिरङ्गैर्निष्पाद्यते तथा" इति । तस्मादसकृदावृत्तमेव वेदनं शास्त्रार्थः ।। ।। आवृत्त्यधिकरणं समाप्तम् ।।

4.1.3

आत्मेति तूपगच्छन्ति ग्राहयन्ति च ।। 3 ।।

4.1.3

 

इदमिदानीं चिन्त्यते-किमुपास्यं ब्रह्मोपादितुरन्यत्वेनोपास्यम्? उतोपासितुरा-त्मत्वेनेति । किं युक्तम्? अन्यत्वेनेति । कुतः? उपासितुः प्रत्यगात्मनोऽर्थान्तरत्वात् ब्रह्मणः । अर्थान्तरत्वं च "अधिकन्तु भेदनिर्देशात्" "अधिकोपदेशात्" "नेतराऽनुपपत्तेः" इत्यादिषूपपादितम् । यथावस्थितञ्च ब्रह्मोपास्यम्, अयथोपासने हि ब्रह्मप्राप्तिरप्ययथाभूता स्यात् । "यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति" इति न्यायात् । अतोऽन्यत्वेनोपास्यमिति ।।

4.1.3

 

एवं प्राप्तेऽभिधीयते-आत्मेति तु-इति । तुशब्दोऽवधारणे, उपासितुरात्मेत्येवोपास्यम्; उपासिता प्रत्यगात्मा स्वशरीरस्य स्वयं यथाऽऽत्मा; तथास्वात्मन्रोपि परं ब्रह्मात्मेत्येवोपासीतेत्यर्थः । कुत? एवं ह्युपगच्छन्ति पूर्वे उपासितारः "त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि" इति । उपासितुरर्थान्तरभूतं ब्रह्मोपासितारोऽहमिति कथमभ्युपगच्छन्तीत्यत्राह-"ग्राहयन्ति शास्त्राणि-तान्प्रत्युपपादयन्तीत्यर्थः । "य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरे यमयति स त आत्म्म्रन्त-र्याम्यमृतः" इति; तथा "सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः एतदात्म्यमिदं सर्वम्" "सर्वं खल्विदं ब्रह्म तज्जलानिति" इति च सर्वस्य चिदचिद्वस्तुनः तज्जत्वात्तल्लत्वात्तदनत्वात्तन्नियाम्यत्वा-त्तच्छरीरत्वाच्च सर्वस्यायमात्मा; अतः स त आत्मा; अतो यथा प्रत्यगात्मनः स्वशरीरं प्रत्यात्मत्वाद्देवोऽहं मनुष्योऽहमित्यनुसन्धानम्; तथा प्रत्यगात्मनोऽप्यात्मत्वात्परमात्मनस्तस्याप्यहमित्येवानुसन्धानं युक्त-मिति । एवं शास्त्रैरुपपादितं सर्वबुद्धीनां ब्रह्मैकनिष्ठत्वेन सर्वशब्दानां ब्रह्मैकनिष्ठत्वमभ्युपगच्छन्तः "त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते" इति व्यतिकरेणोक्तवन्तः । एवं च "अथ यो ऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद अकृत्स्नो ह्येप आत्मेत्येवोपासीत" "सर्वं तं परादाद्यो-ऽन्यत्रात्मनः सर्वं

4.1.3

 

वेद" इत्यन्यत्वानुसन्धाननिषेधः "पृथगात्मानं प्रेरितारं च मत्वा" इति पृथकत्वानुसन्धानविधानं चाविरुद्धम्, अहमिति स्वात्मतयाऽनुसन्धानादन्यत्वानुसन्धानविषेधो रक्षितः, स्वशरीरात् स्वात्मनोऽ-धिकत्वानुसन्धानवत्स्वात्मनोऽपि परमात्मनोऽधिकत्वानुसन्धानवत्स्वात्मन्रोपि परमात्मनोऽधिकत्वानु-सन्धानात्पृथकत्वानुसन्धानविधानं च रक्षितम् । अधिकस्य ब्रह्मणः प्रत्यगात्मन आत्मत्वात्तस्य च ब्रह्मशरीरत्वान्निषेधवाक्येऽकृत्स्नो ह्येष इत्युक्तम् । अत उपासितुरात्मत्वेन ब्रह्मोपास्यमिति स्थितम् ।। 3 ।।

।। आत्मत्वोपासनाधिकरणं समाप्तम् ।।

4.1.4

न प्रतीके न हि सः ।। 4 ।।

4.1.4

 

"मनो ब्रह्मेत्युपासीत" "स यो नाम ब्रह्मत्युपास्ते" इत्यादिप्रतीकोपासनेष्वप्यात्मत्वानुसन्धानं कार्यम्? उत नेति चिन्तायां "मनो ब्रहामेत्युपासीत" इति ब्रह्मोपासनत्वसाम्यात् ब्रह्मण-श्चोपासितुरात्मत्वादात्मेत्येवो-पासीतेति ।

एवं प्राप्तेऽभिधीयते - न प्रतीके - इति । प्रतीके नात्मत्वानुसन्धानं कार्यं, न हि सः - न ह्युपासितुरात्मा प्रतीकः । प्रतीकोपासनेषु प्रतीक एवोपास्यः, न ब्रह्म, ब्रह्म तु तत्र दृष्टिविशेषणमात्रं, प्रतीकोपासनं हि नाम अब्रह्मणि ब्रह्मदृष्टयाऽनुसन्धानम्, तत्रोपास्यस्य प्रतीकस्योपासित्रात्मत्वाभावान्न तताऽनुसन्धेयम् ।। 4 ।।

नन्वत्रापि ब्रह्मैबोपास्यम् - ब्रह्मण उपास्यत्वसम्भवे मन आदीनामचेतनानामल्पशक्तीनां चोपस्यत्वा-श्रयणस्यान्याय्यत्वात्, अतो मन आदिदृष्टया ब्रह्मैवोपास्यमिति तत्राह-

4.1.5

ब्रह्मदृष्टिरुत्कर्षात् ।। 5 ।।

4.1.5

 

मन आदिषु ब्रह्मदृष्टिरेव युक्ता, न ब्रह्मणि मन आदिदृष्टिः, ब्रह्मणो मन आदिभ्य उत्कर्षात्, तेषाञ्च विपर्य-यात्, उत्कृष्टे हि राजनि भृत्यदृष्टिः प्रत्यवायकरी, भृत्ये तु राजदृष्टिरभ्युदयाय ।। 5 ।।

।। प्रतीकाधिकरणं समाप्तम् ।।

4.1.6

आदित्यादिमतयश्चाङ्ग उपपत्तेः ।। 6 ।।

4.1.6

 

"य एवासौ तपति तमुद्गीथमुपासीत" इत्यादिषु कर्माङ्गाश्रयेषूपासनेषु संशयः-किमुद्गीथदौ कर्माङ्गे आदित्यादिदृष्टिः कतर्व्या? उतादित्यादिषूद्गीथादिदृष्टिरिति, उत्कृष्टदृष्टिर्निकृष्टे कतर्व्येति न्यायात् उद्गीथादीनां च फलसाधनभूतकर्माङ्गत्वेनाफलेभ्य आदित्यादिभ्य उत्कृष्टत्वादादित्यादिषूद्गीथादिदृष्टिः-

इति प्राप्तेऽभिधीयते-आदित्यादिमतयश्चाङ्गे-इति चशब्दोऽवधारणे, क्रत्वङ्गे उद्गीथादावादित्यादिदृष्टय एव कायाः, कुतः? उपपत्तेः-आदित्यादीनामेवोत्कृष्टत्वोपपत्तेः, आदित्यादिदेवताराधनद्वारेण हि कमर्णामपि फलसाधनत्वम्, अतस्तद्दृष्टिरुद्गीथाद्यङ्गे ।। 6 ।। ।। आदित्यादिमत्यधिकरणं समाप्तम् ।।

4.1.7

आसीनः सम्भवात् ।। 7 ।।

4.1.7

 

मोक्षसाधनतया वेदान्तशास्त्रैर्विहितं ज्ञानं ध्यानोपासनादिशब्दवाच्यमसकृदावृत्तं सन्ततस्मृतिरूप-मित्युक्तम्, तदनुतिष्ठन्नासीनः शयानः तिष्ठन् गच्छंश्च विशेषाभावादनियमेनानुतिष्ठेन्-

इति प्राप्त उच्यते -आसीनः-इति । आसीन उपासनमनुतिष्टेत्; कुतः? सम्भवात्-आसीनस्यैवह्येकाग्रचित्त-

4.1.7

 

तासम्भवः; स्थितिगत्योः प्रयत्रसापेक्षत्वात्, शयाने च निद्रासम्भवात् । पश्चार्धधारणप्रयत्रनिवृत्तये सापाश्रये आसीनः कुर्यात् ।। 7 ।

4.1.8

ध्यानाच्च ।। 8 ।।

4.1.8

 

"निदिध्यासितव्यः" इति ध्यानरूपत्वादुपासनस्यैकाग्रचित्तताऽवश्यम्भाविनी, ध्यानं हि विजातीयप्रत्यया-न्तराव्यवहितमेकचिन्तनमित्युक्तम् ।। 8 ।।

4.1.9

4.1.9ॐअचलत्वं चापेक्ष्य ।। 9 ।।

4.1.9

 

निश्चलत्वं चापेक्ष्य पृथिव्यन्तरिक्षादिषु ध्यानवाचोयुक्तिर्दृश्यते "ध्यायातीव पृथिवी, ध्यायतीवान्तरिक्षं, ध्यायतीव द्यौः, ध्यायन्तीवापो, ध्यायन्तीवपर्वताः" इति । अतः पृथिवीपर्वतादिवदेकाग्रचित्ततयानिश्च-लत्वमुपासकस्यासीनस्यैव सम्भवेत् ।। 9 ।।

4.1.10

स्मरन्ति च ।। 10 ।।

4.1.10

 

स्मरन्ति चासीनस्यैव ध्यानं "शुचौ देशे प्रतिष्ठष्य स्थिरमासनमात्मनः । नात्युछ्रिच्तं नातिनीचं चेलाजिन-कुशोत्तरम् । तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये" इति ।। 10 ।।

4.1.11

यत्रैकाग्रता तत्राविशेषात् ।। 11 ।।

4.1.11

 

एकाग्रतातिरिक्तदेशकालवि#ोषाश्रवणादेकाग्रतानुकूलो यो देशः कालश्च, स एवोपासनस्य देशः कालश्च ।

4.1.11

 

"समे शुचौ शर्करावन्हिवालुकाविवर्जिते" इति वचनमेकाग्रतैकान्तदोमाह, न तु देशं नियच्छति, "मनोऽनुकूले" इति वाक्यशेषात् ।। 11 ।। ।। आसीनाधिकरणं समाप्तम् ।।

4.1.12

आप्रयाणात्तत्रापि हि दृष्टम् ।। 12 ।।

4.1.12

 

तदिदमपवर्गसाधनमुक्तलक्षणमुपासनमेकाह एव सम्पाद्यम्, उताऽऽप्रयाणात्प्रत्यहमनुवर्तनीयमिति विशय - एकस्मिन्नवाहनि शास्त्रार्थस्य कृतत्वात्तावतैव परिसमापनीयम्-

इति प्राप्त उच्यते - आप्रयाणात् - इति । आमरणादनुवर्तनीयम्, कुतः? तत्रापि हि दृष्टम् -उपासनोद्योग-प्रभृत्याप्रयाणान्मध्ये यः कालस्तत्र सर्वत्रापि दृष्टमुपासनम् "स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोक-मभिसंपद्यते" इति ।। 12 ।। ।। आप्रयाणाधिकरणं समाप्तम् ।।

4.1.13

तदधिगम उत्तरपूर्वाधियोरश्लेषविनाशौ तद्वयपदेशात् ।। 13 ।।

4.1.13

 

एवं विद्यास्वरूपं विशोध्य विद्याफलं चिन्तयितुमारभते; ब्रह्मविद्याप्राप्तौ पुरुष-स्योत्तरपूर्वाधयोरश्लेपविनाशौ श्रूयेते "तद्यथा पुष्करपलाश आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यते" "तस्यैवात्मा पदवित्तं विदित्वा न कर्मणा लिप्यते पापकेन" इत्युत्तराघाश्लेषः, "तद्यथेषीकतूलमग्नौ

4.1.13

 

प्रोतं प्रदूयेतैवं हास्य सर्वे पाष्मानः प्रदूयन्ते" "क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे" इति पूर्वाधवि- नाशः । एतावश्लेषविनाशौ विद्याफलभूतावुपपद्येते, नेति संशयः । किं युक्तम्? नोपपद्येते इति । कुतः "ना- भुक्तं क्षीयते कर्म कल्पकोटिशतैरपि" इत्यादिशास्त्रविरोधात् । अश्लेषविनाशव्यपदेशस्तु मोक्षसाधनभूतवि-द्याविधायिवाक्यशेषगतः कथञ्चिद्विद्यास्तुतिप्रतिपादनेनाप्युपपद्यते । न च विद्या पूर्वोत्तराधयोः प्रायश्चित्त- तया विधीयते; येन प्रायश्चित्तेनाधविनाश उच्यते । विद्या हि "ब्रह्मविदाप्नोति परम्" "ब्रह्म वेद ब्रह्मैव भवति" इति ब्रह्मप्राप्त्युपायतया विधीयते । अतो विद्यार्थवादोऽयमधविनाशाश्लेषव्यपदेश इति । एवं प्राप्तेऽभिधीयते-तदधिगमे-इति । विद्याप्राप्तौ पुरुषस्य विद्यामाहात्म्यादुत्तरपूर्वाधयोरश्लेषविनाशावुपपद्यते; कुतः? एवंविधं हि विद्यामाहात्म्यवगम्यते "एवंविदि पापं कर्म न श्लिष्यते" "एवं हास्य सर्वे पाष्मानः प्रदूयन्ते" इत्यादिव्यपदेशात् । न च "नाभुक्तं क्षीयते कर्म" इत्यनेन शास्त्रेणास्य विरोधः, भिन्नविषयत्वात् । तद्धि कर्मणां फलजननसामथ्यर्द्गढिमविषयम्; एतत्तूत्पन्नाया विद्यायाः प्राक्कृतानां पाष्मनां फलजनन-शक्तिविनाशसामर्थ्यम् उत्पत्स्यमानानां च फलजननशक्तयुत्पत्तिप्रबन्धकरणसामर्थ्यं च प्रतिपादयतीति द्वयोर्विषयो भिद्यते । यथाऽग्निजलयोरौष्ण्यतन्निवारणप्तामर्थ्यविषययोर्द्वयोः प्रमाणयोरपि विषयभेदात्प्रा-माण्यम्, एवमात्रापीति न कश्चिद्विरोधः । अधस्याश्लेषकरणं-वैदिककर्मायोग्यतावासनाप्रत्यवायहेतु-शकत्युत्पत्तिप्रतिबन्धकरणम् । अधानि हि कृतानिपुरुषस्य वैदिककर्मायोग्यतां, सजातीयकर्मान्तरारम्भ-रुचिं, प्रत्यवायं च कुर्वन्ति । अधस्य

4.1.13

 

विनाशकरणम्-उत्पन्नायास्तच्छक्तेर्विनाशकरणम् । शक्तिरपि परमपुरुषाप्रीतिरेव । तदेवं विद्या वेदितुर्वेद्या-त्यथप्रियत्वेन स्वयमपि निरतिशयप्रिया सती वेद्यभूतपरमपुरुषाराधनस्वरूपा पूर्वकृताधसञ्चयजनित-परमपुरुषाप्रीतिं विनाशयति; सैव विद्या स्वोत्पत्त्युत्तरकालभाव्यधनिमिवपरमपुरुषाप्रीत्युत्पतिं्त च प्रतिबध्नाति । तद्विदमश्लेषवचनं प्रामादिकविषयं मन्तव्यम्, "नाविरतो दुश्चरितात्" इत्यादिभिः शास्त्रैरा-प्रायणादहरहरुत्पद्यमानाया उत्तरोत्तरातिशयभागिन्याः विद्यायाः दुश्चरितविरतिनिष्पाद्यत्वावगमात् ।। 13 ।।

।। तदधिगमाधिकरणं समाप्तम् ।।

4.1.14

इतरस्याप्येवमसंश्लेष पाते तु ।। 14 ।।

4.1.14

 

उत्तरपूर्वाधयोर्विद्ययाऽश्रलेषविनाशावुक्तौ, इतरस्य-पुण्यस्यापि, एवम्-उक्तेन न्यायेनाश्लेषविनाशौ विद्यया स्याताम्, विद्याफलविरोधित्वसामान्याद्वयपदेशाच्च । भवति च व्यपदेशः-उभे सुकृतदुष्कृते निर्दिश्य "सर्वे पाष्मानोऽतो निवत्तर्न्ते" इति, "तत्सुकृतदुष्कृते धूनुते" इति च मुमुक्षोरनिष्टफलत्वात्सुकृतस्यापि पाष्म-शब्देन व्यपदेशः । सुकृतस्यापि शास्त्रीयत्वात्तत्फलस्य केषांचिदि#ेयत्वदर्शनाच्च विद्याया अविरोधशङ्कां निवर्तयितुमतिदेशः । ननु विदुषोऽपि सेतिकतर्व्यताकोपासननिर्वृत्तये वृष्टयन्नादिफलानीष्टान्येव; कथं तेषां विरोधाद्विनाश उच्यते; तत्राह-पाते तु-इति । शरीरपाते तु तेषां विनाशः, शरीपाताद्वर्ध्वं तु विद्यानुगुणदृष्टफलानि सुकृतानिनश्यन्तीत्यर्थः ।। 14 ।। ।। इतराधिकरणं समाप्तम् ।।

4.1.15

अनारब्धकार्ये एव तु पूर्वे तदवधेः ।। 15 ।।

4.1.15

 

ब्रह्मविद्योत्पत्तेः पूर्वोत्तरभाविनोः सुकृतदुष्कृतयोरश्लेषविनाशावुक्तौ; ततः पूर्वभाविनोः सूकृतदू#ुष्कृतयोः किमविशेषेण विनाशः? उतानारब्धकार्ययोरेवेति विशये "सर्वे पाष्मानः प्रदूयन्ते" इति विद्याफलस्याविशष-श्रवराद्विद्योत्पत्त्युत्तरकालभावन्याश्च शरीरस्थितेः कुलालचक्रभ्रमणादिवत्संस्कार-वशादप्युपपत्तेरविशेषेण-

इति प्राप्ते उच्यते-अनारब्धकार्ये एव तु पूर्वे-इति । विद्योत्पत्तेः पूर्वे सुकृतदुष्कृते अनारब्धकार्ये-अप्रवृत्तफले

4.1.16 अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ।। 16 ।।

4.1.16

 

"इतरस्याऽप्येवमसंश्लेषः" इति विद्यावलात्सुकृतस्याप्यसंश्लेष उक्तः, अग्निहो-त्रादीनां नित्यनैमिविकानां स्वाश्रमधर्माणामपि सुकृतत्वसामान्येन तत्फलस्याश्लेषादनिच्छतोऽननुष्ठाने प्राप्ते उच्यते-अग्निहोत्रादि तु- इति । तुशब्दः सुकृतान्तरेभ्यो विशेषणार्थः, अग्निहोत्राद्याश्रमधर्माः फला-श्लेषासम्भवादनुष्ठेया एव, तदसम्भवश्च तत्कार्यार्थत्वात्तेषाम्, विद्याख्यकार्यायैव हि विदुषोऽग्निहोत्राद्यनुष्ठा- नम्, कथमिदमवगम्यते? तद्दर्शनात्, दृश्यते हि "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन" इत्यादिनाऽग्निहोत्रादीनां विद्यासाधनत्वं विद्यायाश्चाप्रयाणादभ्यासाधेयातिशयाया अह-रहरुत्पाद्यत्वात्तदुत्पत्त्यर्थमाश्रमकर्माप्यहरहरनुष्ठेयमेव, अन्यथाऽऽश्रमकर्मलोपे दूषितान्तःकरणस्य विद्या-त्पत्तिरेव न स्यात् ।। 16 ।।

4.1.17

यदि अग्निहोत्रादिसाधुकृत्या विद्योत्पत्त्यर्थाः, विद्योत्पत्तेः प्राचीनं च सुकृतं "यावत्सम्पातमुषित्वा" "प्राप्या- न्तं कर्मणः" इत्यनुभवेन विनष्टम्; भुक्तशिष्टं च प्रारब्धफलं "सुहृदः साधुकृत्याम्" इत्यस्य को विषयः? तत्राह-

4.1.17 अतोऽन्यापि ह्येकेषामुभयोः ।। 17 ।।

4.1.17

 

अतोऽग्निहोत्रादिसाधुकृत्याया विद्योत्पत्त्यर्थाया अन्यापि विद्याधिगमात् पूर्वोत्तरयोरुभयोरपि पुण्यकर्मणोः प्रबलकमर्प्रतिबद्धफला साधुकृत्याऽनन्ता सम्भवत्येव, तद्विषयमिदमेकेषां शाखिनां वचनम् "तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्या"मिति । विद्याऽश्लेषविनाशुश्रुतिश्च तद्विषया ।। 17 ।।

4.1.18

अनुषिंतस्यापि कर्मणः फलप्रतिबन्धसम्भवं पूर्वोक्तं स्मारयति -

4.1.18 यदेव विद्ययेति हि ।। 18 ।।

4.1.18

 

"यदेव विद्यया करोति तदेव वीर्यवत्तरम्" इत्युद्गीथविद्यायाः क्रतुफलाप्रतिबन्धफलत्ववचनेनानुष्ठितस्यापि कर्मणः फलप्रतिबन्धः सूच्यते हि । अतो विदुषोऽनुष्ठितप्रतिबद्धफलविषयं "सुहृदः साधुकृत्याम्" इति शा-ट्यायनिम् ।। 18 ।। ।। अग्निहोत्राद्यधिकरणं समाप्तम् ।।

4.1.19 भोगेन त्वितरे क्षपयित्वाऽथ संपद्यते ।। 19 ।।

4.1.19

 

ययोः पुण्यपापयोरश्लेषविनाशावुक्तौ । ताभ्यामितरे आरब्धकार्ये पुण्यपापे किं विद्यायोनिशरीरावसाने? उत तच्छरीरावसाने? शरीरान्तरावसाने वेत्यनियमः? इति संशये, "तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्ये" इति तच्छरीरविमोक्षावसानत्वश्रवणात्तदवसाने-

इति प्राप्त उच्यते-भोगेन तु-इति । तुशब्दः पक्षव्यावृत्त्यर्थः, इतरे आरब्धकार्ये पुण्यपापे स्वारब्धफलभोगेन क्षपयित्वा तत्फलभोगसमाप्त्यनन्तरं ब्रह्म सम्पद्यते । ते च पुण्यपापे एकशरीरोपभोग्यफल चेत् , तच्छरीरा-



4.2.1 वाङ्मनसि दर्शनाच्छब्दाच्च ।। 1 ।।

4.2.1

 

इदानीं विदुषो गतिप्रकारं चिन्तयितुमारभते । प्रथमन्तावदुत्क्रान्तिश्रिन्त्यते; तत्रेदमाम्नायते "अस्य सोभ्य पुरुषस्य प्रयतो वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देव-तायाम्" इति । अत्र "वाङ्मनसि संपद्यते" इति वाचो मनसि संपत्तिश्रुतिः किं वाग्वृत्तिमात्रविषया? उत वाग्विषयेति विशये-वृत्तिमात्रविषयेति युक्तम् । कुतः? मनसो वाक्प्रकृतित्येभावात्, तत्र वाक्स्वरूप-सम्पत्त्यसम्भवात् । वागादिवृत्तिनां मनोधीनत्वेन वृत्तिसम्पत्तिश्रुतिः कथंचिदुपपद्यत इति ।

4.2.2 अत एव सर्वाण्यनु ।। 2 ।।

4.2.2

 

यतो वाचो मनसा संयोगमात्रं सम्पत्तिर्न तु लयः; अत एव वाचमनु सर्वेषामिन्द्रियाणां मनसि सम्पत्तिश्रुति-

4.2.3 तन्मनः प्राण उत्तरात् ।। 3 ।।

4.2.3

तत्सर्वेन्द्रियसयुक्तं मनः प्राणे सम्पद्यते-प्राणेन संयुज्यते न मनोवृत्तिमात्रम् । कुतः? उत्तरात्-मनः प्राणे" इति वाक्यात् । अधिकाशङ्का तु, "अन्नमयं हि सोम्य मनः" इति वचनान्मनसोऽन्नप्रकृतिकत्वमवगम्यते, अन्नस्य च "ता अन्नमसृजन्त" इत्यम्मयत्वं सिद्धम् । आपोमयः प्राणः" इति चाष्प्रकृतित्वं प्राणस्यावगम्यते । अतो मनः प्राणे संपद्यते" इत्यत्र प्राणशब्देन प्राणप्रकृतिभूता अपो निर्दिश्य तासु मनःसम्पत्तिप्रतिपादने परम्परया स्व-कारणे लय इति सम्पत्तिवचनमुपपन्नं भवति-इति ।परिहारस्तु "अन्नमयं हि सोम्य मनः, आपोमयः प्राणः" इति मनःप्राणयोरन्नेनाद्भिश्चाप्यायनमुच्यते, न तत्प्रकृतित्वम्, आहङ्कारिकत्वान्मनसः, आकाशविकारत्वाच्च प्राणस्य । प्राणशब्देनापां लक्षणा च स्या- दिति ।। 3 ।। ।। मनोधिकरणं समाप्तम् ।।

4.2.4 सोऽध्यक्षे तदुपगमादिभ्यः ।। 4 ।।

4.2.4

यथा "वाङ्मनसि संपद्यते मनः प्राण" इति वचनानुरोधेन मनःप्राणयोरेव वाङ्मनसयोः संपत्तिः तथा प्राणस्तेजसीति वचनात्तेजस्येव प्राणः सम्पद्यते-

इति प्राप्त उच्यते-सोऽध्यक्षे-इति । स प्राणोऽध्यक्षे करणाधिषे जीवे सम्पद्यते । कुतः? तदुपगमादिभ्यः, प्राण- स्य जीवोपगमस्तावच्छÜयते "एवमेवेममात्मानमन्तकाले सर्वोप्राणा अभिसमायन्ति" इति, तथा जीवेन सहप्राणस्योत्क्रान्तिः श्रूयते "तमुत्क्रामन्तं प्राणोऽनूत्क्रामति इति, प्रतिष्ठा च जीवेन सह श्रूयते "कस्मिन्नु-त्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामि" इति । एवं जीवेन संयुज्य तेन सह तेज-स्सम्पत्तिरिह प्राणस्तेजसीत्युच्यते, यथा यमुनाया गङ्गया संयुज्य सागरगमनेऽपि यमुना सागरं गच्छतीति वचो न विरुद्धयते, तद्वत् ।। 4 ।। ।। अध्यक्षाधिकरणं समाप्तम् ।।

4.2.5 भूतेषु तच्छØतेः ।। 5 ।।

4.2.5

"प्राणस्तेजसि" इति जीवसंयुक्तस्य प्राणस्य तेजसि संपत्तिरुक्ता; सा सम्पत्तिः किं तेजोमात्रे? उत संहतेषु सर्वेषु भूतेष्विति विशये तेजोमात्रश्रवणात्तेजसि -

4.2.6 नैकस्मिन्दर्शयतो हि ।। 6 ।।

4.2.6

 

नैकस्मिन्, एकैकस्य कार्याक्षमत्वात् । दर्शयतो ह्यक्षमत्वं श्रुतिस्मृती "अनेन जीवेनात्मनाऽनुप्रविश्य नाम- रूपे व्याकरवाणि तासां त्रिवृतं त्रिवृतमेकैकां करवाणि" इति नामरूपव्याकरणयोग्यत्वाय त्रिवृत्करण-मुपदिश्यते । "नानावीर्याः पृथग्भूतास्ततस्यते संहति विना नाशक्नुवन्प्रजाः स्त्रष्टुमसमागम्य कृत्स्नशः । समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः ।

महादाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति तै" इति । अतः "प्राण-स्तेजसि" इति तेजश्शब्देन भूतान्तरसंसृष्टमेव तेजज्रभिधीयते । अतो भूतेष्वेव सम्पत्तिः ।। 6 ।।

।। भूताधिकरणं समाप्तम् ।।

4.2.7 समाना चासृत्युपक्रमादमृतत्वंचानुपोष्य ।। 7 ।।

4.2.7

 

इयमुत्क्रान्तिः किं विद्वदविदुषोः समाना? उताविदुष एवेति चिन्तायाम्, अविदुष एवेति प्राप्तम् । कुतः? विदुषोऽत्रैवामृतत्ववचनादुत्क्रान्त्यभावात् । विदुषो ह्यत्रैवामृतत्वं श्राव्यते "यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते" इति -

एवं प्राप्तेऽभिधीयते-समाना चासृत्युपक्रमात्-इति, विदुषोऽप्यासृत्युपक्रमादुत्क्रान्तिः समाना । आसृत्युप-क्रमात्-आगत्युपक्रमात्, नाडीप्रवेशात् प्रागित्यर्थः । विदुषोऽपि हि नाडीविशेषेणोत्क्रम्य गतिः श्रुयते "शतं चैका च हृदस्य नाड्यस्तासां मृर्द्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्र- मणे भवन्ति" इति । एवं नाडीविशेषेण गतिश्रवणाद्विदुषोऽप्युत्क्रान्तिरवर्जनीया । सा च नाडीप्रवेशात् प्राग्विशेषाश्रवणात्समाना । तत्प्रवेशदशायां च विशेषः श्रूयते "तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्ध्नो वा अन्येभ्यो वा शरीरदेशेभ्यः" इति । "शतं चैका च हृदयस्य" इत्यनया श्रुत्यैकार्थ्यात् भूर्ध्नो निष्क्र- मणं विद्वद्विषयम्, इतरदविद्वद्विषयम्, यदुक्तं विदुषोऽत्रैवामृतत्वं श्राव्यते इति, तत्रोच्यते-अमृतत्वं चानु-पोष्य-इति । चशब्दोऽवधारणे । अनुपोष्य शरीरेन्द्रियादिसंबन्धमदग्ध्वैव, यदमृतत्वम् - उत्तरपूर्वाधयोरश्लेष-

4.2.8 तदाऽपीतेः संसारव्यपदेशात् ।। 8 ।।

4.2.8

 

अवश्यं च तत्-अमृतत्वमदग्धदेहसम्बधस्यैवेति विमेयम्, कुतः? आऽपीतेः संसारव्यपदेशात्, अपीतिरप्ययो ब्रह्मप्राप्तिः । सा चार्चिरादिना मार्गेणदेशविशेषं गत्वेति वक्ष्यते,आतदवस्थाप्राप्तेः संसारोदेहसम्बन्धलक्षणो हि व्यपदिश्यते, "तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये" इति । "अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात् प्रमुच्य । धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामि" इति च ।। 8 ।।

4.2.9 सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ।। 9 ।।

4.2.9

 

इतश्च विदुषोऽपि बन्धो नात्र विदग्धः, यतः सूक्ष्मं शरीरमनुवर्तते । कुत इदमवगम्यते । प्रमाणतस्तथोपलब्धेः । उपलभ्यते हि देवयानेन पथा गच्छतो विदुषः, "तं प्रतिव्रूयात् सत्यं व्रूयात्" इति चन्द्रमसा संवादवचनेन शरीर-सद्भावः । अतः सूक्ष्मशरीरमनुवर्तते । अतश्च बन्धो न दग्धः ।। 9 ।।

4.2.10 नोपमर्देनातः ।। 10 ।।

4.2.10

 

अतः "यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते" इति वचनं न बन्धोपमर्देनामृतत्वं वदति ।। 10 ।।

4.2.11 अस्यैव चोपपत्तेरूष्मा ।। 11 ।।

4.2.11

 

अस्य सूक्ष्मशरीरस्य क्कचिद्विद्यमानत्वोपपत्तेर्विदुषः प्रक्रान्तमरणस्य मरणात्प्रागूष्मा स्थूलशरीरेक्काचित्क उपलभ्यते । न च स्थूलस्यैव शरीरस्यायमूष्मा अन्यत्रानुपलब्धेः, ततश्चोष्मणः क्कचिदुपलब्धिर्विदुषः सूक्ष्म-शरीरस्योत्क्रन्तिनिबन्धनेति गम्यते,

तस्माद्विदुषोऽप्यासृत्युपक्रमात्समानोत्क्रान्तिरिति सुष्ठूक्तम् ।। 11 ।।

पुनरपि विदुष उत्क्रन्तिर्न सम्भवतीत्याशङ्कय परिहि#ृयते -

4.2.12 प्रतिषेधादिति चेन्न शारीरात्स्पष्टो ह्येकेषाम् ।। 12 ।।

4.2.12

 

यदुक्तं विदुषोऽप्युत्क्रान्तिः समानेति तन्नोपपद्यते, विदुष उत्क्रान्तिप्रतिषेधात्, तथा हि- "स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्वपक्रामति" तमुत्क्रामन्तं प्राणोऽनूत्क्रामति" इत्यविदुष उत्क्रान्तिप्रकारमभिधाय "अन्यन्नवतरं कल्याणतरं रूपं कुरुते" इति । देहान्तरपरिग्रहं चाभिधाय "प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह

4.2.12

करोत्ययं तस्माल्लोकात्पनरेत्यस्मै लोकाय कर्मण इति तु कामयमानः" इत्यर्विद्वद्विषयं परिसमाप्य "अथा-कामयमानो योऽकामोनिष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्व्रह्माष्येति" इति विदुष उत्क्रान्तिः प्रतिषिध्यते, तथा पूर्वत्रार्तभागप्रश्नेऽपि विदुष उत्क्रान्तिप्रतिषेधो दृश्यते "अपपुनर्मृत्युं जयति" इति विद्वांसं प्रस्तुत्य "याज्ञवल्क्य इति होवाच यत्रायं पुरुषो म्रियत उदस्मात्प्राणा उत्क्रामन्त्याहो" इति पृष्टे "नेति होवाच याज्ञवल्क्योऽत्रैव समवलीयन्ते स उच्छकयत्याध्मातो मृतः शेतः" इति । अतो विद्वा-निहैवामृतत्वं प्राप्नोतीति चेत्-तन्न, शारीरात् प्रत्यगात्मनः प्राणानामुत्क्रान्तिर्ह्यत्र प्रतिषिध्यते, न शरीरात्, "न तस्य प्राणा उत्क्रामन्ती"त्यत्र तच्छब्देन "अथाकामयमानः" इति प्रकृतः शारीर एव परामृश्यते नाश्रुतं शरीरम् । तस्येति षष्ठया प्राणानां सम्बन्धित्वेन शारीरो निर्दिष्टः न तूक्रान्त्यपादनत्वेन, उत्क्रान्त्यपादानन्तु शरीरमेवेति चेन्न अपादानापेक्षायामश्रुताच्छरीरात् सम्बन्धितया श्रुतस्यात्मन एव सन्निहितत्वेनापादानतया-ऽपि ग्राह्यत्वात् । किञ्च प्राणानां जीवसम्बन्धितयैव प्रज्ञातानां तत्सम्बन्धकथने प्रयोजनाभावात् सम्बन्ध-मात्रवाचिन्या षष्ठया अपादनमेव विशेष इति निश्चीयते, यथा नटस्य #ृणोतीति, न चात्र विवदितव्यं स्पष्टो ह्येकेषां माध्यन्दिनानामाम्नाये शारीरो जीव एवापादानमिति, योऽकामो निष्काम आप्तकाम आत्मकामो

4.2.12

न तस्मात्प्राणा उत्क्रामन्तीति । शारीरात्प्राणानामुत्क्रान्तिप्रसङ्गाभावात्प्रतिषेधो नोपपद्यते इति चेन्न तस्य तावदेव चिरमिति विदुषः शरीरवियोगकाले ब्रह्मसम्पत्तिवचनेन प्राणानामपि तस्मिन् काले शारीराद् विदुषो वियोगः प्रसज्यते, ततश्च देवयानेन पथा ब्रह्मसम्पत्तिनोपपद्यत इति न तस्य प्राणश उत्क्रामन्ति देवयानेन पथा ब्रह्मप्राप्तेः प्राग् जीवाद्विदुषोऽपि प्राणा न विश्लष्यन्तीत्युच्यते । आर्तभागप्रश्नोऽपि यदा विद्वद्विषयः तदा-ऽयमेव परिहारः, स त्वविद्वद्विषयस्तत्र प्रश्नप्रतिवचनयोर्ब्रह्मविद्याप्रसङ्गादर्शनात्, तत्र हि ग्रहादिग्रहरूपेणे-न्द्रियोन्द्रियार्थस्वभावोऽपामग्न्यन्नत्वं मि#्रयमाणस्य जीवस्य प्राणापरित्यागो मृतस्य नामवाच्यकीत्यर्नु-वृत्तिस्तस्य च पुण्यपापानुगुणगतिप्राप्तिरित्येतेऽर्थाः प्रश्नपूर्वपं प्रत्युक्ताः, तत्र चापपनर्मृत्युं जयतीत्यपानग्न्य-न्नत्वज्ञानादग्निजय एव मृत्युजय उच्यते अतो नात्र विदुषः प्रसङ्गः, अविदुषस्तु प्राणाऽनुत्क्रान्तिवचनं स्थूलदे-हवत्प्राणा न मुचन्ति, अपि तु भूतसुक्ष्मवज्जीवं परिष्वज्य गच्छन्तीति प्रतिपादयतीति निरवद्यम् ।। 12 ।।

4.2.13 स्मर्यते च ।। 13 ।।

4.2.13

 

स्मर्यते च विदुषोऽपि मूद्धन्यनाड्योत्क्रन्तिः । "ऊर्ध्वमेकः स्थितस्तेषां यो भित्त्वा सूर्यमण्डलम् । ब्रह्मलोक-मतिक्रम्य तेन याति परां गतिम्" इति ।। ।। आसृत्युपक्रमाधिकरणं समाप्तम् ।।

4.2.14 तानि परे तथा ह्याह ।। 14 ।।

4.2.14

सकरणग्रामः सप्राणः करणाध्यक्षः प्रत्यगात्मोत्क्रान्तिवेलायां तेजःप्रभृतिभूत-सूक्ष्मेषु सम्पद्यत इत्युक्तम्; सैषा सम्पत्तिर्विदुषो न विद्यत इत्याशङ्कय परिहृतम्, तानि पुनर्जीवपरिष्वक्तानि भूतसूक्ष्माणि किं यथाकर्म यथाविद्यं च स्वकार्याय गच्छन्ति? उत परमात्मनि सम्पद्यन्त इति विशये-मध्ये परमात्मसम्पत्तौ सुखदुःखोपभोगरूपकार्यादर्शनात्, तदुपभोगानुगुण्येन यथाकर्म

यथाविद्यं च गच्छन्ति-

4.2.15 अविभागो वचनात् ।। 15 ।।

4.2.15

 

सेयं परमात्मनि सम्पत्तिः किं प्राकृतलयवत् कारणापत्तिरूपा? उत "वाङ्मनसि" इत्यादिवदविभागरूपेति चिन्तायां-परमात्मनः सर्वेषां योनिभूतत्वात्कारणापत्तिरूपा-

इति प्राप्त उच्यते-अविभागः-इति । अपृथग्भावः-पृथग्व्यवहारानर्हसंसर्ग इत्यर्थः । कुतः? वचनात् "तेजः पर-स्यां देवताया"मित्यत्रापि "वाङ्मनसि सम्पद्यते" इत्यतः सम्पद्यत इति वचनस्यानुषङ्गात्, तस्य च संसर्ग-विशेषवाचित्वात्; अनुषक्तस्याभिधानवैरूप्ये प्रमाणाभावादुत्क्रान्तिवेलायां कारणापत्तिप्रयोजनाभावात् । पुनस्तत्राव्यक्तादिसृष्टयवचनाच्च ।। 15 ।। ।। अविभागाधिकरणं समाप्तम् ।।

4.2.16 तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्या सामर्थ्यात्तच्छेषमत्यनुस्मृति योगाच्च हार्दानुगृहीतः शताधिकया ।। 16 ।।

4.2.16

 

एवं गत्युपक्रमावधि विद्वदविदुषोः समानाकार उत्क्रानितप्रकार उक्तः, इदानीं विदुषो विशेष उच्यते । तत्रेदमाम्नायते-"शतं चैका च हृदस्य नाड्यस्तासां मूर्द्धानमभिनिःसृतैका । तयो-र्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति" इति । अनया नाडीनां शताधिकया मूर्द्धन्यनाड्येव विदुषो गमनमन्याभिरेव चाविदुषो गमनमित्ययं नियम उपपद्यते, नेति संशयः । किं युक्तम्? नियमो नोप-पद्यत इति । कुतः? नाडीनां भूयस्त्वादतिसूक्ष्मत्वाच्च दुर्विवेचतया पुरुषेणोपादातुमशक्यत्वात् । "तयोर्ध्व-मायन्नमृतत्वमेति विष्वङ्ङन्य उत्क्रमणे भवन्ति" इति यादृच्छिकीमुत्क्रान्तिमनुवदतीति युक्तमिति-

एवं प्राप्त प्रचक्ष्महे-शताधिकया-इति । विद्वान् शताधिकया मूर्द्धन्ययैव नाङ्योत्क्रामति । न चास्याविदुषो दुर्विवेचत्वं विद्वान् हि परमपुरुषाराधनभूतात्यर्थप्रियगत्यनुस्मरणयोगाच्च प्रसन्नेन हादेन परमपुरुषेणानुगृहीतो भवति । ततश्च तदोकः- तस्य जीवस्य स्थानं हृदयम्, अग्रज्वलनं भवति,-अग्रेज्वलनं प्रकाशनं यस्य तदितमग्रज्वलनम् । परमपुरुषप्रसादात्प्रकाशितद्वारो विद्वांस्तां नाडी विजानातीति तया विदुषो गतिरुपपद्यते ।। 16 ।। ।। तदोकोऽधिकरणं समाप्तम् ।।

4.2.17 रश्म्यनुसारी ।। 17 ।।

4.2.17

 

विदुषो हृदयाच्छताधिकया मूर्धन्यनाड्या निर्गतस्यादित्यरश्मीननुसृत्यादित्य-मण्डलगतिः श्रूयते । "अथ यत्रैतस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते" इति । तत्र रश्म्यनु-

4.2.18 निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च ।। 18 ।।

4.2.18

 

इदमिदानीं चिन्त्यते-विदुषो निशि मृतस्यब्रह्मप्राप्तिरस्ति, नेति । यद्यपि निशा- यां सूर्यरश्मिसम्भवाद्रश्म्यनुसारेण गतिर्निशायामपि सम्भवति, तथाऽपि निशामरणस्य शास्त्रेषु गर्हितत्वात् परमपुरुषार्थलक्षणब्रह्मप्राप्तिर्निशामृतस्य न सम्भवति । शास्त्रेषु दिवामरणं प्रशस्तं, विपरीतं निशामरणं, "दिवा च शुक्लपक्षश्च उत्तरायणमेव च । मुमूर्षतां प्रशस्तानि विपतीतं तु गर्हितम्" इति । दिवामरणनिशामर-

4.2.19 अतश्चायनेऽपि दक्षिणे ।। 19 ।।

4.2.19

निशि मृतस्यापि विदुषो ब्रह्मप्राप्तौ यो हेतुरुक्तः, तत एव हेतोर्दक्षिणेऽप्ययने मृतस्य ब्रह्मप्राप्तिः सिद्धा । अधिकाशङ्का तु "अथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसः सायुज्य गच्छति" इति दक्षिणायने मृतस्य चन्द्रप्राप्तिश्रवणाच्चन्द्रमस प्राप्तानां च तेषां यदा तत्पर्यवैत्यथैत-मेवाध्वानं पुनर्निवर्तन्तेः" इति पुनरावृत्तिश्रवणात्, भीष्मादीनां च ब्रह्मविद्यानिष्ठानामुत्तरायणप्रतीक्षादर्श- नात् दक्षिणायने मृतस्य ब्रह्मप्राप्तिः न सम्भवति-इति ।

परिहारस्तु-अविदुषां पितृयाणेन पथा चन्द्रमसं प्राप्तानामेव पुनरावृत्तिः, विदुषस्तु चन्द्रं प्राप्तस्यापि, "तस्मा-द्वह्मणो महिमानमाप्नोति" इति वाक्यशेषात्तस्य दक्षिणायनमृतस्य चन्द्रप्राप्तिः ब्रह्म प्रपित्सतो विश्रामहेतु-मात्रमिति गम्यते । वाक्यशेषाभावेऽपि पूर्वोक्तादेव बन्धहेत्वभावाद्विदुषश्चन्द्रं प्राप्तस्यापि ब्रह्मप्राप्तिरनि- वार्या । भीष्मादीनां योगप्रभावात्स्वच्छन्दमरणानां धर्मप्रवर्तनायोत्तरायणप्राशस्त्यप्रदशर्नार्थस्तथाविधा- चारः ।। 19 ।।

4.2.20

ननु च विदुषो मुमुर्षून्प्रति पुनरावृत्त्यपुनरावृत्तिहेतुत्वेन कालविशेषविधिर्दृश्यते "यत्र कालेत्वनावृत्तिमावृतिं्त चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतषर्भ । अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः । धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य अनिवर्तते । शुक्लकृष्णे गती ह्येतेः जगतः शाश्वते मते एकया यात्मनावृत्तिमन्ययाऽऽवर्तते पुनः" इति तत्राह-

4.2.20 योगिनः प्रति स्मर्येते स्मार्त्ते चैते ।। 20 ।।

4.2.20

 

नात्र मुमुर्षून्प्रति मरणकालविशेषोपादानं स्मर्यते; अपि तु योगिनः-योगनिष्ठान्प्रति, स्मार्ते-स्मृतिविषयभूते स्मर्तव्ये देवयानपितृयाणाख्ये गतीस्मर्येते योगाङ्गतया अनुदिनं स्मर्तुम् । तथा ह्युप संहारः "नैते सृती पार्थ जानन् योगी मुह्यति कश्चन । तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन" इति । "अग्निर्ज्योतिः" "धूमो रात्रिः" इति च देवयानपितृयाणे प्रत्यभिज्ञायेते । उपक्रमे च "यत्र काले"त्विति कालशब्दः कालाभिमानिदेवता-तिवाहिकपरः,-अग्न्यादेः कालत्वासम्भवात् । अतः "तेऽर्चिषमभिसम्भवन्ति" इति विहितदेवयानानुस्मृ- तिरत्र विद्यानिष्ठान्प्रति विधीयते, न मुमुर्षून्प्रति मरणकालविशेषः ।। 20 ।।

।। दक्षिणायनाधिकरणं समाप्तम् ।।

।। इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये चतुर्थस्याध्यायस्य द्वितीयः पादः ।।



4.3.1 अर्चिरादिना तत्प्रथितेः ।। 1 ।।

4.3.1

 

विदुष उत्क्रान्तस्य नाडीविशेषण हार्दानुग्रहाद्गत्युपक्रम उक्तः । तस्य गच्छतो मार्ग इदानीं निर्णीयते । तत्र श्रुतिषउ मागर्प्रकारा बहुधा आम्नायन्ते; छान्दोग्ये तावत् "यता पुष्करपलाश आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यते" इत्युपक्रम्य ब्रह्मविद्यामुपदिश्याम्नायते "अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदु च नार्चिषमेवाभिसम्भवन्ति अर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान षडुदङ्ङेति मासांस्तान् मासेभ्यः संवत्सरं संसत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषो-ऽमानवः स एनान् ब्रह्म गमयत्येष देवपतो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते" इति । तथाऽत्रैवाष्टमे "अथैतैरेव रश्मिभिरूध्वर्माक्रमते" इति । कौषीतकिनश्च देवयानर्मागमन्यथाऽधीयते "स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकम्" इति । तथा बृहदारण्यके "य एवमेतद्विदुर्ये चेमेऽरण्ये श्रद्धां सत्यमुपासते ते अर्चिषमभिसम्भवन्ति अर्चिषोऽह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् पण्मासानुदङ्ङादित्य एति मासान्मासेभ्यो देवलोकं देवलोकादादित्यमादित्याद्वैद्युतं वैद्युतात्पुरुषोऽमानवः स एत्य ब्रह्मलोकान् गम- यति" इति । तत्रैव पुनरन्यथा "यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति तस्मै स सत्र विजिहीते, यथा आडम्ब- रस्य खं तेन स ऊध्वर्माक्रमते स आदित्यमागच्छति तस्मै चन्द्रमसमागच्छति तस्मै स तत्र विजिहीयते, यथा आडम्बरस्य खं तेन स ऊर्ध्वमाक्रमते स चन्द्रमसमागच्छति तस्मै स तत्र विजिहीते यथा दुन्दुभेः खम्" इत्यादि । तत्र संशयः-किमर्चिरादिरेक एव मार्ग आभिः श्रुतिपाद्यत इति तेनैव ब्रह्म गच्छति विद्वान्?

4.3.2 वायुमब्दादविशेषविशेषाभ्याम् ।। 2 ।।

4.3.2

 

अर्चिरादिनैव गच्छन्ति विद्वांस इत्युक्तम्, तत्रार्चिरादिके मार्गे छन्दोगा मासा-दित्ययोरन्तराले संवत्संरमधीयते मासेभ्यः संवत्सर संवत्सरादादित्यम्3 इति । वाजसनेयिनस्तु तयोरेवा-न्तराले देवलोकम् "मासेभ्या देवलोकं देवलोकादादित्यम्" इति । उभयत्रापि मार्गस्यैकत्वादुभावुभयत्रोप- संहार्यौ । तत्र मासादूर्ध्वमभिहितयोः संवत्सरदेवलोकयोः पञ्चम्याऽभिहितस्य श्रौतक्रमस्य तुल्यत्वेऽपि "अर्चिषोऽहरह्न आपूयर्माणपक्षमापूर्यमाणपक्षाद्यान्षडुदङेति मासांस्तान्" इत्यधिककालानां न्यूनकालेभ्य उत्तरोत्तरत्वेन निवेशदर्शनात् संवत्सरस्यैव मासादनन्तरं बुद्धौ विपरिवृत्तेः संवत्सर एव मासादूर्ध्वं निवेशयि-तव्य इति तत ऊर्ध्वं देवलोक इति निश्चीयते । अन्यत्र वाजसनेयिनः "यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति" इत्यादित्यात्पूर्वं वायुमधीयते । कौषीतकिनस्तु "स एतं देवयानं पन्थानमापद्#ाग्निलोकमागच्छति स वायु-लोकम्" इत्यग्निलोकशब्दनिर्दिष्टादर्चिषः परं वायुमधीयते । तत्र कौषीतकिनां पाठक्रमेणार्चिषः परत्वेन प्राप्तस्य वायोर्वाजसनेयिनां "तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति" इत्यूर्ध्वशब्दनिर्दिष्टश्रौतक्रमेण पाठक्रमाद्वलीयसा आदित्यात्पूर्वं प्रवेशो निश्चीयते । अत आदित्यात्पूर्वं संवत्सरादूर्ध्वं देवलोको वायुश्च प्राप्तौ यथेष्टक्रमेण विद्वानभिगच्छेत्? उतानर्थान्तरत्वेन संवत्सरादूर्ध्वं देवलोकं सन्तं वायुमभिगच्छेदिति ।

4.3.2

किं युक्तं, भिन्नार्थत्वं, प्रसिद्धेः । भिन्नार्थत्वेचोर्ध्वशब्देन पञ्चम्या चोभयोः संवत्सरादित्यान्तराले श्रुतिक्रमेण प्राप्तत्वाद्विशेषाभावाच्च यथेष्टम्-

4.3.2

इति प्राप्त उच्यते-वायुमब्दात्-इति । वायुं संवत्सरादूध्वर्मभिगच्छेत् । कुतः? अविशेषविशेषाभ्यां वायोरेव निर्दिष्टत्वात् । देवलोकशब्दो ह्यविशेषेण सामान्येन देवानां लोक इत्यनेन रूपेण वायुमभिधत्ते । "स वायु-मागच्छति तस्मै स तत्र" इति वायुशब्दो विशेषेण वायुमभिधत्ते । अतो देवलोकवायुशब्दाभ्यामविशेषवि#ो-षाभ्यां वायुरेवाभिधीयत इति संवत्सरादूर्ध्वं वायुमेवाभिगच्छेत् । कौषीतकिनां वायुलोकशब्दश्चाग्निलोक-शब्दवत् वायुश्चासौ लोकश्चेति व्युत्पत्त्या वायुमेवाभिधत्ते।

वायुश्च देवानामावासभूत इत्यन्यत्र श्रूयते "योऽयं पवत एष देवानां गृहा" इति ।। 2 ।। ।। वाय्वधिकरणं समाप्तम् ।।

4.3.3 तडित्रोधिवरुणः सम्बन्धात् ।। 3 ।।

4.3.3

कौषितकिनां "स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकम्" इत्यत्राग्निलोकशब्दस्याचिर्#ः- पर्यायत्वेन प्राथम्यमविगीतम् । वायोश्च संवत्सरादूध्र्वं निवेश उक्तः । आदित्यस्याप्यत्र प्राप्तपाठकमवाधेन "देवलोकादादित्यमादित्याच्चन्द्रमसम्" इति वाजसनेयकोक्तश्रुतिक्रमाद्देवंलोकशब्दाभिहिताद्वायोरुपरि निवेशः सिद्धः । इदानीं वरुणेन्द्रादिषु चिन्ता । किमेते वरुणादयो यथापाठं वायोरूर्ध्वं निवेशयितव्याः? आहोस्विद्विद्युतोऽधीति विशये, अर्चिः-प्रभृतिषु सर्वेषु "अर्चिषोऽहः" इत्यादि श्रुतिक्रमोपरोधाद्विद्युतः पर- स्ताच्च "तत्पुरुष्रोमानवः स एनान् ब्रह्म गमयति" इति विद्युत्पुरुषस्य ब्रह्मगमयितृत्वश्रवणाच्च सर्वत्रावका-शभावेनाप्राप्तौ चोपदेशावैयर्थ्यायावश्यं कस्यचिद्वाधायत्वे पाठक्रमानुरोधेन वायोरनन्तरं वरुणो निवे-शयितव्यः । वाय्वादित्ययोः क्रमस्य बाधितत्वेन इन्द्रप्रजापती अपि ह्यत्रैव निवेशयितव्यौ -

4.3.3

इति प्राप्ते उच्यते-तडित्रोधिवरुणः-इति । वरुणस्तावद्विद्युत उपरिष्टान्निवेशयितव्यः? कुतः सम्बन्धात्-मेधा-दरविर्तित्वाद्विद्युतो वरुणेन सम्बन्धो लोकवेदयोः प्रसिद्धः । एतदुक्तं भवति-वरुणा; दीनामुपदेशावैयर्थ्याय क्कचिन्निविशयितव्यत्ये सति पाठक्रमादर्थक्रमस्य बलीयस्त्वाद्विद्युत्रोधिवरुणो निवेशयितव्यः । ततश्चामान- चस्य गमवितृत्वं व्यवदानसहमित्यवगम्यते । तस्य च च्यवधानसहत्वादिन्द्रयादेश्वोपदिष्टस्यावश्यनिवेशयि-तव्यस्य वरुणादुपर्युपदिष्टत्वादागन्धूनामन्ते निवेशयितव्यत्वाच्च वरुणादुपरीन्द्रादिर्निवेशयितव्य इति ।। 3 ।।

।। वरुणाधिकरणं समाप्तम् ।।

4.3.4 आतिवाहिकास्तल्लिङ्गात् ।। 4 ।।

4.3.4

इदमिदानीं चिन्त्यते-किमर्चिरादयो मार्गचिह्नभूताः? उत भोगभूमयः? अथवा विदुषां ब्रह्म प्रेष्सतामतिवोढारः- इति । किं तावद् युक्तम्? मार्गचिह्नभूता इति । कुतः? उपदेशस्य तथाविध-

4.3.4

त्वात्; दृश्यते हिलोके ग्रामादीन्प्रति गन्तृणामेवं विधो देशिकैरुपदेशः-इतो निष्क्रम्यामुकं वृक्षममुकां नदी- ममुकं च पर्वतपार्श्वं गत्वाऽमुकं ग्रामं गच्छ" इति । अथवा भोगभूमय एताः स्युः, कालविशेषतया प्रसिद्धा-नामहारदीनां मार्गचिह्नत्वानुपपत्तेरन्यस्य च मार्गचिह्नभूतस्यैतेषामनभिधायकत्वात् । भोगभूमित्वं च "एत एव लोका यदहोरात्राण्यर्धमासा मासा ॠतवः संवत्सराः" इत्यरादीनां लोकत्ववचनादुपपद्यते । अत एव कौपीतकिनः "अग्निलोकमागच्छति" इत्यादिना लोकशब्दानुविधानेनार्चिरादीन् पठन्तीति ।

एवं प्राप्ते व्रूमः-आतिवाहिकाः-इति । विदुषामतिवाहे परमपुरुषेण नियुक्ता आतिवाहिकादेवताविशेषा एतेऽर्चिरादयः । कुतः? तल्लिङ्गात्-अतिवहनलिङ्गात् । अतिवहनं हि गन्तृणां गमयितृत्वम्; गमयितृत्वं च "तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयति" इत्युपसंहारे श्रूयमाणं पूर्वेषामप्यविशेषश्रुतानां स एव सम्बन्ध इति गमयति । वदन्ति चार्चिरादयः शब्दाः अर्चिराद्यात्मभूतानभिमानिदेवताविशेषान् । "तं पृथिव्यव्रवीत्" इतिवत् ।। 4 ।।

4.3.5

यद्येवं "तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयति" इति वैद्युतस्यैव पुरुषस्य ब्रह्मगमयितृत्वश्रुतेः, विद्युतः परेषां वरुणादीनां कथमातिवाहिकत्वेनान्वय इत्यत्राह -

4.3.5 वैद्युतेनैव ततस्तच्छØतेः ।। 5 ।।

4.3.5

 

ततः-विद्युत उपरि, वैद्युतेन-अमानवेनैवातिवाहिकेन विदुषामाब्रह्मप्राप्तेः गमनम् । कुतः? तच्छØतेः "स एनान् ब्रह्म गमयति" इति तस्यैव गमयितृत्वश्रुतेः । वरुणादयस्तु अनुग्राहका इति तेषामप्यातिवाहि-कत्वेनान्वयो विद्यत एव ।। 5 ।। ।।

आतिवाहिकाधिकरणं समाप्तम् ।।

4.3.6 कार्य वादरिरस्य गत्युपपत्तेः ।। 6 ।।

4.3.6

अर्चिरादिनैव गच्छति विद्वान्; अर्चिरादिरमानवान्तश्च गण आतिवाहिको विद्वांसे ब्रह्म गमयतीत्युक्तम् । इदमिदानीं चिन्त्यते-किमयमर्चिरादिको गणः कार्यं हिरण्यगर्भमुपासीनान्न-यति? उप परमेव ब्रह्मोपासीनान्, अथ परब्रह्मोपासीनान् प्रत्यगात्मानं ब्रह्मात्मकतयो पासीनांश्चेति विशये-

4.3.7 विशेषितत्वाच्च ।। 7 ।।

4.3.7

 

"पुरुषोऽमानवः स एत्य ब्रह्मलोकान् गमयति" इति लोकशब्देन बहुवचनेन च लोकविशेषवर्तिनं हिरण्य-गर्भमुपासीनमेवामानवो गमयतीति विशेष्यते । किञ्च "प्रजापतेः सभां वेश्य प्रपद्यते" इति कार्यस्य हिरण्यगर्भस्य समीपगमनमर्चिरादिना गतः प्रत्यभिसन्धत्ते ।। 7 ।।

4.3.8

नन्वेवं "तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयति" इत्ययं निर्देशो नोपपद्यते; हिरण्यगर्भनयने हि "स एना-न्ब्रह्माणं गमयति" इति निर्देष्टव्यं स्यात्, अत आह -

सामीप्यात्तु तद्वयापदेशः ।। 8 ।।

4.3.8

 

"यो ब्रह्माणं विदधाति" इति हिरण्यगर्भस्य प्रथमजत्वेन ब्रह्मसामीप्यात्तस्य ब्रह्मशब्देन व्यपदेश इति गत्यनु-पपत्तिविशेषणादिभिरुक्तैर्हेतुभिर्निश्चीयत इत्यर्थः ।। 8 ।।

4.3.9

अथ स्यात्-अर्चिरादिना हिरण्यगर्भप्राप्तौ "एष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नाव-र्तन्ते" "तयोर्ध्वमायन्नमृतत्वमेति" इत्यमृतत्वप्राप्त्यपुनरावृत्तिव्यपदेशो नोपपद्यते, हिरण्यगर्भस्य कार्य- भूतस्य द्विपरार्द्धकालावसाने विनाशशास्त्रात् "आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन" इति वचनाद्धिरण्य- गर्भ प्राप्तस्य पुनरावृत्तेरवर्जनीयत्वादिति; अत्राह -

4.3.9 कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ।। 9 ।।

4.3.9

 

कार्यस्य-ब्रह्मलोकस्यात्यये तदध्यक्षेण हिरण्यगर्भेणाधिकारिकेणावसिताधिकारेण विदुषा सह स्वयमपि तत्राधिगतविद्यः; अतः-कार्याद्व्रह्मलोकात्परं ब्रह्म प्राप्नोतीत्यर्चिरादिना गतस्यामृतत्वप्राप्त्यपुनरावृत्त्यभिधा-नात् "ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे" इति वचनाच्चावगम्यते ।। 9 ।।

4.3.10 स्मृतेश्च ।। 10 ।।

4.3.10

 

स्मृतेश्चायमर्थोऽवगम्यते "ब्रह्मणा स ह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्" इति । अतः कार्यमुपासीनमेवार्चिरादिको गणो नयतीति बादरेर्मतम् ।। 10 ।।

4.3.11 अत्र जैमिनिः पक्षान्तरपरिग्रहेण प्रत्यवतिष्ठते परं जैमिनिर्मुख्यत्वात् ।। 11 ।।

4.3.11

 

परं ब्रह्मोपासीनमेवार्चिरादिर्नयतीति जैमिनिराचार्यो मन्यते, कुतः? मुक्यत्वात् "तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयति"

इति ब्रह्मशब्दस्य परस्मिन्नेव ब्रह्मणि मुख्यत्वात् । प्रमाणान्तरेण कार्यत्वनिश्चये सत्येव हि लाक्षणिकत्वं युक्तम् । न च गमनानुपपत्तिः प्रमाणं, परस्य ब्रह्मणः सर्वगतत्वेऽपि विदुषो विशिष्टदेश-गतस्यैवाविद्यानिवृत्तिशास्त्रात्, यथा हि विद्योत्पत्तिर्वणाश्रमधर्मशौचाचारदेशकालाद्यपेक्षा "तमेतं वेदा-नुवचनेन" इत्यादिशास्त्रादवगम्यते, तथा निश्शेषाविद्यानिवर्तनरूपविद्यानिष्पविरपि विशिष्टदेशगतिसापे- क्षेति गतिशास्त्रादवगम्यते । विदुष उत्क्रान्तिप्रतिषेधादि तु पूर्वमेव परिहृतम् । यत्तु ब्रह्मलोकानिति लोक-शब्दबहुवचनाभ्यां विशेषणात्कार्यभूतहिरण्यगर्भप्रतीतिरिति; तदयुक्तं, निषादस्थपतिन्यायेन ब्रह्मैव लोको ब्रह्मलोक इति कर्मधारस्यैव युक्तत्वात्, अर्थस्य चैकत्वे निश्चिते बहुवचनस्य "अदितिः पाशानिति-

4.3.12 दर्शनाच्च ।। 12 ।।

4.3.12

 

दर्शयति च श्रुतिः मृर्द्धन्यनाड्या निष्क्रम्य देवयानेन गतस्य परब्रह्मप्राप्तिम् "एष सम्प्रसादोऽस्माच्छरीरा-त्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते" इति ।। 12 ।।

4.3.13

यदुक्तं "प्रजापतेः सभां वेश्म प्रपद्ये" सत्यर्चिरादिना गतस्य कार्ये प्रत्यभिसंधिर्दृश्यत इति, तत्रोत्तरम्-

4.3.13 न च कार्ये प्रत्यभिसन्धिः ।। 13 ।।

4.3.13

 

न चायं प्रत्यभिसन्धिः कार्ये हिरण्यगर्भे; अपि तु परस्मिन्नेव ब्रह्मणि, वाक्यशेषे "यशेऽहं भवामि ब्राह्मणा-नाम्" इति तस्याभिसन्धातुः सर्वाविद्यादिमोकपूर्वकसर्वात्मभावाभिसन्धानात्, "अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात् प्रमुच्य । धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसन्भवामि" इत्यभिसंभाव्यस्य ब्रह्मलोकस्याकृतत्वश्रवणात् सर्वब्धविनिर्मोकस्य च साक्षात्छ्रवणात् । अतः परमेव ब्रह्मोपासीनमर्चिरादिरा-तिवाहिको गणो नयतीति जैमिनेर्मतम् ।। 13 ।।

4.3.14

इदानीं वादरायणस्तु भगवान्स्वमतेन सिद्धान्तमाह-

4.3.14 अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात्तत्क्रतुश्च ।। 14 ।।

4.3.14

 

अप्रतीकालम्बनान् प्रतीकालम्बनव्यतिरिक्तान्नयत्यर्चिरादिरातिवाहिको गण इति भगवान्वादरायणो मन्यते ।

4.3.14

 

एतदुक्तं भवति-कार्यमुपासीनान्नयतीति नायं पक्षः सम्भवति, परमेवोपासीनानित्ययमपि नियमो नास्ति, न च प्रतीकालम्बनानपि नयति । अपि तु ये परं ब्रह्मोपासते, ये चात्मानं प्रकृतिवियुक्तं ब्रह्मात्मकमुपासते; तानुभयविदान्नयति, ये तु ब्रह्मकार्यान्तर्भूतं नामादिकं वस्तु देवदत्तादिषु सिंहादिदृष्टिवद्व्रह्मदृष्टया केवलं वा तत्तद्वस्तूपासते, न तान्नयति । अतः परं ब्रह्मोपासीनानात्मानञ्च प्रकृतिवियुक्तं ब्रह्मात्मकमुपासीनान्नयति- इति । कुतः? उभयथा च दोषात्, कार्यमुपासीनान्नयतीति पक्षे "अस्माच्छरीरात्समुत्थाय परं ज्योतिरुप- सम्पद्य" इत्यादिकाः श्रुतयः प्रकृष्येयुः, परमेव ब्रह्मोपासीनानिति च नियमे "तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्ति" इति प्चाग्निविदोऽर्चिरादिगणो नयतीति श्रुतिः प्रकृष्येत् । अत उभयस्मिन्नपि पक्षे दोषः स्यात्, तस्मादुभयविधान्नयतीति । तदेतदाह-तत्क्रतुश्चेति । तत्क्रतुः- तथो-पासीनस्तथैव प्राप्तोतीत्यर्थः, "यथा क्रतुरस्मिल्लोके पुरुषो भवति तथेतः प्रेत्ये भवति" "तं यथा यथोपासते" इति न्यायात् पञ्चाग्निविदोऽप्यर्चिरादिना गतिश्रवणात् अर्चिरादिना गतस्य ब्रह्मप्राप्त्यपुनरावृत्तिश्रवणाच्च । अत एव तत्क्रतुन्यायात् प्रकृतिविनिर्मुक्तब्रह्मात्मकात्मानुसन्धानं सिद्धम् । नामादिप्राणपर्यन्तप्रतीकालम्ब-नानां

तूभयविधश्रुतिसिद्धोपासनाभावादचिन्मिश्रोपासनं तत्क्रतुन्यायाच्चार्चिरादिना गतिर्ब्रह्मप्राप्तिश्च न विद्यते ।। 14 ।।

4.3.15

तमिमं विशेषं श्रुतिरेवं दर्शयतीत्याह -

4.3.15 विशेषं च दर्शयति ।। 15 ।।

4.3.15

 

"यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति" इत्यादिका श्रुतिर्नामादिप्राणपर्यन्तप्रतीकमुपासीनानां गत्यनपेक्षं परिमितफलविशेषं च दर्शयति, तस्मादचिन्मिश्रं केवलं वा चिद्वस्तु ब्रह्मदृष्टया तद्वियोगेन च य उपासते न तान्नयति, अपि तु परं ब्रह्मोपासीनानात्मानं च प्रकृतिवियुक्तं ब्रह्मात्मकं चोपासीनानातिवाहिको गणो नयतीति सिद्धम् ।। 15 ।।

।। कार्याधिकरणं समाप्तम् ।।

।। इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये चतुर्थस्याध्यायस्य तृतीयः पादः ।।



4.4.1 सम्पद्याविर्भावः स्वेन शब्दात् ।। 1 ।।

4.4.1

 

परं ब्रह्मोपासीनानामात्मानञ्च प्रकृतिवियुक्तं ब्रह्मात्मकमुपासीनानामर्चिरादिना मार्गेणापुनरावृत्तिलक्षणा गतिरुक्ता । इदानीं मुक्तानामैश्वर्यप्रकारं चिन्तयितुमारभते । इदमाम्नायते-"एव मेवैष सम्प्रसादोऽस्माच्छरीरात्समुत्याय परं जयोतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते" इति । किमस्मा-च्छरीरात्समुत्थाय परं ज्योतिरुपसम्पन्नस्य देवादिरूपवत्साध्येन रूपेण सम्बन्धोऽनेन वाक्येन प्रतिपाद्यते? उत स्वाभाविकस्य स्वरूपस्याविर्भावः? इति संशये-साध्येन रूपेण सम्बन्ध इति युक्तम् । अन्यथा ह्यपुरुषा-र्थावबोधित्वं मोक्षशास्त्रस्यस्यात्स्वरूपस्य स्वतोऽपुरुषार्थत्वदर्शनात् । न हि सुषुप्तौ देहेन्द्रियाव्यापारेषु उपर- तेषु केवलस्यात्मस्वरूपस्य पुरुषार्थसम्बन्धो दृश्यते; न च दुःखनिवृत्तिमात्रं परं ज्योतिरुपसम्पन्नस्य पुरुषार्थः, येन स्वरूपाविर्भाव एव मोक्ष इत्युच्येत " स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्य" "रस्रह्येवायं

4.4.1

पादानादित्यर्थः । आगन्तुकविशेषपरिग्रहे हि स्वेन रूपेणेति विशेषणमनर्थकं स्यात् । अविशेषणेऽपि तस्य स्वकीयरूपत्वसिद्धेः ।। 1 ।।

4.4.2

यत्तूक्तं स्वरूपस्य नित्यप्राप्तत्वादुपसम्पद्याभिनिष्पद्यत इति वचनमनर्थकमिति; तत्रोत्तरम्-

4.4.2 मुक्तः प्रतिज्ञानात् ।। 2 ।।

4.4.2

 

कर्मसम्बन्धतत्कृतदेहादिविनिर्मुक्तः स्वाभाविकेन रूपेणावस्थितोऽत्र "स्वेन रूपेणाभिनिष्पद्यते" इत्युच्यते, अतो नित्यप्राप्तस्यापि स्वरूपस्य कर्मरूपाविद्यातिरोहितस्य तिरोधाननिवृविरत्राभिनिष्पत्तिरुच्यते, कुतः? प्रतिज्ञानात्, सा हि प्रतिपाद्यतया प्रतिज्ञाता कुत इदमवगम्यते, य आत्मेति प्रकृतं प्रत्यगात्मानं जागरिताद्य-वस्थात्रितयविनिर्मुक्तं पि#्रयाप्रियहेतुभूतकर्मारब्धशरीरविनिर्मुक्तं च प्रतिपादयितुम् "एतं त्वेव भूयोऽनूव्या-ख्यास्यामि" इति पुनः पुनरुकत्वा "एवमेवैष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन

4.4.2

रूपेणाभिनिष्पद्यते" इत्यभिधानात् । अतः कर्मणा सम्बद्धस्य परं ज्योतिरुपसम्पद्य बन्धनिवृत्तिरूपा विनि-

र्मुक्तिः स्वेन रूपेणाभिनिष्पद्यत इत्युच्यते, स्वरूपाविर्भावेऽप्यभिनिष्पत्तिशब्दो दृश्यते युक्तय्रायमर्थो निष्पद्यत इत्यादिषुः ।। 2 ।।

4.4.3

यच्चोक्तम् आत्मस्वरूपस्य सुषुप्तावपुरुषार्थत्वदर्शनात् स्वरूपाविर्भावे मोक्षशास्त्रस्यापुरुषार्थावबोधित्वं स्या-दिति कृत्वा देवाद्यवस्थावत्सुखसम्बन्ध्यवस्थान्तरप्राप्तिरभिनिष्पत्तिरिति, तत्रोत्तरम्-

4.4.3 आत्मा प्रकरणात् ।। 3 ।।

4.4.3

 

स्वरूपेणैवायमात्माऽपहतपाष्मत्वादिसत्यसङ्कल्पत्वपर्यन्तगुणक इति प्रकरणादवगम्यते "य आत्माऽपहतपा-ष्मा विजरो विमृत्युर्विशोको विजिधत्सोऽपिपासः सत्यकामः सत्यसङ्कल्कपः" इति हि प्रजापतिवाक्यप्रक्रमः । इदं च प्रकरणं प्रत्यगात्मविषयमिति "उत्तराच्चेदाविर्भूतस्वरूपस्तु" इत्यत्र प्रतिपादितम् । अतोऽपहतपाष्म-त्वादिस्वरूप एवायमात्मा संसारदशायां कर्माख्ययाऽविद्यया तिरोहितस्वरूपः परं ज्योतिरुपसम्पद्याविर्भूत-स्वरूपो भवति । अतः प्रत्यगात्मनोऽपहतपाष्मत्वादयः स्वाभाविका गुणाः परं ज्योतिरुपसम्पन्नस्याविर्भव-न्ति, नोत्पद्यन्ते, यथोक्तं भगवता शौनकेनापि-"यथान क्रियते ज्येत्स्नामलप्रक्षालनान्मणेः । दोषप्रहाणान्न ज्ञानमात्मनः क्रियते तथा । यथोदपानकरणात् क्रियते न जलाम्बरम् । सदेव नीयते व्यक्तिमसतः सम्भवः कुतः? । तथा हेयगुणध्वंसादवबोधादयो गुणाः । प्रकाश्यन्ते न जन्यन्ते

नित्या एवात्मनो हि ते" इति । अतो-ज्ञानानन्दादिगुणानां कर्मणाऽऽत्मनि सङ्कुचितानां परं ज्योतिरुपसम्पद्य कमर्रूपबन्धक्षये विकाशरूपा

4.4.4 अविभागेन दृष्टत्वात् ।। 4 ।।

4.4.4

 

किमयं परं जयोतिरुपसम्पन्नः सर्वबन्धविनिर्मुक्तः प्रत्यगात्मा स्वात्मानं परमा-त्मनः पृथरभूतमनुभवति? उत तत्प्रकारतया तदविभक्तमिति विशये "सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता" "यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिं । तदा विद्वान्पुण्यपापे विधूय निरञ्जनः

4.4.4

परमं साम्यमुपैति" "इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्ग्रेपि नोपजायन्ते प्रलये न व्यथन्ति च" इत्या-दिश्रुतिस्मृतिभ्यो मुक्तस्य परेण साहित्यसाम्यसाधर्म्यावगमात् पृथग्भूतमनुभवति-

इति प्राप्त उच्यते-अविभागेन-इति । परस्माद् ब्रह्मणः स्वात्मनमविभागेनानुभवति मुक्तः । कुतः? दृष्टत्वात्- परं ब्रह्मोपसम्पद्य निवृत्ताविद्यातिरोधानस्य याथातथ्येन स्वात्मनो दृष्टत्वात् । स्वात्मनः स्वरूपं हि "तत्त्व- मसि" "अयमात्मा ब्रह्म" "ऐतदात्म्यमिदं सर्वं" "सर्वं खल्विदं ब्रह्म" इत्यादिसामानाधिकरण्यनिर्देशैः "य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्मा-ऽन्तरर्याम्यमृतः" "अन्य प्रविष्टः शास्ता जनानां सर्वात्मा" इत्यदिभिश्च परमात्मात्मकं तच्छरीरतया तत्प्र-कारभूतमिति प्रतिपादितम्-"अवस्थितेरिति काशकृत्स्नः" इत्यत्र । अतोऽविभागेनाहं ब्रह्मास्मीत्येवानु- भवति । साम्यसाधर्म्यव्यपदेशो ब्रह्मप्रकारभूतस्यैव प्रत्यगात्मनः स्वरूपं तत्सममिति देवादिप्राकृतरूपप्रहा- णेन #्रह्मसमानशुदिं्ध प्रतिपादयति । सहश्रुतिस्त्वेवंभूतस्य प्रत्यगात्मनः प्रकारिणा ब्रह्मणा सह तद्गुणानुभवं प्रतिपादयतीति न कश्चिद्विरोधः । ब्रह्म प्रकारतया तदविभागोक्तेर्हि "सङ्कल्पादेव तछØते"रित्यादि न विरुद्धयते, "अधिकं तु भेदनिर्देशात् "अधिकोषदेशात्" इत्यादि च ।। 4 ।। ।। अविभागेन दृष्टत्वाधिकरणं समाप्तम् ।।

4.4.5 ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ।। 5 ।।

4.4.5

प्रत्यगात्मनः परं ज्योतिरुपसम्पद्य निवृत्ततिरोधानस्य स्वरूपाविर्भाव एवेत्युक्तम् । तत्र येन स्वरूपेणायमात्माऽऽविर्भवति तत्स्वरूपं श्रुतिवैविध्याद्विचार्यते । किमपहतपाष्मत्वादिकमेवास्य

4.4.5

स्वरूपमिति तेन रूपेणायमाविर्भवति? उत विज्ञानमात्रमेवेति तेन रूपेण? अथोभयोरविरोध इत्युभयस्व- रूपेणेति । किं तावत्प्राप्तम्? ब्राह्मेणेति जैमिनिराचार्यो मन्यते । ब्राह्मणे-अपहतपाष्मत्वादिनेत्यर्थः । अपहतपाष्मत्वादयो हि दहरवाक्ये ब्रह्मसम्बन्धितया श्रुता । ब्राह्मेणेति कुतोऽवगम्यते; उपन्यासादिभ्यः, उपन्यस्यन्ते हि ब्रह्मगुणाः अपहतपाष्मत्वादयः प्रत्यगात्मनोऽपि प्रजापतिवाक्ये "य आत्माऽपहतपाष्मा" इत्यादिना "सत्यसङ्कल्पः" इत्यन्तेन । आदिशब्देन सत्यसङ्कल्पत्वादिगुणायत्ता जक्षणादयः, "जक्षत्क्रीडन् रममाणः" इत्यादिवाक्यावगता व्यवहारा गृह्यन्ते । अत एभ्य उप्यासादिभ्यः प्रत्यग त्मनो विज्ञानमात्रस्व-रूपत्वं न सम्भवतीति जैमिनेर्मतम् ।। 5 ।।

4.4.6 चिति तन्मात्रेण तदात्मकत्वादित्यौडुलोमिः ।। 6 ।।

4.4.6

 

चैतन्यमात्रमेवास्यात्मनः स्वरूपमिति तेन रूपेणाविर्भवतीत्यौडुलोमिराचार्यो मन्यते । कुतः? तदात्मक- त्वात्-तावन्मात्रात्मकत्वादयस्य प्रत्यगात्मनः, "स यथा सैन्धवधनोऽनन्तरोऽवाह्यः कृत्स्नो रसधन एव एवं वा अरेऽयमात्मानन्तरोऽबाह्य कृत्स्नः प्रज्ञानधन एव विज्ञानधन एव" इत्यवधारणाद्विज्ञानमात्रमेवास्य स्वरूपमित्यवगम्यते । अतोऽस्य गुणान्तराभावादपहतपाष्मेत्यादयः शब्दाः विकारसुखदुःखाद्यविद्यात्मक-धर्मव्यावृत्तिपरा इति चिति तन्मात्ररूपेणाविर्भाव इत्यौडुलोमेर्मतम् ।। 6 ।।

4.4.7

सम्प्रति भगवान्वादरायणः स्वमतेन सिद्धान्तमाह-

4.4.7 एवमप्युपन्यासात्पूर्वभावादविरोधं वादरायणः ।। 7 ।।

4.4.7

 

एवमपि-विज्ञानमात्रस्वरपूत्वप्रतिपादने सत्यपि, सत्यकामत्वादीनां पूर्वोक्तानां गुणानामविरोधं वादरायण आचाय्र्यो#ै मन्यते । कुतः? उपन्यासात् पूर्वभावादौपनिपदात् "य आत्माऽपहतपाष्मा" इत्याद्युपन्यासात्प्रमा-णात्पूर्वेषामपहतपाष्मत्वसत्यसङ्कल्पत्वादीनामपि भावात्-विद्यमानत्वात् । तुल्यप्रमाणकानामितरेतरबाधो न युज्यते इत्यर्थः । न च वस्तुविरोधादपहतपाष्मत्वादीनामविद्यापरिकल्पितत्वं न्याय्यम् । विशेषाभावाद्वि-परीतं कस्मान्न भवतीति न्यायात् । तुल्यबलत्वे ह्यशक्यस्यावधारणस्यान्यपरत्वमेव न्याय्यम् । एवमप्यवि- रोध इत्यभ्युपगम्य वदन् ज्ञानमात्रमेवास्य स्वरूपं नान्यत्किञ्चिदस्तीत्ययमर्थो "विज्ञानधन एव" इत्यदिभिर्न प्रतिपाद्यत इति मन्यते । कस्तर्हि "विज्ञानधन एव" इत्यवधारणस्यार्थः? कृत्स्न्#ोप्यात्मा जडव्यावृत्तः स्वप्र- काशो नान्यायत्तप्रकाशः स्वल्पोऽपि प्रदेशोऽस्तीत्ययर्थो वाक्यादेव सुव्यक्तः, "स यथा सैन्धवधनोऽनन्तरा-ऽवाह्यः कृत्स्नो रसधन एव एवं वा अरेऽयमात्माऽनन्तरोऽवाह्यः कृत्स्नः प्रज्ञानधन एव" इति । न चैवं

4.4.7

प्रत्यगात्मनो धर्मिस्वरूपस्य कृत्स्नस्य विज्ञानधनत्व्रेप्यपहतपाष्मत्वसत्यसङ्कल्पत्वादिधर्मसम्बन्धो वाक्या-न्तरावगतो विरुध्द्यते; यथा सैन्धवधनस्य रसधनत्वे रसनेन्द्रियावगते चक्षुराद्यवगताः रूपकाठिन्यादयो न विरुध्यन्ते । इदमत्र वाक्यतात्पर्यं-यथा रसवत्स्वाम्रफलादिषु त्वगादिप्रदेशभेदेन रसभेदे सत्यपि नैन्धवधनस्य सर्वत्रैकरसत्वम्; तथाऽऽत्मन्रोपि सर्वत्र विज्ञानस्वरूपत्वं, स्वप्रकाशस्वरूपत्वमित्यर्थः ।। 7 ।।

।। ब्रह्माधिकरणं समाप्तम् ।।

4.4.8 सङ्कल्पादेव तच्छØतेः ।। 8 ।।

4.4.8

मुक्तः परं ब्रह्मोपसम्पद्य ज्ञानस्वरूपोऽपहतपाष्मत्वादिसत्यसङ्कल्पत्वपर्यन्तगुणक आविर्भवतीत्युक्तम् । तमधिकृत्य तस्य सङ्कल्पत्वप्रयुक्ता व्यवहाराश्च श्रूयन्ते "स तत्र पर्येति जक्षत् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा" इति । किमस्य ज्ञात्यादिप्राप्तिः प्रयत्नान्तरसापेक्षा? उत परमपुरुष- स्येव सङ्कल्पमात्रादेव भवतीति विशये-लोके राजादीनां सङ्कल्पत्वेन व्यवह्रियमाणानां कार्यनिष्पादने प्रय-त्नान्तरसापेक्षत्वदर्शनादस्यापि तत्सापेक्षा ।

इति प्राप्त उच्यते-सङ्कल्पादेव-इति । कुतः? तछØतेः, "स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति" इति हि सङ्कल्पादेवास्य पित्रादीनं समुत्थानं श्रूयते । न च प्रयत्नान्तरसापेपेक्षत्वाभिधायि श्रुत्यन्तरं दृश्यते; येनास्य सङ्कल्पादेवेत्यवधारणस्य विज्ञानधन एवेतिवद् व्यवस्थापनं क्रियते ।। 8 ।।

4.4.9 अत एव चानन्याधिपतिः ।। 9 ।।

4.4.9

 

यतो मुक्तः सत्यसङ्कल्पः; अत एवानन्याधिपतिश्च । अन्याधिपतित्वं हि विधिनिषेथयोग्यत्वम्, विधिनिषे-धयोग्यत्वे हि प्रतिहतसङ्कल्पत्वं भवेत् । अतः सत्यसङ्कल्पत्वश्रुत्यैवानन्याधिपतित्वं च सिद्धम् । अत एव "स स्वराड् भवति" इत्युच्यते ।। 9 ।। ।। सङ्कल्पाधिकरणं समाप्तम् ।।

4.4.10 अभावं वादरिराह ह्येवम् ।। 10 ।।

4.4.10

 

किं मुक्तस्य देहेन्द्रियाणि न सन्ति अथवा यथासङ्कल्पं सन्ति? न सन्ति चेति

4.4.10

विशये-शरीरेन्द्रियाणामभावं वादरिराचार्यो मन्यते । कुतः? आह ह्येवम् " न ह वै सशरीरस्य सतः प्रिया-प्रिययोरपहतिरस्ति

। अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः" इति शरीरसम्बन्धे दुःखस्यावर्जनीयत्वमभि-धाय "अस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते" इति मुक्तस्याशरीरत्वं ह्याह श्रुतिः ।। 10 ।।

4.4.11 भावं जैमिनिर्विकल्पामननात् ।। 11 ।।

4.4.11

 

मुक्तस्य शरीरेन्द्रियभावं जैमिनिराचार्यो मन्यते, कुतः? विकल्पपामननात्-विविधः कल्पो विकल्पः वैवि-द्यमित्यर्थः, "स एकधा भवति त्रिधा भवति पञ्चधा भवति सप्तधा" इत्यादिश्रुतेः । आत्मन एकस्याच्छेद्य-स्यानेकदाभावासम्भवात् । त्रिधाभावादयः शरीरनिबन्धना इत्यवगम्यते । अशरीरत्ववचनं तु कर्मनिमि-त्तशरीरभावपरं, तदेव हि शरीरं प्रियाप्रियहेतुः ।। भगवांस्तु बादरायणः स्वमतेन सिद्धान्तमाह -

4.4.12 द्वादशाहवदुभयविधं बादरारणोऽतः ।। 12 ।।

4.4.12

 

"सङ्कल्पादेव"इत्येतदतश्शब्देन परामृश्यते, अत एव सङ्कल्पात्, उभयविधं सशरीरमशरीरं च मुक्तं भगवा- न्बादरायणो मन्यते । एवं चोभयी श्रुतिरुपपद्यते, द्वादशाहवत्-यथा "द्वादशाहमअद्धिकामा उपेयुः" "द्वाद-शाहेन प्रजाकामं याजयेत्" इत्युपैतियजतिचोदनाभ्यां सङ्कल्पभेदेन सत्रमहीनञ्च भवति ।। 12 ।।

4.4.13

यदा शरीराद्युपकरणवत्त्वम्; तदा तानि शरीराद्युपकरणानि स्वेनैव सृष्टानीति नास्ति नियम इत्याह -

4.4.13 तन्वभावे सन्ध्यवदुपपत्तेः ।। 13 ।।

4.4.13

 

स्वेनैव सृष्टतनुप्रभृत्युपकरणाभावे परमपुरुषसृष्टैरुपकरणैर्भोगोपपत्तेः सत्यसङ्कल्पोऽपि स्वयं न सृजति । यथा

4.4.13

स्वप्ने "अथ स्थान् रथयोगान् पथः सृजते" इत्यारभ्य "अथ वेशन्तान् पुष्करिण्यः स्त्रवन्त्यः सृजते स हि कर्त्ता" इति "य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः तदेव शुक्रं तद्व्रह्म तदेवामृतमुच्यते तस्मि-#ँल्लोकाः श्रितास्सर्वे तदु नात्येति कश्चन" इति चेश्वरसृष्टैः रथाद्युपकरणैर्जीवोभुङ्क्त, तथा मुक्तोऽपि ली#ाला-प्रवृत्तेनेश्वरेण सृष्टैः पितृलोकादिभिर्लीलारसं भुङ्क्ते ।। 13 ।।

4.4.14 भावे जाग्रद्वत् ।। 14 ।।

4.4.14

 

स्वसङ्कल्पादेव सृष्टतनुप्रभृतिपितृलोकाद्युपरणभावे जाग्रत्पुरुषभोगवन्मुक्त्#ोपि लीलारसं भुङ्क्ते; परमपुरुषो- ऽपि लीलार्थं दशरथवसुदेवादिपितृलोकादिकमात्मनः सृष्ट्वा तैमर्नुष्यधर्मलीलारसं यथा भुङ्क्ते, तथा मुक्त-#ानामपि स्वलीलायै पितृलोकादिकं स्वयमेव सृजति कदाचित्, कदाचिच्च मुक्ताः सत्यसङ्कल्पत्वात् परम-पुरुषलीलान्तर्गतस्वपितृलोकादिकं स्वयमेव सृजन्तीति सर्वमुपपन्नम् ।। 14 ।।

4.4.15

नन्वात्माऽणुपरमाण इत्युक्तम्, कथमनेकशरीरेष्वेकस्याणोरात्माभिमानसम्भव इत्यत्राह -

4.4.15 प्रदीषवदावेशस्तथा हि दर्शयति ।। 15 ।।

4.4.15

 

यथा प्रदीषस्यैकस्यैकस्मिन्देशे वर्त्तमानस्य स्वप्रभया देशान्तरावेशः, तथाऽऽत्मनोऽप्येकदेशस्थितस्यैव स्वप्रभारूपेण चैतन्येन सर्वशरीरावेशो नानुपपन्नः । यथा चैकस्मिन्नपि देहे हृदयाद्येकप्रदेशविर्त्तनोऽपि चैत- न्यव्याप्रत्या सर्वस्मिन्देहे

आत्माभिमानस्तद्वचत् । इयान्विशेषः-अमुक्तस्य कमर्णा सङ्कुचितज्ञानस्य देहा-

4.4.15

न्तरेष्वात्माभिमानानुगुणा व्याप्तिर्न सम्भवति; मुक्तस्य त्वसङ्कुचितज्ञानस्य यथासङ्कल्पमात्माभि-मानानुगुणा व्याप्तिरिदमिति ग्रहणानुगुणा च नानुपपन्ना । तथा हि दर्शयति- "बालग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते" इति । अमुक्तस्य कर्म नियामकम्, मुक्त- स्य तु स्वेच्छेति विशेष। ।

4.4.16

ननु परं ब्रह्म प्राप्तस्यान्तरबाह्यमानलोषं दर्शयति श्रुतिः, "प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्मं किञ्चन वेद नान्तरम्" इति, तत्कथं मुक्तस्य सार्वममुच्यते? तत्रोत्तरम्-

4.4.16 स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ।। 16 ।।

4.4.16

 

नेदं वचनं मुक्तविषयम्, अपि तु स्वाप्ययसम्पत्त्योरन्यतरापेक्षम् । स्वाप्ययः सुषुप्तिः, सम्पत्तिश्च मरणं, "वाङ्मनसि सम्पद्यते" इत्यारभ्य "तेजः परस्यां देवताया"मिति वचनात् तयोश्चावस्थयोः प्राज्ञप्राप्तिर्निः-सम्बोधत्वं च विद्येते । अतस्तयोरन्यतरापेक्षमिदं वचनम् । सुषुप्तिमरणयोनिर्#ःसम्बोधत्वं मुक्तस्य च सर्व-मत्वमाविष्कृतं हि श्रुत्या "नाह खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमह मस्मीति नो एवेमानि भूतानि

4.4.16

विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामि" इति सुषुप्तिबेलायां निस्सम्बोधत्वमुकत्वा तस्मिन्नेव वाक्ये मुक्तमधिकृत्य "स वा एष दिव्येन चक्षुषा मनसैतान्कामान् पश्यन् रमते य एते ब्रह्मलोके" इति सर्व-ज्ञत्वमुच्यते । तथा "सर्वं ह पश्यः पश्यति सर्वप्राप्नोति सर्वशः" इति च स्पष्यमेव सर्वज्ञत्वमुच्यते । तथा मरणे च निस्सम्बोधत्वम्, एतेभ्ये भूतेभ्यः समुत्थाय तान्येवानुविनश्यति" इत्युक्तं, विनश्यति न पश्यती- त्यर्थः । अतः "प्राज्ञेनात्मना" इति वचनं स्वाप्ययसम्पत्त्योरन्यतरापेक्षम् ।। 16 ।।

।। अभावाधिकरणं समाप्तम् ।।

4.4.17 जगद्वयापरवर्जं प्रकरणादसन्निहितत्वाच्च ।। 17 ।।

4.4.17

 

किं मुक्तस्यैश्वर्य्यं जगत्सृष्टयादि परमपुरुषासाधारणं सर्वेश्वरत्वमपि? उत तद्र- हितं केवलपरमपुरुषानुभवविषयम्? इति संशयः । किं युक्तं जगदीश्वरत्वमपीति । कुः? "निरञ्जनः परमं साम्यमुपैति" इति परमपुरुषेण परमसाम्यापत्तिश्रुतेः, सत्यसङ्कल्पत्वश्रुतेश्च । न हि परमसाम्यसत्यसङ्कल्पत्वे सर्वेश्वरासाधारणजगन्नियमेन विनोपपद्येते । अतः सत्यसङ्कल्पत्वपरमसाम्योपपत्तये समस्तजगन्नियमनरूप-मपि मुक्तस्यैश्वय्यर्मिति ।

4.4.17

एवं प्राप्ते प्रचक्ष्महे-जगद्वयापारवर्जम्-इति । जगद्वयापारः- निखिलचेतनस्वरूपस्थितिप्रवृत्तिभेदनिय- मनम् । तद्वर्ज्जं निरस्तनिखिलतिरोधानस्य निर्व्याजब्रह्मानुभवरूपं मुक्तस्यैश्वर्य्यम् । कुतः? प्रकरणात्,

4.4.17

निखिलजगन्नियमनं हि परं ब्रह्म प्रकृत्याम्नायते "यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासख तद्व्रह्म" इति । यद्येतन्निखिलजगन्नियमनं मुक्तानामपि साधारणं स्यात्, ततश्चेदं जगद्वश्वरत्वरूपं ब्रह्मलक्षणं न सङ्गच्छते । असाधारणस्य हि लक्षणत्वम् । तथा "सदेव सोम्येदमग्र असीदेकमेवाद्वितीयं तदैक्षत बहुस्यां प्रजायेयेति तत्तेजोऽसृजत" "ब्रह्म वा इदमेकमेवाग्र असी- त्तदेकं सन्नव्यभवत् तच्छ्रेयोरूपमत्यसृजत क्षत्रं यान्येतानि देवक्षत्राणि इन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति" "आत्मा वा इदमेव एवाग्र असीत् नान्यत्किञ्चन मिषत् स ईक्षत लोकान्नु सृजा इति स इमाँल्लोकानसृजत" "एको ह वै नारायण आसीन्न ब्रह्मा नेशानो नेमे द्यावापृथिवी न नक्षत्राणि नापो नाग्निर्न सोमो न सूय्र्यः स एकाकी न रमेत तस्य ध्यानान्तस्थस्यैका कन्या दशेन्द्रियाणि"

इत्यादिषुः । यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरः" इत्यारभ्य आत्मनि तिष्ठन्" इत्यादिषु च निखिलजगन्नियमनं परमपुरुषं प्रकृत्यैव श्रूयते । असन्निहितत्वाच्च-न चैतेषु निखिलजगन्नियमनप्रसङ्गेषु मुक्तस्य सन्निधानमस्ति, येन जगद्वयापार-स्तस्यापि स्यात् ।। 17 ।।

4.4.18 प्रत्यक्षोपदेशान्नेति चेन्नाधिकारिकमण्डलस्थोक्तेः ।। 18 ।।

4.4.18

 

"स स्वराड् भवति तस्य सर्वेषु लोकेषु कामचारो भवति" "स इमांल्लोकान्कामान्नीकामरूप्यनुसञ्चरन्" इति प्रत्यक्षेण श्रुत्या मुक्तस्य जगद्वयापार उपदिश्यते । अतो न जगद्वयापारवजर्मिति चेत्-तन्न, आधिकारि-कमण्डलस्थोक्तेः, आधिकारिकाः-अधिकारेषु नियुक्ता हिरण्यगर्भादयः मण्डलानि-तेषां लोकाः; तत्स्थाः- भोगा मुक्तस्याकर्मवश्यस्य भवन्तीत्ययमर्थ "तस्य सर्वेषु लोकेषु कामचारो भवति" इत्यादिनोच्यते, अक-मर्प्रतिहतज्ञानो मुक्तो विकारलोकान् ब्रह्मविभूतिभूताननुभूय यथाकामं तृष्यतीत्यर्थः । तदेवं विकारान्त-

4.4.18

र्वत्तिन आधिकारिकमण्डलस्थान्सर्वान् भोगान् बह्मविभूतिभूताननुभवतीत्यनेन वाक्येनोच्यते; न जगद्वया-पारः ।। 18 ।।

4.4.19

यदि संसारिवन्मुक्तोऽपि विकारान्तर्वत्तिनो भोगान् भुङ्क्ते; तर्हि बद्धस्येव मुक्तस्यापि अन्तवदेव भोग्य-जातमल्पं च स्यात्तत्राह -

4.4.19 विकारावर्त्ति च तथा हि स्थितिमाह ।। 19 ।।

4.4.19

 

विकारे जन्मादिके न वर्त्तते इति विकारावर्त्ति, निर्धूतनिखिलविकारं निखिलहेयप्रत्यनीककल्याणैकतानं निरतिशयान्दं परं ब्रह्म सविभूतिकं सकलकल्याणगुणमनुभवति मुक्तः । तद्विभूत्यन्तर्गतत्वेन विकारवर्त्तिनां लोकानामपि मुक्तभोग्यत्वं, तथा हि परस्मिन् ब्रह्मणि निर्विकारे अनवधिकातिशयानन्दे मुक्तस्यानुभवितृ- त्वेन स्थितिमाह श्रुतिः "यदा ह्यैवेष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते अथ सो- ऽभयं गतो भवति" "रसो वै सः रसं ह्येवायं लब्ध्वाऽऽनन्दीभवति" इत्यादिका । तद्विभूतिभूतं जगत्तत्रैव वर्तते "तÐस्मल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन" इति श्रुतेः । अतः सविभूतिकं ब्रह्मानुभवन् विकारान्तवÐर्तन आधिकारिकमण्डलस्थानपि भोगान् भुङ्क्ते इति "सर्वेषु लोकेषु कामचारः" इत्यादिनोच्यते; न मुक्तस्य जग-द्वयापारः ।। 19 ।।

4.4.20 दर्शयतश्चेवं प्रत्यक्षानुमाने ।। 20 ।।

4.4.20

 

अस्य प्रत्यगात्मनो मुक्तस्य नियाम्यभूतस्य नियन्तृभूतपरमपुरुषासाधारणं जगद्वयापाररूपं निमनं न सम्भवतीत्युक्तम् । निखिलजगन्नियमनरूपो व्यापारः परमपुरुषासाधारणं इति दर्शयतः श्रुतिस्मृती-

4.4.20

भीषाऽस्माद्वातः पवते भीषोदेति सूर्यः भीषाऽस्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः" इति "एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः" इत्यि#ाद । तथा "एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय" इति च श्रुतिः । स्मृतिरपि "मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् । हेतुनाऽनेन कौन्तेय जगद्धि परिवर्त्तते" इति, "विष्टभ्याहमिपं कृत्स्नमेकांशेन स्थितो जग"दिति च । तथा मुक्तस्य सत्यसङ्कल्पत्वादिपूर्वकस्याप्यानन्दस्य परमपरुरुष एव हेतुरिति श्रुतिस्मृती दर्शयतः- "एष ह्येवा-नन्दयाति" "मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान्तमतीत्यैतान् ब्रह्मभूयाय कल्पते । ब्रह्म-णोऽहि प्रतष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च" इति । यद्यप्यपहतपा-ष्मत्वादिः सत्यसङ्कल्पत्वपर्यन्तो गुणगणः प्रत्यगात्मनः स्वाभाविक एवाविर्भूतः । तथाऽपि तस्य तथावि-धत्वमेव परमपुरुषायत्तं, तस्य नित्यस्थितिश्च तदायत्ता, परमपुरुषस्यैतन्नित्यताया नित्येष्टत्वान्नित्यतया वर्तत इति न

कश्चिद्विरोधः । एवमेव परमपुरुषभोगोपकरणस्य लीलोपकरणस्य च नित्यतया शास्त्रावगतस्य परमपुरुषस्य नित्येष्टत्वादेव तथाऽवस्थानमस्तीति शास्त्रादवगम्यते । अतो मुक्तस्य सत्यसङ्कल्पत्वं परम-पुरुषासाम्यञ्च जगद्वयापारवर्ज्जम् ।। 20 ।।

4.4.21 भोगमात्रसाम्यलिङ्गाच्च ।। 21 ।।

4.4.21

 

ब्रह्मयाथात्म्यानुभवरूपभोगमात्रेण मुक्तस्य ब्रह्मसाम्यप्रतिपादनाच्च लिङ्गात् जगद्वयापारवर्ज्जमित्यवगम्यते "सोऽश्नूते सर्वान्कामान्सह ब्रह्मणा विपश्चिता" इति । अतो मुक्तस्य परमपुरुषसाम्यं सत्यसङ्कल्पत्वं च पर-मपुरुषासाधारणनिखिलजगन्नियमनश्रुत्यानुगुण्येन वर्णनीयमिति जगद्वयापारवर्जमेव मुक्तैश्वर्यम् ।। 21 ।।

4.4.22

यदि परमपुरुषायत्तं मुक्तैश्वर्यम्, तर्हि तस्य स्वतन्त्रत्वेन तत्सङ्कल्पान्मुक्तस्य पुनरावृत्तिसम्भवाशङ्केत्यत्राह -

4.4.22 अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् ।। 22 ।।

4.4.22

 

यथा निखिलहेयप्रत्यनीककल्याणैकतानो जगज्जन्मादिकारणं समस्तवस्तुविलक्षणः सर्वज्ञः सत्यसङ्कल्पः आश्रितवात्सल्यैकजलधिः परमकारुणिको निरस्तसमाभ्यधिकसम्भावनः परब्रह्माभिधानः-परमपुरुषोऽ- स्तीति शब्दादवगम्यते, एवमहरहरनुष्ठीयमानवर्णाश्रमधर्मानुगृहीततदुपासनरूपतत्समाराधनप्रतीः उपा-सीनाननादिकालप्रवृत्तानन्तदुस्तरकर्मसञ्चयरूपाविद्यां विनिवर्त्य स्वयाथात्म्यानुभवरूपानवधिकातिशया- नन्दं प्रापय्य पुनर्नावर्तयतीत्यपि शब्दादेवावगम्यते । शब्दश्च "स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभि-सम्पद्यते न च पुनरावर्तते न च पुनरावर्तते" इत्यादिकः । तथा च भगवता स्वयमेवोक्तम् "मामुषेत्य पुन- र्जन्म दुःखालयमशाश्वतम् । नाप्नुवन्ति महात्मानः संसिद्धि परमां गताः ।। आब्रह्मभुवनाल्लोकाः पुनराव-र्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते" इति । न चोच्छिन्नकर्मबन्धस्यासङ्कुचितज्ञानस्य परब्रह्मानुभवैकस्वभावस्य तदेकपि#्रयस्यानवधिकातिशयानन्दं ब्रह्मानुभवतोऽन्यापेक्षातदर्थारम्भाद्यसम्भवात्

4.4.22

पुनरावृत्तिशङ्का । न च परमपुरुषः सत्यसङ्कल्पोऽत्यर्थप्रियं ज्ञानिनं लब्ध्वा कदाचिदावर्तयिष्यति; य एवमाह - "प्रियो हि ज्ञानिनो इत्यर्थमहं स च मम प्रियः । उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।। आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् । बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः" इति । सूत्राभ्यासः शास्त्रपरिसमाप्तिं द्योतयतीति सर्वं समञ्जसम् ।।

।। जगद्वयापारवर्जाधिकरणं समाप्तम् ।।

।। इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये

चतुर्थस्याध्यायस्य चतुर्थः पादः ।।