श्रीभाष्यम्
[[लेखकः :|]]
द्वितीयः भागः →

श्रीभाष्यम्
1.1.1
अखिलभुवनजन्मस्थेमभङ्गादिलीले विनतविविधभूतव्रातरक्षैकदीक्षे ।

श्रुतिशिरसि विदीप्ते ब्रह्मणि श्रीनिवासे भवतु मम परस्मिन् शेमुषी भक्तिरूपा ।। 1 ।।

पाराशर्यवचस्सुधामुपनिषद्दुग्धाब्धिमध्योद्धृताम् ।

संसाराग्निविदीपनव्यपगतप्राणात्मसञ्जीविनीम् ।।

पूर्वाचार्यसुरक्षितां बहुमतिव्याघातदूरस्थिता-

मानीतान्तु निजाक्षरैस्सुमनसो भौमाःपिबन्त्वन्वहम् ।।

भगवद्वोधायनकृतां विस्तीर्णां ब्रह्मसूत्रवृत्तिं पूर्वाचार्यास्संचिक्षिषुस्तन्मतानुसारेण सूत्राक्षराणि व्याख्यास्यन्ते ।

1.1.1 अथाऽतो ब्रह्मजिज्ञासा ।। 1 ।।

1.1.1

अतश्शब्दो वृत्तस्य हेतुभावे । अधीतसाङ्गसशिरस्कवेदस्याधिगताल्पास्थिरफलकेवलकर्मज्ञानतया सञ्जातमोक्षा-भिलाषस्याऽनन्तास्थिरफलब्रह्मजिज्ञासा ह्यनन्तरभाविनी । ब्रह्मणो जिज्ञासा - ब्रह्मजिज्ञासा, ब्रह्मण इति कर्माणि षष्ठी "कर्त्तृकर्मणोः कृती"ति विशेषविधानात् । यद्यपि सम्बन्धसामान्यपरिग्रहेपि जिज्ञासायाः कर्मापेक्षतवेन कर्मार्थत्वसिद्धिः, तथाप्याक्षेपतः प्राप्तादाभिधानिकस्यैव ग्राह्यत्वात्कर्मणि षष्ठी गृह्यते । न च "प्रतिपदविधाना षष्ठी न समस्यत" इति कर्मणि षष्ठयाः समासनिषेधः शङ्कनीयाः "कृद्योगा च षष्ठी समस्यत" इति प्रतिप्रसव-सद्भावात् । ब्रह्मशब्देन च स्वभावतो निरस्तनिखिलदोषोऽनवधिकातिशयासङ्खयेयकल्याण-गुणगणः पुरुषो-त्तमोऽभिधीयते । सर्वत्र बृहत्त्वगुणयोगेन हि ब्रह्मशब्दः, बृहत्त्वं च स्वरूपेण गुणैश्च यत्रान-वधिकातिशयं सोस्य मुख्योर्थः । स च सर्वेश्वर एव, अतो ब्रह्मशब्दस्तत्रैव मुख्यवृत्तः । तस्मादन्यत्र तद्गुण-लेशयोगादौपचारिकः, अनेकार्थकल्पनायोगात्, भगवच्छब्दवत् । तापत्रयातुरैरमृतत्वाय स एव जिज्ञास्यः । अतस्सर्वेश्वर एव जिज्ञा-साकर्मभूतं ब्रह्म । ज्ञातुमिच्छा - जिज्ञासा इच्छाया इष्यमाणप्रधानत्वादिष्यमाणं ज्ञानमिह विधीयते । मीमांसा-पूर्वभागज्ञातस्य कर्मणोऽल्पास्थिरफलत्वादुपरितनभागावसेयस्य ब्रह्मज्ञान-स्यानन्ताक्षयफलत्वाच्च, पूर्ववृत्ता-त्कर्मज्ञानादनन्तरं तत एव हेतोर्ब्रह्म ज्ञातव्यमित्युक्तंभवति । तदाह वृत्तिकारः- "वृत्तात्कर्माधिगमादनन्तरं ब्रह्मविविदिषा" इति । वक्ष्यति च कर्मब्रह्ममीमांसयोरैकशास्त्र्यं "संहितमेतच्छारीरकं जैमिनीयेन षोडशलक्ष-णेनेति शास्त्रैकत्वसिद्धिः"रिति, अतः प्रतिपिपादयिषितार्थभेदेन षट्कभेदवदध्यायभेदवच्च पूर्वोत्तरमीमांसयोर्भेदः।

मीमांसाशास्त्रम् - "अथातो धर्मजिज्ञासा" इत्यारभ्य "अनावृत्तिश्शब्दादनावृत्तिश्शब्दात्" इत्येवमन्तं सङ्गति-विशेषेण विशिष्टक्रमम् । तथाहि- प्रथमं तावत् "स्वाध्यायोऽध्येतव्य" इत्यध्ययनेनैव स्वाध्याय तच्चाध्ययनं किं रूपं ? कथं च कर्त्तव्यम् ? इत्यपेक्षायाम् "अष्टवर्षं ब्राह्मणमुपनीयत तमध्यापयेत्" इत्यनेन

"श्रावण्यां प्रौष्ठपद्यां वा उपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान्विप्रोर्द्धपञ्चमान् ।।"

इत्यादिव्रतनियमविशेषोपदेशैश्चपेक्षितानि विधीयन्ते । एवं सत्सन्तानप्रसूतसदाचारनिष्ठात्मगुणोपेतवेद-विदाचार्योपनीतस्य व्रतनियमविशेषयुक्तस्याचार्योच्चारणानूच्चारणरूपमक्षरराशिग्रहणफलमध्ययनमित्यवगम्ते । अध्ययनञ्च स्वाध्यायसंस्कारः "स्वाध्यायोऽध्येतव्य" इति स्वाध्यायस्य कमर्त्वावगमात् । संस्कारो हि नाम कार्यान्तरयोग्यताकरणम् ।

संस्कार्यत्वञ्च स्वाध्यायस्य युक्तम्, धर्मार्थकाममोक्षरूपपुरुषार्थचतुष्टयतत्साधनावबोधित्वात् । जापादिना स्वरूपेणापि तत्साधनत्वाच्च । एवमध्ययनविधिर्मन्त्रवन्नियमवदक्षरराशिग्रहणमात्रे पर्यवस्यति । अध्ययनगृहीतस्य स्वाध्यायस्य स्वभावत एव प्रयोजनवदर्थावबोधित्वदर्शनात् । गृहीतात्स्वाध्यायादवगम्य-मानात् प्रयोजनवतोऽर्थानापाततो दृष्ट्वा तत्स्वरूपप्रकारविशेषनिर्णयफलवेदवाक्यविचाररूपमीमांसाश्रवणे-ऽधीतवेदः पुरुषः स्वयमेव प्रवर्त्तते । तत्र कर्मविधिस्वरूपे निरूपिते कर्मणामल्पास्थिरघलत्वं दृष्ट्वा अध्ययन-गृहीतस्वाध्यायोपनिषद्वाक्येषु चामृतत्वरूपानन्तस्थिरफलापातप्रतीतेस्तन्निर्णयफलवेदान्तविचाररूपशा-रीरकमीमांसायामधिकरोति । तथा च वेदान्तवाक्यानि केवलकमर्फलस्य क्षयित्वं ब्रह्मज्ञानस्य चाक्षयफलत्वं दर्शयन्ति "तद्यथेह कर्मचितो लोकः क्षीयते, एवमेवात्र पुण्यचितो लोकः क्षीयते" "अन्तवदेवास्य तद्भवति" "नह्यध्रुवैः प्राप्यते" "प्लवा ह्येते अदृढा यज्ञरूपाः" "परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेन तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिश्श्रोत्रियं ब्रह्मनिष्ठं तस्मै स

विद्वानुपसन्नाय सम्यक् प्रशांतचिताय शमान्विताय येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्या"मिति । प्रोवाच-प्रब्रूयादित्यर्थः । "ब्रह्मविदाप्नोति परम्" "न पुनमृत्यवे तदेकं पश्यति" "न पश्यो मृत्युं पश्यति" "स स्वराड् भवति" "तमेवं विद्वानमृत इह भवति नान्यःपन्थाअयनायविद्यते" "पृथगात्मानं प्ररितारं च मत्वा जुष्ट-स्ततस्तेनामृतत्वमेति" इत्यादीनि । ननु च साङ्गवेदाध्ययनादेव कमर्णां स्वर्गादि फलत्वम्, स्वर्गादीनां च क्षयित्वं ब्रह्मोपासनस्यामृतत्वफलत्वञ्च ज्ञायत एव । अनन्तरं मुमुक्षुर्ब्रह्मजिज्ञासायामेव प्रवर्त्तताम्; किमर्था धर्मविचारापेक्षा ? एवं तर्हि शारीरकमामांसायामपि न प्रवर्त्तताम् साङ्गाध्ययनादेव कृत्स्नस्य ज्ञातत्वात् । सत्यम् आपातप्रतीतिर्विद्यत एव, तथापि न्यायानुगृहीतस्य वाक्यस्यार्थनिश्चायकतादापातप्रतीतोप्यर्थः संशयविपर्ययौ नातिवर्त्तते; अतस्तन्निर्णयाय वेदान्तवाक्यविचारः कर्त्तव्य इति चेत्; तथैव धर्मविचारोपि कर्त्तव्य इति पश्यतु भवान् ।

ननु च ब्रह्मजिज्ञासा यदेव नियमेनापेक्षते, तदेव पूर्ववृत्तं वक्तव्यम् । न धर्मविचारापेक्षा ब्रह्मजि-ज्ञासायाः, अधीतवेदान्तस्यानधिगतकर्मणोपि वेदान्तवाक्यार्थविचारोपपत्तेः । कर्माङ्गाश्रयाण्युद्गीथाद्युपा-सनान्यत्रैव चिन्त्यन्ते, तदनधिगतकर्मणो न शक्यं कर्त्तुमिति चेत्, अनभिज्ञो भवान् शारीरकशास्त्रविज्ञानस्य । अस्मिन् शास्त्रे अनाद्यविद्याकृतविविधभेददर्शननिमित्तजन्मजरामरणादिसांसारिकदुःखसागरनिमग्नस्य निखिलदुःखमूलमिथ्याज्ञाननिर्वहणायात्मैकत्वविज्ञानं प्रतिपिपादयिषितम् । अस्य हि भेदावलम्बिकर्मज्ञानं क्वोपयुज्यते ? प्रत्युत विरुद्धमेव । उद्गीथादिविचारस्तु कर्मशेषभूत एव ज्ञानरूपत्वाविशेषादिहैव क्रियते, स तु न साक्षात्सङ्गतः, अतो यत्प्रधानं शास्त्रं तदपेक्षितमेव पूर्ववृत्तं किमपि वक्तव्यम् । बाढम्; तदपेक्षितं च कर्मवि-ज्ञानमेव, कमर्समुच्चिताज्ज्ञानादपवर्गश्रुतेः । वक्ष्यति च "सर्वापेक्षा च यज्ञादिश्रुतेरश्वत्" इति । अपेक्षिते च कर्मण्यज्ञाते केन समुच्चयः केन नेति विभागो न शक्यते ज्ञातुम्, अतस्तदेव पूर्ववृत्तम् । नैतद्युक्तम्, सकल-

विशेषप्रत्यनीकचिन्मात्रब्रह्मविज्ञानादेवाविद्यानिवृत्तेः; अविद्यानिवृत्तिरेव हि मोक्षः । वर्णाश्रमविशेषसाध्य-साधनेतिकर्त्तव्यताद्यनन्तविकल्पास्पदं कर्म सकलभेददर्शननिवृत्तिरूपाज्ञाननिवृत्तेः कथमिव साधनं भवेत् ? श्रुतयश्च कर्मणामनित्यफलत्वेन मोक्षविरोधित्वं, ज्ञानस्यैव मोक्षसाधनत्वं च दर्शयन्ति "अन्तव देवास्य तद्भवति" "तद्यथेह कर्मचितो लोकः क्षीयते । एवमेवामुत्र पुण्यचितो लोकः क्षीयते" "ब्रह्मविदाप्नोति परम्" "ब्रह्म वेद ब्रह्मैव भवति" "तमेव विदित्वातिमृत्युमेति" इत्याद्याः ।

यदपि चेदमुक्तम्,-यज्ञादिकर्मापेक्षा विद्येति, तद्वस्तुविरोधाच्छØत्यक्षरपर्यालोचनया चान्तः करण-नैर्मल्यद्वारेण विविदिषोत्पत्तावुपयुज्यते; न फलोत्पत्तौ, "विविदिषन्तीति श्रवणात् विविदिषायां जातायां ज्ञानोत्पत्तौ शमादीनामेवान्तरङ्गोपायतां श्रुतिरेवाह । "शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्ये-वात्मानं पश्येत्" इति ।

तदेवं जन्मान्तरशतानुष्ठितानभिसंहितफलविशेष कर्ममृदितकषायस्य विविदिषोत्पत्तौ सत्याम् "सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयम्" "सत्यं ज्ञानमनन्तं ब्रह्म निष्कलं निष्क्रियं शान्तम्" "अयमात्मा ब्रह्म" "तत्त्वमसि" इत्यादिवाक्यज्न्यज्ञानादविद्या निवर्त्तते । वाक्यार्थज्ञानोपयोगीनि च श्रवणमनननिदिध्यासनानि । श्रवणं नाम-वेदान्तवाक्यानि आत्मैकत्वविद्याप्रतिपादकनीति तत्त्वदर्शिन आचार्यान्न्याययुक्ताथर्ग्रहणम् । एव-माचार्योपदिष्टस्यार्थस्य स्वात्मन्येवमेव युक्तमिति हेतुतः प्रतिष्ठापनं मननम् । एतद्विरोध्यनादि भेदवासनानिर-सनायास्यैवार्थस्यानवरतभावना निदिध्यासनम् । श्रवणादिभिर्निरस्तसमस्तभेदवासनस्य वाक्यार्थज्ञानमविद्यां निवर्त्तयतीत्येवं रूपस्य श्रवणस्यावश्यापेक्षितमेव पूवर्वृत्तं वक्तव्यम् । तच्च नित्यानित्यवस्तुविवेकः, शमदमा-दिसाधनसम्पत्, इहामुत्र फलभोगविरागः, मुमुक्षत्वं चेत्येतत्साधनचतुष्टयम् । अनेन विना जिज्ञासानुपपत्तेः, अथर्स्वभावादेवेदमेव पूर्ववृत्तमिति ज्ञायते ।

एतदुक्तं भवति-ब्रह्मस्वरूपाच्छादिकाविद्यामूलमपारमार्थिकं भेददर्शनमेव बन्धमूलम् । बन्धश्चापार-मार्थिकः स च समूलोऽपारमार्थिकत्वादेव ज्ञानेनैव निवत्र्त्यते । निवर्त्तकं च ज्ञानं तत्त्वमस्यादिवाक्यजन्यम् । तस्यैतस्य वाक्यजन्यस्य ज्ञानस्य स्वरूपोत्पत्तौ कार्ये वा कर्मणो नोपयोगः, विविदिषायाबेव तु कर्मणामु-पयोगः । स च पापमूलरजस्तमोनिबर्हणद्वारेण सत्त्वविवृद्धया भवतीतीमुपयोगमभिप्रेत्य "ब्राह्मणा विविदि-षन्ति" इत्युक्तमिति । अतः कर्मज्ञानस्यानुपयोगादुक्तमेव साधनचतुष्टयं पूर्ववृत्तमिति वक्तव्यम् ।

लघुसिद्धान्तः - अत्रोच्यते-यदुक्तमविद्यानिवृत्तिरेव मोक्षः, सा च ब्रह्मविज्ञानादेव भवति, इति । तदभ्युपगम्यते । अविद्यानिवृत्तये वेदान्तवाक्यैर्विधित्सितं ज्ञानं किंरूपमिति विवेचनीयम्-किं वाक्याद्वा-क्यार्थज्ञानमात्रम्, उत

तन्मूलमुपासनात्मकं ज्ञानम् ? इति । न तावद्वाक्यजन्यं ज्ञानम्, तस्य विधानमन्त-रेणापि वाक्यादेव सिद्धेः, तावन्मात्रेणाविद्यानिवृत्त्यनुपलब्धेश्च । न च वाच्यम्-भेदवासनायामनिरस्तायां वाक्यमविद्यानिवर्त्तकं ज्ञानं न जनयति, जातेपि सर्वस्य सहसैव भेदज्ञानानिवृत्तिर्न दोषाय; चन्द्रैकत्वे ज्ञातेपि द्विचन्द्रज्ञानानिवृत्तिवत् । अनिवृत्तमपि छिन्नमूलत्वेन न बन्धाय भवति, इति । सत्यां सामग्रयां ज्ञानानुत्पत्त्य-नुपपत्तेः, सत्यामपि विपरीतवासनायामाप्तोपदेशलिङ्गादिभिर्बाधकज्ञानोत्पत्तिदर्शनात् । सत्यपि वाक्यार्थज्ञाने अनादिवासनया मात्रया भेदज्ञानमनुवर्त्तत इति भवता न शक्यते वक्तुम्; भेदज्ञानसामग्रया अपि वासनाया मिथ्यारूपत्वेन ज्ञानोत्पत्त्यैव निवृत्तत्वात्, ज्ञानोत्पत्तावपि मिथ्यारूपायास्तस्या अनिवृत्तौ निवर्त्तकान्त-राभावात् कदाचिदपि नास्यावासनाया निवृत्तिः । वासनाकार्यं भेदज्ञानं छिन्नमूलमथ चानुवर्त्तत इति बालिश-

भाषितम् । द्विचन्द्रज्ञानादौ तु बाधकसन्निधावपि मिथ्याज्ञानहेतोः परमार्थतिमिरादिदोषस्य ज्ञानबाध्यत्वा-भावेनाविनष्टत्वात् मिथ्याज्ञानानिवृत्तिरविरुद्धा । प्रबलप्रमाणबाधितत्वेन भयादिकार्यं तु निवर्त्तते । अपि च भेदवासनानिरसनद्वारेण ज्ञानोत्पत्तिमभ्युपगच्छतां कदाचिदपि ज्ञानोत्पत्तिर्न सेत्स्यति; भेदवासनाया अना-दिकालोपचितत्वेनापरिमितत्वात्, तद्विरोधिभावनायाश्चाल्पत्वादनया तन्निरासानुपपत्तेः । अतो वाक्यार्थ-ज्ञानदन्यदेव ध्यानोपासनादिशब्दवाच्यं ज्ञानं वेदान्तवाक्यैर्विधित्सितम् । तथा च श्रुतयः "विज्ञाय प्रज्ञां कुर्वीत" "अनुविद्य विजानाति" "ओमित्येवात्मानं ध्यायथ" "निचाय्य तं मृत्युमुखात्प्रमुच्यते" "आत्मानमेव लोक-मुपासीत" "आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" "सोऽन्वेष्टव्यः स विजिज्ञासितव्यः" इत्येवमाद्याः । अत्र निदिध्यासितव्यः इत्यादिनैकार्थ्यात् "अनुविद्य विजानाति" "विज्ञाय प्रज्ञां कुर्वीत" इत्येव-मादिभिर्वाक्यार्थज्ञानस्य ध्यानोपकारकत्वात् "अनुविद्य" "विज्ञाय" इत्यनूद्य "प्रज्ञांकुर्वीत" "विजानाती"ति ध्यानं विधीयते । श्रोतव्य इति चानुवादः- स्वाध्यायस्यार्थपरत्वेनाधीतवेदः पुरुषः प्रयोजनवदर्थावबोधित्व-दर्शनात्तन्निर्णयाय स्वयमेव श्रवणे प्रवर्त्तेते-इति श्रवणस्य प्राप्तत्वात् । श्रवणप्रतिष्ठार्थत्वान्मननस्य "मन्तव्य" इति चानुवादः, तस्माद्धयनमेव विधीयते । वक्ष्यति च "आवृत्तिरसकृदुपदेशात्" इति । तदिदमपवर्गोपायतया विधित्सितं वेदनमुपासनमित्यवगम्यते, विद्युपास्योर्व्यतिकरेणोपक्रमोपसंहारदर्शनात् "मनो ब्रह्मेत्युपासीत" इत्यत्र "भाति च तपति च कीर्त्या यशसा ब्रह्मवर्च्चसेन य एवं वेद" "न स वेद अकृत्स्नो ह्येष आत्मेत्येवोपासीत" "यस्तद्वेद यत्स वेद स मयैतदुक्तः" इत्यत्र-"अनु म एतां भगवो देवतां शाधि यां देवतामुपास्से" इति । ध्यानं च तैलधारावदविच्छिन्नस्मृतिसन्तानरूपम् । "ध्रुवास्मृतिः । स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः" इति ध्रुवायाः स्मृतेरवपवर्गोपायत्वश्रवणात् । सा च स्मृतिदर्शनसमानाकारा "भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे" इत्यनेनैकार्थ्यात् । एवं च सति "आत्मा वा अरे द्रष्टव्य इत्यनेन निदिध्यासनस्य दर्शनसमानाकारता विधीयते । भवति च स्मृतेर्भावनाप्रकर्षाद्दशर्नरूपता । वाक्यकारेणैतत्सर्वं प्रपञ्चितम् । "वेदनमुपासनं स्यात् तद्विषये श्रवणात्" इति । सर्वासूपनिषत्सु मोक्षसाधनतया विहितं वेदनमुपा-सनमित्युक्तम् "सकृप्रत्ययं कुर्याच्छब्दार्थस्य कृतत्वात्प्रयाजादिवत्" इति पूर्वकक्षं कृत्वा "सिद्धन्तूपासनशब्दात्" इति वेदनमसकृदावृत्तं मोक्षसाधनमिति निर्णीतम् । "उपासनं स्याद् ध्रुवानुस्मृतिर्दर्शनान्निर्वचनाच्च" इति तस्यैव वेदस्योपासनरूपस्यासकृदावृत्तस्य ध्रुवानुस्मृतित्वमुपवर्णितम् ।

सेयं स्मृतिर्दर्शनरूपा प्रतिपादिता, दशनरूपता च प्रत्यक्षतापत्तिः । एवं प्रत्यक्षतापन्नामपवर्गसाधनभूतां स्मृतिं विशिनष्टि- "नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्" इति । अनेन केवल श्रवणमनननिदिध्यासनानामात्मप्राप्त्यनुपायत्वमुक्तवा यमेवैष आत्मा वृणुते तेनैव लभ्य" इत्युक्तम् । प्रियतम एव हि वरणीयो भवति यस्यायं निरतिशयप्रियः स एवास्य प्रियतमो भवति; यथायं प्रियतम आत्मानं प्राप्नोति तथा स्वयमेव भगवान् प्रयतत इति भगवतैवोक्तम् "तेषां सततयुक्तनां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते" इति "प्रियो हि ज्ञानिनोऽर्त्यमर्थमहं स च मम प्रियः" इति च । अतः साक्षात्काररूपा स्मृतिः स्मर्यमाणात्यर्थप्रियत्वेन स्वयमप्यत्यर्थप्रिया यस्य स एव परणात्मना वरणीयो भवतीति तेनैव लभ्यते पर आत्मेत्युक्तं भवति एवंरूपा ध्रुवानुस्मृतिरेव भक्तिशब्दे-नाभिधीयते,-उपासनपर्यायत्वाद्भक्तिशब्दस्य । अतएव श्रुतिस्मृतिभिरेवमभिधीयते "तमेव विदित्वातिमृत्यु-मेति" तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते" "नाहं वेदैर्न तपसा न दानेन च चेज्यया ।

शक्य एवं विधो द्रष्टुं दृष्टवानसि मां यथा । भक्तया त्वनन्यया शक्य अहमेवंविधोर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप । "पुरुषः स परः पार्थ भक्तया लभ्यस्त्वनन्यया" इति । एवंरूपाया ध्रुवानुस्मृतेः साधनानि यज्ञादीनि

कर्माणीति-"यज्ञादिश्रुतेरश्वव"दित्यभिधास्यते । यद्यपि विविदिषन्तीति यज्ञादयो विविदिषोत्पत्तौ विनियुज्यन्ते तथापि तस्यैव वेदनस्य ध्यानरूपस्याहरहरनुष्ठीयमानस्याभ्यासाधेयातिशयस्याप्रयाणादनुवर्त्तमानस्य ब्रह्मप्रा-प्तिसाधनत्वात्तदुत्पत्तये सर्वाण्याश्रमकर्माणि यावज्जीवमनुष्ठेयानि । वक्ष्यति च "आप्रयाणात्तत्रापि हि दृष्टम्" अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात्" "सहकारित्वेन च" इत्यादिषु वाक्यकारश्च ध्रुवानुस्मृतेर्विवेकादिभ्य एव निष्पत्तिमाह । "तल्लब्धिर्विवेकविमोकाभ्यासक्रियाकल्याणनवसादानुद्धर्षेभ्यः संभवान्निर्वचनाच्च" इति । विवे-कादीनां स्वरूपं चाह "जात्याश्रयनिमित्तादुष्टादन्नात्कायशुद्धिर्विवेक" इति । अत्र निर्वचनम्-"आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवास्मृति"रिति । "विमोकः कामानभिष्वङ्गः" इति । "शान्त उपासीते"ति निर्वचनम् । "आरम्भणसंशीलनं पुनः पुनरभ्यासः" इति । निर्वचनञ्च स्मार्त्तमुदाहृतं भाष्यकारेण, "सदा तद्भावभावितः" इति "पञ्चमहायज्ञाद्यनुष्ठानं शक्तितः क्रिया" इति । निर्वचनं "क्रियावानेष ब्रह्मविदां वरिष्ठः" "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेने"ति च । "सत्यार्जवदयादानाहिंसानभिध्याः कल्याणानि" इति । निर्वचनम् "सत्येन लभ्यः" "तेषामेवैष विरजो ब्रह्मलोकः" इत्यादि । "देशकालवैगुण्याच्छोकवस्त्वाद्य-नुस्मृतेश्च तज्जं दैन्यमभास्वरत्वं मनसोऽवसादः" इति । तद्विपर्ययोऽनवसादः । निर्वचनम् "नायमात्मा बलहीनेन लभ्यः" इति । "तद्विपर्ययजा तुष्टिरुद्धर्षः" इति । तद्विपर्ययोऽनुद्धर्षः, अतिसन्तोषश्च विरोधीत्यर्थः । निर्वचनमपि "शान्तो दान्त" इति । एवं नियमयुक्तस्याश्रमविहितकर्मानुष्ठानेनैव विद्यानिष्पत्तिरित्युक्तं भवति । तथाच श्रुत्यन्तरम् "विद्#ा#ं चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते" इति । अत्रावि-द्याशब्दाभिहितं वर्णाश्रम विहितं कर्म । अविद्यया-कर्मणा मृत्युं-ज्ञानोप्पत्तिविरोधि प्राचीनं कर्म । तीर्त्वा-अपोह्य । विद्यया-ज्ञानेन । अमृतं ब्रह्म । अश्नुते-प्राप्नोतीत्यर्थः । मृत्युतरणोपायतया प्रतीता अविद्या विद्येत-राद्विहितं कर्मैव, यथोक्तम्-"इयाज सोऽपि सुवहून् यज्ञान् ज्ञानव्यपाश्रयः । ब्रह्मविद्यामधिष्ठाय तर्त्तुं मृत्युम-विद्यया" इति । ज्ञानविरोधि च कर्म पुण्यपापरूपम् । ब्रह्मज्ञानोत्पत्तिविरोधित्वेनानिष्टफलतयोभयोरपि पाप-शब्दाभिदेयत्वम् । अस्य च ज्ञानविरोधित्वं ज्ञानोत्पत्तिहेतुभूतशुद्धसत्त्वविरोधिरजस्तमोविवृद्धिद्वारेण । पापस्य च ज्ञानोदयविरोधित्वम्- "एष एवासाधु कर्म कारयति । तं यमधो निनीषति" इति श्रुत्याऽवगम्यते । रजस्तम-सोर्यथार्थज्ञानावरणत्वं सत्त्वस्य च यथार्थज्ञानहेतुत्वं भगवतैव प्रतिपादितं "सत्त्वात्सञ्जायते ज्ञानम्" इत्यादिना । अतश्च ज्ञानोत्पत्तये पापं कर्म निरसनीयम् । तन्निरसनञ्च अनभिसंहितफलेनानुष्ठितेन धर्मेण । तथा च श्रुतिः "धर्मेण पापमपनुवदति" इति । तदेवं ब्रह्मब्राप्तिसाधनं ज्ञानं सर्वाश्रमकर्मापेक्षम्; अतोऽपेक्षितकर्मस्वरूपज्ञानं केवलकर्मणामल्पास्थिरफलत्वज्ञानञ्च कर्ममीमांसावसेयमिति; सैवापेक्षिता ब्रह्मजिज्ञासायाः पूर्ववृत्ता वक्तव्या । अपि च नित्यानित्यवस्तुनिवेकादयश्च मीमांसाश्रवणमन्तरेण न सम्पत्स्यन्ते, फलकरणेतिकर्तव्यताधिकारि-विशेषनिश्चयादृते कर्मस्वरूपतत्फलतत्स्थिरत्वास्थिरत्वात्मनित्यत्वादीनां दुरवबोधत्वात् । एषां साधनत्वं च विनियोगावसेयम् । विनियोगश्च श्रुतिलिङ्गादिभ्यः । स च तार्तीयः । उद्गीथाद्युपासनानि कर्मसमृद्धयर्थान्यपि ब्रह्मदृष्टिरूपाणि, ब्रह्मज्ञानापेक्षाणीति इहैव चिन्तनीयानि । तान्यपि कर्माण्यनभिसंहितफलानि ब्रह्मविद्यो-त्पादकानीति तत्साद्गुण्यापादनान्येतानि सुतरामिहैव सङ्गतानि । तेषां च कर्मस्वरूपाधिगमापेक्षा सर्वसम्मता ।

महापूर्वपक्षः । यदप्याहुः-अशेषविशेषप्रत्यनीकचिन्मात्रं ब्रह्मैव परमार्थः, तदतिरेकिनानाविधज्ञातृ-

ज्ञेयतत्कृतज्ञानभेदादि सर्वं तस्मिन्नेव परिकल्पितं मिथ्याभूतं "सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्" अथ परा यया तदक्षरमधिगम्यते-यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुः श्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः" "सत्यं ज्ञानमनन्तं ब्रह्म" "निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्" यस्याऽमतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातमविजानताम्" न दृष्टेर्द्रष्टारं पश्येः-न मतेर्मन्तारं मन्वीथाः" "आनन्दो ब्रह्म" "इदं सर्वं यदयमात्मा" नेह नानास्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति" यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्तत्केन कं विजानीयात्" "वाचारम्भणं विकारो नादेयं मृत्तिकेत्येव सत्यम्" "यदा ह्येवैष एतस्मिन्नुदर-मन्तरं कुरुते अथ तस्य भयं भवति" "न स्थानतोपि परस्योभयलिङ्गं सर्वत्र हि" "मायामात्रं तु कार्त्स्न्#ेनान-भिव्यक्तस्वरूपत्वात्" प्रत्यस्तमितभेदं यत् सत्तामात्रमगोचरम् । वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्मसंज्ञितम् । ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः । तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् । "परमार्थस्त्वमेवैको नान्योस्ति जगतः पते" यदेतद्दृश्यते मूर्तमेतज्ज्ञानात्मनस्तव । भ्रान्तिज्ञानेन पश्यन्ति जगद्रूपमयोगिनः । ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः । अर्थस्वरूपं पश्यन्तो भ्राम्यन्तो मोहसंप्लवे । ये तु ज्ञानविदः शुद्धचेतस-स्तेऽखिलं जगत् । ज्ञानात्मकं

प्रपश्यन्ति त्वद्रूपं परमेश्वर । तस्यात्मपरदेहेषु सतोऽप्येकमयं हि यत् । विज्ञानं परमार्थो हि द्वैतिनोऽतथ्यदर्शिनः । यद्यन्योस्ति परः कोपि मत्तः पार्थिवसत्तम । तदैषोहमयं चान्यो वक्तुमेव मपीष्यते । "वेणुरन्ध्रविभेदेन भेदः षड्जादिसंज्ञितः । अभेदव्यापिनो वायोस्तथासौ परमात्मनः । सोऽहं स च त्वं स च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम् । इतीरितस्तेन स राजवर्यस्तत्याज भेदं परमार्थदृष्टिः । विभेदजनके-ऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणोभेदमसन्तं कः करिष्यति । "अहमात्मा गुडाकेशसर्वभूताश-यस्थितः" "क्षेत्रयं चापि मां विद्धि सर्वक्षेत्रेषु भारत" "न तदस्ति विना यत्स्यान्मया भूतं चराचरम्" इत्यादि-भिर्वस्तुस्वरूपोपदेशपरैः शास्त्रैः-निर्विशेषचिन्मात्रं ब्रह्मैव सत्यमन्यत्सर्वं मिथ्या-इत्यभिधानात् । मिथ्यात्वं नाम-प्रतीयमानत्वपूर्वकयथावस्थितवस्तुज्ञाननिवत्त्यर्त्वम्, यथा-रज्ज्वाद्यधिष्ठान सर्पादेः । दोषवशाद्धि तत्र तत्कल्पनम् । एवं चिन्मात्रवपुषि परे ब्रह्माणि दोषपरिकल्पितमिदं देवतिर्यङ्मनुष्यस्तावरादिभेदं सर्वं जगद्यथा-वस्थितब्रह्मस्वरूपाववोधबाध्यं मिथ्यारूपम् । दोषश्च स्वरूपतिरोधानविविधविचित्रविक्षेपकरी सदसदनिर्व-चनीया अनाद्यविद्या । "अनृतेन हि प्रत्यूढाः" "तेषां सत्यानां सतामनृतमपिघानम्" "नासदासीन्नो सदासी-त्तदानीं तम आसीत्तमसा गूढमग्रे प्रकेतम्" "मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्" "इन्द्रो मायाभिः पुरुरूप ईयते" "मम माया दुरत्यया" "अनादिमायया सुप्तो यदा जीवः प्रबुद्धयते" इत्यादिभिर्निविर्शेषचिन्मात्रं ब्रह्मैवा-नाद्यविद्यया सदसदनिर्वाच्यया तिरोहितस्वरूपं स्वगतनानात्वं पश्यतीत्यवगम्यते । यथोक्तम्-"ज्ञानस्वरूपो भगवान् यतोऽसावशेषमूर्तिर्न तु वस्तुभूतः । ततो हि शैलाब्धिधरादिभेदान् जानीहि विज्ञानविजृम्भितानि । यदा तु शुद्धं निजरूपि सर्वकर्मक्षये ज्ञानमपास्तदोषम् । तदा हि सङ्कल्पतरोः फलानि भवन्ति नो वस्तुषु वस्तुभेदाः । "तस्मान्न विज्ञानमृतेऽस्ति किञ्चित् कदाचिद्द्विज वस्तुजातम् । विज्ञानमेकं निजकर्मभेदविभिन्न-चित्तैर्बहुधाऽभ्युपेतम् । ज्ञानं विशुद्धं विमलं विशोकमशेषलोभादिनिरस्तसङ्गम् । एकं सदैकं परमः परेशः स वासुदेवो न यतोऽन्यदस्ति । सद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यत् । एतत्तु यत् संव्यव-हारभूतं तत्रापि चोक्तं भुवनाश्रितं ते" इति । अस्याश्चाविद्याया निर्विशेषचिन्मात्रब्रह्मात्मैकत्वविज्ञानेन निवृतिं्त वदन्ति "न पुनर्मृत्यवे तदेकं पश्यति न पश्यो मृत्युं पश्यति" यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनि-

लयनेऽभयं प्रतिष्ठां विन्दते अथ सोऽभयङ्गतो भवति" "भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे" । "ब्रह्म वेद ब्रह्मैव मवति" तमेवं विदित्वातिमृत्युमेति नान्यः पन्थाः" इत्याद्यायाः श्रुतयः । अत्र मृत्युशब्देनाविद्याऽभिधीयते । यथा सनत्सुजातवचनम् -"प्रमादं वै मृत्युमहं ब्रवीमि सदाऽप्र-मादममृतत्वं ब्रवीमि" इति । "सत्यं ज्ञानमनन्तं ब्रह्म" "विमानमानन्दं ब्रह्म" इत्यादिशोधकवाक्यावसेयनि-र्विशेषस्वरूपब्रह्मात्मैकत्वविज्ञानञ्च "अथ योऽन्यां देवतामुपास्ते ऽन्यो ऽसावन्यो ऽहमस्तीति न स वेद" "अकृत्स्नो ह्येष आत्मेत्येवोपासीत" तत्त्वमसि-"त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते तद्योऽहं सोऽसौ योऽसौ सोऽहमस्मि" इत्यादिवाक्यसिद्धम् । वक्ष्यति चैतदेव-"आत्मेति तूपगच्छन्ति ग्राहयन्ति च" इति । तथा च वाक्यकारः "आत्मेत्येव तु गृह्णीयात् सर्वस्य तन्निष्पत्तेः" इति । अनेन च ब्रह्मात्मैकत्ववि-ज्ञानेन मिथ्यारूपस्य सकारणस्य बन्धस्य निवृत्तिर्युक्ता । ननु च सकलभेदविवृत्तिः प्रत्यक्षविरुद्धा कथमिव शास्त्रजन्यविज्ञानेन क्रियते? कथं वा "रज्जुरेषा न सर्प" इति ज्ञानेन प्रत्यक्षविरुद्धा सर्पनिवृत्तिः क्रियते ? तत्र द्वयोः प्रत्यक्षयोर्विरोधः, इह तु प्रत्यक्षमूलस्य शास्त्रस्य प्रत्यक्षस्य चेति चेत्; तुल्ययोर्विरोधे वा कथं बाध्यबाधकभावः ? पूर्वोत्तरयोर्दुष्टकारणजन्यत्वतदभावाभ्यामिति चेत्; शास्त्रप्रत्यक्षयोरपि समानमेतत् । एतदुक्तं भवति-बाध्य-बाधकभावे तुल्यत्वसापेक्षत्वनिरपेक्षत्वादि न कारणम्, ज्वालाभेदानुमानेन प्रत्यक्षोपमर्द्दायोगात् । तत्र हि ज्वालैक्यं प्रत्यक्षेणावगम्यते । एवञ्च-सति द्वयोः प्रमाणयोर्विरोधे यत्सम्भाव्यमानान्यथासिद्धि, तद्वाध्यम्; अनन्यतासिद्धमनवकाशमितरद्बाधकमिति सर्वत्र बाध्यबाधकभावनिर्णय इति । तस्मादनादिनिधनाविच्छि-न्नसंप्रदायासम्भाव्यमानदोषगन्धानवकाशशास्त्रजन्यनिर्विशेषनित्यशुद्धमुक्तबुद्धस्वप्रकाशचिन्मात्रब्रह्मात्म-भावावबोधेन सम्भाव्यमानदोषसावकाशप्रत्यक्षादिसिद्धविविध विकल्परूपबन्धनिवृत्तिर्युक्तैव । सम्भाव्यते च विविधविकल्पभेदप्रपञ्चग्राहिप्रत्यक्षस्यानादिभेदवासनादिरूपाविद्याख्यो दोषः । ननु अनादिनिधनाविच्छिन्न-सम्प्रदायतया निर्दोषस्यापि शास्त्रस्य "ज्योतिष्टोमेन स्वर्गकामो यजेत" इत्येवमादेर्भेदावलम्बिनो बाध्यत्वं प्रसज्येत । सत्यम्;-पूर्वापरापच्छेदे पूर्वशास्त्रवन्मोक्षशास्त्रस्य निरवकाशत्वात्तेन बाध्यत एव । वेदान्तवाक्येष्वपि सगुणब्रह्मोपासनपराणां शास्त्राणामयमेव न्यायः, निर्गुणत्वात्परस्य ब्रह्मणः । ननु च "यः सर्वज्ञः सर्ववित्" "परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" "सत्यकामः सत्यसङ्कल्पः" इत्यादिब्रह्मस्वरूप-प्रतिपादनपराणां शास्त्राणां कथं बाध्यत्वम् ? निगुर्णवाक्यसामर्थ्यादिति

ब्रूमः । एतदुक्तं भवति "अस्थूल-मनण्वह्वस्वमदीर्घम्" सत्यं ज्ञानमनन्तं ब्रह्म "निर्गुणं निरञ्जनम्" इत्यादिवाक्यानि निरस्तसमस्तविशेषकूट-स्थनित्यचैतन्यं ब्रह्मेति प्रतिपादयन्ति; इतराणि च सगुणम् । उभयविधवाक्यानां विरोधे तेनैवापच्छेदन्यायेन निर्गुणवाक्यानां गुणापेक्षत्वेन परत्वाद्बलीयस्त्वमिति न किञ्चिदपहीनम् । ननु च "सत्यं ज्ञानमनन्तं ब्रह्मे" त्यत्र सत्यमानादयो गुणाः प्रतीयन्ते । नेत्युच्यते, सामानाधिकरण्येनैकार्थत्वप्रतीतेः । अनेकगुणविशिष्टाभिधाने-ऽप्येकार्थत्वमविरुद्धम्-इति चेत्; अनभिधानज्ञो देवानां प्रियः । एकाथर्त्वं नाम-सर्वपदानामर्थैक्यम्; विशि-ष्टपदार्थाभिधाने विशेषणभेदेन पदानामर्थभेदोऽवर्ज्जनीयः; ततश्चैकार्थत्वं न सिद्धयति । एवं तर्हि सर्वपदानां पर्यायता स्यात्, अविशिष्टार्थाभिधायित्वात् । एकार्थमभिधायित्वेऽपि अपर्यायत्वमवहितमनाः #ृणु; एक-

त्वतात्पर्यनिश्चयादेकस्यैवार्थस्य तत्तत्पदार्थविरोधिप्रत्यनीकत्वपरत्वेन सर्वपदानामर्थवत्त्वमेकार्थत्वमपर्यायता च । एतदुक्तं भवति-लक्षणतः प्रतिपत्तव्यं ब्रह्म सकलेतरपदार्थविरोधिरूपम् । तद्विरोधिरूपं सर्वमनेन पदत्रयेण फलतो व्युदस्यते । तत्र सत्यपदं विकारास्पदत्वेनामेकस्यैव वस्तुनः सकलेतरविरोध्याकारतामवगमयदर्थवत्तर-

1.1.1

तस्मादेकमेव ब्रह्म स्वयंज्योतिर्निर्धूतनिखिलविशेषमित्युक्तं भवति । एवं वाक्यार्थप्रतिपादने सत्येव "सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्" इत्यादिभिरैकार्थ्यम् । "यतो वा इमानि भूतानि जायन्ते" "सदेव सोम्ये-दमग्र आसीत्" "आत्मा वा इदमेक एवाग्र आसीत्" इत्यादिभिर्ज्जगत्कारणतयोपलक्षितस्य ब्रह्मणः स्वरूप-मिदमुच्यते - सत्यं ज्ञानमनन्तं ब्रह्मेति#े ।। तत्र सर्वशाखाप्रत्ययन्यायेन कारणवाक्येषु सर्वेषु सजातीयविजा-तीयव्यावृत्तमद्वितीयं ब्रह्मावगतम्, जगत्कारणतयोपलक्षितस्य ब्रह्मणोऽद्वितीयस्य प्रतिपिपादयिषितं स्वरूपं तदविरोधेन वक्तव्यम् । अद्वितीयत्वश्रुतिर्गुणतोऽपि सद्वितीयतां न सहते । अन्यथा "निरञ्जनम् "निर्गुण"मि-त्यादिभिश्च विरोधः, अतश्चैतल्लक्षणवाक्यमखण्डैकरसमेव प्रतिपादयति ।।

ननु च-सत्यज्ञानादिपदानां स्वार्थप्रहाणेन स्वार्थविरोधिव्यावृत्तवस्तुस्वरूपोपस्थापनपरत्वे लक्षणा स्यात् । नैष दोषः, अभिधानवृत्तेरपि तात्पर्यवृत्तेबलीयस्त्वात् । सामानाधिकरण्यस्य ह्यैक्य एव तात्पयर्मिति सर्वसम्मतम् ।। ननु च सर्वपदानां लक्षणा न दृष्टचरी ।। ततः किम्? वाक्यतात्पर्याविरोधे सत्येकस्यापि न दृष्टा । समभिव्याहृतपदसमुदायस्यैतत्तात्पर्यमिति निश्चिते सति, द्वयोस्त्रयाणां सर्वेषां वा तदविरोधाय एक- स्येव लक्षणा न दोषाय । तथा च शास्त्रस्थैरभ्यपगम्यते । कायर्वाक्यार्थवादिभिर्लौकिकवाक्येषु सर्वेषां पदानां लक्षणा समाश्रीयते । अपूर्वकार्य एव लिङ्गदेर्मुख्यवृत्तत्वात् लिङादिभिः क्रियाकार्यं लक्षणया प्रतिपाद्यते । कार्यान्वितस्वार्थाभिधायिनाञ्चेतरेषां पदानामपूर्वकार्यान्वित एव मुख्यार्थ इति क्रियाकायाÐन्दतप्रतिपादनं लाक्षणिकमेव ।।

अतो वाक्यतात्पर्याविरोधाय सर्वपदानां लक्षणापि न दोषः ।

अत इदमेवार्थजातं प्रतिपादयन्तो वेदान्ताः प्रमाणम् ।।

प्रत्यक्षादिविरोधे च शास्त्रस्य बलीयस्त्वमुक्तम् । सति च विरोधे बलीयस्त्वं वक्तव्यम्; विरोध एव न दृश्यते; निर्विशेषसन्मात्रब्रह्मग्राहित्वात्प्रत्यक्षस्य । ननु च घटोऽस्ति पटोऽस्तीति नानाकारवस्तुविषयं प्रत्यक्षं कथमिव सन्मात्रग्राहीत्युच्यते । विलक्षणग्रहणाभावे सति सर्वेषां ज्ञानानामेकविषयत्वेन धारावाहि-कविज्ञानवदेकव्यवहारहेतुतैव स्यात् । सत्यम्; तथैवात्र विविच्यते ।।

कथम्? ।। घटोऽस्तीत्यत्रास्तित्वं तद्भेदश्च व्यवह्रियते । न च द्वयोरपि व्यवहारयोः प्रत्यक्षमूलत्वं सम्भवति, तयोर्भिन्नकालज्ञानफलत्वात्; प्रत्यक्षज्ञानस्य चैकक्षणवर्त्तित्वात् । तत्र स्वरूपं वा भेदो वा प्रत्य- क्षस्य विषय इति विवेचनीयम् । भेदग्रहणस्य स्वरूपग्रहणतत्प्रतियोगिस्मरणसव्यपेक्षत्वादेव स्वरूपविषय-त्वमवश्याश्रयणीयमिति न भेद: प्रत्यक्षेण गृह्यते । अतो भ्रान्तिमूल एव भेदव्यवहारः ।।

किञ्च-भेदो नाम कश्चित् पदार्थो न्यायविद्भिर्निरूपयितुं न शक्यते । भेदस्तावन्न वस्तुस्वरूपम्, वस्तुस्वरूपे गृहीते स्वरूपव्यवहारवत् सर्वस्माद्भेदव्यवहारप्रसक्तेः । न च वाच्यम्-स्वरूपे गृहीतेऽपि भिन्न इति व्यवहारस्य, प्रतियोगिस्मरणसव्यपेक्षत्वात्, तत्स्मरणाभावेन तदानीमेव न भेदव्यवहारः- इति । स्व- रूपमात्रभेदवादिनो हि प्रतियोग्यपेक्षा च नोत्प्रेक्षितुं क्षमा; स्वरूपभेदयोः स्वपरूत्वाविशेषात् । यथा स्वरूप-व्यवहारो न प्रतियोग्यपेक्षः, भेदव्यवहारोऽपि तथैव स्यात् । हस्तः करः इतिवत्, घटः, भिन्न इति पर्यायत्वञ्च स्यात् । नापि धर्मः । धर्मत्वे सति तस्य स्वरूपाद्भेदोऽवश्याश्रयणीयः । अन्यथा स्वरूपमेव स्यात् । भेदे च, तस्यापि भेदस्तद्धर्मः, तस्यापीत्यनवस्था ।

किञ्च-जात्यादिविशिष्टवस्तुग्रहणे सति भेदग्रहणम्, भेदग्रहणे सति जात्यादि-विशिष्टवस्तुग्रहणमिति अन्योन्याश्रयणम् ।

अतो भेदस्य दुनिर्रूपत्वात् सन्मात्रस्यैवन्प्रकाशकं प्रत्यक्षम् ।।

किञ्च-घटोऽस्ति पटोस्ति, घटोऽनुभूयते पटोऽनुभूयत इति सर्वे पदार्थाः सत्तानुभूतिघटिता एव दृश्य-न्ते । अत्र सर्वासु प्रतिपत्तिषु सन्मात्रमनुवर्त्तमानं दृश्यत इति तदेव परमार्थः । विशेषास्तु व्यावर्त्तमानतया अपरमार्थाः, रज्जुसर्पादिवत् । यथारज्जुरधिष्ठानतया अनुवर्तमाना परमार्थसती; व्यावर्त्तमानास्सर्पभूदल-नाम्बुधारादयोऽपर-मार्थाः । ननु च रज्जुसर्पादौ रज्जुरियं न सर्प इत्यादिरज्वाद्यधिष्ठानयाथार्थ्यज्ञानेन बाधि-तत्वात् सर्प्पादेरपारमार्थ्यम्, न व्यावर्तमानत्वात् । रज्जवादेरपि पारमार्थ्यं नानुवर्तमानतया, किन्त्वबाधि-तत्वात् । अत्र तु घटादीनामबाधितानां कथमपारमार्थ्यम्?

उच्यते । घटादौ दृष्टा व्यावृत्तिः । सा किं रूपेति विवेचनीयम् । किं घटोऽस्तीत्यत्र पटाद्यभावः? सिद्धं तर्हि घटोस्तीत्यनेन पटादीनां बाधितत्वम् । अतो बाधफलभूता विषयनिवृत्तिर्व्यावृत्तिः । सा व्या-वर्त्तमानानामपारमार्थ्यं साधयति । रज्जुवत् सन्मात्रमबाधितमनुवर्तते । तस्मात् सन्मात्रातिरेकि सर्वमपर- मार्थः । प्रयोगश्च भवति-सत् परमार्थः, अनुवर्त्तमानत्वात्, रज्जुसर्प्पादौ रज्वादिवत्, घटादयोऽपरमार्थाः व्यावर्त्तमानत्वात्, रज्वाद्यधिष्ठानसर्प्पादिवदिति । एवंसत्यनुवर्त्तमानाऽनुभूतिरेव परमार्थः, सैव सती ।। ननु च-सन्मात्रमनुभूतेर्विषयतया ततो भिन्नम् ।। नैवम् । भेदो हि प्रत्यक्षाविषयत्वात् दुनिरूपत्वाच्च पुरस्ता- देव निरस्तः । अत एव सतोऽनुभूतिविषयभावोऽपि न प्रमाणपदवीमनुसरति; तस्मात् सत् अनुभूतिरेव ।। सा च स्वतः सिद्धा; अनुभूतित्वात् । अन्यतः सिद्धौ घटादिवदननुभूतित्वप्रसङ्गः । किञ्च अनुभवापेक्षा चानु-भूतेर्न शक्या कल्पयितुम्, सत्तयैव प्रकाशमानत्वात् । न ह्यनुभूतिर्वर्त्तमाना घटादिवदप्रकाशा दृश्यते, येन परायत्त प्रकाशाऽभ्युपगम्यते ।।

अथैवं मनुषे-उत्पन्नायामप्यनु भूतौ विषयमात्रमवभासते, घटोऽनुभूयत इति, न हि कश्चित् घटो-ऽयमिति जानन् तदानीमेवाविषयभूतामनिदम्भावामनुभूतिमप्यनुभवति । तस्माद्घटादिप्रकाशनिष्पत्तौ चक्षुरादिकरणसंनिकर्षवत् अनुभूतेः सद्भाव एव हेतुः तदनन्तरमर्थगतकादाचित्कप्रकाशातिशयलिङ्गेनानु-भूतिरनुमीयते । एवं तर्ह्यनुभूतेरजडाया अर्थवत् जडत्वमापद्यत इति चेत्-किमिदमजडत्वं नाम? न तावत् स्वसत्तायाः प्रकाशाव्यभिचारः, सुखादिष्वपि तत्सम्भवात् । न हि कदाचिदपि सुखादयः सन्तो नोपलभ्य- न्ते । अतोऽनुभूतिः स्वयमेव नानुभूयते, अर्थान्तरं स्पृशतोऽङ्गुल्यग्रस्य स्वात्मस्पर्शवदशक्यत्वादिति ।। तदिदमनाकलितानुभवविभवस्य स्वमतिविजृम्भितम्, अनुभूतिव्यतिरेकिणो विषयधर्मस्य प्रकाशस्य रूपादिवत् अनुपलब्धेः; उभयाभ्युपेतानुभूत्यैवाशेषव्यवहारोपपत्तौ प्रकाशाख्यधर्मकल्पनानुपपत्तेश्च । अतो नानुभूतिरनुमीयते । नापि ज्ञानान्तरसिद्धा ।

अपि तु सर्वं साधयन्ती अनुभूतिः स्वयमेव सिद्धयति ।

प्रयोगश्च-अनुभूतिरनन्याधीनस्वधर्मव्यवहारा, स्वसम्बन्धादर्थान्तरे तद्धर्मव्यवहारहेतुत्वात् । यः स्वसंबन्धादर्थान्तरे यद्धर्मव्यवहारहेतुः स तयोः स्वस्मिन्ननन्याधीनो दृष्टः, यथा रूपादिश्चाक्षुषत्वादौ । रूपा-दिर्हि पृथिव्यादौ स्वसम्बन्धात् चाक्षुषत्वादि जनयन्, स्वस्मिन् न रूपादिसम्बन्धाधीनश्चाक्षुषत्वादौ; अतो-ऽनुभूतिरात्मनः प्रकाशमानत्वे प्रकाशत इति व्यवहारे च स्वयभेव हेतुः ।

सेयं स्वयंप्रकाशानुभूतिर्न्नित्या च, प्रागभावाद्यभावात् । तदभावश्च स्वतस्सिद्धत्वादेव । नह्यनुभूतेः स्वतस्सिद्धायाः प्रागभावः स्वतोऽन्यतो वाऽवगन्तुं शक्यते । अनुभूतिः स्वाभावमवगमयन्ती, सती तावन्ना-

वगमयति । तस्याः सत्त्वे विरोधादेव तदभावो नास्तीति कथं सा स्वाभावमवगमयति? एवमसत्यपि नाव-गमयति; अनुभूतिः स्वयमसती स्वाभावे कथं प्रमाणं भवेत्? नाप्यन्यतोऽवगन्तुं शक्यते; अनुभूतेरनन्यगो-चरत्वात् । अस्याः प्रागभावं साधयत् प्रमाणम् "अनुभूति इयमि (अनुभूतिरियमि)ति विषयीकृत्य तदभावं साधयेत् । स्वतस्सिद्धत्वेन इयमिति विषयीकारानर्हत्वात्, न तत्प्रागभावो अन्यतः शक्यावगमः । अतोऽस्याः प्रागभावाभावादुत्पत्तिर्न्न शक्यते वक्तुम् इत्युत्पत्तिप्रतिबद्धाश्चान्येऽपि भावविकारास्तस्यान सन्ति ।।

अनुत्पन्नेयमनुभूतिरात्मनि नानात्वमपि न सहते; व्यापकविरुद्धोपलब्धेः । न ह्यनुत्पन्नं नानाभूतं दृष्टम् । भेदादीनामनुभाव्यत्वेन च रूपादेरिवानुभूतिधर्मत्वं न सम्भवति । अतोऽनुभूतेरनुभवस्वरूपत्वादेवा-न्योपि कश्चिदनुभाव्यो नास्या धर्मः ।

यतो निर्धूतनिखिलभेदा संवित् । अत एव नास्याः स्वरुपातिरिक्त आश्रयो ज्ञाता नाम कश्चिदस्तीति स्वप्रकाशरूपा सैवात्मा । अजडत्वाच्च । अनात्मत्वव्याप्तं जडत्वं संविदि व्यावर्त्तमानम् अनात्मत्वमपि हि संविदो व्यावर्त्तयति ।।

ननु च-अहं जानामीति ज्ञातृता प्रतीतिसिद्धा ।। नैवम्; सा भ्रान्तिसिद्धा, रजततेव शुक्तिशकलस्य, अनुभूतेः स्वात्मनि कर्तृत्वायोगात् । अतो मनुष्योऽहमित्यत्यन्तबहिर्भूतमनुष्यत्वादिविशिष्टपिण्डात्माभि मानवज्ज्ञातृत्वमप्यध्यस्तम् । ज्ञातृत्वं हि ज्ञानक्रियाकर्तृत्वम् । तच्च विक्रियात्मकं जडं विकारिद्रव्याहङ्कारग्र-न्थिस्थमविक्रिये साक्षिणि चिन्मात्रात्मनि कथमिव सम्भवति? दृश्टधीनधिद्धित्वादेव रूपादेरिव कर्तृत्वो-देर्नात्मधर्मत्वम् । सुषुप्तिमूर्च्छादावहंप्रत्ययापायेऽप्यात्मानुभव दर्शनेन नात्मनोऽहंप्रत्ययगोचरत्वम् । कर्तृत्वे अहं प्रत्ययगोचरत्वे च आत्मनोऽभ्युपगम्यमाने देहस्येव जडत्वपराक्तवानात्मत्वादिप्रसङ्गो दुष्परिहरः । अहंप्रत्ययगोचरात् कर्तृतया प्रसिद्धात् देहात् तत्क्रियाफलस्वर्गादेर्भोक्तुरात्मनोऽन्यत्वं प्रामाणिकानां प्रसि-द्धमेव; तथाऽहमर्थात् ज्ञातुरपि विलक्षणः साक्षी प्रत्यगात्मेति प्रतिपत्तव्यम् ।

एवमविक्रियानुभवस्वरूपस्यैवाभिव्यञ्जको जडोऽप्यहङ्कारः स्वाश्रयता तमभिव्यनक्ति । आत्मस्थ- तया अभिव्यङ्गयाभिव्यञ्जनमभिव्यञ्जकानां स्वभावः । दर्पण-जल-खण्डादिर्हि मुखचन्द्रबिम्बगोत्वादिकमा-त्मस्थतयाऽभिव्यनक्ति । तत्कृतोऽयं जानाम्यहमिति भ्रमः । स्वप्रकाशाया अनुभूतेः कथमिव तदभिव्यङ्गय-जडरूपाहङ्कारेणाभिव्यङ्गयत्वमिति मा वोचः; रविकरपिकराभिव्यङ्गयकरतलस्य तदभिव्यञ्जकत्वदर्शनात् । जालकरन्ध्रनिष्क्रान्तद्युमणिकिरणानां तदभिव्यङ्गयेनापि करतलेन स्फुटतरप्रकाशो हि दृष्टचरः ।

यतः, अहं जानामीति ज्ञाताऽयमहमर्थः चिन्मात्रात्मनो न पारमार्थिको धर्मः, अत एव सुषुप्तिमुक्त्यो-र्नान्वेति । तत्र ह्यहमर्थोल्लेखविगमेन स्वाभाविकानुभवमात्ररूपेणात्माऽवभासते । अत एव (च) सुप्तोत्थितः कदाचित्, मामप्यहं न ज्ञातवानिति परमृशति ।

तस्मात् परमथर्तो निरस्तसमस्तभेदविकल्पनिर्विशेषचिन्मात्रैकरसकूटस्थनित्यसंविदेव भ्रान्त्या ज्ञातृज्ञेयज्ञानरूपविविधविचित्रभेदा विवर्त्तत इति तन्मूलताऽविद्यानिबर्हमणाय नित्शुद्धमुक्तस्वभावब्रह्मा-त्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते-इति ।।

तदिदमौपनिषदपरमपुरुषवरणीयताहेतुगुणविशेषविरहिणाम् अनादिपापवावसनादूषिताशेषशेमु-षीकाणाम् अनधिगतपदवाक्यस्वरूपतदर्थयाथात्म्य-प्रत्यक्षादिसकलप्रमाण-वृत्त-तदितिकर्त्तव्यतारूपसमी-चीनन्यायमार्गाणां विकल्पासहविविधकुतर्ककल्ककल्पितमिति न्यायानुगृहीतप्रत्यक्षादिसकलप्रमाणवृत्तया-

थात्म्यविद्भिरनादरणीयम् ।। तथा हि-

निर्विशेषवस्तुवादिभिर्निर्विशेषे वस्तुनीदं प्रमाणमिति न शक्यते वक्तुम्; सविशेषवस्तुविषयत्वात् सर्वप्रमाणानाम् । यस्तु स्वानुभवसिद्ध इति स्वगोष्ठीनिष्ठः समयः, सोऽप्यात्मसाक्षिकसविशेषानुभवादेव निरस्तः । इदमहमदर्शमिति केनचिद्विशेषेण विशिष्टविषयत्वात् सर्वेषामनु#ुभवानाम् ।

सविशेषोऽप्यनुभूयमानौऽनुभवः केनचित् युकत्याभासेन निर्विशेष इति निष्कृष्यमाणः सत्तातिरे-किभिः स्वासाधारणैः स्वभावाविशेषैर्निष्क्रष्टव्य इति निष्कर्षहेतुभूतैः सत्तातिरेकिभिः स्वासाधारणैः स्वभा-वविशेषैः सविशेष एवावतिष्ठते । अतः कैश्चिद्विशेषैर्विशिष्टस्यैव वस्तुनोऽन्ये विशेषा निरस्यन्त इति न क्कचिन्निर्विशेषवस्तुसिद्धिः । धियो हि धीत्वं स्वप्रकाशता च ज्ञातुर्विषयप्रकाशनस्वभावतयोपलब्धेः ।

स्वापमदमूर्च्छासु च सविशेष एवानुभव इति स्वावसरे निपुणतरमुपपादयिष्यामः । स्वाभ्युपगताश्च नित्यत्वादयो ह्यनेके विशेषाः सन्त्येव । ते च न वस्तुमात्रमिति शक्योपपादनाः; वस्तुमात्राभ्युपगमे सत्यपि विधाभेदविवाददर्शनात् स्वाभिमततद्विधाभेददैश्च स्वमतोपपादनात् । अतः प्रामाणिकविशेषे#ैर्विशिष्टमेव वस्त्वि-ति वक्तव्यम् ।।

शब्दस्य तु विशेषेण सविशेष एव वस्तुन्यभिधानसामर्थ्यम्; पदवाक्यरूपेण प्रवृत्तेः । प्रकृतिप्रत्यय-योगेन हि पदत्वम् । प्रकृतिप्रत्यययोरर्थभेदेन पदस्यैव विशिष्टार्थ प्रतिपादनमवर्जनीयम् । पदभेदश्चार्थभेदनिब-न्धनः ।पदसङ्घातरूपस्य वाक्यस्यानेकपदार्थसंसर्गविशेषाभिधायित्वेन निर्विशेषवस्तुप्रतिपादनासामर्थ्थात् न निर्विशेपवस्तुनि शब्दः प्रमाणम् ।।

प्रत्यक्षस्य निर्विकल्पकसविकल्पकभेदमिन्नस्य न निर्विशेषवस्तुनि प्रमाणभावः । सविकल्पकं जात्या-द्यनेकपदार्थविशिष्टविषयत्वादेव सविशेषविषयम् । निर्विकल्पकमपि सविशेषविषयमेव; सविकल्पके, स्व-स्मिन्ननुभूतपदार्थविशिष्टप्रतिसन्धानहेतुत्वात् । निर्विकल्पकं नाम केनचिद्विशेषेण वियुक्तस्य ग्रहणम्, न

सर्वविशेषरहितस्य; तथाभूतस्य कदाचिदपि ग्रहणादर्शनात्,अनुपपत्तेश्च । केनचिद्विशेषेणे इदमित्थमिति हि सर्वा प्रतीतिरुपजायते । त्रिकोणसास्त्रादिसंस्थानविशेषेण विना कस्यचिदपि पदार्थस्य ग्रहणायोगात् । अतो निर्विकल्पकमेकजातीयद्रव्येषु प्रथमपिण्डग्रहणम् । द्वितीयादिपिण्डग्रहणं सविकल्पकमित्युच्यते । तत्र प्रथम-पिण्डग्रहणे गोत्वादेरनुवृत्ताकारता न प्रतीयते । द्वितीयादिपिण्डग्रहणेष्वेवानुवृत्तिप्रतीतिः । प्रथमप्रतीत्यनु-संहितवस्तुसंस्थान रूपगोत्वादेरनुवृत्तिधर्मविशिष्टत्वं द्वितीयादिपिण्डग्रहणावसेयमिति, द्वितीयादिग्रहणस्य सविकल्पकत्वम् । सास्त्रा दिवस्तुसंस्थानरूपगोत्वेदेरनुवृत्तिर्न प्रथमपिण्डग्रहणे गृह्यते इति, प्रथमपिण्डग्रहण-स्य निर्विकल्पकत्वम्; न पुनः संस्थानरूपजात्यादेरग्रहणात् । संस्थानरूजात्यादेरपि ऐन्द्रियिकत्वाविशेषात्, संस्थानेन विना संस्थानिनः प्रतीत्यनुपपत्तेश्च प्रथमपिण्डग्रहणेऽपि ससंस्थानमेव वस्तु इत्थमिति गृह्यते । अतो द्वितीयादिपिण्डग्रहणेषु गोत्वादेरनुवृत्तिधर्मविशिष्टता संस्थानिवत् संस्थानवच्च सर्वदैव गृह्यत इति तेषु सविकल्पकत्वमेव ।

अतः प्रत्यक्षस्य कदाचिदपि न निर्विशेषविषयत्वम् ।

अत एव सर्वत्र भिन्नाभिन्नत्वमपि निरस्तम् । इदमित्थमिति प्रतीतौ इदमित्थम्भावयोरैक्यं कथमिव प्रत्येतुं शक्यते? तत्रेत्थम्भावः सास्त्रादिसंस्थानविशेषः, तद्विशेष्यं द्रव्यमिदमंशः इत्यनयोरैक्यं प्रतीतिपराह-तमेव । तथाहि-प्रथममेव वस्तु प्रतीयमानं सकलेतरव्यावृत्तमेव प्रतीयते । व्यावृत्तिश्च गोत्वादिसंस्थानविशेष-

विशिष्टतयत्थमिति प्रतीतेः । सर्वत्र विशेषणविशेष्यभावप्रतिपत्तौ तयोरत्यन्तभेदः प्रतीत्यैव सुव्यक्तः । तत्र दण्डकुण्डलादयः पृथक्संस्थानसंस्थिताः स्वनिष्ठाश्च कदाचित् क्कचिद्द्रव्यान्तरविशेषणतयावतिष्ठन्ते । गो-त्वादयस्तु द्रव्यसंस्थानतयैव पदार्थभूतास्सन्तो द्रव्यविशेषणतया अवस्थिताः । उभयत्र विशेषणविशेष्यभावः समानः । तत एव तयोर्भेदप्रतिपत्तिश्च । इयांस्तु विशेषः-पृथक्स्थितिप्रतिपत्तियोग्या दण्डादयः, गोत्वादयस्तु नियमेन तदनर्हाः इति । अतो वस्तुविरोधः प्रतीतिपराहत इति प्रतीतिप्रकारनिह्नवादेवोच्यते । प्रतीतिप्रकारो हि इदमित्थमित्येव सर्वसम्मतः । तदेतत् सूत्रकारेण, "नैकस्मिन्नसम्भवात्" इति सुव्यक्तमुपपादितम् ।

अतः प्रत्यक्षस्य सविशेषविषयत्वेन प्रत्यक्षादिदृष्टसम्बन्धविशिष्टविषयत्वादनुमानमपि सविशेषविष-यमेव । प्रमाणसङ्खयाविवादेपि सर्वाभ्युगतप्रमाणानामयमेव विषय इति न केनापि प्रमाणेन निर्विशेषवस्तु-सिद्धिः । वस्तुगतस्वभावविशेषैस्तदेव वस्तु निविर्शेषमिति वदन् जननीवन्ध्यात्वप्रतिज्ञायामिव स्ववाग्विरो-धमपि न जानाति ।।

यत्तु-प्रत्यक्षं सन्मात्रग्राहित्वेन न भेदविषयम्, भेदश्च विकल्पासहत्वाददुर्निरूपः-इत्युक्तम्, तदपि- जात्यादिविशिष्टस्यैव वस्तुनः प्रत्यक्षविषयत्वात् जात्यादेरेव प्रतियोग्यपेक्षया वस्तुनः स्वस्य च भेदव्यवहा-रहेतुत्वाच्च दूरोत्सारितम् । संवेदनवत् रूपादिवच्च परत्र व्यवहारविशेषहेतोः स्वस्मिन्नपि तद्वयवहारहेतुत्वं युष्माभिरभ्युपेतं भेदस्यापि सम्भवत्येव । अत एव च नानवस्थाऽन्योन्याश्रयणञ्च ।

एकक्षणवर्त्तित्वेऽपि प्रत्यक्षज्ञानस्य तस्मिन्नेव क्षणे वस्तुभेदरूपतत्संस्थानरूपगोत्वादेर्गृहीतत्वात् क्षणान्तरग्राह्यं न किञ्चिदिह तिष्ठति ।। अपिच-सन्मात्रग्राहित्वे, घटोऽस्ति पटोऽस्तीति विशिष्टविषया प्रत-#ीतिर्विरुध्यते । यदि च सन्मात्रातिरेकिवस्तुसंस्थानरूपजात्यादिलक्षणो भेदः प्रत्यक्षेण न गृहीतः, किमित्य-श्वार्थी महिषदर्शने निवर्त्तते । सर्वासु प्रतिपत्तिषु सन्मात्रमेव विषयश्चेत्-तत्तत्प्रतिपत्तिविषयसहचारिणः सर्वे शब्दा एकैकप्रतिपत्तिषु किमिति न स्मर्यन्ते । किञ्च अश्वे हस्तिनि च संवेदनयोरेकविषयत्वेनो उपरितनस्य गृहीतग्राहित्वाद्विशेषाभावाच्च स्मृतिवैलक्षण्यं न स्यात् । प्रतिसंवेदनं विशेषाभ्युपगमे प्रत्यक्षस्य विशिष्टार्थ-विषयत्वमेवाभ्युपगतं भवति । सर्वेषां संवेदनानामेकविषयतायामेकेनैव संवेदनेनाशेषग्रहणादन्धबधिराद्य-भावश्च प्रसज्येत । न च चक्षुषा सन्मात्रं गृह्यते, तस्य रूपरूपिरूपैकार्थसमवेतपदार्थग्राहित्वात् । नापि त्वचा, स्पर्शवद्वस्तुविषयत्वात् । श्रोत्रादीन्यपि न सन्मात्रविषयाणि; किन्तु शब्दरसगन्धलक्षणविशेषविष-याण्येव । अतस्सन्मात्रस्य ग्राहकं न किञ्चिदिह दृश्यते । निर्विशेषसन्मात्रस्य प्रत्यक्षेणैव ग्रहणे तद्विषयाग- मस्य प्राप्तविषयत्वेनानुवादकत्वमेव स्यात् । सन्मात्रब्रह्मणः प्रमेयभावश्च । ततो जडत्वनाशित्वादयस्त्वयै-वोक्ताः । अतो वस्तुसंस्तानरूपजात्यादिलक्षणभेदविशिष्टविषयमेव प्रत्यक्षम् । संस्थानातिरेकिणोऽनेकेष्वे-काकारबुद्धिवोध्यस्यादर्शनात्, तावतैव गोत्वादिजातिव्य-वहाररोपपत्तेः । अतिरेकवादेऽपि संस्थानस्य सम्प-#्रतिपन्नत्वाच्च संस्थानमेव जातिः । संस्थानं नाम स्वासाधारणं रूपमिति यथावस्तु संस्थानमनुसन्धेयम् ।

जातिग्रहणेनैव भिन्न इति व्यवहारसम्भवात्, पदार्थान्तरादर्शनात्, अर्थान्तरवादिनाप्यभ्युपगत- त्वाच्च गोत्वादिरेव भेदः । ननु

च-जात्यादिरेव भेदश्चेत् तस्मिन् गृहीते तद्वयवहारवत् भेदव्यवहारः स्यात् ।। सत्यम्, भेदश्च व्यवह्नियत एव, गोत्वादिव्यवहारात् । गोत्वादिरेव हि सकलेतरव्यावृत्तिः, गोत्वादौ गृहीते सकलेतरसजातीयबुद्धिव्यवहारयोर्निवृत्तेः । भेदग्रहणेनैव ह्यभेदनिवृत्तिः । अयमस्माद्भिन्न इति तु व्यवहारे प्रतियोगिनिर्देशस्य तदपेक्षत्वात्प्रतियोग्यपेक्षया भिन्न इति व्यवहार इत्युक्तम् ।।

यत्पुनर्घटादीनां विशेषाणां व्यावर्त्तमानत्वेनापारमार्थ्यमुक्तम्, तत् अनालोचितवाध्यबाधकभाव-व्यावृत्त्यनुवृत्ति विशेषस्य भ्रान्तिपरिकल्पितम् ।। द्वयोर्ज्ञानयोर्विरोधे हि बाध्यबाधकभावः; बाधितस्यैव व्या-वृत्तिः । अत्र घटपटादिषु देशकालभेदेन विरोध एव नास्ति । यस्मिन् देशे यस्मिन् काले यस्य सद्भावः प्रति-पन्नः, तस्मिन् देशे तस्मिन् काले तस्याभावः प्रतिपन्नश्चेत्, तत्र विरोधात् बलवतो बाधकत्वं बाधितस्य च निवृत्तिः । देशान्तरकालान्तरसम्बन्धितयानुभूतस्यान्यदेशकालयोरभावप्रतीतौ न विरोध इति कथमत्र बाध्य-बाधकभावः? अन्यत्र निवृत्तस्यान्यत्र निवृत्तिर्वा कथमुच्यते? रज्जुसर्प्पादिषु तु तद्देशकालसम्बन्धितयैवाभा-वप्रतीतेः विरोधो बाधकत्वं व्यावृत्तिश्चेति देशकालान्तरव्यावत्तर्मानत्वं मिथ्यात्वव्याप्तं न दृष्टमिति न व्यावर्त्तमानत्वमात्रमपारमार्थ्यहेतुः ।

यत्तु-अनुवर्त्तमानत्वात्सत्परमार्थ इति,तत्सिद्धमेवेतिन साधनमर्हति । अतो न सन्मात्रमेव वस्तु ।। अनुभूति-सद्विशेषयोश्च विषयविषयिभावेन भेदस्य प्रत्यक्षसिद्धत्वादबाधितत्वाच्च अनुभूतिरेव सतीत्येतदपि निरस्तम् ।।

यत्त्वनुभूतेः स्वयम्प्रकाशत्वमुक्तम्; तद्विषयप्रकाशनवेलायां ज्ञातुरात्मनस्तथैव; न तु सर्वेषां सर्वदा तथैवेति नियमोऽस्ति, परानुभवस्य हानोपादानादिलिङ्गाकानुमानज्ञानविषयत्वात्, स्वानुभवस्याप्यतीतस्य अज्ञासिषमिति ज्ञानविषयत्वदर्शनाच्च; अतः "अनुभूतिश्चेत्, स्वतस्सिद्धा" इति वक्तुं न शक्यते ।। अनुभूतेर-नुभाव्यत्वे अननुभूतित्वमित्यपि दुरुक्तम्; स्वगतातीतानुभवानां परगतानुभवानाञ्चानुभाव्यत्वेन अननुभू-तित्वप्रसङ्गात् । परानुभवानुमानानभ्युपगमे च शब्दार्थसम्बन्धग्रहणाभावेन समस्तशब्दव्यवहारोच्छेदप्रसङ्गः । आचार्यस्य ज्ञानवत्त्वमनुमाय तदुपसत्तिश्च क्रियते; सा च नोपपद्यते । न चान्यविषयत्वेऽननुभूतित्वम्; अनु-भूतित्वं नाम वर्त्तमानदशायां स्वसत्तयैव स्वाश्रयं प्रति प्रकाशमानत्वं, स्वसत्तयैव स्वविषयसाधनत्वं वा । ते चानुभवान्तरानुभाव्यत्वेऽपि स्वानुभवसद्धे नापगच्छत इति नानुभूतित्वमपगच्छति । घटादेस्त्वननुभूतित्व-मेतत्स्वभावविरहात्; नानुभाव्यत्वात् । तथा अनुभूतेः अननुभाव्यत्वेपि अननुभूतित्वप्रसङ्गो दुर्वारः, गगन-कुसुमादेरननुभाव्यस्याननुभूतित्वात् ।। गगनकुसुमादेरननुभूतित्वमसत्त्वप्रयुक्तम्, नाननुभाव्यत्वप्रयुक्तमिति चेत्-एवं तर्हि घटादेरप्यज्ञानाविरोधित्वमेवाननुभूतित्वनिबन्धनम्, नानुभाव्यत्वमित्यास्थीयताम् । अनुभूते-रनुभाव्यत्वे अज्ञानाविरोधित्वमपि तस्याः घटादेरिव प्रसज्यत इति चेत्-अननुभाव्यत्वेपि गगनकुसुमादेरि-वाज्ञानाविरोधित्वमपि प्रसज्यत एव । अतोऽनुभाव्यत्वेऽननुभूतित्वमित्युपहास्यम् ।।

यत्तु-संविदः स्वतस्सिद्धायाः प्रागभावाद्यभावादुत्पत्तिर्निरस्यते-

तदन्धस्य जात्यन्धेन यष्टिः प्रदीयते । प्रागभावस्य ग्राहकाभावादभावो न शक्यते वक्तुम्; अनुभूत्यैव ग्रहणात् । कथमनुभूतिः सती तदानीमेव स्वाभावं विरुद्धमवगमयतीति चेत्; न ह्यनुभूतिः स्वसमकालवर्त्ति-नमेव विषयीकरोतीत्यस्ति नियमः, अतीतानागतयोरविषयत्वप्रसङ्गात् ।।

अथ मन्यसे-अनुभूतिप्रागभावादेः सिद्धयतस्तत्समकालभावनियमोऽस्तीति-किं त्वया क्कचिदेवं दृष्टम्? येन नियमं ब्रवीषि । हन्त तर्हि तत एव दर्शनात् प्रागभावादिः सिद्ध इति न तदपह्नवः । तत्प्रागभावं च तत्समकालवर्त्तिनमनुन्मत्तः को ब्रवीति । इन्द्रियजन्मनः प्रत्यक्षस्य ह्येष स्वभावनियमः, यत् स्वसमकाल-वर्त्तिनः पदार्थस्य ग्राहकत्वम्; न सर्वेषां ज्ञानानां प्रमाणानाञ्च, स्मरणानुमानागमयोगिप्रत्यक्षादिषु कालान्त-रवर्त्तिनोऽपि ग्रहणदर्शनात् । अत एव च प्रमाणस्य प्रमेयाविनाभावः-

न हि प्रमाणस्य स्वसमकालवर्त्तिनाऽविनाभावोऽर्थसम्बन्धः, अपि तु यद्देशकालादिसम्बन्धितया

योऽर्थोऽवभासते, तस्य तथाविधाकारमिथ्यात्वप्रत्यनीकता । अत इदमपि निरस्तम्, "स्मृतिर्न बाह्यविषया नष्टेप्यर्थे स्मृतिदर्शनात्" इति ।।

अथोच्येत-न तावत् संवित्प्रागभावः प्रत्यक्षावसेयः, अवर्त्तमानत्वात् । न च प्रमाणान्तरावसेयः, लिङ्गाद्यभावात् । न हि संवित्प्रागभावव्याप्तमिह लिङ्गमुपलभ्यते । न चागमस्तद्विषयो दृष्टचरः । अतस्तत्प्राग-भावः प्रमाणाभावादेव न सेत्स्यति- इति; यद्येवम्-स्वतस्सिद्धत्वविभवं परित्यज्य प्रमाणाभावेऽवरूढश्चेत्-योग्यानुपलब्ध्यैवाभावः समर्थित इत्युपशाम्यतु भवान्



किञ्च-प्रत्यक्षज्ञानं स्वविषयं घटादिकं स्वसत्ताकाले सन्तं साधयत्तस्य न सर्वदा सत्तामवगमयद्दृश्यत इति घटादेः पूर्वोत्तरकालसत्ता न प्रतीयते । तदप्रतीतिश्च संवेदनस्य कालपरिच्छिन्नतया प्रतीतेः । घटादिवि-षयमेव संवेदनं स्वयं कालानवच्छिन्नं प्रतीतं चेत्; संवेदनविषयो घटादिरपि कालानवच्छिन्नः प्रतीयेति नित्यः स्यात् । नित्यं चेत् संवेदनं स्वतः सिद्धं नित्यमित्येव प्रतीयेत । न च तथा प्रतीयते ।

एवमनुमानादिसंविदोऽपि कालानवच्छिन्नाः प्रतीताश्चेत्, स्वविषयानपि कालानवच्छिन्नात् प्रका-शयन्तीति ते च सर्वे कालानवच्छिन्ना नित्या स्युः, संविदनुरूपस्वरूपत्वात् विषयाणाम् ।

न च निर्विषया काचित् संविदस्ति; अनुपलब्धेः । विषयप्रकाशनतयैवोपलब्धेरेव हि संविदः स्वयम्प्रकाशता समर्थिता । संविदो विषयप्रकाशनतास्वभावविरहे सति स्वयम्प्रकाशत्वासिद्धेः अनुभूतेरनुभवान्तराननुभा-व्यत्वाच्च संविदस्तुछजछतैव स्यात् ।

न च स्वापमदमूर्च्छादिषु सर्वविषयशून्या केवलैव संवित्परिस्फुरतीति वाच्यम्; योग्यानुपलब्धिपरा-हतत्वात् । तास्वपि दशास्वनुभूतिरनुभूता चेत्, तस्याः प्रबोधसमयेऽनुसन्धानं स्यात्; न च तदस्ति ।। नन्व-नुभूतस्य पदार्थस्य स्मरणनियमो न दृष्टचरः; अतः स्मरणाभावः कथमनुभावाभावं साधयेत्? ।। उच्यते । निखिलसंस्कारतिरस्कृतिकरदेहविगमादिप्रबलहेतुविरहेप्यस्मरणनियमोऽनुभावाभावमेव साधयति ।

न केवलमस्मरणनियमादनुभवाभावः; सुप्तोत्थितस्य इयन्तं कालं न किञ्चिदहमज्ञासिषमिति प्रत्यवमर्शेनैव सिद्धेः । न च सत्यप्यनुभवे तदस्मरणनियमो विषयावच्छेदविरहादहङ्कारविगमाद्वेति शक्यते वक्तुम्; अर्थान्तराननुभवस्यार्थान्तराभावस्य चानुभूतार्थान्तरास्मरणहेतुत्वाभावात् । तास्वपि दशास्वहमर्थो-ऽनुवर्तत इति च वक्ष्यते ।

ननु-स्वापादिदशास्वपि सविशेषोनुभावोऽस्तीति पूर्वमुक्तम् ।। सत्यमुक्तम् । स त्वात्मानुभवः । स च संविशेष एवेति स्थापयिष्यते । इह तु सकलविषयविरहिणी निराश्रया च संविन्निषिध्यते ।। केवलैव संवित् आत्मानुभव इति चेत्, न; सा च साश्रयेति ह्युपपादयिष्यते ।

अतः "अनुभूतिः सतीस्वयं स्वप्रागभावं न साधयतीति" प्रागभावासिद्धिर्न शक्यते वक्तुम् । अनु-भूतेरनुभाव्यत्वसम्भवोपपादनेन अन्यतोऽप्यसिद्धिनिर्रस्ता । तस्मान्न प्रागभावाद्यसिद्धया संविदोऽनुत्पत्तिरुप-पत्तिमती ।।

यद्रप्यस्या अनुत्पत्त्या विकारान्तरनिरसनम्-तदप्यनुपपन्नम्; प्रागभावे व्यभिचारात् । तस्य हि जन्माभावेपि विनाशो दृश्यते । भावेष्विति विशेषणे तर्ककुशलताविष्कृता भवति । तथा च भवदभिमताऽ-विद्या अनुत्पन्नैव विविधविकारास्पदं तत्त्वज्ञानोदयादन्तवती चेति तस्यामनैकान्त्यम् । तद्विकाराः सर्वे मिथ्या-भूता इति चेत्, किं भवतः परमार्थभूतोऽप्यस्ति विकारः, येनैतद्विशेषणमर्थवद्भवति । न ह्यसावभ्युपगम्यते ।।

यदपि-अनुभूतिरजत्वात्स्वस्मिन् विभागं न सहते इति-तदपि नोपपद्यते, अजस्यैवात्मनो देहेन्द्रियादिभ्यो विभक्तत्वात् । अनादित्वेन चाभ्युपगताया अविद्याया आत्मनो व्यतिरेकस्यावश्याश्रयणीयत्वात् ।

स विभागो मिथ्यारूप इति चेत्;-जन्मप्रतिबद्धः परमार्थविभागः किं क्वचिद्दृष्टस्त्वया?

अविद्याया आत्मनः परमार्थतो विभागाभावे वस्तुतो ह्यविद्यैव स्यादात्मा ।

अबाधितप्रतिपत्तिसिद्धदृश्यभेदसमर्थनेन दर्शनभेदोऽपि समर्थित एव, छेद्यभेदात् छेदनभेदवत् ।।

यदपि-नास्या दृशेर्दृशिवरूपाया दृश्यः कश्चिदपि धर्मोऽस्ति; दृश्यत्वादेव तेषां न दृशिधर्मत्वम्-इति च । तदपि स्वाभ्युपगतैः प्रमाणसिद्धैर्नित्यत्वस्वयंप्रकाशत्वादिधर्मैरुभयमनैकान्तिकम् । न च ते संवेदनमात्रम्, स्वरूपभेदात् । स्वसत्तयैव स्वाश्रयं प्रति कस्यचिद्विषयस्य प्रकाशनं हि संवेदनम् । स्वयंप्रकाशता तु स्वसत्त- यैव स्वाश्रयाय प्रकाशमानता । प्रकाशश्च चिदचिदशेषपदार्थसाधारणं व्यवहारानुगुण्यम् ।। सर्वकालवर्त्तमान-त्वं हि नित्यत्वम् । एकत्वमेकसङ्कया वच्छेद इति ।

तेषां जडत्वाद्यभावरूपतायामपि तथाभूतैरपि चैतन्यधर्मभूतैस्तैरनैकान्त्यमपरिहाय्यर्म् । संविदि तु स्वरूपातिरेकेण जडत्वादिप्रत्यनीकत्वमिति अभावरूपो भावरूपो वा धर्मो नाभ्युपेतश्चेत्; तत्तन्निषेधोक्तया किमपि नोक्तं भवेत् ।

अपि च संवित् सिद्धयति वा न वा? सिध्यति चेत्, सधर्मता स्यात् । न चेत्, तुच्छता, गगनकु-सुमादिवत् । सिद्धिरेव संविदिति चेत्; कस्य कं प्रतीति वक्तव्यम्; यदि न कस्यचित्कञ्चित्प्रति; सा तर्हि न सिद्धिः । सिद्धिर्हि पुत्रत्वमिव कस्यचित् कञ्चित्प्रति भवति । आत्मन इति चेत्; कोऽयमात्मा? ननु संवि-देवेत्युक्तम् । सत्यमुक्तम्; दुरुक्तं तु तत् । तथा

हि-कस्यचित् पुरुषस्य किञ्चिदर्थजातं प्रति सिद्धिरूपतया तत्सम्बन्धिनी सा संवित् स्वयं कथमिवात्मभावमनुभवेत्?

एतदुक्तं भवति-अनुभूतिरिति स्वाश्रयं प्रति स्वसद्भावेनैव कस्यचिद्वस्तुनो व्यवहारानुगुण्यापादनस्वभावो ज्ञानावगतिसंविदाद्यपरनामा सकर्मकोऽनुभवितुरात्मनो धर्मविशेषो घटमहं जानामीममर्थमवगच्छामि पट- महं संवेह्मीति सर्वेषामात्मसाक्षिकः प्रसिद्धः । एतत्स्वभावतया हि तस्याः स्वयम्प्रकाशता भवताप्युपपादिता । अस्य सकर्मकस्य कर्तृधर्मविशेषस्य कर्मत्ववत् कर्तृत्वमपि दुर्घटमिति ।

तथा हि;-अस्य कर्तुः स्थिरत्वं, कर्तृधर्मस्य संवेदनाख्यस्य सुखदुःखादेरिवोत्पत्तिस्थितिनिरोधाश्च प्रत्यक्षमीक्ष्यन्ते । कर्तृस्थैर्यं तावत्-स एवायमर्थः पूर्वं मयानुभूत इति प्रत्यभिज्ञाप्रत्यक्षसिद्धम् । अहं जानापि, अहमज्ञासिषम्, ज्ञातुरेव ममेदानीं ज्ञानं नष्टमिति च संविदुत्पत्त्यादयः प्रत्यक्षसिद्धा इति कुतस्तदैक्यम् । एवं क्षणभङ्गिन्याः संविद आत्मत्वाभ्युपगमे, पूर्वेद्युर्दृष्टमपरेद्युरिदमहदर्शमिति प्रत्यभिज्ञा च न घटते ।

अन्येनानुभूतस्य न ह्यन्येन प्रत्यभिज्ञानसम्भवः ।

किञ्च-अनुभूतेरात्मत्वाभ्युपगमे तस्या नित्यत्वेपि प्रतिसन्धानासम्भवस्तदवस्थः । प्रतिसन्धानं हि पूर्वापरकालस्थायिनमनुभधिवितारमुपस्थापयति; नानुभूतिमात्रम्-अहमेवेदं पूर्वमप्यन्वभूवमिति । भवतो-ऽप्यनुभूतेर्न ह्यनुभवितृत्वमिष्टम् । अनुभूतिरनुभूतिमात्रमेव । संविन्नाम काचिन्निराश्रया निर्विषया वा अत्य-न्तानुपलब्धेर्न सम्भवतीत्युक्तम् । उभयाभ्युपेता संविदेवात्मेत्युपलब्धिपराहतम् । अनुभूतिमात्रमेव परमार्थ इति निष्कर्षकहेत्वाभासाश्च निराकृताः ।।

ननु च अहं जानामीत्यस्मत्प्रत्यये योऽनिदमंशः प्रकाशैकरसश्चित्पदार्थ, स आत्मा । तस्मिन् तद्व-लनिर्भासिततया युष्यदर्थलक्षणः, अहं जानामीति सिद्धयन्नहमर्थश्चिन्मात्रातिरेकी युष्मदर्थ एव ।। नैतदेवम्; अहं जानामीति धर्मधर्मितया प्रत्यक्षप्रतीतिविरोधादेव ।।

किञ्च-"अहमर्थो न चेदात्मा प्रत्यक्त्वं नात्मनो भवेत् । अहम्बुद्धया परागर्थात् प्रत्यगर्थो हि भिद्यते । निरस्ताखिलदुःखोऽहमनन्तानन्दभाक् स्वराट् । भवेयमिति मोक्षार्थी श्रवणादौ प्रवर्त्तते ।। अहमर्थविनाशश्चेन्मोक्ष इत्यध्यवस्यति । अपसर्पेदसौ मोक्षकथाप्रस्तावगन्धतः ।।

मयि नष्टेपि मत्तोऽन्या काचिज्ज्ञप्तिरवस्थिता । इति तत्प्राप्तये यत्नः कस्यापि न भविष्यति ।।

स्वसम्बन्धितया ह्यस्याः सत्ताविज्ञाप्तितादि च । स्वसम्बन्धवियोगे तु ज्ञप्तिरेव न सिद्धयति ।।

छेत्तुश्छेद्यस्य चाभावे छेदनादेरसिद्धिवत् । अतोऽहमर्थो ज्ञातैव प्रत्यगात्मेति निश्चितम् ।।

"विज्ञातारमरे केन", "जानात्येवे"ति च श्रुतिः । "एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ" इति च स्मृतिः ।

"नात्मा श्रुते"रित्यारभ्य सूत्रकारोऽपि वक्ष्यति । "ज्ञोऽत एवेत्यतो नात्मा ज्ञप्तिमात्रमिति स्थितम्" ।।

अहंप्रत्ययसिद्धो ह्यस्मदर्थः, युष्मत्प्रत्ययविषयो युष्मदर्थः । तत्र, अहं जानामीति सिद्धौ ज्ञाता युष्म-दर्थ इति वचनम्, जननी मे वन्ध्येतिवद्वयाहतार्थञ्च । न चासौ ज्ञाता अहमर्थो अन्याधीनप्रकाशः; स्वयम्प्र-काशत्वात् । चैतन्यस्वभावता हि स्वयम्प्रकाशता । यः प्रकाशस्वभावः सोऽनन्याधीनप्रकाशः दीपवत् ।

नहि दीपादेः स्व प्रभावलनिर्भासितत्वेन अप्रकाशत्वं अन्याधीनप्रकाशत्वं च ।। किं तर्हि ।। दीपः प्रका-श स्वभावः स्वयमेव प्रकाशते; अन्यानपि प्रकाशयति स्वप्रभया ।।

एतदुक्तं भवति-यथैकमेव तेजोद्रव्यं प्रभाप्रभावद्रूपेणावतिष्ठते-

यद्यपि प्रभा प्रभावद्द्रव्यगुणभूता, तथापि तेजोद्रव्यमेव, न शौकल्यादिवद्गुणः; स्वाश्रयादन्यत्रापि वर्त्तमानत्वात् रूपवत्त्वाच्च शौक्लयादिवैधर्म्यात्, प्रकाशवत्त्वाच्च तेजोद्रव्यभेव; नार्थान्तरम् । प्रकाशवत्त्वञ्च स्वस्वरूपस्यान्येषाञ्च प्रकाशकत्वात् । अस्यास्तु गुणत्वव्यवहारो नित्यतदाश्रयत्वतच्छेषत्वनिबन्धनः ।

न चाश्रयावयवा एव विशीर्णाः प्रचरन्तः प्रभेत्युच्यन्ते, मणिद्युमणिप्रभृतीनां विनाशप्रसङ्गात् ।।

दीर्पऽप्यवयविप्रतिपत्तिः कदाचिदपि न स्यात् । न हि विशरणस्वभाव एव दीपाः चतुरङ्गुलमात्रं नियमेन पिण्डीभूता ऊद्ध्वमुद्गम्य ततः पञ्चात् युगपदेव तिर्यगूद्र्ध्वमधश्चैकरूपा विशीर्णाः प्रचरन्तीति शक्यं वक्तुम् । अतः सप्रभाका एव दीपाः प्रतिक्षणमुत्पन्ना विनश्यन्तीति, पुष्कलकारणक्रमोपनिपातात् तद्विनाशे विनाशच्चावगम्यते । प्रभायास्स्वाश्रयसमीपे प्रकाशाधिक्यमौष्ण्याधिक्यमित्यादि उपलब्धिव्यवस्थाप्यम्, अग्न्यादीनामौष्ण्यादिवत्-एवमात्मा चिद्रूप एव चैतन्यगुणक इति । चिद्रूपता हि स्वयम्प्रकाशता ।।

तथा हि श्रुतयः "स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघनः एव एवं वा अरेऽयमात्माऽन-न्तरोऽबाह्यः कृत्स्नः प्रज्ञानधन एव", "विज्ञानधन एव", "अत्रायं पुरुषः स्वयंज्योतिर्भवति", न (हि)विज्ञा-तुर्विज्ञातेर्विपरिलोपो विद्यते", "अथ यो वेदेदं जिघ्राणीति स आत्मा", "कतम आत्मेति । योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः", "एष हि द्रष्टा श्रोता रसयिता घ्राता मन्ता बोद्धा कर्त्ता विज्ञानात्मा पुरुषः", "विज्ञातारमरे केन विजानीयात्", "जानात्येवायं पुरुषः", "न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम्", "स उत्तमः पुरुषः...नोपजनं स्मरन्निदं शरीरम्", "एवमेवास्य परिद्रष्टुरिमा षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति", "तस्माद्वा एतस्मान्मनोमयात् अन्योऽन्तर आत्मा विज्ञानमयः", इत्याद्याः । वक्ष्यति

च, "ज्ञोऽत एव" इति । अतः स्वयम्प्रकाशोऽयमात्मा ज्ञातैव; न प्रकाशमात्रम् । प्रकाशत्वादेव कस्यचिदेव भवेत् प्रकाशः दीपादिप्रकाशवत् । तस्मात् नात्मा भवितुमर्हति संवित् । संविदनुभूतिज्ञानादिशब्दाः सम्बन्धि-शब्दा इति च शब्दार्थविदः । न हि लोकवेदयोः जाना(ती)त्यादेरकर्मकस्याकर्तृकस्य च प्रयोगो दृष्टचरः ।। यच्चोक्तम्-अजडत्वात् संविदेवात्मेति-तत्रेदं प्रष्टव्यम् । अजडत्वमिति किमभिप्रेतम् ।। स्वसत्ताप्रयुक्तप्रकाश-त्वमिति चेत्-तथासति दीपादिषु अनैकान्त्यम् । संविदतिरिक्तप्रकाशधर्मानभ्युपगमेनासिद्धिर्विरोधश्च । अव्य-भिचरितप्रकाशसत्ताकत्वमपि सुखादिषु व्यभिचारान्निरस्तम् । यद्युच्येत-सुखादिरव्यभिचरितप्रकाशोऽपि अन्यस्मै प्रकाशमानतया घटादिवत् जडत्वेन अनात्म इति-ज्ञानं वा किं स्वस्मै प्रकाशते? तदपि ह्यन्यस्यैवा-हमर्थस्य ज्ञातुस्वभासते, अहं सुखीतिवत् जानाम्यहमिति । अतः स्वस्मैप्रकाशमानत्वरूपम् जडत्वं संविदि असिद्धम् । तस्मात् स्वात्मानं प्रति स्वसत्तयैव सिध्यन् अजडोऽहमर्थ एवात्मा । ज्ञानस्यापि प्रकाशता तत्संब-न्धायत्ता । तत्कृतमेव हि ज्ञानस्य सुखादेरिव स्वाश्रयं चेतनं प्रति प्रकटत्वम्, इतरं प्रति अप्रकटत्वञ्च । अतो न ज्ञप्तिमात्रमात्मा, अपि तु ज्ञातैवाहमर्थः । अथ यदुक्तमनुभूतिः परमार्थतो निर्विषया निराश्रया च सती भ्रा-न्त्या ज्ञातृतयाऽवभासते रजत तयेव शुक्ति र्निरधिष्ठानभ्रमानुपपत्तेरिति । तदयुक्तम्; तथासत्यनुभवसामाना-धिकरण्येनानुभविताऽहमर्थः प्रतीयेत, अनुभूतिरहमिति पुरोऽवस्थितभास्वरद्रव्याकारतया रजतादिरिव । अत्र तु पृथगवभासमानैवेय-मनुभूतिरर्थान्तरमहमर्थं विशिनष्टि, दण्ड इव देवदत्तम्, तथा हि अनुभवाम्यह-मिति प्रतीतिः, तदेवमस्मद-र्थमनुभूतिविशिष्टं प्रकाशयन्ननुभवाम्यहमिति प्रत्ययो दण्डमात्रे दण्डी देवदत्त इति प्रत्ययवद्विशेषणभूता-नुभूतिमात्रावलम्बनः कथमिव प्रतिज्ञायेत? ।।

यदप्युक्तम्-स्थूलोहमित्यादिदेहात्माभिमानवत एव ज्ञातृत्वप्रतिभासनात् ज्ञातृत्वमपि मिथ्येतितद-युक्तम्; आत्मतया अभिमताया अनुभूतेरपि मिथ्यात्वं स्यात्; तद्वत एव प्रतीतेः ।। सकलेतरोपमर्दितत्वज्ञाना-बाधितत्वेनानुभूतेर्न मिथ्यात्वमिति चेत्-हन्तैवंसति तदबाधादेव ज्ञातृत्वमपि न मिथ्या ।।

यदप्युक्तम्-अविक्रियस्यात्मनो ज्ञानक्रियाकर्तृत्वरूपं ज्ञातृत्वं न सम्भवति । अतो ज्ञातृत्वं विक्रिया-त्मकं जडं विकारास्पदाव्यक्तपरिणामाहङ्कारग्रन्थिस्थम् इति न ज्ञातृत्वमात्मनः; अपि अन्तःकरणरूपस्याह-ङ्कारस्य । कर्त्तृत्वादिर्हि रूपादिवत् दृश्यधर्मः । कर्तृत्वेऽहम्प्रत्ययगोचरत्वे च आत्मनोभ्युपगम्यमाने देहस्ये-वानात्मत्वपराकत्वाजडत्वादिप्रसङ्गश्चेति-नैतदुपपद्यते; देहस्येवाचेतनत्व-प्रकृतिपरिणामत्व-दृश्यत्व-पराक- त्व-परार्थत्वादियोगात् अन्तःकरणरूपस्याहङ्कारस्य; चेतनासाधारणस्वभावत्वाच्च ज्ञातृत्वस्य । एतदुक्तं भवति-यथा देहादिः दृश्यत्वपराकत्वादिहेतुभिः तत्प्रत्यनीकद्रष्ट्टत्वप्रत्यकत्वादेर्विविच्यते, एवमन्तःकरणरूपा-हङ्कारोपि तद्द्रव्यत्वादेव तैरेव हेतुभिः तस्माद्विविच्यत इति ।

अतो विरोधादेवन ज्ञातृत्वमहङ्कारस्य, दृशित्ववत्-यथा दृशित्वं तत्कर्मणोऽहङ्कारस्य नाभ्युपगम्यते, तथा ज्ञातृत्वमपि न तत्कर्मणोऽभ्युपगन्तव्यम् ।

न च ज्ञातृत्वं विक्रियात्मकम् । ज्ञातृत्वं हि ज्ञानगुणाश्रयत्वम् । ज्ञानञ्चास्य नित्यस्य स्वाभाविकधर्म-त्वेन नित्यम् । नित्यत्वञ्चऽत्मनाः, नात्मा श्रुतेः" इत्यादिषु वक्ष्यति । "ज्ञोऽत एव" इत्यत्र ज्ञ इति व्यपदेशेन ज्ञानाश्रयत्वञ्च स्वाभाविकमिति वक्ष्यति । अस्य ज्ञानस्वरूपस्यैव, मणिप्रभृतीनां प्रभाश्रयत्वमिव, ज्ञाना-श्रयत्वमप्यविरुद्धमित्युक्तम् । स्वयमपरिच्छिन्नमेव ज्ञानं सङ्कोचविकासार्हमित्युपपादयिष्यामः । अतः क्षेत्र-ज्ञावस्थायां कर्मणा सङ्कुचितस्वरूपं तत्तत्कर्मानुगुणतरतमभावेन (तारतभ्येन?) वर्तते । तच्चेन्द्रियद्वारेण

व्यवस्थितम् । तमिममिन्द्रियद्वारा ज्ञानप्रसरमपेक्ष्य उदयास्तमयव्यपदेशः प्रवर्त्तते । ज्ञानप्रसरे तु कर्तृत्वम- स्त्येव । तच्च न

स्वाभाविकम्; अपि तु कर्मकृतम् इत्यविक्रियस्वरूप एवात्मा । एवंरूपविक्रियात्मकं ज्ञातृत्वं ज्ञानस्वरूपस्यात्मन एवेति न कदाचिदपि जडस्याहङ्गारस्य ज्ञातृत्वसम्भवः ।।

जडस्वरूपस्याप्यहङ्कारस्य चितसन्निधानेन तच्छायापत्त्या तत्सम्भव इति चेत्-केयं चिच्छायापत्तिः? किमहङ्कारच्छायापत्तिः संविदः, उत संविच्छायापत्तिरहङ्कारस्य । न तावत् संविदः; संविदि ज्ञातृत्वा नभ्युपग-मात् । नाप्यहङ्कारस्य; उक्तरीत्या तस्य जडस्य ज्ञातृत्वायोगात् । द्वयोरप्यचाक्षुषत्वाच्च । न ह्य चाक्षुषाणां छाया दृष्टा ।

अथ अग्सिम्पर्कात अयःपिण्डौष्ण्यवत् चित्सम्पर्कात् ज्ञातृत्वोपलब्धिरिति ।। नैतत् । संविदि वा-स्तव(वस्तुतो)ज्ञातृत्वानभ्युपगमादेव न तत्संपर्कादहङ्कारे ज्ञातृत्वं तदुपलब्धिर्वा । अहङ्कारस्यत्वचेतनस्य ज्ञातृत्वासम्भवादेव सुतरां न तत्सम्पर्कात्संविदि ज्ञातृत्वं तदुपलब्धिर्वा ।।

यदप्युक्तम्-उभयत्र न वस्तुतो ज्ञातृत्वमस्ति;

अहङ्कारस्तु अनुभूतेरभिव्यञ्जकः स्वात्मस्थामेवानुभूतिमभिव्यनक्ति, आदर्शादिवत् इति । तदयुक्तम्; आत्मनः स्वयञ्ज्योतिषो जडस्वरूपाहङ्काराभिव्यङ्गयत्वायोगात् । तदुक्तम्-

"शान्ताङ्गार इवादित्यमहङ्कारो जडात्मकः । स्वयंज्योतिषमात्मानं व्यनक्तीति न युक्तिमत् "

इति । स्वयम्प्रकाशानुभवाधीनसिद्धयो हि सर्वे पदार्थाः । तत्र तदायत्तप्रकाशोऽचित् अहङ्कारः अनुदितान-स्तमितस्वरूपप्रकाशमशेषार्थसिद्धिहेतुभूतमनुभवमभिव्यनक्तीति आत्मविदः परिहसन्ति ।। किञ्च अहङ्का-रानुभवयोः स्वभावविरोधात् अनुभूतेरननुभूतित्वप्रसङ्गाच्च न व्यङ्क्तृव्यङ्घय भावः । यथोक्तम्-

"व्यङ्क्तृव्यङ्गयत्वमन्योन्यं न च स्यात्प्रातिकूल्यतः ।

व्यङ्गयत्वेऽननुभूतित्वमात्मनि स्याद्यथा घटे ।।" इति ।

न च रविकरनिकराणां स्वाभिव्यङ्गयकरतलाभिव्यङ्गयत्ववत् संविदभिव्यङ्गयाहङ्काराभिव्यङ्गयत्वं संविदः साधीयः; तत्रापि रविकरनिकराणां करतलाभिव्यङ्गयत्वाभावात् । करतलप्रतिहतगतयो हि रश्मयो बहुलाः स्वयमेव स्फुटतरमुपलभ्यन्त इति तद्वाहुल्यमात्रहेतुत्वात् करतलस्य नाभिव्यञ्जकत्वम् ।

किञ्च-अस्य संवित्स्वरूपस्यात्मनोऽहङ्कार (रादि)निर्वर्त्या अभिव्यक्तिः किंरूपा । न तावत् उत्पत्तिः, स्वतस्सिद्धतया अनन्योत्पाद्यत्वाभ्युपगमात् । नापि तत्प्रकाशनम्; तस्या अनुभवान्तराननुभाव्यत्वात् ।

तत एव च न तदनुभवसाधनानुग्रहः । स हि द्विधा ज्ञेयस्येन्द्रियसम्बन्धहेतुत्वेन वा-यथा जातिनिज-मुखादिग्रहणे व्यक्ति-दर्पणादीनां नयनादीन्द्रियसम्बन्धहेतुत्वेन । बोद्धृगतकल्मषापनयेन वा-यथा परतत्त्वा-वबोधनसाधनस्य शास्त्रस्य शमदमादिना । यथोक्तम्-"करणानामभूमित्वात् न तत्सम्बन्धहेतुता..." इति ।।

किञ्च-अनुभूतेरनुभाव्यत्वाभ्युपगमेऽपि अहमर्थेन न तदनुभवसाधनानुग्रहः सुवचः । स ह्यनुभाव्या-नुभवोत्पत्ति-प्रतिबन्ध(क)निरसनेन भवेत्-यथा रूपादिग्रहणोत्पत्तिनिरोधिसन्तमसनिरसनेन चक्षुषो दीपा-दिना । न चेह तथाविधं निरसनीयं संभाव्यते । न तावत् संविदाऽऽत्मगतं तज्ज्ञानोत्पत्तिनिरोधि किञ्चिदप्य-हङ्कारापनेयमस्ति । अस्ति ह्यज्ञानमिति चेत्-न, अज्ञानस्याहङ्कारापनोद्यत्वानुभ्युपगमात् । ज्ञानमेव ह्यज्ञा- नस्य निवर्त्तकम् । न च संविदाश्रयत्वमज्ञानस्य संभवति; ज्ञानसमानाश्रयत्वात् तत्समानविषयत्वाच्च । ज्ञातृभावविषयभावविरहिते ज्ञानमात्रे साक्षिणि नाज्ञानं भवितुमर्हति । यथा ज्ञानाश्रयत्वप्रसक्तिशून्यत्वेन

घटादेर्नाज्ञानाश्रयत्वम्, तथा ज्ञानमात्रेऽपि ज्ञानाश्रयत्वाभावेन नाज्ञानाश्रयत्वं स्यात् ।

संविदोऽज्ञानाश्रयत्वाभ्युपगमेऽपि आत्मतयाऽभ्युपगतायाः तस्या ज्ञानविषयत्वाभावेन ज्ञानेन न तद्गताज्ञाननिवृत्तिः । ज्ञाने हि स्वविषय एवाज्ञानं निर्वतयति, यथा रज्ज्वादौ । अतो न केनापि कदाचित् संविदाश्रयमज्ञानमुच्छिद्येत । अस्य च सदसदनिर्वचनीयस्याज्ञानस्य स्वरूपमेव दुर्निरूपमित्युपरिष्टाद्वक्ष्यते । ज्ञानप्रागभावरूपस्य चाज्ञानस्य ज्ञानोत्पत्तिविरोधित्वाभावेन न तन्निरसनेन तज्ज्ञानसाधनानुग्रहः ।।

अतो न केनापि प्रकारेणाहङ्कारेणानुभूतेरभिव्यक्तिः ।।

न च स्वाश्रयतयाभिव्यङ्गयाभिव्यञ्जनमभिव्यञ्जकानां स्वभावः; प्रदीपादिष्वदर्शनात् । यथावस्थि-तपदार्थप्रतीत्यनुगुणस्वाभाव्याच्च ज्ञानतत्साधनयोरनुग्राहकस्य च । तच्च स्वतःप्रमाण्यन्यायसिद्धम् । न च दर्पणादि र्मुखादेरभिव्यञ्जकः; अपि तु चाक्षुषतेजःप्रतिफलनरूपदोषहेतुः । तद्दोषकृतश्च तत्रान्यथावभासः ।

अभिव्यञ्जकस्त्वालोकादिरेव । न चेह तथाऽहङ्कारेण संविदि स्वप्रकाशायां तादृशदोषापादनं सम्भवति । व्य-क्तेस्तु जातिराकार इति तदाश्रयतया प्रतीतिः; न तु व्यक्तिव्यङ्गयत्वात् । अतोऽन्तःकरणभूताहङ्कारस्थतया संविदुपलब्धेर्वस्तुतो दोषतो वा न किञ्चिदिह कारणमिति नाहङ्कारस्य ज्ञातृत्वं तथोपलब्धिर्वा । तस्मात्स्वत एव ज्ञातृतया सिद्धयन्नहमर्थ एव प्रत्यगात्मा । न ज्ञप्तिमात्रम् । अहम्भावविगमे तु ज्ञप्तेरपि न प्रत्यकत्वसिद्धि-रित्युक्तम् ।।

तमोगुणाभिभवात्परागर्थानुभवाभावाच्चाहमर्थस्य विविक्तस्फुटप्रतिभासाभावेऽपि आप्रबोधात् अह-मित्येकाकारेणाऽऽत्मनः स्फुरणात् सुषुप्तावपि नाहम्भावविगमः । भवदभिमताया अनुभूतेरपि तथैव प्रथेति वक्तव्यम् । न हि सुप्तोत्थितः कश्चित् अहम्भाववियुक्तार्थान्तरप्रत्यनीकाकारा ज्ञप्तिरहमज्ञानसाक्षितयाऽवतिष्ठे इत्येवंविधां स्वापसमकालामनुभूतिं परामृशति । एवं हि सुप्तोत्थितस्य परामर्शः, सुखमहमस्वाप्समिति । अने-नैव(अनेन) प्रत्यवमर्शेन तदानीमप्यहमर्थस्यैवाऽऽत्मनः सुखित्वं ज्ञातृत्वञ्च ज्ञायते ।

न च वाच्यम्-यथेदानीं सुखं भवति तथा तदानीमस्वाप्यमित्येषा प्रतिपत्तिरिति-अतद्रूपत्वात् प्रति-पत्तेः । न चाहमर्थस्यात्मनोऽस्थिरत्वेन तदानीमहमर्थस्य सुखित्वानुसन्धानानुपपत्तिः; यतः सुषुप्तिदशायाः । प्रागनुभूतं वस्तु सुप्तोत्थितः, "मयेदं कृतम्, मयेदमनुभूतम्, अहमेतद(वम)वोचमिति परामृशति ।।

"एतावन्तं कालं न किञ्चिदहमज्ञासिषमिति च परामृशतीति चेत्-ततः किम् ।। न किञ्चिदिति कृन्स्न-प्रतिषेध इति चेत्-न; नाहमवेदिषमिति वेदितुरहमर्थस्यैवानुवृत्तेः । वेद्यविषयो हि स प्रतिषेधः । न किञ्चि- दिति निषेधस्य कृत्स्नविषयत्वे भवदभिमतानुभूतिरपि प्रतिषिद्धा स्यात् । सुषुप्तिसमये तु अनुसन्धीयमान-महमर्थमात्मानं ज्ञातारम् अहमिति परामृश्य, न किञ्चिदवेदिषमिति वेदने तस्य प्रतिषिध्यमाने तस्मिन् काले निषिद्धयमानाया वित्तेः सिद्धिम् अनुवर्त्तमानस्य ज्ञातुरहमर्थस्य चासिद्धिमनेनैव, "न किञ्चिदहमवेदिषम्" इति परामर्शेन साधयंस्तमिममर्थं देवानामेव साधयतु ।।

मामप्यहं न ज्ञातावानित्यहमर्थस्यापि तदानीमननुसन्धानं प्रतीयत इति चेत्-स्वानुभवस्ववचनयो-र्विरोधमपि न जानन्ति भवन्तः । अहं मां न ज्ञातवानिति ह्यनुभववचने । मामिति किं निषिद्धयत इति चेत्-साधु पृष्टं भवता । तदुच्यते । अहमर्थस्य ज्ञातुरनुवृत्तेः न स्वरूपं निषिध्यतेः अपि तु प्रबोधसमयेऽनुसन्धीय-मान(नाऽ?)स्याहमर्थस्य वर्णाश्रमादिविशिष्टता । अहं मां न ज्ञातवानित्युक्ते विषयो विवेचनीयः । जागरि-तावस्थानुसंहित जात्यादिविशिष्टोऽस्मदर्थो मामित्यंशस्य विषयः । स्वाप्ययावस्थाप्रसिद्धाविशदस्वानुभवैक-

तानश्चाहमर्थोऽहमित्यंशस्य विषयः । अत्र सुप्तोऽहमीदृशो अहमिति च मामपि न ज्ञातवानहमित्येव स्वल्वनु-भवप्रकारः ।।

किञ्च-सुषुप्तावात्मा अज्ञानसाक्षित्वेनाऽस्त इति हि भवदीया प्रक्रिया । साक्षित्वञ्च साक्षाज्ज्ञातृत्व- मेव न ह्यजानतः साक्षित्वम् । ज्ञातैव हि लोकवेदयोः साक्षीति व्यपदिश्यते; न ज्ञानमात्रम् । स्मरति च भग- वान् पाणिनिः "साक्षाद्द्रष्टरि संज्ञायाम्" इति साक्षाज्ज्ञातर्येव साक्षिशब्दम् । स चायं साक्षी जानामीति प्रतीय-मानोऽस्मदर्थ एवेति कुतस्तदानीमहमर्थोन प्रतीयेत । आत्मने स्वयमवभासमानोऽहमित्येवावभासत इति स्वापाद्यवस्थास्वपि आत्मा प्रकाशमानः अहमित्येवावभासत इति सिद्धम् ।।

यत्तु-मोक्षदशायामहमर्थो नानुवर्त्तते-इति; तदपेशलम् । तथासत्यात्मनाश एवापवर्गः प्रकारान्त- रेण प्रतिज्ञातः स्यात् । न चाहमर्थो धर्ममात्रम्; येन तद्विगमेऽप्यविद्यानिवृत्तविव स्वरूपमवतिष्ठेत । प्रत्युत स्वरूपमेवाहमर्थ आत्मनः । ज्ञानं तु तस्य धर्मः, "अहं जानामि ज्ञानं मे जातम्" इति चाहमर्थधर्मतया ज्ञान-प्रतीतेरेव ।।

अपि च यः परमार्थतो भ्रान्त्या वा आध्यात्मिकादिदुःखैर्दुःखितया स्वात्मानमनुसन्धत्ते "अहं दुःखी" इति, "सर्वमेतद्दुःखजातमपुनर्भवमपोह्य कथमहमनाकुलः स्वस्थो भवेयम्" इत्युत्पन्नमोक्षरागः स एव तत्सा-धने प्रवर्त्तते । स साधनानुष्ठानेन यद्यहमेव न भविष्यामीत्यवगच्छेत्, अपसर्पेदेवासौ मोक्षकथाप्रस्तावात् । तत-श्चाधिकारिविरहादेव सर्वं मोक्ष शास्त्रम् प्रमाणं स्यात् ।। अहमुपलक्षितं प्रकाशमात्रमपवर्गे अवतिष्ठत इति चेत्-किमनेन? मयि नष्टेऽपि किमपि प्रकाशमात्रमपवर्गेऽवतिष्ठत इति मत्वा न हि कश्चिदुद्धिपूर्वकारी प्रयतते । अतो-ऽहमर्थस्यैव ज्ञातृतया सिद्धियतः प्रत्यगात्मत्वम् ।

स च प्रत्यगात्मा मुक्तावप्यहमित्येव प्रकाशते स्वस्मै प्रकाशमानत्वात् । यो यः स्वस्मै प्रकाशते स सर्वः अहमित्येव प्रकाशते; यथा तथाऽवभावमानत्वेनोभयवादिसंमतः संसार्यात्मा । यः पुनरहमिति न चका-स्ति नासौ स्वस्मै प्रकाशते, यथा घटादिः । स्वस्मै प्रकाशते चायं मुक्तात्मा । स तस्मादहमित्येव प्रकाशते ।।

न चाहमिति प्रकाशमानत्वेन तस्याज्ञत्वसंसारित्वादिप्रसङ्गः । मोक्षविरोधातः अज्ञत्वाद्यहेतुत्वाच्चा-हम्प्रत्ययस्य । अज्ञानं नाम स्वरूपाज्ञानमन्यथाज्ञानं विपरीतज्ञानं वा । अहमित्येवात्मनस्स्वरूपमिति स्व-रूपज्ञानरूपोऽहम्प्रत्ययो नाज्ञत्वमापादयति; कुतः संसारित्वम्, अपि तु तद्विरोधित्वान्नाशयत्येव ।।

ब्रह्यात्मभावापरोक्ष्यनिर्द्धूतनिरवशेषाविद्यानामपि वामदेवादीनामहमित्येवात्मानुभवदर्शनाच्च । श्रूयते हि-"तद्धैतत् पश्यन्नृषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्चेति", "अहमेकः प्रथममासं वर्तामि च भविष्यामि च" इत्यादि । सकलेतराज्ञानविरोधिनः सच्छब्दप्रत्ययमात्रभाजः परस्य ब्रह्मणो व्यवहारोऽप्येव-मेव." "हन्ताऽहमिमास्तिस्त्रो देवताः", "बहु स्यां प्रजायेय", "स ईक्षत लोकान्नु सृजा इति" । तथा-"यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः", "अहमात्मा गुडाकेश", "न त्वेवाहं जातु नासम्", "अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा", "अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्त्तते", "तेषामहं समुद्धर्ता मृत्यसंसारसागरात्", "अहं वीजप्रदः पिता", "वेदाहं समतीतानि" इत्यादिषु ।।

यद्यहमित्येवात्मनः स्वरूपमः कथं तर्ह्यहङ्कारस्य क्षेत्रान्तर्भावो भगवतोपदिश्यते, "महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च" इति ।। उच्यते । स्वरूपोपदेशेषु सर्वेष्वहमित्येवोपदेशात् तथैवात्मस्वरूपप्रतिपत्तेश्चाहमि-त्येव प्रत्यगात्मनः स्वरूपम् । अव्यक्तपरिणामभेदस्याहङ्कारस्य क्षेत्रान्तर्भावो भगवतैवोपदिश्यते । स त्वना-

त्मनि देहेऽम्भावकरणहेतुत्वेनाहङ्कार इत्युच्यते । अस्य त्वहङ्कारशब्दस्य अभूततदूभावेऽर्थे च्विप्रत्ययमुत्पाद्य व्युत्प-त्तिर्द्रष्टव्या । अयमेव त्वहङ्कार उत्कृष्टजनावमानहेतुर्गर्वापरनामा शास्त्रेषु बहुशो हेयतया प्रतिपाद्यते । तस्माद्वाधकापेताऽहम्बुद्धिः साक्षादात्मगोचरैव । शरीरगोचरा त्वहम्बुद्धिरविद्यैव । यथोक्तं भगवता पराश- रेण, "श्रूयतां चाप्यविद्यायाः स्वरूपं कुलनन्दन । अनात्मन्यात्मबुद्धिर्या" इति ।। यदि ज्ञप्तिमात्रमेवात्मा, तदाऽनात्मन्यात्माभिमाने, शरीरे ज्ञप्तिमात्रप्रतिभासः स्यात्; न ज्ञातृत्वप्रतिभासः । तस्मात् ज्ञाताऽहमर्थ एवात्मा । तदुक्तम्-

"अतः प्रत्यक्षसिद्धत्वादुक्तन्यायागमान्वयात् । अविद्यायोगतश्चात्मा ज्ञाताऽहमिति भासते ।।" इति ।

तथा च,-"देहेन्द्रियमनःप्राणधीभ्योऽन्योऽनन्यसाधनः । नित्यो व्यापी प्रतिक्षेत्रमात्मा भिन्नस्स्वतस्सुखी ।।" इति ।

अनन्यसाधनः-स्वप्रकाशः । व्यापी-अतिसूक्ष्मतया सर्वाचेतनान्तःप्रवेशस्वभावः ।।

यदुक्तम्-दोषमूलत्वेनान्यथासिद्धिसम्भावनया सकलभेदावलम्बिप्रत्यक्षस्य शास्त्रबाध्यत्वमिति-को-ऽयं दोष इति वक्तव्यम्, यन्मूलतया प्रत्यक्षस्यान्यथासिद्धिः ।। अनादिभेदवासनैव हि दोष इति चेत्-भेदवा-सनायास्तिमिरादिवत् यथावस्थितवस्तुविपरीतज्ञानहेतुत्वं किमन्यत्र ज्ञातपूर्वम् ।। अनेनैव शास्त्रविरोधेन ज्ञास्यत इति चेत् न; अन्योन्याश्रयणात्-शास्त्रस्य निरस्तनिखिलविशेषवस्तुबोधित्वनिश्चये सति भेदवासना- या दोषत्वनिश्चयः, भेदवासनाया दोषत्वनिश्चये सति शास्त्रस्य निरस्तनिखिलविशेषवस्तुबोधित्वनिश्चय इति । किञ्च यदि भेदवासनामूलत्वेन प्रत्यक्षस्य विपरीतार्थत्वम्, शास्त्रमपि तन्मूलत्वेन तथैव स्यात् ।। अथो-च्येत-दोषमूलत्वेऽपि शास्त्रस्य प्रत्यक्षावगतसकलभेदनिरसनज्ञानहेतुत्वेन परत्वात् तत् प्रत्यक्षस्य बाधकमिति-तन्न; दोषमूलत्वे ज्ञाते सति परत्वमकिञ्चित्करम् । रज्जुसर्पज्ञाननिमित्तभये सति भ्रान्तोऽयमिति परिज्ञातेन केनचित् "नायं सर्पः; मा भैषीः" इत्युक्तेऽपि भयानिवृत्तिदर्शनात् । शास्त्रस्य च दोषमूलत्वं श्रवणवेलायामेव ज्ञातम् । श्रवणावगतनिखिलभेदोपमर्दिब्रह्मात्मैकत्वविज्ञानाभ्यासरूपत्वान्मननादेः ।। अपि च-इदं शास्त्रम्; एतच्चासम्भाव्यमानदोषम्; प्रत्यक्षन्तु सम्भाव्यमानदोषम् इति केनावगतं त्वया? न तावत्स्वतस्सिद्धा निर्द्धूत-निखिलविशेषानुभूतिरिममर्थमवगमयति; तस्याः सर्वविषयविरक्तत्वात्; शास्त्रपक्षपातविरहाच्च । नाप्यैन्द्रि-यिकं प्रत्यक्षम्, दोष मूलत्वेन विपरीतार्थत्वात् । तन्मूलत्वादेव नान्यान्यपि प्रमाणानि । अतः स्वपक्षसाधन-प्रमाणानभ्युपगमान्न स्वाभिमतार्थसिद्धिः ।।

ननु व्यावहारिकप्रमाणप्रमेयव्यवहारोऽस्माकामप्यस्त्येव; कोऽयं व्यावहारिको नाम? आपातप्रती-तिसिद्धो युक्तिभिर्निरूपितो न तथाऽवस्थित इति चेत्; किं तेन प्रयोजनम्? प्रमाणतया प्रतिपन्नेऽपि यौक्तिक-वाधादेव प्रमाणकार्याभावात् ।।

अथोच्येत-शास्त्रप्रत्यक्षयोरविद्यामूलत्वेऽपि प्रत्यक्षविषयस्य शास्त्रेण बाधो दृश्यते; शास्त्रविषयस्य सदद्वितीयब्रह्मणः पश्चात्तनबाधादर्शनेन निविर्शेषानुभूतिमात्रं बह्यैव परमार्थ इति । तदयुक्तम्, अबाधितस्यापि दोषमूलस्यापा-रमार्थ्यनिश्चयात् ।

तदुक्तं भवति-यथा सकलेतरकाचादिदोषरहित पुरुषान्तरागोचरगिरिगुहासु वसतस्तैमिरिकजनस्य (अज्ञातस्वतिमिरस्य)

(ज्ञातस्वतिमिरस्य) सर्वस्य तिमिरदोषाविशेषेण द्विचन्द्रज्ञानमविशिष्टं जायते । न

तत्र बाध-कप्रत्ययोऽस्तीति न तन्मिथ्या न भवतीति तद्विषयभूतं चन्द्रद्वित्वमपि (द्विचन्द्रत्वमपि) मिथ्यैव ।

दोषो ह्ययथार्थज्ञानहेतुः । तथा ब्रह्मज्ञानमविद्यामूलत्वेन बाधकज्ञानरहितमपि स्वविषयेण ब्रह्मणा सह मिथ्यैव-इति ।

भवन्ति चात्र प्रयोगाः-विवादाध्यासितं ब्रह्म मिथ्या, अविद्यावत उत्पन्नज्ञानविषयत्वात् प्रपञ्चवत् । ब्रह्ममिथ्या, ज्ञानविषयत्वात्, प्रपञ्चवत् । ब्रह्म मिथ्या, असत्यहेतुजन्यज्ञानविषयत्वात्, प्रपञ्चवदेव ।

न च वाच्यम्-स्वाप्नस्य हस्त्यादिविज्ञानस्यासत्यस्य परमार्थशुभाशुभप्रतिपत्तिहेतुभाववत् अविद्या-मूलत्वे न असत्यस्यापि शास्त्रस्य परमार्थभूतब्रह्मविषयप्रतिपत्तिहेतुभावो न विरुद्ध इति; स्वाप्नज्ञानस्यासत्य-त्वाभावात् । तत्र हि विषयाणामेव मिथ्यात्वम्; तेषामेव हि बाधो दृश्यते; न ज्ञानस्य । न हि-मया स्वप्नवे-लायामनुभूतं ज्ञानमपि न विद्यत इति कस्यचिदपि प्रत्ययो जायते । दर्शनं तु विद्यते, अर्था न सन्तीति हि बाध-कप्रत्ययः । मायाविनो मन्त्रौषधादिप्रभवं मायामयं ज्ञानं सत्यमेव प्रीतेर्भयस्य च हेतुः; तत्रापि ज्ञानस्याबाधि-तत्वात् । विषयेन्द्रियादिदोषजन्यं रजवादौ सर्पादिविज्ञानं सत्यमेव भयादिहेतुः । सत्यैव अदष्टेपि स्वात्मनि सर्पसन्निधानाद्दष्टबुद्धि; । सत्यैव शङ्काविषबुर्द्धिमरणहेतुभूता । वस्तुभूत एव जलादौ मुखादिप्रतिभासो वस्तु-भूतमुखगतविशेषनिश्चयहेतुः । एषां संवेदनानामुत्पत्तिमत्त्वादर्थक्रियाकारित्वाच्च सत्यत्वमवसीयते ।

हस्त्यादीनामभावेऽपि कथं तद्बुद्धयः सत्या भवन्तीति चेत्; नैतत्, बुद्धीनां सालम्बनत्वमात्रनिय- मात् । अर्थस्य प्रतिभासमानत्वमेव ह्यालम्बनत्वे अपेक्षितम् । प्रतिभासमानता च अस्त्येव दोषवशात् ।

स तु बाधितोऽसत्य इत्यवसीयते । अबाधिता हि बुद्धिः सत्यैवेत्युक्तम् ।।

रेखया वर्णप्रतिपत्तावपि नासत्यात्सत्यबुद्धिः, रेखायास्सत्यत्वात् ।। ननु वर्णात्मना प्रतिपन्ना रेखा वर्णबुद्धिहेतुः,वर्णात्मता त्वसत्या । नैवम्; वर्णात्मताया असत्याया उपायत्वायोगात् । असतो निरुपाख्यस्य ह्युपायत्वं न दृष्टमनुपपन्नञ्च । अथ तस्यां वर्णबुद्धेरुपायत्वम्, एवं तर्ह्यसत्यात्सत्यबुद्धिर्न स्यात् बुद्धेस्सत्यत्वा-देव । उपायोपेययोरेकत्वप्रसङ्गश्च, उभयोर्वर्णबुद्धित्वाविशेषात् । रेखाया अविद्यमानवर्णात्मनोपायत्वे चैकस्या- मेव रेखायामविद्यमानसर्ववर्णात्मकत्वस्य सुलभत्वादेकरेखादर्शनात्सर्ववणर्प्रतिपत्तिस्स्यात् । अथ पिण्डविशेषे देवदत्तादिशब्दसङ्केतवत् चक्षुर्ग्राह्यरेखाविशेषे श्रोत्रग्राह्यवर्णविशेषसङ्केतवशाद्रेखाविशेषो वर्णविशेषबुद्धिहेतु-रिति-हन्त तर्हि सत्यादेव सत्यप्रतिपत्तिः, रेखायाः सङ्केतस्य च सत्यत्वात् ।

रेखागवयादपि सत्यगवयबुद्धिः सादृश्यनिबन्धना, सादृश्यञ्च सत्यमेव ।

न चैकरूपस्य शब्दस्य नादविशेषेणार्थभेदबुद्धिहेतुत्वेऽप्यसत्यात्सत्यप्रतिपत्तिः; नानानादाभिव्य-स्यैकस्यैव शब्दस्य तत्तन्नादाभिव्यङ्गयस्वरूपेणार्थविशेषैस्सह सम्बन्धग्रहणवशादथर्भेदबुद्धयुत्पत्तिहेतुत्वात् । शब्दस्यैकरूपत्वमपि न साधीयः; गकारादेबोधकस्यैव श्रोत्रग्राह्यत्वेन शब्दत्वात् ।

अतोऽसत्यात् शास्त्रात् सत्यब्रह्मविषयप्रतिपत्तिर्दुरुपपादा ।

ननु न शास्त्रस्य गगनकुसुमवदसत्यत्वम्; प्रागद्वैतज्ञानात्सद्वुद्धिबोध्यत्वात् । उत्पन्ने तत्त्वज्ञाने ह्यस-त्यत्वं शास्त्रस्य । न तदा शास्त्रं निरस्तनिखिलभेदचिन्मात्रब्रह्मज्ञानोपायः । यदोपायः, तदास्त्येव शास्त्रम्, अस्तीति बुद्धेः । नैवम्; असति शास्त्रे अस्ति शास्त्रमिति बुद्धेर्मिथ्यात्वात् । ततः किम्? इदं ततः । मिथ्या-भूतशास्त्रजन्यज्ञानस्य मिथ्यात्वेन तद्विषयस्यापि ब्रह्मणो मिथ्यात्वम्; यथा धूमबुध्द्या गृहीतबाष्पजन्याग्नि-ज्ञानस्य मिथ्यात्वेन तद्विषयस्याग्नेरपि मिथ्यात्वम् । पश्चात्तनबाधादर्शनञ्चासिद्धम्; शून्यमेव तत्त्वमिति

वाक्येन तस्यापि बाधदर्शनात् । तत्तु भ्रान्तिमूलमिति चेत्-एतदपि भ्रान्तिमूलमिति त्वयैवोक्तम् । पाश्चात्त्य-बाधादर्शनं तु तस्यैवेतेत्यलमप्रतिष्ठितकुतर्कपरिहसनेन ।

यदुक्तं-वेदान्तवाक्यानि निर्विशेषज्ञानैकरसवस्तुमात्रप्रतिपादनपराणि, "सदेव सौम्येदमग्र आसीत्" इत्येव-मादीनीति । तदयुक्तम्; एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपादनमुखेन सच्छब्दवाच्यस्य परस्य ब्रह्मणो जगदु-पादानत्वं जगन्निमित्तत्वं सर्वज्ञता सवर्शक्तियोगः सत्यसङ्कल्पत्वं सर्वान्तरत्वं सर्वाधारत्वं सर्वनियमनमि-त्याद्यनेककल्याणगुणविशिष्टतां कृत्स्नस्य जगतस्तदात्मकतां च प्रतिपाद्य एवम्भूतब्रह्मात्मकस्त्वमसीति श्वेतकेतुं प्रत्युपदेशाय प्रवृत्तत्वात् प्रकरणस्य । प्रपञ्चितश्चायमर्थो वेदार्थसंग्रहे । अत्राप्यारम्भणाधिकरणे निपु-णतरमुपपादयिष्यते ।।

1.1.1

"अथ परा यया तदक्षरम्" इत्यत्रापि प्राकृतान् हेयगुणान् प्रतिषिध्द्य नित्यत्वविभुत्वसूक्ष्मत्वसर्वगतत्वाव्य-यत्वभूतयोनित्वसार्वज्ञ्यादिकल्याणगुणयोगः परस्य ब्रह्मणः प्रतिपादितः । "सत्यं ज्ञानमनन्तं ब्रह्म" इत्यत्रापि

सामानाधिकरण्यस्यानेकविशेषणविशिष्यैकार्थाभिधानव्युत्पत्त्या न निर्विशेषवस्तुसिद्धिः । प्रवृत्तिनिमि-त्तभेदेनैकार्थवृत्तित्वं हि सामानाधिकरण्यम् । तत्र सत्यज्ञानादिपदमुख्यार्थैर्गुणैस्तत्तद्गुणविरोध्याकारप्रत्य-नीकाकारैर्वा एकस्मिन्नेवार्थे पदानां प्रवृत्तौ निमित्तभेदोऽवश्याश्रयणीयः । इयांस्तु विशेषः,-एकस्मिन् पक्षे पदानां मुख्यार्थता, अपरस्मिंश्च तेषां लक्षणा । न चाज्ञानादीनां प्रत्यनीकता वस्तुस्वरूपमेव । एकेनैव पदेन स्वरूपं प्रतिपन्नमिति पदान्तरप्रयोगवैयर्थ्यात् । तथा सति सामानाधिकरण्यासिद्धिश्च, एकस्मिन् वस्तुनि वर्तमानानां पदानां निमित्तभेदानाश्रयणात् । न च एकस्यैवार्थस्य विशेषणभेदेन विशिष्टताभेदादनेकार्थत्वं पदानां सामानाधिकरण्यविरोधि; एकस्यैव वस्तुनोऽनेकविशेषणविशिष्टता प्रतिपादनपरत्वात्सामानाधि-करण्यस्य, "भिन्नप्रवृविनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम्" इति हि शाब्दाः ।

यदुक्तम्-एकमेवाद्वितीयमित्यत्राद्वितीयपदं गुणतोऽपि सद्वितीयतां न सहते; अतस्सर्वशाखाप्रत्यय-न्यायेन कारणवाक्यानामद्वितीयवस्तुप्रतिपादनपरत्वमभ्युपगमनीयम्, कारणतयोपलक्षितस्याद्वितीयस्य ब्रह्मणो लक्षणमिदमुच्यते "सत्यं ज्ञानमनन्तं ब्रह्म" इति; अतो लिलक्षयिषितं ब्रह्म निर्गुणमेव, अन्यथा "निर्गु-णम्" निरञ्जनम्" इत्यादिभिर्विरोधश्चेति तदनुपपन्नम्, जगदुपादानस्य ब्रह्मणः स्वव्यतिरिक्ताधिष्ठात्रन्तर-निवारणेन विचित्रशक्तियोगप्रतिपादनपरत्वादद्वितीयपदस्य । तथैव विचित्रशक्तियोगमेवावगमयति "तदैक्षत बहुस्यां प्रजायेयेति तत्तेजोऽसृजत" इत्यादि । अविशेषेणाद्वितीयमित्युक्ते निमित्तान्तरमात्रनिषेधः कथं ज्ञायत इति चेत्; सिसृक्षोर्ब्रह्मण उपादानकारणत्वं "सदेव सोम्येदमग्र आसीदेकमेव" इति प्रतिपादितम् । कार्योत्पत्ति-स्वाभाव्येन बुद्धिस्थं निमित्तान्तरमिति तदेवाद्वितीयपदेन निषिध्यत इत्यवगम्यते । सर्वनिषेधे हि स्वाभ्यु- पगतास्सिषाधयिषिता नित्यत्वादयश्च निषिद्धाः स्युः । सर्वशाखाप्रत्ययन्यायश्चात्र भवतो विपरीतफलः, सर्व-शाखासु कारणान्वयिनां सर्वज्ञत्वादीनां गुणानामत्रोपसंहारहेतुत्वात् अतः कारणवाक्यस्वभावादपि "सत्यं ज्ञानमनन्तं ब्रह्म" इत्यनेन सविशेषमेव प्रतिपाद्यत इति विज्ञायते ।।

निर्गुणसगुणवाक्ययोर्विषयावभागेनाविरोधः ।।

न च निर्गुणवाक्यविरोधः, प्राकृतहेयगुणविषयत्वात्तेषां "निर्गुणं "निरञ्जनं "निष्क्रियं शान्तम्" इत्यादीनाम् । ज्ञानमात्रस्वरूपवादिन्योऽपि श्रुतयो ब्रह्मणो ज्ञानस्वरूपतामभिदधति; न तावता निर्विशे-षज्ञानमात्रमेव तत्त्वम् , ज्ञातुरेव ज्ञानस्वरूपत्वात् ।

ज्ञानस्वरूपस्यैव तस्य ज्ञानाश्रयत्वं मणिद्युमणिदीपादिवद्युक्तमेवेत्युक्तम् । ज्ञातुत्वमेव हि सर्वाः श्रुतयो वदन्ति ।। "यः सर्वज्ञः सर्ववित्" "तदैक्षत" "सेयं देवतैक्षत" "स ईक्षत लोकान्नु सृजा इति "नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्" "ज्ञाज्ञौ द्वावजा-वीशनीशौ" "तमीश्वराणां परमं महेश्वरं तं दैवतानां परमं च दैवतम् । पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेशमीड्यम्" "न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" "एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिधित्सोऽपिपांसस्त्सत्यकामस्सत्यसङ्कल्पः" इत्याद्याः श्रुतयो ज्ञातृत्वप्रमुखान् कल्याणगुणान् ज्ञानस्वरूपस्यैव ब्रह्मणः स्वाभाविकान् वदन्ति; समस्तहेयरहित-ताञ्च ।

निर्गुणवाक्यानां सगुणवाक्यानां च विषयमपहतपाप्मेत्याद्यपिपास इत्यन्तेन हेयगुणान् प्रतिषिध्य सत्यकामः सत्यसङ्कल्प इति ब्रह्मणः कल्याणगुणान् विदधतीयं श्रुतिरेव विविनक्तीति सगुणनिर्गुणवाक्ययो-र्विरोधाभावादन्यतरस्य मिथ्याविषयताश्रयणमपि नाशङ्कनीयम् ।।

"भीषाऽस्माद्वातः पवते" इत्यादिना ब्रह्मगुणानारभ्य, "ते ये शतम्" इत्यनुक्रमेण क्षेत्रज्ञानन्दाति-शयमुकत्वा, "यतो वाचो निवर्तन्ते अप्राप्य मनसा सह आनन्दं ब्रह्मणो विद्वान्" इति ब्रह्मणः कल्याणगुणा-नन्त्यमत्यादरेण वदतीयं श्रुतिः । "सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता" इति ब्रह्मवेदनफलमव-गमयत् वाक्यं परस्य विपश्चितो ब्रह्मणो गुणानन्त्यं ब्रवीति । विपश्चिता ब्रह्मणा सह सर्वान् कामान् समश्नुते । काम्यन्त इति कामाः कल्याणगुणाः । ब्रह्मणा सह तद्गुणान् सर्वानश्नुत

इत्यर्थः । दहरविद्यायाम् , "तस्मिन् यदन्तस्तदन्वेष्टव्यम्" इतिवत् गुणप्राधान्यं वक्तुं सहशब्दः । फलोपासनयोः प्रकारैक्यम्, "यथाक्रतुरस्मिन् लोके पुरुषो भवति, तथेतः प्रेत्य भवति" इति श्रुत्यैव सिद्धम् ।।

"यस्यामतं तस्य मतम्...अविज्ञातं विजानताम्" इति ब्रह्मणो ज्ञानाविषयत्वमुक्तञ्चेत्, "ब्रह्मविदा- प्नोति परम्", "ब्रह्म वेद ब्रह्मैव भवति" इति ज्ञानान्मोक्षोपदेशो न स्यात् । "असन्नेव स भवति, असद्व्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद, सन्तमेनं ततो विदुः" इति ब्रह्मविषयज्ञानासद्भावसद्भावाभ्यामात्मनाशमा-त्मसत्ताञ्च वदति; अतो ब्रह्मविषयवेदनमेवापवर्गोपायं (गेय) सर्वाः श्रुतयो विदधति । ज्ञानञ्चोपासनात्म-कम्, उपास्यञ्च ब्रह्म सगुणमित्युक्तम् । "यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" इति ब्रह्मणोऽनन्तस्या-परिच्छिन्नगुणस्य वाङ्मनसयोः एतावदिति परिच्छेदायोग्यत्वश्रवणेन ब्रह्म एतावदिति ब्रह्मपरिच्छेदज्ञान- वतां ब्रह्माविज्ञातममतमित्युक्तम्, अपरिच्छिन्नत्वाद्व्रह्मणः । अन्यथा "यस्यामतं तस्य मतम्", "विज्ञातम-विजानताम्" इति मतत्वविज्ञातत्ववचनं तत्रैव विरुद्धयते ।

यत्तु "न दृष्टेर्द्रष्टारं...न मतेर्मन्तारम्" इति श्रुतिः दृष्टेर्मतेर्व्यतिरिक्तं द्रष्टारं मन्तारं च प्रतिषेधतीति- तत् आगन्तुकचैतन्यगुणयोगितया ज्ञातुरज्ञानस्वरूपतां कुतर्कसिद्धां मत्वा, न तथाऽऽत्मानं पश्येः, न मन्वीथाः, अपि तु द्रष्टारं मन्तारमप्यात्मानं दृष्टिमतिरूपमेव पश्येरित्यभिदधातीति परिहृतम् । अथवा दृष्टे-र्द्रष्टारं मतेर्मन्तारं जीवात्मानं प्रतिषिद्धय सर्वभूतान्तरात्मानं परमात्मानमेवोपास्स्वेति वाक्यार्थः । अन्यथा, "विज्ञातारमरे केन विजानीयात्" इत्यादिज्ञातृत्वश्रुतिविरोधश्च ।। "आनन्दो ब्रह्म" इत्यानन्दमात्रमेव ब्रह्मस्व-रूपं प्रतीयत इति यदुक्तम्; तत् ज्ञानाश्रयस्य ब्रह्मणो ज्ञानं स्वरूपमिति वदतीति परिहृतम् । ज्ञानमेव ह्यनु-कूलमानन्द इत्युच्यते ।"विज्ञानमानन्दं ब्रह्म" इति, आनन्दरूपमेव विज्ञानं ब्रह्मेत्यर्थः । अत एव भवतामे-करसता ।

अस्य ज्ञानस्वरूपस्यैव ज्ञातृत्वमपि श्रुतिशतसमधिगतमित्युक्तम् । तद्वदेव, "स एको ब्रह्मण आनन्दः", "आनन्दं ब्रह्मणो विद्वान्" इति व्यतिरेकनिर्देशाच्च नानन्दमात्रं ब्रह्म; अपि त्वानन्दि; ज्ञातृत्वमेव ह्यानन्दि- त्वम् ।

यदिदमुक्तम्, "यत्र हि द्वैतमिव भवति", "नेह नानास्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह ना- नेव पश्यति", "यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येत्" इति भेदनिषेधो बहुधा (शो) दृश्यत इति- तत्-"कृत्स्नस्य जगतो ब्रह्मकार्यतया तदन्तर्यामिकतया च तदात्मकत्वेनैक्यात् तत्प्रत्यनीकनानात्वं प्रतिषि-ध्यते । न पुनः, बहु स्यां प्रजायेयेति बहुभवनसङ्कल्पपूर्वकं ब्रह्मणो नानात्वं श्रुतिसिद्धं प्रतिषिध्यत" इति परि-

हृतम् ।

नानात्वनिषेधादियमपरमार्थविषयेति चेत्-न; प्रत्यक्षादिसकलप्रमाणानवगतं नानात्वं दुरारोहं ब्रह्मणः प्रतिपाद्य तदेव बाध्यत इत्युपहास्यमिदम् ।

"यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति" इति ब्रह्मणि नानात्वं पश्यतो भयप्रा-प्तिरिति यदुक्तम्-तदसत्; "सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत" इति तन्नानात्वानुसन्धानस्य शान्तिहेतुत्वोपदेशात् । तथा हि सर्वस्य जगतः तदुत्पत्तिस्थितिलयकर्मतया तदात्मकत्वानुसन्धानेनात्र शान्तिर्विधीयते । अतो यथावस्थितदेवतिर्यङ्मनुष्यस्थावरादिभेदभिन्नं जगत् ब्रह्मात्मकमित्यनुसंदधानस्य शान्तिहेतुतया अभयप्राप्तिहेतुत्वेन न भयहेतुत्वप्रसङ्गः ।। एवं तर्हि, "अथ तस्य भयं भवति" इति किमुच्यते ।। इदमुच्यते; "यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति" इत्यभयप्राप्तिहेतुत्वेन ब्रह्मणि या प्रतिष्ठा अभिहिता; तस्याः विच्छेदे भयं भवतीति । यथोक्तं महर्षिभिः-

"यन्मुहूर्तं क्षणं वाऽपि वासुदेवो न चिन्त्यते । सा हानिस्तन्महच्छिद्रं सा भ्रान्तिः सा च विक्रिया" इत्यादि । ब्रह्मणि प्रतिष्ठाया अन्तरम्-अवकाशः विच्छेद एव ।

यदुक्तम् "न स्थानतोऽपि" इति सर्वविशेषरहितं ब्रह्मेति च वक्ष्यतीति-तन्न । सविशेषं ब्रह्मेत्येव हि तत्र वक्ष्यति । "मायामात्रं तु" इति च स्वाप्नानामप्यर्थानां जागरितावस्थानुभूतपदार्थवैधर्म्येण मायामात्र-त्वमुच्यत इति जागरितावस्थानुभूतानामिव पारमार्थिकत्वमेव वक्ष्यति ।।

स्मृतिपुराणयोरपि निर्विशेषज्ञानमोत्रमेव परमार्थः; अन्यदपारमार्थिकमिति प्रतीयत इति यदभिहितम्-तदसत्;-"यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।",

"मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः । न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।

भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ।।", "अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ।

मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय ! । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव",

"विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ।", "उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।

यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ।। यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः ।

अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः", "स सर्वभूतप्रकृतिं विकारान् गुणादिदोषांश्च मुने ! व्यतीतः ।

अतीतसर्वावरणोऽखिलात्मा तेनाऽऽस्तृतं यद् भुवनान्तराले ।।

समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशोद् धृतभूतसर्गः ।

इच्छागृहीताभिमतोरुदेहः संसाधितशेषजगद्धितोऽसौ ।।

तेजोबलैश्वर्यमहावबोधसुवीर्यशक्त्यायादिगुणैकराशिः ।

परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे ।।

स ईश्वरो व्यष्टिसमष्टिरूपोऽव्यक्तस्वरूपः प्रकटस्वरूपः ।

सर्वेश्वरः सर्वदृक् सर्ववेत्ता समस्तशक्तिः परमेश्वराख्यः ।।

स (सं) ज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेकरूपम् ।

संदृश्यते वाऽप्यधिगम्यते वा तज्ज्ञानमज्ञानमतोऽन्यदुक्तम् ।।" "शुद्धे महाविभूत्याख्ये परे ब्रह्मणि शब्द्यते । मैत्रेय ! भगयच्छब्दः सर्वकारणकारणे ।। संभर्तेति तथा भर्ता भकारोऽथर्द्वयान्वितः ।

नेता गमयिता स्त्रष्टा गकारार्थस्तथा मुने ! ।।

ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ।।

वसन्ति तत्र भूतानि भूतात्मन्यखिलात्मनि । स च भूतेष्वशेषेषु विकारार्थस्ततोऽव्ययः ।।"

"ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ।।"

"एवमेष महाशब्दो मैत्रेय ! भगवानिति । परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ।।

तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः । शब्दोऽयं नोपचारेण त्वन्यत्र ह्युपचारतः ।।"

"समस्ताः शक्तयश्चैता नृप ! यत्र प्रतिष्ठिताः । तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् ।।

समस्तशक्ति रूपाणि तत् करोति जनेश्वर ! । देवतिर्यङ्मनुष्याख्याचेष्टावन्ति स्वलीलया ।।

जगतामुपकाराय न सा कर्मनिमित्तजा । चेष्टा तस्याप्रमेयस्य व्यापिन्यव्याहतात्मिका ।।"

"एवम्प्रकारममलं नित्यं व्यापकमक्षयम् । समस्तहेयरहितंविष्ण्वाख्यं परमं पदम् ।।"

"परः पराणां परमः परमात्माऽऽत्मसंस्थितः । रूपवर्णादिनिर्देशविशेषणविवर्जितः ।।

अपक्षयविनाशाभ्यां परिणामर्द्धिजन्मभिः । वर्जितः शक्यते वक्तुं यः सदाऽस्तीति केवलम् ।।

सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः । ततः स वासुदेवेति विद्वद्भिः परिपठ्यते ।।

तद्व्रह्म परमं नित्यमजमक्षरमव्ययम् । एकस्वरूपं च सदा हेयाभावाच्च निमर्लम् ।।

तदेव सर्वमेवैतद्वयक्ताव्यक्तस्वरूपवत् । तथा पुरुषरूपेण कालरूपेण च स्थितम् ।।",

"प्रकृतिर्या मयाऽऽख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि ।।

परमात्मा च सर्वेषामाधारः परमेश्वरः । विष्णुनामा स वेदेषु वेदान्तेषु च गीयते ।।"

"द्वे रूपे ब्रह्मणस्तस्य मूर्तं चामूर्तमेव च । क्षराक्षरस्वरूपे ते सर्वभूतेषु च स्थिते ।।"

अक्षरं तत् परं ब्रह्म क्षरं सर्वमिदं जगत् । एकदेशस्थितस्याग्नेर्ज्योत्स्ना विस्तारिणी यथा ।।

परस्य ब्रह्मणः शक्तिस्तथेदमखिलं जगत् ।।",

"विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथाऽपरा । अविद्या कर्मसंज्ञाऽन्या तृतीया शक्तिरिष्यते ।।

यया क्षेत्रज्ञशक्तिः सा वेष्टिता नृप ! सर्वगा । संसारतापानखिलान् अवाप्नोत्यतिसंततान् ।।

तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता । सर्वभूतेषु भूपाल ! तारतम्येन वर्तते ।।",

"प्रधानं च पुमांश्चैव सर्वभूतात्मभूतया । विष्णुशकत्या महाबुद्धे ! वृतौ संश्रयधर्मिणौ ।

तयोः सैव पृथग्भावकारणं संश्रयस्य च ।।

यथा सक्तं जले वातो बिभर्ति कणिकाशतम् । शक्तिः सापि तथा विष्णोः प्रधानपुरुषात्मनः ।।",

"तदेतदक्षयं नित्यं जगन्मुनिवराखिलम् । आविर्भावतिरोभावजन्मनाशविकल्पवत् ।।"

इत्यादिना परं ब्रह्म स्वभावत एव निरस्तनिखिलदोषगन्धं समस्तकल्याणगुणामकं जगदुत्पत्तिस्थितिसंहा-रान्तःप्रवेशनियमनादिलीलं प्रतिपाद्य, कृत्स्नस्य चिदचिद्वस्तुनः सर्वावस्थावस्थितस्य पारमार्थिकस्यैव पर- स्य ब्रह्मणः शरीरतया रूपत्वम्, शरीररूपतन्वंशाक्तिविभूत्यादिशब्दैः तत्तच्छब्दसामानाधिकरण्येन चाभि-धाय, तद्विभूतिभूतस्य चिद्वस्तुनः स्वरूपेणावस्थितिमचिन्मिश्रतया क्षेत्रज्ञरूपेण स्थितिं चोकत्वा, क्षेत्रज्ञाव-स्थायां पुण्यपापात्मककर्मरूपाविद्यावेष्टितत्वेन स्वाभाविकज्ञानरूपत्वाननुसन्धानमचिद्रूपार्थाकारतयाऽनु-सन्धानञ्च प्रतिपादितमिति, "परं ब्रह्म सविशेषम्; तद्विभूतिभूतं जगदपि पारमार्थिकमेव" इति ज्ञायते ।।

"प्रत्यस्तमितभेदम्" इत्यत्र देवमनुष्यादिप्रकृतिपरिणामविशेषसंसृष्टस्याप्यात्मनः स्वरूपं तद्गतभेदर-हितत्वेन तद्भेदवाचिदेवादिशब्दागोचरं ज्ञानसत्तैकलक्षणं स्वसंवेद्यं योगयुङ्मनसो न गोचर इत्युच्यत इति अनेन न प्रपञ्चापलापः । कथमिदमवगम्यत इति चेत-तदुच्यते-अस्मिन् प्रकरणे संसारैकभेषजतया योग-मभिधाय योगावयवान प्रत्याहारपर्यन्तांश्चोकत्वा,धारणासिद्धयर्थं शुभाश्रयं वक्तुं परस्य ब्रह्मणो विष्णोः शक्तिशब्दाभिचेयं रूपद्वयं मूर्तामूर्तविभागेन प्रतिपाद्य तृतीयशक्तिरूपकर्माख्याविद्यावेष्टितम् अचिद्विशिष्टं क्षेत्रज्ञं मूर्ताख्यविभागं भावनात्रयान्वयादशुभमित्युकत्वा, द्वितीयस्य कर्माख्याविद्याविरहिणोऽचिद्वियुक्तस्य ज्ञानैकाकारस्यामूर्ताख्यविभागस्य निष्पन्नयोगिध्येयतया योगयुङ्मनसोऽनालम्बनतया स्वतश्शुद्धिविरहाच्च शुभाश्रयत्वं प्रतिषिध्य, परशक्तिरूपमिदममूर्तमपरशक्तिरूपं क्षेत्रज्ञाख्यमूर्तञ्च परशक्तिरूपत्वात्मनः क्षेत्र-ज्ञातपत्तिहेतुभूततृतीयशकत्याख्यकमर्रूपाविद्या चेत्येतच्छक्तित्रयाश्रयो भगवदसाधारणम्, आदित्यवर्णम् इत्यादिवेदान्तसिद्धं मूर्तरूपं शुभाश्रय इत्युक्तम् । अत्र परिशुद्धात्मस्वरूपस्य शुभाश्रयतानर्हतां वक्तुम्, "प्रत्यस्यमितभेदं यत्" इत्युच्यते । तथाहि -

"न तद्योगयुजा शक्यं नृप ! चिन्तयितुं यतः । द्वितीयं विष्णुसंज्ञस्य योगिध्येयं महामते (परं पदम्) ।।

समस्ताः शक्तयश्चैता नृप ! यत्र प्रतिष्ठिताः । तत् विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् ।।"

इति च वदति । तथा चतुर्मुखसनकसनन्दनादीनां जगदन्तर्वर्तिनामविद्यावेष्टितत्वेन शुभाश्रयतानर्हतामुकत्वा, बद्धानामेव पश्चात् योगेनोद्भूतबोधानां स्वस्वरूपापन्नानाञ्च स्वतःशुद्धिविरहात् भगवता शौनकेन शुभाश्र- यता निषिद्धा-"आब्रह्मस्तम्बपर्यन्ताः जगदन्तर्व्यवस्थिताः । प्राणिनः कमर्जनितसंसारवशवर्तिनः ।।

"यतस्ततो न ते ध्याने ध्यानिनामुपकारकाः । अविद्यान्तर्गताः सर्वे ते हि संसारगोचराः ।।

पश्चादुद्भूतबोधाश्च ध्यानेनैवोपकारकाः । नैसर्गिको न वै बोधस्तेषामप्यन्यतो यतः ।।"

"तस्मात् तदमलं ब्रह्म निसर्गादेव बोधवत् ।।" इत्यादिना परस्य ब्रह्मणोः विष्णोः स्वरूपं स्वासाधारणमेव शुभाश्रय इत्युक्तम् । अतोऽत्र न भेदापलापः प्रतीयते ।।

"ज्ञानस्वरूपम् इत्यत्रापि ज्ञानव्यतिरिक्तस्यार्थजातस्य कृत्स्नस्य न मिथ्यात्वं प्रतिपाद्यते; ज्ञानस्व-रूपस्याऽऽत्मनो देवमनुष्याद्यर्थाकारेणावभासो भ्रान्तिरित्येतावन्मात्रवचनात् । न हि शुक्तिकाया रजततया-ऽवभासं भ्रान्तिरित्युक्ते जगति कृत्स्नं रजतजातं मिथ्या भवति ।। जगद्ब्रह्मणोः सामानाधिकरण्येनैक्यप्रतीतेः, ब्रह्मणो ज्ञानस्वरूपस्यार्थाकारता भ्रान्तिरित्युक्ते सति अर्थजातस्य कृत्स्नस्य मिथ्यात्वमुक्तं स्यादिति चेत्-तदसत्; अस्मिन् शास्त्रे परस्य ब्रह्मणो विष्णोर्निरस्ताज्ञानादिनिखिलदोषगन्धस्य समस्तकल्याणगुणात्म- कस्य महाविभूतेः प्रतिपन्नतया तस्य भ्रान्तिदर्शनासंभवात् । सामानाधिकरण्येनैक्यप्रतिपादनञ्च बाधासह-मविरुद्धञ्चेत्यनन्तरमेवोपपादयिष्यते । अतोऽयमपि श्लोको नार्थस्वरूपस्य बाधकः ।।

तथा हि-"यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञासस्व, तद्ब्रह्म" इति जगज्जन्मादिकारणं ब्रह्मेत्यवसिते सति -

"इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुतात् वेदो मामयं प्रतरिष्यति ।।" इति शास्त्रेण अर्थस्य इतिहासपुराणाभ्यामुपबृंहणं कार्यमिति विज्ञायते । (उपबृंहणं नाम विदितसकलवेदतदर्थानां स्वयो-गमहिमसाक्षात्कृतवेदतत्त्वार्थानां वाक्यैः स्वावगतवेदवाक्यार्थव्यक्तीकरणम् ) सकलशाखागतस्य वाक्या-र्थस्य अल्पभागश्रवणाद्दुरवगमत्वेन तेन विना निश्चयायोगादुपबृंहणं हि कार्यमेव । तत्र-पुलस्त्यवसिष्ठ-

वरप्रदानलब्धपरदेवतापारमार्थ्यज्ञानवतो भगवतः पराशरात् स्वावगतवेदार्थोपबृंहणमिच्छन् मैत्रेयः परिपप्रच्छ-

"सोऽहमिच्छामि धर्मज्ञ ! श्रोतुं त्वत्तो यथा जगत् । बभूव भूयश्च यथा महाभाग ! भविष्यति ।।

"यन्मयं च जगद्व्रह्मन् यतश्चैतच्चराचरम् । लीनमासीत् यथा यत्र लयमेष्यति यत्र च ।।" इत्यादिना ।।

अत्र ब्रह्मस्वरूपविशेष-तद्विभूतिभेदप्रकार-तदाराधनस्वरूप-फलविशेषाश्च पृष्टाः । ब्रह्मस्वरूपविशे-षप्रश्नेषु यतश्चैतच्चराचरमिति निमित्तोपादानयोः पृष्टत्वात्, यन्मयमित्यनेन सृष्टिस्थितिलयकर्मभूतं जगत् किमात्मकमिति पृष्टम् । तस्य चोत्तरम्, जगच्च स इति । इदञ्च तादात्म्यमन्तर्यामिरूपेणाऽऽत्मतया व्याप्ति-कृतम् ; न तु व्याप्य-व्यापकयोवस्र्त्वैक्यकृतम्; यन्मयमिति प्रश्नस्योत्तरत्वात् जगच्च स इति सामानाधि-करण्यस्य । यन्मयमिति मयडत्र न विकारार्थः; पृथक् प्रश्नवैयर्थ्यात् ।

नापि प्राणमयादिवत् स्वार्थिकः ; "जगच्च स इत्युत्तरानुपपत्तेः । तदा हि, विष्णुरेवेत्युत्तरमभवि- ष्यत् । अतः प्राचुर्यार्थ एव । "तत्प्रकृतवचने मयट्" इति मयट् । कृत्स्नं च जगत् तच्छरीरतया तत्प्रचुरमेव । तस्मात् यन्मयमित्यस्य प्रतिवचनं जगच्च स" इति सामानाधिकरण्यं जगद्व्रह्मणोः शरीरात्मभावनिबन्धन- मिति निश्चीयते ।

अन्यथा-निर्विशेषवस्तुप्रतिपादनपरे शास्त्रेऽभ्युपगम्यमाने, सर्वाण्येतानि प्रश्नप्रतिवचनानि न सङ्गच्छन्ते; तद्विवरणरूपं कृत्स्नं च शास्त्रं न सङ्गच्छते । तथा हि सति, प्रपञ्चभ्रमस्य किम् अधिष्ठानमित्येवं-रूपस्यैकस्य प्रश्नस्य निर्विशेषज्ञानमात्रमित्येवंरूपमेकमेवोत्तरं स्यात् ।

जगद्व्रह्मणोरेकद्रव्यत्वपरे च सामानाधिकरण्ये सत्यसङ्कल्पत्वादिकल्याणगुणैकतानता निखिलहेय-प्रत्यनीकता च बाध्येत; सर्वाशुभास्पदं च ब्रह्म भवेत् । आत्मशरीरभाव एवेदं सामानाधिकरण्यं मुख्यवृत्त- मिति स्थाप्यते । अतः, "विष्णोः सकाशादुद्भूतं जगत् तत्रैव च स्थितम् । स्थितिसंयमकर्ताऽसौ जगतोऽस्य जगच्च सः ।।" इति संग्रहेणोक्तमर्थं "परः पराणाम्" इत्यारभ्य विस्तरेण वक्तुं परब्रह्मभूतं भगवन्तं विष्णुं स्वेनैव रूपेणावस्थितम् "अविकाराय" इति श्लोकेन प्रथमं प्रणम्य, तमेव हिरण्यगर्भ-स्वावतार-शङ्कररूप-त्रिमूतिर्-प्रधान-काल-क्षेत्रज्ञसमष्टि-व्यष्टिरूपेणावस्थितञ्च नमस्करोति ।

तत्र "ज्ञानस्वरूपम्" इत्ययं श्लोकः क्षेत्रज्ञव्यष्टयात्मनाऽवस्थितस्य परमात्मनः स्वभावमाह । तस्म-#ान्नात्र निर्विशेषवस्तुप्रतीतिः ।

यदि निर्विशेषज्ञानस्वरूपब्रह्माधिष्ठानभ्रमप्रतिपादनपरं शास्त्रम्, तर्हि-

"निर्गुणस्याप्रमेयस्य शुद्धस्याप्यमलात्मनः । कथं सर्गादिकर्तृत्वं ब्रह्मणोऽभ्युपगम्यते" इति चोद्यम्,

"शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः । यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः ।

भवन्ति तपतां श्रेष्ठ ! पावकस्य यथोष्णता ।" इति परिहारश्च न घटते ।

तथा हि सति "निर्गुणस्य ब्रह्मणः कथं सर्गादिकर्तृत्वम्", "न ब्रह्मणः पारमार्थिकः सर्गः, अपितु भ्रान्तिपरि-कल्पितः" इति चोद्यपरिहारौ स्याताम् । उत्पत्त्यादिकार्यं सत्त्वादिगुणयुक्तापरिपूर्णकर्मवश्येषु दृष्टमिति सत्त्वा-दिगुणरहितस्य परिपूर्णस्याकर्मवश्यस्य कर्मसंबन्धानर्हस्य कथं सर्गादिकर्तृत्वमभ्युपगम्यत इति चोद्यम् । दृष्टसकलविसजातीयस्य ब्रह्मणो यथोदितस्वभावस्यैव जलादिविसजातीयस्याग्न्यादेरौष्ण्यादिशक्तियोगवत् सर्वशक्तियोगो न विरुध्यत इति परिहारः ।

"परमार्थस्त्वमेवैकः" इत्याद्यपि न कृत्स्नस्यापारमार्थ्यं वदति । अपि तु कृत्स्नस्य तदात्मकतया तद्वयतिरेकेणावस्थितस्यापारमाथार्यम् । तदेवोपपादयति, "तवैष महिमा येन व्याप्तमेतच्चराचरम्" इति । येन त्वयेदं चराचरं व्याप्तम्, अतस्त्वदात्मकमेवेदं सर्वमिति त्वदन्यः कोऽपि नास्ति । अतः सर्वात्मतया त्वमेवैकः परमार्थः । अत इदमुच्यते-तवैष महिमा या सर्वव्याप्तिरिति । अन्यथा तवैषा भ्रान्तिरिति वक्त- व्यम्; जगतः पते त्वमित्यादीनां पदानां लक्षणा च स्यात् । लीलया महीमुद्धरतो भगवतो महावराहस्य स्तुतिप्रकरणविरोधश्च ।

यतः कृत्स्नं जगत् ज्ञानात्मना त्वयाऽऽत्मतया व्याप्तत्वेन तव मूर्तम्, तस्मात् त्वदात्मकत्वानुभव-साधनयोगविरहिण एतत् केवलदेवमनुष्यादिरूपमिति भ्रान्तिज्ञानेन पश्यन्तीत्याह "यदेतद्दृश्यते" इति ।

न केवलं वस्तुतस्त्वदात्मकं जगत् देवमनुष्याद्यात्मकमिति दर्शनमेव भ्रमः; ज्ञानाकाराणामात्मनां देवमनुष्याद्यर्थाकारत्वदर्शनमपि भ्रम इत्याह "ज्ञानस्वरूपमखिलम्" इति ।

ये पुनर्बुद्धिमन्तो ज्ञानस्वरूपात्मविदः सर्वस्य भगवदात्मकत्वानुभवसाधनयोगयोग्यपरशुद्धमनसश्च, ते देवमनुष्यादिप्रकृतिपरिणामविशेषशरीररूपमिदमखिलं जगत् शरीरातिरिक्तज्ञानस्वरूपात्मकं त्वच्छरीरञ्च पश्यन्तीत्याह "ये तु

ज्ञानविदः" इति । अन्यथा श्लोकानां पौनरुक्तयम्, पदानां लक्षणा, अर्थविरोधः प्रकरण-विरोधः, शास्त्रतापर्यविरोधश्च ।।

"तस्यात्मपरदेहेषु सतोऽप्येकमयम्" इत्यत्र, सर्वेष्वात्मसु ज्ञानैकाकारतया समानेषु सत्सु-

देवमनुष्यादिप्रकृतिपरिणामविशेषरूपपिण्डसंसर्गकृतमात्मसु देवाद्याकारेण द्वैतदर्शनमतथ्यमित्यु- च्यते । पिण्डगतमात्मगतमपि द्वैतं न प्रतिषिध्यते । देवमनुष्यादिविविधविचित्रपिण्डेषु वर्तमानं सर्वमात्म- वस्तु सममित्यर्थः; - यथोक्तं भगवता, "शुनि चैव श्वपाके च पण्डिताः समदर्शिनः", "निर्दोषं हि समं ब्रह्म" इत्यादिषु । - "तस्यात्मपरदेहेषु सतोऽपि" इति देहातिरिक्ते वस्तुनि स्वपरविभागस्योक्तत्वात् । ...."यद्य-न्योऽस्ति परः कोऽपि" इत्यत्रापि नात्मैक्यं प्रतीयते; "यदि मत्तः परः कोऽप्यन्यः" इति एकस्मिन्नर्थे परशब्दा-न्यशब्दयोः प्रयोगायोगात् । तत्र परशब्दः स्वव्यतिरिक्तात्मवचनः,अन्यशब्दस्तस्यापि ज्ञानैकाकारत्वाद-न्याकारत्वप्रतिषेधार्थः । एतदुक्तं भवति-यदि मद्वयतिरिक्तः कोऽप्यात्मा मदाकारभूतज्ञानाकारादन्याकारो-ऽस्ति-तदा, "अहमेवमाकारः, अयञ्चान्यादृ#ाकारः" इति शक्यते व्यपदेष्टुम् । न चैवमस्ति; सर्वेषां ज्ञानै-काकारत्वेन समानत्वादेवेति ।

वेणुरन्ध्रविभेदेन इत्यत्रापि-आकारवैषम्यमात्मनां न स्वरूपकृतम्, अपि तु देवादिपिण्डप्रवेशकृतमि-त्युपदिश्यत; नात्मैक्यम् । दृष्टान्ते चानेकरन्ध्रवर्तिनां वाय्वंशानां न स्वरूपैक्यम्; अपि त्वाकारसाम्यमेव । तेषां वायुत्वेनैकाकाराणां रन्ध्रभेदनिष्क्रमणकृतो हि षड्जादिसंज्ञाभेदः; एवमातामनां देवादिसंज्ञाभेदः । (यथा) तैजसाऽऽप्यपार्थिवद्रव्यांशभूतानां पदार्थानां तत्तद्द्रव्यत्वेनैक्यमेव; न स्वरूपैक्यम् । तथा वायवीया-नामंशानामपि स्वरूपभेदोऽवर्जनीयः ।

"सोऽहं स च त्वम्" इति सर्वात्मनां पूर्वोक्तं ज्ञानाकारत्वं(रं) तच्छब्देन परामृश्य तत्सामानाधि-करण्येन अहंत्वमित्यादीनामर्थानां ज्ञानमेवाऽऽकार इत्युपसंहरन् देवाद्याकारभेदेनात्मसु भेदमोहं परित्यजे- त्याह । अन्यथा देहातिरिक्तात्मोपदेश्यस्वरूपे अहं त्वं सर्वमेतदात्मस्वरूपमिति भेदनिर्देशो न घटते । अहं-त्वमादिशब्दानामुपलक्ष्येण सर्वमेतदात्मस्वरूपमित्यनेन सामानाधिकरण्यादुपलक्षणत्वमपि न सङ्गच्छते ।

सोऽपि यथोपदेशमकरोदित्याह, "तत्याज भेदं परमार्थदृष्टिः" इति । कुतश्चैष निर्णय इति चेत्-देहात्मविवे-कविषयत्वादुपदेशस्य । तच्च "पिण्डः पृथग् यतः पुंसः शिरःपाण्यादिलक्षणः" इति प्रक्रमात् । विभेदजनके-ऽज्ञाने" इति च नाऽऽत्मस्वरूपैक्यपरम्; नापि जीवपरयोः । आत्मस्वरूपैक्यमुक्तरीत्या निषिद्धम् । जीव-परयोरपि स्वरूपैक्यं देहात्मनोरिव न संभवति; तथा च श्रुतिः-"द्वा सुपर्णासयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति", "ॠतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्ध्ये । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः", "अन्तःप्रविष्टः शास्ता जनानां सर्वात्मा" इत्याद्याः; अस्मिन्नपि शास्त्रे, "स सर्वभूतप्रकृतिं विकारान् गुणादिदोषांश्च मुने व्यतीतः । अतीतसर्वावरणोऽखिलात्मा तेनाऽऽस्तृतं यद् भुवनान्तराले ।।", "समस्तकल्याणगुणात्मकोऽसौ....परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे", अविद्या कर्मसंज्ञाऽन्या तृतीयाशक्तिरिष्यते । यथा क्षेत्र-ज्ञशक्तिः सा वेष्टिता नृप ! सर्वगा" इति भेदव्यपदेशात् । "उभयेऽपि हि भेदेनैनमधीयते", "भेदव्यपदेशाच्चान्यः", "अधिकं तु भेदनिर्देशात्" इत्यादिसूत्रेषु च, "य आत्मनि तिष्ठन् आत्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति", "प्राज्ञेनात्मना संपरिष्वक्तः", "प्राज्ञेनाऽऽत्मनाऽन्वारूढः" इत्यादिभि-रुभयोरन्योन्यप्रत्यनीकाकारेण स्वरूपनिर्णयात् ।।

नापि साधनानुष्ठानेन निर्मुक्ताविद्यस्य परेण स्वरूपैक्यसंभवः, अविद्याश्रयत्वयोग्यस्य तदनर्हत्वा-संभवात् । यथोक्तम्-

"परमात्मात्मनोर्योगः परमार्थ इतीष्यते । मिथ्यैतदन्यद्द्रव्यं हि नैति तद्द्रव्यतां यतः ।।" इति । मुक्त- स्य तु तद्धर्मतापत्तिरेवेति भगवद्गीतासूक्तम्,-

"इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ।।" इति । इहापि-"आत्मभावं नयत्येनं तद्ब्रह्म ध्याधिनं मुने ! । विकार्यमात्मनः शक्तया लोकमाकर्षको यथा" इति । आत्म-भावम्-आत्मनः स्वभावम् । न ह्याकर्षकस्वरूपापत्तिराकृष्यमाणस्य वक्ष्यति, च, "जगद्वयापारवर्ज प्रकर-णादसंनिहितत्वाच्च", "भोगमात्रसाम्यलिङ्गाच्च", "मुक्तोपसृष्यव्यपदेशाच्च" इति । वृत्तिरपि, "जगद्वयापार- वर्जं समानो ज्योतिषा" इति । द्रमिडभाष्यकारश्च, "देवतासायुज्यादशरीरस्यापि देवतावत् सर्वार्थसिद्धिः स्यात्" इत्याह । श्रुतयश्च, "य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान्, तेषां सर्वेषु लोकेषु काम- चारो भवति", "ब्रह्मविदाप्नोति परम्....सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता", "एतमानन्द-मयमात्मानमुपसङ्क्रम्य, इमाँल्लोकान् कामान्नी कामरूप्यनुसञ्चरन्", "स तत्र पर्येति", "रसो वै

सः । रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति", "यथा नद्यः स्यन्दमानाः समुद्रे अस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्", "तदा विद्वान् पुण्यपापे विधूय निरञ्चनः परमं साम्यमुपैति" इत्याद्याः ।

"परविद्यासु सर्वासु ब्रह्म उपास्यम्; फलं चैकरूपमेव । अतो विद्याविकल्पः" इति सूत्रकारेणैव "आन-न्दादयः प्रधानस्य", "विकल्पोऽविशिष्टफलत्वात्" इत्यादिषूक्तम् । वाक्यकारेण च सगुणस्यैवोपास्यत्वं विद्याविकल्पश्चोक्तः, "युक्तं तद्गुणकोपासानात्" इति । भाष्यकृता व्याख्यातञ्च, "यद्यपि सच्चित्तः" इत्या- दिना । "ब्रह्म वेद ब्रह्मैव भवति" इत्यत्रापि, "नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्", "निरञ्जनः परमं साम्यमुपैति", "परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते" इत्यादिभिरैकार्थ्यात् प्राकृतनामरूपाभ्यां

विनिर्मुक्तस्य निरस्ततत्कृतभेदस्य ज्ञानैकाकारतया ब्रह्मप्रकारतोच्यते । प्रकारैक्ये च तत्त्वक्ष्यवहारो मुख्य एव, यथा, सेयं (सोऽयं) गौरिति ।

अत्रापि,-"विज्ञानं प्रापकं प्राप्ये परे ब्रह्मणि पार्थिव प्रापणीयस्तथैवात्मा प्रक्षीणाशेषभावनः" इति-परब्रह्मध्यानादात्मा परब्रह्मवत् प्रक्षीणाशेष(कर्म)भावनः-कर्मभावनाब्रह्मभावनोभयभावनेति भावनात्रय- रहितः प्रापणीय इत्यभिधाय -

"क्षेत्रज्ञः करणी ज्ञानं करणं तस्यवै द्विज ! (तेन तत्) । निष्पाद्य मुक्तिकार्यं हि (वै) कृतकृत्यं निव- र्तयेत् (र्तते)" इति करणस्य परब्रह्मध्यानरूपस्य प्रक्षीणांशेषभावनात्मस्वरूपप्राप्त्या कृतकृत्यत्वेन निवृत्ति-वचनात् 2यावत्सिद्भयनुष्ठेयम्" इत्युक्तवा-

"तद्भावभावमापन्नस्तथाऽसौ परमात्मना । भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत्" इति मुक्तस्य स्वरूपमाह । तद्भावः-ब्रह्मणो भावः, स्वभावः; न तु स्वरूपैक्यम्; "तद्भावभावमापन्नः" इति द्वितीयमा-वशब्दानन्वयात्; पूर्वोक्तार्थविरोधाच्च । यत् ब्रह्मणः प्रक्षीणाशेषभावनत्वम्, तदापत्तिः तद्भावभावापत्तिः । यदैवमापन्नः, तदाऽसौ परमात्मना अभेदी भवति-भेदरहितो भवति । ज्ञानैकाकारतया परमात्मनैकप्रकार-स्यास्य तस्माद्भेदो देवादिरूपः; तदन्वयोऽस्य कर्मरूपाज्ञानमूलः, न स्वरूपकृतः; स तु देवादिभेदः परब्रह्म-ध्यानेन मूलभूताज्ञानरूपे कर्मणि विनष्टे हेत्वभावात् निवर्तत इत्यभेदी भवति । यथोक्तम्-

"एकस्वरूपभेदस्तु बाह्यकर्मवृतिप्रजः । देवादिभेदेऽपध्वस्ते नास्त्यना (नास्त्येवा)वरणो हि सः ।।" इति ।

एतदेव विवृणोति, "विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति" इति । विभेदः-विविधो भेदः, देवतिर्यङ्मनुष्यस्थावरात्मकः । यथोक्तं शौनकेनापि, "चर्तुविधो- ऽपि भेदोऽयं मिथ्याज्ञानानिबन्धनः" इति । आत्मनि ज्ञानरूपे देवादिरूपविविधभेदहेदुभूतकर्माख्याज्ञाने परब्रह्मध्यानेनात्यन्तिकनाशं गते सति हेत्वभावादसन्तं परस्मात् ब्रह्मणः आत्मनो देवादिरूपभेदं कः करिष्यतीत्यर्थः । "अविद्या कर्मसंज्ञाऽन्या" इति ह्यत्रैवोक्तम् ।

ख्ढख्ढख

क्षेत्रज्ञं चापि मां विद्धि" इत्यादिना अन्तर्यामिरूपेण सर्वस्यात्मतयैक्याभिधानम् । अन्यथा, "क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते, उत्तमः पुरुषस्त्वम्यः" इत्यादिभिर्विरोधः । अन्तर्वामिरूपेण सर्वेषामा-त्मत्वं तत्रैव भगवताऽभिहितम्, "ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन ! तिष्ठति", "सर्वस्य चाहं हृदि संनिविष्टः" इति च । "अहमात्मा गुडाकेश ! सर्वभूताशयस्थितः" इति च तदेवोच्यते । भूतशब्दो ह्यात्मपर्यन्तदेहवचनः । यतः सर्वेषामयमात्मा, तत एव सर्वेषां तच्छरीरतया पृथगवस्थानं प्रतिषिध्यते, "न तदस्ति विना यत् स्यात्" इति । भगवद्विभूत्युपसंहारश्चायमिति तथैवाभ्युपगन्तव्यम् । तत इदमुच्यते-

"यद्यत् विभूतिमत् सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोठशसंभवम् ।।

विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्" इति ।

अतः शास्त्रेषु न निर्विशेषवस्तुप्रतिपादनमस्ति; नाष्यर्थजातस्य भ्रान्तत्वप्रतिपादनम्; नापि चिद-चिदीश्वराणां स्वरूपभेदनिषेधः ।।

( इति महासिद्धान्ते निर्निशेषब्रह्मनिराकरणम् )

1.1.1

1-1-1 जिज्ञासाधिकरणम् (संपुट -2)

महासिद्धान्ते अविद्याभङ्गभाग उत्तरः

यदप्युच्यते-निर्विशेषे स्वयम्प्रकाशे वस्तुनि दोषपरिकल्पितमीशे(श्वरे)शितव्याद्यनन्तविकल्पं सर्वं जगत् । दोषश्च स्वरूपतिरोधन विविधविचित्रविक्षेपकरी सदसदनिर्वचनीयाऽनाद्यविद्या । सा चावश्याभ्युपगमनीया, "अनृतेन हि प्रत्यूढाः" इत्यादिभिः श्रुतिभिः ब्रह्मणः तत्त्वमस्यादिवाक्यसामानाधिकरण्यावगतजीवैक्यानुपपत्त्या च । सा तु न सती; भ्रान्तिवाधयोरयोगात् । नाप्यसती; ख्यातिवाधयोश्चायोगात् । अतः कोटिद्वयविनिर्मुक्ते-यमविद्येति तत्त्वविद इति ।

तदयुक्तम्; - सा हि किमाश्रित्य भ्रमं जनयति ? न तावत् जीवमाश्रित्य, अविद्यापरिकल्पितत्वाज्जीव-भावस्य । नापि ब्रह्माश्रित्य; तस्य स्व(यं)प्रकाशज्ञानस्वरूपत्वेनाविद्याविरोधित्वात् । सा हि ज्ञानबाध्याऽभि-मता -

"ज्ञानरूपं परं ब्रह्म तन्निवर्त्यं मृषात्मकम् । अज्ञानं चेत् तिरस्कुर्यात् कः प्रभुस्तन्निवर्तने ।।

ज्ञानं ब्रह्मेति चेत् ज्ञानमज्ञानस्य निवर्तकम् । ब्रह्मवत् तत्प्रकाशत्वात् तदपि ह्यनिवर्तकम् ।।

ज्ञानं ब्रह्मेति विज्ञानमस्ति चेत्, स्यात् प्रमेयता । ब्रह्मणोऽननुभूतित्वं त्वदुक्तयैव प्रसज्यते ।।"

ज्ञानस्वरूपं ब्रह्मेति ज्ञानं तस्या अविद्याया बाधकम् ; न स्वरूपभूतं ज्ञानमिति चेत् - न; उभयोरपि ब्रह्म-स्वरूपप्रकाशत्वे सति अन्यतरस्याविरोधित्वमन्यतरस्य नेति विशेषानवगमात् ।

एतदुक्तं भवति - ज्ञानस्वरूपं ब्रह्मेत्यनेन ज्ञानेन ब्रह्मणिं यः स्वभावतोऽवगम्यते; स ब्रह्मणः स्वयम्प्रकाश-त्वेन स्वयमेव प्रकाशत इति अविद्याविरोधित्वे न कश्चिद्विशेषः स्वरूपतद्विषयज्ञानयोरिति ।

किञ्च अनुभवस्वरूपस्य ब्रह्मणोऽनुभवान्तराननुभाव्यत्वेन भवतो न तद्विषयं ज्ञानमस्ति । अतो ज्ञानम-ज्ञानविरोधि चेत्, स्वयमेव विरोधि भवतीति नास्या ब्रह्माश्रयत्वसंभवः । शुक्तयादयस्तु स्वयाथात्म्यप्रकाशे स्वयमसमर्थाः स्वाज्ञानाविरोधिनः, तन्निवर्तने च ज्ञानान्तरमपेक्षन्ते । ब्रह्म तु स्वानुभवसिद्धस्वयाथात्म्यमिति स्वाज्ञानविरोध्येव, तत एव निवर्तकान्तरं च नापेक्षते ।।

अथोच्येत-ब्रह्मव्यतिरिक्तस्य मिथ्यात्वज्ञानमज्ञानविरोधीति- न । इदं ब्रह्मव्यतिरिक्तमिथ्यात्वज्ञानं किं ब्रह्म-याथात्म्याज्ञानविरोधि, उत प्रपञ्चसत्यत्वरूपाज्ञानविरोधि इति विवेचनीयम् । न तावत् ब्रह्मयाथात्म्याज्ञान-विरोधि; अतद्विषयत्वात् । ज्ञानाज्ञानयोरेकविषयत्वे(त्वेन) हि विरोधः । प्रपञ्चमिथ्यात्वज्ञानं तत्सत्यत्वरूपा-ज्ञानेन विरुध्यते । तेन प्रपञ्चसत्यत्वरूपाज्ञानमेव बाधितमिति ब्रह्मस्वरूपाज्ञानं तिष्ठत्येव । ब्रह्मस्वरूपाज्ञानं नाम तस्य सद्वितीयत्वमेव । तत्तु तद्य्वतिरिक्तस्य मिथ्यात्वज्ञानेन निवृत्तम् । स्वरूपं तु स्वानुभवसिद्धमिति चेत्-न; ब्रह्मणोऽद्वितीयत्वं स्वरूपं स्वानुभवसिद्धमिति तद्विरोधि सद्वितीयत्वरूपाज्ञानं तद्बाधश्च न स्याताम् । अद्वितीयत्वं धर्म इति चेत्-न; अनुभवस्वरूपस्य ब्रह्मणोनुभाव्यधर्मविरहस्य भवतैव प्रतिपादितत्वात् । अतो ज्ञानरूपस्य ब्रह्मणो विरोधादेव नाज्ञानाश्रयत्वम् ।।

किञ्चाविद्यया प्रकाशैकस्वरूपं ब्रह्म तिरोहितमिति वदता स्वरूपनाश एवोक्तस्स्यात् । प्रकाशतिरोधानं नाम प्रकाशोत्पत्तिप्रतिबन्धः, विद्यमानस्य विनाशो वा । प्रकाशस्यानुत्पाद्यत्वाभ्युपगमेन प्रकाशतिरोधानं प्रकाश-नाश एव ।।

अपिच-निर्विषया निराश्रया स्वप्रकाशेयमनुभूतिः स्वाश्रयदोषवशादनन्ताश्रयमनन्तविषयमात्मानमनुभव-

तीत्यत्र किमयं स्वाश्रयदोषः परमार्थभूतः, उतापरमार्थभूत इति विवेचनीयम् । न तावत् परमार्थः; अनभ्युप-गमात् । नाप्यपरमार्थः, तथा सति हि द्रष्टृत्वेन वा दृश्यत्वेन वा दृशित्वेन वाऽभ्युपगमनीयः । न तावददृशिः; दृशिस्वरूपभेदानभ्युपगमात् । भ्रमाधेष्ठानभूतायास्तु साक्षाद्दृशेर्माध्यमिकपक्षप्रसङ्गेनापारमार्थ्यानभ्युपगमाच्च । द्रष्टृदृश्ययोस्तदवच्छिन्नाया दृशेश्च काल्पनिकत्वेन मूलदोषान्तरापेक्षयाऽनवस्था स्यात् । अथैतत्परिजिहीर्षया परमार्थसती अनुभूतिरेव ब्रह्मरूपा दोष इति चेत् - ब्रह्मैव चेद्दोषः, प्रपञ्चदर्शनस्यैव तत् मूलं स्यात्; किं प्रपञ्च-तुल्याविद्यान्तरपरिकल्पनेन ? ब्रह्मणो दोषत्वे सति तस्य नित्यत्वेनानिर्मोक्षश्च स्यात् । अतो यावत् ब्रह्मव्य-तिरिक्तपारमार्थिकदोषानभ्युपगमः, न तावत् भ्रान्तिरुपपादिता भवति ।।

अनिर्वचनीयत्वञ्च किमभिप्रेतम् ? सदसद्विलक्षणत्वमिति चेत्; तथाविधस्य वस्तुनः प्रमाणुशून्यत्वेना-निर्वचनीयतैव स्यात् । एतदुक्तं भवति-सर्वं हि वस्तुजातं प्रतीतिव्यवस्थाप्यम् । सर्वा च प्रतीतिः सदसदाकारा । (सदसदाकारायास्तु प्रतीतेः सदसद्विलक्षणं विषय इत्यभ्युपगम्यमाने सर्वं सर्वप्रतीतेर्विषयः स्यात् - इति ।।

अथ स्यात् - वस्तुस्वरूपतिरोधानकरमान्तरबाह्यरूपविविधाध्यासोपादानं सदसदनिर्वचनीयमविद्याऽज्ञा-नादिपदवाच्यं वस्तुयाथात्म्यज्ञाननिवत्र्यं ज्ञानप्रागभावातिरेकेण भावरूपमेव किञ्चिद्वस्तु प्रत्यक्षानुभानाभ्यां प्रतीयते । तदुपहितब्रह्मोपादानश्च अविकारे स्वप्रकाशचिन्मात्रवपुषि तेनैव तिरोहितस्वरूपे प्रत्यगात्मनि अहङ्कारज्ञानज्ञेयविभागरूपोऽध्यासः ।

तस्यैवावस्थाविशेषेणाध्यासरूपे जगति ज्ञानबाध्यसप्ररजतादिवस्तु-तत्तज्ज्ञानरूपाध्यासोऽपि जायते । कृत्स्नस्य मिथ्यारूपस्य तदुपादानत्वं च मिथ्याभूतमेव कारणं भवितुमर्हतीति हेतुबलादवगम्यते ।।

कारणाज्ञानविषयं प्रत्यक्षं स्यात्-अहमज्ञः मामन्यं च न जानामीत्यपरोक्षावभासः । अयं तु न ज्ञानप्रागभा-वविषयः । स हि षष्ठप्रमाणगोचरः; अयं तु, अहं सुखीतिवदपरोक्षः । अभावस्य प्रत्यक्ष(गोचर)त्वाभ्युपगमेऽ-प्ययमनुभवो नात्मनि ज्ञानाभावविषयः; अनुभववेलायामपि ज्ञानस्य विद्यमानत्वात्; अविद्यमानत्वे ज्ञाना-भावप्रतीत्यनुपपत्तेश्च । एतदुक्तं भवति-अहमज्ञ इत्यस्मिन्ननुभवे अहमित्यात्मनोऽभावधर्मितया ज्ञानस्य च प्रतियोगितयाऽवगतिरस्ति वा ? न वा ? । अस्ति चेत्, विरोधादेव न ज्ञानाभावानुभवः संभवः । नो चेत्, धर्मिप्रतियोगिज्ञानसव्यपेक्षो ज्ञानाभावानुभवः सुतरां न संभवति । ज्ञानाभावस्यानुमेयत्वे अभावाख्यप्रमाण-विषयत्वे चेयमनुपपत्तिः समाना । अस्याज्ञानस्य भावरूपत्वे धर्मिप्रतियोगिज्ञानसद्भावेऽपि विरोधाभावादय-मनुभवो भावरूपाज्ञानविषय एवाभ्युपगन्तव्यः - इति ।

ननु च भावरूपमप्यज्ञानं वस्तुयाथात्म्यावभासरूपेण साक्षिचेतन्येन विरुध्यते ।। मैवम् । साक्षिचैतन्यं न वस्तुयाथात्म्यविषयम्, अपि त्वज्ञानविषयम्; अन्यथा मिथ्यार्थावभासानुपपत्तिः । न ह्यज्ञानविषयेण ज्ञाने-नाज्ञानं निवर्तत इति न विरोधः ।। ननु चेदं भावरूपमप्यज्ञानं विषयविशेषव्यावृत्तमेव साक्षिचेतन्यस्य विषयो भवति । स विषयः प्रमाणा(न)धीनसिद्धिरिति कथमिव साक्षिचैतन्येनास्मदर्थव्यावृत्तमज्ञानं विषयीक्रियते । नैष दोषः । सर्वमेव वस्तुजातं ज्ञाततया अज्ञाततया वा साक्षिचैतन्यस्य विषयभूतम् । तत्र जडत्वेन ज्ञाततया सिध्यत एव प्रमाणव्यवघानापेक्षा । अजडस्य तु प्रत्यग्वस्तुनः स्वयं सिध्यतो न प्रमाणव्यवधानापेक्षेति सदै-वाज्ञानस्य व्यावर्तकत्वेनावभासो युज्यते । तस्मात् न्यायोपबृंहितेन प्रत्यक्षेण भावरूपमेवाज्ञानं प्रतीयते ।

तदिदं भावरूपमज्ञानमनुमानेनापि सिध्यति - विवादाध्यासितं प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्त स्व-

विषयावरण-स्वनिवर्त्य-स्वदेशगतवस्त्वन्तरपूर्वकम्; अप्रकाशितार्थप्रकाशकत्वात्; अन्धकारे प्रथमोत्पन्न-प्रदीपभावात्-इति ।। आलोकाभावमात्रं वा रूपदर्शनाभावमात्रं वा तमः; न द्रव्यान्तरम् (द्रव्यम्) । तत् कथं भावरूपाज्ञानसाधने निदर्शनतयोपन्यस्यत इति चेत्-उच्यते । बहुलत्वविरलत्वाद्यवस्थायोगेन रूपवत्तया चोप-लब्धेर्द्रव्यान्तरमेव तमः-इति निरवद्यम्-इति ।।

अत्रोच्यते-"अहमज्ञो मामन्यं च न जानामि" इत्यत्रोपपत्तिसहितेन केवलेन च प्रत्यक्षेण न भावरूपमज्ञानं प्रतीयते । (यस्तु ज्ञानप्रागभावविषयत्वे विरोध उक्तः, स हि भावरूपाज्ञानेऽपि तुल्यः । विषयत्वेनाश्रयत्वेन चाज्ञानस्य व्यावर्तकतया प्रत्यगर्थः प्रतिपन्नो वा अप्रतिपन्नो वा । प्रतिपन्नश्चेत्-तत्स्वरूपज्ञाननिवर्त्यं तदज्ञानं तस्मिन् प्रतिपन्ने कथमिव तिष्ठति । अप्रतिपन्नश्चेत्-व्यावर्तकाश्रयविषयज्ञानशून्यमज्ञानं कथमनुमूयेत ।। अथ विशदस्वरूपावभासोऽज्ञानविरोधी; अविशदस्वरूपं तु प्रतीयत इत्याश्रयविषयज्ञाने सत्यपि नाज्ञानानुभव-विरोधः इति-हन्त तर्हि ज्ञानप्रागभावोऽपि विशदस्वरूपविषयः आश्रयप्रतियोगिज्ञानं तु अविशदस्वरूपविष-यमिति न कश्चिद्विशेषोऽन्यत्राभिनिवेशात् ।)

भावरूपस्याज्ञानस्यापि ह्यज्ञानमिति सिध्यतः प्रागभावसिद्धाविव सापेक्षत्वमस्त्येव । तथा हि-अज्ञानमिति ज्ञानाभावः, तदन्यः, तद्विरोधी वा । त्रयाणामपि तत्स्वरूपज्ञानापेक्षा अवश्याश्रयणीया । यद्यपि तमःस्वरूप-प्रतिपत्तौ प्रकाशापेक्षा न विद्यते; तथापि प्रकाशविरोधीत्यनेनाऽऽकारेण प्रतिपत्तौ प्रकाशप्रतिपत्त्यपेक्षाऽस्त्येव । भवदभिमताज्ञानं न कदाचित् स्वरूपेण सिद्धयती; अपि त्वज्ञानमित्येव; तथा सति ज्ञानाभाववत् तदपेक्षत्वं समानम् ।

ज्ञानप्रागभावस्तु भवताऽप्यभ्युपगम्यते, प्रतीयते चेत्युभयाभ्युपेतो ज्ञानप्रागभाव एव "अहमज्ञो मामन्यं च न जानामि" इत्यनुभूयत इत्यभ्युपगन्तव्यम् । नित्यमुक्तस्वप्रकाशचैतन्यैकस्वरूपस्य ब्रह्मणोऽज्ञानानुभवश्च न संभवति; स्वानुभवस्वरूपत्वात् ।।

स्वानुभवस्वरूपमपि तिरोहितस्वरूपमज्ञानमनुभवतीति चेत्-किमिदं तिरोहितस्वरूपत्वम् ? अप्रकाशित-स्वरूपत्वमिति चेत्-स्वानुभवस्वरूपस्य कथमप्रकाशितस्वरूपत्वम् ? स्वानुभवस्वरूपस्याप्यन्यतोऽप्रकाशि-तस्वरूपत्वमुपपद्यत इति चेत्-एवं तर्हि प्रकाशाख्यधर्मानभ्युपगमेन प्रकाशस्यैव स्वरूपत्वात् अन्यतः स्वरूप-नाश एव स्यादिति पूर्वमेवोक्तम् ।।

(किञ्च-ब्रह्मस्वरूपतिरोधानहेतुभूतमेतदज्ञानं स्वयमनुभूतं सत् ब्रह्म तिरस्करोति । ब्रह्म तिरस्तकृत्य स्वयं तदनुभवविषयो भवतीत्यन्योन्याश्रयणम् ।।)

अनुभूतमेव तिरस्करोतीति चेत्-यद्यतिरोहितस्वरूपमेव ब्रह्म अज्ञानमनुभवति, तदा तिरोधानकल्पना निष्प्रयोजना स्यात्,

अज्ञानस्वरूपकल्पना च; ब्रह्मणोऽज्ञानदर्शनवत् अज्ञानकार्यतयाऽभिमतप्रपञ्चदशर्नस्यापि संभवात् । किञ्च-ब्रह्मणोऽज्ञानानुभवः किं स्वतः, अन्यतो वा ? स्वतश्चेत्-अज्ञानानुभवस्य स्वरूपप्रयुक्तत्वे-नानिर्मोक्षः स्यात् । अनुभूतिस्वरूपस्य ब्रह्मणोऽज्ञानानुभवस्वरूपत्वेन, मिथ्यारजतबाधकज्ञानेन रजतानुभ-वस्यापि निवृत्तिवत् निवर्तकज्ञानेनाज्ञानानुभूतिरूपब्रह्मस्वरूपनिवृत्तिर्वा । अन्यतश्चेत्-किं तदन्यत् ? अज्ञा-नान्तरमिति चेत्-अनवस्था स्यात् ।

ब्रह्म तिरस्कृत्यैव स्वयमनुभवविषयो भवतीति चेत्-तथा सति इदमज्ञानं काचादिवत् स्वसत्तया ब्रह्म तिर-

स्करोतीति ज्ञानबाध्यत्वमज्ञानस्य न स्यात् ।।

अथेदमज्ञानं स्वयमनादि, ब्रह्मणः स्वसाक्षित्वं ब्रह्मस्वरूपतिरस्कृतिं च युगपदेव करोति । अतो नानवस्था-दयो दोषा इति । नैतत्; स्वानुभवस्वरूपस्य ब्रह्मणः स्वरूपतिरस्कृतिमन्तरेण साक्षित्वापादनानायोगात् । हेत्वन्तरेण तिरस्कृतमिति चेत्-तर्ह्यस्यानादित्वमपास्तम्; अनवस्था च पूर्वोक्ता । अतिरस्कृतस्वरूपस्यैव साक्षित्वापादने ब्रह्मणः स्वनुभवैकतानता च न स्यात् ।।

अपिच-अविद्यया ब्रह्मणि तिरोहिते तद्ब्रह्म न किञ्चिदपि प्रकाशते; उत किञ्चित्प्रकाशते ? पूर्वस्मिन् कल्पे, प्रकाशमात्रस्वरूपस्य ब्रह्मणोऽप्रकाशे तुच्छतापत्तिरसकृदुक्ता । उत्तरस्मिन् कल्पे, सच्चिदानन्दैकरसे ब्रह्मणि को-ऽयमंशः तिरस्क्रियते, को वा प्रकाशते ? निरंशे निर्विशेषे प्रकाशमात्रे वस्तुन्याकारद्वयासंभवेन तिरस्कारः प्र-काशश्च युगपन्न सङ्गच्छेते । अथ सच्चिदानन्दैकरसं ब्रह्म अविद्यया तिरोहितस्वरूपमविशदमिव लक्ष्यत इति । प्रकाशमात्रस्वरूपस्य विशदताऽविशदता वा किंरूपा ? एतदुक्तं भवति- यः सांशः सविशेषः प्रकाशविषयः, तस्य सकलावभासो विशदावभासः, कतिपयविशेषपरहितावभासश्च अविशदावभासः । तत्र य आकारोऽप्र-तिपन्नः, तस्मिन्नंशे प्रकाशाभावादेव प्रकाशावैशद्यं न विद्यते । यश्चांशः प्रतिपन्नः, तस्मिन्नंशे तद्विषयप्रकाशो विशद एव । अतः सर्वत्र प्रकाशांशे अवैशद्यं न संभवति । विषयेऽपि स्वरूपे प्रतीयमाने तद्गतकतिपयविशेषा-प्रतीतिरेवावैशद्यम् । तस्मादविषये निर्विशेषे प्रकाशमात्रे ब्रह्मणि, स्वरूपे प्रकाशमाने कतिपयविशेषाप्रतिपत्ति-(तति#ि)रूपावैशद्यं नाम अज्ञानकार्यं न संभवति-इति । अपिच-इदमविद्याकायर्मवैशद्यं तत्त्वज्ञानोदयान्निवर्तते, न वा । अनिवृत्तौ अपवर्गाभावः । निवृत्तौ च वस्तु किंरूपमिति विवेचनीयम् । विशदस्वरूपमिति चेत्-तत् विशदस्वरूपं प्रागास्ति, न वा । अस्ति चेत्-अविद्याकार्यमवैशद्यं तन्निवृत्तिश्च न स्याताम् । नो चेत्-मोक्षस्य कार्यतया अनित्यता स्यात् ।

अस्याज्ञानस्याश्रयानिरूपणादेवासंभवः पूर्वमेवोक्तः । अपिच-अपरमार्थदोषमूलवादिना निरधिष्ठानभ्रमा-संभवोऽपि दुरुपपादः; भ्रमहेतुभूतदोषदोषाश्रयत्ववत् अधिष्ठानापारमार्थ्येऽपि भ्रमोपपत्तेः । ततश्च सर्वशून्यत्व-मेव स्यात् ।।

यदुक्तम्-अनुमानेनापि भावरूपमज्ञानं सिद्धयतीति । तदयुक्तम्; अनुमानासंभवात् । ननूक्तमनुमानम् । सत्यमुक्तम्; दुरुक्तं तु तत्; अज्ञानेऽप्यनभिमताज्ञानान्तरसाधनेन विरुद्धत्वात् हेतोः । तत्राज्ञानान्तरासाधने हेतोरनैकान्त्यम् । साधने च, तदज्ञानमज्ञानसाक्षित्वं निवारयति । ततश्चाज्ञानकल्पना निष्फला स्यात् ।

दृष्टान्तश्च साधनविकलः; दीपप्रभाया अप्रकाशितार्थप्रकाशकत्वाभावात् । सर्वत्र ज्ञानस्यैव हि प्रकाशकत्वम् सत्यपि दीपे ज्ञानेन विना विषयप्रकाशाभावात् । इन्द्रियाणामपि ज्ञानोत्पत्ति हेतुत्वमेव; न प्रकाशकत्वम् । प्रदीपप्रभायास्तु चक्षुरिन्द्रियस्य ज्ञानमुत्पादयतो विरोधितमोनिरसनद्वारेणोपकारकत्वमात्रमेव । प्रकाशकज्ञा-नोत्पत्तौ व्याप्रियमाणचक्षुरिन्द्रियोपकारकहेतुत्वमपेक्ष्य दीपस्य प्रकाशकत्वव्यवहारः । नास्माभिर्ज्ञानतुल्यप्र-काशकत्वाभ्युपगमेन दीपप्रभा निदर्शिता; अपि तु ज्ञानस्येव(स्यैव) स्वविषयावरणनिरसनपूर्वक(ज्ञानस्येव स्वविषयावरणनिरसनरूप) प्रकाशकत्वमङ्गीकृत्येति चेत्-न; न हि विरोधिनिरसनमात्रं प्रकाशकत्वम्; अपि त्वर्थपरिच्छेदः; व्यवहारयोग्यतापादनमिति यावत् । तत्तु ज्ञानस्यैव । यदि उपकारकाणामप्यप्रकाशितार्थप्रका-शकत्वमङ्गीकृतम्, तर्हीन्द्रियाणामुपकारकतमत्वेनाप्रकाशितार्थप्रकाशकत्वमङ्गीकरणीयम् । तथा सति तेषां स्वनिवर्त्यवस्त्वन्तरपूर्वकत्वाभावात् हेतोरनैकान्त्यमित्यलमनेन ।।

(प्रतिप्रयोगश्च-विवादाध्यासितमज्ञानं न ज्ञानमात्रब्रह्माश्रयम्, अज्ञानत्वात्, शुक्तिकाद्यज्ञानवत्; ज्ञात्राश्रयं

हि तत् । विवादाध्यासितमज्ञानं न ज्ञानमात्रबह्माश्रयम्, अज्ञानत्वात्, शुक्तिकाद्यज्ञानवत्; विषयावरणं हि तत् । विवादाध्यासितमज्ञानं न ज्ञाननिवत्र्त्यम्, ज्ञानविषयानावरणत्वात्, यत् ज्ञाननिवत्त्यर्म् अज्ञानम्, तत् ज्ञानविषयावरणम्; यथा शुक्तिकाद्यज्ञानम् । ब्रह्म नाज्ञानास्पदम्, ज्ञातृत्वविरहात्; घटादिवत् । ब्रह्म नाज्ञा-नावरणम्, ज्ञानाविषयत्वात् । यत्

अज्ञानावरणं तत् ज्ञानविषयभूतम्, यथा शुक्तिकादि । ब्रह्म न ज्ञाननिव-त्र्त्याज्ञानम्; ज्ञानाविषयत्वात् । यत् ज्ञाननिवर्त्याज्ञानम् तत् ज्ञानविषयभूतम्, यथा शुक्तिवादि ।।

विवाध्यासितं प्रमाणज्ञानं स्वप्रागभावातिरिक्ताज्ञानपूर्वकं न भवति, प्रमाणज्ञानत्वात्, भवदभिमताज्ञान-साधनप्रमाणज्ञानवत् । ज्ञानं न वस्तुनो विनाशकम्, शक्तिविशेषोपबृंहणविरहे सति ज्ञानत्वात् । यत् वस्तुनो विनाशकम्, तत् शक्तिविशेषोपबृंहितज्ञानमज्ञानं च दृष्टम्, यथेश्वरयोगिप्रभृतिज्ञानम्, यथा च मुद्गरादि ।।

भावरूपमज्ञानं न ज्ञानविनाश्यम्, भावरूपत्वात्, घटादिवदिति । अथोच्येत-बाधकज्ञानेन पूर्वज्ञानोत्प-न्नानां भयादीनां विनाशो दृश्यते-इति-नैवम्; न हि ज्ञानेन तेषां विनाशः, क्षणिकत्वेन तेषां स्वयमेव विना-शात्, कारणनिवृत्त्या च पश्चादनुत्पत्तेः । क्षणिकत्वं च तेषां ज्ञानवदुत्पत्तिकारणसंनिधान एवोपलब्धेः, अन्य-थाऽनुलब्धेश्चावगम्यते; अक्षणिकत्वे च भयादीनां भयादिहेतुभूतज्ञानसन्ततावविशेषेण सर्वेषां ज्ञानानां भया-द्युत्पत्तिहेतुत्वेनानेकभयोपलब्धिप्रसङ्गाच्च ।।

स्वप्रागभावव्यतिरिक्तवस्त्वन्तरपूर्वकमिति व्यर्थविशेषणोपादानेन प्रयोगकुशलता चाऽऽविष्कृता । अतो-ऽनुमानेनापि न भावरूपाज्ञानसिद्धिः ।

श्रुतितदर्थापत्तिभ्यामज्ञानासिद्धिरनन्तरमेव वक्ष्यते ।

मिथ्यार्थस्य मिथ्यैवोपादानं भवितुमर्हतीत्येतदपि "न विलक्षणत्वात्" इत्यधिकरणन्यायेन परिह्रियते । अतोऽनिर्वचनीयाज्ञानविषया न काचिदपि प्रतीतिरस्ति । प्रतीतिभ्रान्तिवाधैरपि न तथाभ्युपगमनीयम् । प्रती-यमानमेव हि प्रतीतिभ्रान्तिबाधविषयः । आभिः प्रतीतिभिः प्रतीत्यन्तरेण चानुपलब्धमासां विषय इति न युज्यते कल्पयितुम् ।।

शुक्तयादिषु रजतादिप्रतीतेः, प्रतीतिकालेऽपि तन्नास्तीति बाधेन च, अन्यस्यान्यथाभानायोगाच्च सदसद-निर्वचनीयमपूर्वमेवेदं रजतं दोषवशात् प्रतीयत इति कल्पनीयमिति चेत्-न; तत्कल्पनायामप्यन्यस्यान्यथा-भानस्यावर्जनीयत्वात्; अन्यथाभानाभ्युपगमादेव ख्यातिप्रवृत्ति, बाध, भ्रमत्वानाभमुपपत्तेरत्यन्तापरिदृष्टा-कारणकवस्तुकल्पनायोगात् ।

कल्प्यमानं हीदमनिर्वचनीयम्, न तावदनिर्वचनीयमिति प्रतीयते; अपि तु परामर्शरजतमित्येव । अनिर्व-चनीयमित्येव प्रतीतं चेत्, भ्रान्तिबाधयोः प्रवृत्तेरप्यसंभवः । अतोऽन्यस्यान्यथाभानविरहे प्रतीतिप्रवृत्ति, बाध, भ्रमत्वानामनुपपत्तेः तस्यापरिहार्यत्वाच्च, शुक्तयादिरेव रजताद्याकारेणावभासत इति भवताऽभ्युपगन्तव्यम् ।।)

(ख्यात्यन्तरवादिनाञ्च सदूरमपि गत्वाऽन्यथाभासोऽवश्याश्रयणीयः-असत्ख्यातिपक्षे सदात्मना; आत्म-ख्यातिपक्षे अर्थात्मना; अख्यातिपक्षेऽपि अन्यविशेषणमन्यविशेषणत्वेन, ज्ञानद्वयमेकत्वेन च; विषयासद्भाव-पक्षेऽपि विद्यमानत्वेन ।।

किञ्च-अनिर्वचनीयमपूर्वरजतमत्र जातमिति वदता तस्य जन्मकारणं वक्तव्यम्; न तावत् तत्प्रतीतिः, त-स्यास्तद्विषयत्वेन तदुत्पत्तेः प्रागात्मलाभायोगात् । निर्विषया जाता तदुत्पाद्य तदेव विषयीकरोतीति महता-मिदमुपपादनम् । अथेन्द्रियादिगतो दोषः, तन्न; तस्य पुरुषाश्रयत्वेनार्थगतकार्यस्योत्पादकत्वायोगात् । नापी-

न्द्रियाणि, तेषां ज्ञानकारणत्वात् । नापि दुष्टानीन्द्रियाणि, तेषामपि स्वकार्यभूते ज्ञान एव हि विशेषकरत्वात् । अनादिमिथ्याज्ञानोपादानत्वं तु पूर्वमेव निरस्तम् । किञ्च-अपूर्वमनिर्वचनीयमिदं वस्तुजातंरजतादिबुद्धिशब्दा-भ्यांकथमिव विषयीक्रियते, न घटादिबुद्धिशब्दाभ्याम् । रजतादिसादृश्यादिति चेत्; तर्हि तत्सदृशमित्येव प्रती-तिशब्दौ स्याताम् । रजतादिजातियोगादिति चेत्; स्म किं परमाथर्भूता, अपरमार्थभूता वा ? न तावत् परमा-र्थभूता, तस्या अपरमार्थान्वयायोगात् । नाप्यपरमार्थभूता, परमार्थान्वयायोगात् । अपरमार्थे परमार्थबुद्धि-शब्दयोर्निर्वाहकत्वायोगाच्चेत्यलमपरिणतकुतर्कनिरसनेन ।। अथ वा--

यर्थार्थं सर्वविज्ञानमिति वेदविदां मतम् । श्रुतिस्मृतिभ्यः सर्वस्य सर्वात्मत्वप्रतीतितः ।।

  1. ःबहु स्या"मितिसङ्कल्पपूर्वसृष्टयाद्युपक्रमे । "तासां त्रिवृतमेकैका"मिति श्रुत्यैव चोदितम् ।।


त्रिवृत्करणमेवं हि प्रत्यक्षेणोपलभ्यते । यदग्ने रोहितं रूपं तेजसस्तदपामपि ।।

शुक्लं कृष्णं पृथिव्याश्चेत्यग्नावेव त्रिरूपता । श्रुत्यैव दर्शिता तस्मात् सर्वे सर्वत्र सङ्गताः ।।

पुराणे चैवमेवोक्तं वैष्णवे सृष्टयपक्रमे । "नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना ।

नाश्नुवन् प्रजाः स्रष्टुमसमरगम्व कृत्स्नशः ।।

समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः । महदाद्या विशेषान्ता ह्यण्ड"मित्यादिना ततः ।।

सूत्रकारोऽपि भूतानां त्रिरूपत्वं तथाऽवदत् । "व्यात्मकत्वात्तु भूयस्त्वा"दिति तेनाभिधाभिदा ।।

सोमाभावे च पूतीकग्रहणं श्रुतिचोदितम् । सोमावयवसद्भावादिति न्यायविदो विदुः ।।

व्रीह्यभावे च नीवारग्रहणं व्रीह्यभावत् । तदेव सदृशं तस्य यत् तद्द्रव्यैकदेशभाक् ।।

शुक्तयादौ रजतादेश्च भावः श्रुत्यैव बोधितः । रूप्यशुक्तयादिनिर्देशभेदो भूयस्त्वहेतुकः ।।

रूप्यादिसदृशश्चायं शुक्तयादिरुपलभ्यते । अतस्तस्यान्न सद्भावः प्रतीतेरपि निश्चितः ।।

कदाचिच्चक्षुरादेस्तु दोपाच्छुक्तयंशवर्जितः । रजतांशो गृहीतोऽतो रजतार्थी प्रवर्त्तते ।।

दोषहानौ तु शुक्तयंशे गृहीते तन्निवर्तते । अतो यर्थार्थं रूप्यादिविज्ञानं शुक्तिकादिषु ।।

बाध्यबाधकभावोऽपि भूयस्त्वेनोपपद्यते । शुक्तिभूयस्त्ववैकल्यसाकल्यग्रहरूपतः ।।

नातो मिथ्यार्थसत्यार्थविषयत्वनिबन्धनः । एवं सर्वस्य सर्वत्वे व्यवहारव्यवस्थितिः ।।

स्वपने तु प्राणिनां पुण्यपापानुगुणं भगवतैव तत्तत्पुरुषमात्रानुभाव्यास्तत्तत्कालावसानास्तथाभूताश्चार्थाः सृज्यन्ते । तथा हि श्रुतिः स्वप्नविषया, "न तत्र रथा न रथयोगा न पन्थानो भवन्ति । अथ रथान् रथयोगान् पथः सृजते । न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्ति । अथ वेशान्तान् पुष्करिण्यः स्रवन्त्यः सृजते । स हि कर्ता" इति । यद्यपि सकलेतरपुरुषानुभाव्यतया तदानीं न भवन्ति-तथापि तत्तत्पुरुषमात्रानुमाव्यतया तथा-विधान् अर्थान् ईश्वरः सृजति । स हि कर्ता । तस्य सत्यसङ्गल्पस्याऽऽश्चर्यशक्तेस्तथाविद्यं कर्तृत्वं संभवतीत्यर्थः । "यः एषु सप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चत" इति च । सूत्रकारोऽपि- "सन्ध्ये सृष्टिराह हि", "निर्मातारं चैके पुत्रादयश्च" इति सूत्र-द्वयेन, "स्वप्नेष्वर्थेषु जीवस्य स्वाभाविकसत्यसङ्गल्पत्वादेः कृत्स्नस्य संसारदशायामनभिव्यक्तस्वरूपत्वात् ईश्व-रस्यैव तत्तत्पुरुषमात्रानुभाव्यतया आश्चर्यभूता सृष्टिरियम् । "तस्मिन् लोकाः श्रिताः सर्वे तदु नात्येति कश्चन" इति परमात्मैव तत्र स्रष्टेत्यवगम्यते" इति परिहरति । अपवरकादिषु शयानस्य स्वप्नदृशः स्वदेहेनैव देशान्तर-गमनराज्याभिषेकशिरश्छेदादयश्च पुण्यपापफलभूताः शयानदेहसरूपसंस्थानदेहान्तरसृष्टयोपपद्यन्ते ।।

जपाकुसुमसमीपवर्तिस्फटिकमणिरपि तत्प्रभाभिभूततया रक्त इति गृह्यते । जपाकुसुमप्रभा विततापि स्व-च्छद्रव्यसंयुक्ततया स्फुटतरमुपलभ्यते इत्युपलब्धिव्यवस्थाप्यमिदम् । मरीचिकाजलज्ञानेऽपि तेजापृथिव्योरप्य-म्बुनो विद्यमानत्वादिन्द्रियदोषेण तेजापृथिव्योरग्रहणात् अदृष्टवशाच्चाम्बुनो ग्रहणात् यर्थार्थत्वम् । अलातच-क्रेऽप्यलातस्य द्रुततरगमनेन सर्वदेशसंयोगादन्तरालाग्रहणात् तथाप्रतीतिरुपपद्यते । चक्रप्रतीतावप्यन्तरालाग्र-हणपूर्वकतत्तद्देशसंयुक्ततत्तद्वस्तु ग्रहणमेव । क्वचिदन्तरालाभावादन्तरालाग्रहणम्, क्वचिच्छैध्नयादग्रहणमिति विशेषः । अतस्तदपि यथार्थम् । दर्पणादिषु निजमुखादिप्रतीतिरपि यर्थार्था । दर्पणादिप्रतिहतगतयो हि नायन-रश्मयो दर्पणादिदेशग्रहणपूर्वकं निजमुखादि गृह्णन्ति । तत्राप्यतिशैध्नयादन्तरालाग्रहणात् तथा प्रतीतिः । दिङ्मो-हेऽपि दिगन्तरस्यास्यां दिशि विद्यमानत्वाददृष्टवशेनैतद्दिगंशवियुक्तो दिगन्तरांशो गृह्यते । अतो दिगन्तरप्रती-तिर्यथार्थैव ।

द्विचन्द्रज्ञानादावपि अङ्गुल्यवष्टम्भतिमिरादिभिर्नायनतेजोगतिभेदेन सामग्नीभेदात् सामग्नीद्वयमन्योन्यानिर-पेक्षं चन्द्रग्रहणद्वयहेतुर्भवति । तत्रैका सामग्री स्वदेशविशिष्टं चन्द्रं गृह्णाति । द्वितीया तु किञ्चिद्वक्रगतिः चन्द्र-समीपदेशग्रहणपूर्वकं चन्द्रं स्वदेशवियुक्तं गृह्णाति । अतः सामग्रीद्वयेन युगपद्देशद्वयविशिष्टचन्द्रग्रहणे ग्रहण-भेदेन ग्राह्याकारभेदादेकत्वग्रहणाभावाच्च द्वौ चन्द्राविति भवति प्रतीतिविशेषः । देशान्तरस्य तद्विशेषणत्वं देशान्तरस्य अगृहीतस्वदेशचन्द्रस्य च निरन्तरग्रहणेन भवति । तत्र सामग्रीद्वित्वं पारमार्थिकम् । तेन देशद्वय-विशिष्टचन्द्रग्रहणद्वयं च पारमार्थिकम् । ग्रहणद्वित्वेन चन्द्रस्यैव ग्राह्याकारद्वित्वं च पारमार्थिकम् । तत्र विशे-षणद्वयविशिष्टचन्द्रग्रहणद्वस्यैक एव चन्द्रो ग्राह्या इति ग्रहणे, प्रत्यभिज्ञानवत् केवलचक्षुषः सामर्थ्याभावात् चाक्षुषज्ञानं तथै(स्यै)वावतिष्ठते । द्वयोः चक्षुषोरेकसामग्रयन्तर्भावेऽपि तिमिरादिदोषभिन्नं चाक्षुषं तेजः सामग्री-द्वयं भवतीति कार्यकल्प्यम् । अपगते तु दोषे स्वदेशविशिष्टस्य चन्द्रस्यैकग्रहणवेद्यत्वात् एकश्चन्द्र इति भवति प्रत्ययः । दोषकृतं तु सामग्रीद्वित्वं तत्कृतं ग्रहणद्वित्वं तत्कृतं ग्राह्याकारद्वित्वं चेति निरवद्यम् ।

अतः सर्वं विज्ञानजातं यथार्थमिति सिद्धम् । ख्यात्यन्तराणां दूषणानि तैस्तैर्वादिभिरेव प्रपञ्चितानीति न तत्र यत्नः क्रियते ।

(अथवा किमनेन बहुनोपपादनप्रकारेण ? प्रत्यक्षानुमानागमाख्यं प्रमाणजातम् आगमगम्यं च निरस्तनि-खिलदोषगन्धमनवधिकातिशयासङ्खयेयकल्याणगुणगणं सर्वज्ञं सत्यसङ्गल्पं परं ब्रह्माभ्युपगच्छतां किं न

सेत्स्यति, किं नोपपद्यते ? भगवता हि परेण ब्रह्मणा क्षेत्रज्ञपुण्यपापानुगुणं तद्भोग्यत्वायाखिलं जगत् सृजता सुखदुःखोपेक्षाफलानुभवानुभाव्याः पदार्थाः सर्वसाधारणानुभवविषयाः; केचन तत्तत्पुरुषमात्रानुभवविषयाः तत्तत्कालावसानाः तथातथाऽनुभाव्याः सृज्यन्ते । तत्र बाध्यबाधकभावः सर्वानुभवविषयतया तद्रहिततया चोपपद्यत इति सर्वं समञ्जसम् ।।)

यत्पुनः सदसदनिर्वचनीयमज्ञानं श्रुतिसिद्धमिति; तदसत्-"अनृतेन हि प्रत्यूढाः" इत्यादिष्वनृतशब्दस्या-निर्वचनीयानभिधायित्वात् । ऋतेतरविषयो ह्यनृतशब्दः । ऋतमिति कर्मवाचि, "ऋतं पिबन्तौ" इति वचनात् । ऋतम्-कर्मफलाभिसन्धिरहितं परमपुरुषाराधनवेषं तत्प्राप्तिफलम् । अत्र (तः) तद्वयतिरिक्तं सांसारिकफलं कर्म अनृतं ब्रह्मप्राप्तिविरोधि । "एतं ब्रह्मलोकं न विन्दन्ति अनृतेन हि प्रत्यूढाः" इति वचनात् ।।

"नासदासीन्नो सदासीत् तदानीम्" इत्यत्रापि सदसच्छब्दौ चिदचिद्य्वष्टिविषयौ । उत्पत्तिवेलायां सत्त्यच्छब्दा-भिहितयोश्चिदचिद्य्वष्टिभूतयोर्वस्तुनोरप्ययकाले अचित्स(चिदचित्स)मष्टिभूते तमश्शब्दाभिधेये वस्तुनि प्रलय-

प्रतिपादनपरत्वादस्य वाक्यस्य । नात्र कस्यचित् सदसदनिर्वचनीयतोच्यते; सदसतोः कालविशेषेऽसद्भावमा-त्रवचनात् । अत्र तमश्शब्दाभिहितस्याचित्समष्टित्वं श्रुत्यन्तरादवगम्यते-"अव्यक्तमक्षरे लीयते । अक्षरं तमसि लीयते" इति ।

सत्यम्; तमश्शब्देनाचित्समष्टिरूपायाः प्रकृतेः सूक्ष्मावस्थोच्यते । तस्यास्तु, "मायां तु प्रकृतिं विद्यात्" इति मायाशब्देनाभिधानादनिर्वचनीयत्वमिति चेत्-नैतदेवम्; मायाशब्दस्यानिर्वचनीयवाचित्वं न दृष्टमिति । मायाशब्दस्य मिथ्यापर्यायत्वेनानिर्वचनीयवाचित्वमिति चेत्; तदपि नास्ति; न हि सर्वत्र मायाशब्दो मिथ्या-विषयः । आसुरराक्षसास्रादिषु सत्येष्वेव मायाशब्दप्रयोगात् । यथोक्तम्-"तेन मायासहस्रं तत् शम्बरस्याशुगा-मिना । बालस्य रक्षता देहमैकैकश्येन सूदितम् ।" इति । अतो मायाशब्दो विचित्रार्थसर्गकरामिधायी । प्रकृतेश्च मायाशब्दाभिधानं विचित्रार्थसर्गकरत्वादेव "अस्मान्मायी सृजते विश्वमेतत् तस्मिंश्चान्यो मायया संनिरुद्धः" इति मायाशब्दवाच्यायाः प्रकृतेर्विचित्रार्थसर्गकरत्वं दर्शयति । परमपुरुषस्य च तद्वत्तामात्रेण मायित्वमुच्यते; नाज्ञत्वेन । जीवस्यैव हि मायया निरोधः श्रूयते, "तस्मिंश्चान्यो मायया संनिरुद्धः" इति । "अनादिमायया सुप्तो यदा जीवः प्रबुध्यते" इति च । "इन्द्रो मायाभिः पुरुरूप ईयते" इत्यत्रापि विचित्राः शक्तयोऽभिधीयन्ते; अत एव हि "भूरि त्वष्टेव राजति" इत्युच्यते । न हि मिथ्याभिभूतः कश्चिद्विराजते । "मम माया दुरत्यया" इत्यत्रापि गुण-मयीति वचनात् सैव त्रिगुणात्मिका प्रकृतिरुच्यत इति न श्रुतिभिः सदसदनिर्वनीयाज्ञानप्रतिपादनम् ।।

नाप्यैक्योपदेशानुपपत्त्या । न हि "तत्त्वमसि" इति जीवपरयोरैक्योपदेशे सति सर्वज्ञे सत्यसङ्कल्पे सकलजग-त्सर्गस्थितिविनाशहेतुभूते तच्छब्दावगते प्रकृते ब्रह्मणि विरुद्धाज्ञानपरिकल्पनाहेतुभूता काचिदप्यनुपपत्तिर्दृश्यते ऐक्योपदेशस्तु त्वंशब्देनापि जीवशरीरकस्य ब्रह्मण एवाभिधानादुपपन्नतरः । "अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति सर्वस्य वस्तुनः परमात्मपर्यन्तस्यैव हि नामरूपभाक्तवमुक्तम् । अतो न ब्रह्माज्ञा-नपरिकल्पनम् ।

इतिहासपुराणयोरपि न ब्रह्माज्ञानवादः क्वचिदपि दृश्यते ।

ननु "ज्योतींषि विष्णुः" इति ब्रह्मैकमेव तत्त्वमिति प्रतिज्ञाय, "ज्ञानस्वरूपो भगवान् यतोऽसौ" इति शैला-ब्धिधरादिभेदभिन्नस्य जगतो ज्ञानैकस्वरूपब्रह्माज्ञानविजृम्भितत्वमभिधाय, "यदा तु शुद्धं निजरूपि" इति ज्ञानस्वरूपस्यैव ब्रह्मणः स्वस्वरूपावस्थितिवेलायां वस्तुभेदाभाव(प्र)दर्शनेनाज्ञानविजम्भितत्वमेव स्थिरी-कृत्य, "वस्त्वस्ति किम्", "मही घटत्वम्" इति श्लोकद्वयेन जगदुपलब्धिप्रकारेणापि वस्तुभेदानामसत्यत्वमु-पपाद्य, "तस्मान्न विज्ञानमृते" इति प्रतिज्ञातं ब्रह्मव्यतिरिक्तस्यासत्यत्वमुपसंहृत्य, "विज्ञानमेकम्" इति ज्ञान-स्वरूपे ब्रह्मणि भेददर्शननिमित्ताज्ञानमूलं निजकर्मैवेति स्फुटीकृत्य, "ज्ञानं विशुद्धम्" इति ज्ञानस्वरूपस्य ब्रह्मणः स्वरूपं विशोध्य, "सद्भाव एवं (एषो) भवतो मयोक्तः" इति ज्ञानस्वरूपस्य ब्रह्मण एव सत्यत्वम्, नान्यस्य; अन्यस्य चासत्यत्वमेव; तस्य भुवनादेः सत्यत्वं व्यावहारिकम्" इति तत्त्वं तवोपदिष्टमिति ह्युपदेशो दृश्यते ।

नैतदेवम्; अत्र भुवनकोशस्य विस्तीर्णं स्वरूपमुक्तवा पूर्वमनुक्तं रूपान्तरम्, "संक्षेपः श्रूयताम्" इत्यार-भ्याभिधीयते । चिदचिन्मिश्रे जगति चिदंशो वाङ्मनसागोचरस्वसंवेद्यस्वरूपभेदो ज्ञानैकाकारतया अस्पृष्टप्रा-कृतभेदः अविनाशित्वेन अस्तिशब्दवाच्यः । अचिदंशस्तु चिदंशकर्मनिमित्तपरिणामभेदो विनाशीति नास्ति-शब्दाभिधेयः । उभयं तु परब्रह्मभूतवासुदेवशरीरतया तदात्मकमित्येतद्रूपं संक्षेपेणात्राभिहितम् । तथा हि -

"यदम्बु वैष्णवः कायस्ततो विप्र वसुन्धरा । पद्माकारा समुद्भूता पर्वताब्ध्यादिसंयुता ।।" इति, अम्वुनो विष्णोः शरीरत्वेनाम्बुपरिणामभूतं ब्रह्माण्डमपि विष्णोः, कायः, तस्य च विष्णुरात्मेति सकलश्रुतिगतता-दात्म्योपदेशोपबृंहणरूपस्य सामानाधिकरण्यस्य "ज्योतींषि विस्णुः" इत्यारभ्य वक्ष्यमाणस्य शरीरात्मभाव एव निबन्धनमित्याह । अस्मिन् शास्त्रे पूर्वमप्येतदसकृदुक्तम्, "तानि सर्वाणि तद्वपुः", "तत् सर्वं वै हरेस्तनुः", "स एव सर्वभूतात्मा विश्वरूपो यतोऽव्ययः" इति । तदिदं शरीरात्मभावायत्तं तादात्म्यं सामानाधिकरण्येन व्यप-दिश्यते, "ज्योतींषि विष्णुः" इति । अत्र अस्त्यात्मकं नास्त्यात्मकं च जगदन्तर्गतं वस्तु विष्णोः कायतया विष्ण्वात्मकमित्युक्तम् । इदमस्त्यात्मकम्, इदं नास्त्यात्मकम्, अस्य च नास्त्यात्मकत्वे हेतुरयमित्याह "ज्ञान-स्वरूपो भगवान् यतोऽसौ" इति । अशेषक्षेत्रज्ञात्मनाऽवस्थितस्य भगवतो ज्ञानमेव स्वाभाविकं रूपम्; न देव-मनुष्यादिवस्तुरूपम् । यत एवम्, तत एवाचिद्रूपदेवमनुष्यशैलाब्धिधरादयश्च तद्विज्ञानविजृम्भिताः । तस्य ज्ञानैकाकारस्य सतो देवाद्याकारेण स्वात्मवैविध्यानुसन्धानमूलाः । देवाद्याकारानुसन्धानमूलकर्ममूला इत्यर्थः । यतश्चाचिद्वस्तु क्षेत्रज्ञकर्मानुगुणपरिणामास्पदम्, ततः तत् नास्तिशब्दाभिधेयम्, इतरदस्तिशब्दाभिधेयमित्य-र्थादुक्तं भवति । तदेव विवृणोति, "यदा तु शुद्धं निजरूपि" इति । यदा एतज्ज्ञानैकाकारमात्मवस्तु देवाद्याकारेण स्वात्मनि वैविध्यानुसन्धानमूलसर्व कर्मक्षयान्निर्दोषं परिशुद्धं निजरूपि भवति, तदा देवाद्याकारेणैकीकृत्या-ऽऽत्मकल्पनामूलकर्मफलभूतास्तद्भोगार्थाः वस्तुषु वस्तुभेदा न भवन्ति । ये देवादिषु वस्तुष्वात्मतयाऽभिमतेषु भोग्यभूता देवमनुष्यशैलाब्धिधरादिवस्तुभेदाः, ते तन्मूलभूतकर्मसु विनष्टेषु न भवन्ति इत्यचिद्वस्तुनः कादा-चित्कावस्थाविशेषयोगितया नास्तिशब्दाभिधेयत्वम्, इतरस्य सर्वदा निजसिद्धज्ञानैकाकारत्वेन अस्तिशब्दा-भिधेयत्वमित्यर्थः ।

प्रतिक्षणमन्यथाभूततया कादाचित्कावस्थायोगिनोऽचिद्वस्तुनो नास्तिशब्दाधेरत्वमेवेत्याह "वस्त्वस्ति किम्" इति । अस्तिशब्दाभिधेयो ह्यादिमध्यपर्यन्तहीनस्सततहकरूपः पदार्थः; तस्य कदाचिदपि नास्तिबुद्धय-नर्हत्वात् । अचिद्वस्तु किञ्चित् क्वचिदपि तथाभूतं न दृष्टचरम् । ततः किमित्यत्राह "यच्चान्यथात्वम्" इति । यद्वस्तु प्रतिक्षणमन्यथात्वं याति, तत् उत्तरोत्तरावस्थाप्राप्त्या पूर्वपूर्वावस्थां जहातीति तस्य पूर्वावस्थस्योत्त-रावस्थायां न प्रतिसंधानमस्ति; अतः सर्वदा तस्य नास्तिशब्दाभिधेयत्वमेव ।

तथा ह्युपलभ्यत इत्याह-"मही घटत्वम्" इति । स्वकर्मणा देवमनुष्यादिभावेन स्तिमितात्मनिश्चयैः स्व-भोग्यभूतमचिद्वस्तु प्रतिक्षणमन्यथाभूतमालक्ष्यते -अनुभूयत इत्यर्थः । एवं सति किमप्यचित् वस्तु-अस्ति-शब्दार्हमादिमध्यपर्यन्तहीनं सततैकरूपमालक्षितमस्ति किम् ? न ह्यस्तीत्यभिप्रायः । यस्मादेवम्, तस्मात् ज्ञानस्वरूपात्मव्यतिरिक्तमचिद्वस्तु कदाचित् क्वचित् केवलास्तिशब्दवाच्यं न भवतीत्याह - "तस्मान्न विज्ञा-नमृते" इति । आत्मा तु सर्वत्र ज्ञानैकाकारतया देवादिभेदप्रत्यनीकस्वरूपोऽपि देवादिशरीरप्रवेशहेतुभूतस्व-कृतविविधकर्ममूलदेवादिभेदभिन्नात्मबुद्धिभिः तेन तेन रूपेण बहुधाऽनुसंहित इति तद्भेदानुसंधानं नात्मस्व-रूपप्रयुक्तमित्याह "विज्ञानमेकम्" इति । आत्मस्वरूपं तु कर्मरहितम्, तत एव मलरूपप्रकृतिस्पर्शरहितम् । ततश्च तत्प्रयुक्तशोकमोहलोभाद्यशेषहेयगुणासङ्गि, उपचयापचयानर्हतयैकम्, तत एव सदैकरूपम् । तच्च वासु-देवशरीरमिति तदात्मकम्; अतदात्मकस्य कस्यचिदप्यभावादित्याह "ज्ञानं विशुद्धम्" इति । चिदंशः सदैक-रूपतया सर्वदाऽस्तिशब्दवाच्यः । अचिदंशस्तु क्षणपरिणामित्वेन सर्वदा नाशगर्भ इति सर्वदा नास्तिशब्दाभि-धेयः । एवंरूपचिदचिदात्मकं जगत् वासुदेवशरीरं तदात्मकमिति जगद्याथात्म्यं सम्यगुक्तमित्याह "सद्भाव

एवम्" इति । अत्र सत्यमसत्यमिति, "यदस्ति यन्नास्ति" इति प्रकान्तस्योपसंहारः । एतत् ज्ञानैकाकारतया समम् अशब्दगोचरस्वरूपभेदमेवाचिन्मिश्रं भुवनाश्रितं देवमनुष्यादिरूपेण सम्यग्व्यवहारार्हभेदं यद्वर्तते, तत्र हेतुः कर्मैवेत्युक्तमित्याह "एतत्तु यत्" इति । तदेव विवृणोति, "यज्ञः पशुः" इति ।

जगद्याथात्म्यज्ञानप्रयोजनं मोक्षोपाययतनमित्याह "यच्चैतत्" इति ।

अत्र निर्विशेषे परे ब्रह्मणि, तदाश्रये सदसदनिर्वचनीये चाज्ञाने, जगतस्तत्कल्पितत्वे च (वा) अनुगुणं किञ्चिदपि पदं न दृश्यते । अस्तिनास्तिशब्दाभिधेयं चिदचिदेत्मकं कृत्स्नं जगत् परमस्य परेशत्य परस्य ब्रह्मणो विष्णोः क्रायत्वेन तदात्मकम् । ज्ञानैकाकारस्याऽऽत्मनो देवादिविविधाकारानुभवे अचित्परिणामे च हेतुर्वस्तु-याथात्म्यज्ञानविरोधि क्षेत्रज्ञानां कर्मैवेति प्रतिपादनात्; अस्तिनास्तिसत्यासत्यशब्दानां च सदसदनिर्वचनीयव-स्त्वभिधानासामर्थ्याच्च । नास्त्यसत्यशब्दावस्तिसत्यशब्दविरोधिनौ । अतश्च ताभ्यामसत्त्वं हि प्रतीयते; नानि-र्वचनीयत्वम् । अत्र चाचिद्वस्तुनि नास्त्यसत्यशब्दौ न तुच्छत्वमिथ्यात्वपरौ प्रयुक्तौ; अपि तु विनाशित्वपरौ । "वस्त्वस्ति किम्", "मही घटत्वम्" इति अत्रापि विनाशित्वमेव ह्युपपादितम्; न निष्प्रमाणकत्वम्, ज्ञानबाध्य-त्वं वा; एकेनाऽऽकारेणैकस्मिन् कालेऽनुभूतस्य कालान्तरे परिणामविशेषेणान्यथोपलब्ध्या नास्तित्वोपपाद-नात् । तुच्छत्वं हि प्रमाणसंबन्धानर्हत्वम् । बाधोऽपि यद्देशकालादिसंबन्धितया यत् अस्तीत्युपलब्धम्; तस्य तद्देशकालादिसंबन्धितया नास्तीत्युपलब्धिः; न तु कालान्तरेऽनुभूतस्य कालान्तरे परिणामादिना नास्तीत्युप-लब्धिः; कालभेदेन विरोधाभावात् । अतो न मिथ्यात्वम् । एतदुक्तं भवति-ज्ञानस्वरूपमात्मवस्तु आदिमध्य-पर्यन्तहीनं सततैकस्वरूपमिति स्वत एव सदा अस्तिशब्दवाच्यम् । अचेतनं तु क्षेत्रज्ञभोग्यभूतं तत्कर्मानुगुण-परिणामि विनाशीति सर्वदा नास्त्यथर्गर्ममिति नास्त्यसत्यशब्दाभिधेयम्-इति । यथोक्तम् -

"यत्तु कालान्तरेणापि नान्यसंज्ञामुपैति वै । परिणामादिसंभूतां तद्वस्तु नृप तच्च किम् ।।",

"अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते । तत्तु नास्ति (नाशि) न संदेहो नाशिद्रव्योपपादितम्" इति । देश-कालकर्मविशेषापेक्षया अस्तित्वनास्तित्वयोगिनि वस्तुनि केवलास्तिबुद्धिबोध्यत्वपरमाथर् इति ह्यपरमार्थ इत्युक्तम् । आत्मन एव केवलास्तिबुद्धिबोध्यत्वमिति स परमार्थ इत्युक्तम् । श्रोतुश्च मैत्रेयस्य-

"विष्ण्वाधारं यथा त्रैलोक्यं समवस्थितम् । परमार्थश्च मे प्रोक्ता यथा ज्ञानं प्रधानतः ।।" इत्यनुभाषणच्च-"ज्योतींषि विष्णुः" इत्यादिसामानाधिकरण्यस्य आत्मशरीरभाव एव निबन्धनम्, चिदचिद्वस्तुनोश्चास्तिना-स्तिशब्दप्रयोगनिबन्धनं ज्ञानस्याकर्मनिमित्तस्वाभाविकरूपत्वेन प्राधान्यम्, अचिद्वस्तुनश्च तत्कर्मनिमित्तप-रिणामित्वेनाप्राधान्यमिति-प्रतीयते ।।

यदुक्तम्-निर्विशेषब्रह्मविज्ञानादेवाविद्यानिवृतिं्त वदन्ति श्रुतय इति-तदसत्-"वेदाहमेतं पुरुषं महान्तमादि-त्यवर्णं तमसः परस्तात् । तमेवं विद्वानमृत इह भवति नान्यः पन्था विद्यतेऽयनाय", "सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि", "न तस्येशे कञ्चन तस्य नाम महद्यशः", "य एनं विदुरमृतास्ते भवन्ति" इत्याद्यनेकवा-क्यविरोधात् । ब्रह्मणः सविशेषत्वादेव सर्वाण्यपि वाक्यानि सविशेषज्ञानादेव मोक्षं वदन्ति । शोधकवाक्या-न्यपि सविशेषमेव ब्रह्म प्रतिपादयन्तीत्युक्तम् ।

तत्त्वमस्यादिवाक्येषु सामानाधिकरण्यं न निर्विशेषवस्त्वैक्यपरम्; तत्त्वम्पदयोः सविशेषब्रह्माभिधायि-त्वात् । तत्पदं हि सर्वज्ञं सत्यसङ्कल्पं जगत्कारणं ब्रह्म परामृशति; "तदैक्षत बहुस्याम्" इत्यादिषु तस्यैव प्रकृ-तत्वात् । तत्समानाधिकरणं त्वम्पदञ्च अचिद्विशिष्टजीवशरीरकं ब्रह्म प्रतिपादयति; प्रकारद्वयावस्थितैकवस्तु-

परत्वात् सामानाधिकरण्यस्य । प्रकारद्वयपरित्यागे प्रवृत्तिनिमित्तभेदासंभवेन सामानाधिकरण्यमेव परित्यक्तं स्यात् । द्वयोः पदयोर्लक्षणा च । "सोऽयं देवदत्तः" इत्यत्रापि न लक्षणा; भूतवर्तमानकालसंबन्धितयैक्तप्रतीत्य-विरोधात् । देशभेदविरोधश्च कालभेदेन परिहृतः । "तदैक्षत बहु स्याम्" इत्युपक्रमविरोधश्च । एकविज्ञानेन सर्व-विज्ञानप्रतिज्ञानं च न घटते । ज्ञानस्वरूपस्य निरस्तनिखिलदोषस्य सर्वज्ञस्य समस्तकल्याणगुणात्मकस्याज्ञानं तत्कार्यानन्तापुरुषार्थाश्रयत्वञ्च भवति । बाधार्थत्वे च सामानाधिकरण्यस्य त्वंतत्पदयोरधिष्ठानलक्षणा निवृ-त्तिलक्षणा चेति लक्षणादयस्त एव दोषाः । (इयांस्तु विशेषः-नेदं रजतमितिवत् अप्रतिपन्नस्यैव बाधस्यागत्या परिकल्पनम्; तत्पदेनाधिष्ठानातिरेकिधर्मानुपस्थापनेन बाधानुपपत्तिश्च । ) अधिष्ठानं तु प्राकृतिरोहितमतिरो-हितस्वरूपं तत्पदेनोपस्थाप्यत इति चेन्न; प्रागधिष्ठानाप्रकाशे तदाश्रयभ्रमबाधयोरसंभवात् । भ्रमाश्रय(भूत ?) मधिष्ठानमतिरोहितमिति चेत्; तदेबाधिष्ठानस्वरूपं भ्रमविरोधीति तत्प्रकाशे सुतरां न तदाश्रयभ्रमबाधौ । अतो-ऽधिष्ठानातिरेकिपारमार्थिकधर्मतत्तिरोधानानभ्युपगमे भ्रान्तिबाधौ दुरुपपादौ ।

अधिष्ठाने हि पुरुषमात्राकारे प्रतीयमाने तदतिरेकिणि पारमार्थिके राजत्वे तिरोहित्वे सत्येव व्याधत्वभ्रमः । राजत्वोपदेशेन च तन्निवृत्तिर्भवति; नाधिष्ठानमात्रोपदेशेत; तस्य प्रकाशमानत्वेनानुपदेश्यत्वात् भ्रमानुषमर्दि-त्वाच्च ।।

जीवशरीरकजगत्कारणब्रह्मपरत्वे मुख्यवृत्तं पदद्वयम् । प्रकारद्वयविशिष्टैकवस्तुप्रतिपादनेन सामानाधिक- रण्यं च सिद्धम् । निरस्तनिखिलदोषस्य समस्तकल्याणगुणात्मकस्य ब्रह्मणो जीवान्तर्यामित्वमप्यैश्वर्यमपरं प्रतिपादितं भवति । उपक्रमानुकूलता च । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्तिश्च । सूक्ष्मचिदचिद्वस्तुशरीरस्यैव ब्रह्मणः स्थूलचिदचिद्वस्तुशरीरत्वेन कार्यत्वात् "तमीश्वराणां परमं महेश्वरम् पराऽस्य शक्तिर्विविधैव श्रूयते", "अपहतपाप्मा---सत्यकाम सत्यसङ्कल्पः" इत्यादिश्रुत्यन्तराविरोधश्च । (तत्त्वमसीत्यत्रोद्देश्योपादेयविभागः कथमिति चेत्-नात्र किञ्चिदुद्दिश्शय किमपि विधीयते; "ऐतदात्म्यमिदं सर्वम्" इत्यनेनैव प्राप्तत्वात् । अप्राप्ते हि शास्त्रमर्थवत् । इदं सर्वमिति सजीवं जगन्निर्दिश्य, ऐतदात्म्यमिति, तस्यैव आत्मेति तत्र प्रतिपादितम् ।) तत्र च हेतुरुक्तः, "सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः" इति; "सर्वे खल्विदं ब्रह्म तज्जलानिति शान्तः" इतिवत् । तथा श्रुत्यन्तराणि च ब्रह्मणस्तद्वयतिरिक्तस्य चिदचिद्वस्तुनश्च शरीरात्मभावमेव तादात्म्यं वदन्ति, "अन्तःप्रविष्टश्शास्ता जनानां सर्वात्मा", "यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति स त आत्मा अन्तर्याम्यमृतः", "य आत्मनि तिष्ठन् आत्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्मा अन्तर्याम्यमृतः", "यः पृथिवीमन्तरे सञ्चरन्" इत्यारभ्य "यस्य मृत्युः शरीरम्, यं मृत्युर्न वेद, एष सवर्भूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः", "तत्सृष्ट्वा तदेवानुप्राविशत् । तदनुप्रविश्य सच्च त्यच्चाभवत्" इत्यादीनि । अत्रापि-"अनेन जीवे-नात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति ब्रह्मात्मकजीवानुप्रवेशेनैव सर्वेषां वस्तुत्वं शब्दवाच्यत्वं च प्रतिपादितम् । "तदनुप्रविश्य सच्च त्यच्चाभवत्" इत्यनेनैकार्थ्यतज्जीवस्यापि ब्रह्मात्मकत्वं ब्रह्मानुप्रवेशादेवेत्य-वगम्यते । अतश्चिदचिदात्मकस्य सर्वस्य वस्तुजातस्य ब्रह्मतादात्म्यमात्मशरीरभावादेवेत्यवगम्यते । "तस्मा-द्ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य तच्छरीतत्वेनैव वस्तुत्वात् तस्य प्रतिपादकोऽपि शब्दस्तत्पर्यन्तमेव स्वार्थमभि-दधाति ।) अतः सर्वशब्दानां लोकव्युत्पत्त्यवगततत्तत्पदार्थविशिष्टब्रह्माभिधायित्वं सिद्धमिति ऐतदात्म्यमिदं सर्वमिति प्रतिज्ञातार्थस्य तत्त्वमसीति सामानाधिकरण्येन विशेषे उपसंहारः ।।

अतो निर्विशेषवस्त्वैक्यवादिनो भेदाभेदवादिनः केवलभेदवादिनश्च वैयधिकरण्येन सामानाधिकरण्येन च ब्रह्मात्मभावोपदेशाः सर्वे परित्यक्ताः स्युः । एकस्मिन् वस्तुनि कस्य तादात्म्यमुपदिश्यते ? तस्यैवेति चेत्, तत् स्ववाक्येनैवावगतमिति न तादात्म्योपदेशावसेयमस्ति किञ्चित् । कल्पितभेदनिरसनमिति चेत्-तत्तु न सामा-नाधिकरण्यतादात्म्योपदेशावसेयमित्युक्तम् । सामानाधिकरण्यं तु ब्रह्मणि प्रकारद्वयप्रतिपादनेन विरोधमेवाव-हेत् । भेदाभेदवादे तु ब्रह्मण्येवोपाधिसंसर्गात् तत्प्रयुक्ताः जीवगताः दोषा ब्रह्मण्येव प्रादुःष्युरिति निरस्तनिखि-लदोषकल्याणगुणात्मकब्रह्मात्मभावोपदेशा हि विरोधादेव परित्यक्ताः स्युः । स्वाभाविकभेदाभेदवादेऽपि ब्रह्मणः स्वत एव जीवभावाभ्युपगमात् गुणवत् दोषाश्च स्वाभाविका भवेयुरिति निर्दोषब्रह्मतादात्म्योपदेशो विरुद्ध एव । केवलभेदवादिनां चात्यन्तभिन्नयोः केनापि प्रकारेणैक्यासंभवादेव ब्रह्मात्मभावोपदेशा न संभ-वन्तीति सर्ववेदान्तपरित्यागः स्यात् ।।

निखिलोपनिषत्प्रसिद्धं कृत्स्नस्य ब्रह्मशरीरभावमातिष्ठमानैः ब्रह्मात्मभोवोपदेशाः सर्वे सम्यगुपपादिता भवन्ति । जाततिगुणयोरिव द्रव्याणामपि शरीरभावेन विशेषणत्वे "गौरश्वो मनुष्यो देवो जातः पुरुषः कर्मभिः" इति सामानाधिकरण्यं लोकवेदयोर्मुख्यमेव दृष्टचरम् । जातिगुणयोरपि (हि) द्रव्यप्रकारत्वमेव "खण्डो गौः" "शुक्लः पटः" इति सामानाधिकरण्यनिबन्धनम् । मनुष्यत्वादिविशिष्टपिण्डानात्मप्यात्मनः प्रकारतयैव पदा-र्थत्वात् "मनुष्यः पुरुषः षण्डो योषिदात्मा जातः" इति सामानाधिकरण्यं सर्वत्रानुगतमिति प्रकारत्वमेव सामा-नाधिकरण्यनिबन्धनम्; न परस्परव्यावृत्ता जात्यादयः । स्वनिष्ठानामेव हि द्रव्याणां कदाचित् क्वचिद्द्रव्यवि-शेषणत्वे मत्वर्थीयप्रत्ययो दृष्टः, दण्डी, कुण्डलीति; न पृथक्प्रतिपत्तिस्थित्यनर्हाणां द्रव्याणाम् । तेषां विशेष-णत्वं सामानाधिकरण्यावसेयमेव ।।

यदि "गौरश्वो मनुष्यो देवः पुरुषो योषित् षण्ड आत्मा कर्मभिर्जातः" इत्यत्र "खण्डो मुण्डो गौः" "शुक्लः पटः" "कृष्णः पटः" इति जातिगुणवदात्मप्रकारत्वं मनुष्यादिशरीराणामिष्यते, तर्हि जातिव्यक्तयोरिव प्रका-रप्रकारिणोः शरीरात्मनोरपि नियमेन सह प्रतिपत्तिः स्यात्; न चैवं दृश्यते । न हि नियमेन गोत्वादिवत् आ-त्माश्रयतयैवात्मना सह मनुष्यादिशरीरं पश्यन्ति । अतो मनुष्य आत्मेति सामानाधिकरणयं लाक्षणिकमेव । नैतदेवम्; मनुष्यादिशरीराणामप्यात्मैकाश्रयत्वं तदेकप्रयोजनत्वं तत्प्रकारत्वञ्च जात्यादितुल्यम् । आत्मैका-श्रयत्वमात्मविश्लेषे शरीरस्य विनाशादवगम्यते । आत्मैकप्रयोजनत्वञ्च त(त्त)त्कर्मफलभोगार्थतयैव सद्भवात् । तत्प्रकारत्वमपि, देवो मनुष्य सत्यात्मविशेषणतयैव प्रतीतेः । एतदेव हि गवादिशब्दानां व्यक्तिपर्यन्तत्वे हेतुः । एतत्स्वभावविरहादेव दण्डकुण्डलादीनां विशेषणत्वे दण्डी कुण्डलीति मत्वर्थीयप्रत्ययः । देवमनुष्यादिपिण्डा-नात्मैकाश्रयत्वतदेकप्रयोजनत्वतत्प्रकारत्वस्वभावात् देवो मनुष्य आत्मेति लोकवेदयोः सामानाधिकरण्येन व्यवहारः । जातिवोर्नियमेन सहप्रतीतिरुभयोश्चाक्षुषत्वात् । आत्मनस्त्वचाक्षुषत्वात् चक्षुषा शरीरग्रहण-वेलायामात्मा न गृह्यते । पृथग्ग्रहणयोग्यस्य प्रकारतैकस्वरूपत्वं दुर्घटमिति मा वोचः; जात्यादिवत् तदेकाश्र-यत्वतदेकप्रयोजनत्वतद्विशेषणत्वैः शरीरस्यापि तत्प्रकारतैकस्वभावत्वावगमात् । सहोपलम्भनियमस्त्वेकसा-मग्रीवेद्यत्वनिबन्धन इत्युक्तम् । यथा चक्षुषा पृथिव्यादेगर्न्धरसादिसंबन्धित्वं स्वाभाविकमपि न गृह्यते, एवं चक्षुषा गृह्यमाणं शरीरमात्मप्रकारतैकस्वभावमपि न तथा गृह्यते; आत्मगृहणे चक्षुषः सामर्थ्याभावात् । नैता-वता शरीरस्य तत्प्रकारतैकस्वभावत्वमेव सामानाधिकरण्यनिबन्धनम् । आत्मप्रकारतया प्रतिपादनसमर्थस्तु शब्दः सहैव प्रकारतया प्रतिपादयति ।।

ननु च शाब्देऽपि व्यवहारे शरीरशब्देन शरीरमात्रं गृह्यत इति नात्मपर्यन्तता शरीरशब्दस्य । नैवम्; आत्म-प्रकारभूतस्यैव शरीरस्य पदार्थविवेकप्रदर्शनाय निरूपणान्निष्कर्षकशब्दोऽयम्; यथा गोत्वं शुक्लत्वम् आकृतिः गुण सत्यादिशब्दाः ।।

अतो गवादिशब्दवत् देवमनुष्यादिशब्दा आत्मपर्यन्ताः । इदमेव शरीरात्मभावलक्षणं तादात्म्यम्, "आत्मेति तूपगच्छन्ति ग्राहयन्ति च" इति वक्ष्यति; "आत्मेत्येव तु गृह्णीयात्" इति च वाक्यकारः ।।

अत्रेदं तत्त्वम्- अचिद्वस्तुनः चिद्वस्तुनः परस्य च ब्रह्मणो भोग्यत्वेन भोक्तृत्वेन चेशितृत्वेन च स्वरूपविवे-कमाहुः काश्चन श्रुतयः-"अस्मान्मायी सृजते विश्वमेतत् तस्मिंश्चान्यो मायया संनिरुद्धः", "मायां तु प्रकृतिं वि-द्यान्मायिनं तु महेश्वरम्", "क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः"-अमृताक्षरं हर इति भोक्ता निर्दिश्यते, प्रधानमात्मनो भोग्यत्वेन हरतीति हरः, "स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः", "प्रधानक्षेत्रज्ञपतिर्गुणेशः", "पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवमच्युतम्", "ज्ञाज्ञौ द्वावजावीशनीशौ", "नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां योविदधाति कामान्" "भोक्ता भोग्यं प्रेरितारं च मत्वा", "तयो-रन्यः पिप्पलं स्वाद्वत्त्यनश्रन्नन्यो अभिचाकशीति", "पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति", "अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम् । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्त-भागामदोऽन्यः", "समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य वीत-शोकः" इत्यद्याः । स्मृतावनि,-

"अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा । अपरेवमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।

जीवभूतां महावाहो ! ययेदं धार्यते जगत् ।", "सर्वभूतानि कौन्तेय पअकृतिं विद्धि यान्ति मामिकाम् ।

कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ।। प्रकृतिं स्वामष्टभ्य विसृचामि पुनः पुनः ।

भूतग्राममिमं कृत्स्नमवशं प्रकृतेवेशात् ।।", "मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।

हेतुनाऽनेन कौन्तेय जगद्धि परिवर्तते ।।", प्रकृतिं पुरुषं चैव विद्धयनादी उभावपि ।",

"मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् । संभवः सर्वभूतानां ततो भवति भारत ।।"

इति । जगद्योनिभूतं महद्ब्रह्म मदीयम्, प्रकृत्याख्यं भूतसूक्ष्ममचिद्वस्तु यत्, तस्मिंश्चेतनाख्यं गर्भं यत् संयोज-यामि, ततो मत्कृताच्चिदचित्संसर्गात् देवादिस्थावरान्तानामचिन्मिश्राणां सर्वभूतानां संभवो भवतीत्यर्थः । एवं भोक्तृभोग्यरूपेणावस्थितयोः सर्वावस्थावस्थितयोश्चिदचितोः परमपुरुषशरीरतया तन्नियाम्यत्वेन तदपृथक्-स्थितिं परमपुरुषस्य चात्मत्वमाहुः काश्चय श्रुतयः-"यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति" इत्यारभ्य, "य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः" इति । तथा, "यः पृथिवीमन्तरे सञ्चरन् यस्य पृथिवी शरीरं यं पृथिवी न वेद" इत्यारभ्य, "योऽक्षरमन्तरे सञ्चरन् यस्याक्षरं शरीरं यमक्षरं न वेद, यो मृत्युमन्तरे सञ्चरन् यस्य मृत्युः शरीरं यं मृत्युर्न वेद, ,एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः"- अत्र मृत्युशब्देन तमश्शब्दवाच्यं सूक्ष्मावस्थमचिद्वस्त्वभिधीयते; अस्यामेवोपनिषदि, "अव्यक्तमक्षरे लीयते । अक्षरं तमसि लीयते" इति वचनात्-, "अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा" इति च ।।

एवं सर्वावस्थावस्थितचिदचिद्वस्तुशरीरतया तत्प्रकारः परमपुरुष एव कार्यावस्थकारणावस्थजगद्रूपेणाव-स्थित इतीममर्थं ज्ञापयितुं काश्चन श्रुतयः कार्यावस्थं कारणावस्थं च जगत् स एवेत्याहुः, "सदेव सोम्येदमग्र

आसीदेकमेवोद्वितीयं तदक्षैत महु स्यां प्रजायेयेति तत्तेजोऽसृजत" इत्यारभ्य, "सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाःसत्प्रतिष्ठाः । ऐतदात्म्यमिदं सर्वं तत् सत्यं स आत्मा तत्त्वमसि श्वेतकेतो" इति । तथा, "सोऽकाम-यत । बहु स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इदं सर्वमसृजत" इत्यारभ्य, "सत्यं चानृतं च सत्यमभवत्" इत्याद्याः । अत्रापि श्रुत्यन्तरसिद्धश्चिदचितोः परमपुरुषस्य च स्वरूपविवेकः स्मारितः, "हन्ता-हमिमास्तिस्रो देवता अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति,-"तत् सृष्ट्वा तदेवानुप्रा-विशत् । तदनुप्रविश्य सच्च त्यच्चाभवत् । विज्ञानं चाविज्ञानं च सत्यञ्चानृतं च सत्यमभवत्" इति च । "अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य" इति जीवस्य ब्रह्मात्मकत्वम्, "तदनुप्रविश्य सच्च त्यच्चाभवत्", "विज्ञानं चावि-ज्ञानञ्च" इत्यनेनैकार्थ्यादात्मशरीरभावनिबन्धनमिति विज्ञायते । एवम्भूतमेव नामरूपव्याकरणम्, "तद्धेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यां व्याक्रियत" इत्यत्राप्युक्तम् ।

अतः कार्यावस्थः कारणावस्थश्च स्थूलसूक्ष्मचिदचिद्वस्तुशरीरः परमपुरुष एवेति कारणात्कार्यस्यानन्यत्वेन कारणविज्ञानेन कायर्स्य ज्ञाततया एवविज्ञानेनसर्वविज्ञानं (च) समीहितमुपपन्नतरम् । "अहमिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति, "तिस्रो देवता" इति सवर्प्रचिद्वस्तु निर्दिश्य तत्र स्वात्मकजीवानुप्रवेशेन नामरूपव्याकरणवचनात् सर्वे वाचकाः शब्दाः अचिद्विशिष्टजीवविशिष्टपरमात्मन एव वाचका इति कारणावस्थपरमात्मवाचिना शब्देन कार्यवाचिनः शब्दस्य सामानाधिकरण्यं मुख्यवृत्तम् । अतः स्थूलसूक्ष्मचिदचित्प्रकारकं ब्रह्मैव कार्यं कारणं चेति ब्रह्मोपादानं जगत् ।

सूक्ष्मचिदचिद्वस्तुशरीरं ब्रह्मैव कारणमिति ब्रह्मोपादानत्वेऽपि संघातस्योपादानत्वेन चिदचितोर्ब्रह्मणश्च स्व-भावासङ्करोऽप्युपपन्नतरः । यथा शुक्लकृष्णरक्ततन्तुसङ्घातोपादानत्वेऽपि चित्रपटस्य तत्तसन्तुप्रवेश एव शौक्लया-दिसंबन्ध इति कार्यावस्थायामपि न सर्वत्र वणर्सङ्करः, तथा चिदचिदीश्वरसङ्घातोपादानत्वेऽपि जगतः कार्याव-स्थायामपि भोक्तृत्वभोग्यत्वनियन्तृत्वाद्यसङ्करः । तन्तूनां पृथक्स्थितियोग्यानामेव पुरुषेच्छया कदाचित्संहतानां कारणत्वं कार्यत्वञ्च । इह तु चिदचितोः सर्वावस्थयोः परमपुरुषशरीरत्वेन तत्प्रकारतयैव पदार्थत्वात् तत्प्रकारः परमपुरुषः सर्वदा सर्वशब्दवाच्य इति विशेषः । स्वभावभेदः तदसङ्करश्च तत्र चात्र च तुल्यः । एवञ्च सति परस्य ब्रह्मणः कार्यानुप्रवेशेऽपि स्वरूपान्यथाभावाभावादविकृतत्वमुपपन्नतरम् । स्थूलावस्थस्य नामरूपविभागविभ-क्तस्य चिदचिद्वस्तुन आत्मतयाऽवस्थानात् कार्यत्वमप्युपपन्नतरम् । अवस्थान्तरापत्तिरेव हि कार्यता । निर्गुण-वादाश्च परस्य ब्रह्मणो हेयगुणासंबन्धादुपपद्यन्ते । "अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः" इति हेयगुणान् प्रतिषिध्य, "सत्यकामस्सत्यसङ्कल्पः" इति कल्याणगुणान् विदधती इयं श्रुतिरेवान्यत्र सामान्ये-नावगतं गुणनिषेधं हेयगुणविषयं व्यवस्थापयति ।

ज्ञानस्वरूपं ब्रह्मेति वादश्च सर्वज्ञस्य सर्वशक्तेर्निखिलहेयप्रत्यनीककल्याणगुणाकरस्य ब्रह्मणः स्वरूपं ज्ञानै-कनिरूपणीयं स्वयम्प्रकाशतया ज्ञानस्वरूपं चेत्यभ्युपगमादुपपन्नतरः । "यः सर्वज्ञः सर्ववित्", "पराऽस्य शक्ति-र्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च", "विज्ञातारमरे केन विजानीयात्" इत्यादिकाः ज्ञातृत्वमावेद-यन्ति; "सत्यं ज्ञानम्" इत्यादिकाश्च ज्ञानैकनिरूपणीयतया स्वप्रकाशतया च ज्ञानस्वरूपताम् ।

सोऽकामयत बहु स्याम्", "तदैक्षत बहुस्याम्", "तन्नामरूपाभ्यां व्याक्रियत" इति ब्रह्मैव स्वसङ्कल्पाद्विचि-त्रस्थिरत्रसरूपतया नानाप्रकारमवस्थितमिति तत्प्रत्यनीकाब्रह्मात्मकवस्तुनानात्वमतत्त्वमिति तत् प्रतिषिध्यते, "मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति", "नेह नानास्ति किञ्चन", "यत्र हि द्वैतमिव भवति तदितर इतरं

पश्यति । यत्र त्वस्य सर्वमात्मैवाभूत्, तत् केन कं पश्यत् तत्केन कं विजानीयादित्यादिना । न पुनः, "बहु स्यां प्रजायेय" इत्यादिश्रुतिसिद्धं स्वसङ्कल्पकृतं ब्रह्मणो नानानामरूपभाक्तवेन नानाप्रकारत्वमपि निषिध्यते । "यत्र त्वस्य सर्वमात्मैवाभूत्" इत्यादिनिषेधवाक्यादौ च तत् स्थापितम्-"सर्वं तं परादात्, योऽन्यत्रात्मनः सर्वं वेद, तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतत् यदृग्वेदो यजुर्वेदः इत्यादिना ।।

एवं चिदचिदीश्वराणां स्वरूपभेदं स्वभावभेदं च वदन्तीनां कार्यकारणभावं कार्यकारणयोरनन्यत्वञ्च वद-न्तीनां सर्वासां श्रुतीनामविरोधः, चिदचितोः परमात्मनश्च सर्वदा शरीरात्मभावं शरीरभूतयोः कारणदशायां नामरूपविभागानर्हसूक्ष्मदशापतिं्त कार्यदशायां च तदर्हस्थूलदशापतिं्त वदन्तीभिः श्रुतिभिरेव ज्ञायत इति ब्रह्मा-ज्ञानवादस्य औपाधिकब्रह्मभेदवादस्य अन्यस्याप्यपन्यायमूलस्य सकलश्रुतिविरुद्धस्य न कथञ्चिदप्यवकाशो दृश्यते । चिदचिदीश्वराणां पृथक्स्वभावतया तत्तच्छØतिसिद्धानां शरीरात्मभावेन प्रकारप्रकारितया श्रुतिभिरेव प्रतिपन्नानां पन्नतया श्रुत्यन्तरेण कार्यकारणभावप्रतिपादनं कार्यकारणयोरैक्यप्रतिपादनं च ह्यविरुद्धम् । यथा-आग्नेयादीन् षड् यागान् उत्पत्तिवाक्यैः पृथगुत्पन्नान् समुदायानुवादिवाक्यद्वयेन समुदायद्वयत्वमापन्नान् "दर्श-पूर्णमासाभ्याम्" इत्यधिकारवाक्यं कामिनः कर्तव्यतया विदधाति-तथा चिदचिदीश्वरान् विविक्तस्वरूपस्वभा-वान्, "क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः", "पतिं विश्वस्यात्मेश्वरम्", "आत्मा नारायणः परः" इत्यादिवाक्यैः पृथक् प्रतिपाद्य, "यस्य पृथिवी शरीरम्", "यस्यात्मा शरीरम्", "यस्याव्यक्तं शरीरम् । यस्याक्षरं शरीरम् । एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः" इत्यादिभिर्वाक्यैश्चिदचितोः सर्वावस्थावस्थितयोः परमात्मशरीरतां परमात्मनस्तदात्मताञ्च प्रतिपाद्य शरीरिभूतपरमात्माभिधायिभिः सद्ब्र-ह्मात्मादिशब्दैः कारणावस्थः कार्यावस्थश्च परमात्मैक एवेति पृथक् प्रतिपन्नं वस्तुत्रितयम् "सदेव सोम्येदमग्र आसीत्", "ऐतदात्म्यमिदं सर्वम्", "सर्वं खल्विदं ब्रह्म" इत्यादिवाक्यं प्रतिपादयति । चिदचिद्वस्तुशरीरिणः परमात्मनः परमात्मशब्देनाभिधाने हि नास्ति विरोधः, यथा मनुष्यपिण्डशरीरकस्यात्मविशेषस्य अयमात्मा सुखीत्यात्मशब्देनाभिधाने इत्यलमतिविस्तरेण ।।

यत्पुनरिदमुक्तम्-ब्रह्मात्मैकत्वविज्ञानेनैवाविद्यानिवृत्तिर्युक्तेति-तदयुक्तम्; बन्धस्य पारमार्थिकत्वेन ज्ञान-निवर्त्यत्वाभावात् । पुण्यापुण्यरूपकर्मनिमित्तदेवादिशरीरप्रवेशतत्प्रयुक्तसुखदुःखानुभवरूपस्य बन्धस्य मि-थ्यात्वं कथमिव शक्यते वक्तुम् ।

एवं रूपबन्धनिवृत्तिर्भक्तिरूपापन्नोपासनप्रीतपरमपुरुषप्रसादलभ्येति पूर्वमेवोक्तम् । भवदभिमतस्यैक्यज्ञा-नस्य यथावस्थितवस्तुविपरीतविषयस्य मिथ्यारूपत्वेन बन्धविवृद्धिरेव फलं भवति; "मिथ्यैतदन्यद्द्रव्यं हि नैति तद्द्रव्यतां यतः" इति शास्त्रात्; "उत्तमः पुरुषस्त्वन्यः", "पृथगात्मानं प्रेरितारं च मत्वा" इति जीवात्म-विसजातीयस्य तदन्तर्यामिणो ब्रह्मणो ज्ञानं परमपुरुषार्थलक्षणमोक्षसाधनमित्युपदेशाच्च ।।

अपि च भवदभिमतस्यापि निवर्तकज्ञानस्य मिथ्यारूपत्वात् तस्य निवर्तकान्तरं मृग्यम् । निवर्तकज्ञानमिदं स्वविरोधि सर्वं भेदजातं निवर्त्य, क्षणिकत्वात् स्वयमेव नश्यतीति चेत्-न; तत्स्वरूपतदुत्पत्तिविनाशानां काल्पनिकत्वेन विनाशतत्कल्पनाकल्परूपाविद्याया निवर्तकान्तरमन्वेषणीयम् । तद्विनाशो ब्रह्मस्वरूपमेवेति चेत्-तथासति निवर्कज्ञानोत्पत्तिरेव न स्यात्; तद्विनाशे तिष्ठति तदुत्पत्त्यसंभवात् ।।

अपिच चिन्मात्रब्रह्मव्यतिरिक्तकृत्स्ननिषेधविषयज्ञानस्य कोऽयं ज्ञाता ? अध्यासरूप इति चेत्-न; तस्य निषेध्यतया निवर्तकज्ञानकर्मत्वात् तत्कर्तृत्वानुपपत्तेः । ब्रह्मस्वरूपमिति चेत्-ब्रह्मणो निवर्तकज्ञानं प्रति ज्ञातृत्वं

किं स्वरूपम्, उताध्यस्तम् ? अध्यस्तं चेत्-अयमध्यासः तन्मूलाविद्यान्तरं च निवर्तकज्ञानाविषयतया तिष्ठ-त्येव । निवर्तकज्ञानान्तराभ्युपगमे तस्यापि त्रिरूपत्वात् ज्ञात्रपेक्षयाऽनवस्था स्यात् । ब्रह्मस्वरूपस्यैव ज्ञातृत्वे अस्मदीय एव पक्षः परिगृहीतः स्यात् । निवर्तकज्ञानस्वरूपं स्वस्य ज्ञाता च ब्रह्मव्यतिरिक्तत्वेन स्वनिवर्त्या-न्तर्गतमिति वचनम्, "भूतलव्यतिरिक्तं कृत्स्नं देवदत्तेन छिन्नम्" इत्यस्यामेव छेदनक्रियायामस्य छेत्तुः अस्या-श्छेदनक्रियायाश्च छेद्यानुप्रवेशवचनवत् उपहास्यम् । अध्यस्तो ज्ञाता स्वनाशहेतुभूतनिवर्तकज्ञाने स्वयं कर्ता च न भवति; स्वनाशस्यापुरुषार्थत्वात् । तन्नाशस्य ब्रह्मस्वरूपत्वाभ्युपगमे, भेददर्शन-तन्मूलाविद्यादीनां कल्प-नमेव न स्यात्-इत्यलमनेन दिष्टहतमुद्गराभिघातेन ।

तस्मादनादिकर्मप्रवाहरूपाज्ञानमूलत्वात् बन्धस्य तन्निबर्हणम् उक्तलक्षणज्ञानादेव । तदुत्पत्तिश्च अहरहरनु-ष्ठीयमानपरमपुरुषाराधनवेषात्मयाथात्म्यबुद्धिविशेषसंस्कृतवर्णाश्रमोचितकर्मलभ्या । तत्र केवलकर्मणामल्पा-स्थिरफलत्वम्, अनभिसंहितफलपरमपुरुषाराधनवेषाणां कर्मणाम् उपासनात्मकज्ञानोत्पत्तिद्वारेण ब्रह्मयाथा-त्म्यानुभवरूपानन्तस्थिरफलत्वं च कर्मस्वरूपज्ञानात् ऋते न ज्ञायते, केवलाकारपरित्यागपूर्वकयथोक्तस्वरूप-कर्मोपादानं च न संभवतीति कर्मविचारानन्तरं तत एव हेतोर्ब्रह्मविचारः कर्तव्य इति अथात इत्युक्तम् ।।

(इति महासिद्धान्तः)

तत्र पूर्वपक्षवादी मन्यते वृद्धव्यवहारादन्यत्र शब्दस्य बोधकत्वशक्तयवधारणासंभवात्, व्यवहारस्य च कार्य-बुद्धिपूर्वकत्वेन कार्यार्थ एव शब्दस्य प्रामाण्यमिति कार्यरूप एव वेदार्थः । अतो न वेदान्ताः परिनिष्पन्ने परे ब्रह्मणि प्रमाणभावमनुभवितुमर्हन्ति ।

न च, पुत्रजन्मादिसिद्धवस्तुविषयवाक्येषु हर्षहेतूनां कालत्रयवतिर्नामर्थानामानन्त्यात् सुलग्नसुखप्रसवादि-हर्षहेत्वर्थान्तरोपनिपातसंभावनया च, प्रियार्थप्रतिपत्तिनिमित्तमुखविकासादिलिङ्गेनार्थविशेषबुद्धिहेतुत्वनि-श्चयः । नापि व्युत्पन्नेतरपदविभक्तयर्थस्य पदान्तरार्थनिश्चयेन प्रकृत्यर्थनिश्चयेन वा शब्दस्य सिद्धवस्तुन्यभिधा-नशक्तिनिश्चयः; ज्ञातकार्याभिधायिपदसमुदायस्य तदंशविशेषनिश्चयरूपत्वात् तस्य । न च सर्पाद्भीतस्य नायं सर्पो रज्जुरेवेति शब्दश्रवणसमनन्तरं भयनिवृत्तिदर्शनेन सर्पाभावबुद्धिहेतुत्वनिश्चयः; अत्रापि निश्चेष्टम्, निर्वि-षम्, अचेतनमिदं वस्त्वित्याद्यर्थबधिषु बहुषु भयनिवृत्तिहेतुषु सत्सु विशेषनिश्चयायोगात् । कार्यबुद्धिप्रवृत्ति-व्याप्तिबलेन शब्दस्य प्रवर्तकार्थावबोधित्वमवगतमिति सर्वपदानां कार्यपरत्वेन सर्वैः पदैः कायर्स्यैव विशिष्टस्य प्रतिपादनात् नान्यन्वितस्वार्थमात्रे पदशक्तिनिश्चयः । इष्टसाधनताबुद्धिस्तु कार्यबुद्धिद्वारेण प्रवृत्तिहेतुः, न स्वरूपेण; अतीतानागतवर्तमानेष्टोपायबुद्धिषु प्रवृत्त्यनुपलब्धेः । इष्टोपायो हि, मत्प्रयत्नात् ऋते न सिद्धयति, अतो मत्कृतिसाध्यः इति बुद्धिर्यावन्न जायते, तावत् न प्रवर्तते ।

अतः कार्यबुद्धिरेव प्रवृत्तिहेतुरिति प्रवर्तकस्यैव शब्दवाच्यतया कार्यस्यैव वेदवेद्यत्वात् परिनिष्पन्नरूपब्रह्म-प्राप्तिलक्षणान्तस्थिरफलाप्रतिपत्तेः, "अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति" इत्यादिभिः कर्मणामेव स्थिरफलत्वप्रतिपादनाच्च कर्मफलाल्पास्थिरत्वब्रह्मज्ञानफलानन्तस्थिरत्वज्ञानहेतुको ब्रह्मविचारारम्भो न युक्त इति ।

अत्राभिधीयते-निखिललोकविदितशब्दार्थसंबन्धावधारणप्रकारमपनुद्य सर्वशब्दानामलौकिकार्थावबोधि-त्वावधारणं प्रामाणिका न बहु मन्वते । एवं किल बालाः शब्दार्थसंबन्धमवधारयन्ति-मातापितृप्रभृतिभिः अम्बातातमातुलादीन् शशिपशुनरमृगपक्षिसर्पादीश्च, "एनमवेहि" "इमं चावधारय" इत्यभिप्रायेणाङ्गुल्या निर्दि-

श्य(निर्दिश्य) तेस्तैश्शब्दैस्तेषु तेष्वर्थेषु बहुशः शिक्षिताः शनैश्शनैस्तैस्तैस्रेव शब्दैस्तेषु तेष्वर्थेषु स्वात्मनां बुद्ध-#्युत्पतिं्त दृष्ट्वा शब्दाथर्योः संबन्धान्तरादर्शनात् सङ्केतयितृपुरुषाज्ञानाच्च तेष्वर्थेषु तेषां शब्दानां प्रयोगे बोधकत्व-निबन्धन इति निश्चिन्वन्ति । पुनश्च व्युत्पन्नेतरशब्देषु, "अस्य शब्दस्य अयमर्थः" इति पूर्व(वत्) वृद्धैः शिक्षिताः सर्वशब्दानामर्थमवगम्य परप्रत्यायनाय तत्तदर्थावबोधिवाक्यजातं प्रयुञ्जते ।

प्रकारान्तरेणापि शब्दार्थसंबन्धावधारणं सुशकम्-केनचित् पुरुषेण हस्तचेष्टादिना । "पिता ते सुखमास्ते" इति देवदत्ताय ज्ञापयेति प्रेषितः कश्चित् तज्ज्ञापने प्रवृत्तः, पिता ते सुखमास्त इति शब्दं प्रयुङ्क्त्#े । पार्श्वस्थोऽन्यो व्युत्पित्सुः मूकवत् चेष्टाविशेषज्ञः तज्ज्ञापने प्रवृत्तमिमं ज्ञात्वाऽनुगतः तज्ज्ञापनाय प्रयुक्तमिमं शब्दं श्रुत्वा, अयं शब्दस्तदर्थबुद्धिहेतुरिति निश्चिनोति-इति, कार्यार्थ एव व्युत्पत्तिरिति निर्बन्धो निर्निबन्धनः ।

अतो वेदान्ताः परिनिष्पन्नं परं ब्रह्म तदुपासनं चापरिमितफलं बोधयन्तीति तन्निर्णयफलो ब्रह्मविचारः कर्तव्यः ।।

कार्याथर्त्वेपि वेदस्य ब्रह्मविचारः कर्तव्य एव । कथम् । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्या-सितव्यः", "सोऽन्वेष्टव्यः स विजिज्ञासितव्यः", "विज्ञाय प्रज्ञां कुर्वीत", "दहरोऽस्मिन्नन्तराकाशस्तस्मिन् यद-न्तस्तदन्वेष्टव्यं तद्वा च विजिज्ञादितव्यम्", "तत्रापि दह्नं गगनं विशोकः तस्मिन् यदन्तस्तदुपासितव्यम्" इत्या-दिभिः प्रतिपन्नोपासनविषयकार्याधिकृतफलत्वेन, "ब्रह्मविदाप्नोति परम्" इत्यादिभिर्ब्रह्मप्राप्तिः श्रूयत इति ब्रह्म-स्वरूपतद्विशेषणानां दुःखासंभिन्नदेशविशेषरूपस्वर्गादिवत्, राथिसत्रप्रतिष्टावत्, अपगोरणशतयातनासाध्य-साधनभाववच्च कार्योपयोगितयैव सिद्धेः ।।

गामानयेत्यादिष्वपि वाक्येषु न कार्यार्थे व्युत्पत्तिः; भवदभिमतकार्यस्य दुर्निरूपत्वात् । कृतिभावभावि कृत्युद्देश्यं हि भवतः कार्यम् । कृत्युदेश्यत्वञ्च कृतिकर्मत्वम् । कृतिकर्मत्वञ्च कृत्या प्राप्तुमिष्टतमत्वम् । इष्टतमं च सुखं वर्तमानदुःखस्य तन्निवृत्तिर्वा । तत्रेष्टसुखादिना पुरुषेण स्वप्रयत्नात् ऋते तदसिद्धिः प्रतीता, ततः प्रयत्नेच्छुः प्रवतर्ते पुरुष इति न क्वचिदपीच्छाविषयस्य कृत्यधीनसिद्धित्वमन्तरेण कृत्युद्देश्यत्वं नाम किञ्चिदप्युपलभ्यते ।

इच्छाविषयस्य प्रेरकत्वं च प्रयत्नलधीनसिद्धित्वमेव; तत एव प्रवृत्ते ।।

न च पुरुषानुकूलत्वं कृत्युद्देश्यत्वम् । यतः सुखमेव पुरुषानुकूलम् । न च दुःखनिवृत्तेः पुरुषानुकूलत्वम् । पुरुषानुकूलं सुखं तत्प्रतिकूलं दुःखमिति हि सुखदुःखयोः स्वरूपविवेकः । दुःखस्य प्रतिकूलतया तन्निवृत्तिरिष्टा भवति; नानुकूलतया । अनुकूलप्रतिकूलान्वयविरहे स्वरूपेणावस्थितिर्हि दुःखनिवृत्तिः । अतः सुखव्यतिरिक्तस्य क्रियादेरनुकूलत्वं न संभवति । न सुखार्थतया तस्याप्यनुकूलत्वम्; दुःखात्मकत्वात् तस्य । सुखार्थतयापि तदु-पादानेच्छामात्रमेव भवति ।

(न च कृतिं प्रति शेषित्वं कृत्युद्देश्यत्वम्, भवत्पक्षे शेषित्वस्यानिरूपणात् । न च परोद्देशप्रवृत्तकृतिव्याप्त्य-र्हत्वं शेषत्वमिति तत्प्रतिसम्बन्धी शेषीत्यवगम्यते; तथा सति कृतेरशेषत्वेन तां प्रति तत्साध्यस्य शेषित्वाभा-वात् । न च परोद्देशप्रवृत्त्यर्हतायाः शेषत्वेन परः शेषी; उद्देश्यत्वस्यैव निरूप्यमाणत्वात्; प्रधानस्यापि भृत्योद्दे-शप्रवृत्त्यर्हत्वदर्शनाच्च । प्रधानस्तु भृत्यपोषणेऽपि स्वोद्देशेन प्रवर्तत इति चेन्न; भृत्योऽपि हि प्रधानपोषणे स्वोद्दे-शेनैव प्रवर्तते ।

कार्यस्वरूपस्यैवानिरूणात् कार्यप्रतिसंबन्धी शेषः, तत्प्रतिसम्बन्धी शेषीत्यप्यसङ्गतम् ।।)

नापि कृतिप्रयोजनत्वं कृत्युद्देश्यत्वम् । पुरुषस्य कृत्यारम्भप्रयोजनमेव हि कृतिप्रयोजनम् । स चेच्छाविषयः।

तस्मादिष्टत्वातिरेकिकृत्युद्देश्यत्वानिरूपणात् कृतिसाध्यताकृतिप्रधानत्वरूपं कार्यं दुर्निरूपमेव । नियोग-स्यापि साक्षादिपिविषयभूतसुखदुःखनिवृत्तिभ्यामन्यत्वात् तत्साधनतयैवेष्टत्वं कृतिसाध्यत्वञ्च । अत एव हि तस्य क्रियातिरिक्तता । अन्यथा क्रियैव कार्यं स्यात् । स्वर्गकामपदसमभिव्याहारानुगुण्येन लिङादिवाच्यं कार्यं स्वर्गसाधनमेवेति क्षणभङ्गिकर्मातिरेकि स्थिरं स्वर्गसाधनमपूर्वमेव कार्यमिति स्वर्गसाधनतोल्लेखेनैव ह्यपूर्वव्यु-त्पत्तिः । अतः प्रथममनन्यार्थतया प्रतिपन्नस्य कार्यस्यानन्यार्थत्वनिर्वहणायापूर्वमेव पश्चात् स्वर्गसाधनं भव-तीत्युपहास्यम्; स्वर्गकामपदान्वितकार्याभिधायिपदेन प्रथममप्यनन्यार्थतानभिधानात्; सुखदुःखनिवृत्तित-त्साधनेभ्योऽन्यस्यानन्यार्थस्य कृतिसाध्यताप्रतीत्यनुपपत्तेश्च ।

अपि च-किमिदं नियोगस्य प्रयोजनत्वम् । सुखवत् नियोगस्याप्यनुकूलत्वमेवेति चेत्-किं नियोगः सुखम् ? सुखमेव ह्यनुकूलम् । सुखविशेषवत् नियोगापरपर्यायं विलक्षणं सुखान्तरमिति चेत्-किं तत्र प्रमाणमिति वक्त-व्यम् । स्वानुभवश्चेत्-न । विषयविशेषानुभवसुखवत् नियोगानुभवसुखमिदमिति भवताऽपि नानुभूयते । शास्त्रेण नियोगस्य पुरुषार्थतया प्रतिपादनात् पश्चात्तु भोक्ष्यत इति चेत्-किं तत् नियोगस्य पुरुषार्थत्ववाचि शास्त्रम् ? न तावल्लौकिकं वाक्यम्; तस्य दुःखात्मकक्रियाविषयत्वात्; तेन सुखादिसाधनतयैव कृतिसाध्यता-मात्रप्रतिपादनात् । नापि वैदिकम्; तेनापि स्वर्गादिसाधनतयैव कार्यस्य प्रतिपादनात् । नापि नित्यनैमित्तिक-शास्त्रम्, तस्यापि तदभिधायित्वं स्वर्गकामवाक्यस्थापूर्वव्युत्पत्तिपूर्वकमिति उक्तरीत्या तेनापि सुखादिसाधन-कार्याभिधानमवर्जनीयम् । नियतैहिकफलस्य कर्मणोऽनुष्ठितस्य फलत्वेन तदानीमनुभूयमानान्नाद्य(द्या)रोग-तादिव्यतिरेकेण नियोगरूपसुखानुभवानुपलब्धेश्च नियोगः सुखमित्यत्र न किञ्चन प्रमाणमुपलभामहे । अर्थ-वादादिष्वपि स्वर्गादिसुखप्रकारकीतर्नवत् नियोगरूपसुखप्रकारकीर्तनं भवतामपि न दृष्टचरम् ।

अतो विधिवाक्येष्वपि धात्वर्थस्य कर्तृव्यापारसाध्यतामात्रं शब्दानुशासनसिद्धमेव लिङादेर्वाच्यमित्यव-सीयते । धात्वर्थस्य च यागादेरग्न्यादिदेवतान्तर्यामिपरमपुरुषसमाराधनरूपता, समाराधितात् परमपुरुषात् फलसिद्धिश्चेति, "फलमत उपपत्तेः" इत्यत्र प्रतिपादयिष्यते । अतो वेदान्तः परिनिष्पन्नं परं ब्रह्म बोधयन्तीति ब्रह्मोपासनफलानन्त्यं स्थिरत्वं च सिद्धम् । चातुर्मास्यादिकर्मस्वपि केवलस्य कमर्णः क्षयिफलत्वोपदेशादक्ष-यफलश्रवणम्, "वायुश्चान्तरिक्षं चैतदमृतम्" इत्यादिपदापेक्षिकं मन्तव्यम् । अतः केवलानां कर्मणामल्पास्थि-रफलत्वात् ब्रह्मज्ञानस्य चानन्तस्थिरफलत्वात् तन्निर्णयफलो ब्रह्मविचारारम्भो युक्त इति स्थितम् ।।

इति श्रीभाष्ये जिज्ञासाधिकरणम् ।

1.1.2

किम्पुनस्तद्व्रह्म? यज्जिज्ञास्यमुच्यत इत्यत्राह-

1.1.2 जन्माद्यस्य यतः ।। 2 ।।

1.1.2

जन्मादीति-सृष्टिस्थितिप्रलयम् । तद्गुणसंविज्ञानो बहुव्रीहिः । अस्यऽचिन्त्यविविधविचित्ररचनस्य निय-तदेशकालफलभोगब्रह्मादिस्तम्बपर्यन्तक्षेत्रज्ञमिश्रस्य जगतः । यतः यस्मात्सर्वेश्वरान्निखिलहेय प्रत्यनीक-स्वरूपात्सत्यसङ्कल्पात् ज्ञानानन्दाद्यनन्तकल्याणगुणात्सर्वज्ञात्सर्वशक्तेः परमकारुणिकात् परस्मात् पुंसः, सृष्टिस्थितिप्रलयाः प्रवर्त्तन्ते तद्व्रह्मेति सूत्रार्थः ।।

"भृगुर्वै वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्म" इत्यारभ्य "यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व तद्व्रह्म"र् इति श्रूयते । तत्र संशयः- किमस्माद्वाक्यात् ब्रह्म लक्षणतः प्रतिपत्तुं शक्यते, न वेति ।

किं प्राप्तम्? न शक्यमिति । न तावज्जन्मादयोविशेषणत्वेन ब्रह्म लक्षयन्ति, अनेकविशेषणव्या-वृत्तत्वेन ब्रह्मणोऽनेकत्वप्रसक्तेः । विशेषणत्वं हि व्यावर्तकत्वम् ।। ननु "देवदत्तः श्यामो युवा लोहिताक्षः समपरिमाणः" इत्यत्र विशेषणबहुत्वेऽप्येक एव देवदत्तः प्रतीयते, एवमत्राप्येकमेव ब्रह्म भवति । नैवम्; तत्र प्रमाणान्तरेणैक्यप्रतीतेरेकस्मिन्नेव विशेषणानामुपसंहारः, अन्यथा तत्रापि व्यावर्त्तकत्वेनानेकत्वम-परिहार्यम् । अत्र त्वनेनैव विशेषणेन लिलक्षयिषितत्वात् ब्रह्मणः प्रमाणान्तरेणैक्यमनवगतमिति व्यावर्त्त-कभेदेन ब्रह्मबहुत्वमवर्जनीयम् ।। ब्रह्मशब्दैक्यादत्राप्यैक्यं प्रतीयत इति चेत्; न, अज्ञातगोव्यकतेः जिज्ञासोः पुरुषस्य "खण्डो मुण्डः पूर्णृङ्गो गौः" इत्युक्ते गोपदैक्येऽपि खण्डत्वादिव्यावर्त्तकभेदेन गोव्यक्तिबहुत्वप्रतीते-र्ब्रह्मव्यक्तयोऽपि बह्नयः स्युः ।

अत एव लिलक्षयिषिते वस्तुन्येषां विशेषणानां सम्भूय लक्षणत्वमप्यनुपपन्नम् ।।

नाप्युपलक्षणत्वेन लक्षयन्ति, आकारान्तराप्रतिपत्तेः । उपलक्षणानामेकेनाकारेण प्रतिपन्नस्य केन-चिदाकारान्तरेण प्रतिपत्तिहेतुत्वं हि दृष्टं "यत्रायं सारसः स देवदत्तकेदारः" इत्यादिषु ।। ननु च "सत्यं ज्ञानम-नन्तं ब्रह्म" इति प्रतिपन्नाकारस्य जगज्जन्मादीन्युपलक्षणानि भवन्ति । न, इतरेतरप्रतिपन्नाकारापेक्षत्वेनो-भयोर्लक्षणवाक्ययोरन्योन्याश्रयणात् ।

अतो न लक्षणतो ब्रह्म प्रतिपत्तुं शक्यत इति ।।

एवं प्राप्तेऽभिधीयते-जगत्सृष्टिस्थितिप्रलयैरुपलक्षणभूतैर्ब्रह्म प्रतिपत्तुं शक्यते । न चोपलक्षणोप-लक्ष्याकारव्यतिरिक्ताकारान्तराप्रतिपत्तेर्ब्रह्माप्रतिपत्तिः । उपलक्ष्यं ह्यनवधिकातिशयबृहत्, बृंहणञ्च बृहते-र्धातोस्तदर्थत्वात् । तदुपलक्षणभूताश्च जगज्जन्मस्थितिलयाः ।

यतो येन यदिति प्रसिद्धवन्निर्द्देशेन यथाप्रसिद्धि जन्मादिकारणमनूद्यते । प्रसिद्धिश्च "सदेव सोभ्ये- दमग्र आसीदेकमेवाद्वितीयम्" "तदैक्षत बहु स्यां प्रजायेयेति" "तत्तेजोऽसृजत" इत्येकस्यैव सच्छब्दवाच्यस्य निमित्तोपादानरूपकारणत्वेन, तदपि "संदेवेदमग्र एकमेवासी" दित्युपादानतां प्रतिपाद्य "अद्वितीय"मित्य-धिष्ठात्रन्तरं प्रतिषिध्य "तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत" इत्येकस्यैव प्रतिपादनात् । तस्मात्

यन्मूला जगज्जन्मास्थितिलयास्तद्व्रह्मेति, जन्मस्थितिलयाः स्वनिमित्तोपादानभूतं वस्तु ब्रह्मेति लक्षयन्ति ।

जगन्निमित्तोपादानताक्षिप्तसर्वज्ञत्वसत्यसङ्कल्पत्वविचित्रशक्तित्वा जगन्निमित्तोपादानताक्षिप्तसर्वज्ञत्वसत्य-सङ्कल्पत्वविचित्रशक्तित्वाद्य । कारबृहत्त्वेन प्रतिपन्नं ब्रह्मेति च जन्मादीनां तथा प्रतिपन्नस्य लक्षणत्वेन नाकारान्तराप्रतिपत्तिरूपानुपपत्तिः ।

जगज्जन्मादीनां विशेषणतया लक्षणत्वेऽपि न कश्चिद्दोषः । लक्षणभूतान्यपि विशेषणानि स्वविरो-धिव्यावृत्तं वस्तु लक्षयन्ति । अज्ञातस्वरूपे वस्तुन्येकस्मिल्लिलक्षयिषितेऽपि परस्पराविरोध्यनेकविशेषणलक्ष-णत्वं न भेदमापादयति, विशेषणानामेकाश्रयतया प्रतीतेरेकस्मिन्नेवोपसंहारात् । खण्डत्वादयस्तु विरोधादेव गोव्यक्तिभेदमापादयन्ति, अत्र तु कालभेदेन जन्मादीनां न विरोधः ।

"यतो वा इमानि भूतानि जायन्ते" इत्यादिकारणवाक्येन प्रतिपन्नस्य जगज्जन्मादिकारणस्य ब्रह्म-णस्सकलेतरव्यावृत्तं स्वरूपमभिधीयते "सत्यं ज्ञानमनन्तं ब्रह्म" इति । तत्र सत्यपदं निरुपाधिकसत्तायोगि-ब्रह्माह, तेन विकारास्पदमचेतनं तत्संसृष्टश्चेतनाश्च व्यावृत्तः, व्यावृत्तः, नामान्तरभजनार्हावस्थान्तरयोगेन तयोर्निरुपाधिकसत्तायोगरहितत्वात् । ज्ञानपदं नित्यासङ्कुचितज्ञानैकाकारमाह, तेन कदाचित्सङ्कुचि-तज्ञानत्वेन मुक्ता व्यावृत्ताः । अनन्तपदं देशकालवस्तुपरिच्छेदरहितं स्वरूपमाह । सगुणत्वात्स्वरूपस्य स्व-रूपेण गुणैश्चानन्त्यम् । तेन पूर्वपदद्वयव्यावृत्तकोटिद्वयविलक्षणस्सातिशयस्वरूपस्वगुणाः नित्याः व्यावृत्ताः, विशेषणानां व्यावर्त्तकत्वात् । ततः "सत्यं ज्ञानमनन्तं ब्रह्म" इत्यनेन वाक्येन जगज्जन्मादिनाऽवगतस्वरूपं ब्रह्म सकलेतरवस्तुविसजातीयमिति लक्ष्यत इति नान्योन्याश्रयणम् ।

अतः सकलजगज्जन्मादिकारणं निरवद्यं सर्वज्ञं सत्यसङ्कल्पं सर्वशक्ति ब्रह्म लक्षणतः प्रतिपत्तुं शक्यत इति सिद्धम् ।।

ये तु निर्विशेषवस्तु जिज्ञास्यमिति वदन्ति तन्मते "ब्रह्मजिज्ञासा" "जन्माद्यस्य यतः"इत्यसङ्गतं स्यात्, निरतिशयबृहत् बृंहणं च ब्रह्मेति निर्वचनात् । तच्च ब्रह्म जगज्जन्मादिकारणमिति वचनाच्च । एवमुत्त-रेष्वपि सूत्रगणेषु सूत्रोदाहृतश्रुतिगणेषु च इ#ेक्षणाद्यन्वयदर्शनात्सूत्राणि सूत्रोदाहृतश्रुतयश्च न तत्र प्रमाणम् । तर्कश्च साध्यधर्माव्यभिचारिसाधनाधर्मान्वितवस्तुविषयत्वान्न निर्विशेषवस्तुनि प्रमाणम् , जगज्जन्मादि भ्रमो यतः तद्व्रह्मेति स्वोत्प्रेक्षापक्षेऽपि न निर्विशेषवस्तुसिद्धिः, भ्रममूलमज्ञानम्, अज्ञानसाक्षि ब्रह्मेत्यभ्युप-गमात्, साक्षित्वं हि प्रकाशैकरसतयैवोच्यते । प्रकाशत्वन्तु जडाद्वयावर्त्तकं स्वस्य च परस्य व्यवहारयोग्य-तापादनस्वभावेन भवति, तथा सति सविशेषत्वम् तदभावे प्रकाशतैव न स्यात् ।। तुच्छतैव स्यात् ।।

इति जन्माद्यधिकरणम् ।

1.1.3

जगज्जन्मादिकारणं ब्रह्म वेदान्तवेद्यमित्युक्तम् तदयुक्तम्; तद्धि न वाक्यप्रतिपाद्यम्, अनुमानेन सिद्धेरित्याशङ्कयाह ।

1.1.3 ।। शास्त्रयोनित्वात् ।। 3 ।।

1.1.3

शास्त्रं यस्य योनिः कारणं प्रमाणम् - तच्छास्त्रयोनि, तस्य भावः शास्त्रयोनित्वम्, तस्मात् ब्रह्मज्ञानका-

रणत्वाच्छास्त्रस्य तद्योनित्वं ब्रह्मणः । अत्यन्तातीन्द्रियत्वेन प्रत्यक्षादिप्रमाणाविषयतया ब्रह्मणः शास्त्रैक-

प्रमाणकत्वादुक्तस्वरूपं ब्रह्म "यतो वा इमानि भूतानि जायन्ते" इत्यादिवाक्यं बोधयत्येवेत्यर्थः ।।

ननु शास्त्रयोनित्वं ब्रह्मणो न सम्भवति, प्रमाणान्तरवेद्यत्वाद्व्रह्मणः । अप्राप्ते तु शास्त्रमर्थवत् ।।

किं तर्हि तत्र प्रमाणम्? न तावत्प्रत्यक्षम् । तद्धि द्विविधम्, इन्द्रियसम्भवं योगसम्भवं चेति । इन्द्रियसम्भवञ्च बाह्यसम्भवमान्तरसम्भवं चेति द्विविधम् । बाह्येन्द्रियाणि विद्यमानसन्निकर्षयोग्यस्ववि-षयबोधजननानीति न सर्वार्थसाक्षात्कारतन्निर्माणसमर्थपुरुषविशेषविषयबोधजननानि । नाप्यान्तरम्, आन्तरसुखदुःखादिव्यतिरिक्तबहिर्विषयेषु तस्य बाह्येन्द्रियानपेक्षप्रवृत्त्यनुपपत्तेः । नापि योगजन्यम्; भाव-नाप्रकर्षपर्यन्तजन्मानस्तस्य विशदावभासत्वेऽपि पूर्वानुभूतविषयस्मृतिमात्रत्वान्न प्रामाण्यमिति कुतः प्रत्य-क्षता? तदतिरिक्तविषयत्वे कारणाभावात् । तथा सति तस्य भ्रमरूपता । नाप्यनुमानं विशेषतो दृष्टं सामा- न्यतो दृष्टं वा; अतीन्द्रिये वस्तुनि सम्बन्धावधारणविरहान्न विशेषतो दृषेटम् । समस्तवस्तुसाक्षात्कारतन्नि-र्माणसमर्थपुरुषविशेषनियतं सामान्यतो दृष्टमपि न लिङ्गमुपलभ्यते ।

ननु च जगतः कार्यत्वं तदुपादानोपकरणसम्प्रदानप्रयोजनाभिज्ञकर्तृकत्वव्याप्तम् । अचेतनारब्ध- त्वं जगतश्चैकचेतनाधीनत्वेन व्याप्तम् । सर्वं हि घटादिकार्यं तदुपादानोपकरणसम्प्रदानप्रयोजनाभिज्ञकर्तृकं दृष्टम् । अचेतनारब्धमरोगं स्वशरीरमेकचेतनाधीनञ्च । सावयवत्वेन जगतः कार्यत्वम् ।

उच्यते-किमिदमेकचेतनाधीनत्वम्? न तावत्तदायत्तोत्पत्तिस्थितित्वम्, दृष्टान्तो हि साध्यविकलः स्यात्, न ह्यरोगं स्वशरीरमेकचेतनायत्तोत्पत्तिस्थिति, तच्छरीरस्य भोक्तृणां भार्यादिसर्वचेतनानामदृष्टजन्य-त्वात्तदुत्पत्तिस्थित्योः । किञ्च शरीरावयविनः स्वावयवसमवेततारूपा स्थितिरवयवसंश्लेपविशेषव्यतिरेकेण न चेतनमपेक्षते । प्राणनलक्षणा तु स्थितिः पक्षत्वाभिमतेक्षितिजलधिमहीधारादौ न सम्भवतीति पक्षसपक्षा-नुगतामेकरूपांस्थितं नोपलभामहे । तदायत्तप्रवृत्तित्वं तदधीनत्वमिति चेत्, अनेकचेतनसाध्येषु गुरुतररथ-शिलामहीरुहादिषु व्यभिचारः । चेतनमात्राधीनत्वे सिद्धसाध्यता ।

किञ्च उभयवादिसिद्धानां जीवानामेव लाघवेन कर्तृत्वाभ्युपगमो युक्तः न च जीवानामुपादानाद्य-नभिज्ञतया कर्तृत्वासम्भवः, सर्वेषामेव चेतनानां पृथिव्याद्युपादानयागाद्युपकरणसाक्षात्कारसामर्थ्यात् । यथे-दानीं पृथिव्यादयो यागादयश्च प्रत्यक्षमीक्ष्यन्ते । उपकरणभूतयागादिशक्तिरूपापूर्वादिशब्दवाच्यादृष्टसाक्षा-त्काराभावेऽपि चेतनानां न कर्तृत्वानुपपत्तिः, तत्साक्षात्कारानपेक्षणात्कार्यारम्भस्य । शक्तिमत्साक्षात्कार एव हि कार्यारम्भोपयोगी । शक्तेस्तु ज्ञानमात्रमेवोपयुज्यते; न साक्षात्कारः । न हि कुलालादयः कार्योपकरणभूत-दण्डचक्रादिवत्तच्छक्तिमपि साक्षात्कृत्य घटमपिकादिकार्यमारभन्ते । इह तु चेतनानामागमावगतयागादि-शक्तिविशेषाणां कार्यारम्भोनानुपपन्नः ।

किञ्च यच्छक्यक्रियं शक्योपादानादिविज्ञानञ्च; तदेव तदभिज्ञकर्तृकं दृष्टम् । महीमहीधरमहार्ण- वादि त्वशक्यक्रियमशक्योपादानादिविज्ञानं चेचि न चेतनातकर्तृकम्; अतो घटमणिकादिसजातीयशक्य-क्रियशक्योपादानादिविज्ञानवस्तुगतमेव कायर्त्वं बुद्धिमत्कर्तृपूर्वकत्वसाधने प्रभवति ।

किञ्च घटादिकायर्मनीश्वरेणाल्पज्ञानशक्तिना सशरीरेण परिग्रहवताऽनाप्तकामेन निर्मितं दृष्टमिति तथाविधमेव चेतनं कर्त्तारं साधयन्नयं कार्यत्वहेतुः सिषाधयिषितपुरुषसार्वज्ञ्यसर्वैश्चर्यादिविपरीतसाधना- द्विरुद्धः स्यात् । न चैतावता सर्वानुमानोच्छेदप्रसङ्गः । लिङ्गिनि प्रमाणान्तरगोचरे लिङ्गबलोपस्थापिता विप-रीतविशेषास्तत्प्रमाणप्रति-हतगतयो निवर्त्तन्ते । इह तु सकलेतरप्रमाणाविषये लिङ्गिनि निखिलनिर्माणचतुरे अन्वव्यतिरेकावगताविनाभावनियमा धर्माः सर्व एवाविशेषेण प्रसज्यन्ते, निवर्त्तकप्रमाणाभावात् तथैवा-वतिष्ठन्ते ।

अत आगमादृते कथमीश्वरः सेत्स्यति (सिध्यति) ।।

अत्राहुः- सावयवत्वादेव जगतः कार्यत्वं न प्रत्याख्यातुं शक्यते । भवन्ति च प्रयोगाः- विवादा-ध्यासितं भूभूधरादि कार्यम्, सावयवत्वात्, घटादिवत् । तथा विवादाध्यासितमवनिजलधिमहीधरादि, कार्यम्, महत्त्वे सति क्रियावत्त्वात् घटवत् । तनुभुवनादि कार्यम्, महत्त्वे सति मूर्त्तत्वात्, घटवदिति । साव-यवेषु द्रव्येष्विदमेव क्रियते नेतरदिति कार्यत्वस्य नियामकं सावयवत्वातिरेकि रूपान्तरं नोपलभामहे । कार्य-त्वप्रतिनियतं शक्यक्रियत्वं शक्योपादानादिविज्ञानत्वञ्चोपलभ्यते इति चेत् न; कार्यत्वेनानुमतेऽपि विषये ज्ञानशक्ती कार्यानुमेये इति अन्यत्रापि सावयवत्वादिना कार्यत्वं ज्ञातमिति ते च प्रतिपन्ने एवेति न कश्चिद्वि-शेषः । तथा हि घटमणिकादिषु कृतेषु कार्यदर्शनानुमितकर्तृगततन्निर्माणाक्तिज्ञानः पुरुषोऽदृष्टपूर्वं विचित्र-सन्निवेशं नरेन्द्रभवनमालोक्यावयवसन्निवेशविशेषेण तस्य कायर्त्वं निश्चित्य तदानीमेव कर्त्तुस्तज्ज्ञानशक्ति-वैचित्र्यमनुमिनोति; अतस्तनुभुवनादेः कार्यत्वे सिद्धे सर्वसाक्षात्कारतन्निर्माणादिनिपुणः कश्चित्पुरुषविशेषः सिध्द्यत्येव ।।

किञ्च सर्वचेतनानां धर्माधर्मनिमित्तेऽपि सुखदुःखोपभागे चेतनानधिष्ठितयोरचेतनयोस्तयोः फल-हेतुत्वानुपपत्तेः सर्वकर्मानुगुणसर्वफलप्रदानचतुरः कश्चिदास्थेयः, वर्धकिनाऽनधिष्ठितस्य वास्यादेरचेतनस्य देशकालाद्यनेकपरिकसन्निधानेऽपि यूपादिनिर्माणसाधनत्वादर्शनात् । बीजाङ्कुरादेः पक्षान्तर्भावेण तैर्व्य-भिचारापादानं श्रोत्रियवेतालानामनभिज्ञताविजृम्भितम्, तत एव सुखादिभिर्व्यभिचारवचनमपि तथैव । न च लाघवेनोभयवादिसम्प्रतिपन्नक्षेत्रज्ञानामेव ईदृशाधिष्ठातृत्वकल्पनं युक्तम्, तेषां सूक्ष्मव्यवहितविप्रकृष्ट-दर्शनाशक्तिनिश्चयात्, दर्शनानुगुणैव हि सर्वत्र कल्पना । न च क्षेत्रज्ञवदीश्वरस्याशक्तिनिश्चयोऽस्ति, अतः प्रमाणान्तरतो न तत्सिद्धयनुपपत्तिः । समर्थकर्तृपूर्वकत्वनियतकार्यत्वहेतुना सिद्धयन् स्वाभाविकसर्वार्थ-साक्षात्कारतन्नियमनशक्तिसम्पन्न एव सिद्धयति ।

यत्त्वनैश्वर्याद्यापादनेन धर्मविशेषविपरीतसाद्यनत्वमुन्नीतम् तदनुमानवृत्तानभिज्ञत्वनिबन्धनम्, सपक्षे-सहदृष्टानां सर्वेषां कार्य्यस्याहेतुभूनानां च धर्माणां लिङ्गिन्यप्राप्तेः । एतदुक्तं भवतिकेनचित् किञ्चित्क्रियमाणं स्वोत्पत्तयेकर्तुः स्वनिर्माणसामर्थ्यं स्वोपादानोपकरणज्ञानं चापेक्षते, न त्वन्यासामर्थ्यमन्याज्ञानञ्च, हेतुत्वा-भावात् । स्वनिर्माणसामर्थ्यस्वोपादानोपकरणज्ञानाभ्यामेव स्वोत्पत्ता-वुपपन्नायां सम्बन्धितया दर्शनमात्रे-णाकिञ्चित्करस्यार्थान्तराज्ञानादेर्हेतुत्वकल्पनायोगादिति । किञ्च क्रियमाणवस्तुव्यतिरिक्तार्थाज्ञानादिकं सर्वविषयं क्रियोपयोगि? उत कतिपयविषयम्? न तावत्सर्वविषयम्, नहि कुलालादिः क्रियमाणव्यतिरिक्तं किमपि न जानाति । नापि कतिपयविषयम् सर्वेषु कर्तृषु तत्तदज्ञानाशक्त्यनियमेन सर्वेषामज्ञानादीनां व्य-भिचारात्, अतः कार्यत्वस्यासाधकानामनीश्वरत्वादीनां लिङ्गिन्यप्राप्तिरिति न विपरीतसाधनत्वम् ।

कुलालादीनां दण्डचक्राद्यधिष्ठानं शरीरद्वारेणैव दृष्यमिति जगदुपादानोपकरणाधिष्ठानमीश्वरस्या-शरीरस्यानुपपन्नमिति चेत् न; सङ्कल्पमात्रेणैव परशरीरगतभूतवेतालगरलाद्यपगमविनाशदर्शनात् । कथम-शरीरस्य परप्रवर्त्तनरूपस्सङ्कल्प इति चेत् न शरीरापेक्षस्सङ्कल्पः, शरीरस्य सङ्कल्पहेतुत्वाभावात् । मन एव हि सङ्कल्पहेतुः, तदभ्युपगतमीश्वरेऽपि, कार्यत्वेनैव ज्ञानशक्तिवन्मनसोऽपि प्राप्तत्वात् । मानसः सङ्कल्पः स शरी-रस्यैव, सशरीरस्यैव समनस्कत्वादिति चेत् न; मनसो नित्यत्वेन देहापगमेऽपि मनस्सद्भावेनानैकान्तिक- त्वात् अतो विचित्रावयवसन्निवेशविशेषतनुभुवनादिकार्यनिर्माणे पुण्यपापपरवशः परिमितशक्तिज्ञानः क्षेत्र- ज्ञो न प्रभवतीति निखिलभुवननिर्माणचतुरोऽचिन्त्यापरिमितज्ञानशकत्यैश्वर्योऽशरीरः सङ्कल्पमात्रसाधन-परिनिष्पन्नानन्तविस्तारविचित्ररचनप्रपञ्चः पुरुषविशेष ईश्वरोऽनुमानेनैव सिध्द्यति ।

अतः प्रमाणान्तरावसेयत्वाद् ब्रह्मणः नैतद्वाक्यं ब्रह्म प्रतिपादयति । किञ्च अत्यन्तभिन्नयोरेव मृद्द्रव्यकुलालयोर्निमित्तोपादानत्वदर्शनेन आकाशादेर्निरवयवद्रव्यस्य कार्यत्वानुपपत्त्या च नैकमेव ब्रह्म कृत्स्नस्य जगतो निमित्तमुपादानञ्च प्रतिपादयितुं शाक्नोतीति ।।

एवं प्राप्ते ब्रूमः-यथोक्तलक्षणं ब्रह्म जन्मादिवाक्यं बोधयत्येव कुतः? शास्त्रैकप्रमाणकत्वाद्व्रह्मणः । यदुक्तं सावयवत्वादिना कार्यं सर्वं जगत्, कार्यं च तदुचितकर्तृविशेषपूर्वकं दृष्टमिति निखिलजगन्निर्माणतदु-पादानोपकरणवेदनचतुरः कश्चिदनुमेय इति तदयुक्तम्; महीमहार्णवादीनां कायर्त्वेप्येकदैवैकेन निर्मिता इत्यत्र प्रमाणाभावात्, न चैकस्य घटस्येव सर्वेषामेकं कार्यत्वम्, येनैकदैवैकः कर्त्ता स्यात् । पृथग्भूतेषु कार्येषु कालभेदकर्तृभेददर्शनेन कर्तृकालैक्यनियमादर्शनात् ।। न च क्षेत्रज्ञानां विचित्रजगन्निर्माणाशकत्या कार्यत्वबलेन तदतिरिक्तकल्पनायामनेककल्पनानुपपत्तेश्चैकः एव कर्त्ता भवितुमर्हतीति क्षेत्रज्ञानामेवोपचित-पुण्यविशेषाणां शक्तिवैचित्र्यदर्शनेन तेषामेवातिशयितादृष्टसम्भावनया च तत्तद्विलक्षणकार्यहेतु#ुत्वसम्भ- वात् तदतिरिक्तात्यन्तादृष्टपुरुषकल्पनानुपपत्तेः, न च युगपत्सर्वोच्छितिः सर्वोत्पत्तिश्च प्रमाणपदवीमधिरो- हतः, अदर्शनात्, क्रमेणैवोत्पत्तिविनाशदर्शनाच्च, कार्यत्वेन सर्वोत्पत्तिविनाशयोः कल्प्यमानयोर्दर्शनानु- गुण्येन कल्पनायां विरोधाभावाच्च, अतो बुद्धिमदेककर्तृकत्वे साध्ये कार्यत्वस्यानैकान्त्यम्, पक्षस्याप्रसिद्ध-विशेषणत्वं, साध्यविकलता च दृष्टान्तस्य सर्वनिर्माणचतुरस्यैकस्याप्रसिद्धेः, बुद्धिमत्कर्तृकत्वमात्र साध्ये सिद्धसाधनता ।

सार्वज्ञ्यसर्वशक्तियुक्तस्य कस्यचिदेकस्य साधकमिदं कार्यत्वम् किं युगपदुत्पद्यमानसर्ववस्तुगर्तं? उत क्रमेणोत्पद्यमानसर्ववस्तुगतम्? युगपदुत्पद्यमानसर्ववस्तुगतत्वे कायर्त्वस्यासिद्धता । क्रमेणोत्पद्यमान-सर्ववस्तुगतत्वेऽनेकर्तृकत्वसाधनाद्धिरुद्धता, अत्राप्येककर्तृकत्वसाधने प्रत्यक्षनानुमानविरोधः शास्त्रविरो- धश्च; कुम्भकारो जायते रथकारो जायत इत्यादि श्रवणात् ।

अपिचसर्वेषां कार्याणां शरीरादीनां सत्त्वादिगुणकार्यरूपसुखाद्यन्वयदर्शनेन सत्त्वादिमूलत्वमवश्या-श्रयणीयं कार्यवैचित्र्यहेतुभूताः कारणगता विशेषाःसत्त्वादयः । तेषां कार्याणां तन्मूलत्वापादनं तद्युक्तपुरुषान्तः-करणविकारद्वारेण । पुरुषस्य च तद्योगः कर्ममूल इति कायर्विशेषारम्भायैव, ज्ञानशक्तिवत्कर्त्तुः कर्मसम्बन्धः कार्यहु#ेत्वनैवावश्याश्रयणीयः, ज्ञानशक्तिवैचित्र्यस्य च कर्ममूलत्वात्, इच्छायाः कार्यारम्भहेतुत्वेऽपि विषय-विशेषविशेषितायास्तस्यासप्तत्त्वा-दिमूलत्वेन कर्मसम्बन्धोऽवर्जनीयः । अतः क्षेत्रज्ञा एव कर्त्तारः; न तद्वि-लक्षणः कश्चिदनुमानात्सिद्धयति ।।

भवन्ति च प्रयोगाः-तनुभुवनादि क्षेत्रज्ञकर्तृकम्, कायर्त्वात्, घटवत् । ईश्वरः कर्त्ता न भवति, प्रयो-जनशून्यत्वात्, मुक्तात्मवत् । इश्वरः कर्त्ता न भवति, अशरीरत्वात् तद्वदेव । न च क्षेत्रज्ञानां स्वशरीराधि- ष्ठाने व्यभिचारः, तत्राप्यनादेः सूक्ष्मशरीरस्य सद्भावात् । विमतिविषयः कालो न लोकशून्यः, कालत्वात्, वर्तमानकालवत्-इति ।

अपिच-किमीश्वरः सशरीरोऽशरीरो वा कार्यं करोति? । न तावदशरीरः, अशरीरस्य कर्तृत्वानुप- लब्धेः । मानसान्यपि कार्याणि सशरीरस्यैव भवन्ति । मनसो नित्यत्वेऽप्यशरीरेषु मुक्तेषु तत्कार्यादर्शनात् । नापि सशरीरः, विकल्पासहत्वात् । तच्छरीरं किं नित्यम्? उतानित्यम्? । न तावन्नित्यम्, सावयवस्य तस्य नित्यत्वे जगतोऽपि नित्यत्वाविरोधादीश्वरासिद्धेः । नाप्यनित्यम्, तद्वयतिरिक्तस्य तच्छरीरहेतो-स्तदानीमभावात् । स्वयमेव हेतुरिति चेत् न, अशरीरस्य तदयोगात् । अन्येन शरीरेण सशरीर इति चेत् न, अनवस्थानात् ।।

स किं सव्यापारो वा निर्व्यापारो वा? अशरीरत्वादेव न सव्यापारः । नापि निर्व्यापारः कार्यं करोति, मुक्तात्मवत् । कार्यं जगदिच्छामात्रव्यापारकर्तृकमित्युच्यमाने पक्षस्याप्रसिद्धविशेषणत्वम्; दृष्टान्तस्य च साध्यहीनता ।

अतो दर्शनानुगुण्येनेश्वरानुमानं दर्शनानुगुण्यपराहतमिति शास्त्रैकप्रमाणकः परब्रह्मभूतः सर्वे- श्वरः पुरुषोत्तमः ।। शास्त्रं तु सकलेतरप्रमाणपरिदृष्टसमस्तवस्तुविसजातीयम् सार्वज्ञ्यसत्यसङ्कल्पत्वादिमि-श्रानवधिकातिशयापरिमितोदारगुणसागरन्निखिलहेयप्रत्यनीकस्वरूपं प्रतिपादयतीति न प्रमाणान्तरावसित-वस्तुसाधर्म्यप्रयुक्तदोषगन्धप्रसङ्गः । यत्तु निमित्तोपादानयोरैक्यमाकाशादेर्निरवयवद्रव्यस्य कार्यत्वं चानु-पलब्धमशक्यप्रतिपादनमित्युक्तम्; तदप्यविरुद्धमिति "प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्" "न वियदश्रुते"-रित्यत्र प्रतिपादयिष्यते ।

अतः प्रमाणान्तरागोचरत्वेन शास्त्रैकविषयत्वात् "यतो वा इमानि" इत्यादिवाक्यमुक्तलक्षणं ब्रह्म प्रतिपादयतीति सिद्धम् ।।

1.1.4

यद्यपि प्रमाणान्तरागोचरं ब्रह्म । तथाऽपि प्रवृत्तिनिवृत्तिपरत्वाभावेन सिद्धरूपं ब्रह्म न शास्त्रं प्रति-पादयतीत्या-शङ्कयाह -

1.1.4 तत्तु समन्वयात् ।। 4 ।।

1.1.4

प्रसक्ताशङ्कानिवृत्त्यर्थः तु शब्दः, तत्- शास्त्रप्रमाणकत्वं ब्रह्मणः सम्भवत्येव, कुतः समन्वयात्-परमपुरुषार्थतयाऽन्वयस्समन्वयः, परमपुरुषाथर्भूतस्यैव ब्रह्मणोऽभिधेयतयाऽन्वयात् । "एवमिव समन्वितो ह्यौपनिषदः पदसमुदायः, "यतो वा इमानि भूतानि भूतानि जायन्ते" "सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् । "तदैक्षत बहु स्यां प्रजायेति तत्तेजोऽसजत" "ब्रह्म वा इदमेकमेवाग्र आसीत्" "आत्मा वा इदमेक एवाग्र असीत्" "तस्माद्वा एतस्मादात्मनः आकाशः सम्भूतः" "एको ह वै नारायण आसीत्" ।

"सत्यं ज्ञानमनन्तं ब्रह्म""आनन्दो ब्रह्मेत्ये"वमादिः । न च व्युत्पत्तिसिदद्यपरिनिष्पन्नवस्तुप्रतिपादन-समर्थानां पदसमुदायानामखिलजगदुत्पत्तिस्थितिविनाशहेतुभूताशेषदोषप्रत्यनीकापरिमितोदारगुणसागरा-

नवधिकातिशयानन्दस्वरूपे ब्रह्मणि समन्वितानां प्रवृत्तिनिवृत्तिरूपप्रयोजनविरहादन्यपपरत्वंस्वविषया-वबोधपर्यवसायित्वात्सर्वप्रमाणानाम् । न च प्रयोजनानुगुणा प्रमाणप्रवृत्तिः, प्रयोजनं हि प्रमाणानुगुणम् । न च प्रवृत्तिनिवृत्त्यन्वयविरहिणः प्रयोजनशून्यत्वम्, पुरुषार्थान्वयप्रतीतेः । तथा स्वरूपपरेष्वपि "पुत्रस्ते जातो नायं सर्पः" इत्यादिषु हषर्भयनिवृत्तिरूपप्रयोजनवत्त्वं दृष्टम् ।।

अत्राह-न वेदान्तवाक्यानि ब्रह्म प्रतिपादयन्ति प्रवृत्तिनिवृत्त्यन्वयविरहिणश्शास्त्रस्यानर्थक्यात् । यद्यपि प्रत्यक्षादीनि वस्तुयाथात्म्यावबोधे पर्यवस्यन्ति, तथापि शास्त्रं प्रयोजनपर्यवसाय्येव । न हि लोकवेदयोः प्रयोजनरहितस्य कस्यचिदपि वाक्यस्य प्रयोग उपलब्धचरः । न च किञ्चित्प्रयोजनमनुद्दिश्य वाक्यप्रयोगः श्रवणं वा सम्भवति । तच्च प्रयोजनं प्रवृत्तिनिवृत्तिसाध्येष्टानिष्टप्राप्तिपरिहारात्मकमुपलब्धम्, "अर्थार्थी राज-कुलं गच्छेत् मन्दाग्निर्नाम्बु पिबेत्, स्वर्गकामो यजेत, न कलञ्जं भक्षयेत्" इत्येवमादिषु ।

यत्पुनः सिद्धवस्तुप-रेष्वपि "पुत्रस्ते जातो नायं सर्पो रज्जुरेषा" इत्यादिषु हर्षभयनिवृत्तिरूपपुरुष-र्थान्वयो दृष्ट इत्युक्तम् । तत्र किं पुत्रजन्माद्यर्थत्वम् पुरुषार्थावाप्तिः? उत तज्ज्ञानात्? इति विवेचनीयम् । सतोऽप्यज्ञातस्यार्थस्यापुरुषार्थत्वेन तज्ज्ञानादिति चेत् तर्ह्यसत्यप्यर्थे ज्ञानादेव पुरुषार्थः सिदध्यतीत्यर्थ-परत्वाभावेन प्रयोजनपर्यवसायिनोऽपि शास्त्रस्य नार्थसद्भावे प्रामाण्यम् ।

तस्मात्सर्वत्र प्रवृत्तिनिवृत्तिपरत्वेन ज्ञानपरत्वेन वा प्रयोजनपर्यवसानमिति कस्यापि वाक्यस्य परिनिष्पन्ने वस्तुनि तात्पर्यासम्भवान्न वेदान्ताः परिनिष्पन्नं ब्रह्म प्रतिपादयन्ति ।।

अत्र कश्चिदाह - वेदान्तवाक्यान्यपि कार्यपरतयैव ब्रह्मणि प्रमाण भावमनुभवन्ति । कथं? निष्प्र-पञ्चमद्वितीयं ज्ञानैकरसं ब्रह्मानाद्यविद्यया सप्रपञ्चतया प्रतीयमानं निष्प्रपञ्चं कुर्यादिति ब्रह्मणः प्रपञ्चप्रविलय-द्वारेण विधिविषयत्वमिति । कोऽसौ द्रष्ट्टदृश्यरूपप्रपञ्च-प्रविलयद्वारेण साध्यज्ञानैकरसब्रह्मविषयो विधिः? "न दृष्टेर्द्रष्टारं पश्येः । न मतेर्मन्तारं मन्वीथाः"इत्यादि #ः । द्रष्ट्टदृश्यरूपभेदशून्यं दृशिमात्रं ब्रह्म कुर्यादित्यर्थः । स्वतस्सिद्धस्यापि ब्रह्मणो निष्प्रपञ्चतारूपेण कार्यत्वमविरुद्धमिति ।।

तदयुक्तम्-नियोगवाक्यार्थवादिना हि नियोगो नियोज्यविशेषणं विषयः करणमितिकर्त्तव्यता प्रयो-क्ता च वक्तव्याः । तत्र हि नियोज्यविशेषणमनुपादेयम् । तच्च निमित्तं फलमिति द्विधा । अत्र किं नियोज्य विशेषणम्? तच्च किं निमित्तं फलं वेति विवेचनीयम् । ब्रह्म स्वरूपयाथात्म्यानुभवश्चेन्नियोज्यविशेषणम्; तर्हि न तन्निमित्तम्, जीवनादिवत्तस्यासिद्धत्वात् । निमित्तत्वे च तस्य नित्यत्वेनापवर्गोत्तरकालमपि जीव-ननिमित्ताग्निहोत्रादिवत् नित्यतद्विषयानुष्ठानप्रसङ्गः । नापि फलम्, नैयोगिकफलत्वेन स्वर्गादिवदनित्य-त्वप्रसङ्गात् ।।

कश्चात्र नियोगविषयः? ब्रह्मैवेति चेत् न,तस्य नित्यत्वेनाभव्यरूपत्वात्, अभावार्थत्वाच्च । निष्प्र-पञ्चं ब्रह्म साध्यमिति चेत्; साध्यत्वेऽपि फलत्वमेव । अभावार्थत्वान्न विधिविषयत्वम् । साध्यत्वं च कस्य? । किं ब्रह्मणः? उत प्रपञ्चनिवृत्तेः? । न तावद्व्रह्मणः, सिद्धत्वादनित्यत्वप्रसक्तेश्च । अथ प्रपञ्चनिवृत्तेः । न तर्हि ब्रह्मणः साध्यत्वम् । प्रपञ्चनिवृत्तिरेव विधिविषय इति चेत् न, तस्याः फलत्वेन विधिविषयत्वायोगात् । प्रपञ्चनिवृत्तिरेव हि मोक्षः, स च फलम् । अस्य च नियोगविषयत्वे नियोगात्प्रपञ्चनिवृत्तिः, प्रपञ्चनिवृत्त्या नियोगं इतीतरेतराश्रयत्वम् ।।

अपिच-किं निवर्त्तनीयः प्रपञ्चो मिथ्यारूपः, सत्यो वा? । मिथ्यारूपत्वे ज्ञाननिवत्र्त्यत्वादेव नियो- गेन न किञ्चित्प्रयोजनम्, नियोगस्तु निवर्त्तकज्ञानमुत्पाद्य तद्द्वारेण प्रपञ्चस्य निवर्त्तक इति चेत्, तत्स्व-वाक्यादेव जातमिति नियोगेन न प्रयोजनम्, वाक्यार्थज्ञानादेव ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य मिथ्याभूतस्य प्रपञ्चस्य वाधितत्वात् सपरिकरस्य नियोगस्यासिद्धिश्च । प्रपञ्चस्य निवर्त्यत्वे प्रपञ्चनिवर्तको नियोगः किं ब्रह्मस्वरूपमेव? उत तद्वयतिरिक्तः? । यदि ब्रह्मस्वरूपमेव निवर्त्तकस्य नित्यतया निवर्त्यप्रपञ्चसद्भाव एव न सम्भवति । नित्यत्वेन नियोगस्य विषयानुष्ठानसाध्यत्वं च न घटते । अथ ब्रह्मस्वरूपव्यतिरिक्तः । तस्य कृत्स्नप्रपञ्चनिवृत्तिरूपविषयानुष्ठानसाध्यत्वेन प्रयोक्ता च नष्ट इत्याश्रयाभावादसिद्धिः । प्रपञ्चनिवृत्तिरूप-विषयानुष्ठानेनैव ब्रह्मस्वरूपव्यतिरिक्तस्य कृत्स्नस्य निवृत्तत्त्वान्न नियोगनिष्पाद्यं मोक्षाख्यां फलम् ।

किञ्च, प्रपञ्च निवृत्तेर्नियोगकरणस्य इति कर्त्तव्यताभावात्, अनुपकृतस्य च करणत्वायोगान्न कर-णत्वम् । कथमितिकर्त्तव्यताऽभाव इति चेत् इत्थम्; अस्येतिकर्त्तव्यता भावरूपा? अभावरूपा वा? भाव- रूपा च करणशरीरनिष्पत्तितदनुग्रहकार्यभेदभिन्ना । उभयविधा च न सम्भवति । न हि मुद्भराभिधातादि- वत् कृत्स्नस्य प्रपञ्चस्य निवर्त्तकः कोऽपि दृश्यत इति दृष्टार्था न सम्भवति । नापि निष्पन्नस्य करणस्य कार्यो-त्पत्तावनुग्रहः सम्भवति, अनुग्राहकांशसद्भावेन कृत्स्नप्रपञ्चनिवृत्तिरूपकरणस्वरूपासिद्धेः । ब्रह्मणोऽद्वि-तीयत्वज्ञानं प्रपञ्चनिवृत्तिरूपकरणशरीरं निष्पादयतीति चेत् तेनैव प्रपञ्चनिवृत्तिरूपो मोक्षः सिद्ध इति न कर-णादिनिष्पाद्यमवशिष्यत इति पूर्वमेवोक्तम् । अभावरूपत्वे चाभावादेव न करणशरीरं निष्पादयति । नाप्य-नुग्राहकः, अतो निष्प्रपञ्चब्रह्मविषयो विधिर्न सम्भवति ।।

अन्योऽप्याह- यद्यपि वेदान्तवाक्यानां न परिनिष्पन्नब्रह्मस्वरूपपरतया प्रामाण्यम्, तथापि ब्रह्म-स्वरूपं सिद्धयत्येव । कुतः? ध्यानविधिसामर्थ्यात् । एवमेव हि समामनन्ति "आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" "य आत्माऽपहतपाप्मासोऽन्वेष्टव्यः स विजिज्ञासितव्यः" "आत्मे-त्येवोपासीत" "आत्मानमेव लोकमुपासीत" इति । अत्र ध्यानविषयो हि नियोगः स्वविषयभूतध्यानं ध्येयै-कनिरूपणीयमिति ध्येयमाक्षिपति । स च ध्येयः स्ववाक्य-निर्दिष्ट आत्मा । स किं रूप इत्यपेक्षायां तत्स्व-रूपविशेषसमर्पणद्वारेण "सत्यं ज्ञानमनन्तं ब्रह्म" "सदेव सो-म्येदमग्र आसीत्" इत्येवमादीनां वाक्यानां ध्यानविधिशेषतया प्रामाण्यमितिविधिविषयभूतध्यानशरीरानु-प्रविष्टब्रह्मस्वरूपेऽपि तात्पर्यमस्त्येव; अतः "एकमेवाद्वितीयम्" "तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो" "नेह नानाऽस्ति किञ्चन" इत्यादिभिर्ब्रह्मस्व-रूपमेकमेव सत्यम्, तद्वयतिरिक्तं सर्वं मिथ्येत्यवगम्यते । प्रत्यक्षादिभिर्भेदावलम्बिना च कर्मशास्त्रेण भेदः प्रतीयते, भेदाभेदयोः परस्परविरोधे सत्यना-द्यविद्यामूलत्वेनापि भेदप्रतीत्युपपत्तेरभेद एव परमार्थ इति निश्ची-यते । तत्र ब्रह्मध्याननियोगेन तत्साक्षात्कारफलेन निरस्तसमस्ताविद्याकृतविविध भेदाद्वितीयज्ञानैकरसब्रह्म-भावरूपमोक्षः प्राप्यते । न च वाक्यात् वाक्यार्थज्ञानमात्रेण ब्रह्मभावसिद्धिः, अनुपलब्धेर्विविधभेददर्शनानु-वृत्तेश्च । तथा च सति श्रवणादिविधानमनर्थकं स्यात् ।।

अथोच्येत-रज्जुरेषा न सर्प्पः" इत्युपदेशेन सर्पभयनिवृत्तिदर्शनात् रज्जुसपर्वद्वन्धस्य च मिथ्यारूप- त्वेन ज्ञानवाध्यतया तस्य वाक्यजन्यज्ञानेनैव निवृत्तिर्युक्ता, न नियोगेन नियोगसाध्यत्वे मोक्षस्यानित्यत्वं स्यात्स्वर्गादिवत् । मोक्षस्य नित्यत्वं हि सर्ववादिसम्प्रतिपन्नम् । किञ्च धर्माधर्मयोः फलहेतुत्वं स्वफलानु-भवानुगुणशरीरोत्पादनद्वारेणेति ब्रह्मादिस्थावरान्तचतुर्विधशरीरसम्बन्धरूपसंसारफलत्वमवर्जनीयम् ।

तस्मान्न धर्मसाध्यो मोक्षः । तथा च श्रुतिः 1"न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति । अशरीरं वावसन्तं न प्रियाप्रिये स्पृशतः" इति अशरीरत्वरूपे मोक्षे धर्माधर्मसाध्यप्रियाप्रियविरहश्रवणात् न धर्मसाध्य-मशरीरत्वमिति विज्ञायते । न च नियोगविशेषसाध्यफलविशेषवत् ध्याननियोगसाध्यमशरीरत्वम्, अशरी-रत्वस्य स्वरूपत्वेनासाध्यत्वात् । यथाहुः श्रुतयः "अशरीरं शरीरेष्वनवस्थेष्ववस्थितम्, । महान्तं विभुमा- त्मानं मत्वा धीरो न शोचति" "अप्राणो ह्यनाः शुर्मः" "असङ्गो ह्यं य पुरुषः" इत्याद्याः । अतोऽशरीरत्वरूपो मोक्षो नित्य इति न धर्मसाध्यः । तथा च श्रुतिः "अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात् कृताकृतात् । अन्यत्र भूताद्भव्याच्च यत्तत्पश्यसि तद्वद" इति ।।

अपि च-उत्पत्तिप्राप्तिविकृतिसंस्कृतिरूपेण चतुर्विधं हि साध्यत्वं मोक्षस्य न सम्भवति । न ताव-दुत्पाद्यः, मोक्षस्य ब्रह्मस्वरूपत्वेन नित्यत्वात् । नापि प्राप्यः, आत्मस्वरूपत्वेन ब्रह्मणो नित्यप्राप्तत्वात् । नापि विकार्य्यः, दध्यादिवदनित्यत्वप्रसङ्गादेव । नापि संस्कार्य्यः, संस्कारो हि दोषापनयनेन वा गुणाधानेन वा साधयति । न तावद्दोषापनयनेन, नित्यशुद्धत्वाद्व्रह्मणः । नाप्यतिशयाधानेन, अनाधेयातिशयस्वरूप- त्वात् । नित्यनिर्विकारत्वेन स्वाश्रयायाः पराश्रयायाश्च क्रियाया अविषयतया न निर्धर्षणेनादर्शादिवदपि संस्कार्य्यत्वम् । न च देहस्थतया स्नानादिक्रियया आत्मा संस्क्रियते, किन्त्विविद्यागृहीतस्त्सङ्गतोऽहङ्कर्ता । तत्फलानुभवोऽपि तस्यैव । न चाहङ्कर्तैवात्मा, तत्साक्षित्वात् ।तथा च मन्त्रवर्णः "तयोरन्यः पिफ्पलं स्वा-द्वत्त्यनश्रन्नन्यो अभिचाकशीति" इति; "आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः" "एको देवः सर्वभूतेषु- गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सवर्भूताधिवासः साक्षी चेता केवलो निर्गुणश्च" । स पर्य्य-गाच्छुक्रमकायमब्रणमस्नाविरं शुद्धमपापविद्धम्" इति च । अविद्यागृहीतादहङ्कर्त्तुरात्मस्वरूपमनाधेयातिशयं नित्यशुद्धं निविर्कारं निष्कृष्यते, तस्मादात्मस्वरूपत्वेन न साध्यो मोक्षः ।

यद्येवं किं वाक्यार्थज्ञानेन क्रियत इति चेत् मोक्षप्रतिबन्धनिवृत्तिमात्रमिति ब्रूमः । तथा च श्रुतयः "त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसि" इति "श्रुतं ह्येवमेव भगवद्दृशेभ्यस्तरति शोक-मात्मविदिति सोऽहं भगवः शोचामि तं मा भगवान् शोकस्य पारं तारयतु" "तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान् सनत्कुमारः" इत्याद्याः । तस्मान्नित्यस्यैव मोक्षस्य प्रतिबन्धनिवृत्तिर्वाक्यार्थज्ञानेन क्रियते, निवृत्तिस्तु साध्यापि प्रध्वंसाभावरूपा न विनश्यति । "ब्रह्म वेद ब्रह्मैव भवति" "तमेवं विदित्वा-ऽतिमृत्युमेति" इत्यादिवचनं मोक्षस्य वेदनानन्तरभावितां प्रतिपादयन्नियोगव्यवधानं प्रतिरुणद्धि न च विदि-क्रियाकर्मत्वेन वा ध्यानक्रियाकर्मत्वेन वा कार्यानुप्रवेशः, उभयविधिकर्मत्वप्रति#ेषेधात् । "अन्यदेव तद्विदि-#ादथो अविदितादपि" "ये नेदं सर्वं विजानाति तं केन विजानीयात्" इति । "तदेव ब्रह्म त्वं विद्धि नेदं यदिद-मुपासते" इति च ।। न चैतावता शास्त्रस्य निर्विषयत्वम्, अविद्याकल्पितभेदनिवृत्तिपरत्वाच्छास्त्रस्य । न हीदन्तया ब्रह्म विषयीकरोति शास्त्रम्; अपि तु अविषयं प्रत्यगात्मस्वरूपं प्रतिपादयदविद्याकल्पितज्ञान-ज्ञातृज्ञेयविभागं निवर्त्तयति । तथा च शास्त्रम् "न दृष्टेर्द्रष्टारं पश्येः" इत्येवमादि ।

न च ज्ञानादेव बन्धनिवृत्तिरिति श्रवणादिविध्यानर्थक्यम्, स्वभावप्रवृत्तसकलेतरविकल्पविमुखी-करणद्वारेण वाक्यार्थावगतिहेतुत्वात्तेषाम् । न च ज्ञानमात्राद्वन्धनिवृत्तिर्न दृष्टेति वाच्यम्, बन्धस्य मिथ्या-रूपत्वेन ज्ञानोत्तरकालं स्थित्यनुपपत्तेः, अत एव न शरीरपातादूर्ध्वमेव बन्धनिवृत्तिरिति वक्तुं युक्तम् । नहि मिथ्या-रूपसर्पभयनिवृत्तिः रज्जुयाथात्म्यज्ञानातिरेकेण सर्पविनाशमपेक्षते, यदि शरीरसम्बन्धः पारमार्थिकः

तदा हि तद्विनाशपेक्षा, स तु ब्रह्मव्यतिरिक्ततया न पारमार्थिकः । यस्य तु बन्धो न निवृत्तस्तस्य ज्ञानमेव न जातमित्यवगम्यते, ज्ञानकार्यादर्शनात् । तस्मात् शरीरस्थितिर्भवतु वा मा वा वाक्यार्थज्ञानसमनन्तरं मुक्त एवासौ; अतो न ध्याननियोगसाध्यो मोक्ष इति न ध्यानविधिशेषतया ब्रह्मणः सिद्धिः, अपि तु "सत्यं ज्ञानमनन्तं ब्रह्म" "तत्त्वमसि" "अयमात्मा ब्रह्म" इति तत्परेणैव पदसमुदायेन सिध्यतीति ।।

तदयुक्तम्; वाक्यार्थज्ञानमात्राद्वन्धनिवृत्त्यनुपपत्तेः । यद्यपि मिथ्यारूपो बन्धो ज्ञानबाध्यः, तथापि बन्धस्यापरोक्षत्वात #् न परोक्षरूपेण वाक्यार्थज्ञानेन स बाध्यते । रज्वादावपरोक्षसर्पप्रतीतौ वर्तमानायां नायं सर्पो रज्जुरेषेत्याप्तोपदेशजनितपरोक्षसर्पविपरीतज्ञानमात्रेण भयानिवृत्तिदर्शनात्, आप्तोपदेशस्य तु भयनि- वृत्ति हेतुत्वं वस्तुयाथात्म्यापरोक्षनिमित्तप्रवृत्तिहेतुत्वेन । तथा हि; रज्जुसर्पदर्शनभयात् परावृत्तः पुरुषो नायं सर्पो रज्जुरेषेत्याप्तोपदेशेन तद्वस्तुयाथात्मेदर्शने प्रवृत्तः तदेव प्रत्यक्षेण दृष्ट्वा भयान्निवर्त्तते । न च शब्द एव प्रत्यक्षज्ञानं जनयतीति वक्तुं युक्तम्, तस्यानिन्द्रियत्वात् । ज्ञानसामग्रीष्विन्द्रियाण्येव ह्यपरोक्षसाधनानि । न चास्यानभिसंहितफलकर्मानुष्ठानमृदितकषायस्य श्रवणमनननिदिध्यासनविमुखीकृति#ाह्यविषयस्य पुरुष- स्य वाक्यमेवापरोक्षज्ञानं जनयति इति निवृत्तप्रतिबन्धे तत्परेऽपि पुरुषे ज्ञानसामग्रीविशेषाणामिन्द्रियादीनां स्वविषयनियमातिक्रमादर्शनेन तदयोगात् । न च ध्यानस्य वाक्यार्थज्ञानोपायता, इतरेतराश्रयत्वात्; वाक्या-र्थज्ञाने जाते तद्विषयध्यानम्, ध्याने निवृत्ते वाक्यार्थज्ञानमिति ।

न च ध्यानवाक्यार्थज्ञानयोर्भिन्नविषयत्वम्, तथा सति ध्यानस्य वाक्यार्थज्ञानोपायता न स्यात् । न ह्यन्यध्यानमन्यौन्मुख्यमुत्पादयति । ज्ञातार्थस्मृतिसन्ततिरूपस्य ध्यानस्य वाक्यार्थज्ञानपूर्वकत्वमवर्जनी-यम्, ध्येयब्रह्मविषयज्ञानस्य हेत्वन्तरासम्भवात् । न च ध्यानमूलं ज्ञानं वाक्यान्तरजन्यम्, निवर्त्तकज्ञानं तत्त्वमस्यादिवाक्यजन्यमिति युक्तम् । ध्यानमूलमिदं वाक्यान्तरजन्यं ज्ञानं तत्त्वमस्यादिवाक्यजन्यज्ञाने-नैकविषयम्, भिन्नविषयं वा । एकविषयत्वे तदेवेतरेतराश्रयत्वम् । भिन्नविषयत्वे ध्यानेन तदौन्मुख्यापाद-नासम्भवः । किञ्च ध्यानस्य ध्येयध्यात्राद्यनेकप्रपञ्चापेक्षत्वान्निष्प्रपञ्चब्रह्मात्मैकत्वविषयवाक्यार्थज्ञानोत्पत्तौ दृष्टद्वारेण नोपयोग इति वाक्यार्थज्ञानमात्रादविद्यानिवृतिं्त वदतः श्रवणमनननिदिध्यासनविधीनामानर्थक्य- मेव ।।

यतो वाक्यादापरोक्ष्यज्ञानासम्भवाद्वाक्यार्थज्ञानेनाविद्या न निवर्त्तते, तत एव जीवन्मुक्तिरपि दूरो-त्सारिता । का चेयं जीवन्मुक्तिः? सशरीरस्यैव मोक्ष इति चेत् माता मे वन्ध्येतिवदसङ्गतार्थं वचः, यतः सशरीरत्वं बन्धः, अशरीरत्वमेव मोक्ष इति त्वयैव श्रुतिभिरुपपादितम् । अथ सशरीरत्वप्रतिभासे वर्तमाने यस्यायं प्रतिभासो मिथ्येति प्रत्ययः, तस्य सशरीरत्वनिवृत्तिरिति । न, मिथ्येतिप्रत्ययेन सशरीरत्वं निवृत्तं चेत् कथं सशरीरस्य मुक्तिः? अजीवतोऽपि मुक्तिस्सशरीरत्वमिथ्याप्रतिभासनिवृत्तिरेवेति कोऽयं जीवन्मुक्ति-रिति विशेषः । अथ सशरीरत्वप्रतिभासो बाधितोऽपि यस्य द्विचन्द्रज्ञानवदनुवर्तते, स जीवन्मुक्त इति चेत् न, ब्रह्मव्यतिरिक्तसकलवस्तुविषयत्वाद्वाधकज्ञानस्य, कारणभूताविद्याकर्मादिदोषः सशरीरत्वप्रतिभासेन सह तेनैव बाधित इति बाधितानुवृत्तिर्न शक्यते वक्तुम् । द्विचन्द्रादौ तु तत्प्रतिभासहेतुभूतदोषस्य बाधकज्ञा-नभूतचन्द्रैकत्वज्ञानाविषयत्वेनाबाधितत्वात्, द्विचन्द्रप्रतिभासानुवृत्तिर्युक्ता ।

किञ्च "तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये" इति सद्विद्यानिष्ठस्य शरीरपातमात्रम-पेक्षते मोक्ष इति वदन्तीयं श्रुतिर्जीव-न्मुकिं्त वारयति । सैषा जीवन्मुक्तिरापस्तम्बेनापि निरस्ता "वेदानिमं

लोकममुञ्च परित्यज्यात्मानमन्विच्छेत् । बुद्धे क्षेमप्रापणं तच्छास्त्रैर्विप्रतिषिद्धम् । बुद्धे चेत् क्षेमप्रापणमिहैव न दःखमुपलभेत । एतेन परं व्याख्यातम्" इति । अनेन ज्ञानमात्रान्मोक्षश्च निरस्तः । अतस्सकलभेदनिवृत्ति-रूपा मुक्तिर्जीवतो न सम्भवति ।

तस्माद्ध्याननियोगेन ब्रह्मापरेक्षज्ञानफलेनैव बन्धनिवृत्तिः । न च नियोगसाध्यत्वे मोक्षस्यानि-त्यत्वब्रसक्तिः, प्रतिबन्धनिवृत्तिमात्रस्यैव साध्यत्वात् । किञ्च न नियोगेन साक्षाद्वन्धनिवृत्तिः क्रियते, किन्तु निष्प्रपञ्चज्ञानैकरसब्रह्मापरोक्ष्यज्ञानेन । नियोगस्तु तदापरोक्ष्यज्ञानं जनयति ।। कथं नियोगस्य ज्ञानोत्पत्तिहेतु-त्वमिति चेत् कथं वा भवतो अनभिसंहितफलानां कर्मणां वेदनोत्पत्तिहेतुत्वम्? । मनोनैर्मल्यद्वारेणेति चेत्, ममापि तथैव । मम तु निर्मले मनसि शास्त्रेण ज्ञानमुत्पाद्यते । तव तु नियोगेन मनसि निर्मले ज्ञानसामग्री वक्तव्येति चेत् ध्याननियोगनिर्मलं मन एव साधनमिति ब्रूमः । केनावगम्यत इति चेत् भवतो वा कर्मभि- र्मनो निर्मलं भवति, निर्मले मनसि श्रवणमनननिदिध्यासनैस्सकलेतरविषयविमुखस्यैव शास्त्रं निवर्तक- ज्ञानमुत्पादयतीति केनावगम्यते? । "विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन" "श्रोतव्योमन्तव्यो निदि-ध्यासितव्यः" "ब्रह्म वेद ब्रह्मैव भवति" इत्यादिभिः शास्त्रैरिति चेत् ममापि "श्रोतव्योमन्तव्यो निदिध्यासि- तव्यः "ब्रह्मविदाप्नोति परम्" "न चक्षुषा गृह्यते नापि वाचा" "मनसा तु विशुद्धेन" "हृदा मनीषा मनसा अभिक्लृप्तः" इत्यादिभिः शास्त्रै र्ध्याननियोगेन मनो निर्मलं भवति । निर्मलं च मनो ब्रह्मापरोक्षज्ञानं जनय-तीत्यवगम्यत इति निरवद्यम् ।

"नेदं यदिदमुपासते" इत्युपास्यत्वं प्रतिषिद्धमिति चेत् नैवम्, नात्र ब्रह्मण उपास्यत्वं प्रतिषिध्यते, अपि तु ब्रह्मणो जगद्वैरूप्यं प्रतिपाद्यते । यदिदं जगदुपासते प्राणिनः, नेदं ब्रह्म, तदेव ब्रह्म त्वं विद्धि, यद्वा-चाऽनभ्युदितं येन वागभ्युद्यत इति वाक्यार्थः अन्यथा तदेव ब्रह्म त्वं विद्धीति विरुध्द्यते । ध्यानविधिवैयर्थ्यं च स्यात्; अतो ब्रह्मसाक्षात्कारफलेन ध्याननियोगेनैवापरमार्थभूतस्य कृत्स्नस्य द्रष्टृदृश्यादिप्रपञ्चरूपबन्ध- स्य निवृत्तिः ।।

यदपि कैश्चिदुक्तम्-भेदाभेदयोविर्रोधो न विद्यत इति । तदयुक्तम्; न हि शीतोष्णतमः प्रकाशादि-वद्भेदाभेदावेकस्मिन् वस्तुनि सङ्गच्छेते ।

अथोच्येत-सर्वं हि वस्तुजातं प्रतीति व्यवस्थाप्यम्, सर्वं च भिन्नाभिन्नं प्रतीयते । कारणात्मना जात्यात्मना चाभिन्नम् । कार्यात्मना व्यक्तयात्मना च भिन्नम् । छायातपादिषु विरोधः सहानवस्थानल- क्षणो भिन्नाधारत्वरूपश्च, कार्यकारणयोर्जातिव्यकत्योश्च तदुभयमपि नोपलभ्यते, प्रत्युत एकमेव वस्तु द्विरूपं प्रतीयते; यथा "मृदयं घटः, खण्डो गौः मुण्डो गौः" इति । न चैकरूपं किञ्चिदपि वस्तु लाके दृष्ट- चरम्, न च तृणादेर्ज्वलनादिवदभेदो भेदोपमर्दी दृश्यत इति न वस्तुविरोधः, मृत्सुवर्णगवाश्वाद्यात्मनाव-स्थितस्यैव घटमुकुटखण्डबडबाद्यात्मना चावस्थानात् । न चाभिन्नस्य भिन्नस्य च वस्तुनो अभेदो भेदश्चैक एवाकार इतीश्वराज्ञा । प्रतीतत्वादैकरूप्यं चेत् प्रतीतत्वादेव भिन्नाभिन्नत्वमिति द्वैरूप्यमप्यभ्युपगम्यताम् । न हि विष्फारिताक्षः पुरुषो घटशरावखण्डमुण्डादिषु वस्तुषूपलभ्यमानेषु इयं मृत् अयञ्च घटः, इदं गोत्वम् इयं व्यक्तिः, इति विवेक्तुं शक्नोति, अपि तु मृदयं घटः खण्डो गौरित्येव प्रत्येति । अनुवृत्तिबुद्धिबोध्यं कारण-माकृतिश्च, व्यावृत्तिबुद्धिबोध्यं कार्यं व्यक्तिश्चेति विविनक्तीति चेत् नैवम्; विविक्ताकारानुपलब्धेः । न हि सुसूक्ष्ममपि निरीक्षमाणैः इदमनुवर्तमानमिदं च व्यावर्त्तमानमिति पुरोऽवस्थिते वस्तुन्याकारभेद उपलभ्यते ।

यथा सम्प्रतिपन्नैक्ये काय्र्ये विशेष चैकत्वबुद्धिरुपजायते; तथैव सकारणे ससामान्ये चैकत्वबुद्धिरविशिष्टो-पजायते । एवमेव देशतः कालतश्चाकारतश्चात्यन्तविलक्षणेष्वपि वस्तुषु तदेवेदमिति प्रत्यभिज्ञा जायते, अतो द्वयात्मकमेव वस्तु प्रतीयते इति कार्यकारणयोर्जातिव्यक्तयोश्चात्यन्तभेदोपपादनं प्रतीतिपराहतम् । अथोच्येतमृदयं घटः खण्डो गौरितिवत् देवोऽहं मनुष्योऽहमिति सामानाधिकरण्येनैक्यप्रतीतेरात्मशरीरयो- रपि भिन्नाभिन्नत्वं स्यात्; अत इदं भेदाभेदोपपादनं निजसदननिहितहुतवहज्वालायत इति, तदिदमनाकलि-तभेदाभेदसाधनसामानाधिकरण्यतदर्थयातात्म्यावबोधविलसितम् । तथा हि, अबाधित एव प्रत्ययः सर्वत्रार्थं व्यवस्थापयति । देवाद्यात्माभिमानस्तु आत्मयाथात्म्यगोचरैः सर्वैः प्रमाणैर्बाध्यमानो रज्जुसर्प्पादिबुद्धिवन्ना-त्मशरीरयोरभेदं साधयति । खण्डो गौर्मुण्डो गौरिति सामानाधिकरण्यस्य न केनचित् क्कचिद्वाधो दृश्यते, तस्मान्नातिप्रसङ्गः ।

अत एव जीवोऽपि ब्रह्मणो नात्यन्तभिन्नः, अपि तु ब्रह्मांशत्वेन भिन्नाभिन्नः । तत्राभेद एव स्वा-भाविकः, भेदस्त्वौपाधिकः । कथमवगम्यत इति चेत् "तत्वमसि" "नान्योऽतोऽस्ति द्रष्टा" "अयमात्मा ब्रह्म" इत्यादिभिः श्रुतिभिः "ब्रह्मेमे द्यावापृथिवी" इति प्रकृत्य "ब्रह्म दाशा ब्रह्म दासा ब्रह्मेमे कितावा उत । स्त्री पुंसौ ब्रह्मणो जातौ स्त्रियो ब्रह्मोत वा पुमान्" इत्याथर्वणिकानां संहितोपनिषदि ब्रह्मसूक्ते अभेदश्रवणाच्च । "नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्" "ज्ञाज्ञौ द्वावजावीशनीशौ" "क्रियागुणै-रात्मगुणैश्च तेषां संयोगहेतुरपरोऽपि दृष्टः" "प्रधानक्षेत्रज्ञपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुः" "स कारणं करणाधिपाधिपः" "तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति" "य आत्मनि तिष्ठन्" "प्राज्ञेना- त्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद" "प्राज्ञेनात्मनाऽन्वारूढः उत्सर्जन् याति "तमेव विदित्वातिमृत्यु- मेति" इत्यादिभिर्भेदश्रवणाच्च जीवपरयोर्भेदाभेदाववश्याश्रयणीयौ" तत्र "ब्रह्म वेद ब्रह्मैव भवति" इत्यादिभि-र्मोक्षदशायां जीवस्य ब्रह्मस्वरूपापत्तिव्यपदेशात् । "यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्" इति तदानीं भेदेनेश्वरदर्शननिषेधाच्चाभेदः स्वाभाविक इत्यवगम्यते ।

ननु च "सोऽश्नुते सर्वान् कामान्-सह ब्रह्मणा विपश्चिता" इति सहश्रुत्या तदानीमपि भेदः प्रतीयते । वक्ष्यति च "जगद्वयापारवर्जं प्रकरणादसन्निहितत्वाच्च" "भोगमात्रसाम्यलिङ्गाच्च" इति । नैतदेवम्, "नान्यो-ऽतोऽस्ति द्रष्टा" इत्यादिश्रुतिशतैरात्मभेदप्रतिषेधात्, "सोऽश्रुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता" इति सर्वैः कामैः सह ब्रह्माश्नुते सवर्गुणान्वितं ब्रह्माऽश्नुते इत्युक्तं भवति, अन्यथा ब्रह्मणा सहेत्यप्राधान्यं ब्रह्मणः प्रसज्येत । "जगद्वयापारवर्जमित्यत्र मुक्तस्य भेदेनावस्थाने सत्यैश्वर्यस्यन्यूनताप्रसङ्गो वक्ष्यते, अन्यथा "सम्पद्याविर्भावः स्वेन शब्दात्" इत्यादिभिर्विरोधात् ।

तस्मादभेद एव स्वाभाविकः । भेदस्तु जीवानां परस्माद्व्रह्मणः परस्परञ्च बुद्धीन्द्रियदेहोपाधिकृतः । यद्यपि ब्रह्मनिरवयवं सर्वगतञ्च तथाप्याकाश इव घटादिना बुद्ध्याद्युपाधिना ब्रह्मण्यपि भेदस्सम्भवत्येव । न च भिन्ने ब्रह्मणि बुद्धयाद्युपाधिसंयोगः, बुद्धयाद्युपाधिसंयोगाद्व्रह्मणि भेद इतीतरेतराश्रयत्वम्; उपाधेस्त-त्संयोगस्य च कर्मकृतत्वात् तत्प्रवाहस्य चानादित्वात् । एतदुक्तं भवति-पूर्वकर्मसम्बद्धाज्जीवात्स्वसम्बद्ध एवोपाधिरुत्पद्यते, तद्युक्तात्कर्म, एवं बीजाङ्कुरन्यायेन कर्मोपाधिसम्बन्धस्यानादित्वान्न दोष इति । अतो जीवानांपरस्परं ब्रह्मणा चाभेद एव स्वाभाविकः । भेदस्त्वौपाधिकः । उपाधीनां पुनः परस्परं ब्रह्मणा चाभेद- वत् भेदोऽपि स्वाभाविकः, उपाधीनामुपाध्यन्तराभावात्तदभ्युपगमे अनवस्थानाच्च, अतो जीवकर्मानुरूपं

ब्रह्मणो भिन्नाभिन्नस्वभावा एवोपाधय उत्पद्यन्त इति ।।

अत्रोच्यते,-अद्वितीयसच्चि-दानन्दब्रह्मध्यानविषयविधिपरं वेदान्तवाक्यजातमिति वेदान्तवाक्यै- रभेदः प्रतीयते । भेदावलम्बिभिः कर्म-शास्त्रैः प्रत्यक्षादिभिश्च भेदः प्रतीयते । भेदाभेदयोः परस्परविरोधात् अनाद्यविद्यामूलतयापि भेदप्रतीत्युपपत्तेर- भेद एव परमार्थं इत्युक्तम् । तत्र यदुक्तम्-भेदाभेदयोरुभयोरपि प्रतीतिसिद्धत्वान्न विरोध इति । तदयुक्तम्; कस्माच्चित्कस्यचिद्विलक्षणत्वं हि तस्मात्तस्य भेदः । तद्विपरी-तत्वञ्चाभेदः । तयोस्तथाभावातथाभावरूपयोरेकत्र सम्भवमनुन्मत्तः को ब्रवीति ।

कारणात्मना जात्यात्मना चाभेदः, कार्यात्मना व्यक्तयात्मना च भेद इत्याकारभेदादविरोध इति चेत् न;; विकल्पासहत्वात् । आकारभेदादविरोधं वदतः किमेकस्मिन्नाकारे भेदः? आकारान्तरे चाभेद इत्य-भिप्रायः? उताकारद्वययोगवस्तुगतावुभावपि? इति । पूर्वस्मिन् कल्पे व्यक्तिगतो भेदः जातिगतश्चाभेद इति नैकस्य द्वयात्मकता । जातिर्व्यक्तिरिति चैकमेव वस्त्विति चेत् तर्ह्याकारभेदादविरोधः परित्यक्तः स्यात् । एकस्मिंश्च विलक्षणत्वतद्विपर्ययौ विरुद्धावित्युक्तम् । द्वितीये तु कल्पे अन्योन्यविलक्षणमाकारद्वयमप्रति- पन्नञ्च तदाश्रय भूतं वस्त्विति । तृतीयाभ्युपगमेऽपि त्रयाणामन्योन्यवैलक्षण्यमेवोपपादितं स्यात्; न पुनर- भेदः । आकारद्वयनिरुह्यमाणरविरोधं तदाश्रयभूते वस्तुनि भिन्नाभिन्नत्वमिति चेत् स्वस्माद्विलक्षणं स्वा-श्रयमाकारद्वयं स्वस्मिन् विरुद्धधर्मद्वयसमावेशनिर्वाहकं कथं भवेत्? । अविलक्षणं तु कथन्तराम्? आका-रद्वयतद्वतोश्च द्वयात्मकत्वाभ्युपगमे निर्वाहकान्तरापेक्षयाऽनवस्था स्यात् । न च सम्प्रतिपन्नैक्यव्यक्तिप्रती-तिवत् ससामान्येऽपि वस्तुन्येकरूपा प्रतीतिरुपजायते । यतः इदमित्थमिति सवर्त्र प्रकारप्रकारितयैव सर्वा प्रतीतिः । तत्र प्रकाराम्शो जातिः, प्रकार्यंशो व्यक्तिरिति नैकाकारा प्रतीतिः ।

अत एव जीवस्यापि ब्रह्मणो भिन्नाभिन्नत्वं न सम्भवति । तस्मादभेदस्यानन्यथासिद्धशास्त्रमूल- त्वादनाद्यविद्यामूल एव भेदप्रत्ययः । नन्वेवं ब्रह्मण एवाज्ञत्वम् तन्मूलाश्च जन्मजरामरणादयो दोषाः प्रादु- ष्युः । ततश्च "यः सर्वज्ञः सर्ववित्" "एष आत्माऽपहतषाष्मा" इत्यादीनि शास्त्राणि बाध्येरन् । नैवम् अज्ञा-नादिदोषानामपरमार्थत्वात् । भवतस्तूपाधिब्रह्मव्यतिरिक्तं वस्त्वन्तरमनभ्युपगच्छतो ब्रह्मण्येवोपाधिसंसर्ग-स्तत्कृताश्च जीवत्वाज्ञत्वादयो दोषाः परमार्थत एय भवेयुः । न हि ब्रह्मणि निरवयवे अच्छेद्ये सम्बध्यमाना उपाधयस्तच्छित्त्वा भित्त्वा वा सम्बध्यन्ते, अपि तु ब्रह्मस्वरूपे संयुज्य तस्मिन्नेव स्वकार्याणि कुर्वन्ति ।।

यदि मन्वीत-उपाध्युपहितं ब्रह्म जीवः, स चाणुपरिमाणः, अणुत्वञ्चावच्छेदकस्य मनसोऽणुत्वात्, स चावच्छेदोऽनादिः, एवमुपाध्युपहिते अंशे सम्बध्यमानाः दोषा अनुपहिते परे ब्रह्मणि न सम्बध्यन्त इति । अयं प्रष्टव्यः, किमुपाधिना छिन्नो ब्रह्मखण्डोऽणुरूपो जीवः? उताच्छिन्न एवाणुरूपोपाधिसंयुक्तो ब्रह्मप्रदे-शविशेषः? उतोपाधिसंयुक्तं ब्रह्मस्वरूपम्? अयोपि#ाधसंयुक्तं चेतनान्तरम्? अथोपाधिरेव? इति । अच्छेद्य-त्वाद्व्रह्मणः प्रथमः कल्पो न कल्पते । आदिमत्त्वं च जीवस्य स्यात् । एकस्य सतो द्वैधीकरणं हि छेदनम् । द्वितीये तु कल्पे ब्रह्मण एव प्रदेशविशेष उपाधिसम्बन्धादौपाधिकाः सर्वे दोषा-स्तस्यैव स्युः । उपाधौ गच्छ-त्युपाधिना स्वसंयुक्तब्रह्मप्रदेशाकर्षणायोगादनुक्षणमुपाधिसंयुक्तब्रह्मप्रदेशभेदात् क्षणे क्षणे बन्धमोक्षौ च स्याताम् । आकर्षणे चाच्छिन्नत्वात्कृत्स्नस्य ब्रह्मण आकर्षणं स्यात् । निरंशस्य व्यपिन आकर्षणं न सम्भव-तीति चेत्; तर्हि उपाधिरेव गच्छतीति पूर्वोक्त एव दोषः स्यात् । अच्छिन्नब्रह्मप्रदेशेषु सर्वोपाधिसंसर्गे सर्वेषां च जीवानां ब्रह्मण एव प्रदेशत्वेनैकत्वेन प्रतिसन्धानं स्यात् । प्रदेशभेदादप्रतिसन्धाने चैकस्यापि स्वोपाधौ

गच्छति प्रतिसन्धानं न स्यात् । तृतीये तु कल्पे ब्रह्मस्वरूपस्यैवोपाधिसम्बन्धेन जीवत्वपातात् तदतिरिक्ता-नुपहितब्रह्मासिद्धिः स्यात् । सर्वोषु च देहेष्वेक एव जीव स्यात् । तुरीयेतु कल्पे ब्रह्मणशेऽन्य एव जीव इति जीवभेदस्यौपाधिकत्वं परित्यक्तं स्यात् । चरमे चार्वाकपक्ष एव परिगृहीतः स्यात् ।

तस्मादभेदशास्त्रबलेन कृत्स्नस्य भेदस्याविद्याभूलत्वमेवाभ्युपगन्तव्यम् । अतः प्रवृत्तिनिवृत्तिप्रयो-जनपरतयैव शास्त्रस्य प्रामाण्येऽपि ध्यानविधिशेषतया वेदान्तवाक्यानां ब्रह्मस्वरूपे प्रामाण्यमुपपन्नमिति ।। तदप्ययुक्तम्-ध्यानविधिशेषत्वेऽपि वेदान्तवाक्यानामर्थसत्यत्वे प्रामाण्यायोगात् । एतदुक्तं भवति, ब्रह्म-स्वरूपगोचराणि वाक्यानि किं ध्यानविधिनैकवाक्यतामापन्नानि ब्रह्मस्वरूपे प्रामाण्यं प्रतिपद्यन्ते? उत स्वतन्त्राण्येव? । एकवाक्यत्वे ध्यानविधिपरत्वेन ब्रह्मस्वरूपे तात्पर्यं न सम्भवति, भिन्नवाक्यत्वे प्रवृत्ति-निवृत्तिप्रयोजनविरहादनववोधकत्वमेव । न च वाच्यम् ध्यानं नाम स्मृतिसन्ततिरूपम् । तच्च स्मर्त्तव्यैकनि-रूपणीयमिति ध्यानविधेः स्मर्त्तव्यविशेषाकाङ्क्षायाम् "इदं सर्वं यदयमात्मा" "ब्रह्म सर्वानुभूः "सत्यं ज्ञान-मनन्तं ब्रह्म" इत्यादीनि ब्रह्मस्वरूपतद्विशेषादीनि समर्पयन्ति । तेनैकवाक्यतामापन्नान्यर्थसद्भावे प्रमाण- मिति, ध्यानविधेः स्मर्त्तव्यविशेषापेक्षत्वेऽपि "नाम ब्रह्म" इत्यादिदृष्टिविधिवदसत्येनाप्यर्थविशेषेण ध्यान-निवृत्त्युपपत्तेः ध्येयसत्यत्वानपेक्षणात् । अतो वेदान्तवाक्यानां प्रवृत्तिनिवृत्तिप्रयोजनविधुरत्वात् ध्यानविधि-शेषत्वेऽपि ध्येयविशेषस्वरूपसमर्पणमात्रपर्यवसानात् स्वातन्त्र्#ेऽपि बालातुराद्युपच्छन्दनवाक्यवत् ज्ञान-मात्रेणैव पुरुषार्थपर्य्यन्ततासिद्धेश्च परिनिष्पन्नवस्तुसत्यतागोचत्वाभावात् ब्रह्मणः शास्त्र-प्रमाणकत्वं न सम्भवतीति प्राप्तम् ।।

तत्र प्रतिपद्यते-"तत्तु समन्वयात्" इति । समन्वयः- सम्यगन्वयः, पुरुषार्थतयाऽन्वय इत्यर्थः । पर-मपुरुषार्थभूतस्यानवधिकातिशयानन्दस्वरूपस्य ब्रह्मणोऽभिधेयतयान्वयात्, तत्-शास्त्रप्रमाणकत्वं सिध्य-त्येवेत्यर्थः । निरस्तनिखिलदोषनिरतिशयानन्दस्वरूपतया परमप्राप्यं ब्रह्म बोधयन् वेदान्तवाक्यगणः प्रवृ-त्तिनिवृत्ति-परताविरहान्न प्रयोजनपर्यवसायीति ब्रुवाणो राजकुलवासिनः पुरुषस्य कौलेयककुलाननु प्रवे- शेन प्रयोजनशून्यतां व्रूते । एतदुक्तं भवति-अनादिकर्मरूपाविद्यावेष्टनतिरोहितपरावरतत्त्वयाथत्म्यस्वरूपा-वबोधानां देवासुरगन्धर्वसिद्धविद्याधरकिन्नरकिम्पुरुषयक्षराक्षसपिशाचमनुजपशुशकुनिसरीसृपवृक्षगुल्मल-तादूर्वादीनां स्त्रीपुन्नपुंसकभेदभिन्नानां क्षेत्रज्ञानां व्यवस्थितधारकपोषक भोग्यविशेषाणां मुक्तानां स्वस्य चाविशेषेणानुभवसम्भवे स्वरूपरूपगुणविभवचेष्टितैरनवधिकातिशयानन्दजनकं परं ब्रह्मास्तीति बोधयदेव वाक्यं प्रयोजनपर्यवसायि । प्रवृत्तिनिवृत्तिनिष्ठन्तु यावत्पुरुषार्थान्वयबोधं न प्रयोजनपर्यवसायि ।

एवम्भूतं ब्रह्म कथं प्राप्यत इत्यपेक्षायां "ब्रह्म विदाप्नोति परम्" "आत्मानमेव लोकमुपासीत" इति वेदनादिशब्दैरुपासनं ब्रह्मप्राप्त्युपाय-तया विधीयते । यथा स्ववेश्मनि निधिरस्तीति वाक्येन निधिसद्भावं ज्ञात्वा तृप्तस्सन् पश्चात्तदुपादाने च प्रयतते, यथा च कश्चिद्राजकुमारो बालक्रीडासक्तो नरेन्द्रभवनान्नि-ष्क्रान्तो मार्गाद्भ्रष्टो नष्ट इति राज्ञा विज्ञातः स्वयञ्चाज्ञातपितृकः केनचित् द्विजवर्येण वर्द्धतोऽधिगतवेदशास्त्रः षोडशवर्षः सर्वकल्पयाणगुणाकरस्तिष्ठन् "पिता ते सर्वलोकाधिपतिर्गाम्भीर्य्यौदाय्यर्वात्सल्यसमौशील्य-शौर्यवीर्य्यपराक्रमादिगुणसम्पन्न-स्त्वामेव नष्टं पुत्रं दिदृक्षुः पुरवरे तिष्ठति" इति केनचिदभियुक्ततमेन प्रयुक्तं वाक्यं #ृणोति चेत् तदानीमेवाहं तावत् जीवतः पुत्रो मत्पिता च सर्वसम्पत्समृद्ध इति निरतिशयहर्षसम- न्वितो भवति, राजा च स्वपुत्रं जीवन्त मरोगमतिमनोहरदर्शनं विदितसकलवेद्यं श्रुत्वा अवाप्तसमस्त-

पुरुषार्थो भवति । पश्चात्तदुपादाने च प्रयतते । पश्चान्तावुभौ सङ्गच्छेते चेति ।

यत्पुनः परिनिष्पन्न वस्तुगोचरस्य वाक्यस्य तज्ज्ञानमात्रेणापि पुरुषार्थपर्यवसानात् बालातुराद्यु-पच्छन्दनवाक्यवन्नार्थ सद्भावे प्रामाण्यमिति । तदसत्; अर्थसद्भावाभावे निश्चिते ज्ञातोऽप्यर्थः पुरुषार्थाय न भवति । बालातुरादीनामप्यर्थसद्भावभ्रान्त्या हर्षाद्युत्पत्तिः, तेषामेव तस्मिन्नेव ज्ञाने विद्यमाने यद्यर्थाभावनि-श्चयो जायेत ततस्तदानीमेव हर्षादयो निवर्त्तेरन् । औपनिषदेष्वपि वाक्येषु ब्रह्मास्तित्वतात्पर्याभावनिश्चये ब्रह्मज्ञाने सत्यपि पुरुषार्थपर्य्यवसानं न स्यात् ।

अतः "यतो वा इमानि भूतानि जायन्ते" इत्यादिवाक्यं निखिलजगदेककारणं निरस्तनिखिलदोषगन्धं सार्वज्ञ्यसत्यसङ्कल्पत्वाद्यनन्तकल्याणगुणाकरमनवधिकातिशयानन्दं ब्रह्मास्तीति बोधयतीति सिद्धम् ।।

 

1.1.5

"यतो वा इमानि" इत्यादिजगत्कारणवादिवाक्यप्रतिपाद्यं सर्वज्ञं सर्वशक्तिसमस्तहेयप्रत्यनीकक- ल्याणगुणैकतानं ब्रह्म जिज्ञास्यमित्युक्तम् । इदानीं जगत्कारणवादिवाक्यानामानुमानिकप्रधानादिप्रतिपा-दनार्नहतोच्यते- ईक्षतेर्नाशब्दमित्यादिना ।

1.1.5 ईक्षतेर्नाशब्दम् ।। 5 ।।

1.1.5

इदमाम्नायते छान्दोग्ये-"सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् । तदैक्षत बहु स्यां

1.1.5

 

प्रजायेयेति तत्तेजोऽसृजत" इत्यादि । तत्र सन्देहः, किं सच्छब्दवाच्यं जगत्कारणं परोक्तमानुमानिकं प्रधानम् ?

1.1.5

 

उतोक्तलक्षणं ब्रह्म ? इति । किं प्राप्तम् ? प्रधानमिति । कुतः ? "सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्" इतीदंशब्दवाच्यस्य चेतनभोग्यभूतस्य सत्त्वरजस्तमोमयस्य वियदादिनानारूपविकारावस्थस्य वस्तुनः का-रणावस्थां वदति, कारणभूतद्रव्यस्यावस्थान्तरापत्तिरेव हि कार्यता, अतो यद्द्रव्यं यत्स्वभावं च कार्यावस्थम्; तत्स्वभावं तदेव द्रव्यं कारणावस्थम् । सत्त्वादिमयं च कार्यमिति गुणसाम्यावस्थं प्रधानमेव हि कारणम् ।

1.1.5

 

तदेवोपसंहृतसकलविशेषं सन्मात्रमिति "सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्" इत्यभिधीयते । तत एव च कायर्कारणयोरनन्यत्वम्, तथा सत्येवैकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्तिः । अन्यथा "यथा सोम्यैकेन मृत्पि-ण्डेन" इत्यादिमृत्पिण्डतत्कार्यदृष्टान्तदार्ष्टान्तिकयोर्वैरूप्यं चेति जगत्कारणवादिवाक्येन महर्षिणा कपिलेनोक्तं प्रधानमेव प्रतिपाद्यते । प्रतिज्ञादृष्टान्तरूपेणानुमानवेषमेव चेदं वाक्यमिति सच्छब्दवाच्यमानुमानिकमेव-

इत्येवंप्राप्तेऽभिधीयते-ईक्षतेर्नाशब्दमिति । यस्मिन् शब्द एव प्रमाणं न भवति तदशब्दम् । आनुमानिकम्,

1.1.5

 

प्रधानमित्यर्थः । न तज्जगत्कारणवादिवाक्यप्रतिपाद्यम् । कुतः ? ईक्षतेः-सच्छब्दवाच्यसम्बन्धिव्यापारविशे-षाभिधायिन ईक्षतेर्धातोः श्रवणात् । "तदैक्षत बहु स्यां प्रजायेय" इति ईक्षणक्रियायोगश्चाचेतने प्रधाने न

1.1.5

 

सम्भवति, अत ईदृशेक्षणक्षमश्चेतनविशेषस्सर्वज्ञः सर्वशक्तिः पुरुषोत्तमः सच्छब्दाबिधेयः । तथा च सर्वेष्वेव सृष्टिप्रकरणेष्वीक्षापूर्विकैव सृष्टिः प्रतीयते "स ईक्षत लोकान्नु सृजा इति स इमांल्लोकानसृजत" "स ईक्षाञ्चक्रे स प्राणमसृजत" इत्यादिषु । ननु च कार्यानुगुणेनैव कारणेन भवितव्यम् । सत्यम्, सर्वकार्यानुगुण एव

1.1.5

 

सर्वज्ञः सर्वशक्तिः सत्यसङ्कल्पः पुरुषोत्तमः सूक्ष्मचिदचिद्वस्तुशरीरकः । यथाह "पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" "यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः" "यस्याव्यक्तं शरीरं यस्याक्षरं शरीरं यस्य मृत्युः शरीरम्-एष सर्वभूतान्तरात्मा" इति । तदेतत् "न विलक्षणत्वात्" इत्यादिषु प्रतिपादयिष्यते । अत्र सृष्टिवाक्यानि न प्रधानप्रतिपादनयोग्यानीत्युच्यते । वस्तुविरोधस्तु तत्रैव परिहरिष्यते । यत्तूक्तम्प्रतिज्ञा-दृष्टान्तयोगादनुमानरूपमेवेदं वाक्यमिति । तदसत्, हेत्वनुपादनात् । "येनाश्रुतं श्रुतम्" इत्येकविज्ञानेन सर्व-विज्ञाने प्रतिपिपादयिषिते सर्वात्मना तदसम्भवं मन्वानस्य तत्सम्भवमात्रप्रदर्शनाय हि दृष्टान्तोपादानम् । ईक्षत्यादिश्रवणादेव ह्यनुमानगन्धाभावोऽवगतः ।

1.1.6

 

अथ स्यात्-न चेतनगतं मुख्यमीक्षणमिहोच्यते, अपि तु प्रधानगतं गौणमीक्षणम् "तत्तेज ऐक्षत-ता आप ऐक्षन्त" इति गौणेक्षणसाहचर्यात् । भवति चाचेतनेष्वपि चेतनधर्मोपचारः । यथा "वृष्टिप्रतीक्षाः शालयः" "वर्षेण बीजं प्रतिसञ्जहर्ष" इति । अतो गौणमीक्षणमितीमामाशङ्कामनुभाष्य प्रतिहरति -

1.1.6 गौणश्चेन्नात्मशब्दात् ।। 6 ।।

1.1.6

यदुक्तम्-गौणेक्षणसाहचर्यात् सतोऽपीक्षणव्यपदेशः सगर्नियतपूर्वावस्थाभिप्रायो गौण इति । तन्न "ऐतदात्म्य-

1.1.6

 

मिदं सर्वं तत्सत्यं स आत्मा" इति सच्छब्दप्रतिपादितस्य आत्मशब्देन व्यपदेशात् । एतदुक्तं भवति "ऐतदा-त्म्यमिदं सर्वम् स आत्मा" इति चेतनाचेतनप्रपञ्चोद्देशेन सत आत्मत्वोपदेशोऽयं नाचेतने प्रधाने सङ्गच्छत इति, अतस्तेजोबन्नानामपि परमात्मैवात्मति तेजःप्रभृतयोऽपि शब्दाः परमात्मन एव वाचकाः । तथा हि "हन्ताऽहमिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरणानि" इति परमात्मानुप्रवेशादेव

1.1.7

 

तेजःप्रभृतीनां वस्तुत्वं तत्तन्नामभाक्तवं चेति "तत्तेज ऐक्षत-ता आप ऐक्षन्त" इत्यपि मुख्य एवेक्षणव्यपदेशः, अतः साहचर्यादपि "तदैक्षत" इत्यत्र गौणत्वाशङ्का दूरोत्सारितेति सूत्राभिप्रायः ।। इतश्च न प्रधानं सच्छब्द-प्रतिपाद्यम् ।

1.1.7 तन्निष्ठस्य

1.1.7

 

मुमुक्षोः श्वेतकेतोः "तत्त्वमसि" इति सदात्मकत्वानुसन्धानमुपदिश्य तन्निष्ठस्य "तस्य तावदेव चिरं यावन्न

1.1.7

 

विमोक्ष्ये अथ सम्पत्स्ये" इति शरीरपातमात्रान्तरायो ब्रह्मसम्पत्तिलक्षणो मोक्ष इत्युपदिशति । यदि च प्रधान-मचेतनं कारणमुपदिश्येत; तदा तदात्मकत्वानुसन्धानस्य मोक्षसाधनत्वोपदेशो नोपपद्यते "यथा क्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति" इति तन्निष्ठस्याचेतनसम्पत्तिरेव स्यात् । न च मातापितृसहस्रेभ्योऽपि

1.1.8

 

वत्सलतरं शास्त्रमेवंविधतापत्रयाभिहतिहेतुभूतामचित्सम्पत्तिमुपदिशति । प्रधानकारणावादिनोऽपि हि प्र-धाननिष्ठस्य मोक्षं नाभ्युपगच्छन्ति ।। इतश्च न प्रधानम् -

1.1.8 हेयत्वावचनाच्च ।। 8 ।।

1.1.8

 

यदि प्रधानमेव कारणं सच्छब्दाभिहितं भवेत् तदा मुमुक्षोः श्वेतकेतोस्तदात्मकत्वं मोक्षविरोधित्वा-द्धेयत्वेनैवोपदेश्यं स्यात् । न च तत्क्रियते, प्रत्युत उपादेयत्वेनैव "तत्त्वमसि" "तस्य तावदेव चिरम्" इत्यु-पदिश्यते ।। इतश्च न प्रधानम् -

1.1.9 प्रतिज्ञाविरोधात् ।। 9 ।।

1.1.9

प्रधानकारणत्वे प्रतिज्ञाविरोधश्च भवति । वाक्योपक्रमे ह्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञातम् । तच्च कार्य-कारणयोरनन्यत्वेन कारणभूतसद्विज्ञानात्तत्कार्यभूतचेतनाचेतनप्रपञ्चस्य ज्ञाततयैवोपपादनीयम् ।

1.1.10

तत्तु प्रधा-नकारणत्वे चेतनवर्गस्य प्रधानकार्यत्वाभावात् प्रधानविज्ञानेन चेतनवर्गविज्ञानासिद्धेर्विरुद्धयते ।। इतश्च न प्रधानम् -

1.1.10 स्वाप्ययात् ।। 10 ।।

1.1.10

तदेव सच्छब्दवाच्यं प्रकृत्याह "स्वप्नान्तं मे समोम्य विजानीहीति यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते स्वं ह्यपीतो भवति" इति सुषुप्तं जीवं सता

1.1.10

 

सम्पन्नं, स्वमपीतः-स्वस्मिन् प्रलीन इति व्यपदिशति । प्रलयश्च-स्वकारणे लयः । न चाचेतनं प्रधानं चेतनस्य जीवस्य कारणं भवितुमर्हति । स्वमपीतो भवति आत्मानमेव जीवोऽपीतो भवतीत्यर्थः । चिद्वस्तुशरीरकं तदात्मभूतं ब्रह्मैव जीवशब्देनाभिधीयत इति नामरूपव्याकरणश्रुत्योक्तम् । तज्जीवशब्दाभिधेयं ब्रह्म सुषुप्ति-कालेऽपि प्रलयकालइव नामरूपपरिष्वङ्गाभावात् केवलसच्छब्दाभिधेयमिति "सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति इत्युच्यते । तथा समानप्रकरणे नामरूपपरिष्वङ्गाभावेन प्राज्ञेनैव परिष्वङ्गात् "प्राज्ञे-नात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्" इत्युच्यते । आमोक्षाज्जीवस्य नामरूपपरिष्वङ्गादेव

1.1.10

 

हि स्वव्यतिरिक्तविषयज्ञानोदयः । सुषुप्तिकाले हि नामरूपे विहाय सता सम्परिष्वक्तः पुनरपि जागरदशायां नामरूपे परिष्वज्य तन्नामरूपो भवतीति श्रुत्यन्तरे स्पष्टमभिधीयते "यद्वा सुप्तः स्वप्नं न कथञ्चन पश्यति अथ हास्मिन् प्राण एवैकधा भवति" तस्माद्वा आत्मनः प्राणा यथायतनं विप्रतिष्ठन्ते" तथा "त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा दंशो वा मशको वा यद्यद्भवन्ति तथा भवन्ति" इति । तथा सुषुप्तं जीवं "प्राज्ञे-

1.1.10

 

नात्मना सम्परिष्वक्तः" इति च वदति । तस्मात्सच्छब्दवाच्यः परं ब्रह्म सर्वज्ञः परमेश्वरः पुरुषोत्तम एव । तदाह वृत्तिकारः "सता सोम्य तदा सम्पन्नो भवतीति, सम्पत्त्यसम्पत्तिभ्यामेतदध्यवसीयते "प्राज्ञेनात्मना सम्परि-ष्वक्त" इति चाहेति ।। इतश्च न प्रधानम् -

1.1.11 गतिसामान्यात् ।। 11 ।।

1.1.11

"आत्मा वा इदमेक एवाग्र आसीन्नान्यत् किञ्चन मिषत् । स ईक्षत लोकान्नु सृजा इति स इमांल्लोका-नसृजत" "तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्य्भः पृथिवी" "तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदः" इत्यादिसृष्टिवाक्यानां या गतिः-प्रवृत्तिः, तत्सा-मान्यात् तत्समानार्थत्वादस्य; तेषु च सर्वेषु सर्वेश्वरः कारणमवगम्यते । तस्मादत्रापि सर्वेश्वर एव कारणमिति निश्चीयते ।।

1.1.12 श्रुतत्वाच्च ।। 12 ।।

1.1.12

 

श्रुतमेव ह्यस्यामुपनिषदि अस्य सच्छब्दवाच्यस्य आत्मत्वेन नामरूपयोर्व्याकतॅत्वं सर्वज्ञत्वं सर्वशक्तित्वं सर्वाधारत्वमपहतपाप्मत्वादिकं सत्यकामत्वं सत्यसङ्कल्पत्वञ्च "अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" "सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः" "ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा" "यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन् समाहितम् । तस्मिन्कामाः समाहिताः" एष आत्माऽप-हतपाप्मा विजरो विमृत्युर्विशोकोऽविजघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पः" इति । तथा च श्रुत्यन्तराणि

1.1.12

 

"न तस्य कश्चित्पतिरस्ति लोके न चेशिता नैव च तस्य लिङ्गम् । स कारणं कारणाधिपाधिपो न चास्य कश्चि-ज्जनिता न चाधिपः" सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन् यदास्ते" "अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा" "विश्वात्मानं परायणम्" "पतिं विश्वस्यात्मेश्वरम्" "यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूय-तेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः" "एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः" इत्यादीनि । तस्माज्जगत्कारणवादिवाक्यं न प्रधानादिप्रतिपादनयोग्यम्, अतः सर्वज्ञस्सर्वशक्ति-स्सर्वेश्वरेश्वरो निरस्तनिखिलदोषगन्धोऽनवधिकातिशयासङ्खयेयकल्याणगुणगणौघमहार्णवः पुरुषोत्तमो नारा-यण एव निखिलजगदेककारणं जिज्ञास्यं ब्रह्मेति स्थितम् ।

अत एव निर्विशेषचिन्मात्रब्रह्मवादोपि सूत्रकारेणाभिः श्रुतिभिनिर्रस्तो वेदितव्यः, पारमार्थिकमुख्येक्षणा-

1.1.12

 

दिगुणयोगि जिज्ञास्यं ब्रह्मेति स्थापनात् । निर्विशेषवादे हि साक्षित्वमप्यपारमार्थिकं वेदान्तवेद्यं ब्रह्म जि-ज्ञास्यतया प्रतिज्ञातम्, तच्च चेतनमिति "ईक्षतेर्नाशब्दम्" इत्यादिभिस्सूत्रैः प्रतिपाद्यते । चेतनत्वं नाम चै-तन्यगुणयोगः । अत ईक्षणगुणविरहिणः प्रधानतुल्यत्वमेव । किञ्च निर्विशेषप्रकाशमात्रब्रह्मवादे तस्य प्र-काशत्वमपि दुरुपपादम् । प्रकाशो हि नाम स्वस्य परस्य च व्यवहारयोग्यतामापादयन् वस्तुविशेषः । निर्वि-शेषस्य वस्तुनस्तदुभयरूपत्वाभावाद्घटादिवदचित्त्वमेव । तदुभयरूपत्वाभावेऽपि तत्क्षमत्वमस्तीति चेत् तन्न, तत्क्षमत्वं हि तत्सामर्थ्यमेव । सामर्थ्यगुणयोगो हि निर्विशेषवादः परित्यक्तः स्यात् । अथ श्रुतिप्रामाण्याद-

1.1.12

 

यमेको विशेषोऽभ्युपगम्यत इति चेत्, हन्त तर्हि तत एव सर्वज्ञता, सर्वशक्तित्वम्, सर्वेश्वरेश्वरत्वं, सर्वक-ल्याणगुणाकरत्वम्, सकलहेयप्रत्यनीकतेत्यादयः सर्वेऽभ्युपगन्तव्याः । शक्तिमत्त्वं च कार्यविशेषानुगुणत्वम्; तच्च कार्यविशेषैकनिरूपणीयम् । कार्यविशेषस्य निष्प्रमाणकत्वे तदेकनिरूपणीये शक्तिमत्त्वमपि निष्प्रमा- णकं स्यात् । किञ्च निर्विशेषवस्तुवादिनो वस्तुत्वमपि निष्प्रमाणम् । प्रत्यक्षानुमानागमस्वानुभवाः सवि-शेषगोचरा इति पूर्वमेवोक्तम् । तस्माद्विचित्रचेतनाचेतनात्मकजगद्रूपेण "बहु स्या"मितीक्षणक्षमः पुरुषोत्तम एव जिज्ञास्य इति सिद्धम् ।।

1.1.12

 

एवं जिज्ञासितस्य ब्रह्मणश्चेतनभोग्यभूतजडरूपसत्त्वरजस्तमोमयप्रधानाद्वयावृत्तिरुक्ता, इदानीं कर्मवश्यात् त्रिगुणात्मकप्रकृतिसंसर्गनिमित्तनानाविधानन्तदुःखसागरनिमज्जनेनाशुद्धाच्छुद्धाच्च प्रत्यगात्मनोऽन्यन्नि-खिलहेयप्रत्यनीकनिरतिशयानन्दं ब्रह्मेति प्रतिपाद्यते ।

1.1.13 आनन्दमयो ऽभ्यासात् ।। 13 ।।

1.1.13

 

तैत्तिरीया अधीयते "स वा एष पुरुषोऽन्नरसमयः" इति प्रकृत्य "तस्माद्वा एतस्मा-द्विज्ञानमयात् । अन्योऽन्तर आत्माऽऽनन्दमयः" इति । तत्र सन्देहः, किमयमानन्दमयो बन्धमोक्षभागिनः प्रत्यगात्मनो जीवशब्दाभिलपनीयादन्यः परमात्मा; उत स एव ? इति । किं युक्तम् ? प्रत्यगात्मेति । कुतः ? "तस्यैष एव शारीर आत्मा" इत्यानन्दमयस्य शारीरत्वश्रवणात्; शारीरो हि शरीरसम्बन्धी जीवात्मा ।

1.1.13

 

ननु च जगत्कारणतया प्रतिपादितस्य ब्रह्मणः सुखप्रतिपत्त्यर्थमन्नमयादीननुक्रम्य तदेव जगत्कारणमानन्दमय इत्युपदिशति; जगत्कारणञ्च "तदैक्षत" इतीक्षणश्रवणात्सर्वज्ञः सर्वेश्वर इत्युक्तम् । सत्यमुक्तम्, स तु जीवा-न्नातिरिच्यते । "अनेन

जीवेनात्मनाऽनुप्रविश्य" "तत्त्वमसि श्वेतकेतो" इति कारणतया निर्द्दिष्टस्य जीवसा-मानाधिकरण्यनिर्द्देशात् । सामानाधिकरण्यं ह्येकत्वप्रतिपादनपरम्; यथा "सोऽयं देवदत्तः" इत्यादौ । ईक्षा-पूर्विका च सृष्टिश्चेतनस्य जीवस्योपपद्यत एव, अतः "ब्रह्मविदाप्नोतिपरम्" इति जीवस्याचित्संसर्गवियुक्तं

1.1.13

 

स्वरूपं प्राप्यतयोपदिश्यते । अचिद्वियुक्तस्वरूपस्य लक्षणमिदमुच्यते "सत्यं ज्ञामनन्तं ब्रह्म" इति । तद्रूप-प्राप्तिरेव हि मोक्षः । "न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति । अशरीरं वावसन्तं न प्रियाप्रिये स्पृशतः" इति । अतो जीवस्याविद्यावियुक्तं स्वरूपं प्राप्यतया प्रक्रान्तमानन्दमय इत्युपदिश्यते । तथा हि; शाखाचन्द्रन्यायेनात्मस्वरूपं दर्शयितुम् "अन्नमयः पुरुषः" इति शरीरं प्रथमं निर्द्दिश्य तदन्तरभूतं तस्य धारकं पञ्चवृत्तिप्राणम् तस्याप्यन्तरभूतं मनः तदन्तरमूतां च बुदिं्ध "प्राणमयो" "मनोमयो" "विज्ञानमयः" इति तत्र तत्र बुध्यवतरणक्रमेण निर्द्दिश्य सर्वान्तरभूतं जीवात्मानम् "अन्योऽन्तर आत्माऽऽनन्दमयः" इत्युपदिश्-यान्तरात्मपरम्परां समापयति, अतो जीवात्मस्वरूपमेव "ब्रह्मविदाप्नोति" इति प्रक्रान्तं ब्रह्म; तदेवानन्दमय इत्युपदिष्टमिति निश्चीयते ।।

1.1.13

 

ननु च "ब्रह्म पुच्छं प्रतिष्ठा" इत्यानन्दमयादन्यद्ब्रह्मेति प्रतीयते । नैवम्; ब्रह्मैव स्वस्वभावविशेषेण पुरु-षविधत्वरूपितं शिरःपक्षपुच्छरूपेण व्यपदिश्यते । यथाऽन्नमयो देहोऽवयवी स्वस्मादनतिरिक्तैः स्वावयवैरेव "तस्येदमेव शिरः" इत्यादिना शिरः पक्षपुच्छवत्तया निदर्शितः, तथाऽऽनन्दमयं ब्रह्मापि स्वस्मादनतिरिक्तैः प्रियादिभिर्निदर्शितम्, तत्रावयवत्वेन रूपितानां प्रियमोदप्रमोदानन्दानामाश्रयतयाऽखण्डरूपमानन्दमयं "ब्रह्म पुच्छं प्रतिष्ठे"त्युच्यते । यदि चानन्दमयादन्यद्ब्रह्माभविष्यत्, "तस्माद्वा एतस्मादानन्दमयादन्योऽन्तर आत्मा ब्रह्म इत्यपि निरदैक्ष्यत, न चैवं निर्द्दिश्यते । एतदुक्तं भवति; "ब्रह्मविदाप्नोति परम्" इति प्रक्रान्तं ब्रह्म "सत्यं

1.1.13

 

ज्ञानमनन्तं ब्रह्म" इति लक्षणतस्सकलेतरव्यावृत्ताकारं प्रतिपाद्य तदेव "तस्माद्वा एतस्मादात्मनः" इत्यात्म-शबेदन दिर्द्दिश्य तस्य सर्वान्तरत्वेनात्मत्वं व्यञ्जयद्वाक्यमन्नमयादिषु तत्तदन्तरतया आत्मत्वेन निर्दिष्टान् प्राणमयादीनतिक्रम्य "अन्योऽन्तर आत्माऽऽनन्दमयः" इत्यात्मशब्देन निर्देशमानन्दमये समापयति । अत आत्मशब्देन प्रक्रान्तं ब्रह्मानन्दमय इति निश्चीयत इति । ननु च "ब्रह्म पुच्छं प्रतिष्ठा" इत्युक्तवा "असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुः" इति ब्रह्मज्ञानाज्ञानाभ्यामात्मनः सद्भावासद्भावौ दर्शयति; नानन्दमयज्ञानाज्ञानाभ्याम् । नचानन्दमयस्य प्रियमोदादिरूपेण सर्वलोकवि- दितस्य सद्भावासद्भावज्ञानाशङ्का युक्ता; अतो नानन्दमयमधिकृत्यायं श्लोक उदाहृतः, तस्मादानन्दमया-दन्यद्ब्रह्म । नैवम्; "इदं पुच्छं प्रतिष्ठा" "पृथिवी पुच्छं प्रतिष्ठा" "अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा" "महः पुच्छं प्रतिष्ठा" इत्युक्तवा तत्र तत्रोदाहृताः "अन्नाद्वै प्रजाः प्रजायन्ते" इत्यादिश्लोका यथा न पुच्छमात्रप्रतिपादनपराः, अपि त्वन्नमयादिपुरुषप्रतिपादनपराः, एवमत्राप्यानन्दमयस्यायम् "असन्नेव" इति श्लोकः, नानन्दमयव्यतिरिक्तस्य पुच्छस्य । आनन्दमयस्यैव ब्रह्मत्वेऽपि प्रियमोदादिरूपेण रूपितस्यापरिच्छिन्नानन्दस्य सद्भावासद्भावज्ञा-नाशङ्का युक्तैव । पुच्छब्रह्मणोऽप्यपरिच्छिन्नानन्दतयैव ह्यप्रसिद्धता । शिरः प्रभृत्यवयवित्वाभावाद्ब्रह्मणो

1.1.13

 

नानन्दमयो ब्रह्मेति चेत्; ब्रह्मणः पुच्छत्वप्रतिष्ठात्वाभावात्पुच्छमपि ब्रह्म न भवेत् । अथाविद्यापरिकल्पितस्य वस्तुनस्तस्याश्रयभूतत्वात् ब्रह्मणः पुच्छं प्रतिष्ठेति रूपणमात्रमित्युच्येत; हन्त तर्हि तस्यासुखाद्वयावृत्तस्या-नन्दमयस्य ब्रह्मणः प्रियशिरस्त्वादिरूपणं भविष्यति । एवञ्च "सत्यं ज्ञानमनन्तं ब्रह्म" इति विकारास्पद-जडपरिच्छिन्नवस्त्वन्तरव्यावृत्तस्यासुखाद्वयावृत्तिरानन्दमय इत्युपदिश्यते । ततश्चाखण्डैकरसानन्दरूपे

1.1.13

 

ब्रह्मण्यानन्दमय इति मयट् प्राणमय इव स्वार्थिको द्रष्टव्यः । तस्मादविद्यापरिकल्पितविविधविचित्रदेवा-दिभेदभिन्नस्य जीवात्मनः स्वाभाविकं रूपमखण्डैकरसं सुखैकतानमानन्दमय इत्युच्यत इत्यानन्दमयः प्रत्यगात्मा ।।

1.1.13

 

एवं प्राप्ते प्रचक्ष्महे - आनन्दमयोऽभ्यासात् । आनन्दमयः परमात्मा । कुतः ? अभ्यासात् "सैषानन्दस्य

1.1.13

 

मीमांसा भवति" इत्यारभ्य । "यतो वाचो निवर्तन्ते" इत्येवमन्तेन वाक्येन शतगुणितोत्तरक्रमेण निरतिशय-

1.1.13

 

दशाशिरस्को अभ्यस्यमान आनन्दः अनन्तदुःखमिश्रपरिमितसुखलवभागिनि जीवात्मन्यसम्भवन्निखि-लहेयप्रत्यनीकं कल्याणैकतानं सकलेतरविलक्षणं परमात्मानमेव स्वाश्रयमावेदयति । यथाह "तस्माद्वा

1.1.13

 

एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्मा आनन्दमयः" इति । विज्ञानमयो हि जीवः, न बुद्धिमात्रम्, मयट्-प्रत्ययेन व्यतिरेकप्रतीतेः । प्राणमये त्वगत्या स्वार्थकता आश्रीयते । इह तु तद्वतो जीवस्य सम्भवान्नानर्थक्यं न्याय्यम् । बद्धो मुक्तश्च प्रत्यगात्मा ज्ञातैवेत्यभ्यधिष्महि । प्राणमयादौ च मयडर्थसम्भवोऽनन्तरमेव वक्ष्यते । कथं तर्हि विज्ञानमयविषयश्लोके "विज्ञानं यज्ञं तनुते" इति केवलविज्ञानशब्दोपादानमुपपद्यते । ज्ञातुरेवात्मनः स्वरूपमपि स्वप्रकाशतया विज्ञानमित्युच्यत इति न दोषः, ज्ञानैकनिरूपणीयत्वाच्च ज्ञातुः स्वरूपस्य । स्व-रूपनिरूपणधर्मशब्दा हि धर्ममुखेन धर्मि स्वरूपमपि प्रतिपादयन्ति, गवादिशब्दवत् । "कृत्यल्युटो बहुलम्"

1.1.13

 

काण्वपाठगतस्य पर्यायस्य स्थाने "य आत्मनि तिष्ठन्" इति पर्यायमधीयाना माध्यन्तिनाः काण्वपाठगतं विज्ञानशब्दनिर्दि#ेष्टं जीवात्मेति स्फुटीकुर्वन्ति । विज्ञानमिति च नपुंसकलिङ्गं वस्तुत्वाभिप्रायम् । तदेवं वि-ज्ञानमयाज्जीवादन्यस्तदन्तरः परमात्मा आनन्दमयः । यद्यपि "विज्ञानं यज्ञं तनुते" इति श्लोकेन ज्ञानमात्रमेवो-पादीयते, न ज्ञाता; तथापि "अन्योन्तर आत्मा विज्ञानमयः" इति तद्वान् ज्ञातैवोपदिश्यते; यथा "अन्नाद्वै प्रजाः प्रजायन्ते" इत्यत्र श्लोके केवलान्नोपादानेऽपि "स वा एष पुरुषोऽन्नरसमयः" इत्यत्र नान्नमात्रं निर्दिष्टम्; अपि तु तन्मयः-तद्विकारः । एतत्सर्वं हृदि निधाय सूत्रकारः स्वयमेव "भेदव्यपदेशात्" इत्यन्तरमेव वदति ।

1.1.13

 

यदुक्तं जगत्कारणतया निर्दिष्टस्य "अनेन जीवेनात्मनाऽनुप्रविश्य" "तत्त्वमसि" इति च जीवसामानाधिक-रण्यनिर्देशाज्जगत्कारणमपि जीवस्वरूपान्नातिरिच्यत इति कृत्वा जीवस्यैव स्वरूपं "ब्रह्मविदाप्नोति परम्" इति प्रक्रान्तमसुखाद्वयावृत्तत्वेनानन्दमय इत्युपदिश्यत इति; तदयुक्तम्, जीवस्य चेतनत्वे सत्यपि "तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत" इति स्वसङ्कल्पपूर्वकानन्तविचित्रसृष्टियोगानुपपत्तेः । शुद्धावस्थस्यापि हि तस्य सर्गादिजगद्वयापारासम्भवो "जगद्वयापारवर्ज्जम्" "भोगमात्रसाम्यलिङ्गात्" इत्यत्रोपपादयिष्यते । कारणभूतस्य ब्रह्मणो जीवस्वरूपत्वानभ्युपगमे "अनेन जीवेनात्मना" "तत्त्वमसि" इति सामानाधिकरण्यनिर्देशः कथमु-पपद्यत इति चेत्; कथं वा निरस्तनिखिलदोषगन्धस्य सत्यसङ्कल्पस्य सर्वज्ञस्य सर्वशक्तेरनवधिकातिशया-सङ्खयेयकल्याणगुणगणस्य सकलकारणभूतस्य ब्रह्मणःनानाविधानन्तदुःखाकरकर्माधीनचिन्तितनिमिषि-तादिसकलप्रवृत्तिजीवस्वरूपत्वम् ? अन्यतरस्य मिथ्यात्वेनोपपद्यत इति चेत्; कस्य भोः ? किं हेयसम्बन्धस्य ? किं वा हेयप्रत्यनीकककल्याणैकतानस्वभावस्य ?

हेयप्रत्यनीककल्याणैकतानस्य ब्रह्मणोऽनाद्यविद्याश्रयत्वेन हेयसम्बन्धमिथ्याप्रतिभासो मिथ्यारूप इति चेत्; विप्रतिषिद्धमिदमभिधीयते, ब्रह्मणो हेयप्रत्यनीककल्याणै-

1.1.13

 

कतानत्वमनाद्ययिद्याश्रयत्वेनानन्तदुःखविषयमिथ्याप्रतिभासश्रयत्वञ्चेति । अविद्याश्रयत्वं तत्कार्यदुःखप्र-तिभासाश्रयत्वञ्चैव हि हेयसमबन्धः । तत्सम्बन्धित्वं तत्प्रत्यनीकत्वञ्च विरुद्धमेव । तथापि तस्य मिथ्या- त्वान्न विरोध इति मा वोचः । मिथ्याभूतमष्यपुरुषार्थ एव; यन्निरसनाय सर्वे वेदान्ता आरभ्यन्त इति ब्रूषे । निरसनीयापुरुषार्थयोगश्च हेयप्रत्यनीककल्याणैकतानतया विरुध्यते । किं कुर्मः ? "येनाश्रुतं श्रुतं भवति" इत्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय "सदेव सोम्येदमग्र आसीत्" इत्यादिना निखिलजगदेककारणताम् "तदैक्षत बहु स्याम्" इति सत्यसङ्कल्पताञ्च ब्रह्मणः प्रतिपाद्य तस्यैव ब्रह्मणः "तत्त्वमसि" इति सामानाधि-करण्येनानन्तदुःखाश्रयजीवैक्यं प्रतिपादितम्; तदन्यथानुपपत्त्या ब्रह्मण एवाविद्याश्रयत्वादि परिकल्पनीय-मिति चेत् । श्रुतोपपत्तयेऽप्यनुपपन्नं विरुद्धञ्च न कल्पनीयम् । अथ हेयसम्बन्ध एव पारमार्थिकः, कल्या-णैकस्वभावता तु मिथ्याभूता, हन्तैवं तापत्रयाभिहतचेतनोज्जिजीवयिषया प्रवृत्तं शास्त्रम्; तापत्रयाभिह- तिरेव तस्य पारमार्थिकी, कल्याणैकस्वभावस्तु भ्रान्तिपरिकल्पित इति बोधयत्सम्यगुज्जीवयति । अथैत-द्दोषपरिजिहीर्षया ब्रह्मणो निर्विशेषचिन्मात्रस्वरूपातिरिक्तजीवत्वदुःखित्वादिकं सत्यसङ्कल्पत्वकल्याण-गुणाकरत्वजगत्कारणत्वाद्यपि मिथ्याभूतमिति कल्पनीयमिति चेत्; अहो भवतां वाक्यार्थपर्यालोचन-

1.1.13

 

कुशलता । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं सर्वस्य मिथ्यात्वे सर्वस्य ज्ञातव्यस्याभावान्न सेत्स्यति । यथैक-विज्ञानं परमार्थविषयम्, तदन्तर्गतञ्च तदा तज्ज्ञानेन सर्वविज्ञानमिति शक्यते वक्तुम् । न हि परमार्थशुक्ति-काज्ञानेन तदाश्रयमपरमार्थरजतं ज्ञातं भवति । अथोच्येत-एकविज्ञानेन सर्वविज्ञानप्रतिज्ञायाः अयमर्थः-निर्वि-शेषवस्तुमात्रमेव सत्यम्, अन्यदसत्यमिति । न तर्हि "येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्" इति श्रूयते; येन श्रुतेनाश्रुतमपि श्रुतं भवतीति ह्यस्य वाक्यस्यार्थः । कारणतयोपलक्षितनिर्विशेषवस्तुमात्रस्यैव सद्भावश्चेत्प्रतिज्ञातः, "यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातम्" इति दृष्टान्तोऽपि न घटते । मृत्पि-ण्डविज्ञानेन हि तद्विकारस्य ज्ञातता निदशिर्ता । तत्रापि विकारस्यासत्यताभिप्रेतेति चेत्; मृद्विकारस्य रज्जु-सर्पादिवदसत्यत्वं शुश्रूषोरसिद्धमिति प्रतिज्ञातार्थसम्भावनाप्रदर्शनाय "यथा सोम्य" इति प्रसिद्धवदुपन्यासो न युज्यते । न च तत्त्वमस्यादिवाक्यजन्यज्ञानोत्पत्तेः प्राग्विकारजातस्यासत्यतामापादयत्तर्कानुगृहीतमननु-गृहीतं वा प्रमाणमुपलभामह इति । अयमर्थः "तदनन्यत्वमारम्भणशब्दादिभ्यः" इत्यत्र वक्ष्यते । तथा "सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्" "तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत" "हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" "सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः ऐतदात्म्यमिदं सर्वम्" इत्यादिनाऽस्य जगतः सदात्मकता, सृ#ेष्टेः पूर्वकाले नामरूपविभागप्रहाणम्, जगदुत्पत्तौ

1.1.13

 

एव स्वभाव इति न कश्चिद्दोष इति । तदिदमसारम्; सर्वेष्वेव वाक्येषु पदानां व्युत्पत्तिसिद्धार्थसंसर्गविशेषमात्रं प्रत्याय्यम्, तत्र समानाधिकरण्यवृत्तानामपि नीलादिपदानां नैल्यादिविशिष्ट एवार्थो व्युत्पत्तिसिद्धः पदान्त-रार्थसंसृष्टो अभिधीयते । यथा नीलमुत्पलमानयेत्युक्ते नीलिमादिविशिष्टमेवाऽऽनीयते, यथा च, "बिन्ध्या- टव्यां मदमुदितो मातङ्गगणस्तिष्ठति" इति पदद्वयावगतविशेषणविशिष्ट एवार्थः प्रतीयते । एवं वेदान्तवाक्ये-ष्वपि समानाधिकरणनिर्देशेषु तत्तद्विशेषणविशिष्टमेव ब्रह्मप्रतिपत्तव्यम् । न च विशेषणविवक्षायामितरवि-शिष्टाकारं वस्तु अन्येन विशेष्टव्यम्; अपि तु सर्वैर्विशेषणैः स्वरूपमेव विशेष्यम् ।

तथा हि- "भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम्" । अन्वयेन निवृत्त्या वा पदान्तरप्रतिपाद्याकारान्तरयुक्ततया तस्यैव वस्तुनः पदान्तरप्रतिपाद्यत्वं सामानाधिकरण्यकार्यम् । यथा "देव-दत्तः श्यामो

युवा लोहिताक्षोऽदीनोऽकृपणोऽनवद्यः इति । यत्र त्वेकस्मिन् वस्तुनि समन्वयायोग्यं विशेषणद्वयं

1.1.13

 

समानाधिकरणपदनिर्दिष्टम्, तत्राप्यन्यतरत्पदममुख्यवृत्तमाश्रीयते, न द्वयम्; यथा "गौर्वाहीकः" इति । नी-लोत्पलादिषु तु विशेषणद्वयान्वयाविरोधादेकमेवोभयविशिष्टं प्रतिपाद्यते । अथ मनुषे-एकविशेषणप्रति-सम्बन्धित्वेन निरूप्यमाणं विशेषणान्तरप्रतिसम्बन्धित्वाद्विलक्षणमिति घटपटयोरिवैकविभक्तिनिर्देशे अप्यैक्यप्रतिपादनासम्भवात्समानाधिकरणशब्दस्य न विशिष्टप्रतिपादनपरत्वम्, अपि तु विशेषणमुखेन स्वरूपमुपस्थाप्य तदैक्यप्रतिपादनपरत्वमेवेति । स्यादेतदेवम्; यदि विशेषणद्वयप्रतिसम्बन्धित्वमात्रमेवैक्यं निरुन्ध्यात् । न चैतदस्ति; एकस्मिन् धर्मिण्युपसंहर्त्तुमयोग्यधर्मद्वयविशिष्टत्वमेव ह्येकत्वं निरुणद्धि । अयो-ग्यता च प्रमाणान्तरसिद्धा घटत्वपटत्वयोः । "नीलमुत्पलम्" इत्यादि#ुषु तु दण्डित्वकुण्डलित्ववद्रूपवत्त्वरस-

1.1.13

 

वत्त्वगन्धवत्त्वादिवच्च विरोधो नोपलभ्यते । न केवलमविरोध एव; प्रवृत्तिनिमित्तभेदेनहकार्थनिष्ठत्वरूपं सामानाधिकरण्यमुपपादयत्येव धर्मद्वयविशिष्टताम् । अन्यथा स्वरूपमात्रैक्ये अनेकपदप्रवृत्तौ निमित्ता-भावात्सामानाधिकरण्यमेव न स्यात् । विशेषणानां स्वसम्बन्धानादरेण वस्तुस्वरूपोपलक्षणपरत्वे सत्ये- केनैव वस्तूपलक्षितमित्युपलक्षणान्तरमनर्थकमेव; उपलक्षणान्तरोपलक्ष्याकारभेदाभ्युपगमे तेनाकारेण सविशेषत्वप्रसङ्गः । सोऽयं देवदत्त इत्यत्रापि लक्षणागन्धो न विद्यते, विरोधाभावात् । देशान्तरसम्बन्धि-

1.1.13

तयाऽतीतस्य सं-निहितदेशसंबन्धितया वर्तमानत्वाविरोधात् । अत एव हि सोऽयमिति प्रत्यभिज्ञया कालद्वयसंबन्धिनो वस्तुन ऐक्यमुपपाद्यते वस्तुनः स्थिरत्ववादिभिः । अन्यथा प्रतीतिविरोधे सति सर्वेषां क्षणिकत्वमेव स्यात् । देशद्वयसंबन्धविरोधस्तु कालभेदेन परिह्रियते ।।

यतः समानाधिकरणपदानामनेकविशेषणविशिष्टैकार्थवाचित्वम्, अत एव "अरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणाति" इत्यारुण्यादिविशिष्टैकहायन्या क्रयः साध्यतया विधीयते ।।

तदुक्तम्-"अर्थैकत्वे द्रव्यगुणयोरैककर्म्यान्नियमः स्यात्" इति ।

तत्रैवं पूर्वपक्षी मन्यते-यद्यप्यरुणयेति पदमाकृतेरिव गुणस्यापि द्रव्यप्रकारतैकस्वभावत्वात् द्रव्य-पर्यन्तमेवारुणिमानमभिदधाति, तथापि एकहायन्यन्वयनियमोऽरुरिम्नो न संभवति; एकहायन्या क्रीणाति; तच्चारुणयेत्यर्थद्वयविधानासंभवात् ।

ततश्च अरुणयेति वाक्यं भित्त्वा प्रकरणविहित सर्वद्रव्यपर्यन्तमेवारुणिमानमविशेषेणाभिदधाति । अरुणयेति स्त्रीलिङ्गनिर्देशः प्रकरणविहितसर्वलिङ्गकद्रव्याणां प्रदर्शनार्थः । तस्मादेकहायन्यन्वयनियमोऽरुणि-म्नो न स्यादिति ।

अत्राभिधीयते-"अर्थैकत्वे द्रव्यगुणयोरैककर्म्यान्नियमः स्यात् । "अरुणयैकहायन्या" इत्यारुण्य-विशिष्टद्रव्यैकहायनीद्रव्यवाचिपदयोः सामानाधिकरण्येनार्थैकत्वे सिद्धे सति एकहायनीद्रव्यारुण्यगुणयोः अरुणयेति पदेनैव विशेषणविशेष्यभावेन संबन्धितय्राभिहितयोः क्रयाख्यैककर्मान्वयाविरोधात् अरुणिम्नः क्रयसाधनभूतैकहायन्यन्वयनियमः स्यात् ।।

यद्येकहायन्याः क्रयसंबन्धवत् अरुणिमसंबन्धोऽपि वाक्यावसेयः स्यात्, तदा वाक्यस्यार्थद्वयवि- धानं स्यात् । न चैतदस्ति, अरुणयेति पदेनैवारुणिमविशिष्टद्रव्यमभिहितम् । एकहायनीपदसामानाधिकर- ण्येन तस्यैकहायनीत्वमात्रमवगम्यते, न गुणसंबन्धः । विशिष्टद्रव्यैक्यमेव हि सामानाधिकरण्यस्यार्थः । "भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम्" इति हि सामानाधिकरण्यलक्षणम् ।

अत एव हि "रक्तःपटो भवति" इत्यादिष्वैकार्थ्यादेकवाक्यत्वम् । पटस्य भवनक्रियासंबन्धे हि वाक्यव्यापारः । रागसंबन्धस्तु रक्तपदेनैवाभिहितः । रागसंबन्धिद्रव्यं पट इत्येतावन्मात्रं सामानाधिकरण्या-वसेयम् । एवमेकेन गुणेन द्वाभ्यां बहुभिर्वा, तेन तेन पदेन समस्तेन व्यस्तेन वा विशिष्टमुपस्थाप्य सामा-नाधिकरण्येन सर्वविशेषणविशिष्टोऽथर् एक इति ज्ञापयित्वा तस्य क्रियासंबन्धाभिधानमविरुद्धम्, "देवदत्तः श्या-मो युवा लोहिताक्षः दण्डी कुण्डली तिष्ठति; शुक्लेन वाससा यवनिकां संपादयेत्; नीलमुत्पलमानय; नीलोत्पलमानय; गामानय शुक्ला शोभनाक्षीम्; "अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत्" इति । एवम् "अरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणाति" इति । एतदुक्तं भवति-यथा "काष्ठैः स्थाल्यामोदनं पचेत्" इत्य-नेककारकविशिष्टैका क्रिया युगपत् प्रतीयते; तथा समानाधिकरणपदसंघाताभिहितमेकैकं कारकं तत्तत्कार-कप्रतिपत्तिवेलायामेवानेकविशेषणविशिष्टं युगपत्प्रतिपन्नं क्रियायामन्वेतीति न कश्चिद्विरोधः, "खादिरैः शुष्कैः काष्ठैः समपरिमाणे भाण्डे पायसं शाल्योदनं समर्थः पाचकः पचेत्" इत्यादिष्विति ।

यत्तु(यत्तूक्तम्) उपात्तद्रव्यकवाक्यस्थगुणशब्दः केवलगुणाभिधायीति अरुणयेति पदेन केवलगुण-स्यैवाभिधानमिति । तन्नोपपद्यते-लोकवेदेयोर्द्रव्यवाचिपदसमानाधिकरणस्य गुणवाचिनः क्वचिदपि केवल-

गुणाभिधानादर्शनात् । उपात्तद्रव्यकवाक्यस्थं गुणपदं केवलगुणाभिधायीप्यसङ्गतम्; "पटः शुक्लः" इत्या- दिषु उपात्तद्रव्यकेऽपि गुणविशष्टस्यैवाभिधानात् । "पटस्य शुक्लः" इत्यत्र शौक्लयविशिष्टपटाप्रतिपत्तिः असमा-नविभक्तिनिर्देकृता; न पुनरुपात्तद्रव्यकत्वकृता । तत्रैव "पटस्य शुक्लो भागः" इत्यादिषु समानविभक्तिनिर्देशे शौक्लयविशिष्टद्रव्यं प्रतीयते ।

यत्पुनः क्रयस्यैकहान्यवरुद्धतयाऽरुणिम्नः क्रयान्वयो न संभवतीति-तदपि विरोधिगुणरहितद्रव्यवा-चिपदसमानाधिकरणगुणपदस्य तदाश्रयगुणाभिधानेन क्रियापदान्वयाविरोधादसङ्गतम् । राद्धान्ते च उक्त-न्यायेनारुणिम्नः शाब्दे द्रव्यान्वये सिद्धे, द्रव्यगुणयोः क्रयसाधनत्वानुपपत्त्या अर्थात् परस्परान्वयः सिध्यती-त्यप्यसङ्गतम् । अतो यथोक्त एवार्थः ।।

तस्मात् तत्त्वमस्यादिसामानाधिकरण्ये पदद्वयाभिहितविशेषणापरित्यागेनैवैक्यप्रतिपादनं वर्णनी- यम् । तत्तु

अनाद्यविद्योपहितानवधिकदुःखभागिनः शुद्धयशुद्धयुभयावस्थात् चेतनादर्थान्तरभूतम् अशेष-हेयप्रत्यनीकानवधिककल्याणगुणैकतानं परमात्मानमनभ्युपगच्छतो न संभवति ।। अभ्युपगच्छतोऽपि समानाधिकरणपदानां यथावस्थितविशेषणविशिष्टैक्यप्रतिपादनपरत्वाश्रयणे त्वम्पदप्रतिपन्नसकलदोषभा- गित्वं परस्य प्रसज्येतेति चेत्-नैतदेवम्; त्वम्पदेनापि जीवान्तर्यामिणः परस्यैवाभिधानात् । एतदुक्तं भवति-

सच्छब्दाभिहितं निरस्तनिखिलदोषगन्धं सत्यसङ्कल्पत्वमिश्रानवधिकातिशयासङ्खयेयकल्याणगुण-गणं समस्तकारणभूतं परं ब्रह्म "बहु स्याम्" इति सङ्कल्प्य तेजोबन्नप्रमुखं कृत्स्नं जगत् सृष्टवा, तस्मिन् देवा-दिविचित्रसंस्थानसंस्थिते जगति चेतनं जीववर्गं स्वकर्मानुगुणेषु शरीरेष्वात्मतया प्रवेश्य, स्वयञ्च स्वेच्छ- यैव जीवान्तरात्मतयाऽनुप्रविश्य एवम्भूतेषु स्वपर्यन्तेषु देवाद्याकारेषु संघातेषु नामरूपे व्याकरोत् । एवं-(स्व)रूपसंघातस्यैव वस्तुत्वं शब्दवाच्यत्वञ्चाकरोदित्यर्थः । अनेन जीवेनात्मना-जीवेन मयेति निर्देशो जीवस्य ब्रह्मात्मकत्वं दर्शयति । ब्रह्मात्मकत्वं च जीवस्य जीवान्तरात्मतया ब्रह्मणोऽनुप्रवेशादित्यवगम्यते; "इदं सर्वमसृजत, यदिदं किञ्च । तत् सृष्टवा तदेवानुप्राविशत् । तदनुप्रविश्य सच्च त्यच्चाभवत्" इति । अत्र इदं सर्वमिति निर्दिष्टं चेतनाचेतन वस्तुट्वयं सत्यच्छब्दाभ्यां विज्ञानाविज्ञानशब्दाभ्यां विभज्य निर्दिश्य चिद्व-स्तुन्यपि ब्रह्मणोऽनुब्रवेशाभिधानात् । अत एवं नामरूपव्याकरणात् सर्वे वाचकाः शब्दा अचिज्जीवविशिष्ट-परमात्मवाचिन इत्यवगतमिति ।।

किञ्च "ऐतदात्म्यमिदं सर्वम्" इति चेतनमिश्रं प्रपञ्चम् इदं सर्वमिति निर्दिश्य, तस्यैष आत्मा इति प्रतिपादितम् । एवञ्च सर्वं चेतनाचेतनं प्रति ब्रह्मण आत्मत्वेन सर्वं सचेतनं जगत् तस्य शरीरं भवति । तथा च श्रुत्यन्तराणि, "अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा", "यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद । यस्य पृथिवी शरीरम् । यःपृथिवीमन्तरो यमयति । स त आत्मा अन्तर्याम्यमृतः" इति प्रारभ्य "य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरम् । य आत्मानमन्तरो यमयति । स त आत्मा अन्तर्याम्यमृतः" (इत्यादि), "यः पृथिवीमन्तरे सञ्चरन् यस्य पृथिवी शरीरम् । योऽपोन्तरे सञ्चरन् यस्याऽऽपः शरीरम्" इत्यारभ्य "योऽक्षरमन्तरे सञ्चरन् यस्याक्षरं शरीरम् । यमक्षरं न वेद-एष सर्वभूतान्तरात्माऽपहत-पाप्मादिव्यो देव एको नारायणः" इत्यादीनि सचेतनं जगत् तस्य शरीरत्वेन निर्दिश्य तस्यात्मत्वेन परमा-त्मानमुपदिशन्ति । अतश्चेतनवाचिनोऽपि शब्दाश्चेतनस्याप्यात्मभूतं चेतनशरीरकं परमात्मानमेवाभिदधति, यथा अचेतनदेवादिसंस्थानपिण्डवाचिनः शब्दाः तत्तच्छरीरकजीवात्मन एव वाचकाः, "चत्वारः पञ्चदश

रात्राः....देवत्वं गच्छन्ति" इत्यादिषु । देवा भवन्तीत्यर्थः । शरीरस्य शरीरिणं प्रति प्रकारत्वात् प्रकारवाचिनां च शब्दानां प्रकारिण्येव पर्यवसानात्, शरीरवाचिनां शब्दानां शरीरिपर्यवसानं न्याय्यम् । प्रकारो हि नाम इदमित्थमिति प्रतीयमाने वस्तुनि इत्थमिति प्रतीयमानोंऽशः । तस्य तद्वस्त्वपेक्षत्वेन तत्प्रतीतेस्तदपेक्षत्वात् तस्मिन्नेव प्रर्यवसानं युक्तिमिति तस्य प्रतिपादकोऽपि शब्दः तस्मिन्नेव पर्यवस्यति । अत एव "गौरश्वो मनु- ष्यः" इत्यादिप्रकारभूताकृतिवाचिनः शब्दाः प्रकारिणि पिण्डे(ऽ)पर्यवस्यन्तः पिण्डस्यापि चेतनशरीरत्वेन तत्प्रकारत्वात् पिण्डशरीरकचेतनस्यापि परमात्मप्रकारत्वाच्च परमात्मन्येव पर्यवस्यन्तीति सर्वशब्दानां परमात्मैव वाच्य इति परमात्मवाचिशब्देन सामानाधिकरण्यं मुख्यमेव ।।

ननु "खण्डो गौः खण्डः शुक्लः इति जातिगुणवाचिनामेव पदानां द्रव्यवाचिपदैः सह सामानाधिकर- ण्यं दृष्टम्, द्रव्याणां तु द्रव्यान्तरप्रकारत्वे मत्वर्थीयप्रत्ययो दृष्टः, यथा "दण्डी कुण्डली" इति ।। नैवम् । जाति-र्वा गुणो वा द्रव्यं वा नैतेष्वेकमेव सामानाधिकरण्ये प्रयोजकम्; अन्योन्यस्मिन् व्यभिचारात् । यस्य पदा-र्थस्य, कस्यचित् प्रकारतयैव सद्भावः, तस्य तदपृथक्सिद्धिस्थितिप्रतीतिभिः तद्वाचिनां शब्दानां स्वाभिधे-यविशिष्टद्रव्यवाचित्वात् धर्मान्तरविशिष्टतद्द्रव्यवाचिना शब्देन सामानाधिकरण्यं युक्तमेव । यत्र पुनः पृथक्सिद्धस्य स्वनिष्ठस्यैव द्रव्यस्य कदाचित् क्वचित् द्रव्यान्तरप्रकारत्वमिष्यते, तत्र मत्वर्थीयप्रत्यय इति निरवद्यम् ।

तदेवं परमात्मनः शरीरतया तत्प्रकारत्वादचिद्विशिष्टजीवस्यापि जीवनिर्देशविशेषरूपाः अहं त्व-मित्यादिशब्दाः परमात्मानमेवाऽचक्षत इति "तत्त्वमसि" इति सामानाधिकरण्येनोपसंहृतम् । एवञ्च सति परमात्मानं प्रति जीवस्य शरीरतया अन्वयात् जीवगता धर्माः परमात्मानं न स्पृशन्ति, यथा स्वशरीरगता बालत्वयुवत्वादयो धर्माः जीवं न स्पृशन्ति । अतः "तत्त्वमसि" इति सामानाधिकरण्ये तत्पदं जगत्कारणभूतं सत्यसङ्कल्पं सर्वकल्याणगुणाकरं निरस्तसमस्तहेयगन्धं परमात्मानमाचष्टे, त्वमिति च तमेव सशरीरजीव-शरीरकमाचष्ट इति सामानाधिकरण्यं मुख्यवृत्तम्, प्रकरणाविरोधः, सर्वश्रुत्यविरोधः, ब्रह्मणि निरवद्ये कल्याणैकताने अविद्यादिदोषगन्धाभावश्च । अतो जीवसामानाधिकरण्यमपि

विशेषणभूताज्जीवादन्यत्वमे-वापादयतीति विज्ञानमयाज्जीवादन्य एवाऽऽनन्दभयः परमात्मा ।।

यदुक्तम्-"तस्यैष एव शरीर आत्मा" इत्यानन्दमयस्य शारीरत्वश्रवणाज्जीवादन्यत्वं न संभवतीति । तदयुक्तम्; अस्मिन् प्रकरणे सर्वत्र "तस्यैष एव शारीर आत्मा, यः पूर्वस्य" इति परमात्मन एव शारीरात्म-त्वाभिधानात् ।। कथम् ।। "तस्माद्वा एतस्मादात्मन आकाशः संभूतः" इत्याकाशादिसृज्यवर्गस्य परमकारण-त्वेन प्रज्ञातजीवव्यतिरेकस्य परस्य ब्रह्मणः आत्मत्वेन व्यपदेशात् तद्वयतिरिक्ताकाशादीनामन्नमयपर्यन्तानां तच्छरीरत्वमवगम्यते । "यस्य; पृथिवी शरीरम्... यस्या पश्शरीरम्...यस्य तेजश्शरीरम्...यस्य वायुः शरीरम्... यस्याकाशः शरीरम्...यस्याक्षरं शरीरम्...यस्य मृत्युः शरीरम्, एष सर्वभूतान्तरात्मा अपहत-पाप्मा दिव्यो देव एको नारायणः" इति सुवालश्रुत्या सर्वतत्त्वानां परमात्मशरीरत्वं स्पष्टमभिधीयते । अतः "तस्माद्वा एतस्मादात्मनः" इत्यत्रैवान्नमयस्य परमात्मैव शारीर आत्मेत्यवगतः । प्राणमयं प्रकृत्याह, "तस्यैष एव शारीर आत्मा, यः पूर्वस्य" इति । पूर्वस्यान्नमयस्य यः शारीर आत्मा श्रुत्यन्तरसिद्धः परमकारणभूतः परमात्मा, स एष(व) तस्य प्राणमयस्यापि शारीर आत्मेत्यर्थः । एवं मनोमयविज्ञानमययोर्द्रष्टव्यम् । आन-न्दमये तु "एष एव" इति निर्देशः तस्यानन्यात्मत्वं दर्शयितुम् ।। तत् कथम् ।। विज्ञानमयस्यापि पूर्वोक्तया

नीत्या परमात्मैव शारीर आत्मेत्यवगतः । एवं सति विज्ञानमयस्य यः शारीर आत्मा स एवानन्दमयस्यापि शारीर आत्मेत्युक्ते, आनन्दमयस्याभ्यासावगतपरमात्मभावस्य परमात्मनः स्वयमेवात्मेत्यवगम्यते । एवञ्च स्वव्यतिरिक्तचेतनाचेतनवस्तुजातं स्वशरीरमिति स एव निरुपाधिकः शारीर आत्मा । अत एवेदं परं ब्रह्मा-धिकृत्य प्रवृत्तं शास्त्रं शारीरकमित्यभियुक्तैरभिधीयते । अतो विज्ञानमयाज्जीवादन्य एव परमात्मा आनन्द- मयः ।। 13 ।।

1.1.14

आह-नायमानन्दमयो जीवादन्यः, विकारशब्दस्य मयूटप्रत्ययस्य श्रवणात् ।। "मयड्वतयो..#ः" इति प्रकृत्य, "नित्यं वृद्धशरादिभ्यः" इति विकारार्थे मयट् स्मर्यते । वृद्धश्चायमानन्दशब्दः । ननु प्राचुर्येपि मयड- स्ति, "तत्प्रकृतवचने मयट्" इति स्मृतेः । यथा "अन्नमयो यज्ञः" इति । स एवायं भविष्यति ।। नैवम्; अन्न- मय इत्यप्रक्रमे विकारार्थत्वं दृष्टम्, अत औचित्यादस्यापि विकारार्थत्वमेव युक्तम् । किञ्च-प्राचुर्यार्थत्वेऽपि जीवादन्यत्वं न सिध्यति । तथा हि-आनन्दप्रचुर इत्युक्ते दुःखमिश्रत्वमवर्जनीयम् । आनन्दस्य हि प्राचुर्ये दुःखस्याल्पत्वमवगयमयति । दुःखमिश्रत्वमेव हि जीवत्वम् । अत औचित्यप्राप्तविकारार्थत्वमेव युक्तम् । किञ्च-लोके मृत्मयं हिरण्मयं दारुमयमित्यादिषु, वेदे च, "पर्णमयी जुहूः", "शमीमथ्यः स्त्रुचः" "दर्भमयी रशना" इत्यादिषु मयटो विकारार्थे प्रयोगबाहुल्यात् स एव प्रथमतरं धियमाधिरोहति । जीवस्य च आनन्द-विकारत्वमस्त्येव, तस्य स्वत आनन्दरूपस्य सतः संसारित्वावस्था तद्विकार एवेति । अतो विकारवाचिनो मयट्प्रत्ययस्य श्रवणात् आनन्दमयो जीवादनतिरिक्त इति ।।

तदेतदनुभाष्य परिहरति-

1.1.14 विकारशब्दान्नेति चेन्न प्राचुर्यात् ।। 1-1 14 ।।

1.1.14

नैतद्युक्तम्; कुतः? प्राचुर्यात्-परस्मिन् ब्रह्मण्यानन्दप्राचुर्यात् । प्राचुर्यार्थे च मयटः संभवात् । एत- दुक्तं भवति-शतगुणतोत्तरक्रमेणाभ्यस्यमानस्यानन्दस्य जीवाश्रयत्वासंभवाद्व्रह्माश्रयोऽयमानन्द इति निश्चिते सति, तस्मिन् ब्रह्मणि विकारासंभवात् प्राचुर्येऽपि मवड्#िवधिसंभवाच्चानन्दमयः परं ब्रह्मेति । औचि-त्यात् प्रयोगप्रौढ्या च मयटो विकारार्थत्वमर्थविरोधान्न संभवति । किञ्च औचित्यं प्राणमय एव परित्यक्तम्; तत्र विकारार्थत्वासंभवात् । अतस्तत्र पञ्चवृत्तेर्वायो प्राणवृत्तिमत्तामात्रेण प्राणमयत्वम्; प्राणापानादिषु पञ्चसु वृत्तिषु प्राणवृत्तेः प्राचुर्याद्वा । न च प्राचुर्ये मयट्प्रत्ययस्य प्रौढिर्नास्ति; अन्नमयो यज्ञ, शकटमयी यात्रा इत्यादिषु दर्शनात् ।।

यदुक्तमानन्दप्राचुर्यमल्पदुःखसद्भावमवगमयतीति-तदसत् । तत्प्रचुरत्वं हि तत्प्रभूतत्वम् , तच्छेतर- स्य सत्तां नावगमयति; अपि तु तस्यालपत्वं निवर्तयति । इतरसद्भावासद्भावौ तु प्रमाणान्तरावसेयौ । इह च प्रमाणान्तरेण तदभावोऽवगम्यते "अपहतपाप्मा" इत्यादिना । तत्र एतावदेव वक्तव्यम्-ब्रह्मानन्दस्य प्रभूत- त्वम् अन्यानन्दस्याल्पत्वमपेक्षत इति । उच्यते च तत्, "स एको मानुष आनन्दः" इत्यादिना जीवानन्दापे- क्षया ब्रह्मानन्दो निरतिशयदशापन्नः प्रभूत इति । यच्चोक्तम्-जीस्यानन्दविकारत्वं संभवतीति-तदपि नोप- पद्यते । जीवस्य ज्ञानानन्दस्वरूपस्य केनचिदाकारेण मृद इव घटाद्याकारेण परिणामः सकलश्रुतिस्मृतिन्या-यविरुद्धः । संसारदशायां तु कर्मणा ज्ञानानन्दौ सङ्कुचितावित्युपपादयिष्यते ।

अतश्चानन्दमयो जीवादन्यः परं ब्रह्म ।। 14 ।।

1.1.15

इतश्च जीवादन्य आनन्दमयः परं ब्रह्म-

1.1.15 तद्धेतुव्यपदेशाच्च ।। 1-1-15 ।।

1.1.15

"को ह्येवान्यात् कः प्राण्यात्, यदेष आकाश आनन्दो न स्यात् । एष ह्येवानन्दयाति" इति । एष

एव जीवान् आनन्दयतीति जीवानामानन्दहेतुरयं व्यपदिष्यते । अतश्चानन्दयितव्याज्जीवादानन्दयिताऽय- मन्य आनन्दमयः परमात्मेति विज्ञायते । आनन्दमय एवात्र आनन्दशब्देनोच्यत इति चानन्तरमेव वक्ष्यते ।। 15 ।।

1.1.16

इतश्च जीवादन्य आनन्दमयः-

1.1.16 मान्त्रवर्णिकमेव च गीयते ।। 1-1-16 ।।

1.1.16

"सत्यं ज्ञानमन्तं ब्रह्म" इति मन्त्रवर्णोदितं ब्रह्मैवानन्दमय इति गीयते । तत्तु जीवस्वरूपादन्यत् परं ब्रह्म । तथा हि-"ब्रह्मविदाप्नोति परम्" इति जीवस्य प्राप्यतया ब्रह्म निर्दिष्टम् ।। "तदेषाऽभ्युक्ता" इति । तत्-ब्रह्म, अभिमुखीकृत्य-प्रतिपाद्यतया परिगृह्य, ॠगेषा अध्येतृभिरुक्ता । ब्राह्मणोक्तस्यार्थस्य वैशद्यमनेन मन्त्रेण क्रियत इत्यर्थः । जीवस्योपासकस्य प्राप्यं ब्रह्म तस्माद्विलक्षणमेव । अनन्तरञ्च, "तस्माद्वा एतस्मा-दात्मन आकाशः संभूतः" इत्यारभ्य उत्तरोत्तरै ब्राह्मणैर्मन्त्रैश्च तदेव विशदीक्रियते । अतो जीवादन्य आनन्द- मयः ।। 16 ।।

1.1.17

अत्राह-यद्यप्युपासकात् प्राप्यस्य भेदेन भवितव्यम्-तथापि न वस्त्वन्तरं जीवात् मान्त्रवर्णिकं ब्रह्म, किंतु तस्यैवोपासकस्य निरस्तसमस्ताविद्यागन्धनिर्विशेषचिन्मात्रैकरसं शुद्धं स्वरूपम् । तदेव "सत्यं ज्ञानम-नन्तं ब्रह्म" इति मन्त्रेण विशोध्यते । तदेव च, "यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह" इति वाङ्गन-सागोचरतया निर्विशेषमिति गम्यते । अतस्तदेव मान्त्रवर्णिकमिति तस्मादनतिरिक्त आनन्दमय इति । अत उत्तरं पठति-

1.1.17 नेतरोऽनुपपत्तेः ।। 1-1-17 ।।

1.1.17

परमात्मा इतरो जीवशब्दाभिलप्यो मुक्तावस्थोऽपि न भवति मान्त्रवर्णिकः । कुतः? अनुपपत्तेः । तथाविधस्यात्मनः निरुपाधिकं विपश्चित्त्वं नोपपद्यते । इदमेव हि निरुपाधिकं विपश्चित्त्वं सोकामयत बहुस्यां प्रजायेय इति सत्यसङ्कल्यत्व प्रदर्शनेन विवरिष्यते विविधं पश्यच्चित्वं हि विपश्चित्त्वम् । पृषोदरादित्वात् पश्य-च्छब्दावयवस्य यच्छब्दस्य लोपं कृत्वा व्युत्पादितो विपश्चिच्छब्दः । यद्यपि मुक्तस्य विपश्चित्त्वं संभवति-तथा- पि तस्यैवात्मनः संसारदशायामविपश्चित्त्वमप्यस्तीति निरुपाधिकं विपश्चित्त्वं नोपपद्यते । निर्विशेषचिन्मात्र-तापन्नस्य मुक्तस्य विविधदर्शनाभावात् सुतरां विपश्चित्त्वं न संभवतीति ।।

न केनापि प्रमाणेन निर्विशेषं वस्तु प्रतिपाद्यत इति च पूर्वमेवोक्तम् । "यतो वाचो निवर्तन्ते इति च वाक्यं यदि वाङ्यनसयोः ब्रह्मणो निवृत्तिमभिदधीत, न ततो निर्विशेषतां वस्तुनोऽवगमयितुं शक्नुयात् । अपि तु वाङ्मनसयोस्तत्राप्रमाणतां वदेत् । तथा च सति तस्य तुच्छत्वमेवापद्यते । "ब्रह्मविदाप्नोति" इत्या- रभ्य ब्रह्मणो विपश्चित्त्वं जगत्कारणत्वं ज्ञानानन्दैकतानताम् इतरान् प्रति आनन्दयितृत्वं कामादेव चिद-चिदात्मकस्य कृत्स्नस्य स्त्रष्टृत्वं सृज्यवर्गानुप्रवेशकृततदात्मत्वं भयाभयहेतुत्वं वाय्वादित्यादीनां प्रशासि- तृत्वं शतगुणितोत्तरक्रमेण निरतिशयानन्दत्वम् अन्यच्चानेकं प्रतिपाद्य, वाङ्मनसयोः ब्रह्मणि प्रवृत्त्यभावेन निष्प्रमाणकं ब्रह्मेत्युच्यत इति भ्रान्तजल्पितम् । "यतो वाचो निवर्तन्ते" इति यच्छब्दनिर्दिष्टमर्थम् "आनन्दं ब्रह्मणो विद्वान्" इत्यानन्दशब्देन प्रतिनिर्दिश्य तस्य ब्रह्मसंबन्धित्वं ब्रह्मण इति व्यतिरेकनिर्देशेन प्रतिपाद्य, तदेव वाङ्मनसागोचरं विद्वान् इति तद्वेदनमभिदधत् वाक्यं जरद्गवादिवाक्यवत् अनर्थकं वाच्यनन्तर्गतञ्च

स्यात् । अतः शतगुणितोत्तरक्रमेण ब्रह्मानन्दस्यातिशयेयत्तां वक्तुमुद्यम्य तस्येयत्ताया अभावादेव वाङ्म-नसयोस्ततो निवृत्तिः,

"यतो वाचो निवर्तन्ते" इत्युच्यते । एवमियत्तारहितं ब्रह्मण आनन्दं विद्वान् कुतश्चनन विभेति इत्युच्यते । किञ्च अस्य मान्त्रवर्णिकस्य विपश्चितः "सोऽकामयत" इत्यारभ्य वक्ष्यमाणस्वसङ्कल्पा-वक्लृप्तजगज्जन्मस्थितिजगदन्तरात्मत्वादेर्मुक्तात्मस्वरूपादन्यत्वं सुस्पष्टमेव ।। 17 ।।

1.1.18

इतश्चोभयावस्थात्प्रत्यगात्मनोऽन्य आनन्दमयः-

1.1.18 भेदव्यपदेशाच्च ।। 1-1-18 ।।

1.1.18

"तस्माद्वा एतस्मादात्मन आकाशः" इत्यारभ्य मान्त्रवर्णिकं ब्रह्म व्यञ्जयत् वाक्यमन्नप्राणमनोभ्य इव जीवादपि तस्य भेदं व्यपदिशति, "तस्माद्वा एतस्माद्विज्ञानमयात् अन्योऽन्तर आत्माऽऽनन्दमयः" इति । अतो जीवाद्भेदस्य व्यपदेशाच्चायं मान्त्रवर्णिक आनन्दमयोऽन्य एवेति ज्ञायते ।। 18 ।।

1.1.19

इतश्च जीवादन्यः-

1.1.19 कामाच्च नाननुमानापेक्षा ।। 1-1-19 ।।

1.1.19

जीस्याविद्यापरवशस्य जगत्कारणत्वे ह्यवर्जनीया आनुमानिकप्रधानादिशब्दाभिधेयाचिद्वस्तुसंसर्गापेक्षा । तथैव हि चतुर्मुखादीनां कारणत्वम् । इह च सोऽकामयत बहु स्यां प्रजायेय" इत्यचित्संसर्गरहितस्य स्वकामा-देव विचित्रचिदचिद्वस्तुनः सृष्टिः, "इदं सर्वमसृजत, यदिदं किञ्च" इत्याभ्नायते । अतोऽस्यानन्दमयस्य जगत् सृजतो नानुमानिकाचिद्वस्तुसर्गापेक्षा प्रतीयते ।। 19 ।।

1.1.20

इतश्च जीवादन्य आनन्दमयः-

अस्मिन्नस्य च तद्योगं शास्ति ।। 1-1-20 ।।

अस्मिन्-आनन्दमये अस्य-जीवस्य तद्योगम्-आनन्दयोगम् शास्ति शास्त्रम्, "रसो वै सः । रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति" इति । रसशब्दाभिधेयानन्दमयलाभादयं जीवशब्दाभिलपनीयः आनन्दी भव-तीत्युच्यमाने, यल्लाभात् य आनन्दी भवति, स स एवेत्यनुन्मत्तः को ब्रवीतीत्यर्थः ।।

एवमानन्दमयः परं ब्रह्मेति निश्चिते सति, "यदेष आकाश आनन्दः", विज्ञानमानन्दं ब्रह्म" इत्या-दिष्वानन्दशब्देनानन्दमय एव परामृश्यते, यथा विज्ञानशब्देन विज्ञानमयः । अत एव "आनन्दं ब्रह्मणो विद्वान्" इति व्यतिरेकनिर्देशः । अत एव च "आनन्दमयमात्मानमुपसङ्कामति" इति फलनिर्देशश्च । उत्तरे चानुवाके पूर्वानुवाकोक्तानाम् अन्नमयादीनाम् "अन्नं ब्रह्मेति व्यजानात्", "प्राणो ब्रह्मेति व्यजानात्", "मनो ब्रह्मेति व्यजानात्", "विज्ञानं ब्रह्मेति व्यजानात्" इति प्रतिपादनात् "आनन्दो ब्रह्म" इत्यप्यानन्दमय-स्यैव प्रतिपादनमिति विज्ञायते । तत एव च तत्रापि "आनन्दमयमात्माननुपसंकम्य" इत्युपसंहृतम् ।

अतः प्रधानशब्दाभिलप्यादर्थान्तरभूतस्य परस्य ब्रह्मणो जीवशब्दाभिलपनीयादपि वस्तुनोऽर्थान्त- रत्वं सिद्धम् ।। 20 ।। इति आनन्दमयाधिकरणम् ।।

1.1.21

यद्यपि मन्दपुण्यानां जीवानां कामात् जगत्सृष्टिः अतिशयितानन्दयोगो भयाभयहेतुत्वमित्यादि न संभवति-तथापि विलक्षणपुण्यानामादित्येन्द्रप्रजापतिप्रभृतीनां संभवत्येवेतीमामाशङ्कां निराकरोति-

1.1.21 अन्तस्तद्धर्मोपदेशात् ।। 1-1-21 ।।

1.1.21

इममाम्नायते चान्दोग्ये-"य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आ प्रणरवात् सर्व एव सुवर्णः । तस्य कप्यासं पुण्डरीकमेवमक्षिणी । तस्योदिति नाम । स एष सर्वेभ्यः पाप्मभ्य

उदितः । उदेति ह वै सर्वेभ्यः पाप्मभ्या य एवं वेद । तस्यर्क्च साम च गेष्णौ इत्यधिदैवतम्" , "अथाध्या-त्मम्, । अथ य एषोऽन्तरक्षणि पुरुषो दृश्यते सैवर्क् तत् साम तदुक्थं तद्यजुस्तद्द्रद्ब्रह्म । तस्यैतस्य तदेव रूपम्, यदमुष्य रूपम् ।

यावमुष्य गेष्णौ, तौ गेष्णौ । यन्नाम्, तन्नाम" इति ।।

तत्र संदिह्यते-किमयम् अक्ष्यादित्यमण्डान्तर्वर्ती पुरुषः पुण्योपचयनिमितैश्वर्यः आदित्यादिशब्दा-भिलप्यो जीव एव, आहोस्वित् तदतिरिक्तः परमात्मेति । किं युक्तम् । उपचितपुण्यो जीव एवेति । कुतः । सशरीरत्वश्रवणात् । शरीरसंबन्धो हि जीवानामेव संभवति । कर्मानुगुणप्रियाप्रिययोगाय हि शरीरसंबन्धः । अत एव हि कर्मसंबन्धरहितस्य मोक्षस्य प्राप्यत्वमशरीरत्वेनोच्यते, "न ह वै सशरीरस्य सतः प्रियाप्रिययोर-पहतिरस्ति । अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः" इति । संभवति च पुण्यातिशयात् ज्ञानाधिक्यं शकत्याधिक्यञ्च । अत एव लोककामेशत्वादि तस्यैवोपपद्यते । तत एव चोपास्यत्वं फलदायित्वञ्च; पाप-क्षपणकरत्वेन मोक्षोपयोगित्वञ्च । मनुष्येष्वप्युपचितपुण्याः केचित् ज्ञानाक्तयादिभिरधिकतरा दृश्यन्ते; ततश्च सिद्धगन्धर्वादयः; ततश्च देवाः; ततश्चेन्द्रादयः । अतो ब्रह्मादिष्वन्यतम एवैकैकस्मिन् कल्पे पुण्यविशे-षेणैवम्भूतमैश्वर्य प्राप्तो जगत्सृष्टयाद्यपि करोतीति । जगत्कारणत्वजगदन्तरात्मत्वादिवाक्यम् अस्मिन्ने-वोपचितपुण्यविशेषे सर्वज्ञे सर्वशक्तौ वर्तते । अतो न जीवादतिरिक्तः परमात्मा नाम कश्चिदस्ति । एवञ्च सति, "अस्थूलमणनण्वह्रस्वम्" इत्यादयो जीवात्मनः स्वरूपाभिप्राया भवन्ति । मोक्षशास्त्राण्यपि तत्स्वरूप-तत्प्राप्त्युपायोपदेशपराणि-इति ।।

एवं प्राप्तेऽभिदीयते-अन्तस्तद्धर्मोपदेशात् । अन्तरादित्ये अन्तरक्षणि च यः पुरुषः प्रतीयते, स जीवा-दन्यः परमात्मैव । कुतः । तद्धर्मोपदेशात् । जीवेष्वसंभवन् तदतिरिक्तस्यैव परमात्मनो धर्मोऽयम् अपहत-पाप्मत्वादिः, "स एष सर्वेभ्यः पाप्मभ्य उदितः" इत्यादिनोपदिश्यते । अपहतपाप्मत्वं ह्यपहतकर्मत्वम्; कर्म-वश्यतागन्धरहितत्वमित्यर्थः । कर्माधीनसुखदुःखभागित्वेन कर्मवश्या हि जीवाः । अतोऽपहतपाप्मत्वं जीवा-दन्यस्य परमात्मन एव धर्मः ।। तत्पूर्वकं स्वरूपोपाधिकं लोककामेशत्वम् सत्यसङ्कल्पत्वादिकम् सर्वभूता-न्तरात्मत्वञ्च तस्यैव धर्मः । यथाऽऽह, "एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोपिपासः सत्यकामः सत्यसङ्कल्पः" इति । तथा, "एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः" इति ।

"सोऽकामयत । बहु स्यां प्रजायेयेति" इत्यादिसत्यसङ्कल्पत्वपूर्वकसमस्तचिदचिद्वस्तुसृष्टियोगः निरु-पाधिकभयाभयहेतुत्वम् वाङ्मनसपरिमितिकृतपरिच्छेदरहितानवधिकातिशयानन्दयोगः इत्यादयोऽकर्म-संपाद्याः स्वाभाविका धर्माः जीवस्य न संभवन्ति ।।

यत्तु शरीरसंबन्धान्न जीवातिरिक्त इत्युक्तम्-तदसत्; न हि सशरीरत्वं कर्मवश्यतां साधयति; सत्य-सङ्कल्पस्येच्छयाऽपि शरीरसंबन्धसंभवात् । अथोच्येत-शरीरं नाम त्रिगुणात्मकप्रकृतिपरिणामरूपभूतसंघातः, तत्संबन्धश्चापहतपाप्मनः सत्यसङ्कल्पस्य पुरुषस्येच्छया न संभवति, अपुरुषार्थत्वात् । कर्मवश्यस्य तु स्व-रूपानभिज्ञास्य कर्मानुगुणफलोपभोगाय अनिच्छतोऽपि तत्संबन्धोऽवर्जनीय इति ।। स्यादेतदेवम्, यदि गुण-त्रयमयः प्राकृतोऽस्य देहः स्यात् । स तु स्वाभिमतः स्वानुरूपोऽप्राकृत एवेति सर्वमुपपन्नम् ।। एतदुक्तं भवति-परस्यैव ब्रह्मणो निखिलहेयप्रत्यनीकानन्तज्ञानानन्दैकस्वरूपतया सकलेतरविलक्षणस्य स्वाभाविकानवधि-कातिशयासङ्खयेयकल्याणगुणगणाश्च सन्ति । तद्वदेव स्वाभिमतानुरूपैकरूपाचिन्त्य दिव्याद्भुतनित्यनिर-वद्य-निरतिशयौज्ज्वल्यसौन्दर्यसौगन्ध्यसौकुमायलावण्ययौवनाद्यनन्तगुणगणनिधिदिव्यरूपमपि स्वाभावि-

कमस्ति । तदेवोपासकानुग्रहेण तत्तत्प्रतिपत्त्यनुरूपसंस्थानं करोति अपारकारुण्यसौशील्यवात्सल्यौदार्यैश्वर्य-जलनिधिर्निरस्तनिखिलहेयगन्धोऽपहतपाप्मा परमात्मा परं ब्रह्म पुरुषोत्तमो नारायण इति ।।

"यतो वा इमानि भूतानि जायन्ते", "सदेव सोम्येदमग्र आसीत्", "आत्मा वा इदमेक एवाग्र आ-सीत्", "एको ह वै नारायण आसीन्न ब्रह्मा नेशानः" इत्यादिषु निखिलजगदेककारणतयाऽवगतस्य परस्य ब्रह्मणः, "सत्यं ज्ञानमनन्तं ब्रह्म", "विज्ञानमानन्दं ब्रह्म" इत्यादिष्वेवम्भूतं स्वरूपमित्यवगम्यते । "निर्गुणम्", "निरञ्जनम्", "अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामस्सत्यसङ्कल्पः", "न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । पराऽस्य शाक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानवलक्रिया च", "तमीश्वराणां परमं महेश्वरं तं देवतानां परमञ्च दैवतम्", "स कारणं करणाधिपाधिपो न चास्य कश्चिजनिता न चाधिप", "सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन् यदास्ते", "वेदाहमेतं पुरुषं महान्तम् आदित्यवर्ण तमसः परस्तात्", "सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि" इत्यादिषु परस्य

ब्रह्मणः प्राकृतहेयगुणान् प्राकृतहेयदेहसंबन्धं तन्मूलकर्मवश्यतासंबन्धं च प्रतिषिध्य कल्याणगुणान् कल्याणरूपञ्च वदन्ति । तदिदं स्वाभाविकमेव रूपमुपासकानुग्रहेण तत्प्रतिपत्त्यनुगुणाकारं देवमनुष्या-दिसंस्थानं करोति स्वेच्छयैव परमकारुणिको भगवान् । तदिदमाह श्रुतिः, "अजायमानो बहुधा विजायते" इति ।

स्मृतिश्च, "अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय संभवाम्यात्मभा- यया । परित्राणाया साधूनां विनाशाय च दुष्कृताम्" इति । साधवो ह्यपासकाः । तत्परित्राणमेवाद्देश्यम; आ-नुषङ्गिकस्तु दुष्कृतां विनाशः; सङ्कल्पमात्रेणापि तदुपपत्तेः । "प्रकृतिं स्वाम्" इति प्रकृतिः स्वभावः । स्वमेव स्वभावमास्थाय; न संसारिणां स्वभावमित्यर्थः । आत्ममाययेति, स्वसङ्कल्परूपेण ज्ञानेनेत्यर्थः । "माया वयुनं ज्ञानम्" इति ज्ञानपर्यायमपि मायाशब्दं नैघण्डुका अधीयते । आह च भगवान् पराशरः, "समस्ताः शक्तयश्चैता नृप! यत्र प्रतिष्ठिताः । तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् ।। समस्तशक्ति रूपाणि तत् करोति जनेश्वर! । देवतिर्यङ्गनुष्याख्याचेष्टावन्ति स्वलीलया । जगतामुपकाराय न सा कर्मनिमित्तजा" इति । महा-भारते चावताररूपस्याप्यप्राकृतत्वमुच्यते- "न भूतसंघसंस्थानो देहोऽस्य परमात्मनः इति । अतः परस्यैव ब्रह्मणः एवंरूपरूपवत्त्वादयमपि तस्यैव धर्मः । अत आदित्यमण्डलाक्ष्यधिकरणः आदित्यादिजीवव्यतिरिक्तः परमात्मैव ।। 21 ।।

1.1.22 मेदव्यपदेशाच्चान्यः ।। 1-1-22 ।।

1.1.22

आदित्यादिजीवेभ्यो भेदो व्यपदिश्यतेऽस्य परमात्मनः, "य आदित्ये तिष्ठन् आदित्यादन्तरो यमा-दित्यो न वेद यस्यादित्यः शरीरं य आदित्यमन्तरो यमयति", 2य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरम् य आत्मानमन्तरो यमयति" इति । "योऽक्षरमन्तरे संचरन् यस्याक्षरं शरीरम् यमक्षरं न वेद; यो मृत्युमन्तरे सञ्चरन् यस्य मृत्युश्शरीरं यं मृत्युर्न वेद, एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः" इति चास्यापहतपाप्मनः परमात्मनः सर्वान् जीवान् शरीरत्वेन व्यपदिश्य तेषामन्त-रात्मत्वेनैनं व्यपदिशति । अतः सर्वेभ्यो हिरण्यगर्भादिजीवेभ्योऽन्य एव परमात्मेति सिद्धम् ।। 22 ।।

।। इति अन्तरधिकरणम् ।।

आकाशाधिकरणम् ।। 1-1-8 ।।

1.1.23

"यतो वा इमानि भूतानि जायन्ते" इति जगत्कारणं ब्रह्मेत्यवगम्यते । किं तत् जगत्कारणमित्यवे-(पे)क्षायाम्, "सदेव सोम्येदमग्र आसीत्", "तत्तेजोऽसृजत", "आत्मा वा इदमेक एवाग्र आसीत्", "स इमान् लोकानसृजत", "तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः" इति साधारणैः शब्दैर्जगत्कारणे निर्दिष्टे ईक्षणविशेषानन्दविशेषरूपविशेषार्थस्वभावात् प्रधानक्षेत्रज्ञ(#ादि)व्यतिरिक्तं ब्रह्मेत्युक्तम् ।। इदानीमाकाशा-दिविशेषशब्दैर्निर्दिश्य जगत्कारणत्वजगदैश्वर्यादिवादेऽप्याकाशादिशब्दाभिधेयतया प्रसिद्धचिदचिद्वस्तुनो-ऽर्थान्तरमुक्तलक्षणमेव ब्रह्मेति प्रतिपाद्यते-आकाशस्तल्लिङ्गादित्यादिना पादशेषेण-

1.1.23 आकाशस्तल्लिङ्गात् ।। 1-1-23 ।।

1.1.23

इदमाम्नायते छान्दोग्ये, "अस्य लोकस्य का गतिरिति । आकाश इति होवाच, सर्वाणि ह वा इमा- नि भूतान्याकाशादेव समुत्पद्यन्ते; आकाशं प्रति अस्तं यन्ति । आकाशो ह्येवैभ्यो ज्यायान् आकाशः परायणम्" इति । तत्र संदेहः-किं प्रसिद्धाकाश एवावाकाशशब्देनाभिधीयते, उतोक्तलक्षणमेव ब्रह्मेति ।

किं प्राप्तम् । प्रसिद्धाकाश इति । कुतः । शब्दैकसमधिगम्ये वस्तुनि य एवार्थो व्युत्पत्तिसिद्धः शब्देन प्रतीयते, स एव ग्रहीतव्यः । अतः प्रसिद्धाकाश एव चराचरभूतजातस्य कृत्स्नस्य कारणम् । अतस्तस्मादन-तिरिक्तं ब्रह्म । नन्वीक्षापूर्वकसृष्टयादिभिरचेतनात् जीवाच्च व्यतिरिक्तं ब्रह्मेत्मुक्तम् ।। सत्यमुक्तम्; अयुक्तं तु तत् । तथा हि-"यतो वा इमानि भूतानि जायन्ते... तद्व्रह्य" इत्युक्ते, कुत इमानि भूतानि जायन्त इत्यादि-विशेषापेक्षायाम्, "सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते" इत्यादिना विशेषप्रतीतेर्जगज्जन्मा-दिकारणमाकाश एवेति निश्चिते सति, "सदेव सोम्येदमग्र आसीत्" इत्यादिष्वपि सदादिशब्दाः साधारणा-काराः तमेव विशेषमाकाशमभिदधति । "आत्मा वा इदमेक एवाग्र आसीत्"

इत्यादिष्वात्मशब्दोऽपि तत्रैव वर्तते । तस्यापि हि चेतनैकान्तत्वं न संभवति; यथा "मृदात्मको घटः" इति । आप्नोतीत्यात्मेति व्युत्पत्त्या सुतरामाकाशेऽप्यात्मशब्दो वर्तते । अत एवमाकाश एव कारणं ब्रह्मेति निश्चिते सति ईक्षणादयः तदनुगुणा गौणा वर्णनीयाः । यदि हि साधारणशब्दैरेव सदादिभिः कारणमभ्यधायिष्यत, ईक्षणाद्यार्थानुरोधेन चेतन-विशेष एव कारणमिति निरचेष्यत । आकाशशब्देन तु विशेष एव निश्चित इति नार्थस्वाभाव्यान्निर्णेतव्यम- स्ति ।।

ननु "आत्मन आकाशः सम्भूतः" इति आकाशस्यापि कार्यत्वं प्रतीयते ।। सत्यम् । सर्वेषामेवा का-शवाय्वादीनां सूक्ष्मावस्था स्थूलावस्था चेत्यवस्थाद्वयमस्ति । तत्राकाशस्य सूक्ष्मावस्था कारणम्; स्थूलाव- स्था तु कार्यम् । "आत्मन आकाशस्संभूतः" इति, स्वस्मादेव सूक्ष्मरूपात् स्वयं स्थूलरूपः संभूत इत्यर्थः । "सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते" इति सर्वस्य जगतः आकाशादेव प्रभवाप्ययादिश्रव- णात् तदेव हि कारणं ब्रह्मेति निश्चितम् । यत एवं प्रसिद्धाकाशादनतिरिक्तं ब्रह्म, अत एव (च) "यदेष आ- काश आनन्दो न स्यात्", "आकाशो वै नाम नामरूपयोर्निर्वहिता" इत्येवमादिनिर्देशोऽप्युपपन्नतरः । अतः प्रसिद्धाकाशादनतिरिक्तं ब्रह्मेति ।।

एवं प्राप्ते ब्रूमः-आकाशस्तल्लिङ्गात् । आकाशशब्दाभिधेयः प्रसिद्धाकाशादचेतनादर्थान्तरभूतो यथो-क्तलक्षणः परमात्मैव । कुतः । तल्लिङ्गात् । निखिलजगदेककारणत्वं सर्वस्मात् ज्यायस्त्वं परायणत्वमित्या- दीनि परमात्मलिङ्गान्युपलभ्यन्ते । निखिलकारणत्वं ह्यचिद्वस्तुनः प्रसिद्धाकाशशब्दाभिधेयस्य नोपपद्यते; चेतनवस्तुनस्तत्कार्यत्वासंभवात् । परायणत्वं च चेतनानां परमप्राप्यत्वम् । तच्छाचेतनस्य हेयस्य सकल-

पुरुषार्थविरोधिनो न संभवति । सर्वस्माज्ज्यायस्त्वं च निरुपाधिकं सर्वैः कल्याणगुणैः सर्वेभ्यो निरतिशयो-त्कषः । तद्प्यचितो नोपपद्यते ।

यदुक्तम्-जगत्कारणविशेषाकाङ्क्षायामाकाशशब्देन विशेषसमर्पणादन्यत् सर्व तदुनरूपमेव वर्ण-नीयमिति-तदयुक्तम्; "सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते" इति प्रसिद्धवन्निर्देशो हि प्रमा-णान्तरप्राप्तिमपेक्षते । प्रमाणान्तराणि च, "सदेव सोम्येदमग्र आसीत्" इत्येवमादीन्येव वाक्यानि । तानि च यथोदितप्रकारेणैव ब्रह्म प्रतिपादयन्तीति तत्प्रतिपादितं ब्रह्म आकाशशब्देन प्रसिद्धवन्निर्दिश्यते । संभवति च परस्य ब्रह्मणः प्रकाशकत्वादाकाशशब्दाभिधेयत्वम्, आकाशते आकाशयति चेति ।

किञ्च अनेनाकाशशब्देन विशेषसमर्पणक्षमेणापि चेतनांशं प्रति असंभावितकारणभावमचेतनविशे-षमभिदधानेन, "तदैक्षत बहु स्यां प्रजायेय, "सोऽकामयत बहु स्यां प्रजायेय" इत्यादिवाक्य(वि)शेषावधा-रितसार्वज्ञ्यसत्यसङ्कल्पत्वादिविशिष्टापूर्वार्थप्रतिपादनसमर्थवाक्यार्थान्यथाकरणं न प्रमाणपदवीमधिरोहति ।। एवमपूर्वानन्तविशेषणविशिष्टापूर्वार्थप्रतिपादनसमर्थानेकवाक्यगतिसामान्यं च एकेनानुवादसरूपेणान्यथा कर्तुं न शक्यते ।

यत्तु-आत्मशब्दश्चेतनैकान्तो न भवति; "मृदात्मको घटः" इत्यादिदर्शनादित्युक्तम्-तत्रोच्यते । यद्यपि चेतनादन्यत्रापि क्वचिदात्मशब्दः प्रयुज्यते, तथापि शरीरप्रतिसंबन्धिनि आत्मशब्दस्य प्रयोगप्राचुर्यात् "आत्मा वा इदमेक एवाग्र आसीत्", "आत्मन आकाशः संभूतः" इत्यादिषु शरीरप्रतिसंबन्धिचेतन एव प्रती-यते । यथा गोशब्दस्यानेकार्थवाचित्वेऽपि प्रयोगप्राचर्यात् सास्नादिमानेव स्वतः प्रतीयते; अर्थान्तरप्रतीतिस्तु तत्तदसाधारणनिर्देशापेक्षा-तथा स्वतःप्राप्तं शरीरप्रतिसंबन्धिचेतनाभिधानमेव, "स ईक्षत लोकान्नु सृजा इति", "सोऽकामयत । बहु स्यां प्रजायेय" इत्यादितत्तद्वाक्यविशेष एव स्थिरीकुर्वन्ति । एवं वाक्य(वि)शे-षावधारितानन्यसाधारणानेकापूर्वार्थविशिष्टं निखिलजगदेककारणं "सदेव सोम्य" इत्यादिवाक्यसिद्धं ब्रह्मै-वाऽऽकाशशब्देव प्रसिद्धवत् "सर्वाणि ह वा इमानि भूतानि" इत्यादिवाक्येन निर्दिश्यत इति सिद्धम् ।। 23 ।।

।। इत्याकाशाधिकरणम् ।।

प्राणाधिकरणम् 1-1-9

1.1.24 अत एव प्राणः ।। 1-1-24 ।।

1.1.24

इदमाम्नायते छान्दोग्ये, "प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता" इति प्रस्तुत्य "कतमा सा देवतेति । प्राण इति होवाच, सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति, प्राणमभ्युज्जिहते । सैषा देवता प्रस्ताव-मन्वायत्ता । तां चेतविद्वान् प्रस्तोष्यः

मूर्द्धा ते व्यपतिष्यत्" इति ।।

अत्र प्राणशब्दोऽप्याकाशशब्दवत् प्रसिद्धप्राणव्यतिरिक्ते परस्मिन्नेव ब्रह्मणि वर्तते, तदसाधारण-निखिलजगत्प्रवेशनिष्क्रमणादिलिङ्गात् प्रसिद्धवन्निर्दिष्टात् ।

अधिकाशङ्का तु कृत्स्नस्य भूतजातस्य प्राणाधीनस्थितिप्रवृत्त्यादिदर्शनात् प्रसिद्ध एव प्राणो जग-त्कारणतया निर्देशमर्हतीति ।। परिहारस्तु-शिलाकाष्ठादिषु, चेतनस्वरूपे च तदभावात्, "सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते" इति नोपपद्यत इति । अतः प्राणयति सर्वाणि भूतानीति कृत्वा परं ब्रह्मैव प्राणशब्देनाभिधीयते । अतः प्रसिद्धाकाशप्राणादेरन्यदेव निखिलजगदेकारण-मपहतपाप्मत्वसार्वप्यसत्यसङ्कल्पत्वाद्यनन्तकल्याणगुणगणं परं ब्रह्मैवाकाशप्राणादिशब्दाभिधेयमिति

सिद्धम् ।। 24 ।। ।। इति प्राणाधिकरणम् ।।

ज्योतिरधिकरणम् 1-1-10

1.1.25

अतः परं जगत्कारणत्वव्याप्तेन येन केनापि निरतिशयोत्कृष्टगुणेन जुष्टं ज्योतिरिन्द्रादिशब्दैरर्थान्तरप्रसिद्धैर-प्यभिधीयमानं परं ब्रह्मैवेत्यभिधीयते ज्योतिश्चरणाभिधानादित्यादिना-

1.1.25 ज्योतिश्चरणाभिधानात् ।। 1-1-25 ।।

1.1.25

इदमाम्नायते छान्दोग्ये-"अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्टेषु सर्वतः पृष्टेवनुत्तेमेषूप्त्त- मेषु लोकेषु, इदं वा व तत् यदिदमस्मिन्न्तःपुरुषो ज्योतिः" इति । तत्र संशयः, किमयं ज्योतिश्शब्देन निर्दि- ष्टो निरतिशयदीप्तियुक्तोऽर्थः प्रसिद्धमादित्यादिज्योतिरेव कारणभूत ब्रह्म, उत समस्तचिदचिद्वस्तुजातवि-सजातीयः परमकारणभूतोऽभितभाः सर्वज्ञः सत्यसङ्कल्पः पुरुषोत्तमः इति । किं युक्तम् । प्रसिद्धमेव ज्योति- रिति । कुतः । प्रसिद्धवÐन्द#ेशेऽप्याकाशप्राणादिवत् स्ववाक्योपात्तपरमात्मव्याप्तलिङ्गविशेषादर्शनात् परम-पुरुषप्रत्यभिज्ञानासंभवात् । कौक्षेयज्योतिषैक्योपदेशाच्च प्रसिद्धमेव ज्योतिः कारणत्वव्याप्त निरतिशयदी-प्तियोगाज्जगत्कारणं ब्रह्मेति ।।

एवं प्राप्ने प्रचक्ष्महे-ज्योतिश्चरणाभिधानात् । द्युसंबन्धितया निर्दिष्टं निरतिशयदीप्तियुक्तं ज्योतिः पर-मपुरुष एव । कुतः । "पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि" इत्यस्यैव द्युसंबन्धिनश्चरणत्वेन सर्वभूता-भिधानात् ।।

एतदुक्तं भवति-यद्यपि "अथ यदतः परो दिवो ज्योतिः" इत्यस्मिन् वाक्ये परमपुरुषासाधारणलिङ्गं नोपलभ्यते-तथापि पूवर्वाक्ये द्युसंमन्धितया परमपुरुषस्य निर्देशात् इदमपि द्युसंबन्धिज्योतिः स एवेति प्रत्य-भिज्ञायत इति । कौक्षेयज्योतिषैक्योपदेशश्च फलाय तदात्मकत्वानुसन्धानविधिरिति न कश्चिद्दोषः । कौक्षे-यज्योतिषश्च तदात्मकत्वं भगवता स्वयमेवोक्तम्, "अहं वैश्वानरो भूत्या प्राणिनां देहमाश्रितः" इति ।।

1.1.26 छान्दोभिधानान्नेति चेन्न तथाचेतोर्पणनिगमात् तथा हि दर्शनम् ।। 1-1-26 ।।

1.1.26

पूर्वस्मिन् वाक्ये, "गायत्री वा इदं सर्वम्" इति गायत्र्याख्यं छन्दोऽभिधाय, "तदेतदृचाभ्यनूक्तम्" इत्युदाहृतायाः "तावानस्य महिमा" इत्यस्या ॠचोऽपि छन्दोविषयत्वान्नात्र परमपुरुषाभिधानमिति चेत्-तन्न; तथाचेतोर्पणनिगमात् । न गायत्रीशब्देन छन्दोमात्रमिहाभिधीयते छन्दोमात्रस्य सर्वात्मकत्वानुपपत्तेः । अपि तु ब्रह्मण्येव गायत्रीचेतोर्पणमिह निगम्यते । ब्रह्मणि गायत्रीसादृश्यानुसन्धानं फलायोपदिश्यत इत्यर्थः । संभवति च, "पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि" इति चतुष्पदो ब्रह्मणः चतुष्पदया(पदा) गायत्र्या च सादृश्यम् । चतुष्पदा च गायत्रीक्वचिद्दृश्यते । तद्यथा "इन्द्रश्शचीपातेः । बलेन पीडितः । दुश्च्यवनो वृषा । समित्सु सासहिः" इति । तथा ह्यन्यत्रापि सादृश्यात् छन्दोभिधायी शब्दोऽर्थान्तरे प्रयुज्यमानो दृश्यते । यथा संवर्गविद्यायाम्, "ते वा एते पञ्चान्ये पञ्चान्ये दश संपद्यन्ते" इत्यारभ्य "सैषा विराडन्नात्" इत्युच्यते ।। 26 ।।

1.1.27

इतश्च गायत्रीशब्देन ब्रह्मैवाधिधीयते-

1.1.27 भूतादिपादव्यपदेशोषपत्तेश्चैवम् ।। 1-1-27 ।।

1.1.27

भूतपृथिवीशरीरहृदयानि निर्दिश्य" इति व्यपदेशो ब्रह्मण्येव गायत्रीशब्दाभिधेये उपपद्यते ।। 27 ।।

1.1.28 उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ।। 1-1-28 ।।

1.1.28

पूर्ववाक्ये, "त्रिपादस्यामृतं दिवि" इति दिवोऽधिकरणत्वेन निर्देशात् इह च दिवः पर इत्यवधित्वे निर्देशादुपदेशस्य भिन्नरूपत्वेन पूर्ववाक्योक्तं ब्रह्म परस्मिन्न प्रत्यभिज्ञायत इति चेत्-तन्न, उभयस्मिन्नप्यु- पदेशे अर्थस्वभावैक्येन प्रत्यभिज्ञाया अविरोधात्#ः, यथा "वृक्षाग्रे श्येन," "वृक्षाग्रात्परतः श्येनः" इति । तस्मात् परमपुरुष एव निरतिशयतेजस्कः, दिवः परो ज्योतिर्दीप्यत इति प्रतिपाद्यते । "एतावानस्य महिमा अतो ज्यायांश्च पुरुषः । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि" इति प्रतिपादितस्य चतुष्पदः परम-पुरुषस्य, "वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसस्तु पारे" इत्यभिहिताप्राकृतरूपस्य तेजोऽप्यप्राकृत-मिति तद्वत्तया स एव ज्योतिश्शब्दाभिधेय इति निरवद्यम् ।। 28 ।। इति ज्योतिरधिकरणम् ।।

इन्द्रप्राणाधिकरणम् 1-1-11

1.1.29

निरतिशयदीप्तियुक्तं ज्योतिश्शब्दाभिधेयं प्रतिसद्धवन्निर्दिष्टं परमपपुरुष एवेत्युक्तम् । इदानीं कारण-त्वव्याप्तामृतत्वप्राप्त्युपायतयोपास्यत्वेन श्रुतः इन्द्रप्राणादिशब्दाभिधेयोऽपि परमपुरुष एवेत्याह-

1.1.29 प्राणस्तथाऽनुगमात् ।। 1-1-29 ।।

1.1.29

कौषीतकिब्राह्मणे प्रतर्दनविद्यायाम्, "प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च" इत्यारभ्य "वरं वृणीष्व" इति वक्तारमिन्द्रं प्रति, "त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हित- तमं मन्यसे" इति प्रतर्दनेनोक्ते स होवाच, प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व इति श्रूयते । तत्र संशयः-किमयं हिततमोपासनकर्मतया इन्द्रप्राणशब्द निर्दिष्टो जीव एव, उत तदतिरिक्तः परमात्मेति । किं युक्तम्? जीव एवेति । कुतः । इन्द्रशब्दस्य जीवविशेष एव प्रसिद्धः तत्समानाधिकरणस्य प्राणशब्दस्यापि तत्रैव वृत्तेः । अयमिन्द्राभिधानो जीवः प्रतर्दनेन, "त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे" इत्युक्तः, "मामुपास्स्व इति स्वात्मोपासनं हिततममुपदिदेश । हिततमश्चामृतत्वप्राप्त्युपाय एव । जगत्का-रणोपासनस्यैवामृतत्वप्राप्तिहेतुता, "तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्ये" इत्यवगता । अतः प्रसिद्ध जीवभाव इन्द्र एव कारणं ब्रह्म ।।

इत्याशङ्कायामभिधीयते-प्राणस्तथानुगमादिति । अयमिन्द्रप्राणशब्दनिर्दिष्टो न जीवमात्रम्, अपि तु जीवादर्थान्तरभूतं परं ब्रह्म । "स एष प्राण एव प्रज्ञात्मा आनन्दोऽजरोऽमृतः" इतीन्द्राप्राणशब्दाभ्यां प्रस्तु-तस्यानन्दाजरामृतशब्दसामानाधिकरण्येनानुगमो हि तथासत्येवोपपद्यते ।। 29 ।।

1.1.30 न वक्तुरात्मोपदेशादिति चेदध्यात्मसंबन्धभूमा ह्यस्मिन् ।। 1-1-30 ।।

1.1.30

यदुक्तम्-इन्द्रप्राणशब्दनिर्दिष्टस्य "आनन्दोऽजरोऽमृतः" इत्यनेनैकार्थ्यादयं परं ब्रह्मेति-तन्नोपपद्यते; "मामेव विजानीहि", "प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व" इति वक्ता हीन्द्रः, "त्रिशीर्षाणं त्वाष्ट्रमहनम्" इत्येवमादिना त्वाष्ट्रवधादिभिः प्रज्ञातजीवभावस्य स्वात्मन एवोपास्यतां प्रतर्दनायोपदिशति; अत उपक्रमे जीवविशेष इत्यवगते सति "आनन्दोऽजरोऽमृतः" इत्यादिभिरुपसंहारस्तदनुगुण एव वर्णनीय इति चेत्-परिहरति-अध्यात्मसंबन्धभूमा ह्यस्मिन् ।

आत्मनि यः संबन्धः सोऽध्यात्मसंबन्धः । तस्य भूमा-भूयस्त्वम् । बहुत्वमित्यर्थः । आत्मन्याधेय- तया संबध्यमानानां बहुत्वेन संबन्धबहुत्ववम् । तच्चास्मिन्-वक्तरि परमात्मन्येव हि संभवति । "तद्यथा रथ-

स्यारेषु नेमिरर्षिता नाभावरा अर्पिताः, एवमेवैता भूतमात्राः प्राज्ञामात्रास्वपिर्ताः, प्रज्ञामात्राः प्राणेऽर्पिताः । स एष प्राण एव प्रज्ञात्माऽऽनन्दोऽजरोऽमृतः" इति भूतमात्राशब्देनाचेतनवस्तुजातमभिधाय प्रज्ञामात्राशब्देन तदाधारतया चेतनवर्गं चाभिधाय तस्याप्याधारतया प्रकृतमिन्द्रप्राणशब्दाभिधेयं निर्दिश्य तमेव, "आनन्दो-ऽजरोऽमृतः" इत्युपदिशति । तदेतच्चेतनाचेतनात्मककृत्स्नवस्त्वाधारत्वं जीवादर्थान्तरभूतेऽस्मिन्-परमात्मन्ये-वोपपद्यते इत्यर्थः ।।

अथवा, अध्यात्मसंबन्धभूमा ह्यस्मिन्-परमात्मासाधारणधर्मसंबन्धोऽध्यात्मसंबन्धः । तस्य भूमा बहुत्वं हि अस्मिन्-प्रकरणे विद्यते । तथा हि-प्रथमम्, "त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्य- से" इति, "मामुपास्स्व" इति च

परमात्मासाधारणमोक्षसाधनोपासनकर्मत्वं प्राणशब्दनिर्दिष्टस्येन्द्रस्य प्रती- यते । तथा, "एष एव साधु कर्म कारयति तम्, यमेभ्यो लोकेभ्य उन्निनीषति । एष एवासाधु कमर् कारयति तम्, यमधो निनीषति" इति सर्वस्य कर्मणः कारयितृत्वं च परमात्मधर्मः । तथा "तद्यथा रथस्यारेषु नेमिर- र्पिता नाभावरा अर्पिताः, एवमेवैताभूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः" इति सर्वाधारत्वं च तस्यैव धर्मः । तथा "स एष प्राण एव प्रज्ञात्माऽऽनन्दोऽजरोऽमृतः" इत्येतेऽपि परमात्मन एव धर्माः । "एष लोकाधिपतिरेष सर्वेशः" इति च परमात्मन्येव संभवति । तदेवमध्यात्मसंबन्धभूम्नोऽत्र विद्यमानत्वात् परमात्मैवात्रेन्द्रप्राणशब्दनिर्दिष्टः । 30 ।।

1.1.31

कथं तर्हि प्रज्ञातजीवभावस्येन्द्रस्य स्वात्मन उपास्यत्वोपदेशः सङ्गच्छते? तत्राह-

1.1.31 शास्त्रदृष्टया तूपदेशो वामदेववत् ।। 1-1-31 ।।

1.1.31

प्रज्ञातजीवभावेनेन्द्रेण, "मामेव विजानीहि", "मामुपास्स्व" इति उपास्यस्य ब्रह्मणः स्वात्मत्वे नो-पदेशोऽयं न प्रमाणान्तरप्राप्तस्वात्मावलोकनकृतः, अपि तु शास्त्रेण स्वात्मदृष्टिकृतः । एतदुक्तं भवति-"अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि", "ऐतदात्म्यमिदं सर्वम्", "अन्तः प्रविष्टः शस्ता जनानां सर्वात्मा" "य आत्मनि तिष्ठन् आत्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति" "एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः" इत्येवमादिना शास्त्रेण जीवात्मशरीरकं परमात्मानमवगम्य, जीवात्मवाचिनामहन्त्वमदिशब्दानामपि परमात्मन्येव पर्यवसानं ज्ञात्वा, "मामेव विजानीहि", "मामुपास्स्व" इति स्वात्मशरीरकं परमात्मानमेवोपास्यत्वेनोपदिदेशेति । वामदेववत्-यथा वामदेवः परस्य ब्रह्मणः सर्वान्तरात्मत्वं सर्वस्य तच्छारीरत्वं शरीरवाचिनां शब्दानां च शरीरिणि पयर्वसानं पश्यन्, "अहम्" इति स्वात्मशरीरकं परं ब्रह्म निर्दिश्य तत्सामानाधिकरण्येन मनुसूर्यादीन् व्यपदिशति, "तद्धै तत् पश्यन् ॠषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्च" "अहं कक्षीवान् ॠषिरस्मि विप्रः" इत्यादिना । यथा च प्रह्नादः, "सर्वगत्वादनन्तस्य स एवाहमवस्थितः । मत्तः सर्वमहं सर्वे मयि सर्वं सनातने ।।" इत्यादि वदति ।। 31 ।।

1.1.32

अस्मिन् प्रकरणे जीववाचिभिः शब्दैरचिद्विशेषाभिधायिभिश्चोपास्यभूतस्य परस्य ब्रह्मणोऽभिधाने कारणं चोद्यपूर्वकमाह-

1.1.32 जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ।। 1-1-32 ।।

1.1.32

"न वाचं विजिज्ञासीत; वक्तारं विद्यात्", "त्रिशीर्षाणं त्वाष्ट्रमहनम्; अरुन्मुखान् यतीन् साला- वृकेभ्यः प्रायच्छम्" इत्यादिजीवलिङ्गात्, 2यावद्धयस्मिन् शरीरे प्राणो वसति तावदायुः", "अथ खलु प्राण-

एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति" इति मुख्यप्राणलिङ्गाच्च नाध्यात्मा संबन्धभूमेति चेत्-न; उपासात्रै-विध्यात् हेतोः । उपासनात्रैविध्यमुदेष्टुं तत्तच्छब्देनाभिधानम्-निखिलकारणभूतस्य ब्रह्मणः स्वरूपेणा-(स्वरूपा?)नुसन्धानम् भोक्तृवर्गशरीरकत्वानुसन्धानम् भोग्यभोगोपकरणशरीरकत्वानुसन्धानञ्चेति त्रिवि-धमनुसंधानमुपदेष्टुमित्यर्थः । तदिदं त्रिविधं ब्रह्मानुसन्धानं प्रकरणान्तरेष्वप्याश्रितम् "सत्यं ज्ञानमनन्तरं ब्रह्म", "आनन्दो ब्रह्म" इत्यादिषु स्वरूपा(पिणा?) नु सन्धानम्; "तत्सृष्ट्वा तदेवानुप्राविशत् । तदनुप्रवि- श्य सच्च त्यच्चाभवत्, निरुक्तञ्चानिरुक्तञ्च निलयनं चानिलयनञ्च, विज्ञानञ्चाविज्ञानञ्च, सत्यं चानृतञ्च सत्यमभवत्" इत्यादिषु भोक्तृशरीरतया भोग्यभोगोपकरणशरीरतया चानुसन्धानम् । इहापि प्रकरणे तत् त्रिविधमनुसंधानं युज्यत एवेत्यर्थः । एतदुक्तं भवति-यत्र हिरण्यगर्भादिजीवविशेषणां प्रकृत्याद्यचेतनविशे-षणाञ्च परमात्मासाधारणधर्मयोगः, तदभिधायिनां शब्दानां परमात्मवाचिशब्दैः सामानाधिकरण्यं वा दृश्-यते; तत्र परमात्मनः तत्तच्चिदचिद्विशेषान्तरात्मत्वानुसन्धानं प्रतिपिपादयिषितमिति ।। अतोऽत्रेन्द्रप्राण-शब्दनिर्दिष्टो जीवादर्थान्तरभूतः परमात्मैवेति सिद्धम् ।। श्रीः

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये

प्रथमस्याध्यास्य प्रथमः पादः ।। 1-1-1 ।।



1.2.1

प्रथमे पादे अधीतवेदः पुरुषः कर्ममीमांसाश्रवणाधिगतकमर्याथात्म्यविज्ञानः केवलकर्मणामल्पा-स्थिरफलत्वमवगम्य, वेदान्तवाक्येषु चापातप्रतीतानन्तस्थिरफलब्रह्मस्वरुपतदुपासनसमुपजातपरमपुरु-षार्थलक्षणमोक्षापेक्षोऽवधारितपरिनिष्पन्नवस्तुबोधनशब्दशक्तिर्वेदान्तवाक्यानां परस्मिन् ब्रह्मणि निश्चित-प्रमाणभावस्तदितिकर्त्तव्यतारूपशारीरकमीमांसाश्रवणमारभेतेत्युक्तं शास्त्रारम्भसिद्धये । अनन्तविचित्र-

1.2.1

स्थिरत्रसरूपभोक्तृभोग्यभोगोपकरणभोगस्थानलक्षणनिखिलजगदुदयविभवलयमहानन्दैककारणं परं ब्रह्म "यतो वा इमानि" इत्यादिवाक्यं बोधयतीति च प्रत्यपादि ।।2 ।। जगदेककारणं परं ब्रह्म सकलेतरप्रमाणा-विषयतया शास्त्रैकप्रमाणकमित्यभ्यधाम ।। 3 ।। शास्त्रप्रमाणकत्वं च ब्रह्मणः प्रवृत्तिनिवृत्त्यन्वयविरहेऽपि स्वरूपेणैव परमपुरुषार्थभूते परस्मिन् ब्रह्मणि वेदान्तवाक्यानां समन्वयान्निरूह्यत इत्यब्रूम ।। 4 ।। निखि-लजगदेककारणतया वेदान्तवेद्यं ब्रह्म च ईक्षणाद्यन्वयादानुमानिकप्रधानादर्थान्तरभूतश्चेतनविशेष एवेत्युपा-पीपदाम ।। 5 ।। स च स्वाभाविकानवधिकातिशयानन्दविपश्चित्त्वनिखिलचेतनभयाभयहेतुत्वसत्यसङ्कल्प-त्वसस्तचेतनाचेतनान्तरात्मत्वादिभिब्रद्धमुक्तोभयावस्थाज्जीवशब्दाभिलपनीयाच्चार्थान्तरभूत इति च समा-र्तिथामहि ।। 6 ।। स चा प्राकृताकर्मनिमित्तस्वासाधारणदिव्यरूप इत्युदैरिराम ।। 7 ।। आकाशप्रमाणाद्य-चेतनविशेषाभिधायिभिर्जगत्कारणतया प्रसिद्धवन्निर्दिश्यमानस्सकलेतरचेतनाचेतनविलक्षणस्य एवेति समगरिष्महि ।। 8 ।। परतत्त्वासाधारणनिरतिशयदीप्तियुक्तज्योतिश्शब्दाभिधेयो द्युसम्बन्धितया प्रत्यभि-ज्ञानात्स एवेत्यातिष्ठामहि ।। 10 ।। परमकारणासाधारणामृतत्वप्राप्तिहेतुभूतः परमपुरुष एव शास्त्रदृष्टया इन्द्रादिशब्दैरभिधीयत इत्यब्रूमहि ।। 11 ।। तदेवमतिपतितसकलेतरप्रमाणसम्भावनाभूमिस्सार्वज्ञ्यसत्य-

1.2.1

 

सङ्कल्पत्वाद्यपरिमितोदारगुणसागरतया स्वेतरसमस्तवस्तुविलक्षणः परं ब्रह्म पुरुषोत्तमो नारायण एव वेदा-न्तवेद्य इत्युक्तम् । अतः परं द्वितीयतृतीयचतुर्थेषु पादेषु यद्यपि वेदान्तवेद्यं ब्रह्मैव तथापि नानिचिद्वेदान्त-वाक्यानि प्रधानक्षेत्रज्ञान्तर्भूतवस्तुविशेषस्वरूपप्रतिपादनपराण्येवेत्याशङ्कय तन्निरसनमुखेन तत्तद्वाक्यो-दितकल्याणगुणाकरत्वं ब्रह्मणः प्रतिपाद्यते । तत्रास्पष्टजीवादिलिङ्गकानि वाक्यानि द्वितीये पादे विचार्यन्ते, स्पष्टलिङ्गकानि तृतीये, तत्तत्प्रतिपादनच्छायानुसारीणि चतुर्थे ।।

1.2.1 सर्वत्र प्रसिद्धोपदेशात् ।। 1 ।।

1.2.1

इदमाम्नायते छान्दोग्ये "अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिंल्लोके पुरुषो भवति

1.2.1

 

तथेतः प्रेत्य भवति स क्रतुं कुर्वीत मनोमयः प्राणशरीरो भारूपः" इत्यादि ।।

अत्र "स क्रतुं कुर्वीत" इति प्रतिपादितस्योपासनस्योपास्यः "मनोमयः प्राणशरीरः" इति निर्दिश्यत इति

1.2.1

 

प्रतीयते । तत्र संशयः-किं मनोमयत्वादिगुणकः क्षेत्रज्ञः, उत परमात्मा ? इति । किं युक्तम् ? क्षेत्रज्ञ इति । कुतः ? मनः प्राणयोः क्षेत्रज्ञोपकरणत्वात्, परमात्मनस्तु "अप्राणो ह्यमनाः" इति तत्प्रतिषेधाच्च । न च "सर्वं खल्विदं ब्रह्म" इति पूर्वनिर्दिष्टं ब्रह्मात्रोपास्यतया सम्बद्धुं शक्यते, "शान्त उपासीत" इत्युपासनोपकरणशा-न्तिनिर्वृत्त्युपायभूतब्रह्मात्मकत्वोपदेशायोपात्तत्वात् । न च "स क्रतुं कुर्वीत" इत्युपासनस्योपास्यसाकाङ्क्ष-त्वाद्वाक्यान्तरस्थमपि ब्रह्म सम्बध्यत इति युक्तं वक्तुम्, स्ववाक्योपात्तेन मनोमयत्वादिगुणकेन

निराका-

1.2.1

 

ङ्क्षत्वात्; "मनोमयः प्राणशरीरः" इत्यनन्यार्थतया निर्दिष्टस्य विभक्तिविपरिणाममात्रेणोभयाकाङ्क्षानिवृत्ति- सिद्धेः । एवं निश्चिते जीवत्वे "एतद्ब्रह्म" इत्युपसंहारस्थब्रह्मपदमपि जीव एव पूजार्थं प्रयुक्तमित्यध्यवसीयत इति ।

एवं प्राप्ते ब्रूमः-सर्वत्र प्रसिद्धोपदेशात् । मनोमयत्वादिगुणकः परमात्मा । कुतः? सर्वत्र-वेदान्तेषु परस्मि-न्नेव ब्रह्मणि प्रसिद्धस्य मनोमयत्वादेरुपदेशात् । प्रसिद्धं हि मनोमयत्वादि ब्रह्मणः । यथा "मनोमयः प्राण-शरीरनेता" "स एषोऽन्तर्हृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्यमयः" "हृदा मनीषा मनसाभिक्लृप्तो य एनं विदुरमृतास्ते भवन्ति" "न चचुक्षा गृह्यते नापि वाचा" "मनसा तु विशुद्धेन" तथा "प्रा-णस्य प्राणः" "अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति" "सर्वाणि ह वा इमानि भूतानि प्राण-

1.2.1

 

मेवाभिसंविशन्ति प्राणमभ्युज्जिहते" इत्यादिषु । मनोमयत्वम्-विशुद्धेन मनसा ग्राह्यत्वम् । प्राणशरीरत्वम्-प्राणस्याप्याधारत्वं नियन्तृत्वञ्च । एवञ्च सति "एष म आत्माऽन्तर्हृदय एतद्ब्रह्म" इति ब्रह्मशब्दोऽपि मुख्य एव भवति । "अप्राणो ह्यमानाः" इति मन आयत्तं ज्ञानं प्राणायत्तां स्थितिञ्च ब्रह्मणो निषेधति ।।

अथवा "सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत" इत्यत्रैवोपासनं विधीयते, सर्वात्मकं ब्रह्म शान्तः सन्नुपासीतेति । "स क्रतुं कुर्वीत" इति तस्यैव गुणोपादानार्थोऽनुवादः । उपादेयाश्च गुणाः मनोमयत्वादयः, अतः

1.2.1

 

सर्वात्मकं ब्रह्म मनोमयत्वादिगुणकमुपासीतेति वाक्यार्थः । तत्र सन्देहः, किमिह ब्रह्मशब्देन प्रत्यगात्मा निर्द्दिश्यते, उत परमात्मा ? इति । किं युक्तम् ? प्रत्यगात्मेति । कुतः? तस्यैव सर्वपदसामानाधिकरण्यनि-र्द्देशोपपत्तेः । सर्वशब्दनिर्द्दिष्टं हि ब्रह्मादिस्तम्बपर्यन्तं कृत्स्नं जगत् । ब्रह्मादिभावश्च प्रत्यगात्मनोऽनाद्यविद्या-मूलकर्मविशेषोपाधिको विद्यत एव; परस्य तु ब्रह्मणः सर्वज्ञस्य सर्वशक्तेरपहतपाप्मनो निरस्तसमस्तावि-द्यादिदोषगन्धस्य समस्तहेयाकरसर्वभावो नोपपद्यते । प्रत्यगात्मन्यपि क्वचित्क्वचिद्ब्रह्मशब्दः प्रयुज्यते, अत एव

1.2.1

 

परमात्मा परं ब्रह्मेति परमेश्वरस्य क्वचित्सविशेषणो निर्देशः । प्रत्यगात्मनश्च निर्मुक्तोपाधेर्बृहत्त्वं च विद्यते । "स चानन्त्याय कल्पते" इति श्रुतेः । अविदुपस्तस्यैव कर्मनिमित्तत्वाज्जगज्जन्मस्थितिलयानां तज्जलानिति हेतुनिर्देशोऽप्युपपद्यते । तदयमर्थः,-अयं जीवात्मा स्वतो अपरिच्छिन्नस्वरूपत्वेन ब्रह्मभूतस्सन्ननाद्यविद्यया देवतिर्य्यङ्मनुष्यस्थावरात्मनाऽवतिष्ठत इति ।।

अत्र प्रतिविधीयते-सर्वत्र प्रसिद्धोपदेशात् । सर्वत्र- "सर्वं खल्विदम्" इति निर्दिष्टे सर्वस्मिन् जगति ब्रह्म-शब्देन तदात्मतया विधीयमानं परं ब्रह्मैव न प्रत्यगात्मा । कुतः? प्रसिद्धोपदेशात्- "तज्जलान्" इति हेतुतः "सर्वं खल्विदं ब्रह्म" इति प्रसिद्धवदुपदेशात् । ब्रह्मणो जातत्वाद्ब्रह्मणि लीनत्वाद्ब्रह्माधीनजीवनत्वाच्च हेतो-र्ब्रह्मात्मकं सर्वं खल्विदं जगदित्युक्ते यस्माज्जगज्जन्मस्थितिलयाः वेदान्तेषु प्रसिद्धाः तदेवात्र ब्रह्मेति प्रतीयते ।

1.2.1

 

तच्च परमेव ब्रह्म; तथा हि "यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्म" इत्युपक्रम्य "आनन्दो ब्रह्मेति व्यजानात् । आनन्दाध्द्येव खल्विमानि भूतानि जायन्ते" इत्यादिना पूर्वानुवाकप्रतिपादितानवधिकातिशयानन्दयोगिनो विपश्चितः परस्माद्ब्रह्मण एव जगदुत्पत्तिस्थिति-लया निर्द्दिश्यन्ते; तथा "स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः" इति करणाधिपस्य जीवस्याधिपः परं ब्रह्मैव कारणं

व्यपदिश्यते, एवं सर्वत्र परस्यैव ब्रह्मणः कारणत्वं पसिद्धम्; अतः परब्रह्मणो जातत्वात्तस्मिन् प्रलीनत्वात् तेन प्राणनात् तदात्मकतया तादात्म्यमुपपन्नम् । अतस्सर्वप्रकारं सर्वशरीरं सर्वा-त्मभूतं परं ब्रह्म शान्तो भूत्वा उपासीतेति श्रुतिरेव परस्य ब्रह्मणः सर्वात्मकत्वमुपपाद्य तस्योपासनमुपदिशति । परं ब्रह्म हि कारणावस्थं कार्यावस्थं सूक्ष्मस्थूलचिदचिद्वस्तुशरीरतया सर्वदा सर्वात्मभूतम् । एवम्भूततादात्म्यस्य प्रतिपादने परस्य ब्रह्मणस्सकलहेयप्रत्यनीककल्याणगुणाकरत्वं न विरुध्यते, प्रकारभूतशरीरगतानां दोषाणां प्रकारिण्यात्मन्यप्रसङ्गात्, प्रत्युत निरतिशयैश्वर्यापादनेन गुणायैव भवतीति पूर्वमेवोक्तम् । यदुक्तं जीवस्य सर्व-तादात्म्यमुपपद्यत इति । तदसत्; जीवानां प्रतिशरीरं भिन्नानामन्योन्यतादात्म्यासम्भवात् । मुक्तस्याप्यनव-च्छिन्नस्वरूपस्यापि जगत्तादात्म्यं जगज्जन्मस्थितिप्रलयकारणत्वनिमित्तं न सम्भवतीति "जगद्य्वापारवर्जम्"

1.2.2

 

इत्यत्र वक्ष्यते । जीवकर्मनिमित्तत्वाज्जगज्जन्मस्थितिलयानां स एव कारणमित्यपि न साधीयः, तत्कर्मनि-मित्तत्वेऽपीश्वरस्यैव जगत्कारणत्वात् । अतः परमात्मैवात्र ब्रह्मशब्दाभिधेयः । इममेव सूत्रार्थमभियुक्ता बहुमन्वते । यदाह वृत्तिकारः "सर्वं खल्विति सर्वात्मा ब्रह्मेशः" इति ।।

1.2.2 विवक्षितगुणोपपत्तेश्च ।। 2 ।।

1.2.2

 

वक्ष्यमाणाश्च गुणाः परमात्मन्येवोपपद्यन्ते "मनोमयः प्राणशरीरो भारूपस्सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामस्सर्वगन्धः सर्वरसस्सर्वमिदमभ्यात्तोऽवाक्यनादरः" इति । मनोमयः-परिशुद्धेन मनसैकेन ग्राह्यः, विवेकविमोकादिसाधनसप्तकानुगृहीतपरमात्मोपासननिर्मलीकृतेन हि मनसा गृह्यते । अनेन हेय-प्रत्यनीककल्याणैकतानतया सकलेतरविलक्षणस्वरूपतोच्यते; मलिनमनोभिर्मलिनानानामेव ग्राह्यत्वात् । प्राणशरीरः-जगति सर्वेषां प्राणानां धारकः, प्राणोयस्य शरीरम् आधेयं विधेयं शेषभूतञ्च स प्राणशरीरः ।

1.2.2

 

आधेयत्वविधेयत्वशेषत्वानि शरीरशब्दप्रवृत्तिनिमित्तानीत्युपपादयिष्यते । भारूपः-भास्वररूपः, अप्राकृत-स्वासाधारणनिरतिशयकल्याणदिव्यरूपत्वेन निरतिशयदीप्तियुक्त इत्यर्थः । सत्यसङ्कल्पः-अप्रतिहतसङ्कल्पः । आकाशात्मा-आकाशवत् सूक्ष्मस्वच्छस्वरूपः, सकलेतरकारणभूतस्याकाशस्याप्यात्मभूत इति वा आका-शात्मा, स्वयं च प्रकाशते अन्यानपि प्रकाशयतीति वा आकाशात्मा । सर्वकर्मा-क्रियत इतिकर्म, सर्वं जग-द्यस्य कर्म असौ सर्वकर्मा; सर्वा वा क्रिया यस्यासौ सर्वकर्मा । सर्वकामः-काम्यन्त इति कामाः, भोग्यभो-गोपकरणादयः, ते परिशुद्धाः सर्वविधास्तस्य सन्तीत्यर्थः । सर्वगन्धस्सर्वरसः-"अशब्दमस्पर्शम्" इत्यादिना प्राकृतगन्धरसादिनिषेधादप्राकृताः स्वासाधारणा निरवद्याः निरतिशयाः कल्याणाः स्वभोग्यभूताः सर्वविधाः गन्धरसास्तस्य सन्तीत्यर्थः । सर्वमिदमभ्यात्तः-उक्तं रसपर्यन्तं सर्वमिदं कल्याणगुणजातं स्वीकृतवान् । "अभ्यात्तः" इति "भुक्ता ब्राह्मणाः" इतिवत्कर्त्तरि क्तः प्रतिपत्त्यव्यः । अवाकीवाकः उक्तिः, सोऽस्य नास्तीति

1.2.3

 

अवाकी । कुत इत्याह अनादर इति । अवाप्तसमस्तकामत्वेनादत्तर्व्याभावादादररहितः । अत एव अवाकी-अजल्पाकः, परिपूर्णैश्चर्यत्वाद्ब्रह्मादिस्तम्बपर्यन्तं निखिलं जगत्तृणीकृत्य जोषमासीन इत्यर्तः । त एते विव- क्षिता गुणाः परमात्मन्येवोपपद्यन्ते ।।

1.2.3 अनुपपत्तेस्तु न शारीरः ।। 3 ।।

1.2.3

तमिमं गुणसागरं पर्यालोचयतां खद्योतकल्पस्य शरीरसम्बन्धनिबन्धनापरिमितदुःखसंबन्धयोग्यस्य

1.2.4

 

बद्धमुक्तावस्थस्य जीवस्य प्रस्तुतगुणलेशसम्बन्धगन्धोऽपि नोपपद्यत इति नास्मिन् प्रकरणे शारीरपरिग्रह- शङ्का जायत इत्यर्थः ।।

1.2.4 कर्म्मकर्तृव्यपदेशाच्च ।। 4 ।।

1.2.4

"एतमितः प्रेत्यभिसम्भवितास्मि" इति प्राप्यतया परं ब्रह्म व्यपदिश्यते, प्राप्तृतया च जीवः, अतः प्राप्ता जीव उपासकः, प्राप्यं परं ब्रह्मोपास्यमिति प्राप्तुरन्यदेवेदमिति विज्ञायते ।।

1.2.5 शब्दविशेषात् ।। 5 ।।

1.2.5

"एष म आत्माऽन्तर्हृदये" इति शारीरः षष्ठया निर्दिष्टः, उपास्यस्तु प्रथमया । एवं समानप्रकरणे वाजिनाञ्च

1.2.6

 

मन्तरात्मन् पुरुषो हिरण्यमयो यथा ज्योतिरधूमम्" इति । अत्र "अन्तरात्मन्" इति सप्तम्यन्तेन शारीरो निर्दिश्यते; "पुरुषो हिरण्यमयः" इति प्रथमयोपास्यः, अतः पर एवोपास्यः ।। इतश्च शारीरादन्यः -

1.2.6 स्मृतेश्च ।। 6 ।।

1.2.6

"सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च" "यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्" "ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया । तमेव शरणं गच्छ" इति च शारीरकमुपासकं परमात्मानं चोपास्यं स्मृतिर्दर्शयति ।।

1.2.7 अर्भकौकस्त्वात्तद्य्वपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ।। 7 ।।

1.2.7

 

अल्पायतनत्वमर्भकौकस्त्वम्; तद्य्वपदेशः-अल्पत्वव्यपदेशः । "एष म आत्माऽन्तर्हृदये" इत्यणीयसि हृदयायतने स्थितत्वात् "अणीयान् व्रीहेर्वा यवाद्वा" इत्यादिनाऽणीयस्त्वस्य स्वरूपेण व्यपदेशाच्च नायं परमात्मा, अपि तु जीव एव; "सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः" इत्यादिभिः पर-मात्मनोऽपरिच्छिन्नत्वावगमात्, जीवस्य चाराग्रमात्रत्वव्यपदेशादिति चेत् । नैतदेवम्; परमात्मैव ह्यणी-यानित्येवं निचाय्यत्वेन व्यपदिश्यते; एवं निचाय्यत्वेन एवं द्रष्टव्यत्वेन, एवमुपास्यत्वेनेति यावत् । न पुनरणीयस्त्वमेवास्य स्वरूपमिति; व्योमवच्चायं व्यपदिश्यते, स्वाभाविकं महत्त्वं चात्रैव व्यपदिश्यते "ज्या-यान् पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्यः" इति । अत उपासनार्थमोल्पत्व व्यपदेशः ।

1.2.7

 

तथा हि "सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत" इति सर्वोत्पत्तिप्रलयकारणत्वेन सर्वस्यात्मतयाऽनु-प्रवेशकृतजीवयितृत्वेन च सर्वात्मकं ब्रह्मोपासीतेत्युपासनं बिधाय "अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिं-ल्लोके पुरुषो भवति तथेतः प्रेत्य भवति" इति यथोपासनं प्राप्यसिद्धिमभिधाय "स क्रतुं कुर्वीत" इति गुणविधा-नार्थमुपासनमनूद्य "मनोमयः प्राणशरीरो भासरूपस्सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामस्सर्वगन्ध-स्सर्वरसस्सर्वमिदमभ्यात्तोऽवाक्यनादरः" इति जगदैश्वर्यविशिष्टस्य स्वरूपगुणांश्चोपादेयान् प्रतिपाद्य "एष म आत्माऽन्तर्हृदयेऽणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वा" इत्युपासकस्य हृदयेऽणी-यस्त्वेन तदात्मतयोपास्यस्य परमपुरुषस्योपासनार्थमवस्थानमुक्तवा "एष म आत्माऽन्तर्हृदये ज्यायान् पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्यः सर्वकर्मा सर्वकामस्सर्वगन्धस्सर्वरसस्सर्वमिदमभ्यात्तो-ऽवाक्यनादरः" इत्यन्तर्हृदयेऽवस्थितस्योपास्यमानस्य प्राप्याकारं निर्दिश्य "एष म आत्माऽन्तर्हृदय एतद्ब्रह्म" इत्येवम्भूतं परं ब्रह्म

परमकारुण्येनास्मदुच्चिचीवयिषयाऽस्मद्धृदये सन्निहितमितीदमनुसन्धानं विधाय "एतमितः प्रेत्याभिसम्भविताऽस्मि" इति यथोपासनं प्राप्तिनिश्यानुसन्धानं च विधाय "इति यस्य स्यादद्धा न विचिकित्सा-ऽस्ति" इत्येवंविधप्राप्यप्राप्तिनिश्चयोपेतस्योपासकस्य प्राप्तौ न संशयोऽस्तीत्युपसंहृतम् । अत उपासनार्थमर्भकौ-कस्त्वमणीयस्त्वञ्च ।।

1.2.8 सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ।। 8 ।।

1.2.8

 

जीवस्येव परस्यापि ब्रह्मणः शरीरार्न्वर्त्तित्वमभ्युपगतञ्चेत् तद्वदेव शरीरसम्बन्धप्रयुक्तसुखदुःखोपभोग-प्राप्तिरिति चेत् । तन्न हेतुवैशेष्यात् । न हि शरीरान्तर्वर्त्तित्वमेव सुखदुःखोपभोगहेतुः, अपि तु पुण्यपापरूप-कर्मपरवशत्वम्; तत्त्वपहतपाप्मनः परमात्मनो न सम्भवति । तथा च श्रुतिः "तयोरन्यः पिप्पलं स्वाद्वत्त्यन-श्नन्नन्यो अभिचाकशीति" इति ।।

1.2.9

 

यदि परमात्मा न भोक्ता, एवं तर्हि सर्वत्र भोक्तृतया प्रतीयमानो जीव एव स्यादित्याशङ्कयाह -

1.2.9 अत्ता चराचरग्रहणात् ।। 9 ।।

1.2.9

कठवल्लीष्वाम्नायते "यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्युर्पस्योपसेचनं क हत्था वेद यत्र सः" इति ।अत्रौदनोपसेचनसूचितोऽत्ता किं जीव एव, उत परमात्मा ? इति सन्दिह्यते । किं युक्तम् ?

1.2.9

 

जीव इति । कुतः? भोक्तृत्वस्य कर्मनिमित्तत्वात् जीवस्यैव तत्सम्भवात् ।

अत्रोच्यते-अत्ता चराचरग्रहणात् । अत्ता परमात्मैव । कुतः ? चराचरग्रहणात्-चराचरस्य कृत्स्नस्य अत्तृत्वं हि तस्यैव सम्भवति । न चेदं कर्मनिमित्तं भोक्तृत्वम्, अपि तु जगज्जन्मस्थितिलयहेतुभूतस्य परस्य ब्रह्मणो विष्णोस्संहर्तृत्वम् "सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्" इत्यत्रैव दर्शनात्, तथा च "मृत्युर्यस्योपसे-चनम्" इति वचनात् "ब्रह्म च क्षत्रञ्च" इति कृत्स्नं चराचरं जगदिहादनीयौदनत्वेन गृह्यते । उपसेचनं हि नाम

1.2.9

 

स्वयमद्यमानं सदन्यस्यादनहेतुः, अत उपसेचनत्वेन मृत्योरप्यद्यमानत्वात्तदुपसिच्यमानस्य कृत्स्नस्य ब्रह्म-क्षत्रपूर्वकस्य जगतश्चराचरस्यादनमत्र विवक्षितमिति गम्यते । ईदृशं चादनमुपसंहार एव; तस्मादीदृशं जग-दुपसंहारित्वरूपं भोक्तृत्वं परमात्मन षव ।।

1.2.10 प्रकरणाच्च ।। 10 ।।

1.2.10

 

प्रकरणञ्चेदं परस्यैव ब्रह्मणः "महान्तं विभुमात्मानं मत्वा धीरो न शोचति " "नायमात्मा पवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्" इति हि प्रकृतम् । "क इत्था वेद यत्र सः" इत्यपि हि तत्प्रसादादृते तस्य दुरवबोधत्वमेव पूर्वप्रस्तुतं प्रत्यभिज्ञायते ।।

अथ स्यात्-नायं ब्रह्मक्षेत्रौदनसूचितः पुरुषोऽपहतपाप्मा परमात्मा; अनन्तरं "ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्ध्ये । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः" इति कर्मफलभोक्तुरेव

1.2.10

 

सद्वितीयस्याभिधानात् । द्वितीयश्च प्राणो बुद्धिर्वा स्यात् । ऋतपानं हि कर्मफल भोग एव; स च परमात्मनो न सम्भवति;

बुद्धिप्राणयोस्तु भोक्तुर्जीवस्योपकरणभूतयोर्यथाकथञ्चित्पानेऽन्वयस्सम्भवतीति तयोरन्यतरेण-

1.2.11

 

सद्वितीयो जीव एव प्रतिपाद्यते । तदेकप्रकरणत्वात्पूर्वप्रस्तुतोऽत्तापि स एव भवितुमर्हतीति । तत्रोच्यते

1.2.11 गुहां प्रविष्टावात्मानौहि तद्दर्शनात् ।। 11 ।।

1.2.11

न प्राणजीवौ बुद्धिजीवौ वा गुहां प्रविष्टौ ऋतं पिबन्तावित्युच्यते, अपि तु जीवपरमात्मानौ हि तथा व्यपदिश्येते । कुतः? तद्दर्शनात् । अस्मिन् प्रकरणे जीवपरयोरेव गुहाप्रवेशव्यपदेशो दृश्यते । परमात्मनस्ता- वत् "तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्टं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति" इति । जीवस्यापि "या प्राणेन सम्भवत्यदितिर्देवतामयी । गुहां प्रविश्य तिष्ठन्ती या भूतेभिर्व्य- जायत" इति । कर्मफलान्यत्तत्यिदितिर्ज्जीव उच्यते । प्राणेन सम्भवति-प्राणेन सह वर्त्तते । देवतामयी-इन्द्रि-याधीनभोगा । गुहां प्रविश्य तिष्ठन्ती-हृदयपुण्डरीकोदरवर्त्तिनी । भूतेभिर्व्यजायत-पृथिव्यादिभिर्भूतैस्सहिता देवादिरूपेण विविधा जायते । एवञ्च सति "ऋतं पिबन्तौ" इति व्यपदेशः छत्रिणो गच्छन्तीतिवत्प्रतिपत्तव्यः ।

1.2.12

 

यद्वा-प्रयोज्यप्रयोजकरूपेण पाने कर्तृत्वं जीवपरयोरुपपद्यते ।।

1.2.12 विशेषणाच्च ।। 12 ।।

1.2.12

अस्मिन् प्रकरणे जीवपरमात्मानावेवोपास्यत्वोपासकत्वप्राप्यत्वप्राप्तृत्वविशिष्टौ सर्वत्र प्रतिपाद्येते । "ब्रह्म-जज्ञं देवमीड्यं विदित्वा निचाय्येमां शान्तिमत्यन्तमेति" इति । ब्रह्मजज्ञो जीवः, ब्रह्मणो जातत्वात् ज्ञत्वाच्च; तं देवमीड्यं विदित्वा-जीवात्मानमुपासकं ब्रह्मात्मकत्वेनावगम्येत्यर्थः । तथा "यस्सेतुरीजानानामक्षरं ब्रह्म यत्परम् । अभयं तितीर्षतां पारं नाचिकेतं शकेमहि" इत्युपास्यः परमात्मोच्यते । नाचिकेतम्-नाचिकेतस्य कर्मणः प्राप्यमित्यर्थः । "आत्मानं रथिनं विद्धि शरीरं रथमेव च" इत्यादिना उपासको जीव उच्यते । तथा "विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्" इति प्राप्यप्राप्तारावभि-धीयेते जीवपरमात्मानौ । इहापि छायातपावित्यज्ञत्वसर्वज्ञत्वाभ्यां विशिष्य व्यपदिश्येते ।।

1.2.12

 

अथ स्यात् "येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके" इति जीवस्वरूपयाथात्म्यप्रश्नोप-क्रमात्सर्वमिदं प्रकरणं जीवपरमिति प्रतीयत इति । नैतदेवम्, न हि जीवस्य देहातिरिक्तस्यास्तित्वनास्ति-त्वशङ्कायाऽयं प्रश्नः, तथा सति पूर्ववरद्वयवरणानुपपत्तेः । तथा हि; पितुः सर्ववेदसदक्षिणक्रतुसमाप्तिवेलायां दीयमानदक्षिणावैगुण्येन क्रतुवैगुण्यं मन्यमानेन कुमारेण नचिकेतसा आस्तिकाग्रेसरेण स्वात्मदानेनापि पितुः क्रतुसाद्गुण्यमिच्छता "कस्मै मां दास्यसि" इत्यसकृत् पितरं पृष्टवता स्वनिबर्न्धरुष्टिपितृवचनात् मृत्यु- सदनं प्रविष्टेन स्वसदनात्प्रोषुषि यमे तददर्शनात्तत्र तिस्रो रात्रीरुपोषुषा स्वोपवासभीततत्प्रतिविधानप्रवृत्त-मृत्युप्रत्ते वरत्रये आस्तिक्यातिरेकात्प्रथमेन वरेण स्वात्मानं प्रति पितुः प्रसादो वृतः, एतञ्च सर्वं देहातिरि-क्तमात्मानमजानतो नोपपद्यते । द्वितीयेन च वरेणोत्तीर्णदेहात्मानुभाव्यफलसाधनभूताग्निविद्या वृत्ता, तदपि देहातिरिक्तात्मानभिज्ञस्य न सम्भवति । अतस्तृतीयेन वरेण यदिदं व्रियते "येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः" इति; अत्र परमपुरुषार्थ-रूपब्रह्मप्राप्तिलक्षणमोक्षयाथात्म्यविज्ञानाय तदुपायभूतपरमात्मोपासनपरात्मतत्त्वजिज्ञासयाऽयं प्रश्नः क्रियते ।

1.2.12

 

एवञ्च "येयं प्रेते" इति न शरीरवियोगमात्राभिप्रायम्, अपि तु सर्वबन्धविनिर्मोक्षःभिप्रायम् । यथा "न प्रेत्य सञ्ज्ञाऽस्ति" इति

। अयमर्थः,-मोक्षाधिकृते मनुष्ये प्रेते-सर्वबन्धविनिर्मुक्ते तत्स्वरूपविषया वादिविप्रतिपत्ति-

1.2.12

 

निमित्तास्तिनास्त्यात्मिका येयं विचिकित्सा तदपनोदनाय तत्स्वरूपयाथात्म्यं त्वयाऽनुशिष्टोऽहं विद्यां जा-नीयामिति । तथा हि बहुधा विप्रतिपद्यन्ते केचिद्वित्तिमात्रस्यात्मनः स्वरूपोच्छित्तिलक्षणं मोक्षमाचक्षते । अन्ये वित्तिमात्रस्यैव सतो अविद्यास्तमयम् । अपरे पाषाणकल्पस्यात्मनो ज्ञानाद्यशेषवैशेषिकगुणोच्छेदलक्षणं कै-वल्यरूपम् । अपरे तु अपहतपाप्मानं परमात्मानमभ्युपगच्छन्तः तस्यैवोपाधिसंसर्गनिमित्तजीवभावस्योपा-ध्यपगमेन तद्भावलक्षणं मोक्षमातिष्ठन्ते । त्रय्यन्तनिष्णातास्तु निखिलजगदेककारणस्याशेषहेयप्रत्यनीका-नन्तज्ञानानन्दैकस्वरुपस्य स्वाभाविकानवधिकातिशयासङ्खयेयकल्याणगुणाकरस्य सकलेतरविलक्षणस्य

1.2.12

 

सर्वात्मभूतस्य परस्य ब्रह्मणः शरीरतया प्रकारभूतस्यानुकूलापरिच्छिन्नज्ञानस्वरूपस्य परमात्मानुभवैकरसस्य जीवस्यानादिकमर्रूपाविद्यातिरोहितस्वरूपस्याविद्योच्छेदपूर्वकस्वाभाविकपरमात्मानुभवमेव मोक्षमाचक्षते । तत्र मोक्षस्वरूपं तत्साधनं च त्वत्प्रसादाद्विद्यामिति नचिकेतसा पृष्टो मृत्युः तस्यार्थस्य दुरवबोधत्वप्रदर्शनेन विविधभोगवितरणप्रलोभनेन चैनं परीक्ष्य योग्यतामभिज्ञाय परावरात्मतत्त्वविज्ञानं परमात्मोपासनं तत्पद-प्राप्तिलक्षणं मोक्षञ्च "तं दुर्दर्शं गूढमनुप्रविष्टम्" इत्यारभ्य "सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्" इत्यन्तेन उपदिश्य तदपेक्षितांश्च विशेषानुपदिदेशेति सर्वं समञ्जसम् । अतः परमात्मैवात्तेति सिद्धम् । ।। इति अत्रधिकरणम् ।।

1.2.13 अन्तर उपपत्तेः ।। 13 ।।

1.2.13

 

इदमामनन्तिच्छन्दोगाः "य एषोऽक्षिणि पुरुषो दृश्यते । एष आत्मेति होवाच एतदमृतमेतदभयमेतद्ब्रह्म" इति । तत्र सन्देहः-किमयमक्ष्याधारतया निर्दिश्यमानः पुरुषः प्रतिबिम्बात्मा, उत चक्षुरिन्द्रियाधिष्ठातादेवताविशेषः, उत जीवात्मा, अथ परमात्मा ? इति । किं युक्तम् ? प्रतिबिम्बात्मेति । कुतः? प्रसिद्धवन्निर्देशात्; "दृश्यते" इत्यपरोक्षाभिधानाच्च । जीवात्मा वा, तस्यापि हि चक्षुषि विशेषेण सन्निधानात्प्रसिद्धिरुपपद्यते ? उन्मीलितं हि चक्षुरुद्वीक्ष्य जीवात्मनश्शरीरे स्थितिगती निश्चिन्वन्ति । "रश्मि-भिरेषोऽस्मिन् प्रतिष्ठितः" इति श्रुतिप्रसिद्धया चक्षुः प्रतिष्ठो देवताविशेषो वा;एष्वेव प्रसिद्धवन्निर्देशोपपत्तेरे-षामन्यतमः-

1.2.14

 

इति प्राप्ते प्रचक्ष्महे-अन्तर उपपत्तेः । अक्ष्यन्तरः परमात्मा । कुतः ? "एष आत्मेति होवाचैतदमृतमेतदभय-मेद्ब्रह्म एतं संयद्वाम इत्याचक्षते । एतं हि सर्वाणि वामान्यभिसंयन्ति एष उ एव वामनिः । एष हि सर्वाणि वामानि नयति । एष उ एव भामनिः । एष हि सर्वेषु लोकेषु भाति" इत्येषां गुणानां परमात्मन्येवोपपत्तेः ।।

1.2.14 स्थानादिव्यपदेशाच्च ।। 14 ।।

1.2.14

चक्षुषि स्थितिनियमादयः परमात्मन एव "यश्चक्षुषि तिष्ठन्" इत्येवमादौ व्यपदिश्यन्ते । अतश्च "य एषो-ऽक्षिणि पुरुषः" इति स एव प्रतीयते; अतः प्रसिद्धवन्निर्देशश्च परमात्मन्युपपद्यते । तत एव "दृश्यते" इति साक्षात्कारव्यपदेशोऽपि योगिभिर्दृश्यमानत्वादुपपद्यते ।।

1.2.15 सुखविशिष्टाभिधानादेव च ।। 15 ।।

1.2.15

 

इतश्चाक्ष्याधारः पुरुषोत्तमः "कं ब्रह्म खं ब्रह्म" इति प्रकृतस्य सुखविशिष्टस्य ब्रह्मणः उपासनस्थानविधानार्थं

1.2.15

 

संयद्वादिगुणविधानार्थं च "य एषोऽक्षिणि पुरुषः" इत्यभिधानात् । एवकारो नैरपेक्ष्यं हेतोर्द्योतयति । नन्वग्नि-विद्याव्यवधानात् "कं ब्रह्म" इति प्रकृतं ब्रह्म नेह सन्निधत्ते । तथा हि, अग्नयः "प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म" इति ब्रह्मविद्यामुपदिश्य "अथ हैनं गार्हपत्योऽनुशशास" इत्यारभ्याग्नीनामुपासनमुपदिदिशुः । न चाग्निविद्या ब्रह्म-विद्याङ्गमिति शक्यं वक्तुम्; ब्रह्मविद्याफलानन्तर्गततद्विरोधिसर्वायुः प्राप्तिसन्तत्यविच्छेदादिफलश्रवणात् । उच्यते; "प्राणो ब्रह्म" "एतदमृतमेतदभयमेतद्ब्रह्म" इत्युभयत्र ब्रह्मसंशब्दनात् । "आचार्यस्तु ते गतिं वक्ता" इत्यग्निवचनाच्च गत्युपदेशात्पूर्वं ब्रह्मविद्याया असमाप्तेस्तन्मध्यगताग्निविद्या ब्रह्मविद्याङ्गमिति निश्चीयते । "अथ हैनं गार्हपत्योऽनुशशास" इति ब्रह्मविद्याधिकृतस्यैवाग्निविद्योपदेशाच्च । किञ्च "व्याधिभिः परिपूर्णोऽस्मि" इति

1.2.15

 

ब्रह्मप्राप्तिव्यतिरिक्तनानाविधकामोपहतिपूर्वकगर्भजन्मजरामरणादिभवभयोपतप्तायोपकोसलाय "एषा सोम्य ते अस्मद्विद्यात्मविद्या च " इति समुच्चित्योपदेशान्मोक्षैकफलात्मविद्याङ्गत्वमग्निविद्यायाः प्रतीयते । एवं चा-ङ्गत्वेऽवगते सति फलानुकीर्त्तनमर्थवाद इति गम्यते । न चात्र मोक्षविरोधिफलं किञ्चिच्छÜयते, "अपहते पाप-कृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यापरपुरुषाः क्षीयन्ते उप वयं तं भुञ्जामोऽस्मिंश्च लोकेऽ-मुष्मिंश्च" इत्यमीषां फलानां मोक्षाधिकृतस्यानुगुणत्वात् । अपहते पापकृत्याम्-ब्रह्मप्राप्तिविरोधि पापं कर्मा-पहन्ति । लोकी भवति-तद्विरोधिनि पापे निरस्ते ब्रह्मलोकं प्राप्नोति । सर्वमायुरेति-ब्रह्मोपासनसमाप्तेर्यावदा-युरपेक्षितम्, तत्सर्वमेति । ज्योग्जीवति-व्याध्यादिभिरनुपहतो यावद्ब्रह्मप्राप्ति जीवति । नास्यापरपुरुषाः क्षीयन्ते अस्य शिष्यप्रशिष्यादयः पुत्रपौत्रादयोपि ब्रह्मविद एव भवन्ति । "नास्याब्रह्मवित्कुले भवति" इति च श्रुत्यन्तरे ब्रह्मविद्याफलत्वेन श्रूयते । उप वयं तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिंश्च-वयम् अग्नयस्तमेनमुपभुञ्जामः यादद्ब्रह्मपाप्ति विघ्नेभ्यः परिपालयाम इति । अतोऽग्निविद्यायाः ब्रह्मविद्याङ्गत्वेन तत्सन्निधानाविरोधात् सुख-विशिष्टं प्रकृतमेव ब्रह्मोपासनस्थानविधानार्थं गुणविधानार्थं चोच्यते । ननु "आचार्यस्तु ते गतिं वक्ता" इति गतिमात्रपरिशेषणादाचार्येण गतिरेवोपदेश्येति गम्यते, तत्कथं स्थानगुणविध्यथर्तोच्यते । तदभिधीयते

1.2.16

 

"आचार्यस्तु ते गतिं वक्ता" इत्यस्यायमभिप्रायः,- ब्रह्मविद्यामनुपदिश्य प्रोषुषि गुरौ तदलाभादनाश्वासमु-पकोसलमुज्जीवयितुं स्वपरिचरणप्रीता गार्हपत्यादयो गुरौरग्नयस्तस्मै ब्रह्मस्वरूपमात्रं तदङ्गभूतां चाग्निविद्या-मुपदिश्य "आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापत्" इति श्रुत्यर्थमालोच्य साधुतमत्वप्राप्त्यर्थमाचार्य एवास्य संयद्वामत्वादिगुणकं ब्रह्म तदुपासनस्थानमर्चिरादिकां च गतिमुपदिशत्विति मत्वा "आचार्यस्तु ते गतिं वक्ता" इत्यवोचन् । गतिग्रहणमुपदेश्यविद्याशेषप्रदर्शनार्थम् । अत एवाचार्योऽपि "अहं तु ते तद्वक्ष्यामि यथा पुष्क-रपलाश आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यते" इत्युपक्रम्य संयद्वामत्वादिकल्याणगुणविशिष्टं ब्रह्माक्षिस्थानोपास्यमर्चिरादिकाञ्च गतिमुपदिदेश । अतः "कं ब्रह्म खं ब्रह्म" इति सुखविशिष्टस्य प्रकृतस्यैव ब्रह्मणोऽत्राभिधानादयमक्ष्याधारः परमात्मा ।

ननु च "कं ब्रह्म खं ब्रह्म" इति परं ब्रह्माभिहितमिति कथमवगम्यते ? यस्येहाक्ष्याधारतयाऽभिधानं ब्रूषे । यावता "कं ब्रह्म खं ब्रह्म" इति प्रसिद्धाकाशलौकिकसुखयोरेव ब्रह्मदृष्टिविर्धीयत इति प्रतिभाति "नाम ब्रह्म" "मनो ब्रह्म" इत्यादिवचनसारूप्यात् । तत्राह -

1.2.16 अत एव च स ब्रह्म ।। 16 ।।

1.2.16

यतस्तत्र "यदेव कं तदेव खम्" इति सुखविशिष्टस्याकाशस्याभिधानम्; अत एव खशब्दाभिधेयस्सः आकाशः

1.2.16

 

परं ब्रह्म । एतदुक्तं भवति; अग्निभिः "प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म" इत्युक्ते उपकोसल उवाच "विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न विजानामि" इति । अस्यायमभिप्रायः-न तावत्प्राणादिप्रतीकोपासनमग्निभि-रभिहितम्, जन्मजरामरणादिभवभयभीतस्य मुमुक्षोर्ब्रह्मोपदेशाय प्रवृत्तत्वात्, अतो ब्रह्मैवोपास्यमुपदिष्टम् । तत्र प्रसिद्धैः प्राणादिभिस्समानाधिकरणं ब्रह्म निर्दिष्टम्, तेषु च प्राणविशिष्टत्वं जगद्विधरणयोगेन वा प्राण-शरीरतया प्राणस्य नियन्तृत्वेन वा ब्रह्मण उपपद्यत इति "विजानाम्यहं यत्प्राणो ब्रह्म" इत्युक्तवान् । तथा सुखाकाशयोरपि ब्रह्मणः शरीरतया तन्नियाम्यत्वेन विशेषणत्वम्; उतान्योन्यव्यवच्छेदकतया निरतिशया-

1.2.16

 

नन्दरूपब्रह्मस्वरूपसमर्पणपरत्वेन वा ? तत्र पृथग्भूतयोः शरीरतया विशेषणत्वे वैषयिकसुखभूताकाशयो-र्नियामकत्वं ब्रह्मणः स्यादिति स्वरूपावगतिर्न स्यात्, अन्योन्यव्यवच्छेदकत्वे अपरिच्छिन्नानन्दैकस्वरूपत्वं ब्रह्मणः स्यादित्यन्तरप्रकारनिर्दिधारयिषया "कं च तु खं च न विजानामि" इत्युक्तवान् । उपकोसलस्येममाशयं जानन्तोऽग्नयः "यद्वा व कं तदेव खं यदेव खं तदेव कम्" इत्यूचिरे । ब्रह्मणस्सुखरूपत्वमेवापरिच्छिन्नमित्यर्थः । अतः प्राणशरीरतया प्राणविशिष्टं यद्ब्रह्म तदेवापरिच्छिन्नसुखरूपं चेति निगमितम्, "प्राणञ्च हास्मै तदाकाशं चोचुः" इति । अतः "कं ब्रह्म खं ब्रह्म" इत्यत्रापरिच्छिन्नसुखं ब्रह्म प्रतिपादितमिति परं ब्रह्मैव तत्र प्रकृतम्, तदेव चात्राक्ष्याधारतयाऽभिधीयत इत्यक्ष्याधारः परमात्मा ।

1.2.17 श्रुतोपनिषत्कगत्यभिधानाच्च ।। 17 ।।

1.2.17

 

श्रुतोपनिषत्कस्य-अधिगतपरमपुरुषयाथात्म्यस्यानुसन्धेयतया श्रुत्यन्तरप्रतिपाद्यमाना अर्चिरादिका- गतिर्या तामपुनरावृत्तिलक्षणपरमपुरुषप्राप्तिकरीमुपकोसलायाक्षिपुरुषं श्रुतवते "तेऽर्चिषमेवाभिसम्भवन्त्य-र्चिषोऽहरह्न आपूर्यमाणपक्षम्" इत्यारभ्य "चन्द्रमसो विद्युतं तत्पुरुषोऽमानवस्स एनान् ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्त्तं नावर्त्तन्ते" इत्यन्तेनोपदिशति; अतोऽप्ययमक्षिपुरुषः परमात्मा ।।

1.2.18 अनवस्थितेरसम्भवाच्च नेतरः ।। 18 ।।

1.2.18

 

प्रतिबिम्बादीनामक्षिणि नियमेनानवस्थानादमृतत्वादीनां च निरुपाधिकानां तेष्वसम्भवान्न परमात्मन इतरः, छायादिरक्षिपुरुषो भवितुमर्हति । प्रतिबिम्बस्य तावत्पुरुषान्तरसन्निधानायत्तत्वान्न नियमेनावस्थान-सम्भवः । जीवस्यापि सर्वेन्द्रियव्यापारानुगुणत्वाय सर्वेन्द्रियकन्दभूते स्थानविशेषे वृत्तिरिति चक्षुषि नाव-

1.2.18

 

स्थानम् । देवतायाश्च "रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः" इति रश्मिद्वारेणावस्थानवचनाद्देशान्तरावस्थितस्या-

1.2.18

 

पीन्द्रियाधिष्ठानोपपत्तेर्न चक्षुष्यवस्थानम् । सर्वेषामेवैषां निरुपाधिकामृतत्वादयो न सम्भवन्त्येव; तस्माद-क्षिपुरुषः परमात्मा ।। इति अन्तराधिकरणम् ।।

1.2.19

 

"स्थानादिव्यपदेशाच्च" इत्यत्र "यश्चक्षुषि तिष्ठन्" इत्यादिना प्रतिपाद्यमानं चक्षुषि स्थितिनियमनादिकं परमात्मन एवेति सिद्धं कृत्वाऽक्षिपुरुषस्य परमात्मत्वं साधितम् । इदानीं तदेव समर्थयते-

1.2.19 अन्तर्य्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् ।। 19 ।।

1.2.19

काण्वा माध्यन्दिनाश्च वाजसनेयिनः समामनन्ति "यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः" इति । एवमम्ब्वग्न्यन्त-

1.2.19

 

रिक्षवाय्वादित्यदिक्चन्द्रतारकाकाशतमस्तेजस्सु दैवेषु च सर्वेषु भूतेषु प्राणवाक्चक्षुःश्रोत्रमनस्त्वग्विज्ञान-रेतस्स्वात्मात्मीयेषु च तिष्ठन्तं तत्तदन्तरभूतं तत्तदवेद्यं तत्तच्छरीरकं तत्तद्यमयन्तं कञ्चिन्निर्दिश्य "एष त आत्मान्तर्याम्यमृतः" इत्युपदिश्यते । माध्यन्दिनपाठे तु "यस्सर्वेषु लोकेषु तिष्ठन्" "यस्सर्वेषु वेदेषु" "यस्स- र्वेषु यज्ञेषु" इति च पर्यायाः, "यो विज्ञाने तिष्ठन्" इत्यस्य पर्यायस्य स्थाने "य आत्मनि तिष्ठन्" इति पर्यायः । "स त आत्मान्तर्याम्यमृतः" इति च विशेषः । तत्र संशयते-किमयमन्तर्यामी प्रत्यगात्मा; उत परमात्मा ? इति । किं युक्तम् ? प्रत्यगात्मेति । कुतः? वाक्यशेषे "द्रष्टा श्रोता" इति करणायत्तज्ञानताश्रुतेः । एवं द्रष्टुरेवान्तर्या-मित्वोपदेशात् "नान्यतोऽस्ति द्रष्टा" इति द्रष्ट्रन्तरनिषेधाच्चेति ।

1.2.19

 

एवं प्राप्तेऽभिधीयते-अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् । अधिदैवाधिलोकादिपदचिह्नितेषु वाक्येषु श्रूयमाणोऽन्तर्याम्यपहतपाप्मा परमात्मा नारायणः । काण्वपाठसिद्धेभ्योऽधिदैवादिमद्य्भो वाक्येभ्यो-ऽधिकान्यधिलोकादिमन्ति वाक्यानि माध्यन्दिनपाठे सन्तीति ज्ञापनार्थमधिदैवाधिलोकादिष्वित्युभयोरुपा-दानम् । तदेवमुभयेष्वपि वाक्येष्वन्तर्यामी परमात्मेत्यर्थः । कुतः? तद्धर्मव्यपदेशात् । परमात्मधर्मो ह्ययम्; यदेक एव सन् सर्वलोकसर्वभूतसर्वदैवादीन्नियमयतीति । तथा ह्युद्दालकप्रश्नः "य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयति" इत्युपक्रम्य "तमन्तर्यामिणं ब्रूहि" इति तस्य चोत्तरम् "यः पृथिव्यां तिष्ठन्" इत्यारभ्योक्तम् । तदेतत्सर्वान् लोकान् सर्वाणि च भूतानि सर्वान् देवान् सर्वान् वेदान् सर्वांश्च यज्ञा-नन्तःप्रविश्य सर्वप्रकारनियमनं सर्वशरीरतया सर्वस्यात्मत्वं च सर्वज्ञात्सत्यसङ्कल्पात्पुरुषोत्तमादन्यस्य न सम्भवति । तथा हि "अन्तः प्रविष्ठः शास्ता जनानां सर्वात्मा" "तत्सृष्ट्वा । तदेवानुप्राविशत् । तदनुप्रविश्य । सच्च त्यच्चाभवत्" इत्यादीन्यौपनिषदानि वाक्यानि परमात्मन एव सर्वस्य प्रशासितृत्वं सर्वस्यात्मत्वमित्यादीनि वदन्ति । तथा सुबालोपनिषदि "नैवेह किञ्चनाग्र आसीतमूलमनाधारमिमाः प्रजाः प्रजायन्ते दिव्यो देव एको

1.2.19

 

नारायणः । चक्षुश्च द्रष्टव्यं च नारायणः । श्रोत्रं च श्रोतव्यं च नारायणः" इत्यारभ्य "अन्तश्शरीरे निहितो गुहायामज एको नित्यः यस्य पृथिवी शरीरं यः पृथिवीमन्तरे सञ्चरन् यं पृथिवी न वेद यस्यापश्शरीरम्" इत्यादि, "यस्य मृत्युः शरीरं यो मृत्युमन्तरे सञ्चरन् यं मृत्युर्न वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः" इति परस्यैव ब्रह्मणः सर्वात्मत्वं सर्वशरीरत्वं सर्वस्य नियन्तृत्वं च प्रतिपाद्यते । स्वा-भाविकं चामृतत्वं परमात्मन एव धर्मः । न च परस्यात्मनः करणायत्तं द्रष्टृत्वादिकम्, अपि तु स्वभावत एव सर्वज्ञत्वात्सत्यसङ्कल्पत्वाच्च स्वत एव । तथा च श्रुतिः "पश्यत्यचक्षुस्स #ृणोत्यकर्णः अपाणिपादो जवनो

1.2.19

 

ग्रहीता" इति । न च दर्शनश्रवणादिशब्दाश्चक्षुरादिकरणजन्मनो ज्ञानस्य वाचकाः, अपि तु रूपादिसाक्षात्का-रस्य । स च रूपादिसाक्षात्कारः कर्मतिरोहितस्वाभाविकज्ञानस्य जीवस्य चक्षुरादिकरणजन्मा, परस्य तु स्वत एव । "नान्योऽतोऽस्ति द्रष्टा" इत्येतदपि पूर्ववाक्योदितान्नियन्तुर्द्रष्टुरन्यो द्रष्टा नास्तीति वदति । "यं पृथिवी न

1.2.20

 

वेद" "यमात्मा न वेद" इत्येवमादिभिर्वाक्यैः पृथिव्यात्मादिनियाम्यैरनुपलभ्यमान एव नियमयतीति यत्पूर्व-मुक्तम्, तदेव "अदृष्टो द्रष्टा अश्रुत्श्श्#ोता" इति निगमय्य "नान्योऽतोऽस्ति द्रष्टा" इत्यादिना तस्य नियन्तु-

र्नियन्त्रन्तरं निषिध्यते । "एष त आत्मा" "स त आत्मा" इति च त इति व्यतिरेकविभक्तिनिर्दिष्टस्य जीव-स्यात्मतयोपदिश्यमानोन्तर्यामी न प्रत्यगात्मा भवितुमर्हति ।

1.2.20 न च स्मार्त्तमतद्धर्माभिलापाच्छारीरश्च ।। 20 ।।

1.2.20

स्मार्त्तम्-प्रधानम्, शारीरः-जीवः, स्मार्त्तञ्च शारीरश्च नान्यर्यामी । अतद्धर्माभिलापात्-तयोरसम्भावित-

1.2.21

 

धर्माभिलापात् । स्वभावत एव सर्वस्य द्रष्टृत्वम् सर्वस्य नियन्तृत्वम् सर्वस्यात्मत्वम् स्वत एवामृतत्वं च तयोर्न सम्भावनागन्धमर्हति । एतदुक्तम्भवति; यथा स्मार्त्तमचेतनं सर्वज्ञत्वनियन्तृत्वसर्वात्मत्वादिकं नार्हति तथा जीवोप्यतद्धर्मत्वादिति । अमीषां गुणानां परमात्मन्यन्वयः प्रत्यगात्मनि व्यतिरेकश्च सूत्रद्वयेन दर्शितः । निर-पेक्षं च हेत्वन्तरमाह -

1.2.21 उभयेऽपि हि भेदेनैनमधीयते ।। 21 ।।

1.2.21

उभये-माध्यन्दिनाः काण्वाश्च, अन्तर्यामिणो नियाम्यत्वेन वागादिभिरचेतनैस्समम् एवम् शारीरमपि विभज्याधीयते "य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति

1.2.21

 

स त आत्मान्तर्याम्यमृतः" इति माध्यन्दिनाः, "यो विज्ञाने तिष्ठन्" इति च काण्वाः, परमात्मनियाम्यतया तस्माद्विलक्षणत्वेनैनमधीयत इत्यर्थः । अतोऽन्तर्यामी प्रत्यगात्मनो विलक्षणोऽपहतपाप्मा परमात्मा नारायण इति सिद्धम् ।। इत्यन्तर्याम्यधिकरणम् ।।

1.2.22 अदृश्यत्वादिगुणको धर्मोक्तेः ।। 22 ।।

1.2.22

 

अथर्वणिका अधीयते "अथ परायया तदक्षरमधिगम्यते । यत्तदद्रेश्यमग्राह्यमगोत्र-मवर्णमचक्षुःश्रोत्रं तदपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः" इति; तथोत्तरत्र "अक्षरात्परतः परः" इति । तत्र सन्दिह्यते-किमिहादृश्यत्वादिगुणकमक्षरमक्षरात् परतः परश्च

1.2.22

 

प्रकृतिपुरुषौ, अथोभयत्र परमात्मैव ? इति । किं तावत्प्राप्तम् ? प्रकृतिपुरुषाविति । कुतः ? अस्याक्षरय

1.2.22

 

"अदृष्टो द्रष्टा" इत्यादाविव न द्रष्टृत्वादिश्चेतनधर्मविशेष इह श्रूयते, "अक्षरात् परतः परः" इति च सर्वस्माद्वि-कारात्परभूतादक्षरादस्मात्परः क्षेत्रज्ञः समष्टिपुरुषः प्रतिपाद्यते । एतदुक्तम्भवति-रूपादिमत्स्थूलरूपाचेतन-पृथिव्यादिभूताश्रयं दृश्यत्वादिकं प्रतिषिध्यमानं पृथिव्यादिसजातीयसूक्ष्मरूपाचेतनमेवोपस्थापयति, तच्च प्रधानमेव । तस्मात्परत्वञ्च समष्टिपुरुषस्यैव प्रसिद्धम् । तदधिष्ठितञ्च प्रधानं महदादिविशेषपर्यन्तं विकारजातं

1.2.22

 

प्रसूत इति तत्र दृष्टान्ता उपन्यस्यन्ते "यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयस्सम्भवन्ति । यथा सतः पुरुषात्केशलोमानि तथा अक्षरात्सम्भवतीह विश्वम्" सति । अतोऽस्मिन् प्रकरणे प्रधानपुरुषावेव प्रति-पाद्येते- इति ।

एवं प्राप्ते ब्रूमः-अदृश्यत्वादिगुणको धर्मोक्तिः । अदृश्यत्वादिगुणकोऽक्षरात्परतः परश्च परमपुरुष एव । कुतः ? तद्धर्मोक्तेः "यस्सर्वज्ञस्सर्ववित्" इत्यादिना सर्वज्ञत्वादिकास्तस्यैव धर्मा उच्यन्ते; तथा हि "यया तदक्षरमधिगम्यते" इत्यादिना अदृश्यत्वादिगुणकमक्षरमभिधाय "अक्षरात्सम्भवतीह विश्वम्" इति तस्मा-द्विश्वसम्भवञ्चाभिधाय "यस्सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तसमादेतद्ब्रह्म नामरूपमन्नञ्च जायते" इति

1.2.22

 

भूतयोनेरक्षरस्य सर्वज्ञत्वादिः प्रतिपाद्यते । पश्चात् "अक्षरात्परतः परः" इति च प्रकृतमदृश्यत्वादिगुणकं भूत-योन्यक्षरं सर्वज्ञमेव परत्वेन व्यपदिश्यते; अतः "अक्षरात्परतः परः" इत्यक्षरशब्दः पञ्चम्यन्तः प्रकृतमदृश्यत्वादि-

1.2.23

गुणकमक्षरं नाभिधत्ते, तस्य सर्वज्ञस्य विश्वयोनेस्सर्वस्मात्परत्वेन तस्मादन्यस्य परत्वासम्भवात्, अतोऽत्रा-क्षरशब्दो भूतसूक्ष्ममचेतनं ब्रूते ।। इतश्च न प्रधानपुरुषौ -

1.2.23 विशेषणभेदव्यपदेशाभ्याञ्च नेतरौ ।। 23 ।।

1.2.23

 

विशिनष्टि हि प्रकरणम्-प्रधानाच्च पुरुषाच्च भूतयोन्यक्षरं व्यावर्त्तयतीत्यर्थः, एकविज्ञानेन सर्वविज्ञान-प्रतिज्ञोपपादनादिभिः । तथा ताभ्यामक्षरस्य भेदश्च व्यपदिश्यते "अक्षरात्परतः परः" इत्यादिना । तथा हि "स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह" इति सर्वविद्याप्रतिष्ठाभूता ब्रह्मविद्या प्रक्रान्ता; परविद्यैव

1.2.23

 

च सर्वविद्याप्रतिष्ठा तामिमां सर्वविद्याप्रतिष्ठां विद्यां चतुर्मुखाथर्वादिगुरुपरम्परयाऽङ्गिरसा प्राप्तां जिज्ञासुः "शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति" इति । ब्रह्मविद्यायास्सर्वविद्याश्रयत्वाद्ब्रह्मविमानेन सर्वं विज्ञातं भवतीतिकृत्वा ब्रह्मस्वरूपमनेन पृष्टम्; "तस्मै स होवाच द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च" इति । ब्रह्मप्रेप्सुना द्वे विद्ये वेदि-तव्ये, ब्रह्मविषये परोक्षापरोक्षरूपे द्वे विज्ञाने उपादेये इत्यर्थः । तत्र परोक्षं शास्त्रजन्यं ज्ञानम्, अपरोक्षं योग-जन्यम्; तयोर्ब्रह्मप्राप्त्युपायभूतमपरोक्षं ज्ञानम् तच्च भक्तिरूपापन्नम् "यमेवैष वृणुते तेन लभ्यः" इत्यत्रैव विशेष्यमाणत्वात्; तदुपायश्चागमजन्यं विवेकादिसाधनसप्ताकानुगृहीतं ज्ञानम् "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन" इति श्रुतेः । आह च भगवान् पराशरः "तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक्तं महामुने । आगमोत्थं विवेकाच्च द्विधा ज्ञानं तथोच्यते" इति । "तत्रापरा ऋग्वेदो यजुर्वेदः" इत्यादिना "धर्मशास्त्राणि" इत्यन्तेन आगमोत्थं ब्रह्मसाक्षात्कारहेतुभूतं परोक्षज्ञानमुक्तम् । साङ्गस्य सेतिहासपुराणस्य सधमर्शास्त्रस्य समीमांसस्य वेदस्य ब्रह्मज्ञानोत्पक्षिहेतुत्वात् "अथ परा यया तदक्षरमधिगम्यते" इत्युपासनाख्यं

1.2.23

 

ब्रह्मसाक्षात्कारलक्षणभक्तिरूपापन्नं ज्ञानम् "यत्तदद्रेश्यमग्राह्यम्" इत्यादिना परोक्षापरोक्षरूपज्ञानद्वयविषयस्य परस्य ब्रह्मणः स्वरूपमुच्यते "यर्थोर्णनाभिस्सृजते गृह्णते च" इत्यादिना । यथोक्तस्वरूपात्परस्माद्ब्रह्मणोऽ- क्षरात् कृत्स्नस्य चेतनाचेतनात्मकप्रपञ्चस्योत्पत्तिरुक्ता, विश्वमिति वचनान्नाचेतनमात्रस्य "तपसा चीयते ब्रह्म ततोऽन्नमभिजायते अन्नात्प्राणो मनस्सत्यं लोकाः कर्मसु चामृतम्" इति ब्रह्मणो विश्वोत्पत्तिप्रकार उच्यते । तपसा-ज्ञानेन, "यस्य ज्ञानमयं तपः" इति वक्ष्यमाणत्वात्; चीयते-उपचीयते; "बहु स्याम्" इति सङ्कल्परूपेण ज्ञानेन ब्रह्म सृष्टयुन्मुखं भवतीत्यर्थः । ततोऽन्नमभिजायते-अद्यत इत्यन्नम्, विश्वस्य भोक्तृवर्गस्य भोग्यभूतं भूतसूक्ष्ममव्याकृतं परस्माद्ब्रह्मणो जायत इत्यर्थः । प्राणमनःप्रभृति च स्वर्गापवर्गरूपफलसाधनभूतकर्मपयर्न्तं सर्वं विकारजातं तस्मादेव जायते । "यस्सर्वज्ञस्सर्ववित्" इत्यादिना सृष्टयुपकरणभूतं सार्वज्ञ्यसत्यसङ्कल्पत्वा-दिकमुक्तम् । सर्वज्ञात्सत्यसङ्कल्पात्परस्मात् ब्रह्मणोऽक्षरादेतत् कार्यकारं ब्रह्म नामरूपविभक्तं भोक्तृभोग्यरूपं च जायते । "तदेतत्सत्यम्" इति परस्य ब्रह्मणो निरुपाधिकसत्यत्वमुच्यते

"मन्त्रेषु कर्माणि कवयो यान्यप-श्यंस्तानि त्रेतायां बहुधा सन्ततानि । तान्याचरत नियतं सत्यकामाः" इति सार्वज्ञ्यसत्यसङ्कल्पत्वादिकल्याण-गुणाकरमक्षरं पुरुषं स्वतस्सत्यं कामयमानास्तत्प्राप्तये फलान्तरेभ्यो विरक्ता ऋग्यजुस्सामाथर्वसु कविभि-र्दृष्टानि वर्णाश्रमोचितानि त्रेताग्निषु बहुधा सन्ततानि कर्माण्याचरतेति "एष वः पन्थाः" इत्यारभ्य "एष वः

1.2.23

 

पुण्यस्सुकृतो ब्रह्मलोकः" इत्यन्तेन कर्मानुष्ठानप्रकारम् श्रुतिस्मृतिचोदितेषु कर्मस्वेकतरकर्मवैधुर्येपीतरेषा-मनुष्ठितानामपि निष्फलत्वम् अयथानुष्ठितस्य चाननुष्ठितसमत्वमभिधाय "प्लवा ह्येते अदृढा यज्ञरूपा अष्टा-दशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्यू ते पुनरेवापि यन्ति" इत्यादिना पलाभिस-न्धिपूर्वकत्वेन ज्ञानविधुरतया चावरं कर्माचरतां पुनरावृत्तिमुक्तवा "तपश्श्रद्धे ये ह्युपवसन्ति" इत्यादिना पुनरपि फलाभिसन्धिरहितं ज्ञानिनाऽनुष्ठितं कर्म ब्रह्मप्राप्तये भवतीति प्रशस्य "परीक्ष्य लोकान्" इत्यादिना केवल-कर्मफलेषु विरक्तस्य यथोदितकर्मानुगृहीतं ब्रह्मप्राप्त्युपायभूतं ज्ञानं जिज्ञासमानस्य च आचार्योपसदनं विधाय "तदेतत्सत्यं यथा सुदीप्तात्" इत्यादिना "सोऽविद्याग्रन्थिं विकिरतीह सोम्य" इत्यन्तेन पूर्वोक्तस्याक्षरस्य भूतयोनेः परस्य ब्रह्मणः परमपुरुषस्यानुक्तैस्वरूपगुणैः सह सर्वभूतान्तरात्मतया विश्वशरीरत्वेन विश्वरूपत्वम्

1.2.23

 

तस्माद्विश्वसृष्टिं च विस्पष्टमभिधाय "आविस्सन्निहितम्" इत्यादिना तस्यैवाक्षरस्याव्याकृतात्परतोऽपि पुरु-षात्परभूतस्य परस्य ब्रह्मणः परमव्योम्नि प्रतिष्ठितस्यानवधिकातिशयानन्दस्वरूपस्य हृदयगुहायामुपासन-प्रकारम् उपासनस्य च परभक्तिरूपत्वमुपासीनस्याविद्याविमोकपूर्वकं ब्रह्मसमं ब्रह्मानुभवफलं चोपदिश्योप-

1.2.23

 

संहृतम्; अत एवं विशेषणाद्भेदव्यपदेशाच्च नास्मिन् प्रकरणे प्रधानपुरुषौ प्रतिपाद्येते । भेदव्यपदेशोऽपि हि ताभ्यां परस्य ब्रह्मणोऽत्र विद्यते । "दिव्यो ह्यमूर्त्तः पुरुषस्स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाश्शुभ्रो ह्यक्षरात्परतः परः" इत्यादिभिः, अक्षरादव्याकृतात्परो यः समष्टिपुरुषः तस्मादपि परभूतोऽदृश्यत्वादिगुण-कोऽक्षरशब्दाभिहितः परमात्मेत्यर्थः । अश्नुत इति वा, न क्षरतीति वा अक्षरम्; तदव्याकृतेपि स्वविकार-व्याप्त्या वा महदादिवन्नामान्तराभिलापयोग्यक्षरणाभावाद्वाऽक्षरत्वं कथञ्चिदुपपद्यते ।।

1.2.24 रूपोपन्यासाच्च ।। 24 ।।

1.2.24

 

"अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यै दिशश्श्रोत्रे वाग्विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्य्भां पृथिवी ह्येष

1.2.24

 

सर्वभूतान्तरात्मा" इतीदृशं रूपं सर्वभूतान्तरात्मनः परमात्मन एव सम्भवति; अतश्च परमात्मा ।।

1.2.25 वैश्वानरस्साधारणशब्दविशेषात् ।। 25 ।।

1.2.25

 

इदमामनन्तिच्छन्दोगाः "आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहि" इति प्रक्रम्य "यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते" इति । तत्र सन्देहः-किमयं वैश्वानरः

1.2.25

 

आत्मा, परमात्मेति शक्यनिर्णयः, उत न ? इति । किं प्राप्तम् ? अशक्यनिर्णय इति । कुतः ?वैश्वानरशब्दस्य चतुष्वर्थेषु प्रयोगदर्शनात् जाठराग्नौ तावत् "अयमग्निवैश्वानरो येनेदमन्नं पच्यते यदिदमद्यते तस्यैष घोषो भवति यावदेतत्कर्णाकपिधाय #ृणोति स यदोत्क्रमिष्यन् भवति नैनं घोषं श्रृणोति" इति; महाभूततृतीये च "विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामकृण्वन्" इति; देवतायां च "वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः" इति; परमात्मनि च "तदात्मन्येव हृदयेऽग्नौ वैश्वानरे प्रास्यत" इति, "स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते" इति च । वाक्योपक्रमादिषूपलभ्यमानान्यपि लिङ्गानि सर्वानुगुणतया नेतुं शक्यानीति ।

1.2.25

 

एवं प्राप्ते अभिधीयते-वैश्वानरस्साधारणशब्दविशेषात् । वैश्वानरः-परमात्मा । कुतः ? साधारणशब्दविशेषात्-विशेष्यत इति विशेषः, साधारणस्य वैश्वानरशब्दस्य परमात्मासाधारणैर्धर्मैर्विशेष्यमाणत्वादित्यर्थः । तथा हि; औपमन्यवादयः पञ्चेमे महर्षयः समेत्य "को न आत्मा किं ब्रह्म" इति विचार्य "उद्दालको ह वै भगवन्तोऽय-मारुणिस्सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छाम" इत्युद्दालकस्य वैश्वानरात्मविज्ञानमवगम्य तमभ्याजग्मुः । स चोद्दालक एतान् वैश्वानरात्मजिज्ञासूनभिलक्ष्यात्मनश्च तत्राकृत्स्नवेदित्वं मत्वा "तान् होवाच अश्वपतिर्वै भगवन्तोऽयं केकयस्सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छाम" इति । ते चोद्दालक-षष्ठास्तमश्वपतिभ्याजग्मुः । स च तान् महर्षीन् यथाहं पृथगम्यर्च्य "न मे स्तेनः" इत्यादिना "यक्ष्यमाणो ह वै भगवन्तोऽहमस्मि" इत्यन्तेनात्मनो व्रतस्तथया प्रतिग्रहयोग्यतां ज्ञापयन्नेव ब्रह्मविद्भिरपि प्रतिषिद्धपरिहरणीयतां विहितकर्मकर्तव्यतां च प्रज्ञाप्य "यावदेकैकस्मा ऋत्विजे धनं दास्यामि तावद्भगवद्य्भो दास्यामि वसन्तु भवन्तः" इत्यवोचत् । ते च मुमुक्षवो वैश्वानरमात्मानं जिज्ञासमानास्तमेवात्मानमस्माकं ब्रूहीत्यवोचन् । तदेवं "को न

1.2.26

 

आत्मा किं ब्रह्म" इति जीवात्मनामात्मभूतं ब्रह्म जिज्ञासमानैस्तज्ज्ञमन्विच्छद्भिर्वैश्वानरात्मज्ञसकाशमागम्य पृच्छ्यमानो वैश्वानरात्मा परमात्मेति विज्ञायते, आत्मब्रह्मशब्दाभ्यामुपक्रम्य पश्चात्सर्वत्रात्मवैश्वानरशब्दाभ्यां व्यवहाराच्च ब्रह्मशब्दस्थाने निर्दिश्यमानो वैश्वानरशब्दो ब्रह्मैवाभिधत्त इति विज्ञायते; किञ्च "स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति" "तद्यथेषीकतूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते" इति च वक्ष्यमाणं वैश्वानरात्मविज्ञानफलं वैश्वानरात्मानं परं ब्रह्मेति ज्ञापयति ।। इतश्च वैश्वानरः परमात्मा -

1.2.26 स्मर्यमाणमनुमानं स्यादिति ।। 26 ।।

1.2.26

द्युप्रमृति पृथिव्यन्तमवयवविभागेन वैश्वानरस्य रूपमिहोपदिश्यते । तच्च श्रुतिस्मृतिषु परमपुरुषरूपतया प्रसिद्धम् । तदिह तदेवेदमिति स्मर्यमाणम्, प्रत्यभिज्ञायमानं वैश्वानरस्य परमपुरुषत्वे अनुमानम्, लिङ्ग-मित्यर्थः । इतिशब्दः प्रकारवचनः । इत्थं भूतं रूपं प्रत्यभिज्ञायमानं वैश्वानरस्य परमात्मत्वे अनुमानं स्यात् । श्रुतिस्मृतिषु हि परमपुरुषस्येत्थं रूपं प्रसिद्धम् । यथा आथर्वणे "अग्निर्मूर्धा चक्षुषि चन्द्रसूर्यै दिशः श्रोत्रे

1.2.26

 

वाग्विवृत्ताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्य्भां पृथिवी ह्येष सर्वभूतान्तरात्मा" इति । अग्निरिह द्युलोकः, "असौ वै लोकोऽग्निः" इति श्रुतेः । स्मरन्ति च मुनयः "द्यां मूर्धानं यस्य विप्रा विदन्ति खं वै नाभिं चन्द्रसूर्यौ च नेत्रे । दिशःश्रोत्रे विद्धि पादौ क्षितिं च सोऽचिन्त्यात्मा सर्वभूतप्रणेता" इति । "यस्याग्निरास्यं द्यौर्मूर्धां खं नाभिश्चरणौ क्षितिः । सूर्यश्चक्षुर्द्दिशः श्रोत्रं तस्मै लोकात्मने नमः" इति च । इह च द्युप्रभृतयो वैश्वानरस्य मूर्धाद्यवयवेनोच्यन्ते । तथा हि, तैरौपमन्यवप्रभृतिभिर्महर्षिभिः "आत्मानमेवेमं वैश्वानरं सम्प्र-त्यध्येषि तमेव नो ब्रूहि" इति पृष्टः केकयस्तेभ्यो वैश्वानरात्मानमुपदिदिक्षुर्विशेषप्रश्नान्यथानुपपत्त्या वैश्वा-नरात्मन्येतैः किञ्चित् ज्ञातं किञ्चिदज्ञातमिति विज्ञाय ज्ञाताज्ञातांशबुभुत्सया तानेकैकं पप्रच्छ । तत्र "औप-मन्यव कं त्वमात्मात्मानमुपास्से" इति पृष्टे "दिवमेव भगवो राजन्" इति तेन चोक्ते दिवि तस्य पूर्णवैश्वान-रात्मबुदिं्ध निवर्तयन् वैश्वानरस्य द्यौर्मूर्धेति चोपदिशंस्तस्या वैश्वानरांशभूताया दिवस्सुतेजा इति गुणनामधेयं प्राचिख्यपत् । एवं सत्ययज्ञादिभिरादित्यवाय्वाकाशपृथिवीनामेकैकेनैकैकमुपास्यमानतया कथितानां

1.2.26

 

"विश्वरूपः, पृथग्वर्त्मा, बहुलो, रयिः, पतिष्ठा" इत्येकैकगुणनामधेयानि वैश्वानरात्मनश्चक्षुःप्राणसन्देहव-स्तिपादावयवत्वं चोपदिष्टम् । सन्देहो मध्यकाय उच्यते; अत एवम्भूतद्युर्मर्धत्वादिविशिष्टं परमपुरुषस्यैव रूपमिति वैश्वानरः परमपुरुष एव ।। पुनरप्यनिर्णयमेवाशङ्कय परिहरति -

1.2.27 शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथा दृष्टयुपदेशादसम्भवात्पुरुषमपि चैनमधीयते ।। 27 ।।

1.2.27

 

यदुक्तं वैश्वानरः परमात्मेति निश्चीयत इति । तन्न; शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च जाठरस्याप्यग्नेरिह प्रतीय-मानत्वात् । शब्दस्तावद्वाजिनां वैश्वानरविद्याप्रकरणे "स एषोऽग्निर्वैश्वानरः" इति वैश्वानरसमानाधिकरण-ताऽग्निरिति श्रूयते; अस्मिन् प्रकरणे च "हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः" इति वैश्या-नरस्य हृदयादिस्थस्याग्नित्रयकल्पनं क्रियते तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयं स यां प्रथमामाहुतिं जुहुयात्तां जुहुयात् प्राणाय स्वाहा" इत्यादिना प्राणाहुत्याधारत्वं च वैश्वानरस्यावगम्यते । तथा वैश्वानरस्यास्मिन् पुरुषे-ऽन्तःप्रतिष्ठानं वाजसनेयिनः समामनन्ति "स यो हैतमेवमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेद" इति । अतोऽग्निशब्दसामानाधिकरण्यादग्नित्रेतापरिकल्पनात्प्राणाहुत्याधारमावादन्तःप्रतिष्ठानाच्च वैश्वानरस्य जाठ-रत्वमपि प्रतीयत इति नैकान्ततः परमात्मत्वमिति चेत् तन्न; तथा दृष्टयुपदेशात्-पूर्वोक्तस्य त्रैलोक्यशरीरस्य

1.2.27

 

परस्य ब्रह्मणो वैश्वानरस्य जाठराग्निशरीरतया तद्विशिष्टस्योपासनोपदेशात् । अग्निशब्दादिभिर्हि न केवलो जाठरः प्रतिपाद्यते, अपि तु जाठराग्निविशिष्टः परमात्मा । कथमिदमवगम्यत इति चेत् असम्भवात् जाठरस्य केवलस्य त्रैलोक्यशरीरत्वासम्भवात् । त्रैलोक्यशरीरतया प्रतिपन्नवैश्वानरसमानाधिकरणो जाठरविषयतया प्रतीयमानोऽग्निशब्दो जाठरशरीरतया तद्विशिष्टं परमात्मानमेवाभिदधातीत्यर्थः । यथोक्तं भगवता "अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्" इति जाठरानलशरीरोभूत्वे-त्यर्थः । अतस्तद्विशिष्टस्योपासनमत्रोपदिश्यते । किञ्च पुरुषमपि चैनमधीयते वाजसनेयिनः "स एषोऽग्नि-

1.2.28

 

र्वैश्वानरो यत्पुरुषः" इति, न जाठरस्य केवलस्य पुरुषत्वम् परत्मन एव हि निरुपाधिकं पुरुषत्वम्, यथा "सह-स्रशीर्षा पुरुषः" "पुरुष एवेदं सर्वम्" इत्यादौ ।।

1.2.28 अत एव न देवता भूतं च ।। 28 ।।

उक्तेभ्य एव हेतुभ्यो देवतायाश्च तृतीयस्य महाभूतस्यापि न वैश्वानरत्वप्रसङ्गः ।।

1.2.29 साक्षादप्यविरोधं जैमिनिः ।। 29 ।।

1.2.29

वैश्वानरसमानाधिकरणस्याग्निशब्दस्य जाठराग्निशरीरतया तद्विशिष्टस्य परमात्मनो वाचकत्वम्, तथैव पर-मात्मन उपास्यत्वं चोक्तम् । जैमिनिस्त्वाचार्यो वैश्वानरशब्दवदग्निशब्दस्यापि परमात्मन एव साक्षात् अव्य-

1.2.29

 

वधानेन वाचकत्वेन न कश्चिद्विरोध इति मन्यते । एतदुक्तं भवति- यथा वैश्वानरशब्दः साधारणोऽपि परमा-त्मासाधारणधर्मविशेषितो विश्वेषं नराणां नेतृत्वादिना गुणेन परमात्मानमेवाभिदधातीति निश्चीयते; एव-

1.2.29

 

मग्निशब्दोऽप्यग्रनयनादिना येनैव गुणेन योगाज्ज्वलने वर्त्तते, तस्यैव गुणस्य निरुपाधिकस्य काष्ठागतस्य परमात्मनि सम्भवादस्मिन् प्रकरणे परमात्मासाधारणर्धमविशेषितः परमात्मानमेवाभिधत्त इति ।।

1.2.30

 

"यस्त्वेतमेवं प्रादेशमात्रमभिविमानम्" इत्यपरिच्छिन्नस्य परस्य ब्रह्मणो द्युतप्रभृतिपृथिव्यन्तप्रदेशसम्बन्धिन्या मात्रया परिच्छिन्नत्वं कथमुपपद्यते ? तत्राह -

1.2.30 अभिव्यक्तेरित्याश्मरथ्यः ।। 30 ।।

1.2.30

उपासकाभिव्यक्तयर्थं प्रादेशमात्रत्वं परमात्मन इत्याश्मरथ्य आचार्यो मन्यते, "द्यौर्मूर्धा, आदित्यश्चक्षुः, वायुः प्राणः, आकाशो मध्यकायः, आपो वस्तिः, पृथिवी पादौ" इति द्युप्रभृतिप्रदेशसम्बन्धिन्या मात्रया परिच्छिन्नत्वं कृत्स्नमभिव्याप्तवतो विगतमानस्य ह्यभिव्यक्तेरेव हेतोर्भवति ।।

1.2.31

 

मूर्द्धप्रभृत्यवयविशेषैः पुरुषविधत्वं परस्य ब्रह्मणः किमर्थमिति चेत् तत्राह -

1.2.31 अनुस्मृतेर्बादरिः ।। 31 ।।

1.2.31

तथोपासनार्थमिति बादरिराचार्यो मन्यते । "यस्त्वेतमेवमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति" इति ब्रह्मप्राप्तये ह्युपासनमुपदिश्यते । एतमेवमिति उक्तप्रकारेण पुरुषाकारमित्यर्थः । सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु वर्तमानं यदन्नम्-भोग्यं, तदत्ति-सर्वत्र वर्त्तमानं स्वत एवानवधिकातिशयानन्दं ब्रह्मानुभवति । यत्तु सर्वैः कमर्वश्यैरात्मभिः प्रत्येकमनन्यसाधारणमन्नं भुज्यते तन्मुमुक्षुभिस्त्याज्यत्वादिह न गृह्यते ।।

1.2.32

यदि परमात्मा वैश्वानरः, कथं तर्ह्युरःप्रभृतीनां वेद्यादित्वोपदेशः, यावता जाठराग्निपरिग्रह एवैतदुपपद्यत इत्यत्राह -

1.2.32 सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ।। 32 ।।

1.2.32

अस्य परमात्मन एव वैश्वानरस्य द्युप्रभृतिपृथिव्यन्तशरीरस्य समाराधनभूतायाः उपासकैरहरहः क्रियमा-णायाः प्राणाहुतेरग्निहोत्रत्वसम्पादनायायमुरःप्रभृतीनां वेदित्वाद्युपदेश इति जैमिनिराचार्यो मन्यते । तथा हि परमात्मोपासनोचितमेव फलं प्राणाहुत्या अग्निहोत्रसम्पतिं्त च दर्शयतीयं श्रुतिः । "स य इदमविद्वानग्निहोत्रं

1.2.33

 

जुह #ोति यथाङ्गारानपोह्य भस्मनि जुहायात्तादृक् तत्स्यात् अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति तद्यथेषीकतूलमग्नौ प्रोतं प्रदूयतैवं हास्य सर्वे पाप्मनः प्रदूयन्ते" इति ।

1.2.33 आमनन्ति चैनमस्मिन् ।। 33 ।।

1.2.33

एनम् परमपुरुषं द्युमूर्धत्वादिविशिष्टं वैश्वानरम् अस्मिन् उपासकशरीरे प्राणाहुत्याधारत्वाय आमनन्ति च "तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाः" इत्यादिना । अयमर्थः-"यस्त्वेतमेवं प्रादेशमात्रमभि-विमानमात्मानं वैश्वानरमुपास्ते" इति त्रैलोक्यशरीरस्य परमात्मनो वैश्वानरस्योपासनं विधाय "सर्वेषु लोकेषु" इत्यादिना ब्रह्मप्राप्तिं च फलमुपदिश्य अस्यैवोपासनस्याङ्गभूतं प्राणाग्निहोत्रं "तस्य ह वा एतस्य" इत्यादिनो-

1.2.33

 

पदिशति; यः पूर्वमुपास्यतयोपदिष्टो वैश्वानरस्तस्यावयवभूतानग्न्यादित्यादीन् सुतेजोविश्वरूपादिनामधेया-नुपासकशरीरे मूर्धादिपादान्तेषु सम्पादयति । मूर्धैव सुतेजाः-उपासकस्य मूर्धैव परमात्मनमूर्धमूता द्यौरित्यर्थः । चक्षुर्विश्वरूपः आदित्य इत्यर्थः । प्राणः पृथग्वर्त्मा-वायुरित्यर्थः । सन्देहो बहुलः-उपासकस्य मध्यकाय एव परमात्ममध्यकायभूत आकाश इत्यर्थः । वस्तिरेव रयिः-अस्य वस्तिरेव तदवयवभूता आप इत्यर्थः । पृथिव्येव पादौ-अस्य पादविव तत्पादभूता पृथिवीत्यर्थः । एवमुपासकस्स्वशरीरे परमात्मानं त्रैलोक्यशरीरं वैश्वानरं सन्निहितमनुसन्धाय स्वकीयान्युरोलोमहृदयमन आस्यानि प्राणाहुत्याधारस्य परमात्मनो वैश्वानरस्य वेदि-बर्हिर्गार्हपत्यान्वाहार्यपचनाहवनीयानग्निहोत्रोपकरणभूतात् परिकल्प्य प्राणाहुतेश्चाग्निहोत्रत्वं परिकल्प्यैवंविधेन प्राणाग्निहोत्रेण परमात्मानं वैश्वानरमाराधयेदिति "उर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यः" इत्यादिनोप-दिश्यते । अतः परमात्मा पुरुषोत्तम एव वैश्वानर इति सिद्धम् ।।



1.3.1 द्युभ्वाद्यायतनं स्वशब्दात् ।। 1 ।।

1.3.1

आथर्वणिका अधीयते "यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनस्सह प्राणैश्च सर्वैः । तमेवैकं जानथात्मानमन्या वाचो विमुञ्चथ अमृतस्यैष सेतुः" इति । तत्र संशयः-किमयं द्युपृथिव्यादीनामा-

1.3.1

 

यतनत्वेन श्रूयमाणो जीवः, उत परमात्मा ? इति । किं युक्तम् ? जीव इति । कुतः ? "अरा इव रथनाभौ संहता यत्र नाड्यस्स एषोन्तश्चरते बहुधा जायमानः" इति परस्मिन् श्लोके पूर्ववाक्यप्रस्तुतं द्युपृथिव्याद्यायतनं "यत्र" इति पुनरपि सप्तम्यन्तेन परामृश्य तस्य नाड्याधारत्वमुक्तवा, पुनरपि "स एषोऽन्तश्चरते बहुधा जायमानः" इति तस्य बहुधा जायमानत्वञ्चोच्यते; नाडीसम्बन्धो देवादिरूपेण बहुधा जायमानत्वञ्च जीवस्यैव धर्मः । अस्मि-न्नपि श्लोके "ओतं मनस्सह प्राणैश्च सर्वैः" इति प्राणपञ्चकस्य मनसश्चाश्रयत्वमुच्यमामं जीवधर्म एव । एवं जीवत्वे निश्चिते सति द्युपृथिव्याद्यायतनत्वादिकं यथाकथञ्चित्सङ्गमयितव्यमिति ।

एवं प्राप्ते प्रचक्ष्महे-द्युभ्वाद्यायतनं स्वशब्दात् । द्युपृथिव्यादीनामायतनं परं ब्रह्म; कुतः ? स्वशब्दात्-पर-ब्रह्मासाधारणशब्दात् । "अमृतस्यैष सेतुः" इति परस्य ब्रह्मणोऽसाधारणश्शब्दः । "तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते" इति सर्वत्रोपनिषत्सु स एवामृतत्वप्राप्तिहेतुश्श्रूयते । सिनोतेश्च बन्धनार्थत्वात्सेतुः अमृतस्य प्रापक इत्यर्थः । सेतुरिव वा सेतुः-नद्यादिषु सेतुर्हि कूलस्य प्रतिलम्भकः, संसाराणर्वपारभूतस्यामृत-स्यैष प्रतिलम्भक इत्यर्थः । आत्मशब्दश्च निरुपाधिकः परस्मिन् ब्रह्मणि मुख्यवृत्तः, आप्नोतीति ह्यात्मा, स्वेतर-समस्तस्य नियन्तृत्वेन व्याप्तिस्तस्यैव सम्भवति; अतस्सोपि तस्यैव शब्दः । "यस्सर्वज्ञस्सर्ववित्" इत्यादयश्चो-

1.3.2

 

परिनताः परस्यैव ब्रह्मणश्शब्दाः । नाड्याधारत्वं तस्यापि सम्भवति "सन्ततं सिराभिस्तु लम्बत्या कोशस-न्निभम्" इत्यारभ्य "तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः" इति श्रवणात् । "बहुधा जायमानः" इत्यपि परस्मिन् ब्रह्मणि सङ्गच्छते । "अजायमानो बहुधा विजायते । तस्य धीराः परिजानन्ति योनिम्" इति देवादीनां समाश्रयणीयत्वाय तत्तज्जातीयरूपसंस्थानगुणकर्मसमन्वितः स्वकीयं स्वभावमजहदेव स्वेच्छया बहुधा विजायते परः पुरुष इत्यभिधानात् । स्मृतिरपि "अजोपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वा-मधिष्ठाय सम्भवाम्यात्ममायया" इति । मनःप्रभृतिजीवोपकरणाधारत्वं च सर्वाधारस्य परस्यैवोपपद्यते ।

इतश्च परमपुरुषः-

1.3.2 मुक्तोपसृप्यव्यपदेशाच्च ।। 2 ।।

1.3.2

 

अयं द्युपृथिव्याद्यायतनभूतः पुरुषः संसारबन्धान्मुक्तैरपि प्राप्यतया व्यपदिश्यते । "यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तथा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति" "यथा नद्यस्स्यन्दमानास्समुद्रे अस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्" इति । संसारबन्धनाद्विमुक्ता एव हि विधूतपुण्यपापा निरञ्जना नामरूपाभ्यां विनिर्मुक्ताश्च । पुण्य-पापनिबन्धनाचित्संसर्गप्रयुक्तनामरूपभाक्तवमेव हि संसारः । अतो विधूतपुण्यपापैर्निरञ्जनैः प्रकृतिसंसर्ग- रहितैः परेण ब्रह्मणा परमं साम्यमापन्नैः प्राप्यतया निर्दिष्टो द्युपृथिव्याद्यायतनभूतः पुरुषः परं ब्रह्मैव ।

परब्रह्माह्यासाधारणशब्दादिभिः परमेव बह्मेति पसाध्य प्रत्यगात्मासाधारणशब्दाभावाच्चायं पर एवेत्याह-

1.3.3 #ानुमानमतच्छब्दात्प्राणभृच्च ।। 3 ।।

1.3.3

 

यथाऽस्मिन् प्रकरणे प्रतिपादकशब्दाभावात्प्रधानं न प्रतिपाद्यम्; एवं प्राणभृदपीत्यर्थः । अनुमीयत इत्य-नुमानं परोक्तं प्रधानमुच्यते, अनुमानप्रमितत्वादानुमानमिति वा । अतच्छब्दात् तद्वाचिशब्दाभावादित्यर्थः । "अर्थाभावे यदव्ययम्" इत्यव्ययीभावः ।।

1.3.4

इतश्चायं न प्रत्यगात्मा-

1.3.4 भेदव्यपदेशात् ।। 4 ।।

1.3.4

 

"समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः" इत्यादिभिर्जीवाद्विलक्षणत्वेनायं व्यपदिश्यते । अनीशया-भोग्यभूतया प्रकृत्या मुह्यमानश्शोचति

1.3.5

 

जीवः, अयं यदा स्वस्मादन्यं सर्वस्येशं प्रियमाणम्, अस्य-ईश्वरस्य महिमानं च निखिलजगन्नियमनरूपं पश्यति; तदा वीतशोको भवति ।।

1.3.5 प्रकरणात् ।। 5 ।।

1.3.5

 

प्रकरणञ्चेदं परस्य ब्रह्मण इति "अदृश्यत्वादिगुणको धर्मोक्तेः" इत्यत्रैव प्रदर्शितम् । नाडीसम्बन्धबहु-धाजायमानत्वमनःप्राणाधारत्वैश्च प्रकरणविच्छेदाशङ्कामात्रमत्र पर्यहाष्मर् ।।

1.3.6 स्थित्यदनाभ्यां च ।। 6 ।।

1.3.6

 

"द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचा-

1.3.6

 

कशीति" इत्येकस्य कर्मफलादनम् अन्यस्य च कर्मफलमनश्नत एव दीप्यमानतया शरीरान्तस्थितिमात्रं प्रति-पाद्यते । तत्र कर्मफलमनश्नन्दीप्यमान एव सर्वज्ञोऽमृतसेतुस्सर्वात्मा द्युभ्वाद्यायतनं भवितुमर्हति, न पुनः कर्मफलमदन् शोचन्प्रत्यगात्मा; अतो द्युभ्वाद्यायतनं परमात्मेति सिद्धम् ।। ।। इति द्युभ्वाद्यधिकरणम् ।।

1.3.7 भूमा सम्प्रसादादध्युपदेशात् ।। 7 ।।

1.3.7

 

इदमामनन्ति च्छन्दोगाः "यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा । अथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम्" इति । अत्रायं भूमशब्दो भावप्रत्ययान्तो व्युत्पाद्यते । तथा हि; पृथ्वादिषु बहुशब्दः पठ्यते, ततः "पृथ्वादिभ्य इमनिज्वा" इति इमनिच्प्रत्यये कृते

1.3.7

 

"बहोर्लोपो भू च बहोः" इति प्रकृतिप्रत्यययोर्विकारे भूमेति भवति । भूमा-बहुत्वमित्यर्थः । अत्र चायं बहुशब्दो वैपुल्यवाची, न सङ्खयावाची; "यत्रान्यत्पश्यति तदल्पम्" इत्यल्पप्रतियोगित्वश्रवणात् । अन्यशब्दनिर्द्दिष्ट-धर्मिप्रतियोगिप्रतिपादनपरत्वादेव धर्मिपरश्च निश्चीयते; न धर्ममात्रपरः । तदेवं भूमेति विपुल इत्यर्थः । वैपुल्य-विशेष्यश्चेहात्मेत्यवगतः "तरति शोकमात्मवित्" इति प्रक्रम्य भूमविज्ञानमुपदिश्य "आत्मैवेदं सर्वम्" इति

तस्यैवोपसंहारात् । अत्र संशय्यते, किमयं भूमगुण विशिष्टः प्रत्यगात्मा, उत परमात्मा ? इति । किं युक्तम् ?

1.3.7

 

प्रत्यगात्मेति । कुतः ? "श्रुतं ह्येवमेवं भगवद्दृशेभ्यस्तरति शोकमात्मवित्" इत्यात्मजिज्ञासयोपसेदुषे नारदाय नामादिप्राणपर्यन्तेषु उपास्यतयोपदिष्टेषु "अस्ति भगवो नामनो भूयः" "अस्ति भगवो वाचो भूयः" इत्यादयः प्रश्नाः, "वाग्वा व नाम्नो भूयसी" "मनो वाव वाचो भूयः" इत्यादीनि च प्रतिवचनानि प्राणात् प्राचीनेषु दृश्यन्ते; प्राणो तु न पश्यामः, अतः प्राणपर्यन्त एवायमात्मोपदेश इति प्रतीयते, तेनेह प्राणशब्दनिर्द्दिष्टः प्राण-सहचारी प्रत्यगात्मैव, न वायुविशेषमात्रम् । "प्राणो ह पिता प्राणो ह माता" इत्यादयश्च प्राणस्य चेतनता-मवगमयन्ति "पितृहा मातृहा" इत्यादिना सप्राणेषु नितृप्रभृतिषूपमर्द्दकारिणि हिंसकत्वनिमित्तोपक्रोशवच-नात्तेष्वेव विगतप्राणेष्वत्यन्तोपमर्दकारिण्यप्युपक्रोशाभाववचनाच्च हिंसायोग्यश्चेतन एव प्राणशब्दनिर्द्दिष्टः । अप्राणेषु स्थावरेष्वपि चेतनेषूपमर्द्दभावाभावयोर्हिंसातदभावदर्शनादयं हिंसायोग्यतया निर्द्दिष्टः प्राणः प्रत्य-

1.3.7

 

गात्मैवेति निश्चीयते, अत एव च अरनाभिदृष्टान्ताद्युपन्यासेन प्राणशब्दनिर्द्दिष्टः पर इति न भ्रमितव्यम् । परस्य हिंसाप्रसङ्गाभावात्, जीवादितरस्य तद्भोग्यभोगोपकरणभूतस्य कृत्स्नस्याचिद्वस्तुनो जीवायत्तस्थितित्वेन प्रत्य-गात्मन्येवारनाभिदृष्टान्तोपपत्तेश्च । अयमेव च प्राणशब्दनिर्द्दिष्टो भूमा, "अस्ति भगवः प्राणाद्भूयः" इति प्रश्नस्य "अदो वाव प्राणाद्भूयः" इति प्रतिवचनस्य चाभावाद्भूमसंशब्दनात्प्राक्प्राणप्रकरणस्याविच्छेदात् । किञ्च प्राण-वेदिनोऽतिवादित्वमुक्तवा तमेव "एष तु वा अतिवदति" इति प्रत्यभिज्ञाप्य "यस्सत्येनातिवदति" इति तस्य सत्यवदनं प्राणोपासनाङ्गतयोपदिश्य उपादेयस्य सत्यवदनस्य शेषितया पूर्वनिर्दिष्टप्राणयाथात्म्यविज्ञानं "यदा वै विजानात्यथ सत्यं वदति" इत्युपदिश्य तत्सिध्द्यर्थं च मननश्रद्धानिष्ठाप्रयत्नानुपदिश्य तदारम्भाय च प्राप्य-भूतप्राणशब्दनिर्दिष्टप्रत्यगात्मस्वरूपस्य सुखरूपताज्ञानमुपदिश्य तस्य च सुखस्य विपुलता "भूमा त्वेव विजिज्ञासितव्यः" इत्युपदिश्यते । तदेवं प्रत्यगात्मन एवाविद्यावियुक्तं रूपं विपुलसुखमित्युपदिष्टमिति "तरति शोकमात्मवित्" इत्युपक्रमाविरोधश्च; अतो भूमगुणविशिष्टः प्रत्यगात्मा यत एवं भूमगुणविशिष्टः प्रत्यगात्मा अत एवाहमर्थे प्रत्यगात्मनि "अहमेवाधस्तादहमुपरिष्टात्" इत्यारभ्य "अहमेवेदं सर्वम्" इति प्रत्यगात्मनो वैभ-वमुपदिशति । एवं प्रत्यगात्मत्वे निश्चिते सति तदनुगुणतया वाक्यशेषो नेतव्य इति ।

1.3.7

 

एवं प्राप्तेऽभिधीयते- भूमा सम्प्रसादादध्युपदेशात् । भूमगुणविशिष्टो न प्रत्यगात्मा, अपि तु परमात्मा । कुतः ? सम्प्रसादादध्युपदेशात्- सम्प्रसादः प्रत्यगात्मा, "एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योति-रुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते" इत्युपनिषत्प्रसिद्धेः । संप्रसादात्-प्रत्यगात्मनोऽधिकतया भूमविशिष्टस्य सत्यशब्दाभिधेयस्योपदेशादित्यर्थः । सत्यशब्दाभिधेयं च परं बह्म । एतदुक्तं भवति, यथा नामादिषु प्राण-पर्यन्तेषु पूर्वपूर्वाधिकतयोत्तरोत्तराभिधानार्त्पेवेभ्य उत्तरेषामर्थान्तरत्वम्; एवं प्राणशब्दनिर्दिष्टात्प्रत्यगात्मनो-ऽधिकतया निर्द्दिष्टस्सत्यशब्दाभिधेयस्तस्मादर्थान्तरभूत एव; सत्यशब्दनिर्द्दिष्ट एव भूमेति सत्याख्यं परं ब्रह्मैव भूमेत्युपदिश्यत इति । तदाह वृत्तिकारः "भूमा त्वेवेति भूमा ब्रह्म नामादिपरम्परया आत्मन ऊर्ध्वमस्योपदेशात्" इति । प्राणशब्दनिर्द्दिष्टादधिकतया सत्यस्योपदेशः कथमवगम्यत इति चेत् "स वा एष एवं पश्यन्नेवं मन्वान

1.3.7

 

एवं विजानन्नतिवादी भवति" इति प्राणविदोऽतिवादित्वमुक्तवा "एष तु वा अतिवदति यस्सत्येनातिवदति" इति सत्यवेदित्वेनातिवादिनं तुशब्देन पूर्वस्मादतिवादिनो व्यावतर्यति । अत एव "एष तु वा अतिवदति" इत्यत्र प्राणातिवादिनो न प्रत्यभिज्ञा, अतोऽस्यातिवादित्वनिमित्तं सत्यं पूर्वातिवादित्वनिमित्तात्प्राणादधिकमिति विज्ञायते । ननु च प्राणवेदिन एव

सत्यवदनमङ्गत्वेनोपदिष्टम्; अतः प्राणप्रकरणाविच्छेद इत्युक्तम् । नैतद्युक्तम्; तुशब्देन ह्यतिवाद्येवान्यः प्रतीयते, न तु तस्यैवातिवादिनः सत्यवदनाङ्गविशिष्टतामात्रम् । "एष तु वा अग्निहोत्री यस्सत्यं वदति" इत्यादिष्वग्निहोत्र्यन्तराप्रतीतेः प्रतीतस्यैवाग्निहोत्रिणस्सत्यवदनाङ्गविधानमिति क्लिष्टा गति-

1.3.7

 

राश्रीयते, अत्र त्वतिवाद्यन्तरत्वनिमित्तं सत्यशब्दाभिधेयं परं ब्रह्म प्रतीयते । सत्यशब्दश्च "सत्यं ज्ञानमनन्तं ब्रह्म" इत्यादिषु परस्मिन् ब्रह्मणि प्रयुक्तः, अतस्तन्निष्ठस्यातिवादिनः पूर्वस्मादधिकत्वं सम्भवतीति वाक्य-स्वरससिद्धमन्यत्वं न बाधितव्यम् । अतिवादित्वं हि वस्त्वन्तरात्पुरुषार्थतया अतिक्रान्तस्वोपास्यवस्तुवादि-त्वम्; नामाद्याशापर्यन्तोपास्यवस्त्वतिक्रान्तस्वोपास्यप्राणशब्दनिर्द्दिष्टप्रत्यगात्मवादित्वात्प्राणविदोऽतिबा-दित्वम्; तस्यापि सातिशयपुरुषार्थत्वान्निरतिशयपुरुषार्थतयोपास्यपरब्रह्मवादिन एव साक्षादतिवादित्वमिति "एष तु वा अतिवदति यस्सत्येनातिवदति" इत्युक्तम् । सत्येनेतीत्थम्भूतलक्षणो तृतीया; सत्येन-परेण ब्रह्म-णोपास्येनोपलक्षितो योऽतिवदतीत्यर्थः । अत एवैवं शिष्यः प्रार्थयते "सोऽहं भगवस्सत्येनातिवदानि" इति । आचार्यश्च "सत्यं त्वेव विजिज्ञासितव्यम्" इत्याह । "आत्मनः प्राणः" इति च प्राणशब्दनिर्द्दिष्टस्यात्मन

1.3.7

 

उत्पत्तिरुच्यते; अतः "तरति शोकमात्मवित्" इति प्रक्रान्त आत्मा प्राणशब्दनिर्द्दिष्टादन्य इति गम्यते । "यत्तू-क्तम्" "अस्ति भगवः प्राणाद्भूयः" इति प्रश्नस्य "अदो वाव प्राणाद्भूयः" इति प्रतिवचनस्य चादर्शनात्प्रक्रान्त आत्मोपदेशः प्राणोपदेशपर्यवसानो गम्यत इति । तदयुक्तम्, न हि प्रश्नप्रतिवचनाभ्यामेवार्थान्तरत्वं गम्यते; प्रमाणान्तरेणापि तत्सम्भवात् । उक्तं च प्रमाणान्तरम् । "अस्ति भगवः प्राणाद्भूयः" इत्यपृच्छतोऽयमभिप्रायः नामादिष्वाशापर्यन्तेष्वचेतनेषु पुरुषार्थभूयस्तया पूर्वपूर्वमतिक्रान्तेष्वप्युत्तरोत्तरेषूपदिष्टेषु तत्तद्वेदिन आचा-र्येणातिवादित्वं नोक्तम्, प्राणशब्दनिर्दिष्टप्रत्यगात्मयाथात्म्यवेदिनस्तु पुरुषार्थभूयस्त्वातिशयं मन्वानेन "स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति" इत्यतिक्रान्तवस्तुवादित्वमुक्तम्; अतोऽत्रैवात्मो-पदेशस्समाप्त इति मत्वा शिष्यो भूयो न पप्रच्छ । आचार्यस्त्विदमपि सातिशयं मत्वा निरतिशयपुरुषार्थभूतं सत्यशब्दाभिधेयं परं ब्रह्म "एष तु वा अतिवदति यस्सत्येनाति वदति" इति स्वयमेवोपचिक्षेप । शिष्योऽपि

1.3.7

 

परमपुरुषार्थरूपे परस्मिन् ब्रह्मण्युपक्षिप्ते तत्स्वरूपतदुपासनयाथात्म्यबुभुत्सया "सोऽहं भगवस्सत्त्येनाति-वदानि" इति प्रार्थयामास । ततो ब्रह्मसाक्षात्कारनिमित्तातिवादित्वसिद्धये ब्रह्मसाक्षात्कारोपायभूतं ब्रह्मोपा-सनम् "सत्यं त्वेव विजिज्ञासितव्यम्" इत्युपदिश्य तदुपायभूतं ब्रह्ममननं "मतिस्त्वेव विजिज्ञासितव्या" इत्यु-पदिश्य श्रवणप्रतिष्ठार्थत्वान्मननस्य मननोपदेशेन श्रवणमर्थसिद्धं मत्वा श्रवणोपायभूतां ब्रह्मणि श्रद्धां "श्रद्धा त्वेव विजिज्ञासितव्या" इत्युपदिश्य तदुपायभूतां च तन्निष्ठां "निष्ठा त्वेव विजिज्ञासितव्या" इत्युपदिश्य तदु-पायभूतां तदुद्योगप्रयत्नरूपां कृतिमपि "कृतिस्त्वेव विजिज्ञासितव्या" इत्युपदिश्य श्रवणाद्युपक्रमरूपकृतिसिद्धये

1.3.7

 

प्राप्यभूतस्य सत्यशब्दाभिहितस्य ब्रह्मणः सुखरूपता ज्ञातव्येति" "सुखं त्वेव विजिज्ञासितव्यम्" इत्युपदिश्य निरतिशयविपुलमेव सुखं परमपुरुषार्थरूपं भवतीति तस्यैव ब्रह्मणः सुखरूपस्य निरतिशयविपुलता ज्ञातव्येति "भूमा त्वेव विजिज्ञासितव्यः" इत्युपदिश्य निरतिशयविपुलसुखरूपस्य ब्रह्मणो लक्षणमिदमुच्यते "यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा" इति । अयमर्थः, अनवधिकातिशयसुखरूपे ब्रह्म-ण्यनभूयमाने ततोऽन्यत्किमपि न पश्यत्वनुभविता, ब्रह्मस्वरूपतद्विभूत्यन्तर्गतत्वाच्च कृत्स्नस्य वस्तुजा-

1.3.7

 

तस्य; अत ऐश्वर्यापरपर्यायविभूतिगुणविशिष्टं निरतिशयसुखरूपं ब्रह्मानुभवस्तद्य्वतिरिक्तस्य वस्तुनोऽभा- वादेव किमप्यन्यन्न पश्यति, अनुभाव्यस्य सर्वस्य सुखरूपत्वादेव दुःखं च न पश्यति; तदेव हि सुखम् यद-नुभूयमानं पुरुषानुकूलं भवति । ननु चेदमेव जगद्ब्रह्मणोऽन्यतया अनुभूयमानं दुःखरूपं परिमितसुखरूपं च भवत्कथमिव ब्रह्मविभूतित्वेन तदात्मकतया अनुभूयमानं सुखरूपमेव भवेत् ? उच्यते; कर्मवश्यानां क्षेत्रज्ञानां ब्रह्मणोऽन्यत्वेनानुभूयमानं कृत्स्नं जगत्तत्तत्कर्मानुरूपं दुःखं च परिमितसुखं च भवति अतो ब्रह्मणोऽन्यतया परिमितसुखत्वेन दुःखत्वेन च जगदनुभवस्य कर्मनिमित्तत्वात्कर्मरूपाविद्याविमुक्तस्य तदेव जगद्विभूतिगुण-

1.3.8

 

विशिष्टब्रह्मानुभवान्तर्गतं सुखमेव भवति । यथा पित्तोपहतेन पीयमानं पयः पित्ततारतम्येनाल्पसुखं विपरीतं च भवति, तदेव पयः पित्तानुपहतस्य सुखायैव भवति; यथैव राजपुत्रस्य पितुर्लीलोपकरणमतथात्वेनानु-सन्धीयमानं प्रियत्वमनुपगतं तथात्वानुसन्धाने प्रियतमं भवति; तथा निरतिशयानन्दस्वरूपस्य ब्रह्मणोऽन-वधिकातिशयासङ्खयेयकल्याणगुणाकरस्य लीलोपकरणं तदात्मकं चानुसन्धीयमानं जगन्निरतिशयप्रीतये भवत्येव; अतो जगदैश्वर्यविशिष्टमनवधिकातिशयसुखरूपं ब्रह्मानुभवंस्ततोन्यत्किमपि न पश्यति, दुःखं च न पश्यति । एतदेवोपपादयति वाक्यशेषः "स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति अथ येऽन्यथाऽतो विदुरन्य-राजानस्ते क्षय्यलोका भवन्ति तेषां सर्वेषु लोकेष्वकामचारो भवति" इति । स्वराट्-अकर्मवश्यः । अन्यराजानः-कर्मवश्याः । तथा "न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् । सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वशः" इति च । निरतिशयसुखरूपत्वं च ब्रह्मणः "आनन्दमयोऽभ्यासात्" इत्यत्र प्रपञ्चितम् । अतः प्राणशब्दनिर्द्दि-ष्टात्प्रत्यगात्मनोऽर्थान्तरभूतस्य सत्यशब्दाभिधेयस्य ब्रह्मणो भूमेत्युपदेशाद्भूमा परं ब्रह्म ।

1.3.8 धर्मोपपत्तेश्च ।। 8 ।।

1.3.8

 

अस्य भूम्नो ये धर्मा आम्नायन्ते तेऽपि परस्मिन्नेवोपपद्यन्ते । "एतदमृतम्" इति स्वाभाविकममृतत्वम्, "स्वे महिम्नि" इत्यनन्याधारत्वम्, "स एवाधस्तात्" इत्यादि "स एवेदं सर्वम्" इति सर्वात्मकत्वम्, "आत्मनः प्राणः" इत्यादिप्राणप्रभृतिसर्वस्योत्पादकत्वमित्यादयो हि धर्माः परमात्मन एव । यत्तु "अहमेवाधस्तात्" इत्यादिना

1.3.8

 

सर्वात्मकत्वमुपदिष्टम्, तद्भूमविशिष्टस्य ब्रह्मणोऽहंग्रहेणोपासनमुपदिश्यते "अथाऽतोऽहङ्कारादेशः" इत्यहं-ग्रहोपदेशोपक्रमात् । अहमर्थस्य प्रत्यगात्मनोऽपि ह्यात्मा परमात्मेत्यन्तर्यामिब्राह्मणादिषूक्रम्; अतः प्रत्य-गर्थस्य परमात्मपयर्वसानादहंशब्दोऽपि परमात्मपर्यवसायीति प्रत्यगात्मशरीरकत्वेन परमात्मानुसन्धाना-र्थोऽयमहंग्रहोपदेशः । परमात्मनः सर्वशरीरतया सर्वात्मत्वात् प्रत्यगात्मनोऽप्यात्मा परमात्मा । तदेव "अथात आत्मादेशः" इत्यादिना "आत्मैवेदं सर्वम्" इत्यन्तेनोच्यते । एतदेवोपपादयितुं प्रत्यगात्मनोऽप्यात्मभूतात् परमात्मनस्सर्वस्योत्पत्तिरुच्यते "तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मनः प्राण आत्मत आकाशः" इत्यादिना । उपासकस्यान्तर्यामितया अवस्थितात्परमात्मनः सर्वस्योत्पत्तिरित्यर्थः । अतः पर-मात्मनः प्रत्यगात्मशरीरकत्वज्ञानप्रतिष्ठार्थमहंग्रहोपासनं कर्त्तव्यम् । तस्माद्भूमविशिष्टः परमात्मेति सिद्धम् ।।

1.3.9 अक्षरमम्बरान्तधृतेः ।। 9 ।।

1.3.9

 

वाजसनेयिनो गार्गिप्रश्ने समामनन्ति "सहोवाचैतद्वैतदक्षरं गार्गि ब्राह्मणा अभिवदन्ति

1.3.9

 

अस्थूलमनण्वह्रस्वमदीर्धमलोहितमस्नेहमच्छायम्" इत्यादि । तत्र संशयः, किमेतदक्षरं प्रधानम्, जीवो वा; उत परमात्मा ? इति । किं युक्तम् ? प्रधानमिति । कुतः "अक्षरात्परतः परः" इत्यादिष्वक्षरशब्दस्य प्रधाने प्रयोगदर्शनादस्थूलत्वादीनां च तत्र समन्वयात् । "यथा तदक्षरमधिगम्यते" इत्यादिषु परस्मिन्नप्यक्षरशब्दो दृश्यत इति चेत् न, प्रमाणान्तरप्रसिद्धश्रुतिप्रसिद्धयोः प्रमाणान्तरप्रसिद्धस्य प्रथमप्रतीतेः, प्रतीतपरिग्रहे विरो-धाभावात् । किञ्च "यदूर्ध्वं गार्गि दिवो यदर्वाक् पृथिव्याः" इत्यारभ्य सर्वस्य कालत्रितयवर्त्तिनः कारणभूता-काशाधारत्वे प्रतिपादिते "कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च" इत्याकाशस्यापि कारणं तदाधारभूतं किमिति पृष्टे प्रत्युच्यमानमक्षरं सर्वविकारकारणतया तदाधारभूतं प्रमाणान्तरप्रसिद्धं प्रधानमिति प्रतीयते, अतोऽक्षरं प्रधानम् ।

इति प्राप्त उच्यते-अक्षरमम्बरान्तधृतेः । अक्षरम् परं ब्रह्म । कुतः ? अम्बरान्तधृतेः, अम्बरस्य-आकाशस्य

1.3.9

 

अन्तः पारभूतम् अव्याकृतमम्बरान्तः, तस्य धृतेः तदाधारतयाऽस्याक्षरस्योपदेशादिति यावत् । अयमर्थः "कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च" इत्यत्राकाशशब्दनिर्दिष्टं न वायुमदम्बरम्, अपि तु तत्पारभूतमव्या-कृतम्, अतस्तस्याव्याकृतस्याप्याधारत्वेनोच्यमानमक्षरं नाव्याकृतं भवितुमर्हतीति । नन्वाकाशशब्दनिर्द्दिष्टो न वायुमानाति कथमवगम्यते ? उच्यते "यदूर्ध्वं गार्गि दिवो यदर्वाक् पृथिव्या यदन्तरा द्यावापृथिवी इमे

1.3.10

 

एवं तर्ह्यक्षरशब्दनिर्दिष्टो जीवोऽस्तु, तस्य भूतसूक्ष्मपर्यन्तस्य कृत्स्नस्याचिद्वस्तुन आधारत्वोपपत्तेः, अ-स्थूलत्वाद्युच्यमानविशेषणोपपत्तेश्च । "अव्यक्तमक्षरे लीयते" "यस्याव्यक्तं शरीरं यस्याक्षरं शरीरम्" "क्षरस्स-र्वाणि भूतानि कूटस्थोऽक्षर उच्यते" इत्यादिषु प्रत्यगात्मन्यप्यक्षरशब्दप्रयोगदर्शनादित्यत्रोत्तरम् -

1.3.10 सा च प्रशासनात् ।। 10 ।।

1.3.10

 

सा चाम्बरान्तधृतिरस्याक्षरस्य प्रशासनादेव भवतीत्युपदिश्यते "एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः, एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः, एतस्य वा अक्षरस्य प्रशासने गागिर् निमेषा मुहूर्ता अहोरात्राण्यर्द्धमासा मासा ऋ#ृतवस्सम्वत्सरा इति विधृतास्तिष्ठन्ति" इत्यादिना । प्रशासनम्-प्रकृष्ठं शासनम् । न चेदृशं स्वशासनाधीनसर्ववस्तुविधरणं बद्धमुक्तोभयावस्थस्यापि

1.3.11

 

प्रत्यगात्मनः सम्भवति, अतः पुरुषोत्तम एव प्रशासित्रक्षरम् ।।

1.3.11 अन्यभावव्यावृत्तेश्च ।। 11 ।।

1.3.11

 

अन्यभावः-अन्यत्वम्, प्रधानादिभावः । अस्याक्षरस्य परमपुरुषादन्यत्वं वाक्यशेषे व्यावर्त्यते "तद्वा एत-दक्षरं गार्ग्यदृष्टं द्रष्ट्रश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मन्तृ नान्यदतोऽस्ति विज्ञातृ एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च" इति । अत्र द्रष्टृत्वश्रोतृत्वाद्यु-

1.3.11

 

पदेशादस्याक्षरस्याचेतनभूतप्रधानभावो व्यावत्र्त्यते; सर्वैरदृष्टस्यैव सतस्सर्वस्य द्रष्टृत्वाद्युपदेशाच्च प्रत्यगात्म-भावो व्यावर्त्यते, अत इयमन्यभावव्यावृत्तिरस्याक्षरस्य परमपुरुषतां द्रढयति । एवं वाऽन्यभावव्यावृत्तिः,-अन्यस्य सद्भावव्यावृत्तिरन्यभावव्यावृत्तिः, यथैतदक्षरमन्यैरदृष्टं सदन्येषां द्रष्टृ च सत् स्वव्यतिरिक्तस्य सम-

1.3.11

 

स्तस्याधारभूतम्, एवमनेनादृष्टमेतस्य द्रष्टृ च सदेतस्याधारभूतमन्यन्नास्तीति वदन् "नान्यदतोऽस्ति द्रष्टृ"

1.3.11

 

इत्यादिवाक्यशेषोऽत्यस्य सद्भावं व्यावर्तयन्नस्याक्षरस्य प्रधानभावं प्रत्यगात्मभावं च प्रतिषेधति । किञ्च "एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति यजमानं देवा दर्वीपितरोऽन्वायत्ताः" इति श्रौतं स्मार्तञ्च यागदानहोमादिकं सर्वं कर्म यस्याज्ञया प्रवर्तते, तदक्षरं परब्रह्मभूतः पुरुषोत्तम एवेति विज्ञायते । अपि च "यो वा एतदक्षरं गार्ग्यविदित्वाऽस्मिंल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भ-वति यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः अथ य एतदक्षरं गार्गि विदित्वाऽस्माल्लोकात्प्रैति स ब्राह्मणः" इति यदज्ञानात्संसारप्राप्तिः यज्ज्ञानाच्चामृतत्वप्राप्तिस्तदक्षरं परं ब्रह्मैवेति सिद्धम् ।।

1.3.12 ईक्षतिकर्मव्यपदेशात्सः ।। 12 ।।

1.3.12

 

आथर्वणिकास्सत्यकामप्रश्नेऽधीयते "यः पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परं पुरु-षमभिध्यायीत स तेजसि सूर्ये सम्पन्नः । यथा पादोदरस्त्वचा विनिर्मुच्यते एवं ह वै स पाप्मना विनिर्मुक्तः ससामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते" इति । अत्र ध्यायतीक्षतिशब्दा-वेकविषयौ, ध्यानफलत्वादीक्षणस्य; "यथा क्रतुरस्मिंल्लोके पुरुषः" इति न्यायेन ध्यानविषयस्यैव प्राप्यत्वात् "परं पुरुषम्" इत्युभयत्र कर्मभूतस्यार्थस्य प्रत्यभिज्ञानाच्च । तत्र संशय्यते; किमिह "परं पुरुषम्" इति निर्द्दिष्टो

1.3.12

 

जीवसमष्टिरूपोऽण्डाधिपतिश्चतुर्मुखः, उत सर्वेश्वरः पुरुषोत्तमः ? इति । किं युक्तम् ? समष्टिक्षेत्रज्ञ इति । कुतः ? "स यो ह वैतद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायात कतं वाव स तेन लोकं जयति" इति प्रक्रम्यैकमात्रं प्रणवमुपासीनस्य मनुष्यलोकप्राप्तिमभिधाय, द्विमात्रमुपासीनस्यान्तरिक्षलोकप्राप्तिमभिधाय, त्रिमात्रमुपा-सीनस्य प्राप्यतया अभिधीयमानो ब्रह्मलोकोऽन्तरिक्षात्परो जीवसमष्टिरूपस्य चतर्मुखस्य लोक इति विज्ञायते; तद्गतेन चेक्ष्यमाणस्तल्लोकाधिपतिश्चतुर्मुख एव । "एतस्माज्जीवघनात्परात्परम्" इति च देहेन्द्रियादिभ्यः परा-द्देहेन्द्रियासिभिस्सह घनीभूताज्जीयव्यष्टिपुरुषाद्ब्रह्मलोकवासिनः समष्टिपुरुषस्य चतुर्मुखस्य परत्वेनोपपद्यते । अतोऽत्र निर्द्दिश्यमानः परः पुरुषः समष्टिपुरुषश्चतुर्मुख एव । एवं चतुर्मुखत्वे निश्चिते अजरत्वादयो यथा कथ-ञ्चिन्नेतव्याः ।

इति प्राप्ते प्रचक्ष्महे ईक्षतिकमर्व्यपदेशात्सः । ईक्षतिकर्म सः-परमात्मा । कुतः ? व्यपदेशात्, व्यपदिश्यते हीक्षतिकर्म परमात्मत्वेन । तथा हि; ईक्षतिकर्मविषयतयोदाहृते श्लोके "तमोङ्कारेणैवायतनेनान्वेति विद्वान् यत्तच्छान्तमजरममृतमभयं परं च" इति । परं शान्तमजरमभयममृतमिति हि परमात्मन एवैतद्रूपम् "एतद-

1.3.12

 

मृतमेतदभयमेतद्ब्रह्म" इत्येवमादिश्रुतिभ्यः । "एतस्माज्जीवघनात्परात्परम्" इति च परमात्मन एव व्यपदेशः, न चतुर्मुखस्य, तस्यापि जीवघनशब्दगृहीतत्वात् । यस्य हि कमर्निमित्तं देहित्वं स जीवघन इत्युच्यते, चतु-र्मुखस्यापि तच्छÜयते "यो ब्रह्माणं विदधाति पूर्वम्" इत्यादौ । यत्पुनरुक्तमन्तरिक्षलोकस्योपरिनिर्दिश्यमानो ब्रह्मलोकश्चतुर्मुखलोक इति प्रतीयते, अतस्तत्रस्थश्चतुर्मुख इति । तदयुक्तम्; "यत्तच्छान्तमजरममृतमभयम्" इत्यादिनेक्षतिकर्मणः परमात्मत्वे निश्चिते सति ईक्षितुः स्थानतया निर्दिष्टो ब्रह्मलोको न क्षयिष्णुश्चतुर्मुखलोको भवितुमर्हति । किञ्च "यथा पादोदरस्त्वचा विनिर्मुच्यते एवं ह वै स पाप्मना विनिर्मुक्तः प्राप्यतयोच्यमानं न चतुर्मुखस्थानम्;अत एव चोदाहरणश्लोके इयमेव ब्रह्मलोकमधिकृत्य श्रूयते "यत्तत्कवयो वेदयन्ते" इति । कवयः

1.3.12

 

सूरयः । सूरिभिर्दृश्यं च वैष्णवं पदमेव, "तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः" इत्येवमादिभ्यः । न चान्त-रिक्षात्परश्चतुर्मुखलोकः, मध्ये स्वर्गलोकादीनां बहूनां सद्भावात्, अतः "एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारस्तस्माद्विद्वानेतेनैवायनेनैकतरमन्वेति" इति प्रतिवचने यदपरं कार्यं ब्रह्म निर्द्दिष्टं तदैहिकामुष्मिकत्वेन द्विधा विभज्यैकमात्रं प्रणवमुपासीनानामैहिकं मनुष्यलोकावाप्तिरूपं फलमभिधाय द्विमात्रमुपासीनानाममु-ष्मिकमन्तरिक्षशब्दोपलक्षितं फलं चाभिधाय त्रिमात्रेण परब्रह्मवाचिना प्रणवेन परं पुरुषं ध्यायतां परमेव ब्रह्म

1.3.13

 

प्राप्यतयोपदिशतीति सर्वं समञ्जसम् । अतः ईक्षतिकर्म परमात्मा ।। इति ईक्षतिकर्माधिकरणम् ।।

1.3.13 दहर उत्तरेभ्यः ।। 13 ।।

1.3.13

 

इदमामनन्तिच्छब्दोगाः "अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर

1.3.13

 

आकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वा व विजिज्ञासितव्यम्" इति । तत्र सन्देहः, किमसौ हृदयपुण्डरीक-मध्यवर्ती दहराकाशो महाभूतविशेषः, उत प्रत्यगात्मा, अथ परमात्मा ? इति । किं तावद्युक्तम् ? महाभूत

1.3.13

 

विशेष इति । कुतः ? आकाशशब्दस्य भूताकाशे प्रसिद्धिप्रकर्षात्, "तस्मिन् यदन्तस्तदन्वेष्टव्यम्" इत्यन्वेष्ट-व्यान्तरस्याधारतया प्रतीतेश्च ।।

इत्येवं प्राप्तेऽभिधीयते-दहर उत्तरेभ्यः । दहराकाशः परं ब्रह्म । कुतः ? उत्तरेभ्यो वाक्यगतेभ्यो हेतुभ्यः । "एष आत्माऽपहतपाप्मा विजरो विमृत्युविर्शोकोविजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पः" इति निरुपा-धिकात्मत्वमपहतपाप्मत्वादिकं सत्यकामत्वं सत्यसङ्कल्पत्वं चेति दहराकाशे श्रूयमाणा गुणा दहराकाशं

1.3.13

 

परं ब्रह्मेति ज्ञापयन्ति । "अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति" इत्यादिना "यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति तेन सम्पन्ने महीयते" इत्यन्तेन दहरा-काशवेदिनः सत्यसङ्कल्पत्वप्राप्तिश्चोच्यमाना दहराकाशं परं ब्रह्मेत्यवगमयति । "यावान्वा अयमाकाशस्ता-वानेषोऽन्तर्हृदय आकाशः" इत्युपमानोपमेय भावश्च दहराकाशस्य भूताकाशत्वेनोपपद्यते । हृदयावच्छेदनि-बन्धन उपमानोपमेयभाव इति चेत्; तथा सति हृदयावच्छिन्नस्य द्यावापृथिव्यादिसर्वाश्रयत्वं नोपपद्यते । ननु च दहराकाशस्य परमात्मत्वेऽपि बाह्याकाशोपमेयत्वं न सम्भवति "ज्यायान् पृथिव्या ज्यायानन्तरिक्षात्" इत्यादौ सर्वस्माज्ज्यायस्त्वश्रवणात्-नैवम्; दहराकाशस्य हृदयपुण्डरीकमध्यवर्त्तित्वप्राप्ताल्पत्वनिवृत्तिपर- त्वादस्य वाक्यस्य; यथा अधिकजवेऽपि सवितरि "इषुवद्गच्छति सविता"इति वचनं गतिमान्द्यनिवृत्तिपरम् । अथ स्यात् "एष आत्माऽपहतपाप्मा" इत्यादिना दहराकाशो न निर्द्दिश्यते "दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्

1.3.13

 

यदन्तस्तदन्वेष्टव्यम्" इति दहराकाशान्तर्वर्तिनस्ततोऽन्यस्यान्वेष्टव्यत्वेन प्रकृतत्वादिह "एष आत्माऽपहत-पाप्मा" इति तस्यैवान्वेष्टव्यस्य निर्देष्टुं युक्तत्वात्; स्यादेतदेवम्, यदि श्रुतिरेव दहराकाशं तदन्तर्वर्तिनं च व्यभाङ्क्ष्यत् व्यभांक्षीत्तु सा, तथा हि "अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यम्" इति ब्रह्मपुरशब्देनोपास्यतया सन्निहितपरब्रह्मणः पुरत्वेनोपासकशरीरं-निर्दिश्य तन्मध्यवर्ति च तदवयवभूतं पुण्डरीकाकारमल्पपरिमाणं हृदयं परस्य ब्रह्मणो वेश्मतया अभिधाय सर्वज्ञं सर्वशक्तिमाश्रितवात्सल्यैकजलधिमुपासकानुग्रहाय तस्मिन्वेश्मनि सन्निहितं सूक्ष्मतया ध्येयं दहरा-

1.3.13

 

काशशब्देन निर्द्दिश्य तदन्तर्वर्ति चापहतपाप्मत्वादिस्वभावतो निरस्तनिखिलहेयत्वसत्यकामत्वादिस्वाभा-विकानवधिकातिशयकल्याणगुणजातं च ध्येयं "तदन्वेष्टव्यम्" इत्युपदिश्यते । अत्र "तदन्वेष्टव्यम्" इति तच्छब्देन दहराकाशम्, तदन्तवÐर्तगुणजातं च परामृश्य तदुभयमन्वेष्टव्यमित्युपदिश्यते; "यदिदमस्मिन्

1.3.13

 

ब्रह्मपुरे दहरं पुण्डरीकं वेश्म" इत्यनूद्य तस्मिन् दहरपुण्डरीकवेश्मनि यो दहराकाशः यच्च तदन्तर्वर्ति गुणजातं

1.3.13

 

तदुभयमन्वेष्टव्यमिति विधीयत इत्यर्थः । दहराकाशशब्दनिर्द्दिष्टस्य परब्रह्मत्वं "तदस्मिन् यदन्तः" इति निर्द्दिष्टस्य च तद्गुणत्वम् तच्छब्देनोभयं परामृश्योभयस्याप्यन्वेष्टव्यतया विधानं च कथमवगम्यत इति चेत्, तदवहितमनाः #ृणु "यावान्मा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः" इति दहराकाशस्यातिमहत्तामभिधाय "उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते । उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ । विद्युन्नक्षत्राणि" इति प्रकृतमेव दह- राकाशमस्मिन्निति निर्द्दिश्य तस्य सवर्जगदाधारत्वमभिधाय "यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन्त्समा-

1.3.13

 

हितम्" इति पुनरप्यस्मिन्निति तमेव दहराकाशं परामृश्य तस्मिन्नस्योपासकस्येह लोके यद्भोग्यजातमस्ति यच्च मनोरथमात्रगोचरमिह नास्ति सर्वं तद्भोग्यजातमस्मिन् दहराकाशे समाहितमिति निरतिशयभोग्यत्वं दहराकाशस्याभिधाय तस्य दहराकाशस्य देहावयवभूतहृदयान्तर्वर्त्तित्वेऽपि देहस्य जराप्रध्वंसादौ सत्यपि

1.3.13

 

परमकारणतया अतिसूक्ष्मत्वेन निर्विकारत्वमुक्तवा "तत एवैतत्सत्यं ब्रह्मपुरम्" इति तमेव दहराकाशं सत्यभूतं

1.3.13

 

ब्रह्माख्यं पुरं निखिलजगदावासभूतमित्युपपाद्य "अस्मिन्कामास्समाहिताः" इति दहराकाशमस्मिन्निति निर्दिश्य काम्यभूतांश्च गुणान् कामा इति निर्दिश्य तेषां दहराकाशान्तर्वर्तित्वमुक्तवा तदेव दहराकाशस्य काम्यभूत-

1.3.13

 

कल्याणगुणविशिष्टत्वं तस्यात्मत्वं च "एष आत्माञपहतपाप्मा" इत्यादिना "सत्यसङ्कल्पः" इत्यन्तेन स्फुटी-कृत्य "यथा ह्येवेह प्रजा अन्वाविशन्ति" इत्यारभ्य "तेषां सर्वेषु लोकेष्वकामचारो भवति" इत्यन्तेन तदिदं गुणाष्टकं तद्विशिष्टं दहराकाशशब्दनिर्दिष्टमात्मानं चाविदुषामेतद्य्वतिरिक्तभोग्यसिद्धये च कर्म कुर्वतामन्त-वत्फलावाप्तिमसत्यसङ्कल्पत्वं चाभिधाय" अथ य इहात्मानमनुविद्य ब्रजन्त्येतांश्च सत्यान् कामांस्तेषां सवेषु लोकेषु कामचारो भवति" इत्यादिना दहराकाशशब्दनिर्दिष्टमात्मानं तदन्तर्वर्तिनश्च काम्यभूतानपहतपाप्म-

1.3.14

 

त्वादिकान् गुणान् विजानतामुदारणसागरस्य तस्य परमपुरुषस्य प्रसादादेव सर्वकामावाप्तिस्सत्यसङ्कल्पता चोच्यते; अतो दहराकाशः परं ब्रह्म, तदन्तर्वर्ति चापहतपाप्मत्वादि काम्यगुणजातम् तदुभयमन्येष्टव्यं विजि-ज्ञासितव्यमिति चोच्यत इति निश्चीयते । तदेतद्वाक्यकारोऽपि स्पष्टयति "तस्मिन्यदन्तरिति कामव्यपदेशः" इत्यादिना । अत एतेभ्यो हेतुभ्यो दहराकाशः परमेव ब्रह्म ।।

1.3.14 गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गं च ।। 14 ।।

1.3.14

इतश्च दहराकाशः परं ब्रह्म "तद्यथा हिरण्यनिधिं निहितसक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः" इति । एतमिति प्रकृतं दहराकाशं निर्दिश्य तत्राहरहस्सर्वेषां क्षेत्रज्ञानां गमनम्, गन्तव्यस्य तस्य दहराकाशस्य ब्रह्मलोकशब्दनिर्देशश्च दहरा-काशस्य परब्रह्मतां गमयतः । कथमनयोरस्य परब्रह्मत्वसाधकत्वमित्यत आह - तथा हि दृष्टमिति । परस्मिन्

1.3.14

 

ब्रह्मणि सर्वेषां क्षेत्रज्ञानामहरहस्सुषुप्तिकाले गमनमन्यत्राभिधीयमानं दृष्टम् "एवमेव खलु सोम्येमास्सर्वाः प्रजास्सति सम्पद्य न विदुस्सति सम्पत्स्यामह इति" इति "सत आगम्य न विदुस्सत आगच्छामह इति" इति च । तथा ब्रह्मलोकशब्दश्च परस्मिन् ब्रह्मणि दृष्टः "एष ब्रह्मलोकस्सम्राडिति होवाच" इति । माभूदन्यत्र ब्रह्मणि गमनदर्शनम्; एतदेव तु दहराकाशे सर्वेषां क्षेत्रज्ञानां प्रलयकाल इव निरस्तनिखिलदुःखानां सुषुप्तिकालेऽव-स्थानं श्रूयमाणमस्य परब्रह्मत्वे पर्याप्तं लिङ्गम्, तथा ब्रह्मलोकशब्दश्च समानाधिकरणवृत्त्या अस्मिन् दहराकाशे प्रयुज्यमानोऽस्य ब्रह्मत्वे प्रयोगान्तरनिरपेक्षं पर्याप्तं लिङ्गमित्याह -लिङ्गं चेति । निषादस्थपतिन्यायाच्च षष्ठी

1.3.15

 

समासात्समानाधिकरणसमासौ न्यायः । अथवा "अहरहर्गच्छन्त्यः" इति न सुषुप्तिविषयं गमनमुच्यते; अपि त्वन्तरात्मत्वेन सर्वदा वर्तमानस्य दहराकाशस्य परमपुरुषार्थभूतस्योपर्युपर्यहरहर्गच्छन्त्यः सर्वस्मिन् काले वर्तमानाः तमजानन्त्यस्तं न विन्दन्ति-न लभन्ते; यथा हिरण्यनिधिं निहितं तत्स्थानमजानानास्तदुपरि सर्वदा वर्तमाना अपि न लभन्ते तद्वदित्यर्थः । सेयमेवमन्तरात्मत्वेन स्थितस्य दहराकाशस्योपरि तन्नियमितानां सर्वासां प्रजानामजानतीनां सर्वदा गतिरस्य दहराकाशस्य परब्रह्मतां गमयति । तथा ह्यन्यत्र परस्य ब्रह्मणो-ऽन्तरात्मतया अवस्थितस्य स्वनियाम्याभिः स्वस्मिन् वर्तमानाभिः प्रजाभिरवेदनं दृष्टम् । यथा अन्तर्यामि-ब्राह्मणे "य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति" इति, "अदृष्टो द्रष्टा अश्रुतः श्रोता" इति च । माभूदन्यत्र दर्शनम्; स्वयमेव त्वियं निधिदृष्टान्तावगतपरमपुरुषार्थ-भावस्यास्य हृदयस्थस्योपरि तदाधारतयाऽहरहस्सर्वदा सर्वासां प्रजानामजानतीनां गतिरस्य परब्रह्मत्वे पर्याप्तं लिङ्गम् ।। इतश्च दहराकाशः परं ब्रह्म -

1.3.15 धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ।। 15 ।।

1.3.15

 

"अथ य आत्मा" इति प्रकृतं दहराकाशं निर्दिश्य "स सेतुर्विधृतिरेषां लोकानामसम्भेदाय" इत्यस्मिन् जगद्विधरणं श्रूयमाणं दहराकाशस्य परब्रह्मतां गमयति; जगद्विधरणं हि परस्य ब्रह्मणो महिमा, "एष सर्वेश्वर एष सर्वभूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय" इति, "एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः" इत्यादिभ्यः । स चायं तस्य परस्य ब्रह्मणो धृत्याख्यो महिमाऽस्मिन् दहराकाश उपलभ्यते; अतो दहराकाशः परं ब्रह्म ।।

1.3.16 प्रसिद्धेश्च ।। 16 ।।

1.3.16

 

आकाशशब्दश्च परस्मिन् ब्रह्मणि प्रसिद्धः "को ह्येवान्यात्कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात्" "सर्वाणि/ ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते" इत्यादिषु; अपहतपाप्मत्वादिगुणसनाथा प्रसिद्धि-र्भूताकाशप्रसिद्धेर्बलीयसीत्यभिप्रायः ।

1.3.17

एवं तावद्द्रहराकाशस्य भूताकाशत्वं प्रतिक्षिप्तम् । अथेदानीं दहराकाशस्य प्रत्यगात्मत्वमाशङ्कय निराकर्तु-मुपक्रमते -

1.3.17 इतरपरामर्शात् स इति चेन्नासम्भवात् ।। 17 ।।

1.3.17

यदुक्तं वोक्यशेषवशाद्दहराकाशः परं ब्रह्मेति । तदयुक्तम्; वाक्यशेषे परस्मादितरस्य जीवस्यैव साक्षात्प-रामर्शात् "अथ य एष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यदन्ते एष आत्मेति होवाच एतदमृतमभयमेतद्ब्रह्म" इति । यद्यपि "दहरोऽस्मिन्नन्तर आकाशः" इति हृदयपुण्डरीक-मध्यवर्तितयोपदिष्टस्याकाशस्योपमानोपमेयभावाद्यसम्भवाद्भूताकाशत्वं न सम्भवति, तथापि वाक्यशेष- वशात् प्रत्यगात्मत्वं युक्तमाश्रयितुम् । आकाशशब्दोऽपि प्रकाशादियोगाज्जीव एव वर्तिष्यत इति चेत् अत्रो-त्तरम्-नासम्भवादिति । नायं जीवः, न ह्यपहतपाप्मत्वादयो गुणा जीवे सम्भवन्ति ।

1.3.18 उत्तराच्चेदाविर्भूतस्वरूपस्तु ।। 18 ।।

1.3.18

 

उत्तरात्-प्रजापतिवाक्यात् जीवस्यैवापहतपाप्मत्वादिगुणयोगो निश्चीयत इति चेत्, एतदुक्तं भवति; प्रजा-पतिवाक्यं जीवपरमेव । तथाहि "य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्य-कामस्सत्यसङ्कल्पस्सोऽन्वेष्टव्यस्य विजिज्ञासितव्यः स सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानाति" इति प्रजापतिवचनमैतिह्यरूपेणोपश्रुत्यान्वेष्टव्यात्मस्वरूपजिज्ञासया प्रजापतिमुपसेदुषे मघवते प्रजापतिर्जागरित-स्वप्नसुषुप्त्यवस्थं जीवात्मानं सशरीरं क्रमेण शुश्रूषुयोग्यतापरिचिक्षिषयोपदिश्य तत्र तत्र भोग्यमपश्यते परि-शुद्धात्मस्वरूपोपदेशयोग्याय तस्मै मघवते "मघवन् मर्त्यं वा इदं शरीरमात्तं मृत्युना तदस्यामृतस्याशरीरस्या-

1.3.18

 

त्मनोञधिष्ठान्तम्" इति शरीरस्याधिष्ठानतामात्मनश्चाधिष्ठातृतामशरीरस्य च तस्यामृतत्वस्वरूपतां चोक्तवा "न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति । अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः" इति कर्मा-रब्धशरीरयोगिनस्तदनुगुणसुखदुःखभागित्वरूपनार्थं तद्विमोक्षे च तदभावमभिधाय "एषमेवैष सम्प्रसादो-ऽस्माच्छरीरात्मसमुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते" इति जीवात्मनः स्वरूपमेव शरीर-

1.3.18

 

वियुक्तमुपदिदेश । "स उत्तमः पुरुषः स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनं

1.3.18

 

स्मरन्निदं शरीरम्" इति प्राप्यस्य परस्य ज्योतिषः पुरुषोत्तमत्वम् निवृत्ततिरोधानस्य परं ज्योतिरुपसम्पन्नस्य प्रत्यगात्मनो ब्रह्मलोके यथेष्टभोगावाप्तिं प्रियाप्रियावियुक्तकमर्निमित्तशरीराद्यपुरुषार्थाननुसंधानं चाभिधाय "अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणमथ यो वेदेदमभिव्याहरणीति स आत्माऽभिव्याहाराय वागथ यो वेदेदं #ृणवानीति स आत्मा श्रवणाय श्रोत्रमथ यो वेदेदं मन्वानीति स आत्मा मनोऽस्य देव चक्षुः" इति चक्षुरादीनां करणत्वं रूपादीनां ज्ञेयत्वमस्य

1.3.18

 

च ज्ञातृत्वं प्रदर्श्य तत एव शरीरेन्द्रियेभ्योऽस्य व्यतिरेकमुपपाद्य "स वा एष एतेन दिव्येन चक्षुषा मनसैतान् कामान् पश्यन् रमते य एते ब्रह्मलोके" इति तस्यैव विधूतकमर्निमित्तशरीरेन्द्रियस्य मनश्शब्दाभिहितेन दिव्येन स्वाभाविकेन ज्ञानेन सर्वकामानुभवमुक्तवा "तं वा एतं देवा आत्मानमुपासते तस्मात्तेषां सर्वे च लोका आप्ताः सर्वे च कामाः" इत्येवंसवधमात्मानं ज्ञानिनो जानन्तीत्यभिधाय "सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच" इत्येवंविधमात्मानं विदुषस्सर्वलोकसर्वकामावाप्त्यु-पलक्षितं ब्रह्मानुभवं फलमभिधायोपसंहृतम्; अतस्तत्रापहतपाप्मत्वादिगुणको ज्ञातव्यतया प्रक्रान्तो जीव एवेत्यवगतम्; अतो जीवस्यापहतपाप्मत्वादयस्यम्भवन्ति; अतो दहरवाक्यशेषे श्रूयमाणस्य जीवस्यापहत-पाप्मत्वादिगुणसम्भवात्स एव दहराकाश इति निश्चीयत इति चेत्-इति ।

तत्राह - आविर्भूतस्वरूपस्त्विति । पूर्वमनृततिरोहितापहतपाप्मत्वादिगुणकः स्वस्वरूपः पश्चाद्विमुक्त-कर्मबन्धः शरीरात्समुत्थितः परं ज्योतिरुपसम्पन्नः आविर्भूतस्वरूपस्सन्नपहतपाप्मत्वादिगुणविशिष्टस्तत्र प्रजापतिवाक्येऽभिधीयते; दहरवाक्ये त्वतिरोहितस्वभावापहतपाप्मत्वादिविशिष्ट एव दहराकाशः प्रतीयते । आविर्भूतस्वरूपस्यापि जीवस्यासम्भावनीयास्सेतुत्वसर्वलोकविधरणत्वादयस्सत्यशब्दनिर्वचनावगतं चेतना-चेतनयोर्नियन्तृत्वं दहराकाशस्य परब्रह्मतां साधयन्ति । सेतुत्वसर्वलोकविधरणत्वादय आविर्भूतस्वरूपस्यापि न सम्भवन्तीति "जगद्य्वापारर्वजम्" इत्यत्रोपपादयिष्यामः ।

यद्येवं दहरवाक्ये "अथ य एष सम्प्रदायः" इत्यादिना जीवप्रस्तावः किमर्थ इति चेत्तत्राह -

1.3.19 अन्यार्थश्च परामर्शः ।। 19 ।।

1.3.19

 

दहराकाशस्यैवापहतपाप्मत्वजगद्विधरणत्वोदिवन्मुक्तस्य तदुपसम्पत्त्याऽपहतपाप्मत्वादिकल्याणगुण-विशिष्टस्वाभाविकरूपप्राप्तिकथनेन तद्धेतुत्वरूपं परमपुरुषासाधारणं गुणमुपदेष्टुं प्रजापतिवाक्योक्तस्य जीव-स्यात्र परामर्शः । प्रजापतिवाक्ये च मुक्तात्मस्वरूपयाथात्म्यविज्ञानं दहरविद्योपयोगितयोक्तम्; ब्रह्म प्रे- प्सोर्हि जीवात्मनः स्वस्वरूपं च ज्ञातव्यमेव स्वयमपि कल्याणगुण एव सन्ननवधिकातिशयासङ्खयेयकल्या-णगुणगणं परं ब्रह्मानुभविष्यतीति ब्रह्मोपासनफलान्तर्गतत्वात्स्वस्वरूपयाथात्म्यविज्ञानस्य । "सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्" "स तत्र पर्येति जक्षन् क्रीडन्" इत्यादिकं प्रजापतिवाक्ये कीर्त्यमानं फलमपि दहरविद्याफलमेव ।।

1.3.20 अल्पश्रुतेरिति चेत्तदुक्तम् ।। 20 ।।

1.3.20

"दहरोऽस्मिन्" इत्यल्पपरिणामश्रुतिराराग्रोपमितस्य जीवस्यैवोपपद्यते, न तु सर्वस्माज्ज्यायसो ब्रह्मण

1.3.21ए अनुकृतेस्तस्य च ।। 21 ।।

1.3.21ए

 

तस्य-दहराकाशस्य परस्य ब्रह्मणः, अनुकारात्-अयमपहतपाप्मत्वादिगुणको विमुक्तबन्धः प्रत्यगात्मा न दहराकाशः । तदनुकारः-तत्साम्यम् । तथा हि प्रत्यगात्मनो विमुक्तस्य परब्रह्मानुकारः श्रूयते "यदा पश्यः पश्यते

1.3.22

 

रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदाविद्वान् पुण्यपापे विधूय निरञ्जनः परमसाम्यमुपैति" इति । अतोऽनुकर्ता प्रजापतिवाक्यनिर्द्दिष्टः । अनुकार्यं ब्रह्म दहराकाशः ।।

1.3.22 अपि स्मर्यते ।। 22 ।।

1.3.22

 

संसारिणोऽपि मुक्तावस्थायां परमसाम्यापत्तिलक्षणः परब्रह्मानुकारस्मर्यते "इदं ज्ञानमुपाश्रित्य मम साध-र्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च" इति । केचित् "अनुकृतेस्तस्य च" "अपि स्मर्यते" इति सूत्रद्वयमधिकरणान्तरं "तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति" इत्यस्याश्श्रुतेः परं ब्रह्मपरत्वनिर्णयाय प्रवृत्तं वदन्ति । तत्तु "अदृश्यत्वाधिकरणद्वयेन तस्य प्रकरणस्य परब्रह्मविषयत्वप्रतिपादनात् "ज्योतिश्चरणाभिधानात्" इत्यादिषु परस्य ब्रह्मणो भारूपत्वावगतेश्च पूर्वपक्षानुत्थानादयुक्तम्; सूत्राक्षरक्षरवै-रूप्यं च ।।

1.3.23 शब्दादेव प्रमितः ।। 23 ।।

1.3.23

 

कठवल्लीषु श्रूयते-"अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत्" "अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः । ईशानो भूतभव्यस्य स एवाद्य स उ श्वः । एतद्वै तत्" "अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः । तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवैषीकां धैर्य्येण । तं विद्याच्छुक्रममृतम्" इति । तत्र सन्दिह्यते; किमयमङ्गुष्ठमात्रप्रमितः प्रत्यगात्मा, उत परमात्मा ? इति । किं युक्तम् ? प्रत्यगात्मेति । कुतः ? जीवस्यान्यत्राङ्गुष्ठमात्रत्वश्रुतेः । "प्राणाधिपः सञ्चरति स्वकर्मभिः ।

1.3.23

 

अङ्गुष्ठमात्रो रवितुल्यरूपः सङ्कल्पाहङ्कारसमन्वितो यः" इति । न चान्यत्रोपासनार्थतयापि परमात्मनोऽङ्गुष्ठ-मात्रत्वं श्रूयते । एवं निश्चिते जीवत्वे ईशानत्वं शरीरेन्द्रियभोग्यभोगोपकरणापेक्षयापि भविष्यति ।

इति प्राप्ते ब्रूमः शब्दादेव प्रमितः । अङ्गुष्ठप्रमितः परमात्मा । कुतः ? "ईशानो भूतभव्यस्य" इति शब्दादेव;

1.3.24

 

न च भूतभव्यस्य सर्वस्येशितृत्वं कर्मपरवशस्य जीवस्योपपद्यते । कथं तर्हि परमात्मनोऽङ्गुष्ठमात्रत्वमित्यत्राह -

1.3.24 हृद्यपेक्षया तु मनुष्याधिकारत्वम् ।। 24 ।।

1.3.24

 

परमात्मन उपासनार्थमुपासकहृदये वर्तमानत्वादुपासकहृदयस्याङ्गुष्ठप्रमाणत्वात्तदपेक्षयेदमङ्गुष्ठप्रमितत्व-मुपपद्यते, जीवस्याप्यङ्गुष्ठप्रमितत्वं हृदयान्तर्वर्तित्वात्तदपेक्षमेव तस्याराग्रमात्रत्वश्रुतेः । मनुष्यमाणामेवोपा-सकत्वसम्भावनाया शास्त्रस्य मनुष्याधिकारत्वान्मनुष्यहृदयस्य च तत्तदङ्गुष्ठप्रमितत्वात्खरतुरगभुजगादीना-मनङ्गुष्ठप्रमितत्वेऽपि न कश्चिद्दोषः, स्थितं तावदुत्तरत्र समापयिष्यते ।

1.3.25 तदुपर्यपि बादरायणस्सम्भवात् ।। 25 ।।

1.3.25

 

परस्य ब्रह्मणोऽङ्गुष्ठप्रमितत्वोपपत्तये मनुष्याधिकारं ब्रह्मोपासनशास्त्रमित्युक्तम् । तत्प्रसङ्गेनेदानीं ब्रह्मविद्यायां देवादीनामप्यधिकारोऽस्ति, नास्तीति विचार्यते । किन्तावद्युक्तम् ? नास्ति देवा-दीनामधिकार इति । कुतः ? सामर्थ्याभावात्, न ह्यशरीराणां देवादीनां वि#ेकविमोकादिसाधनसप्तकानुगृहीत-ब्रह्मोपासनोपसंहारसामर्थ्यमस्ति । न च देवादीनां सशरीरत्वे प्रमाणमुपलभामहे । यद्यपि परिनिष्पन्नेऽपि वस्तुनि व्युत्पत्तिसम्भावनाया वेदान्तवाक्यानि परे ब्रह्मणि प्रमाणभावमनुभवन्ति; तथापि देवादीनां विग्रह-वत्त्वप्रतिपादनपरं न किञ्चिदपि वाक्यमुपलभ्यते । मन्त्राथर्वादास्तु कर्मविधिशेषतयाऽन्यपरत्वान्न देवादि- विग्रहसाधने प्रभवन्ति । कर्मविधयश्च स्वापेक्षितोद्देश्यकारकत्वातिरेकिदेवतागतं किमपि न साधयन्ति । अत

1.3.25

 

एव तासामर्थित्वमपि न सम्भवति । अतस्सामर्थ्यार्थित्वयोरभावाद्देवादीनामनधिकार इति ।

एवं प्राप्ते प्रचक्ष्महे तदुपर्यपि बादरायणस्सम्भवात् । तदुपर्यपि-तत्-ब्रह्मोपासनम्, उपरि-देवादिष्वपि, सम्भवतीति भगवान्बादरायणो मन्यते, तेषामर्थित्वसामर्थ्ययोस्सम्भवात् । अर्थित्वं तावदाध्यात्मिकादि-दुर्विषहदुःखाभितापात्परस्मिन् ब्रह्मणि च निरस्तनिखिलदोषगन्धे अनवधिकातिशयासङ्घयेयकल्याणगु- णगणे निरतिशयभोग्यत्वादिज्ञानाच्च सम्भवति । सामर्थ्यमपि पटुतरदेहेन्द्रियादिमत्तया सम्भवति । देहे-न्द्रियादिमत्त्वं च ब्रह्मादीनां सकलोपनिषत्सु सृष्टिप्रकरणेषूपासनप्रकरणेषु च श्रूयते । तथा हि "सदेव सोम्ये-दमग्र आसीत्" "तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत" इत्यारभ्य सर्वमचेतनं तेजोऽबन्नप्रमुखावस्था-विशेषवद्य्वाकृत्य "अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति सङ्कल्प्य ब्रह्मादिस्थावरान्तं चतुर्विधं भूतजातं तत्तत्कर्मोचितशरीरं तदुचितनामभाक् चायमकरोदित्युक्तम् । एवं सर्वत्र सृष्टिवाक्येषु देवतिर्यङ्मनुष्यस्थावरात्मना चतुर्विधा सृष्टिराम्नायते । देवादिभेदश्च तत्तत्कर्मानुगुणब्रह्मलोकप्रभृतिचतुर्दश-लोकस्थफलभोगयोग्यदेहेन्द्रियादियोगायत्तः, आत्मनां स्वतो देवादित्वाभावात् । तथा "तद्धोभयो देवासुरा अनुबुबुधिरे ते होचुः इन्द्रो ह वै देवानामभिप्रवव्राज विरोचनोऽसुराणां तौ हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः" "तौ ह द्वातिं्रशतं वर्षाणि ब्रह्मचर्यमूषतुः तौ ह प्रजापतिरुवाच" इत्यादिना स्प- ष्टमेव शरीरेन्द्रियवत्त्वं देवादीनां प्रतीयते । कर्मविधिशेषभूतमन्त्रार्थवादेष्वपि "वज्रहस्तः पुरन्दरः" "तेनेन्द्रो

1.3.25

 

वज्रमुदयच्छत्" इत्यादिभिः प्रतीयमानं विग्रहादिमत्त्वं प्रमाणान्तराविरुद्धं तत्प्रमेयमेव । न चानुष्ठेयार्थप्र-काशनस्तुतिपरत्वाभ्यां प्रतीयमानार्थान्तराविवक्षा शक्यते वक्तुम्, स्तुत्याद्युपयोगित्वात्तेन विना स्तुत्या-द्यनुपपत्तेश्च । गुणकथनेन हि स्तुतित्वम् । गुणानामसद्भावे स्तुतित्वमेव हीयेत । न चासता गुणेन कथि- तेन प्ररोचना जायते; अतः कर्म प्ररोचयन्तो गुणसद्भावं बोधयन्त एवार्थवादाः । मन्त्राश्च कर्मसु विनियु-

1.3.25

 

क्तास्तत्र तत्र किञ्चित्करत्वायानुष्ठेयमर्थं प्रकाशयन्तो देवतादिगतविग्रहादिगुणविशेषमभिदधत एव तत्र किञ्चित्कुर्वन्ति, अन्यथेद्रादिस्मृत्यनुपपत्तेः । न च निर्विशेषा देवता धियमधिरोहति । तत्र प्रमाणान्तरा- प्राप्तान् गुणान् स्वयमेव बोधयित्वा तैः कर्म प्ररोचयन्ति; गुणविशिष्टं वा प्रकाशयन्ति; प्राप्तांश्चानूद्य तैः प्ररोचनप्रकाशने कुर्वन्ति; विरुद्धत्वे तु तद्वाचिभिश्शब्दैरविरुद्धान् गुणान् लक्षयित्वा कुवÐन्त । कर्मविधेश्च

1.3.25

 

देवताया ऐश्वर्यमपेक्षितमेव, कामिनः कर्त्तव्यतया कर्म विधीयमानं स्वयं क्षणप्रध्वंसि कालान्तरभाविनः फलस्य स्वर्गादेस्साधकमपेक्षते । मन्त्रार्थवादयोश्च "वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति" "यदनेन हविषाऽऽशास्ते तदश्यात्तदृध्यात्तदस्मै देवा राधन्ताम्" इत्यादिषु देवतायाः कर्मणाऽऽराधितायाः फलदायित्वं तदनुगुणञ्चैश्वर्यं प्रतीयमानमपेक्षितत्वेन वाक्यार्थो समन्वीयते । देवपू-

1.3.25

 

जाभिधायिनो यजिधातोश्च यागाख्यं कर्म स्वाराध्यदेवताप्रधानं प्रतीयते । तदेवं कृत्स्नवाक्यपर्यालोचनया वाक्यादेव विध्यपेक्षितं सर्वमवगतमिति नापूर्वादिकं व्युत्पत्तिसमयानवगतं कर्मविधिष्वभिधेयतया कल्प्य- तया वाऽऽश्रयितव्यम् । तथा सङ्कीर्णब्राह्मणमन्त्रार्थवादमूलेषु धर्मशास्त्रेतिहासपुराणेषु ब्रह्मादीनां देवासुर-

1.3.25

 

प्रभृतीनां देहेन्द्रियादयस्स्वभावभेदाः स्थानानि भोगाः कृत्यानि चेत्येवमादयस्सुव्यक्ताः प्रतिपाद्यन्ते; अतो विग्रहादिमत्त्वाद्देवादीनामप्यधिकारोऽस्त्येव ।।

1.3.26 विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ।। 26 ।।

1.3.26

 

देवादीनां विग्रहादिमत्त्वाभ्युपगमे कर्मणि विरोधः प्रसज्यते, बहुषु यागेषु युगपदेकस्येन्द्रस्य विग्रहवत्त्वे "अग्निमग्न आवह" "इन्द्र आगच्छ हरिव आगच्छ" इत्यादिना आहूतस्य तस्य सन्निधानानुपपत्तेः । दर्शयति चाग्न्यादीनां तत्र तत्रागमनं "कस्य वाह देवा यज्ञमागच्छन्ति कस्य वा न बहूनां याजमानानां यो वै देवताः पूर्वः परिगृह्णाति स एनाश्श्वो भूते यजते" इति । अतो विग्रहादिमत्त्वे कर्मणि विरोधः प्रसज्यत इति चेत् तन्न अनेकप्रतिपत्तेर्दर्शनात्-दृश्यते हि सौभरिप्रभृतीनां शक्तिमतां युगपदनेकशरीरप्रतिपत्तिः ।।

1.3.27 शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् ।। 27 ।।

1.3.27

 

विरोध इति वर्त्तते । माभूत्कर्मणि विरोधोऽनेकशरीरप्रतिपत्तेः । शब्दे तु वैदिके विरोधः प्रसज्यते, अनि-त्याथर्संयोगात् । विग्रहवत्त्वे हि सावयवत्वेनेन्द्रादेरर्थस्यानित्यत्वमनिवार्यम्; ततो देवदत्तादिशब्दवदिन्द्रा- द्यर्थजन्मनः प्राग्विनाशादूद्र्ध्वं चेन्द्रादिशब्दानां वैदिकानामर्थशून्यत्वमनित्यत्वं वा वेदस्य स्यादिति चेत् तन्न;

1.3.27

 

अतः प्रभवात्-अस्मादिन्द्रादिशब्दादेव पुनः पुनरिन्द्राद्यर्थस्य प्रभवात् । एतदुक्तम्भवति- न हि देवदत्तादि-शब्दवदिन्द्रादिशब्दाः वैदिकाः व्यक्तिविशेषमात्रे सङ्केतपूर्वकाः प्रवृत्ताः, अपि तु स्वभावत एव गवादिशब्द- वदाकृतिविशेषवाचित्वेन । ततश्चैकस्यामिन्द्रव्यक्तौ विनष्टायामत एव वैदिकादिन्द्रशब्दान्मनसि विपरिवर्त्त-

1.3.27

 

मानादवगततद्वाच्यभूतेन्द्राद्यर्थाकारो घाता तदाकारमेवापरमिन्द्रं सृजाति; यथा कुलालो घटशब्दान्मनसि विपरिवर्त्तमानात्तदाकारमेव घटमिति । कथमिदमवगम्यते ? प्रत्यक्षानुमानाभ्याम्-श्रुतिस्मृतिभ्यामित्यर्थः । श्रुतिस्तावत् "वेदेन रूपे व्याकरोत् सतासती प्रजापतिः" इति, तथा "स भूरिति व्याहरत् स भूमिससृजत स भुव इति व्याहरत् सोऽन्तरिक्षमसृजत" इत्यादि । वाचकशब्दपूर्वकं तत्तदर्थसंस्थानं स्मरन् तत्तत्संस्थानविशिष्टं

1.3.28

 

तं तमर्थं सृष्टवानित्यर्थः । स्मृतिरपि "अनादिनिधना ह्येषा वागुत्सृष्टा स्वयम्भुवा । आदौ वेदमयी दिव्या यतस्सर्वाः प्रसूतयः" इति; "सर्वेषान्तु स नामानि कर्माणि च पृथक् पृथक् । वेदशब्देभ्य एवादौ पृथक् सं- स्थाश्च निर्ममे" इति । संस्थाः-संस्थानानि, रूपाणीति यावत्; तथा "नामरूपञ्च भूतानां कृत्यानां च प्रप- ञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः" इति । अतो देवादीनां विग्रहवत्त्वेऽपि न वैदिकशब्दाना-मानर्थक्यं वेदस्यादिमत्त्वं च न प्रसज्यते ।।

1.3.28 अत एव च नित्यत्वम् ।। 28 ।।

1.3.28

 

यत एवेन्द्रवसिष्ठादिशब्दानां सेवर्षिवाचिनां तत्तदाकारवाचित्वम्, तत्तच्छब्देन तत्तदर्थस्मृतिपूर्वीका च तत्तदर्थसृष्टिः, तत एव "मन्त्रकृतो वृणीते" "नम ऋषिभ्यो मन्त्रकृद्य्भः" "अयं सो अग्निरिति विश्वामित्रस्य

1.3.28

 

सूक्तं भवति" इत्यादिभिर्वसिष्ठादीनां मन्त्रकृत्वकाण्डकृत्त्वऋषित्वादौ प्रतीयमानेऽपि वेदस्य नित्यत्वमुपपद्यते । एभिरेव "मन्त्रकृतो वृणीते" इत्यादिभिर्वेदशब्दैस्तत्तत्काण्डसूक्तमन्त्रकृतामृषीणामाकृतिशक्तयादिकं परामृश्य तत्तदाकारान् तत्तच्छक्रियुक्तांश्च सृष्ट्वा प्रजापतिस्तानेव तत्तन्मन्त्रादिकरणे नियुङ्क्त्#े । तेपि प्रजापतिना आहित-शक्तयस्तत्तदनुगुणं तपस्तप्त्वा नित्यसिद्धान् पूर्वपूर्ववसिष्ठादिदृष्टान् तानेव मन्त्रादीननधीत्यैव स्वरतो वर्ण-तश्चास्खलितान् पशयन्ति; अतश्च वेदानां नित्यत्वमेषाञ्च मन्त्रकृत्त्वमुपपद्यते ।।

1.3.29

 

अथ स्यात्-नैमित्तिकप्रलयादिष्विन्द्राद्युत्पत्तौ वेदशब्देभ्यः पूर्वपूर्वेन्द्रादिस्मरणेन प्रजापतिना देवादिसृ-ष्टिरुपपद्यतां नाम; प्राकृतप्रलये तु स्रष्टुः प्रजापतेः भूताद्यहङ्कारपरिणामशब्दस्य च विनष्टत्वात्कथं प्रजापतेः शब्दपूर्विका सृष्टिरुपपद्यते; कथन्तरां विनष्टस्य वेदस्य नित्यत्वम् ? अतो वेदनित्यत्ववादिना देवादीनां विग्र-हवत्त्वाभ्युपगमेऽपि लोकव्यवहारस्य प्रवाहानादिता आश्रयणीयेति । अत्रोत्तरं पठति -

1.3.29 समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च ।। 29 ।।

1.3.29

 

कृत्स्नोपसंहारे जगदुत्पत्त्यावृत्तावपि पूर्वोक्तात्समाननामरूपत्वादेव न कश्चिद्विरोधः । तथाहि, स भगवान्

1.3.29

 

पुरुषोत्तमः प्रलयावसानसमये पूर्वसंस्थानं जगत्स्मरन् "बहु स्याम्" इति सङ्कल्प्य भोग्यभोक्तृजातं स्वस्मिन् शक्तिमात्रावशेषं प्रलीनं विभज्य महदादिब्रह्माण्डं हिरण्यगर्भपर्यन्तं यथापूर्वं सृष्ट्वा वेदांश्च पूर्वानुपूर्वीविशे-षसंस्थितानाविष्कृत्य हिरण्यगर्भायोपदिश्य पूर्ववदेव देवाद्याकारजगत्सर्गे तं नियुज्य स्वयमपि तदन्तरात्म-तयाऽवतस्थे, अतो यथोक्तं सर्वमुपपन्नम् । एतदेव च वेदस्यापौरुषेयत्वं नित्यत्वञ्च, यत्पूर्वपूर्वोच्चारणक्रम- जनितसंस्कारेण तमेव क्रमविशेषं स्मृत्वा तेनैव क्रमेणोच्चार्यत्वम्; तदस्मासु सर्वेश्वरेऽपि समानम् । इयांस्तु

1.3.29

 

विशेषः, संस्कारानपेक्षमेव स्वयमेवानुसन्धत्ते पुरुषोत्तमः । कुत इदं यथोक्तमवगम्यत इति चेत्तत्राह- दर्शनात् स्मृतेश्च । दर्शनं तावत् "यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै" इति । स्मृतिरपि मानवी

1.3.29

 

"आसीदिदं तमोभूतम्" इत्यारभ्य "सोऽभिध्याय शरीरात्खात्सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यमपासृजत् । तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् । तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः" इति । तथा पौराणिकी "तत्र सुप्तस्य देवस्य नाभौ पद्ममजायत । तस्मिन् पद्मे महाभाग वेदवेदाङ्गपारगः । ब्रह्मोत्पन्नस्स तेनोक्तः प्रजाः सृज महामते" । तथा "परो नारायणो देवस्तस्माज्जातश्चतुर्मुखः" इति । तथा "आदिसर्गमहं बक्ष्ये"

1.3.29

 

इत्यारभ्योच्यते "सृष्ट्वा नारं तोयमन्तस्स्थितोऽहं येन स्यान्मे नाम नारायणेति । कल्पे कल्पे तत्र शयामि भूयः सुप्तस्य मे नाभिजं स्याद्यथाऽब्जम् । एवम्भूतस्य मे देवि नाभिपद्मे चतुर्मुखः । उत्पन्नस्स बया चोक्तः प्रजास्सृज

1.3.30ए मध्वादिष्वसम्भवादनधिकारं जैमिनिः ।। 30 ।।

1.3.30ए

 

ब्रह्मविद्यायां देवादीनामप्यधिकारोऽस्तीत्युक्तम्; इदमिदानीं चिन्त्यते, येषूपासनेषु या

1.3.30ए

 

देवता एवोपास्यास्तेषु तासामधिकरोस्ति, न ? इति; किं प्राप्तम् ? नास्त्यधिकारस्तेषु मध्वादिष्विति

1.3.30ए

 

जैमिनिर्मन्यते; कुतः ? असम्भवात्-नह्यादित्यवस्वादिभिरुपास्या आदित्यवस्वादयोऽन्ये सम्भवन्ति । न च वस्वादीनां सतां वस्वादित्वं प्राप्यं भवति, प्राप्तत्वात्; मधुविद्यायामृग्वेदादिप्रतिपाद्यकर्मनिष्पाद्यस्य रश्मि-द्वारेण प्राप्तस्य रसस्याश्रयतया लब्धमधुव्यपदेशस्यादित्यस्यांशानां वस्वादिभिर्भुज्यमानानामुपास्यत्वं वस्वा-दित्वञ्च प्राप्यं श्रूयते "असौ वा आदित्यो देवमधु" इत्युपक्रम्य "तद्यत्प्रथमममृतं तद्वसव उपजीवन्ति" इत्युक्तवा "स य एतदेवममृतं वेद वसूनामेवैको भूत्वा अग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति" इत्यादिना ।

1.3.31 ज्योतिषि भावाच्च ।। 31 ।।

1.3.31

 

"तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्" इति ज्योतिषि परस्मिन् ब्रह्मणि उपासनं देवानां श्रूयते । देवमनुष्योभयसाधारणे परब्रह्मोपासने देवानामुपासकत्वकथना देवानामितरोपासननिवृतिं्त द्योतयति । अत एषु वस्वादीनामनधिकारः ।। 31 ।। इति प्राप्तेऽभिधीयते -

1.3.32 भावं तु बादरायणः; अस्ति हि ।। 1 । 3 । 32।।

1.3.32

आदित्यवस्वादीनामपि तेष्वधिकारभावं भगवान् बादरायणो मन्यते । अस्ति ह्यादित्यवस्वादीनामपि स्वावस्थब्रह्मोपासनेन वस्वादित्वप्राप्तिपूर्वकब्रह्मप्रेप्सासंभवः । इदानीं वस्वादीनामपि सतां कलपान्तरेऽपि वस्वादित्वप्राप्तिश्चापेक्षिता भवति । अत्र हि कार्यकारणोभयावस्थब्रह्मोपासनं विधीयते, "असौ वा आदित्यो देवमधु" इत्यारभ्य, "अत तत ऊध्वर् उदेत्य" इत्यतः प्राक् आदित्यवस्वादिकार्यविशेषावस्थं ब्रह्म उपास्यमुप-दिश्यते; "अथ तत ऊर्ध्व उदेत्य" इत्यादिना आदित्यान्तरात्मतयाऽवस्थितं कारणावस्थमेव ब्रह्म उपास्यमु-पदिश्यते । तदेवं कार्यकारणोभयावस्थं ब्रह्मोपासीनः कल्पान्तरे वस्वादित्वं प्राप्य तदन्ते कारणं परं ब्रह्मैवा-प्नोति । "न ह वा अस्मा उदेति न निम्रोचति; सकृद्दिवा हैवास्मै भवति, य एतामेवं ब्रह्मोपनिषदं वेद" इति कृत्स्नायाः मधुविधायाः ब्रह्मोपनिषत्त्वश्रवणात् ब्रह्मप्राप्तिपर्यन्तवस्वादित्वफलस्य श्रवणाच्च वस्वादिभोग्य-भूतादित्यांशस्य संभवति । एवञ्च ब्रह्मण एवोपास्यत्वात्, "तं देवा ज्योतिषां ज्योतिः" इत्यादि उपपद्यते । तदाह वृत्तिकारः, "अस्ति हि मध्वादिषु संभवः; ब्रह्मण एव सर्वत्र निचाय्यत्वात्" इति ।। ।। इति मध्वधिकरणम् ।।

1.3.33 शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि ।। 33 ।।

1.3.33

 

ब्रह्मविद्यायां शूद्रस्याप्यधिकोऽस्ति, न वेति विचार्यते । किं युक्तम् ? अस्तीति । कुतः ? आर्थित्वसाम-र्थ्यप्रयुक्तत्वादधिकारस्य, शूद्रस्यापि तत्संभवात् । 0यद्यप्यग्निविद्यासाध्येषु कर्मसु अनग्निविद्यत्वात् शूद्रस्या-नधिकारः-तथापि मनोवृत्तिमात्रत्वाद्ब्रह्मोपासनस्य, तत्राधिकारोऽस्त्येव । शास्त्रीयक्रियापेक्षत्वेऽप्युपासनस्य, तत्तद्वर्णाश्रमोचितक्रियाया एवापेक्षितत्वात् शूद्रस्यापि स्ववर्णोचितपूर्ववर्णशुश्रूषैव क्रिया भविष्यति । "तस्मा-

1.3.33

 

च्छूद्रो यज्ञेऽनवकप्तः" इत्यपि, अग्निविद्यासाध्ययज्ञादिकर्मानधिकार एव न्यायसिद्धोऽनूद्यते ।

ननु अनधीतवेदस्याश्रुतवेदान्तस्य ब्रह्मस्वरूपदुपासनप्रकारानभिज्ञस्य कथं ब्रह्मोपासनं संभवति । उच्यते-अनदीतवेदस्याश्रुतवेदान्तवाक्यस्यापि इतिहासपुराणश्रवणेनापि ब्रह्मस्वरूपतदुपासनज्ञानं संभवति । अस्ति च शूद्रस्यापि इतिहासपुराणश्रवणानुज्ञा, "श्रावयेत् चतुरो वर्णान् कृत्वा ब्रह्मणमग्रतः" इत्यादौ । दृश्यन्ते चेति-हासपुराणेषु विदुरादयो ब्रह्मनिष्ठाः । तथोपनिषत्स्वपि संवर्गविद्यायां शूद्रस्यापि ब्रह्मविद्याधिकारः प्रतीयते-शुश्रूषुं हि जानश्रुतिमाचार्यो रैक्वः शूद्रेत्यामन्त्र्य तस्मै ब्रह्मविद्यामुपदिशति, "आजहारेमाः शूद्र! अनेनैव मुखे-नालापयिष्यथाः" इत्यादिना । अतः शूद्रस्याप्यधिकारः संभवति-

1.3.33

 

इति प्राप्ते उच्यते-न शूद्रस्याधिकारः संभवति, सामर्थ्याभावात् । न हि ब्रह्मस्वरूपतदुपासनप्रकारमजानतः तदङ्गभूतवेदानुवचनयज्ञादिष्वनधिकृतस्य उपासनोपसंहारसामर्थ्यसंभवः । असमर्थस्य चार्थित्वसद्भावेऽप्यधि-कारो न संभवति । असामर्थ्यं च वेदाध्ययनाभावात् । यथैव हि त्रैवर्णिकविषयाध्ययनविधिसिद्धस्वाध्यायसंपा-द्यज्ञानलाभेन कर्मविधयो ज्ञानतदुपायादीन् अपरान् न स्वीकुर्वन्ति, तथा ब्रह्मोपासनविधयोऽपि । अतोऽध्य-यनविधिसिद्धस्वाध्यायाधिगतज्ञानस्यैव ब्रह्मोपासनोपायत्वात् शूद्रस्य ब्रह्मोपासनसामर्थ्यासंभवः ।

1.3.33

 

इतिहासपुराणे अपि वेदोपबृंहणं कुर्वती एवोपायभावमनुभवतः; न स्वातन्त्र्#ेण । शूद्रस्येतिहासपुराण-श्रवणानुज्ञानं पापक्षयादिफलार्थम्, नोपासनार्थम् । विदुरादयस्तु भवान्तराधिगतज्ञानाप्रमोषात् ज्ञानवन्तः प्रारब्धकर्मवशाच्चेदृशजन्मयोगिन इति तेषां ब्रह्मनिष्ठत्वम् ।

यत्तु-संवर्गविद्यायां शुश्रूषोः शूद्रेति संबोधनं शूद्रस्याधिकारं सूचयतीति-तेन्नेत्याह-शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि । शुश्रूषोर्जानश्रुतेः पौत्रायणस्य ब्रह्मज्ञानवैकल्येन हंसोक्तानादरवाक्यश्रवणात् तदैव ब्रह्मविदो रैक्वस्य सकाशं प्रति आद्रवणात् शुक् अस्य सञ्जातेति सूच्यते; अतः स शूद्रेत्यामन्त्र्यते; न चतुर्थ-वर्णत्वेन । शोचतीति हि शूद्रः; "शुचेर्दश्च" इति रक्(र)प्रत्यये धातोश्च दीर्धे चकारस्य च दकारे शूद्र इति भवति । अतः शोचितृत्वमेवास्य शूद्रशब्दप्रयोगेण सूच्यते; न जातियोगः ।

1.3.33

 

जानश्रुतिः किल पौत्रायणो बहुद्रव्यप्रदो बह्वन्नप्रदश्च बभूव । तस्य धार्मिकाग्रेसरस्य धर्मेण प्रीतयोः कयो-श्चिन्महात्मनोः, अस्य ब्रह्मजिज्ञासामुतिपपादयिषतोः हंसरूपेण निशायामस्याविदूरे गच्छतोरन्यतर इतरमु-वाच-"भो भो अयि भल्लाक्ष ! भल्लाक्ष ! जानश्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततम् । तन्मा प्रसाङ्क्षीः । तत् त्वा मा प्रधाक्षीत्" इति । एवं जानश्रुतिप्रशंसारूपं वाक्यमुपश्रुत्य परो हंसः प्रत्युवाच-"कम्वरे एनमेतत्सन्तं सयुग्वानमिव रैक्वमात्थ" इति । कं सन्तमेनं जानश्रुतिं सयुग्वानं रैक्वं ब्रह्मज्ञमिव गुणश्रेष्ठमेतदात्थ; स ब्रह्मज्ञो रैक्व एव लोके गुणवत्तरः; महता धर्मेण संयुक्तस्याप्यस्य जानश्रुतेरब्रह्मज्ञस्य को गुणः; यद्गुणजनितं तेजो रैक्वतेज इव मां दहेदित्यर्थः । एवमुक्तेन परेण, कोऽसौ रैक्व इति पृष्टः, "लोके यत् किंचित् साध्वनुष्ठितं कर्म, यच्च सर्वचेतनगतं विज्ञानम्, तदुभयं यदीयज्ञानकर्मान्तर्भूतम्, स रैक्वः" इत्याह । तदेतत् हंसवाक्यं ब्रह्मज्ञानविधुरतया आत्मनिन्दागर्भं तद्वत्तया च रैक्वप्रशंसारूपं जानश्रुतिरुपश्रुत्य, तत्क्षणादेव क्षत्तारं रैक्वान्वेषणाय प्रेषयन्, तस्मिन् विदित्वा आगते, स्वयमपि, रैक्वमुपसद्य गवां षट्छतं निष्कमश्वतरीरथं च रैक्वायोपहृत्य रैक्वं प्रार्थयामास, "अनु मे एतां भगवो देवतां शाधि, यां देवतामुपास्से" इति । त्वदुपास्यां परां देवतां ममा(माम)नुशाधीत्यर्थः । स च रैक्वः स्वयोगमहिमविदितलोकत्रयो जानश्रुतेर्ब्रह्मज्ञानविधुरतानिमित्तानादरगर्भहंसवाक्यश्रवणेन शोकाविष्टतां

1.3.34ए क्षत्रियत्वगतेश्च ।। 1 । 3 । 34 ।।

1.3.34ए

 

"बहुदायी" इति दानपतित्वेन, "बहुपाक्यः" इत्यादिना "सर्वत एव मे अन्नमत्स्यन्ति" इत्यन्तेन बहुतरपक्वा-न्नप्रदायित्वप्रतीतेः, "स ह संजिहान एव क्षत्तारमुवाच" इति क्षत्तृप्रेषणात्, बहुग्रामप्रदानावगतजनपदाधिपत्या-च्चास्य जानश्रुतेः क्षत्रियत्वप्रतीतेश्च न चतुर्थवर्णत्वम् ।। 34 ।।

1.3.35

 

तदेवमुपक्रमगताख्यायिकायां क्षत्रियत्वप्रतीतिरुक्ता; उपसंहारगताख्यायिकायामपि क्षत्रियत्वमस्य प्रतीयत इत्याह-

1.3.35 उत्तरत्र चैत्ररथेन लिङ्गात् ।।1 ।3 । 35 ।।

1.3.35

 

अस्य जानश्रुतेरुपदिश्यमानायामस्यामेव संवर्गविद्यायामुत्तरत्र कीर्त्यमानेन अभिप्रतारिनाम्ना चैत्ररथेन क्षत्रियेण अस्य क्षत्रियत्वं गम्यते । कथम् "अथ ह शौनकं च कापेयम् अभिप्रतारिणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे" इत्यादिना, "ब्रह्मचारिन्नेदमुपास्महे" इत्यन्तेन कापेयाभिप्रतारिणोः, भिक्षमाणस्य ब्रह्मचा-रिणश्च संवर्गविद्यासंबन्धित्वं प्रतीयते । तेषु चाभिप्रतारी क्षत्रियः, इतरौ ब्राह्मणौ । अतोऽस्यां विद्यायां ब्राह्म-णस्य, तदितरेषु च क्षत्रिययस्यैवान्वयो दृश्यते; न शूद्रस्य । अतोऽस्यां विद्यायामन्वितात् रैक्वाद् ब्राह्मणादन्यस्य

1.3.36

 

जानश्रुतेरपि क्षत्रियत्वमेव युक्तम्; न चतुर्थवर्णत्वम् । नन्वस्मिन् प्रकरणे अभिप्रतारिणश्चैत्ररथत्वं क्षत्रियत्वं च न श्रुतम्; तत् कथमस्याभिप्रतारिणश्चैत्ररथत्वम्, कथं वा क्षत्रियत्वम् ? तत्राह लिङ्गात् इति । "अथ ह शौनकं च कापेयमभिप्रतारिणञ्च काक्षसेनिम्" इत्यभिप्रतारिणः कापेयसाहचर्याल्लिंङ्गात् अस्याभिप्रतारिणः कापेयसंबन्धः प्रतीयते; अन्यत्र च, "एतेन वै चि(चै)त्ररथं कापेया अयाजयन्" इति कापेयसंबन्धिनः चि(चै)त्ररथत्वं श्रूयते; तथा चैत्ररथस्य क्षत्रियत्वम्, "तस्माच्चैत्ररथीनामेकः (रथोनामैकः) क्षत्रपतिरजायत" इति । अतोऽभिप्रतारिण-श्चैत्ररथत्वं क्षत्रियत्वं च गम्यते ।। 35 ।।

तदेवं न्यायविरोधिनि शूद्रस्याधिकारे लिङ्गं नोपलभ्यत इत्युक्तम्; इदानीं न्यायसिद्धः शूद्रस्यानधिकारः श्रुतिस्मृतिभिरनुगृह्यत इत्याह-

1.3.36 संस्कारपरामर्शात् तदभावाभिलापाच्च ।। 1 3 36 ।।

1.3.36

 

ब्रह्मविद्योपदेशप्रदेशेषूपनसंस्कारः परामृश्यते, "उप त्वा नेष्ये", "तं होपनिन्ये" इत्यादिषु । शूद्रस्य चोपनयना-दिसंस्काराभावोऽभिलप्यते, "न शूद्रे पातकं किञ्चिन्न च संस्कारमर्हति" "चतुर्थो वर्ण एकजातिर्न च संस्कार-मर्हति" इत्यादिषु ।। 36 ।।

1.3.37 तदभावनिर्धारणे च प्रवृत्तेः ।। 1 । 3 । 37 ।।

1.3.37

 

"नैतदब्राह्मणो विवक्तुमर्हति । समिधं सोम्याहर" इति शुश्रुषोर्जाबालस्य शूद्रत्वाभावनिर्धारणे सत्येव विद्योपदेशप्रवृत्तेश्च न शूद्रस्याधिकारः ।। 37 ।।

1.3.38 श्रवणाध्ययनार्थप्रतिषेधात् ।। 1 । 3 । 38 ।।

1.3.38

 

शूद्रस्य वेदश्रवण-तदध्ययन-तदर्थानुष्ठानमिति प्रतिषिध्यन्ते, "पद्यु ह वा एतच्छमशानम्, यच्छूद्रः । तस्मा-च्छूद्रसमीपे नाध्येतव्यम्", "तस्माच्छूद्रो बहुपशुरयज्ञीयः" इति । बहुपशुः-पशुसदृश इत्यर्थः । अनुपृण्वतोऽध्य-यन-तदर्थज्ञान-तदर्थानुष्ठानानि न संभवन्ति । अतः तान्यपि प्रतिषिद्धान्येव ।। 38 ।।

1.3.39 स्मृतेश्च ।। 1 । 3 । 39 ।।

1.3.39

 

स्मर्यते च श्रवणादिनिषेधः, "अथ हास्य वेदमुपृण्वतः त्रपुजतुभ्यां श्रोत्रप्रतिपूरणमुदाहरणे जिह्वाच्छेदो धारणे शरीरभेदः" इति, "न चास्योपदिशेद्धर्मं न चास्य व्रतमादिशेत्" इति च । अतः शूद्रस्याधिकार इति सिद्धम् ।। 39 ।।

ये तु-निर्विशेषचिन्मात्रं ब्रह्मैव परमार्थः; अन्यत् सर्वं मिथ्याभूतम्; बन्धश्चापारमार्थिका; स च वाक्यजन्य-वस्तुयाथात्म्यज्ञानमात्रनिवर्त्यः; तन्निवृत्तिरेव मोक्षः-इति वदन्ति-तैर्ब्रह्मज्ञाने शूद्रादेरनधिकारो वक्तुं न शक्यते; अनुपनीतस्य अनधीतवेदस्याश्रुतवेदान्तवाक्यस्यापि यस्मात् कस्मादपि, "निर्विशेषचिन्मात्रं ब्रह्मैव परमार्थः; अन्यत् सर्वं तस्मिन् परिकल्पितं मिथ्याभूतम्" इति वाक्यात् वस्तुयाथात्म्यज्ञानोत्पत्तेः; तावतैव बन्धनिवृत्तेश्च ।

1.3.39

 

न च तत्त्वमस्यादिवाक्येनैव ज्ञानोत्पत्तिः कार्या, न वाक्यान्तरेणेति नियन्तुं शक्यम्; ज्ञानस्यापुरुषतन्त्रत्वात्; सत्यां समाग्य्रामनिच्छतोऽपि ज्ञानोत्पत्तेः । न च वेदवाक्यादेव वस्तुयाथात्म्यज्ञाने सति बन्धनिवृत्तिर्भवतीति शक्यं वक्तुम्; येन केनापि वस्तुयाथात्म्यज्ञाने सति भ्रान्तिनिवृत्तेः । पौरुषेयादपि, निर्विशेषचिन्मात्रं ब्रह्म परमार्थः; अन्यत् सर्वं मिथ्याभूतमिति वाक्यात् ज्ञानोत्पत्तेः, तावतैव भ्रमनिवृत्तेश्च । यथा पौरुषेयादप्याप्तवा-क्यात् शुक्तिकारजतादि भ्रान्तिर्ब्राह्मणस्य शूद्रादेरपि निवर्तते-तद्वदेव शूद्रस्यापि वेदवित्संप्रदायागतवाक्यात् वस्तुयाथात्म्यज्ञानेन भगद्भ्रमनिवृत्तिरपि भविष्यति । "न चास्योपदिशेद्धर्मम्" इत्यादिना, वेदविदः शूद्रादिभ्यो न वदन्तीति च न शक्यं वक्तुम्; तत्त्वमस्यादिवाक्यावगतब्रह्मात्मभावानां वेदशिरसि वतर्मानतया दग्धाखि-लाधिकारत्वेन निषेधशास्त्रकिङ्करत्वाभावात् । अतिक्रान्तनिषेधैर्वा कैश्चिदुक्तात् वाक्यात् शूद्रादेः ज्ञानमुत्पद्यत एव । नच वाच्यम्-शुकितकादौ रजतादिब्रमनिवृत्तिवत् पौरुषेयवाक्यजन्यतत्त्वज्ञानसमनन्तरं शूद्रत्य जगद्भ्रमो न निवर्तत इति; तत्त्वमस्यादिवाक्यश्रवणसमनन्तरं ब्राह्मणस्यापि जगद्भ्रमानिवृत्तेः । निदिध्यासनेन द्वैतवा-सनायां निरस्तायामेव तत्त्वमस्यादिवाक्यं निवर्तकज्ञानमुत्पादयतीति चेत्-पौरुषेयमपि वाक्यं शूद्रादेस्तथैवेति

1.3.39

 

न कश्चिद्विशेषः । "निदिध्यासनं हि नाम ब्रह्मात्मभावाभिधायि वाक्यं यदर्थप्रतिपादनयोग्यम्, तदर्थभावना । सैव विपरीतवासनां निवर्तयति इति दृष्टार्थत्वं निदिध्यादनविधेर्बूषे । वेदानुवचनादीन्यपि विविदिषोत्पत्ता-वेवोपयुज्यन्ते इति शूद्रस्यापि विविदिषायां जातायां पौरुषेयवाक्यात् निदिध्यासनादिभिर्विपरीतवासनायां निरस्तायां ज्ञानमुत्पत्स्यते; तेनैवापारमार्थिको बन्धो निवर्तिष्यते ।

अथवा तर्कानुगृहीतत्वात् प्रत्यक्षादनुमानाच्च निर्विशेषत्वप्रकाशचिन्मात्रप्रत्यग्वस्तुनि अज्ञानसाक्षित्वं तत्कृतविविधविचित्रज्ञातृज्ञेयविकल्परूपं कृत्स्नं जगच्चाध्यस्तमिति निश्चित्य, एवम्भूतपरिशुद्धप्रत्यग्वस्तुनि अनवरतभावनया विपरीतवासनां निरस्य तदेव प्रत्यग्वस्तु साक्षात्कृत्य शूद्रादयोऽपि विमोक्ष्यन्त इति मिथ्या-भूतविचित्रैश्वर्यविचित्रसृष्टयाद्यलौकिकानन्तविशेषावलम्बिना वेदान्तवाक्येन न किञ्चित्प्रयोजनमिह दृश्यत इति शूद्रादीनामेव ब्रह्मविद्यायामधिकारः सुशोभनः । अनेनैव न्यायेन ब्राह्मणादीनामपि ब्रह्मवेदनसिद्धेरुपनिषञ्च तपस्विनि दत्तजलाञ्जलिस्स्यात् ।

न च वाच्यम्-नैसगिर्कलोकव्यवहारे भ्राम्यतोऽस्य केनचित्, अयं लौकिकव्यवहारो भ्रमः, परमार्थस्त्वेवमिति समर्पिते सत्येव प्रत्यक्षानुमानवृत्तबुभुत्सा जायत इति तत्समर्पिका श्रुतिरप्यास्थेवेति; यतो भवभयभीतानां साङ्खयादय एव प्रत्यक्षानुमानाभ्यां वस्तुनिरूपणं कुर्वन्तः प्रत्यक्षानुमानवृत्तबुभुत्सां जनयन्ति; बुभुत्सायां च जातायां प्रत्यक्षानुमानाभ्यामेव विविक्तस्वभावाभ्याम्, "नित्यशुद्धस्वप्रकाशाद्वितीयकूटस्थचैतन्यमेव सत्; अन्यत् सर्वं तस्मिन् अध्यस्तम्" इति सुविवेचम् । एवम्भूते स्वप्रकाशे वस्तुनि श्रुतिसमधिगम्यं विशेषान्तरं च नाभ्युपगम्यते; अध्यस्तातद्रूपनिवर्तिनी हि श्रुतिरपि त्वन्मते । न च सत आत्मनः आनन्दरूपताज्ञानायोपनि-दास्थेया, विद्रूपताया एव सकलेतरातद्रूपव्यावृत्ताया आनन्दरूपत्वात् ।

1.3.39

 

यस्य तु-मोक्षसाधनतया वैदान्तवाक्यैर्विहितं ज्ञानमुपासनरूपम्; तच्च परब्रह्मभूतपरमपुरुषप्रीणनम्; तच्च शस्त्रैकसमधिगम्यम्; उपासनशास्त्रं चोपनयनादिसंस्कृताधीतस्वाध्यायजनितं ज्ञानं विवेकविमोकादिसाध-नानुगृहीतमेव स्वोपायतया स्वीकरोति; एवंरूपोपासनप्रीतः पुरुषोत्तमः उपासकं स्वाभाविकात्मयाथात्म्य-ज्ञानदानेन कर्मजनिताज्ञानं नाशयन् बन्धान्मोचयति-इति पक्षः, तस्य यथोक्तया नीत्या शूद्रादेरधिकार उप-पद्यते ।। 39 ।। ।। इति अपशूद्राधिकरणम् ।। 9 ।।

प्रमिताधिकरण 6. शेषः

तदेवं प्रसक्तानुप्रसक्ताधिकारकथां परिसमाप्य प्रकृतस्याङ्गुष्ठिप्रमितस्य भूतभव्येशितृत्वावगतपरब्रह्मभावो-त्तम्भनं हेत्वन्तरमाह-

1.3.40 कम्पनात् । 1 । 3 । 40 ।

1.3.40

 

"अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति", अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा" इत्यनयोर्वाक्ययोर्मध्ये, "यदिदं किञ्च जगत् सर्वं प्राण एजति निस्सृतम् । महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति । भयादस्याग्निस्तपति भयात् तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः" इति कृत्स्नस्य जगतोऽग्निसूर्यादीनां चास्मिन् अङ्गुष्ठमात्रे पुरुषे प्राणशब्दनिर्दिष्टे स्थितानां सर्वेषां ततो निस्सृतानां तस्मात् सञ्जातमहाभयनिमित्तम् एजनं

1.3.40

 

कम्पनं श्रूयते । तच्छासनातिवृत्तौ किं भविष्यतीति महतो भयात्, वज्रादिवोद्यतात्, कृत्स्नं जगत् कम्पत इत्यर्थः । "भयादस्याग्निस्तपति" इत्यनेनैकार्थ्यात् "भहद्भयं वज्रमुद्यतम्" इति पञ्चम्यर्थं प्रथमा । अयञ्च परस्य

1.3.41

 

ब्रह्मणः स्वभावः; एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः" "भीषाऽस्माद्वातः पवते भीषेदेति सूर्यः । भीषाऽस्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः" इति परस्य ब्रह्मणः पुरुषोत्तमस्यैवंविधैश्वर्यावगतेः ।

इतश्चाङ्गुष्ठप्रमितः पुरुषोत्तमः -

1.3.41 ज्योतिर्दर्शनात् 1 । 3 । 41 ।।

1.3.41

 

तयोरेवाङ्गुष्ठप्रमितविषययोर्वाक्ययोर्मध्ये परब्रह्मासाधारणं सर्वतेजसां छादकं सर्वतेजसां कारणभूतमनुग्राहकं च अङ्गुष्ठप्रमितस्य ज्योतिर्दृश्यते-"न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव

1.3.41

 

भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति" इति । अयमेव श्लोक आथर्वणे परं ब्रह्माधिकृत्य श्रूयते । परज्योतिष्ट्वं च सर्वत्र परस्य ब्रह्मणः श्रूयते; यथा-"परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते", "तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्", "अथ यदतः तदतः परो दिवी ज्योतिर्दीप्यते" इत्यादिषु । अतः अङ्गु-ष्ठप्रमितः परं ब्रह्म ।। 4। ।। ।। इति प्रमिताधिकरणशेषः ।।

1.3.42 आकाशोऽर्थान्तरत्वादिव्यपदेशात् 1 । 3 । 42 ।।

1.3.42

 

छान्दोग्ये श्रूयते, "आकाशो वै नाम नामरूपयोर्निवर्हिता, ते यदन्तरा । तद्ब्रह्म तदमृतं स आत्मा" इति । तत्र संशयः-किमयमाकाशशब्दनिर्दिष्टो मुक्तात्मा, उत परमात्मा-इति । किं युक्तम् ? मुक्तात्मेति । कुतः ?

1.3.42

 

"अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात् प्रमुच्य । धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसं-भवामि" इति मुक्तस्यानन्तरप्रकृतत्वात्; "ते यदन्तरा" इति च नामरूपविनिर्मुक्तस्य तस्याभिधानात् । "नाम-रूपयोर्निर्वहिता" इति च स एव पूर्वावस्तयोपलिलक्षयिषितः । स एव हि देवादिरूपाणि नामानि च पूर्वम-बिभः(भूत) । तस्यैव नामरूपविनिर्मुक्ता साम्प्रतिकी अवस्था, "तद्ब्रह्म तदमृतम्" इत्युच्यते । आकाशशब्दश्च तस्मिन्नपि असङ्कुचितप्रकाशयोगादुपपद्यते । ननु दहरवाक्यशेषत्वादस्य स एव दहराकाशोऽयमिति प्रतीयते; तस्य च परतमात्मत्वं निर्णीतम् । मैवम्-प्रजापतिवाक्यव्यवधानात् । प्रजापतिवाक्ये च प्रत्यगात्मनो मुक्तय-वस्थान्तं रूपमभिहितम्; अनन्तरं च, "विधूय पापम्" इति स एव मुक्तावस्थः प्रस्तुतः । अतोऽत्राकाशो मुक्तात्मा-

1.3.42

 

इति प्राप्ते उच्यते-आकाशोऽर्थान्तरत्वादिव्यपदेशात्-इति । आकाशः परं ब्रह्म; कुतः ? अर्थान्तरत्वादि-व्यपदेशात् । अर्थान्तरत्वव्यपदेशस्तावत्-"आकाशो ह वै नामरूपयोर्निर्वहिता" इति । नामरूपयोर्निर्वोढृत्वं बद्धमुक्तोभयावस्थात् प्रत्यगात्मनोऽर्थान्तरत्वमाकाशस्योपपादयति । बद्धावस्थः स्वयं कर्मवशात् नामरूपे भजमानो न नामरूपे निर्वोढुं शक्युयात्;मुक्तावस्थस्य जगद्वयापारासंभवात् नेतरां नामरूपनिर्वोढृत्वम्; ईश्व-रस्य तु सकलजगन्निर्माणधुरन्धरस्य नामरूपयोर्निर्वोढृत्वं श्रुत्यैव प्रतिपन्नम्, "अनेन जीवेनाऽऽत्मनाऽनुप्र-विश्य नामरूपे व्याकरवाणि", "यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः । तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायते", "सर्वाणि रूपाणि विचित्यधीरो नामानि कृत्वाऽभिवदन् यदास्ते" इत्यादिषु । अतो निर्वाह्यनाम-रूपात् प्रत्यगात्मनो नामरूपयोर्निर्वोढाऽयमाकाशोऽर्थान्तरभूतः परमेव ब्रह्म । तदेवोपपादयति, "ते यदन्तरा"

1.3.42

 

इति । यस्मादयमाकाशो नामरूपे अन्तरा-ताभ्यामस्पृष्टोऽर्थान्तरभूतः-तस्मात् तयोः निर्वोढा(निर्वहिता?)-अपहतपाप्मत्वात् सत्यसङ्कल्पत्वाच्च निर्वहिते (निर्वोढ?)त्यर्तः । आदिशब्देन ब्रह्मत्वात्मत्वामृत्वानि गृह्यन्ते । निरुपाधिकबृहत्त्वादयो हि परमात्मन एव संभवन्ति; तेनात्राऽऽकाशः परमेव ब्रह्म । यत् पुनरुक्तम्, "धूत्वा शरीरम्" इति मुक्तोऽनन्तरप्रकृतः इति-तन्न; "ब्रह्मलोकमभिसंभवामि" इति परस्यैव ब्रह्मणोऽनन्तरप्रकृतत्वात् । यद्यपि अभिसंभवितुर्मुक्तस्याभिसंभाव्यतया परं ब्रह्म निर्दिष्टम्, तथापि अभिसंभवितुर्मुक्तस्य नामरूपनिर्वोढृ-त्वाद्यसंभवादभिसंभाव्यं परमेव ब्रह्म तत्र प्रत्येतव्यम् ।

किञ्च आकाशशब्देन प्रकृतस्य दहराकाशस्यात्र प्रत्यभिज्ञानात्, प्रजापतिवाक्यस्याप्युपासकस्वरूपकथना-र्थत्वात् उपास्य एव दहराकाशः प्राप्यतयेहोपसंह्रियत इति युक्तम् । आकाशशब्दश्च प्रत्यगात्मनि न क्वचित् दृष्ट-चरः । अतोऽत्राकाशः परं ब्रह्म ।। 42 ।।

अथ स्यात्-प्रत्यगात्मनोऽर्थान्तरभूतमात्मान्तरमेव नास्ति; ऐक्योपदेशात्, द्वैतप्रतिषेधाच्च । शुद्धावस्थ एव हि प्रत्यगात्मा, परमात्मा परं ब्रह्म परमेश्वर इति च व्यपदिश्यते; अतः प्रकृतात् मुक्तात्मनोऽभिसंभवितु र्नार्था-

1.3.43

 

न्तरमभिसंभाव्यो ब्रह्मलोकः । अतो नामरूपयोः निर्वहिता आकाशोऽपि स एव भवितुमर्हति-इति । अत उत्तर पठति-

1.3.43 सुषुप्त्युत्क्रान्त्योर्भेदेन 1 । 3 । 43 ।।

1.3.43

 

व्यपदेशादिति वर्तते । सुषुप्त्युत्क्रान्त्योः प्रत्यगात्मनोऽर्थान्तरत्वेन परमात्मनो व्यपदेशात् प्रत्यगात्मनो-ऽर्थान्तरभूतः परमात्माऽस्त्येव । तथा हि वाजसनेयके, "कतम आत्मेति । योऽयं विज्ञानमयः प्राणेषु" इति प्रकृतस्य प्रत्यगात्मनः सुषुप्त्यवस्थायाम् अकिञ्चिज्ज्ञस्य सर्वज्ञेन परमात्मना परिष्वङ्ग आम्नायते-"प्राज्ञेना-ऽऽत्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद, नान्तरम्" इति । तथोत्क्रान्तावपि, "प्राज्ञेनाऽऽत्मनाऽऽन्वारूढ उत्सर्जन् याति" इति । न च स्वपतः उत्क्रामतो वाऽकिञ्चिज्ज्ञास्य तदानीमेव स्वेनैव सर्वज्ञेन सता परिष्व-ङ्गान्वारोहौ संभवतः । न च क्षेत्रज्ञान्तरेण; तस्यापि सर्वज्ञत्वासंभवात् ।। 43 ।।

1.3.44

 

इतश्च प्रत्यगात्मनोऽर्थान्तरभूतः परमात्मेत्याह-

1.3.44 पत्यादिशब्देभ्यः 1 । 3 । 44 ।।

1.3.44

 

अयं परिष्वञ्जकः परमात्मा उत्तरत्र पत्यादिशब्दैर्व्यपदिश्यते, "सर्वस्याधिपतिः", "सर्वस्य वशी सर्वस्ये-शानः", "स न साधुना कर्मणा भूयान् नो एवासाधुना कनीयान् । एष सर्वेश्वर एष भुताधिपतिरेष भूतपालः एष सेतुर्विधरण एषां लोकानामसंभेदाय । तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति...एतमेव विदित्वा मुनिर्भ-वति । एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति", "स,वा एष महान् अज आत्माऽन्नादो वसुदानः", "अज-

1.3.44

 

रोऽमृतोऽभयो ब्रह्म" इति । एते च पतित्वजगद्विधरणत्वसर्वेश्वरत्वादयः प्रत्यगात्मनि मुक्तावस्थेऽपि न कथ-ञ्चित् संभवन्ति । अतो मुक्तात्मनोऽर्थान्तरभूतो नामरूपयोर्निवर्हिताऽऽकाशः । ऐक्योपदेशस्तु सर्वस्य चिद-चिदात्मकस्य ब्रह्मकार्यत्वेन तदात्मकत्वायत्त इति, "सर्वे खल्विदं ब्रह्म तज्जलान्" इत्यादिभिर्वाक्यैः प्रतिपाद्यत इति पूर्वमेव समथिर्तम् । द्वैतप्रतिषेधश्च तत एवेत्यनवद्यम् ।। 43 ।। इति अर्थान्तरत्वादिव्यपदेशाधिकरणम् ।।



1.4.1 आनुमानिकमप्येकाषामिति चेन्न शरीररूपकविन्यस्तगृहीतेदर्शयति च ।। 1 ।।

1.4.1

 

उक्तं परमपुरुषार्थलक्षणमोक्षसाधनतया जिज्ञास्यं जगज्जन्मादिकारणं ब्रह्म अचिद्वस्तुनः प्रधानादेश्चेतनाच्च बद्धमुक्तोभयावस्थाद्विलक्षणं निरस्तसमस्तहेयगन्धं सर्वज्ञं सर्वशक्ति सत्य-सङ्कल्पं समस्तकल्याणगुणात्मकं सर्वान्तरात्मभूतं निरङ्कुशैश्चर्य्यमिति । इदानीं कापिलतन्त्रसिद्धाब्रह्मात्-मकप्रधानपुरुषादिप्रतिपादनमुखेन प्रधानकारणत्वप्रतिपादनच्छायानुसारीण्यपि कनिचिद्वाक्यानि कासुचिच्-

1.4.1

 

छाखासु सन्तीत्याशङ्कय ब्रह्मैककारणत्वस्थेम्ने तन्निराक्रियते । कठवल्लीष्वाम्नायते "इन्द्रियेभ्यः परा ह्यर्था अर्थे-भ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः । महतः परमव्यक्रमव्यक्तात्पुरुषः परः । पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः " इति । तत्र सन्देहः - किं कापिलतन्त्रसिद्धमब्रह्मात्मकं प्रधानमिह अव्यक्त-शब्देनोच्यते, उत न? इति । किं युक्तम्? प्रधानमिति । कुतः? "महतः परमव्यक्तमव्यक्तात्पुरुषः परः" इति तन्त्रसिद्धतत्वप्रक्रियाप्रत्यभिज्ञानेन तस्यैव प्रतीतेः, "पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः"" इति पञ्चविं-शकपुरुषातिरिक्ततत्त्वनिषेधाच्च; अतोऽव्यक्तं कारणमिति प्राप्तम् । तदिदमुक्तम् आनुमानिकमप्येकेषामिति चेदिति । एकेषां शाखिनां शाखास्वानुमानिकं प्रधानमपि कारणमाम्नायत इति चेत् अत्रोत्तरं-नेति । नाव्यक्त-

1.4.1

 

ब्देनाब्रह्मात्मकं प्रधानमिहाभिधीयते । कुतः? शरीररूपकविन्यस्तगृहीतेः शरीराख्यरूपकविन्यस्तस्य अव्य-क्तशब्देन गृहीतेः । आत्मशरीरबुद्धिमनइन्द्रियविषयेषु रथिरथादिभावेन रूपितेषु रथरूपणेन विन्यस्तस्य शरीरस्य अत्र अव्यक्त शब्देन ग्रहणादित्यर्थः । एतदुक्तम्भवति-पूर्वत्र हि-"आत्मानं रथिनं विद्धि शरीरं रथमेव च । बुदिं्ध तु सारथिं विद्धि मनः प्रग्रहमेव च । इन्द्रियाणि हयानाहुः विषयांस्तेषु गोचरान् " इत्यादिना "सोऽ-ध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् " इत्यन्तेन संसाराध्वनः पारं वैष्णं पदं प्रेप्सन्तमुपासकं रथित्वेन तच्छरीरादीनि च रथरथाङ्गत्वेन रूपयित्वा यस्यैते रथादयो वशे तिष्ठन्ति , स एवाध्वनः पारं वैष्णवं पदमा-

1.4.1

 

प्नोतीत्युक्तवा तेषु रथादिरूपितशरीरादिषु यानि येभ्यो वशीकार्यतायां प्रधानानि तान्युच्यन्ते "इन्द्रियेभ्यः पराः " - इत्यादिना । तत्र हयत्वेन रूपितेभ्य इन्द्रियेभ्यो गोचरत्वेन रूपिता विषयाः वशीकार्यत्वे पराः , वश्येन्द्रिय-स्यापि विषयसन्निधाविन्द्रियाणां दुर्निग्रहत्वात् तेभ्योपि परं प्रग्रहरूपितं मनः , मनसि विषयप्रवणे विषया-सन्निधानस्या-प्यकिञ्चित्करत्वात् । तस्मादपि सारथित्वरूपिता बुद्धिः परा , अध्यवसायाभावे मनसोऽप्यकि-

1.4.1

 

ञ्चित्करत्वात् । तस्या अपि रथित्वरूपित आत्मा कर्तृत्वेन प्राधान्यपरः , सर्वस्य चास्यात्मेच्छायत्तत्वादत्मैव महानिति च विशेष्यते । तस्मादपि रथरूपितं शरीरं परम् , तदायत्तत्वाज्जीवात्मनस्सकलपुरुषार्थसाधनप्रवृत्ती-नाम् । तस्मादपि परस्सर्वान्तरात्मभूतोऽन्तर्याम्यध्वनः पारभूतः परमपुरुषः , यथोक्रस्यात्मपर्यन्तस्य समस्तस्य तत्सङ्कल्पायत्तप्रवृत्तित्वात् । स खल्वन्तर्यामितयोपासनस्यापि निर्वर्तकः । "परात्तु तच्छØतेः " इति हि जीवात्मनः कर्तृत्वं परमपुरुषायत्तमिति वक्ष्यते । वशीकार्योपासननिर्वृत्त्युपायकाष्ठाभूतः परमप्राप्यश्च स एव । तदिदमुच्यते

1.4.1

 

" पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः " इति । तथा चान्तर्यामिब्राह्मणे " य आत्मनि तिष्ठन् " इत्या-दिभिस्सर्वं

साक्षात्कुर्वन् सर्वं नियमयतीत्युक्त्#ा " नान्योऽतोऽस्ति द्रष्टा " इति नियन्त्रन्तरं निषिध्यते । भग-वद्गीतासु च " अधिष्ठानं तथा- कर्त्ता करणं च पृथग्विधम् । विविधा च पृथक् चेष्टादैवं चैवात्र पञ्चमम् " इति । दैवमत्र पुरुषोत्तम एव , " सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिज्ञानमपोहनञ्च " इति वचनात् । तस्य च वशीकरणं तच्छरणागतिरेव । यथाह "ईश्वरस्सर्वभूतानां हृद्देशेऽर्ज्जुन तिष्टति । भ्रायमन् सर्वभूतानि यन्त्रारूढानि मायमा । तमेव शरणं गच्छ " इति । तदेवम् " आत्मानं रथिनं विद्धि " इत्यादिना रथ्यादिरूपकविन्यस्ता इन्द्रि-यादयः "इन्द्रियेभयः परा ह्यर्थाः इत्यत्र स्वशब्दैरेव प्रत्यभिज्ञायन्ते, न रथरूपितं शरीरमिति परिशेषात्तदव्यक्त-शब्देनोच्यत इति निश्चीयते; अतः कापिलतन्त्रसिद्धस्य प्रधानस्य प्रसङ्ग एव नास्ति । न चात्र तत्तन्त्रस्द्धिप्रक्रि-याप्रत्यभिज्ञा "इन्द्रियेभ्यः परा ह्यर्थाः" इतीन्द्रियेभ्योऽर्थानां शब्दादीनां परत्वकीर्त्तनात् । न हि शब्दादय इन्द्रि-याणां कारणभूतास्तद्दर्शने । "अर्थेभ्यश्च परं मनः " इत्यपि न तत्तन्त्रसङ्गतम् , अकारणत्वादेव ; तथा "बुद्धेरा-

1.4.1

 

त्मा महान् परः " इत्यप्यसङ्गतम् , बुद्धिशब्देन महत्तत्त्वस्याभिधानाभ्युपगमात् । न हि महतो महान् परस्-सम्भवति । महत आत्मशब्देन विशेषणं च न सङ्गच्छते , अतो रूपकविन्यस्तानामेव ग्रहणम् । दर्शयति च तदेव "एष सर्वेषु भूतेषु गूढात्मा न प्रकाशते । दृश्यते त्वग्रयया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः " "यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेत् ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि " इति । अजितबाह्याभ्य-न्तरकरणैरस्य परमपुरुषस्य दुर्दर्शत्वमभिधाय हयादिरूपितानामिन्द्रियादीनां वशीकारप्रकारोऽयमुच्यते ।"यच्छे-द्वाङ्मनसी " वाचं मनसि नियच्छेत् - वाक्पूर्वकाणि कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि च मनसि नियच्छेदित्यर्थः ।

1.4.1

 

वाक्छब्दे द्वितीयायाः " सुपां सुलुक् " इति लुक् । मनसी इति सप्तम्याश्छान्दसो दीर्घः । " तद्यच्छेत् ज्ञान आत्-मनि "तन्मनो बुद्धौ नियच्छेत् । ज्ञानशब्देनात्र पूर्वोक्ता बुद्धिरभिधीयते । "ज्ञान आत्मनि " इति व्यधिकरणे

1.4.1

 

सप्तम्यौ । आत्मनि वर्त्तमाने ज्ञाने नियच्छेदित्यर्थः । "ज्ञानमात्मनि महति नियच्छेत् " बुदिं्ध कर्त्तरि महत्यात्मनि नियच्छेत् । "तद्यच्छेच्छान्त आत्मनि " तं कर्त्तारं परस्मिन् ब्रह्मणि सर्वान्तरयामिणि नियच्छेत् । व्यत्यनेन त-दिति नपुंसकलिङ्गता । एवम्भूतेन रथिना वैष्णवं पदं गन्तव्यमित्यर्थः । 1.4.1

1.4.2

अव्यक्तशब्देन कथं व्यक्तस्य शरीरस्याभिधानम् ? तत्राह -

1.4.2 सूक्ष्मं तु तदर्हत्वात् ।। 2 ।।

1.4.2

 

भूतसूक्ष्मव्याकृतं ह्यवस्थाविशेषमापन्नं शरीरं भवति ; तदव्याकृतमिह शरीरावस्थं अव्यक्तशब्देनोच्यते । तदर्हत्वात् - तस्याव्याकृतस्य अचिद्वस्तुन एव विकारापन्नस्य रथवत् पुरुषार्थसाधनप्रवृत्त्यर्हत्वात् ।

1.4.3

 

यदि भूतसूक्ष्ममव्याकृतमभ्युपगम्यते ; कापिलतन्त्रसिद्धोपादाने कः प्रद्वेषः ? तत्रापि हि भूतकारणमेवाव्यक्तमित्युच्यते ; तत्राह

1.4.3 तदधीनत्वादर्थवत् ।। 3 ।।

1.4.3

 

परमकारणभूतपरमपुरुषाधीनत्वात्प्रयोजनवद्भूत सूक्ष्मम् । एतदुक्तम्भवति न वनमव्वक्तं तत्परिणामविशेषांश्च स्वरूपेण

नाभ्युपगच्छामः, अपि तु परमपुरुषशरीरतया तदात्मकत्वविरहेण । तदात्मकत्वेनैव हि प्रकृत्यादयः स्वप्रयोजनं साधयन्ति ; अन्यथा स्वरूपस्थितिप्रवृत्तिभेदाः तेषां न स्युः, तथाऽनभ्युपगमादेव तन्त्रसिद्धप्रक्रिया

1.4.3

 

निरसनमिति । श्रुतिस्मृत्योर्हि जगदुत्पत्तिप्रलयवादेषु परमपुरुषमहिमवादेषु च प्रकृतिविकृतिपुरुषास्तदा-त्मकास्सङ्कीत्यर्न्ते , यथा " पृथिव्यप्सु लीयते " इत्यारभ्य "तन्मात्राणि भूतादौ लीयन्ते । भूतादिर्महति लीयते । महानव्यक्ते लीयते । अव्यक्तमक्षरे लीयते । अक्षरं तमसि लीयते । तमः परे देव एकीभवती " तथा " यस्य पृथिवी शरीरं यस्यापश्शरीरं यस्य तेजशारीरं यस्य वायुश्शरीरं यस्याकाशः शरीरं यस्याहङ्कारः शरीरं यस्य बुद्धिशारीरं यस्याव्यक्तं शरीरं यस्याक्षरं शरीरं यस्य मृत्युः शरीरम् एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः " तथा "भूमिरापोऽनलो वायुः खं मनो बद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा । अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्य्यते जगत् । एतद्योनीनि भूतानि

1.4.3

 

सर्वाणीत्युपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा । मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव " इति । " व्यक्तं विष्णुस्तथाऽव्यक्तं पुरुषः काल एव च " इति , "प्रकृतियर्या मयाऽऽख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाप्युभावेतौ लीयते परमात्मनि । परमात्मा च सर्वेषामाधारः परमेश्वरः । विष्णुनामा स वेदेषु वेदान्तेषु च गीयते " इति च ।1.4.3

1.4.4 ज्ञेयत्वावचनाच्च ।। 4 ।।

1.4.4

 

यदि तन्त्रसिद्धमिहाव्यक्तमविवक्षिष्यत्, तदास्य ज्ञेयत्वमविवक्षिष्यत; व्यक्ताव्यक्तज्ञविज्ञानान्मोक्षं वदद्भि-तान्त्रकैतेषां सर्वेषां ज्ञेयत्वाभ्यपगमात् , न चास्य ज्ञेयत्मुच्यते ; अतो न तन्त्रसिद्धस्येह ग्रहणम् ।। 4 ।।

1.4.5 वदतीति चेन्न प्रज्ञो हि प्रकरणात् ।। 5 ।।

1.4.5

 

अशब्दमस्पर्शमरूपमव्ययं तथाऽतसं नित्यमगन्धवच्च यत् । अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते " इत्यव्यक्तस्य ज्ञेयत्वमन्तरमेव वदतीं श्रुतिरिति चेत्-तन्न , प्राज्ञः परमपुरुष एव ह्यत्र श्लोके निवा-य्यत्वेन प्रतिपाद्यते "विज्ञानसारथियर्यस्तु मनः प्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् । "एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वग्रयया बुध्या सूक्ष्मया सूक्ष्मदर्शिभिः " इति प्राज्ञस्यैव प्रकृतत्वात् ; अत एव "पुरुषान्न परं किञ्चित् " इति न पञ्चविंशकपुरुषातिरिक्तत्त्वनिषेधः । तस्य च परमपुरुषस्य

अशब्दत्वादयो धर्माः " यत्तदद्रेश्यमग्राह्यम् " इत्यादिश्रुतिप्रसिद्धाः । " महतः परम् " इत्यपि "बुद्धेरात्मा महान्

1.4.5

 

परः " इति पूर्वप्रकृताज्जीवात्मनः परत्वमेवोच्यते ।। 5 ।।

1.4.6 त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ।। 6 ।।

1.4.6

अस्मिन् प्रकरणे ह्युपायोपेयोपेतृ#ृ#ृणां त्रयाणामेव चैवमुपन्यासः -ज्ञेयत्वेनोपन्यासस्तविषयश्च प्रश्नो दृश्यते, नान्यस्याव्यक्तादः । तथाहि ; नचिकेता मुमुक्षुस्सन् मृत्युप्रदत्ते वरत्रये प्रथमेन वरेणात्मनः पुरुषार्थयोग्यता-पादिनीमात्मनि पितुस्सुमनस्कतां प्रतिलभ्य द्वितीयेन वरेण मोक्षोपायभूतां नाचिकेताग्निविद्यां वव्रे , " स त्वमग्निं स्वर्ग्यमध्येपि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम् । स्वर्गलोका अमृतत्वं भजन्त एतद्द्वितीयेन वृणे वरेण " इति । स्वर्गशब्देन अत्र परमपुरुषार्थलक्षणोमोक्षः अभिधीयते, " अमृतत्वं भजन्ते " इति तत्रस्थस्य जननमरणा-

1.4.6

 

भावश्रवणादुत्तरत्र, क्षयिफलकर्मनिन्दादर्शनाच्च; "त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत्तरति जन्ममृत्यू " इति च प्रतिवचनात् । तृतीयेन वरेण मोक्षस्वरूपप्रश्नद्वारेणोपेयस्वरूपमुपेतृस्वरूपमुपयाभूत कर्म्मानुगृहीतोपासन-स्वरूपञ्च पृष्ठम्, "येयं प्रते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः " इति । एवं मोक्षे पृष्टे तदुपदेशयोग्यतां परीक्ष्योपदिदेश, "तुं दुदर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वाधीरो हर्षशोकौ जहाति " इति, तदेवं सामान्येनोपदिष्टे नचि-केताः प्रीतः सन् देवं मत्वा" इत्युपास्यतया निर्दिष्ठस्य प्राप्तभूतस्य देवस्य "अध्यात्मयोगाधिगमेन " इति वेदित-व्यतया निर्दिष्टस्य प्रप्तुः प्रत्यगात्मनश्च "मत्वा धीरो हर्षशोकौ जहाति " इति निर्दिष्टस्य ब्रह्मोपासनस्य च स्वरू-पविरोधनाय पुनः पप्रच्छ "अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताद्भव्याच्च यत्तत्पश्यसि

1.4.6

 

तद्वद " इति । एवं सकलेतरातीतानागतवर्त्तमानसाध्यसाधनसाधकविलक्षणे त्रये पृष्टे । प्रथमं प्रणवं प्रशस्य तद्वाच्यं प्राप्यस्वरूपं , तदन्तर्गतञ्च प्रप्तृस्वरूपं, वाचकरूपं चोपायं पुनरपि सामान्येन ख्यापयन् प्रणवं तावदुपदिदेश "सर्वे वेदा यत्पदमामनन्ति तपासि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्य्यं चरन्ति तत्ते

1.4.6

 

पदं सङ्ग्रहेण ब्रवीम्योमित्येतत् " इति । एवमुपदिश्य पुनरपि प्रणवं प्रशस्य प्रथमं तावत् प्राप्तुः प्रत्यगात्मनः स्वरूपमाह "न जायते म्रियते वा विपश्चित् " इत्यादिना । प्राप्यस्य परस्य ब्रह्मणो विष्णोः स्वरूपम् " अणो-रणीयान् " इत्यादिना "क इत्था वेद यत्र सः" इत्यन्तेनोपदिशन्मध्ये "नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन " इत्यादिनोपायभूतस्योपासनस्य भक्तिरूपतामप्याह । "ऋतं पिबन्तौ " इति चोपास्यस्योपासकेन सहावस्थानात्सूपासतामुक्तवा "आत्मानं रथिनं विद्धि " इत्यादिना "दुर्गं पथस्तत्कवयो वदन्ति " इत्यन्तेनोपा-सनप्रकारमुपासीनस्य च वैष्णवपरमपदप्राप्तिमभिधाय "अशब्दमस्पर्शम् " इत्यादिनोपसंहृतम् ; अतस्त्रयाणामेव

1.4.6

अत्र ज्ञेयत्वेनोपन्यासः प्रश्नश्च , तस्मान्नेह तान्त्रिकस्याव्यक्तस्य ग्रहणम् ।। 6 ।।

1.4.7 महद्वच्च ।। 7 ।।

1.4.7

 

यथा "बुद्धेरात्मा महान् परः" इत्यत्रात्मशब्दसामानाधिकरण्यान्न तन्त्रसिद्धं महत्तत्त्वं गृह्यते ; एवमव्यक्र-मप्यात्मनः परत्वेनाभिधानान्न कापिलतन्त्रसिद्धं गृह्यत इति स्थितम् ।।

1.4.8 चमसवदविशेषात् ।। 8 ।।

1.4.8

 

अत्रापि तन्त्रसिद्धप्रक्रिया निरस्यते, न ब्रह्मात्मकानां प्रकृतिमहदहङ्कारादीनां स्रूपम्, श्रुतिस्मृतीभ्यां ब्रह्मात्मकानां तेषां प्रतिपादनात् । यथा आथर्वणिका अधीयते-"विकारजननीमज्ञामष्ठरूपामजां ध्रुवाम् । ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः । सूयते पुरुषार्थं च तेनैवाधिष्ठिता जगत् । गौरनाद्यन्तवती सा जनित्री भूतभाविनी । सितसिता च रक्ता च सर्वकामदुघा विभोः । पिबन्त्येनामविषमामविज्ञाताः कुमारकाः ।

1.4.8

 

एकस्तु पिबते देवस्स्वच्छन्दोऽत्रवशानुगाम् । ध्यानक्रियाभ्यां भगवान् भुङ्क्त्#ेऽसौ प्रसभं विभुः । सर्वसाधारणीं

दोग्ध्रीं पीड्यमानान्तु यज्वभिः" । चतुर्विंशतिसङ्खयाकमव्यक्तं व्यक्तमुच्यते " इति । अत्र प्रकृत्यादीनां स्वरूप-मभिहितम् । यदात्मकाश्चैते प्रकृत्यादयः, स परमपुरुषोऽपि "तं षड्#िवंशकमित्याहुः । सप्तविंशमथापरे । पुरुषं निर्गुणं साङ्खयमथर्वशिरसो विदु"रिति प्रतिपाद्यते, अपरे चाथर्वणिकाः "अष्टौ प्रकृतयः षोडश विकारा" इत्य-धीयते; श्वेताश्वतराश्चैवं प्रकृतिपुरुषेश्वरस्वरूपमामनन्ति "संयुक्तमेतत् क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः। अनीशश्चाऽन्यो वध्यते भोक्तृभावात् । ज्ञात्वा देवं मुच्यते सर्वपाशैः" ज्ञाज्ञौ द्वावजावीशनीशावजा ह्येका भोक्तृ-भोगार्थयुक्ता । अनन्तश्चात्मा विश्वरूपो ह्यकर्त्ता । त्रयं यदा विन्दते ब्रह्म चैतत् " "क्षरं प्रधानममृताक्षरं हरः क्षरा-त्मानावीशते देव एकः । तस्याभिध्यानाद्योजनात्तत्प्रभावाद्भूयश्चान्ते विश्वमायानिवृत्ति"रिति । तथा "छन्दांसि पज्ञाः ऋतवो व्रतानि । भूतं भव्यं यच्च देवा वदन्ति" "अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्नि-रुद्धः "मायां तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरम् । तस्यावयव भूतैस्तु व्याप्तं सर्वमिदं जगत्" इति तथोत्तरत्राऽपि

"प्रधानक्षेत्रज्ञपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुरि"ति । स्मतिरपि "प्रकृतिं पुरुषं चैव विध्द्यानादि उभावपि ।

1.4.8

 

विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् । कार्य्यकारणकर्त्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषस्सुखदुःखानाम्भो-क्तृत्वं हेतुरुच्यते । पुरुषः प्रकृतिस्थोऽपि भुङ्कते प्रकृतिजान्गुणान् । कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु । सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः । निबध्नन्ति महाबाहो । देहे देहिनमव्ययम् । तथा "सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् । प्रकृतिं स्वामवष्टभ्य विसृ-जामि पुनः पुनः । भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् । मयाऽध्यक्षेण प्रकृतिस्सूयते सचराचरम् । हेतुनाऽनेन कौन्तेय ! जगद्धिपरिवर्त्तने " इति । तस्मादब्रह्मामात्वकत्वेन कापिलतन्त्रसिद्धाः प्रकृत्यादयो निरस्यन्ते, श्वेता-श्वतरोपनिषदि श्रूयते "अजामेकां लोहितशुल्ककृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्येको जुषमाणो-ऽनुशेते जहात्येनाभ्भुक्तभोगामजोऽन्यः" इति, तत्र सन्देहः किमास्मिन्मन्त्रे केवलातन्त्रसिद्धा प्रकृतिरभिधीयते? उत ब्रह्मात्मिका ? इति । किं युक्तं ? केवलेति, कुतः अजामेकामित्यस्याः प्रकृतेरकार्य्यतवश्रवणात् "बह्वीः प्रजाः

1.4.8

 

सृजमानं सरूपाः" इति स्वातन्त्र्#ेण सरूपाणां बह्वीनां प्रजानां स्त्रष्ट्टत्वश्रवणाच्चेति - एवम्प्रप्तेऽभिधीयते - छमसवदविशेषात् । न जायत इत्यजेत्यजात्वमात्रप्रतिपादनात् तन्त्रसिद्धाब्रह्मात्मकाजाग्रहणे विशेषाप्रतीतेः चमसवत् यथा "अर्वाग्बिलश्चमस ऊद्र्ध्वबुध्न " इत्यस्मिन्मन्त्रे चमसस्य भक्षणसाधनत्वमात्रं चमसशब्देन प्रतीयत इति न तावन्मात्रेण चमसविशेषप्रतीतिः यौगिकशब्दानामर्थप्रकरणादिभिर्विनाऽर्थविशेषनिश्चया-योगात् ; तत्र "यथेदन्तच्छिर एष ह्यर्वाग्बिलश्रमस ऊद्र्ध्वबुध्न " इत्यादिना वाक्यशेषेण शिरसश्चमसत्व-

निश्चयः, तथा अत्राऽप्यर्थप्रकरणादिभिरेवाजा निर्णेतव्वा; न चाऽत्र तन्त्रसिद्धाजाग्रहणहेतवोऽर्थप्रकरणादयो

1.4.8

 

दृश्यन्ते, नचास्याः स्वातन्त्र्#ेण स्रष्टृत्वं रतीयते, "बह्वीः प्रजाः सृजमानाम्" इति स्रष्टत्वमात्रप्रतीतिः, अतोऽनेन मन्त्रेण नाब्रह्मात्मिकाजाऽभिधीयते ।। 8 ।। ब्रह्मात्मकाजाग्रहण एव विशेषतो हेतुरस्तीत्याह -

1.4.9 ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ।। 9 ।।

1.4.9

 

तुशब्दोऽवधारणार्थः, ज्योतिरुपक्रमैवैषाऽजा, ज्योतिबर्रह्म "तन्देवाज्योदिषांज्योतिः" "अथ यदतः परा दिवो ज्योतिर्दीप्यते" इत्यादिश्रुतिप्रसिद्धेः । ज्योतिरुपक्रमा ब्रह्मकारणिकेत्यर्थः, तथाऽह्यधीयत एकेहीति हेतौ, यस्मादस्या अजाया ब्रह्मकारणकत्वमेकेशाखिनस्तैत्तिरीया अधीयते - " अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः" इति हृदयगुहायामुपास्यत्वेन सन्निहितं बह्माभिधाय "सप्त प्राणाः प्रभवन्ति तस्मात्" इत्यादिना सर्वेषां लोकानां ब्रह्मादीनाञ्च तत उत्पत्तिमभिधाय सर्वकारणीभूताऽजा तत उत्पन्नाभि-धीयते" "अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम् । अजो ह्येको जुषमाणोऽनुशेते

1.4.9

 

जहात्येनाम्भुक्तभोगामज्योऽन्य" इति । सर्वस्य तद्य्वतिरिक्तस्य वस्तुजातस्य तत उत्पत्त्या तदात्मकत्वोपदेशे प्रक्रियमाणेऽभिधीयमानत्वात्प्राणसमुद्रपर्वतादिवदेषाऽप्यजा बह्वीनां सरूपणां प्रजानां स्रष्ट्री कर्मवश्येनाऽऽ-त्मना भुज्यमानाऽन्येन विदुषाऽऽत्मना त्यज्यमाना च ब्रह्मण उत्पन्ना ब्रह्मात्मिकाऽवगन्तव्येत्यर्थः । अतो वाक्यशेषाच्चमसविशेषवच्छाखान्तरीयादेतत्सरूपात्प्रत्यभिज्ञायमानार्थाद्वाक्यान्नियमिताऽजा ब्रह्मात्मिकेति निश्चीयते । इहाऽपि प्रकरणोपक्रमे "किं कारणं ब्रह्मे"त्यारम्भ "ते ध्यानयोगानुगता अपश्यन्देवात्मशकिं्त स्वगुणैर्निगूढाम् " इति परब्रह्मशक्तिरूपाया अजाया अवगतेः, उयरिष्टाच्च "अस्मान्मायी सृजते विश्वमेतत्त-स्मिंश्चान्यो माययो सन्निरुद्धः" "मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरम्" "यो योनिर्योनिमधितिष्ठत्येक"

1.4.10

 

इति च तस्या एव प्रतीतेर्नास्मिन्मन्त्रे तन्त्रसिद्धस्वतन्त्रप्रकृतिप्रतिपत्तिगन्धः ।। कथं तर्हि ज्योतिरुपक्रमाया लोहितशुक्लकृष्णरूपाया अस्याः प्रकृतेरजात्वम् ? आजाया वा कथं ज्योतिरुपक्रमात्वम् ? इत्यत्राह -

1.4.10 कल्पनोपदेशाच्च मध्वादिवदविरोधः ।। 10 ।।

1.4.10

 

प्रसक्ताशङ्कानिवृत्त्यर्थश्चशब्दः, अस्याः प्रकृतेरजात्वं ज्योतिरुपक्रमात्वञ्च न विरुध्यते । कुतः ? कल्पनोपदेशात्, कल्पनं क्लृप्तिः सृष्टिः, जगत्सृष्टयुपदेशादित्यर्थः । यथा "सूर्य्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्" इति कल्पनं सृष्टिः, अत्रापि "अस्मन्मायी सृजते विश्वमेत"दिति जगत्सृष्टिरुपदिश्यते । स्वेनावि भक्तदस्मात्सूक्ष्मावस्थात्का-रणान्मायी सर्वेश्वरः सर्वं जगत्सृजतीत्यर्थः । अनेन कल्पनोपदेशेनास्याः प्रकृतेः कार्यकारणरूपेणावस्थाद्वया-न्वयोऽवगम्यते, सा हि प्रलयवेलायां ब्रह्मतापन्ना अविभक्तनामरूपा सूक्ष्मरूपेणाऽवतिष्ठते । सृष्टिवेलायां

1.4.10

 

तूद्भूतसत्त्वादिगुणा विभक्तनामरूपाव्यक्तादिशब्दवाच्या तेजोबन्नादिरूपेण च परिणता लोहितशुक्लकृष्णाकारा चावतिष्ठते । अतः कारणावस्थाऽजा, कार्य्यावस्था च ज्योतिरुपक्रमेति न विरोधः । मध्वादिवत् यथेश्वरेणा-दित्यस्य कारणावस्थायामेकस्यैवावस्थितस्य कार्य्यावस्थायाम् ऋग्यजुस्सामाथवर्प्रतिपाद्यकर्मनिष्पाद्यरसा-श्रयतया वस्वादिदेवताभोग्यत्वाय मधुत्वकल्पनमुदयास्तमयकल्पनञच्च न विरुध्यते । तदुक्तं मधुविद्यायाम् "असौ वा आदित्यो देवमधु " इत्यारभ्य अथ "तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेत्येकल एव मध्ये स्थाते "-त्यन्तेन एकलः एकस्वभावः, अतोऽनेन मान्त्रेण ब्रह्मात्मिकाऽजैवाऽभिधीयते, न कापिलतन्त्रसिद्धेति सिद्धम् । अन्ये त्वस्मिन्मन्त्रे तेजोबन्नलक्षणाऽजैकाभिधीयत इति ब्रुवते, ते प्रष्टव्याः - किं तेजोबन्नान्येव तेजोबन्ना-त्मिकाजैका ? उत तेजोबन्नरूपं ब्रह्मैव ? किं वा- तेजोबन्नाकारणभूता काचिदिति । प्रथमे कल्पे तेजोबन्नाना-मनेकत्वादजामेकामिति विरुध्यते, न च वाच्यन्तेजोबन्नानामनेकत्वेऽपि त्रिवृत्करणेनैकतापत्तिरिति ।

1.4.10

 

त्रिवृत्करणेऽपि बहुतानपगमात्, "इमास्तिस्रो देवताः " "तासां त्रिवृतं त्रिवृतमैकैकाङ्करवाणी"ति प्रत्येकं त्रिवृ-त्करणोपदेशात् । द्वितीयः कल्पो विकल्प्यः,- किन्तेजोबन्नरूपेण विकृतं ब्रह्मैवाजैका ? किं वा स्वरूपेणा-वस्थितमविकृतमिति । प्रथमः कल्पो बहुत्वानपायादेव निरस्तः । द्वितीयेऽपि लोहितशुक्लकृष्णामिति विरुध्यते । स्वरूपेणावस्थितं ब्रह्म तेजोबन्नलक्षणमिति वक्तुमपि न शक्यते, तृतीये कल्पेऽप्यजाशब्देन तेजोबन्नानि निर्दिश्य तैस्तत्कारणावस्थोपस्थापनीयेत्यास्थेयम् । ततो वरमजाशब्देन । तेजोबन्नकारणावस्थायाः श्रुतिप्रसि-द्धाया एवाभिधानम् ,यत्पुनरस्याः प्रकृतेरजाशब्देन छागत्वपरिकल्पनमुपदिश्यत इति तदप्यसङ्गतम् , निष्प्रयो-

1.4.10

 

जनत्वात् यथा "आत्मानं रथिनं विद्धी"त्यादिषु ब्रह्मप्राप्त्युपायताख्यापनाय शरीरादिषु रथादिरूपणं क्रियते, यथा चादित्ये वस्वादीनाभ्भोग्यत्वख्यापनाय मधुत्वकल्पनं क्रियते, तद्गदस्याम्प्रकृतौ च्छागत्वपरिकल्पनं क्वोपयुज्यते, न केवलमुपयोगाभाव एव विरोधश्च । कृत्स्नजगत्कारणभूतायास्स्वस्मिन्ननादिकालसम्बद्धानां सर्वेषामेव चेतनानां निखिलसुखदुःखोपभोगापवर्गसाधनभूतायाः अचेतनायाः अत्यल्पप्रजासग्रकरागन्तुक-सङ्गमचेतनविशेषैकरूपत्यल्प प्रयोजनसाधनस्वपरित्यागाहेतु भूतस्वसम्बन्धिपरित्यागसमथर्चेतनविशेष-रूपच्छागस्वभावख्यापनाय तद्रूपत्वकल्पनं विरुद्धमेव । "अजामेकाम् " "अजो ह्येकः " "अजोऽन्य " इत्य-त्राजाशब्दस्य विरूपार्थकल्पनञ्च न शोभनम् । सर्वत्र च्छागत्वं परिकल्प्यत इति चेत् "जहात्येनाम्भुक्तभो-गामजोऽन्य " इति विदुष आत्यन्तिकप्रकृतिपरित्यागर्ङ्कुवतोऽनेन वाऽन्येन वापुनरपि सम्बन्धयोगयच्छा-गत्वपरिकल्पनमत्यन्तविरुद्धम् ।। चमसाधिकरणं समाप्तम् ।।

1.4.11 न संख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ।। 11 ।।

1.4.11

 

वाजसनेयिनस्समामनन्ति "यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमे-वन्मन्य आत्मानं विद्वान् ब्रह्मामृतोऽमृतम् " इति । किमयं मन्त्रः कापिलतन्त्रसिद्धतत्त्वप्रतिपादनपरः ? उत नेति सन्दिह्यते । किं युक्तम? तन्त्रसिद्धतत्त्वप्रतिपादनपर इति । कुतः ? पञ्चशब्दविशेषितात्पञ्चजनशब्दा

1.4.11

 

त्पञ्चविंशतितत्त्वप्रतीतेः । एतदुक्तम्भवति पञ्चजना इति समासः समाहारविषयः । पञ्चजनाः-पञ्चानां जनानां समूहाः पञ्चजनाः, पञ्चपूल्य इतिवत् ।पञ्चजना इति लिङ्गव्यत्ययश्छान्दसः । ते च समूहाः कतीत्यपेक्षायां

1.4.11

 

पञ्चजनशब्दविशेषणेन प्रथमेन पञ्चशब्देन समूहाः पञ्चेति प्रतीयन्ते यथा पञ्च पञ्चपूल्य इति । अतः "पञ्च पञ्चजनाः" इति पञ्चविंशतिपदार्थावगतौ ते कतम इत्यपेक्षायाम् मोक्षाधिकारान्मुमुक्षुभिर्ज्ञातव्यतया स्मृति-प्रसिद्धाः प्रकृत्यादय एव ज्ञायन्ते । "मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः" इति हि कापिलानां प्रसिद्धिः, अतस्तन्त्रसिद्धतत्त्वप्रतिपादनपरः ।इति प्राप्ते प्रचक्ष्महे, नसङ्खयोपसङ्ग्रहादपी"ति । "पञ्च पञ्चजना" इति पञ्चविंशतितत्वसङ्खयोपसङ्ग्रहादपि न तन्त्रसिद्धतत्त्वप्रतीतिः कुतः? नानाभावात्- एषां पञ्चसङ्खयविशेषितानां पञ्चजनानां तन्त्रसिद्धेभ्यस्तत्त्वेभ्यः पृथग्भावात् । "यस्मि-न्पञ्चपञ्चजना आकाशश्च प्रतिष्ठित " इत्येतेषां यच्छब्दनिर्दिष्टब्रह्माश्रयतया ब्रह्मात्वकत्वं हि प्रतीयते; " तमेवं

1.4.11

 

मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृत "मित्यत्र तमिति परामर्शेन यच्छब्दनिर्दिष्टं ब्रह्मेत्यवगम्यते । अतस्तेभ्यः पृथग्भूताः "पञ्च पञ्चजना" इति न तन्त्रसिद्धा एते । अतिरेकाञ्च, तन्त्रसिद्धेभ्यस्तत्त्वेभ्योऽत्र तत्त्वारेकोऽपि भवति यच्छब्दनिर्दिष्ट आत्मा आकाशश्चऽत्रातिरिच्येते । अतः "तं षड्#िवंशकमित्याहुः सप्तविंशमथापर " इति श्रुतिप्रसिद्धसर्वतत्त्वाश्रयभूतः सर्वेश्वरेश्वरः परमपुरुषोऽत्राभिधीयते । न सङ्खयोपसङ्ग्रहादपीत्यपिशब्दस्य "पञ्च पञ्चजना" इत्यत्र पञ्चविंशतितत्वप्रतिपत्तिरेव न सम्भवतीत्यभिप्रायः । कथं पञ्चभिरारब्धसमूहपञ्चकासम्भवात्; नहि तन्त्रसिद्धतत्वेषु पञ्चसु पञ्चस्वनुगतन्तत्ततसङ्खयानिवेशनिमित्तं जात्याद्यस्ति, न च वाच्यं पञ्च कर्मेन्द्रि-याणि पञ्च ज्ञानेन्द्रियाणि पञ्च महाभूतानि पञ्च तन्मात्राण्यवशिष्टानि पञ्च -इत्यवान्तरसङ्खयानिवेशनिमित्त-मस्त्येवेति, आकाशस्य पृथङ्#िनर्देशेन पञ्चभिरारब्धमहाभूतसमूहासिद्धेः, अतः पञ्चजा इत्ययं समासो न समाहारविषयः, अयन्तु "दिक्सङ्खये संज्ञाया"मिति संज्ञाविशेषविषयः, अन्यथा पञ्चजना इति लिङ्गव्यत्ययश्च । पञ्चजना नाम केचित्सन्ति ते च पञ्चसङ्खयया विशेष्यन्ते - पञ्च पञ्चजना इति, सप्त सप्तर्षय इतिवत् ।। 11 ।।

1.4.12

 

न स्यादिति भावः; के पुनस्तु पञ्च पञ्चजना इत्यत्राह -

1.4.12 प्राणादयो वाक्यशेषात् ।। 12 ।।

1.4.12

 

"प्राणस्य प्राणमुत चक्षुश्रचक्षुः श्रोत्रस्य श्रोत्रमम्नस्यान्नमनसो मनो ये विदुः " इति वाक्यशेषात् ब्रह्माश्रयाः

1.4.13

 

प्राणादय एव पञ्च पञ्चजना इति विज्ञायन्ते ।।12।। अथ स्यात्काण्वानां माध्यन्दिनानाञ्च "यस्मिन्पञ्च पञ्च-जना" इत्ययं मन्त्रः समानः, "प्राणस्य प्राण "मित्यादिवाक्यशेषे काण्वानामन्नस्य पाठो न विद्यते, तेषां पञ्च पञ्चजनाः प्राणादय इति न शक्यं वक्तुमिति, अत्रोत्तरम् -

1.4.13 ज्योतिषैकेषामसत्यन्ने ।। 13 ।।

1.4.13

 

एकेषां काण्वानां पाठे असत्यन्ने ज्योतिषा पञ्चजना इन्द्रियाणीति विज्ञायन्ते; तेषां वाक्यशेषः प्रदर्शनार्थः ।

1.4.13

 

एतदुक्तम्भवति "यस्मिन् पञ्च पञ्चजना " इत्यस्मात् पूर्वस्मिन्मन्त्रे "तं देवा ज्योतिषां ज्योतिरायुर्होपासते -ऽमृतम् " इति । ज्योतिषां ज्योतिष्ट्वेन ब्रह्मण्यभिधीयमाने ब्रह्माधीनस्वकार्याणि कानिचिज्ज्योतीपि प्रतिपन्नानि; तानि च विषयाणां प्रकाशकानीन्द्रियाणीति "यस्मिन्पञ्च पञ्चजना " इत्यनिर्द्धारितविशेषनिर्देशेनावगम्यन्त इति । प्राणस्येति प्राणशब्देन स्पर्शेन्द्रियङ्गृह्दते । वायुसम्बन्धित्वात्स्पर्शेन्द्रियस्य मुख्यप्राणस्य ज्योतिश्शब्देन प्रदर्शनायोगात् । चक्षुष इति चक्षुरिन्द्रियम् , श्रोत्रस्येति श्रोत्रेन्द्रियम् , अन्नस्येति घ्राणरसनयोः तन्त्रेणोपादानम्

1.4.13

 

अन्नशब्दोदितपृथिवीसम्बन्धित्वात् घ्राणेन्द्रियमनेन गृह्यते । अद्यतेऽनेनेत्यन्नमिति रसनेन्द्रियमपि गृह्यते , मनस इति मनः, घ्राणरसनयोस्तन्त्रेणोपादनमिति पञ्चत्वमप्यविरुद्धम् प्रकाशकानि मनः पर्य्यन्तानीन्द्रियाणि पञ्चजनशब्दनिर्दिष्टानि, तदविरोधाय घ्राणरसनयोस्तनत्रेणोपादानम् । तदेवं "यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठित " इति पञ्चजनशब्दनिर्दिष्टानीन्द्रियाणि आकाशशब्दप्रदर्शितानि महाभूतानि च ब्रह्मणि प्रतिष्ठितानीति

1.4.13

 

सर्वतत्वानां ब्रह्माश्रयत्वप्रतिपादनान्न तन्त्रसिद्धपञ्चविंशतितत्वप्रसङ्गः । अतः सर्वत्र वेदान्ते सङ्खयोपसङ्ग्रहे तदभावे वा न कापिलतन्त्रसिद्धतत्वप्रतीतिरस्तीति स्थितम् । ।। सङ्खयोपसङ्ग्रहाधिकरणं समाप्तम् ।।

1.4.14 कारणत्वेन चाकाशादिषु यथा व्यपदिष्टोक्तेः ।। 14 ।।

1.4.14

 

पुनः प्रधानकारणवादी प्रत्यवतिष्ठते न वेदान्तेष्वेकस्मात्सृष्टिराम्नायत इति जगतो

1.4.14

 

ब्रह्मैककारणत्वं न युज्यते । तथाहि "सदेव सोम्येदमग्र आसी"दिति सत्पूर्विका सृष्टिराम्नायते । "असद्वा इदमग्र आसीत् " इत्यसत्पूर्विका च । अन्यत्र "असदेवेदमग्र आसीत्तत्सदासीत्तत्समभवत् " इति च । अतो वेदान्तेषु सृष्टुरव्यसस्थितेर्ज्जगतो ब्रह्मैककारणत्वं न निश्चेतुं शक्यम् ;प्रत्युत प्रधानकारणत्वमेव निश्चेतुं शक्यते "तद्धेदं तर्ह्यव्याकृतमासीत् " इत्यव्याकृते प्रधाने जगतः प्रलयमभिधाय "तन्नामरूपाभ्यां व्याक्रियते " इत्यव्याकृतादेव जगतः सृष्टिश्चाभिधीयते । अव्याकृतं ह्यव्यक्तम् , नामरूपाभ्यां न व्याक्रियते न व्यज्यत इत्यर्थः, अव्यक्तं प्रधा-नमेव । अस्य च स्वरूपनियत्वेन परिणामाश्रयत्वेन च जगत्कारणवादिवाक्यगतौ सदसच्छब्दौ ब्रह्मणीवास्मिन्न विरोत्स्येते । एवमव्याकृतकारणत्वे निश्चिते सति ईक्षणादयः कारणगताः सृष्टयौन्मुख्याभिप्रायेण योजयितव्याः। ब्रह्मात्मशब्दावपि बृहत्त्वव्यापित्वाभ्यां प्रधान एव वर्त्तेते, अतः स्मृतिन्यायप्रसिद्धं प्रधानमेव जगत्कारणं

1.4.14

 

वेदान्तवाक्यैः प्रतिपाद्यते - इति प्राप्ते प्रचक्ष्महे- कारणत्वेन चाकादिषु यथाव्यपदिष्टोक्तेः । चशब्दस्तु शब्दार्थे; सवर्ज्ञात सर्वेश्वरात्सत्यसङ्कलपान्निरस्तनिखिलदोषगन्धात् परस्माद्ब्रह्मण एव जगदुत्पद्यत इति निश्चेतुं शक्यते । कुतः ? आकाशादिषु कारणत्वेन यथाव्यपदिष्टस्योक्तेः - सर्वज्ञत्वादिविशिष्टत्वेन "जन्माद्दस्य यत "इत्येवमादिषु

1.4.14

 

प्रतिपादितं ब्रह्म यथाव्यपदिष्टमित्युच्यते, तस्यैकस्यैव आकाशादिषु कारणत्वेनोक्तेः । "तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः " "तत्तेजोऽसृचत " इत्यादिषु सर्वज्ञं ब्रह्मैव कारणत्वेनोच्यते । तथा हि "सत्यं ज्ञानमनन्तं ब्रह्म " "सोऽश्नुते सर्वाकामान्सह ब्रह्मणा विपश्चिता " इति प्रकृतं विपश्चिदेव ब्रह्म, "तस्माद्वा एतस्मा "दिति परामृश्यते । तथा "तदैक्षत बहु स्याम् " इतिनिर्दिष्टं सर्वज्ञं बह्मैव "तत्तेजोऽसृजत " इति परामृश्यते । एवं सर्वत्र सृष्टिवाक्येषु द्रष्टव्यम् , अतो ब्रह्मैककारणं जगदिति निश्चीयते । ननु "असद्वा सदमग्र आसीत् " इत्यसदेव

1.4.15

 

कारणत्वेन व्यपदिश्यते, तत्कथमिव सर्वज्ञस्य सत्यसङ्कल्पस्य ब्रह्मण एव कारणत्वं निश्चीयत इत्यत आह -

1.4.15 समाकर्षात् ।। 15 ।।

1.4.15

 

"असद्वा इदमग्र आसीत् " इत्यत्रापि विपश्चितानन्दमयं सत्यसङ्कल्पं ब्रह्मैव समाकृष्यते, कथं "तस्माद्वा एत-स्माद्विज्ञानमयादन्याऽन्तर आत्मानन्दमयः" सोऽकामयत "बहु स्यां प्रजायेये"ति । "इदं सर्वमसृजत यदिदं " किञ्च तत्सृष्ट्वा तदेवाप्रनुविशत् तदनुप्रविश्य सच्च त्यच्चाऽभवत् " इत्यादिना ब्राह्मणेनानन्दमयं ब्रह्म सत्यसङ्कल्पं सर्वस्य स्रष्ट्ट सर्वानुप्रवेशेन सर्वात्मभुतमभिधाय "तदप्येष श्लोको भवती "त्युक्तस्वार्थस्य सर्वस्य साक्षित्वेनोदा-हृतोऽयं श्लोकः, "असद्वा इदमग्र आसीत् " इति । तथोत्तरत्र "भीषास्माद्वातः पवते" इत्यादिना तदेव ब्रह्म समाकृष्य सर्वस्य प्रशासितृत्वनिरतिशयानन्दत्वादयोऽभिधीयन्ते, अतोऽयम्मन्त्रस्तद्विषय एव । तदानीं नामरूपविभागाभावेन तत्सम्बन्धितयस्तित्वाभावाद्ब्रह्मैवासच्छब्देनोच्यते "असदेवेदमग्र आसीत् " इत्यत्राप्य-

1.4.15

 

यमेव निर्वाहः । यदुक्तं "तद्धेदं तर्ह्यव्याकृतमासीत् " इति प्रधानमेव जगत्कारणत्वेनाऽभिधीयत इति;नेत्युच्यते, तत्राप्यव्याकृतशब्देनाव्याकृतशरीरं ब्रह्मैवाभिधीयते, "स एष इह प्रविष्ट आनखाग्रेभ्यः पश्यंश्चक्षुःश्रृण्वन् श्रोत्रं मन्वानो मन आत्मेत्येवोपासीत " इत्यत्र "स एषः " इति तच्छब्देनाव्याकृतशब्दनिर्दिष्टस्यान्तः प्रविश्य प्रशा-सितृत्वेनानुकर्षात् "तत्सृष्ट्वा तदेवानुप्रविशत् " "अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि " इति स्रष्टुः सर्वज्ञस्य परस्य ब्रह्मणः कार्यानुप्रवेशनामरूपव्याकरणप्रसिद्धेश्च । "अन्तःप्रविष्टः शास्ता जनानां सर्वात्मा" इति नियमनार्थत्वादनुप्रवेशस्य प्रधानस्याचेतनस्यैवंरूपोऽनुप्रवेशो न सम्भवति; अतः अव्याकृतम् अव्याकृ-तशरीरं ब्रह्म "तन्नामरूपाभ्यां व्याक्रियत " इति तदेवाविभक्तनामरूपं ब्रह्म सर्वज्ञं सत्यसङ्कल्पं स्वेनैव विभ-क्तनामरूपं स्वयमेव व्याक्रियत इत्युच्यते । एवञ्च सतीक्षणादयो मुख्या एव भवन्ति । ब्रह्मात्मशब्दावपि

1.4.15

 

निरतिशयबृहत्त्वनियमनार्थव्यापित्वाभावेन प्रधाने न कथञ्चिदुपपद्यते , अतो ब्रह्मैककारणं जगदिति स्थितम् । कारणत्वाधिकरणं समाप्तम् ।।

1.4.16 जगद्वाचित्वात् ।। 16 ।।

1.4.16

 

पुनरपि साङ्खयः प्रत्यवतिष्ठते - यद्यपि वेदान्तवाक्यानि चेतनं जगत्कारणत्वेन प्रति-पादयन्ति, तथापि तन्त्रसिद्धप्रधानपुरुषातिरिक्तं वस्तु जगत्कारणं वेद्यतया न तेभ्यः प्रतीयते । तथा हि भोक्ता-रमेव पुरुषं कारणं वेद्यतयाऽधीयते कौषीतकिनोबालाक्यजातशत्रुसंवादे "ब्रह्म ते ब्रुवाणी " इत्युपक्रम्य "यो वै

1.4.16

 

यः कारणभूतः, एतत्कारणभावहेतुभूतं पुण्यापुण्यलक्षणं च कर्म यस्य स वै वेदितव्यः तत्स्वरूपं प्रकृतेर्विविक्तं वेदितव्यमिति । तथोत्तरत्र "तौ ह सुप्तं पुरुषमाजग्मतुः तं यष्टिना चिक्षेप" इति सुप्तपुरुषागमनयष्टिघातोत्थाप-नादीनि च भोक्तृप्रतिपादन एव लिङ्गानि । तथोपरिष्टादपि भोक्तैव प्रतिपाद्यते "तद्यथा श्रेष्ठी स्वेर्भुङ्कते यथा वा स्वाः श्रेष्ठिनं भुजन्त्येवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्कते एवमेवैत आत्मन एनं भु#ुञ्जन्ति " इति । तथा क्वैष एतद्बालाके पुरुषोऽशयिष्ट क्व वा एतदभूत्कुत एतदागात " इति पृष्टमर्थमजानते तस्मै स्वयमेवाजातशत्रुरुवाच "हिता नाम नाड्यस्तासु तदा भवति यदा सुप्तः स्वप्नं न कथञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति तदैनं वाक् सर्वैर्ना-मभिः सहाप्येति मनस्सर्वैर्ध्यानैस्सहाप्येति स यदा प्रतिबुध्यते यथाऽग्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्र-तिष्ठेरन्नेवमेवैतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः" इति सुषुप्त्याधारतया स्वप्नसुषुप्तिजागरितावस्थासु वर्त्तमानं वागादिकरणाप्ययोद्गमस्थानमेनमेव जीवात्मानम् "अथास्मिन् प्राण एवैकधा भवति" इत्युक्तवान् । अस्मिन् -जीवात्मनि । प्राणभृत्त्वनिबन्धनोऽयं प्राणशब्दः "स यदा प्रतिबुध्यते"

1.4.16

 

इति प्राणशब्दनिर्दिष्टस्य प्रबोधश्रवणात् मुख्यप्रमाणस्येश्वरस्य च सुषुप्तिप्रबोधयोरसम्भवात् । अथवा "अस्मिन् प्राणे " इति व्यधिकरणे सप्तम्यौ; अस्मिन्नात्मनि वर्त्तमाने प्राण एवैकधा भवति वागादिकरणग्राम इति प्राण-शब्दस्य मुख्यप्राणपरत्वेऽपि जीव एवास्मिन् प्रकरणे प्रतिपाद्यते, स्वतः प्राणस्य जीवोपकरणत्वात्; अतो वक्तव्यतयोपक्रान्तं ब्रह्म पुरुष एवेति तद्य्वतिरिक्तेश्वरासिद्धिः । कारणगताश्चेक्षणादयश्चेतनधर्म्मा अस्मिन्नेवोप-पद्यन्त इत्येतदधिष्ठितं प्रधानमेव जगत्कारणम् ।। इति प्राप्ते प्रचक्ष्महे -जगद्वाचित्वात् । अत्र पुण्यापण्यपरवशः

1.4.16

 

क्षुद्रः क्षेत्रज्ञः स्वस्मिन् प्रकृतिधर्माध्यासेन तत्परिणामहेतुभूतः पुरुषो नाभिधीयते, अपि तु निरस्तसमस्ता-विद्यादिदोषगन्धोऽनवधिकातिशयासङ्खयेयकल्याणगुणगणनिधिः निखिलजगदेककारणभूतः पुरुषोत्तमोऽ-भिधीयते । कुतः ? "यस्य वैतत्कर्म" इत्यत्रैतच्छब्दान्वितस्य कर्मशब्दस्य परमपुरुषकायर्भूतजगद्वाचित्वात् । एतच्छब्दो ह्यर्थप्रकरणादिभिरसङ्कुचितवृत्तिविशेषेण प्रत्यक्षादिप्रमाणोपस्थापितनिखिलचिदचिन्मिश्रजगद्विषयः। न च पुण्यापुण्यलक्षणं कर्मात्र कर्मशब्दाभिधेयं "ब्रह्म ते ब्रुवाणि " इत्युपक्रम्य ब्रह्मत्वेन बालाकिना निर्दिष्टा

1.4.16

 

नामादित्यमण्डलाद्यधिकरणानां पुरुषाणामब्रह्मत्वेन "मृषा वै खलु मा संवादयिष्टाः" इति तमब्रह्मवादिनमपोद्य तेनाविदितब्रह्मज्ञापनायाजातशत्रुणेदं वाक्यमवतारितं "यो वै बालाके" इत्यादि । पुण्यापुण्यलक्षणकर्मसम्ब-न्धिन आदित्याद्यधिकरणास्तत्सजातीयाश्च पुरुषास्तेनैव विदिता इति तदविदितपुरुषविशेषज्ञापनपरोऽयं कर्म-शब्दो न पुण्यापुण्यमात्रवाची, क्रियामात्रवाची वा; अपि तु कृत्स्नस्य जगतः कार्यत्ववाची । एवमेव खल्व-विदितोऽर्थ उपदिष्टो भवति । पुरुषस्य कर्मसम्बन्धोपलक्षितस्वाभाविकस्वरूपस्याज्ञातस्य वेदितव्यत्वोपदेशे च लक्षणा, कर्मसम्बन्धमात्रस्यैव वेदितव्यस्वरूपलक्षणत्वाद्यस्य कर्म स वेदितव्य इत्येतावतैव तत्सिद्धेः, "यस्य वैतत्कर्म" इत्येतच्छब्दवैयर्थ्यं च । "य एतेषां कर्ता यस्य वैतत्कर्म" इति पृथङ्#िनर्देशस्य चायमसभप्रायः, ये त्वया

1.4.16

 

ब्रह्मत्वेन निर्द्दिष्टाः पुरुषाः तेषां यः कर्ता ते यत्कार्यभूताः किं विशिष्याभिधीयते कृत्स्नं जगद्यस्य कार्यम्, उत्कृष्टा अपकृष्टाश्चेतना अचेतनाश्च सर्वे पदार्था यत्कार्यत्वे तुल्याः स परमकारणभूतः पुरुषोत्तमो वेदितव्य इति । जग-दुत्पत्तेर्जीवकर्मनिबन्धनत्वेऽपि न जीवः स्वभोग्यभोगोपकरणादेस्स्वयमुत्पादकः, अपि तु स्वकर्मानुगुण्येने-श्वरसृष्टं सर्वं भुङ्क्त्#े; अतो न तस्य पुरुषान्प्रति कर्त्तृत्वमुपपद्यते । अतः सर्ववेदान्तेषु परमकारणतया प्रसिद्धं परं ब्रह्मैवात्र वेदितव्यतयोपदिश्यते ।। 16 ।।

1.4.17 जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्य्वाख्यातम् ।। 17 ।।

1.4.17

 

अथ यदुक्तम - जीवलिङ्गान्मुख्यप्राणसङ्कीर्त्तनाच्च लिङ्गाद्भोक्तैवास्मिन् प्रकरणे प्रतिपाद्यते, न परमात्मेति ;

1.4.17

 

तद्य्वाख्यातम् -तस्य निर्वाहः प्रतर्दनविद्यायामभिहितः । एतदुक्तं भवति; यत्रोपक्रमोपसंहारपर्यालोचनया ब्रह्मपरं वाक्यमिति निश्चितं तत्रान्यलिङ्गानि तदनुरोधेन वर्णनीयानिति तत्र प्रतिपादितम् । अत्राप्युपक्रमे "ब्रह्म ते ब्रुवाणि" इति ब्रह्मोपक्षिप्तम् ; मध्ये च "यस्य वैतत्कर्म" इति निर्दिष्टं न पुरुषमात्रम् , अपि तु निखिलजगदेक-कारणं ब्रह्मैवेत्युक्तम् । उपसंहारे च "सर्वान् पाप्मनोऽपहत्य सर्वेषां च भूतानां श्रैष्ठयं स्वाराज्यमाधिपत्यं पर्येति य एवं वेद" इति ब्रह्मोपासनैकान्तं सर्वपापापहतिपूर्वकं स्वाराज्यं च फलं श्रुतम्;अतोऽस्य वाक्यस्य ब्रह्मपरत्वनिश्चयेन जीवमुख्यप्राणलिङ्गान्यपि तत्परतया वर्णनीयानीति । प्रातर्द्दने ह्युपासात्रैविद्येन जीवमुख्य

1.4.18

 

प्राणलिङ्गानां ब्रह्मपरत्वमुक्तम्; अत्रापि "अथास्मिन् प्राण एवैकधा भवति" इति सामानाधिकरण्यसम्भवे वैयधिकरण्यसमाश्रयणायोगात् ब्रह्मण्येव प्राणशब्दप्रयोगनिश्चयेन च प्राणशरीरकब्रह्मोपासनार्थं प्राणसङ्कीर्त्तनं लिङ्गं युज्यते ।। 17 ।। जीवलिङ्गानां पुनः कथं ब्रह्मपरत्वमित्यत्राह -

1.4.18 अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ।। 18 ।।

1.4.18

तुशब्दो जीवसङ्कीर्त्तनेन वाक्यस्य तत्परत्वसम्भावनाव्यावृत्त्यर्थः । अन्यार्थम् - जीवसङ्कीर्त्तनं जीवातिरिक्त-ब्रह्मस्वरूपप्रतिबोधनार्थमिति जैमितिराचार्य्यो मन्यते । कुतः ? प्रश्नव्याख्यानाभ्याम् - प्रश्नस्तावत् " तौ ह सुप्तं पुरुषमाजग्मतुः" इत्यादिना सुप्तस्य प्रबुद्धप्राणस्यैव प्राणनामभिरामन्त्रणाश्रवणयष्टिघातोत्थापनाभ्यां प्राणातिव्यतिरिक्तं जीवं प्रतिबोध्य पुनर्जीवव्यतिरिक्तब्रह्मप्रतिबोधनपरो दृश्यते "क्वैष एताद्बलाके पुरुषोऽशयिष्ट

1.4.18

 

क्व वा एतदभूत् कुत एतदागात्" इति । व्याख्यानमपि "यदा सुप्तः स्वप्नं न कथञ्चन पश्यत्यथास्मिन् प्राण एवै-कधा भवति एतस्मादात्मनः प्राणाः यथाऽऽयदनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः" इति जीवादर्था-न्तरभूतपरमात्मपरमेव । सुषुप्तस्य हि जीवस्य यत्रोपितस्य जागरितस्वप्नदशासम्बन्धिविचित्रसुखदुःखानुभव-कालुष्यविरहेण सम्प्रसन्नस्य स्वस्थतापत्तिः, पुनरप्यस्य यस्माद्भोगाय निष्क्रमणं सोऽयं परमात्मा । तथाहि "सता सोम्य तदा सम्पन्नो भवति प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्मं किञ्चन वेद नान्तरम् " इति सुषुप्याधार

1.4.18

 

तया प्रसिद्धो जीवादर्थान्तरभूतः प्राज्ञः परमात्मा । अतः प्रश्नप्रतिवचनाभ्यां जीवसङ्कीर्तनं जीवादर्थान्तरभूत-परमात्मप्रतिपादनार्थमिति निश्चीयते । यदुक्तं प्रश्नव्याख्याने जीवपरे सुषुप्तिस्थानं च नाड्य एव, करणग्रामश्च प्राणशब्दनिर्दिष्टे जीव एवैकधा भवतीति । तदयुक्तम् नाडीनां स्वप्नस्थानत्वात् उक्तरीत्या ब्रह्मण एव सुषुप्ति

1.4.18

 

स्थानत्वाच्च, प्राणशब्दनिर्दिष्टे ब्रह्मण्येव जीवस्य तदुपकरणभूतवागादिकरणग्रामस्य चैकतापत्तिविभागवच-नाच्च । अपि चैवमेके वाजसनेयिनोऽस्मिन्नेव बालाक्यजातशत्रुसंवादे सुषुप्ताद्विज्ञानमयाद्भेदेन तदाश्रयभूतं परमात्मानमामनन्ति "य एष विज्ञानमयः पुरुषः क्वैष तदाभूत कुत एतदागात् यत्रैष एतत् सुप्तोभूद्य एष

1.4.18

 

विज्ञानमयः पुरुषस्तदैतेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तहहृदय आकाशस्तस्मिच्छेते" इति । आकाशशब्दश्च परमात्मनि प्रसिद्धः "दहारोऽस्मिन्नन्तर आकाशः" इति । अतोऽत्र जीवसङ्कीर्त्तनं तस्मादर्था-न्तरभूतस्य प्राज्ञस्य परस्य ब्रह्मणः प्रतिबोधनार्थमित्यवगम्यते । तस्मादस्मिन् वाक्ये पुरुषादर्थान्तरभूतस्य निखिलजगत्कारणस्य परस्यैव ब्रह्मणो वेदितव्यतयाऽभिधानान्न तन्त्रसिद्धस्य पुरुषस्य तदधिष्ठितस्य वा प्रधानस्य कारणत्वं क्वचिदपि वेदान्ते प्रतीयत इति सिद्धम् ।। ।।

1.4.19 वाक्यान्वयात् ।। 19 ।।

1.4.19

 

अत्रापि कापिलतन्त्रसिद्धपुरुषतत्त्वावेदनपरं वाक्यं क्वचिद्दृश्यत इति तदतिरिक्त ईश्वरो नाम न कश्चित्सम्भवतीत्याशङ्कय निराकरोति । बृहदारण्यके मैत्रेयीब्राह्मणे श्रूयते "न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति" इत्यारभ्य "न वा अरे सर्वस्य कामाय सर्वं प्रियं

1.4.19

 

भवत्यात्मनस्तु कामाय सर्वं प्रियं भवत्यात्मा वा अरे द्रष्टव्यः श्रोतव्यो मंतव्यो निदिध्यासितव्यः मैत्रेय्यात्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम्" इति । तत्र संशयः- किमस्मिन् वाक्ये द्रष्टव्यतयोपदिश्यमानः तन्त्रसिद्धपुरुष एव ? अथवा सर्वज्ञः सत्यसङ्कल्पः सर्वेश्वर इति । किं युक्तम् ? पुरुष इति । कुतः ? आदिमध्या-वसानेषु पुरुषस्यैव प्रतीतेः, उपक्रमे तावत्पतिजायापुत्रवित्तपश्वादिप्रियत्वयोज्जीवात्मैव प्रतीयते, मध्येऽपि "विज्ञानघन एवैतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञाऽस्ति" इत्युत्पत्तिविनाशयोगात्स एवावगम्यते । तथान्ते च "विज्ञातारमरे केन विजानीयात्" इति स एव ज्ञाता क्षेत्रज्ञ एव प्रतीयते, ने श्वरः, अतस्तन्त्रसिद्धपुरुषप्रतिपादनपरमिदं वाक्यमिति निश्चीयते । ननु "अमृतत्वस्य तु नाशाऽस्ति वित्तेन" इत्यु-पक्रमात् अमृतत्वप्राप्त्युपायोपदेशपरमिदं वाक्यमित्यवगम्यते, तत्कथं पुरुषप्रतिपादनपरत्वमस्य वाक्यस्य ।

1.4.19

 

तदुच्यते, अत एव ह्यत्र पुरुषप्रतिपादनम् , तन्त्रे ह्यचिद्धर्माध्यासवियुक्तपुरुषस्वरुपयाथात्म्यविज्ञानमेवामृत-त्वहेतुत्वेनोच्यते, अतो जीवात्मनः प्रकृतिवियुक्तं स्वरूपमिहामृतत्वाय "आत्मा वा अरे द्रष्टव्यः" इत्यादि-नोपदिश्यते । सर्वेषामात्मनां प्रकृतिवियुक्तं स्वरूपमेकरूपमिति प्रकृतिवियुक्तस्वात्मयाथात्म्यविज्ञानेन सर्व एवात्मानो विदिता भवन्तीत्यात्मविज्ञानेन सर्वविज्ञानमुपपन्नम् । देवादिस्थावरान्तेषु सर्वेषु भूतेष्वात्मस्वरू-पस्य ज्ञानैकप्रकारत्वात् "इदं सर्वं यदयमात्मा" इत्यैकात्म्योपदेशः, देवाद्याकाराणामात्माकारत्वात् "सर्वं तं परदात्" इत्यादिनाऽन्यत्वनिषेधश्च । "यत्र हि द्वैतमिव भवति" इति च नानात्वनिषेधेनैकस्वरूपे ह्यात्मनि देवादिप्रकृतिपरिणामभेदेन नानात्वं मिथ्येत्युच्यते । "तस्य ह वा एतस्य महतो भूतस्य निश्वसितरमेतद्यदृग्वेदः" इत्याद्यपि प्रकृतेरधिष्ठातृत्वेन पुरुषनिमित्तत्वाज्जगदुत्पत्तेरुपपद्यते । एवमस्मिन् वाक्ये पुरुषपरे निश्चिते सति तदैकार्थ्यात् सर्वे वेदान्तास्तन्त्रसिद्धं पुरुषमेवाभिदधतीति तदधिष्ठिता प्रकृतिरेव जगदुपादानम् , नेश्वरः-इति ।

1.4.19

 

एवं प्राप्ते प्रचक्ष्महे - वाक्यान्वयादिति । सर्वेश्वर एवास्मिन्वाक्ये प्रतीयते । कुतः ? एवमेव हि वाक्याक्य-वानामन्योन्यान्वयः समञ्जसो भवति । "अमृतत्वस्य तु नाशाऽस्ति वित्तेन" इति याज्ञवल्क्येनाभिहिते "येनाऽहं नामृता स्यां किमहं तेन कुर्य्यां यदेव भगवान् वेद तदेव मे ब्रूहि" इत्यमृतत्वानुपायतया वित्ताद्यनादराणामृ-तत्वप्राप्त्युपायमेव प्रार्थयमानायै मैत्रैय्यै तदुपायतया द्रष्टव्यतयोपदिष्टोऽयमात्मा परमात्मैव, "तमेवं विदित्वा-ऽतिमृत्युमेति" तमेवं विद्वानमृत इह भवति नान्यः पन्थाः" इत्यादिभिरमृतत्वस्य परमपुरुषवेदनैकोपायतया प्रतिपादनात् । परमपुरुषविभूतिभूतस्य प्राप्तुरात्मनः स्वरूपयाथात्म्यविज्ञानमपवर्गसाधनपरमपुरुषवेदनो-पयोगितयाऽवगन्तव्यम् , न स्वत एवोपायत्वेन; अतोऽत्र परमात्मैवामृतत्वोपायतया द्रष्टव्यः" इत्यादिनो-पदिश्यते । तथा "तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदः" इत्यादिना कृत्स्नस्य जगतः कार-णत्वमुच्यमानं परमपुरुषादन्यस्य कर्मपरवशस्य मुक्तस्य निर्व्यापारस्य च पुरुषमात्रस्य न सम्भवति । तथा "आत्मनो वा अरे दर्शनेन " इत्यादिना एकविज्ञानेन सर्वविज्ञानमभिधीयमानं सर्वात्मभूते परमात्मन्येवाव-कल्पते । यत्त्वेतदेकरूपत्वादात्मनामेकात्मविज्ञानेन सर्वात्मविज्ञानमुच्यत इति, तदयुक्तम् ; अचेतनप्रपञ्च-ज्ञानाभावेन सर्वविज्ञानाभावात् । प्रतिज्ञोपपादनाय च "इदं ब्रह्मेदं क्षत्रम् " इत्युपक्रम्य" इदं सर्वं यदयमात्मा"

1.4.19

 

इति प्रत्यक्षादिसिद्धं चिदचिन्मिश्रं प्रपञ्चमिदमिति निर्द्दिश्यैतदयमात्मेत्यैकात्म्योपदेशश्च परमात्मन एवोपपद्यते न हीदंशब्दवाच्यं चिदचिन्मिश्रं जगत्पुरुषेणाचित्संसृष्टेन तद्वियुक्तेन स्वरूपेण वाऽवस्थितेन चैक्ममुपगच्छति; अत एव "सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद" इति व्यतिरिक्तत्वेन सवर्वेदननिन्दाञ्च; तथा प्रथमे च मैत्रेयी-ब्राह्मणे "महद्भूतमनन्तमपारम् " इति श्रुता महत्त्वादयो गुणाः परमात्मन एव सम्भवन्ति; अतस्य एवात्र प्रति-पाद्यते । यत्तूक्तं पतिजायापुत्रवित्तपश्वादिप्रियान्वयिनो जीवात्मन उपक्रमे त्वन्वेष्टव्यतया प्रतिपादनात्तद्विषयमे-वेदं वाक्यमिति; तदयुक्तम् , आत्मनस्तु कामाय" इत्यात्मशब्देन जीवात्मसंशब्देन तस्य "आत्मा वा अरे द्रष्टव्यः" इत्यनेनानन्वयप्रसङ्गात् । "आत्मा वा अरे द्रष्टव्यः" इत्यात्मनो द्रष्टव्यत्वोपयोगितया "आत्मनस्तु कामाय " इत्युपदिष्टमिति प्रतीयते । आत्मनस्तु कामाय - आत्मनः कामसंपत्तये; काम्यन्त इति कामाः, आ-त्मन इष्टसम्पत्तय इति यावत् । न च जीवात्मन इष्टसम्पत्तये पत्यादयः प्रिया भवन्तीत्युक्ते सति तस्य जीवस्य

1.4.19

 

स्वरूपमन्वेष्टव्यं भवति । प्रियमेव ह्यन्वेष्टव्यम् , न तु प्रियं प्रति शेषिणः प्रियवियुक्तं स्वरूपम्; यस्मादात्मन इष्टसम्पत्तये पत्यादयः प्रिया भवन्ति तस्मात्पत्यादिप्रियं परित्यज्य तद्वियुक्तमात्मस्वरूपमन्वेष्टव्यमित्यसङ्गतं भवति । प्रत्युत न पत्यादिशेषतया पत्यादीनां प्रियत्वम् , अपि त्वात्मनः शेषतया पत्यादीनां प्रियत्वमित्युक्ते स्वशेषतया त एवोपादेयाः स्युः । "आत्मनस्तु कामाय सर्वं प्रियं भवति" इत्यस्य परेणानन्वये वाक्यभेदः प्रसज्यते, अभ्युपगम्यमानेऽपि वाक्यभेदे पूर्ववाक्यस्य न किञ्चित्प्रयोजनं दृश्यते; अतः पत्यादि सर्वं प्रियं परित्यज्यात्मन एवान्वेष्टव्यत्वं यथा प्रतीयते तथा वाक्यार्थो वर्णनीयः, सोऽयमुच्यते "अमृतत्वस्य तु नाशा-ऽस्ति वित्तेन" इति वित्तादीनां नित्यनिर्दोषनिरतिशयानन्दरूपामृतत्वप्राप्त्यनुपायतामुक्तवा वित्तपुत्रपतिजा-यादीनां सातिशयदुःखमिश्रकादाचित्कप्रियत्वमनुभूयमानं न पत्यादिस्रूपप्रयुक्तम् , अपि तु निरतिशयानन्द-स्वभावपरमात्मप्रयुक्तम् ; अतो य एव स्वयं निरतिशयानन्दस्सन्नन्येषामपि प्रियत्वलेशास्पदत्वमापादयति स परमात्मैव द्रष्टव्य इत्युपदिश्यते । तदयमर्थः, न वा अरे पत्युः कामाय पतिः प्रियो भवति - न हि पतिजायापुत्र-वित्तादयो मत्प्रयोजनायाहमस्य प्रियः स्यामिति स्वसङ्कल्पात्पि#्रया भवन्ति, अपि त्वात्मनः कामाय, परमात्मनः स्वाराघकपि#्रयप्रतिलम्भनरूपेष्टनिर्वृत्तय इत्यर्थः। परमात्मा हि कर्मभिराराधितस्तत्तत्त्कर्मानुगुणं प्रतिनियतदेश-कालस्वरूपपरिमाणमाराधकानां तत्तद्वस्तुगतं प्रियत्वमापादयति "एष ह्येवानन्दयाति" इति श्रुतेः । न तु

1.4.19

 

त्मन एवाभिधानात् "आत्मनस्तु कामाय" "आत्मा वा अरे द्रष्टव्यः" इति पूर्वोक्तप्रक्रिययोभयत्रात्मशब्दावेक-विषयौ।।मतान्तरेणापि जीवशब्देन परमात्माभिधानोपपादनायाह -

1.4.20 प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ।। 20 ।।

1.4.20

 

एकविज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्धे#ि#ीदं लिङ्गम् , यज्जीवात्मवाचिशब्दैः परमात्मनोऽभिधानमित्याश्मरथ्य आचार्य्यो मन्यते स्म । यद्ययं जीवः परमात्मकार्य्यतया परमात्मैव न भवेत्तदा तद्य्वतिरिक्ततया परमात्मवि-ज्ञानादेतद्विज्ञानं न सेत्स्यति । "आत्मा वा इदमेक एवाग्र आसीत्" इति प्राक्सृष्टेरेकत्वावधारणात् , "यथा सुदीप्तात्पावकाद्विस्फुलिङ्गास्सहस्रशः प्रभन्ते सरूपाः। तथाऽक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवा-पियन्ति" इत्यादिभिर्ब्रह्मणो जीवानामुत्मत्तिश्रवणात्तस्मिन्नेव लयश्रवणाच्च जीवानां ब्रह्मकार्य्यत्वेन ब्रह्मणै-क्यमवगम्यते, अतो जीवशब्देन परमात्माभिधानमिति ।।

1.4.21 उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः ।। 21 ।।

1.4.21

 

यदुक्तं जीवस्य ब्रह्मकार्य्यतया ब्रह्मणैक्येनैकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपादनार्थं ब्रह्मणो जीवशब्देन प्रतिपा-दनमिति, तदयुक्तम्; "न जायते म्रियते वा विपश्चित्" इत्यादिनाऽजत्वश्रुतेर्जीवात्मनां प्राचीनकर्मफलभोगाय जगत्सृष्टयभ्युपगमाच्च, अन्यथा विषमसृष्टयनुपपत्तेश्च ब्रह्मकार्यस्य जीवस्य ब्रह्मतापत्तिलक्षणो मोक्ष आकाशा-दिवदवजर्नीय इति तदुपायविधानानुष्ठानानर्थक्याच्च; घटादिवत्कारणप्राप्तेर्विनाशरूपत्वेन मोक्षस्यापुरुषार्थता च

1.4.21

 

जीवात्मन उत्पत्तिप्रलयवादोपपत्तिरुत्तरत्र प्रपञ्चयिष्यते; अतः "एष सम्प्रसादोऽस्माच्छरीरारात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणणाऽभिनिष्पद्यते" यथा नद्यः स्यन्दमानास्समुद्रेऽस्तं जच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्" इत्युत्क्रमिष्यतः परमात्मभावाज्जीवशब्देन परत्म-नोऽभिधानमित्यौडुलोमिराचार्यो मन्यते ।।

1.4.22 अवस्थितेरिति काशकृत्स्नः ।। 22 ।।

1.4.22

यदुक्तमुत्क्रमिष्यतो जीवस्य ब्रह्मभावाद्ब्रह्मणस्तच्छब्देनाभिधानमिति, तदप्ययुक्तम्; विकल्पासहत्वात् । अस्य जीवात्मन उत्क्रान्तेः पूर्वमनेवम्भावः किं स्वाभाविकः, उत्तौपादिकः ? तत्रापि पारमार्थिकः, अपारमार्थिको वेति । स्वाभाविकत्वे ब्रह्मभावो नोपपद्यते, भेदस्य स्वरूपप्रयुक्तत्वेन स्वरूपे विद्यमाने तदनपायात् । अथ भेदेन सह स्वरूपमप्यपैतीति, तथा सति विनष्टत्वादेव तस्य न ब्रह्म इति भावः, अपुरुषार्थत्वादिदोषप्रसङ्गश्च । पारमा-र्थिकौपाधिकत्वे प्रागपि ब्रह्मैवेति "उत्क्रमिष्यत एवम्भावात् " इति विशेषो न युज्यते वक्तुम् । अस्मिन् पक्षे ह्युपाधिब्रह्मव्यतिरेकेण वस्त्वन्तराभावान्निरवयवस्य ब्रह्मण उपाधिना छेदाद्यसम्भवाच्चोपाधिगत एव भेद इत्यु-त्क्रान्तेः प्रागपि ब्रह्मैव । औपाधिकस्य भेदस्यापारमार्थिकत्वे कस्यायमुत्क्रान्तौ ब्रह्मभाव इति वक्तव्यम् ; ब्रह्मण एवाविद्योपाधितिरोहितस्वस्वरूपस्येति चेन्न, नित्यमुक्तस्वप्रकाशज्ञानस्वरूपस्याविद्योपाधितिरोघानासम्भ-वात् । तिरोधानं नाम वस्तुस्वरूपे विद्यमाने तत्प्रकाशनिवृत्तिः। प्रकाश एव वस्तुस्वरूपामित्यङ्गीकारे तिरो-धानाभावः स्वरूपनाशो वा स्यात् ; अतो नित्याविर्भूतस्वस्वरूपत्वात्तस्योत्क्रान्तौ ब्रह्माभावे न कश्चिद्विशेष

1.4.22

 

इति "उत्क्रमिष्यतः" इति विशेषणं व्यर्थमेव ।"अस्माच्छरीरात्समुत्थाय" इति पूर्वमनेवंरूपस्य न तदानीं ब्रह्म-तामत्तिमाह, अपि तु पूर्वसिद्धस्वरूपस्याविर्भावम् , तथाहि वक्ष्यते "सम्पद्याविर्भावस्स्वेन शब्दात्" इत्यादिभिः। अतः "अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति "य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः" "योऽक्षरमन्तरे सञ्चरन् यस्याक्षरं शरीरं यमक्षरं न वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः" अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा" इति स्वशरीरभूते जीवात्मन्यात्मतयाऽवस्थितेर्जीवशब्देन ब्रह्मप्रतिपादनमिति काशकृत्स्न आचार्य्यो मन्यते स्म । जीवशब्दश्च जीवस्य परमात्मपर्यन्तस्यैव वाचको न जीवमात्रस्येति पूर्वमेवोक्तं "नामरूपे व्याकर-

1.4.22

 

वाणि" इत्यत्र । एवमात्मशरीरभावेन तादात्म्योपपादेन परस्य ब्रह्मणोऽप्रहतपाप्मत्वसर्वज्ञत्वादिगोचराः जीव-स्याविदुषः शोचतो ब्रह्मोपासनान्मोक्षवादिन्यो जगत्सृष्टिप्रलयाभिधायिन्यो जगतो ब्रह्मतादात्म्योपदेशपराश्च सर्वाः श्रुतयः सम्यगुपपादिना भवन्तीति काशकृत्स्नीयमेव मतं सूत्रकारः स्वीकृतवान् । अयमत्र वाक्यार्थः,-

1.4.22

 

अमृतत्वोपाये मैत्रेय्या पृष्टे याज्ञवल्क्यः "आत्मा वा अरे द्रष्टव्यः" इत्यादिना परमात्मोपासनममृतत्वोपायमुक्तवा "आत्मनि स्वल्वरे दृ#ेष्टे" इत्यादिना उपास्यलक्षणं दुन्दुभ्यादिदृष्टान्तैश्चोपासनोप करणभूतमनः प्रभृतिकरणनिय-

1.4.22

 

सामान्येनाभिधाय "स यथाऽऽर्द्रैधाग्नेः" इत्यादिना "स यथा सर्वासामपां समुद्र एकायनम् " इत्यादिना चोपास्यभूतस्य परस्य ब्रह्मणो निखिलजगदेककारणत्वं सकलविषयप्रवृत्तिमूलकरणग्रामनियमनञ्च विस्तीर्ण

1.4.22

 

मुपदिश्य "स यथा सैन्धवघनः" इत्यादिनाऽमृतत्वोपायप्रवृत्तिप्रोत्साहनाय जीवात्मस्वरूपेणावस्थितस्य पर-मात्मनोऽपरिच्छिन्नज्ञानैकाकारतामुपपाद्य तस्यैवापरिच्छिन्नज्ञानैकाकारस्य संसारदशायां भूतपरिणामानुवअतिं्त "विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनस्यति" इत्यभिधाय "न प्रेत्य संज्ञास्ति" इति मोक्षदशायां स्वाभाविकापरिच्छिन्नज्ञानसङ्कोचाभावेन भूतसङ्घातैनैकीकृत्यात्मनि देवादिरूपज्ञानाभावमुक्तवा पुनरपि "यत्र

1.4.22

 

हि द्वैतमिव भवति" इत्यादिना अब्रह्मात्मकत्वेन नानाभूतवस्तुदर्शनमज्ञानकृतमिति निरस्तनिखिलाज्ञानस्य ब्रह्मात्मकं कृत्स्नं जगदनुभवतो ब्रह्मव्यतिरिक्तवस्त्वन्तराभावेन भेददशर्नं निरस्य "येनेदं सर्वं विजानाति तं केन विजानीयात् " इति च जीवात्मा स्वात्मतयाऽवस्थितेन येन परमात्मना आहितज्ञानस्सन् इदं सर्वं विजानाति अयं तं केन विजानीयात् , न केनापीति परमात्मनो दुरवगमत्वमुपपाद्य "स एष नेति नेति" इत्यादिना अयं

1.4.22

 

सर्वेश्वरः स्वेतरसमस्तचिदचिद्वस्तुविलक्षक्षरूप एव सर्वशरीरस्सर्वात्मतयाऽवस्थित इति स्वशरीरभूतचिदचिद्व-स्तुगतैर्दोषैनर् संस्पृश्तय इत्यभिधाय "विज्ञादारमरे केन विजानीयादित्युक्तानुशासनासि मैत्रेय्येतावदरे खल्वमृ-तत्वम्" इति समस्तवस्तुविसजातीयं निरस्तनिखिलजगदेककारणभूतं सर्वस्य विज्ञातारं पुरुषोत्तममुक्तप्रकारा-दुपासनादृते केन विजानीयादितीदमेवोपासनममृतत्वोपायः, ब्रह्मप्राप्तिरेव चामृतत्वमभिधीयते इत्युक्तत्वान् ।

1.4.22

 

अतः परं ब्रह्मैवास्मिन् वाक्ये प्रतिपद्यत इति परमेव ब्रह्म जगत्कारणम् , न पुरुषः तदधिष्ठिता च प्रकृतिरिति स्थितम् ।। ।।वाक्यान्वयाधिकरणं समाप्तम् ।।

1.4.23 प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ।। 23 ।।

1.4.23

 

एवं निरीश्वरसाङ्खये निरस्ते सति सेश्वरसाङ्खयः प्रत्यवतिष्ठत #े- यद्यपि ईक्षणादिगुणयो-

1.4.23

 

गात्सर्वज्ञमीश्वरं जगत्कारणत्वेन वेदान्ताः प्रतिपादयन्ति; तथापि वेदान्तैरेव जगदुपादानतया प्रधानमेव प्रति-पाद्यत इति प्रतीयते । नहि वेदान्ताः सर्वज्ञस्यापरिणामिनोऽधिष्ठातुरीश्वरस्याधिष्ठेयेनाचेतनेन परिणामिना प्रधानेन विना जगतः कारणत्वमवगमयन्ति । तथा ह्यपरिणामिनमेवैनं प्रकृतिं चैतदधिष्ठितां परिणामिनी-मधीयते " निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्" "स वा एष महानज आत्माऽजरोऽमरः" विकारजन-नीमज्ञामष्टरूपामजां ध्रुवाम्" ध्यायतेऽध्यासिता तेन तन्यते प्रेर्य्यते पुनः। सूयते पुरुषार्थं च तेनैवाधिष्ठिता जगत्" "गौरनाद्यन्तवती सा जनित्री भूतभाविनी" इति । तथा प्रकृतिमुपादान भूतामधिष्ठायैवेश्वरो विश्वं जगत्सृजतीति

श्रूयते "अस्मान्मायी सृजते विश्वमेतत्" "मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्" इति । स्मृतिरपि "मयाऽ-ध्यक्षेण प्रकृतिः सूयते सचराचरम्" इति । एवमश्रुतेऽपि प्रधानोपादानत्वे ब्रह्मणो जगत्कारणत्वश्रुत्यन्यथानु-पपत्त्यैव प्रधानस्वरूपं तस्येश्वराधिष्ठितस्य जगदुपादानत्वं च सिध्यति । एवमेव हि लोके निमित्तोपादानयो-रत्यन्तभेदो दृश्यते । मृत्सुवर्णादेरचेतनस्य घटकटकाद्युपादानत्वं चेतनस्य कुलालसुवर्णकारादेर्निमित्तत्वं च

1.4.23

 

नियतमुपलभ्यते । कार्यनिष्पत्तिश्च नियमेन अनेककारकसव्यपेक्षा दृष्टा । एवं निमित्तोपादानयोः र्भेदनियमं कार्यनिष्पत्तेः अनेककारकसव्यपेक्षत्वनियमञ्चातिक्रम्य एकमेव ब्रह्मोपादानं निमित्तञ्च प्रतिपादयितुं न प्रभवन्ति वेदान्तवाक्यानि । अतः ब्रह्म निमित्तकारणमेव, नोपादानम् । उपादानं तु तदधिष्ठितं प्रधानमेवेति । एवं प्राप्ते अभिधीयते - प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधादिति । प्रकृतिश्च - उपादानञ्च । न निमित्तकारणमात्रं ब्रह्म, उपादानकारणञ्च ब्रह्मैवेत्यर्थः। कुतः ? प्रतिज्ञादृष्टान्तानुपरोधात् । एवमेव हि प्रतिज्ञादृष्टान्तौ नोपरुध्येते । प्रतिज्ञा तावत् "स्तव्धोऽस्युत तमादेशमप्राक्ष्यः येनाश्रुतं श्रुतं भवति अमतं मतं, अविज्ञानं विज्ञातम्" इत्येकविज्ञानेन सर्वविज्ञानविषया । दृष्टान्तश्च "यथा सोम्यैकेन लोहमणिना" "यथा सौम्यैकेन नखकृन्तनेन" इति कारण

विज्ञानात् कार्यविज्ञानविषयः । यदि निमित्तकारणमेव जगतो ब्रह्म, तदा तद्विज्ञानान्न समस्तं जगद्विज्ञातं

स्यात् । न हि कुलालादि-विज्ञानेन घटादिर्विज्ञायते; अतः प्रतिज्ञादृष्टान्तयोर्बाध एव । ब्रह्मण एवोपादानत्वे

1.4.23

 

उपादानभूतमृत्पिण्डलोहमणिनखनिकृन्तनविज्ञानेन घटमणिककटकमुकुटवासीपरश्वधादिवत्कार्यविज्ञान-वन्निखिलजगदुपादानभूते ब्रह्मणि विज्ञाते तत्कार्यं निखिलं जगद्विज्ञातं स्यात् । कारणमेवावस्थान्तरापन्नं कार्यं, न द्रव्यान्तरमिति कार्यकारणरूपेरावस्थितमृत्तद्विकारादिनिदर्शनेन प्रतिज्ञासमर्थनात् ब्रह्मैव जगदु- पादानं चेति निश्चीयते । यत्तु निमित्तोपादानयोर्भेदः श्रुत्यैव प्रतीयत इति तदसत्; निमित्तोपादानयोरैक्य- प्रतीतेः "उत तमादेशमप्राक्ष्यः येनाश्रुतं श्रुतं भवति" इति । आदिश्यते प्रशिष्यतेऽनेनेत्यादेशः, "एतस्य वा अक्षरस्य प्रशासने गार्गि" इत्यादिश्रुतेः । साधकतमत्वेन कर्त्ता विवक्षितः । तमादेष्टारमप्राक्ष्यः, येनाश्रुतं श्रुतं भवति येनादेष्ट्रा अधिष्ठात्रा श्रुतेनाऽश्रुतमपि श्रुतं भवतीति निमित्तोपादानयोरैक्यं प्रतीयते, "सदेव सोम्ये- दमग्र आसीदेकमेव" इति प्राक् सृष्टेरेकत्वावधारणादद्वितीयपदेनाधिष्ठात्रन्तरनिवारणाच्च । नन्वेवं सति "विकारजननीम्" गौरनाद्यन्तवती" इत्यादिभिः प्रकृतेयाद्यन्तविरहेण नित्यत्वं जगदुपादानत्वं च श्रूयमाणं

1.4.24 अभिध्योपदेशाच्च ।। 24 ।।

1.4.24

 

इतश्चोभयं ब्रह्मैव "सोऽकामयत बहुस्यां प्रजायेयेति " "तदैक्षत बहु स्यां प्रजायेय" इति स्रष्टुर्ब्रह्मणः स्वस्यैव बहु-भवनसङ्कल्पोपदेशात् । विचित्रचिदचिद्रूपेणाहमेव बहु स्यां तथा प्रजायेयेति सङ्कल्पपूर्विका हि सृष्टिरुपदिश्यते ।।

1.4.25 साक्षाच्चोभयाम्नानात् ।। 25 ।।

1.4.25

 

न केवलं प्रतिज्ञादृष्टान्ताभिध्योपदेशादिभिरयमर्थो निश्चीयते, ब्रह्मण एव निमित्तत्वमुपादानत्वञ्च साक्षादाम्नायते "किंस्विद्वनं क उ स वृक्ष आसीद्यतोद्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा पृच्छतेदुतद्यदध्यतिष्ठद्भुवनानि धारयन् । ब्रह्म वनं ब्रह्म स वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा विब्रवीमि वो ब्रह्माध्य

1.4.26 आत्मकृतेः ।। 26 ।।

1.4.26

 

"सोऽकामयत बहु स्यां प्रजायेय" इति सिसृक्षुत्वेन प्रकृतस्य ब्रह्मणः "तदात्मानं स्वयमकुरुत" इति सृष्टेः कर्मत्वं कर्तृत्वञ्च प्रतीयत इत्यात्मन एव बहुत्वकरणात्तस्यैव निमित्तत्वमुपादानत्वञ्च प्रतीयते । अविभक्तनामरूप आत्मा कर्त्ता, स एव विभक्तनामरूपः कार्यमिति कर्तृत्वकर्मत्वयोर्न विरोधः । स्वयमेवात्मानं तथाऽकुरुतेति निमित्तमुपादानऽञ्च ।। 26 ।।

"सत्यं ज्ञानमनन्तं ब्रह्म" "आनन्दो ब्रह्म" "अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः" "निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्" " स वा एष महानज आत्माऽजरोऽमरः" इति स्वभावतो निरस्त-समस्तचेतनाचेतनवत्तिर्दोषगन्धस्यनिरतिशयज्ञानानन्दैकतानस्य परस्य ब्रह्मणो विचित्रानन्तापुरुषार्थास्पद -

1.4.27 परिणामात् ।। 27 ।।

1.4.27

 

परिणामस्वाभाव्यात्; नात्रोपदिश्यमानस्य परिणामस्य परस्मिन् ब्रह्मणि दोपावहत्वं स्वभावः, प्रत्युतनिर-ङ्कुशैश्वर्यावहत्वमेवेत्यभिप्रायः । एवमेव हि परिणाम उपदिश्यते; अशेषहेयप्रत्यनीककल्याणैकतानं स्वेतरस-मस्तवस्तुविलक्षणं सर्वज्ञं सत्सङ्कल्पमवाप्तसमस्तककाममनवधिकातिशयानन्दं स्वलीलोपकरणभूतसमस्त-चिदचिद्वस्तुजातशरीरतया तदात्मभूतं परं ब्रह्म स्वशरीरभूते प्रपञ्चे तन्मात्राहङ्कारादिकारणपरम्परया तमश्-शब्दवाच्यातिसूक्ष्माचिद्वस्त्वेकशेषे सति, तमसि च स्वशरीरतयापि पृथङ्#िनर्देशानर्हातिसूक्ष्मदशापत्त्या स्वस्मिन्नेकतामापन्ने सति तथाभूततमश्शरीरं ब्रह्म पूर्ववद्विभक्तनामरूपचिदचिन्मिश्रप्रपञ्चशरीरं स्यामिति सङ्कल्प्याप्ययक्रमेण जगच्छरीरतया आत्मानं परिणमयतीति सर्वेषु वेदान्तेषु परिणामोपदेशः । तथैव बृहदारण्यके कृत्स्नस्य जगतो ब्रह्मशरीरत्वं ब्रह्मणस्तदात्मत्वं चाम्नायते "यःपृथिव्यां तिष्ठन्पृथिव्या अन्तरो

1.4.27

 

यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः" इत्यारभ्य "यस्या-पश्शरीरम्" "यस्याग्निश्शरीरम्" "यस्यान्तरिक्षं शरीरम्" "यस्य वायुः शरीरम्" "यस्य द्यौः शरीरम्" "यस्या-दित्यः शरीरम्" "यस्य दिशः शरीरम्" "यस्य चन्द्रतारकं शरीरम्" "यस्याकाशः शरीरम्" "यस्य तमः शरीरम्" "यस्य तेजः शरीरम्" "यस्य सर्वाणि भूतानि शरीरम्" "यस्य प्राणः शरीरम्" "यस्य वाक् शरीरम्" "यस्य चक्षुः शरीरम्" "यस्य श्रोत्रं शरीरम्" "यस्य मनः शरीरम्" "यस्य त्वक् शरीरम्" "यस्य विज्ञानं शरीरम्" "यस्य रेतः शरीरम्" इत्येवमन्तेन काण्वपाठे; माध्यदिने तु पाठे विज्ञानस्य स्थाने "यस्यात्मा शरीरम्" इति विशेषः । लोकयज्ञवेदानां परमात्मशरीरत्वमधिकम् । सुबालोपनिषदि च पृथिव्यादानां तत्त्वानां परमात्मशरीरत्वमभि-धाय वाजसनेयकेऽनुक्तानामपि तत्त्वानां शरीरत्यं ब्रह्मण आत्मत्वञ्च श्रूयते "यस्य बुद्धिः शरीरम्" "यस्याह-ङ्कारः शरीरम्" "यस्य चित्त शरीरम्" "यस्याव्यक्तं शरीरम्" "यस्याक्षरं शरीरम्" "यो मृत्युमन्तरे सञ्चरन् यस्य मृत्युः शरीरं यं मृत्युर्न वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः" इति । अत्र मृत्युशब्देन परमसूक्ष्ममचिद्वस्तुतमश्शब्दवाच्यमभिधीयते, "अव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते" इति तस्यामेवोप-निषदि क्रमप्रत्यभिज्ञानात् । सर्वेषामात्मनां ज्ञानावरणानर्थमूलत्वेन तदेव हि तमो मृत्युशब्दव्यपदेश्यम् । सुबालोपनिषद्येव ब्रह्मशरीरतया तदात्मकानां तत्त्वानां ब्रह्मण्येव प्रलय आम्नायते "पृथिव्यप्सु प्रलीयते आप-स्तेजसि लीयन्ते तेजो वायौ लीयते वायुराकाशे लीयते आकाशमिन्द्रियेष्विन्द्रियाणि तन्मात्रेषु तन्मात्राणि

1.4.27

 

भूतादौ लीयन्ते भूतादिर्महति लीयते महानव्यक्ते लीयते अव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते तमः परे देव एकीभवति" इति । अविभागापत्तिदशायामपि चिदचिद्वस्त्वतिसूक्ष्मं सकमर्संस्कारं तिष्ठतीत्त्युत्तरत्र वक्ष्यते "न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च" इति । एवं स्वस्माद्विभागव्यपदेशानर्हतया परमा-त्मनैकीभूतात्यन्तसूक्ष्मचिदचिद्वस्तुशरीरादेकस्मादेवाद्वितीयान्निरतिशयानन्दात्सर्वज्ञात्सत्यङ्कल्पाद्ब्रह्मणो नाम-रूपविभागार्हस्थूलचिदचिद्वस्तुशरीरतया बहुभवनसङ्कल्पपूर्वको जगदाकारेण परिणामः श्रूयते । "सत्यं ज्ञानम-नन्तं ब्रह्म" "तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तरात्माऽऽनन्दमयः" "एष ह्येवानन्दयाति" "सोऽकामयत बहु स्यां प्रजायेयेति स तपोऽतप्यत स तपस्तप्त्वा इदं सर्वमसृजत यदिदं किञ्च तत्सृष्ट्वा तदेवानुप्राविशत् तदनु-प्रविश्य सच्च त्यच्चाभवत् निरुक्तं चानिरुक्तं च निलयनं चानिलयनं च विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यमभवत्" इति । अत्र तपश्शब्देन प्राचीनजगदाकारपर्यालोचनरूपं ज्ञानमभिधीयते "यस्य ज्ञानमयं तपः" इत्यादिश्रुतेः । प्राक्सृष्टं जगत्संस्थानमालोच्येदीनामपि तत्संस्थानं जगदसृजदित्यर्थः । तथैव हि ब्रह्म सर्वेषु

1.4.27

 

कल्पेष्वेकरूपमेव जगत्सृजति "सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् दिवं च पृथिवीं चान्तरिक्षमथो सुवः" "यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु" इति श्रुतिस्मृतिभ्यः । तदयमर्थः - स्वयमपरिच्छिन्नज्ञानानन्दस्वभावोऽत्यन्तसूक्ष्मतयाऽसत्कल्पस्वलीलोपकरणचिदचिद्वस्तुशरीरतया तन्मयः परमात्मा विचित्रानन्तक्रीडनकोपादित्सया स्वशरीरभूतप्रकृतिपुरुषसमष्टिपरंपरया महाभूतपर्यन्तमा-त्मानं तत्तच्छरीरकं परिणमय्य तन्मयः पुनस्सत्त्यच्छब्दवाच्यविचित्रचिदचिन्मिश्रदेवादिस्थावरान्तजगद्रूपो-ऽभवत् इति । "तदेवानुप्राविशत् तदनुप्रविश्य" इति कारणावस्थायामात्मतयावस्थितः परमात्मैव कायर्रूपेण विक्रियमाणद्रव्यस्याप्यात्मतयाऽवस्थाय तत्तदभवदित्युच्यते । एवं परमात्मचिदचित्सङ्घातरूपजगदाकार-परिणामे परमात्मशरीरभूतचिदंशगतास्सर्व एवापुरुषार्थः, तथाभूताचिदंशगताश्च सर्वे विकाराः, परमात्मनि

1.4.27

 

कार्यत्वम् ; तदवस्थयोस्तयोर्नियन्तृतयात्मभूतस्तद्गतापुरुषार्थैर्विकारैश्च न स्पृश्यते; अपरिच्छिन्नज्ञानानन्दमय-स्सर्वदैकरूप एव जगत्परिवर्तनलीलयाऽवतिष्ठते । तदेतदाह "सत्यं चानृतञ्च सत्यमभवत्" इति । विचित्रचिद-चिद्रूपेण विक्रियमाणमपि ब्रह्म सत्यमेवाभवत् , निरस्तनिखिलदोषगन्धमपच्छिन्नज्ञानानन्दमेकरूपमेवाभव-दित्यर्थः । सर्वाणि चिदचिद्वस्तूनि सूक्ष्मदशापन्नानि स्थूलदशापन्नानि च परस्य ब्रह्मणो लीलोपकरणानि, सृष्टयादयश्च लीलेति भगवद्वैपायनपराशरादिभिरुक्तम् "अव्यक्तादिविशेषान्त परिणामर्द्धिसंयुतम् । क्रीडा हरेरिदं सर्वं क्षरमित्युपधार्यताम्" क्रीडतो बालकस्येव चेष्टां तस्य निशामय" "बालः क्रीडनकहरिव" इत्यादिभिः । वक्ष्यति च "लोकवत्तु लीलाकैवल्यम्" इति । "अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः" इति ब्रह्माणि जगद्रूपतया विक्रियमाणेऽपि तत्प्रकारभूताचिदंशगतास्सर्वे विकारास्तत्प्रकारभूतक्षेत्रज्ञगताश्चापुरुषार्था इति विवेक्तू#ु#ं प्रकृतिपुरुषयोर्ब्रह्मशरीरभूतयोस्तदानीं तथा निर्देशानर्हातिसूक्ष्मदशापत्त्या ब्रह्मणैकीभूतयोरपि भेदेन व्यपदेशः, "तदात्मानं स्वयमकुरुत" इत्यादिभिरैकार्थ्यात् । तथा च मानवं वचः "सोऽभिध्याय शरीरात्स्वात्सि-

1.4.27

 

सृक्षुर्विविधाः प्रजाः । अप एव ससर्ज्जादौ तासु वीर्यमपासृजत्" इति अत एव ब्रह्मणो निर्दोषत्वनिर्विकारत्वश्रु-तयश्चोपपन्नाः, अतो ब्रह्मैव जगतो निमित्तमुपादानञ्च ।। 27 ।।

1.4.28 योनिश्च हि गीयते ।। 28 ।।

1.4.28

 

इतश्च जगतो निमित्तमुपादानञ्च ब्रह्म यस्माद्योनित्वेनाप्यभिधीयते "कत्तारमीशं पुरुषं ब्रह्मयोनिम्" इति; "यद्भूतयोनिं परिपश्यन्ति धीराः" इति च । योनिशब्दश्चोपादानवाचक इति "यथोर्णनाभिः सृजते गृह्यते च" इति वाक्यशेषादवगम्यते ।। 28 ।।

1.4.29

 

एतेन-पादचतुष्टयोक्तन्यायकलापेन । सर्ववेदान्तेषु जगत्कारणप्रतिपादनपराः सर्वे वाक्यविशेषाश्चेतनाचेतनविलक्षणसर्वज्ञसर्वशक्तिब्रह्मप्रतिपादनपरा व्याख्याताः ।

1.4.29

 

भवत् ब्राह्मणो मनुष्येषु" इति निर्देशेन ब्राह्मणवर्णस्याग्निसम्बन्धप्रतिपत्तेश्चेति । तदेत् त्रयमनुपपन्नम् सदेव सोम्यैदमग्र आसी"दित्यादिवाक्यसारूप्यभङ्गायोगात्कारणत्वस्य परमात्मासाधारण्यस्य समर्थितत्वाच्च । किञ्च उपक्रमस्थब्रह्म-शब्दमुख्यार्थहानिप्रसङ्गः, वर्णमात्रस्य अग्निसंज्ञदेवतायास्तदधिष्ठितवर्णस्य च इन्द्रवरुणसोमादिसमस्तदेवतास्रष्टृत्वा-योगश्च । "ब्राह्मणोऽस्य मुखमासीत् पद्य्भां शूद्रः "मुखादिन्द्रश्रचाग्निश्चे"ति ब्राह्मणस्येन्द्रोदेरग्नेश्च परमपुरुषसृष्टत्वश्रव-णेन इन्द्रदीनामग्निसृष्टत्वायोगश्च । अस्याः श्रुतेर्गत्यन्तरसम्भवेन कल्पभेदेन सृष्टिभेदपरत्वकल्पनञ्चानुपपन्नम् "तद-ग्निनैव देवेषु ब्रह्माभवत् ब्राह्मणो मनुष्ये"ष्विति तच्छब्दपरामृष्टप्रकृतब्रह्मणोऽग्निब्राह्मणान्यत्वं च प्रतीयते, "तस्माद-ग्नावेव देवेषु लोकमिच्छन्दो ब्राह्मणो मनुष्येष्वेताभ्यां हि रूपाभ्यां ब्रह्माभवदित्यग्निब्राह्मणयोर्वैयधिकरण्येन ब्रह्मरू-पत्वनिर्देशेन ताभ्यां रूपिणो ब्रह्मणो विलक्षणत्वं च प्रतीतम्; एवमिन्द्रादिस्रष्टृत्वात् पृथग्व्यपदेशाच्च ब्रह्मशब्दस्य अग्न्यवस्थब्रह्मपरत्वञ्च व्युदस्तम् । नह्यग्निरूपाद्ब्रह्मण इन्द्राद्युत्पत्तिः, अतोऽग्निविशिष्टत्वोपस्थापनकल्पनवैयर्थ्यम् । अशाब्दत्वञ्च, न हि केवलब्रह्मशब्दोऽग्न्वस्थपरमात्मवाची । प्रथमब्रह्मशब्दोऽग्न्यवस्थब्रह्मपरश्चेत् "तदग्निनैवे"तिप्रकृत-परामर्शिनस्तच्छब्दस्य वैयधिकरण्यमनुपपन्नम् । अग्न्यवस्थस्य ब्रह्मणोऽग्निना विशिष्टत्वं चायुक्तम्, एकस्यैवाग्नेर्वि-शेषणत्वानुपपत्तेः, अग्न्यन्तरकल्पने च तस्याऽग्न्यन्तरं प्रति रूपत्वानुपपत्तेश्च । नन्विन्द्रादिसृष्टिरविवक्षिता, तद्विव-क्षायां ह्यग्निब्राह्मणपरत्वानुपपत्तिः, किन्तु तद्देवताधिष्ठेयक्षत्रादिसृष्टिरेव विवक्षिता "तदग्निनैव देवेषु ब्रह्माभवत् ब्राह्मणो मनुष्येषु एताभ्यां हि रूपाभ्यां ब्रह्माभव"दिति च वाक्यद्वयं ब्राह्मवर्णस्यैव देवमनुष्यविभागेन द्वैविध्यपरमिति । उच्यते; न तावदिन्द्रदिसृष्टयविवक्षा वाच्या "तदेतद्ब्रह्म क्षत्रं विट्छूद्र" इति चातुर्वर्ण्यनिगमने, कथं चातुर्वर्ण्यम् ? क्षत्रादिवर्णत्रयसृष्टिर्ह्युक्तेत्यपेक्षायां "तदग्निनैव देवेषु चतुस्सङ्खयापूरणात् अग्निश्च मृत्युसञ्ज्ञसूक्ष्माचिच्छरीरकपरमा-त्मसृष्टतया प्रागुक्तः, "तस्य श्रान्तस्य तप्तस्य तेजो रसो निरवर्त्तताग्नि"रिति । श्रान्तशब्दः कारणलक्षणया यत्नपरः, कृतसङ्कल्पस्येत्यर्थः । तप्तस्य- "तप आलोचने" सृज्यवर्गपर्यालोचनवत इत्यर्थः । एवं तत्राग्निरेव सृष्टतया श्रुतः, न तु तदधिष्ठितो ब्राह्मणवर्णः । इहापि तेन चतुस्सङ्खयापूरणादग्रयप्रायन्यायेन क्षत्रादिविभागवत्तदभिमानीन्द्रदिसृष्टिर्वि-वक्षितेत्यवगम्यते, न तु तदधिष्ठितवर्णमात्रसृष्ठिः । "तदग्निनैव देवेषु ब्रह्माभवत् ब्राह्मणो मनुष्येषु" इत्युक्तिः पूर्वं ब्राह्म-णवर्णस्य ब्रह्मशब्दानुक्ततां ज्ञापयति, पूर्वोक्तानामिन्द्रक्षत्रियादीनामनया वचनव्यक्तया पुनरनुक्तत्वात् । न हि क्षत्रवर्णो देवेष्विन्द्रेण क्षत्रमभवत् मनुष्येषु क्षत्रियेणेति वाक्यं श्रूयते, अत एवाग्नेरपि ब्रह्मशब्दानुक्तत्वं सिद्धम् । न हीन्द्रो देवे-ष्विन्द्ररूपेण क्षत्रमभवन्मनुष्येषु क्षत्रियेणेति वाक्यमस्ति । ननु "क्षत्रियेण क्षत्रियो वैश्येन वैश्यः शूद्रेण शूद्रः" इति श्रूयत इति चेत्, ततः किम्? वर्णान्तरेष्वपि द्वैविध्यं प्रतीयत इति चेन्न, तदग्निनैवेत्यादिवाक्यवैरूप्यात् । न हि क्षत्रवर्णो देवेष्विन्द्रादिरूपेण क्षत्रियोऽभूत् मनुष्येषु क्षत्रियेणेति श्रुतम्, तथापि वर्णान्तरद्वैविध्यपरत्वेऽध्याहारबाहु-ल्यप्रसङ्गः, तर्हि अस्याः श्रुतेः कोऽर्थः? उच्यते; ब्राह्मणाभिमान्यग्निसृष्टेः पूर्वमुक्तत्वात् क्षत्राद्यभिमानीन्द्रादिसृष्टि-मिहोक्तवा अग्निसृष्टिः स्मारिता तदग्निनैवेति वाक्येन; अग्निनेतीत्थम्भावे तृतीया । अग्निना विशिष्टं तत्परं ब्रह्म देवेषु ब्रह्माभवत्, अग्निद्वारा ब्राह्मणाभिमान्यभवदित्यर्थः । अनेन इन्द्रादिद्वारा परब्रह्मण एव क्षत्राद्यभिमानित्वमित्यर्थ-सिद्धम्, वर्णाभिमानिदेवतानाञ्च तपोविशेषात् ब्राह्मण्यादिविभागोऽस्तीति वा ब्राह्मक्षत्रादिव्यवहारः "ब्रह्मा बृह-स्पतिः क्षत्रमिन्द्रः मरुतो वै देवानां विशः" इत्यादिश्रुतेः । तदानीमग्न्यादिद्वारा परब्रह्मण एव ब्राह्मणत्वादिविभागः उक्तः स्यात्, "बहु स्या"मिति सर्वविधबहुत्वं हि तत्तद्द्वारा ब्रह्मगतम्, एवं वर्णाभिमानिदेवतासृष्टिरुक्ता । अथाभि-मानविषयभूतब्राह्मणादिसृष्टिं "ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यः कृतः" इत्यादिश्रुतिप्रसिद्धामुपजीव्य तद्द्वारा तत्फलभूतमानुषवर्णविभागगाक्तवं परमात्मन उच्यते ब्राह्मणो मनुष्येष्विति । तत्परं ब्रह्म मनुष्येषु ब्राह्मणरूपभाक्-

तद्द्वारा ब्रह्माभवत्, क्षत्रियेण विशिष्टं सत्तद्ब्रह्म तद्द्वारा क्षत्रियत्ववदभूत्, यथा भूमिद्वारा काठिन्यवदभूत्तद्वदित्यर्थः । श्रुतपदानुषङ्गेण निर्वाहे सम्भवति वाक्याध्याहारेण योजनानुपपत्तेः, मध्येऽग्निर्ब्राह्मणयोः प्रशंसा "तस्मादग्नावेव देवेषु लोकमिच्छन्दो ब्राह्मणो मनुष्ये"ष्विति । तत्प्राशस्त्यहेतुमाह- एताभ्यां हि रूपाभ्यां ब्रह्माभवदिति । अग्निब्राह्मणरू-पाभ्यां परं ब्रह्म विशिष्टमभवदित्यर्थः । इन्द्रक्षत्रादीनां च परमात्मरूपत्वाविशेषेऽपि अग्निर्ब्राह्मणयोस्तद्रूपत्वकथनं तत्प्रशंसाया विवक्षितत्वात्, एताभ्यां हीत्यादिवाक्यस्य वर्णद्वैविध्यपरत्वं प्रयोजनाभावादयुक्तम् । न हि वर्णद्वैविध्य-मात्रकथनमुत्कर्षाय भवति, इदञ्च वाक्यमुत्कर्षोपपादकमिति हिशब्देन ज्ञायते, ब्रह्मशब्दार्थवैरूप्यं तु "तपसा चीयते ब्रह्म" "तस्मादेतद्ब्रह्म" इति मुण्डोपनिषदीव घटते । मुख्यार्थासम्भवे लाक्षणिकार्थस्वीकारस्य तत्सम्भवेप्यमुख्यार्थ-स्वीकारहेतुत्वाभावात्; वक्ष्यते हि "स्याच्चैकस्य ब्रह्मशब्दवदिति । पूर्वपक्षहेतेषु क्षत्रविट्छूद्रसृष्टयुक्तेरन्यथासिद्धिरुक्ता, किञ्च क्षत्रादिवर्णत्रयसृष्टिश्रवणेन "ब्रह्म वा इद"मितिवाक्यस्य कारणवाक्यसारूप्यनिबन्धनं परमात्मपरत्वं भङ्क्तवा ब्रह्मशब्दस्य प्रथमवर्णतदभिमानिदेवताविषयत्वाश्रयणमयुक्तम्, "सदेवे"त्यादिवाक्येऽपि तेजोऽबन्नसृष्टेर्वक्ष्यमाणत्वेन सच्छब्दस्याऽपि वायुतदभिमानिदेवताविषयत्वप्रसङ्गात् । "स विशमसृजते"ति पुल्लिङ्गनिर्देशस्त्वात्मशब्दाभिप्रायः,

1.4.29

 

एतद्ब्राह्मणोपक्रमे हि "आत्मैवेदमग्र आसी"दिति श्रूयते; अतस्स इति निर्देशो न क्षत्रप्रशंसार्थः प्रस्तुतब्राह्मणशब्दा-भिप्रायः, व्यवहितशब्दानुगुणलिङ्गभाक्तवं सर्वनामपदस्य श्रुतिषु दृश्यते, यथा मुण्डोपनिषदि "यस्सर्वज्ञस्सर्ववित् यस्यैष मविमा भुवि । दिव्ये ब्रह्मपुरे ह्येष व्योमन्यात्मा प्रतिष्ठितः । मनोन्मयः प्राणशरीरनेता प्रतिष्ठितोऽन्तहर्हृदयं सन्निधाय । तद्विज्ञानेन परिपश्यन्ति धीराः आनन्दरूपममृतं यद्विभाति" इति । अत्रात्मशब्दे सन्निहितोऽपि ब्रह्म, तल्लक्षणमुच्यत इति व्यवहितब्रह्मशब्दाभिप्रायेणामृतं यत्तदिति निर्दिश्यते, न तु "स त आत्माऽन्तर्याभ्यमृतः" इति-वत्पुल्लिभ्गत्वेन । नन्वस्मिन्नेव ब्राह्मणे "तदाहुर्यद्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते किमु तद्ब्रह्मावैत् यस्मात् सर्वमभव"दिति पृष्ट्वा तदात्मानमेवावैदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्तद्यो देवानां प्रत्यबुध्यत स एव तदभवत्तथ-र्षीणां तथा मनुष्याणा"मिति ब्रह्मशब्दवाच्यस्य अविद्यातिरोहितस्य अहं ब्रह्मास्मीतिज्ञानेनसर्वात्मभावापत्तिश्रवणात् परब्रह्मणोऽविद्यातिरोधनासम्भवात् ब्राह्मणादिषु तत्सम्भवादुपक्रमस्थब्रह्मशब्दो ब्राह्मणवर्णपर इत्यत्रापि तदनुरोधेन ब्राह्मणवणर्परत्वं ब्रह्मशब्दस्योपपन्नमिति नैवम्; उपक्रमेऽपि ब्रह्मशब्दस्य परमात्मपरत्वात्तत्र च नाविद्यातिरोधानं श्रूयते, तद्वाचकशब्दाभावात्; तथा हि, ब्रह्मविद्यया सर्वं भविष्यन्तः, सवर्शब्दवाच्यपरमात्मपर्यन्ताविर्भावकामाः, मनुष्या मन्यन्ते किमु तद्ब्रह्मावैत् यस्मात्तत्सर्वमभवदिति, तद्ब्रह्म किं वेद्यं वस्त्वन्तरमवैत् यस्माद्वेदनात् तत्सर्वमभ-वदिति ब्रह्मणोऽपि परं तदुपास्यं वस्त्वस्ति न वेति बुभुत्सोत्थापिता । उपास्यान्तरशून्यमित्युत्तरमाह-तदात्मानमेवा-वैदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवदिति । आत्मानमेवावैत्-न त्वन्यदुपास्यम्, तस्मात्तत्सर्वमभवदित्यर्थः । अन्य-वेदनस्योपायतानिषेधे तात्पर्यम्, न तु स्ववेदनस्योपायत्वविधाने । यथा "स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता नचाधिपः" इति कारणान्तरनिषेधेन परमकारणत्वसिद्धिः, एवमुपास्यान्तरनिषेधेन ब्रह्मणः परमोपास्य-त्वमिह विवक्षितम् । कारणान्तराभावफलमुपास्यान्तराभावः, कारणस्यैव हि ध्येयत्वम्, एवमुपास्यान्तरशून्यं ब्रह्म जानतः फलमाह "तद्योय" इति । अतः उपक्रमैकार्थ्यं च परमात्मपरत्वसाधकम्; तस्मात् "ब्रह्म वा इदमग्र आसीदेक-मेवे"त्यादिवाक्यस्य परमपुरुषस्य परत्वं सिद्धम् । तथा बृहदारण्यक एव "आत्मैवेदमग्र आसीत्पुरुषविधः सोऽन्वीक्ष-न्नन्यदात्मनोऽपश्यत्" इत्यादि श्रूयते, इहात्मशब्दादीक्षणाच्च चेतनस्य प्रतिपाद्यत्वेऽपि न स परमात्मा, स हि निरति-शयानन्दः, इह च सोऽभिभेत्तस्मादेकाकी ह बिभेति स सहायमीक्षाञ्चक्रे इति भयान्वयोऽवगतः, परमात्मा हि न भयाश्रयः "भीषास्माद्वातः पवते" इत्यादि श्रुतेरिति । उच्यते; अयं परमात्मा, कारणवाक्यसारूप्यादस्य वाक्यस्य, अग्र आसीदिति कारणवाक्यत्वं हि प्रतीयते । अस्यात्मनः पुरुषविधत्वं चानन्दमयत्वं ज्ञापयति "आत्मन आकाशः सम्भूतः" इत्युपक्रम्य "अन्योऽन्तर आत्मानन्दमयः" इत्युक्तवा तस्य पुरुषविधत्वप्रतिपादनात् "स यत्पूर्वोऽस्मात्सर्व-स्मात्सर्वान् पाप्मन ओषत् तस्मात्पुरुषः" इति सर्वपाप्मप्रदाहकत्वपुरुषशब्दवाच्यत्वावगमाच्च पर एव भयान्वयस्तु न परमात्मनः, किन्तु तत्कार्यभूतपुरुषस्य, "सोऽहमस्मीत्यग्रे व्याहरत्तरोऽहं नामाभव"दिति तत्रैव ह्युक्तम् । अहमिति हिरण्यगर्भनाम अहमभिमानाश्रयव्यष्टिपुरुषाणां प्रथमत्वाद्धिरण्यगर्भस्य, तथा मोक्षधर्मे च चतुर्मुखास्याहङ्कारसञ्ज्ञ-त्वमवगम्यते "मया सृष्टः पुरा ब्रह्मा यद्यज्ञमयजत्स्वयम् । ततस्तस्मै वरान् प्रीतो ददावहमनुत्तमान् । मत्पुत्रत्वं च कल्पादौ लोकाध्यक्षत्वमेव च । अहङ्कारकृतं चैव तथा पर्यायवाचकम्" इति । तत्रैव भृगुभरद्वाजसंवादे "तस्मात्प-द्मात्समभवद्ब्रह्मा वेदमयो विधिः । अहङ्कार इति ख्यातः सर्वभूतात्मभूतकृत् । ब्रह्मा वै सुमहातेजा य एते पञ्च धातवः" इत्युक्तत्वात्; तस्मादयमर्थः, अहमस्मि-अहं स्यां चतुर्मुखः स्याम्, इति सङ्कल्पवाक्यं व्याहरत्ततोपहंनामा चतुर्मुखो-ऽभवदित्यर्थः । अतश्चतुर्मुखरूपस्य परमात्मनः प्रकृतत्वात्तस्य सर्वपाप्मप्रदाहकत्वं साक्षाद्विशेषणमुक्तम्, तद्रूपभूत-श्चतुर्मुखः सोऽविभेदिति भयाश्रयतयोच्यत इति, अतः आत्मा परमात्मेति स्थितम् । तथात्रैव बृहदारण्यके श्रूयते

"नैवेह किञ्चनाग्र आसीन्मृत्युनैवेदमामृमासीदशनाया हि मृत्युः तन्मनोऽकुरुता"त्यादि । अत्र मृत्युसञ्ज्ञो न परमा-त्मा, तदसाधारणधर्माश्रवणात्तस्याशनायाविशिष्टत्वाच्च, "अविजिघत्सोऽपिपासः" इति हि परः श्रूयते, सोऽर्चन्न-चरदिति तस्यार्चनादिकर्मकर्तृत्वं श्रूयते, परश्चाकर्मवश्यः, " स एष सर्वेभ्यः पाप्मभ्य उदितः अपहतपाप्मे"तिश्रवणात्; अत एव अप्तत्त्वसृष्टया नारायण इति च न शङ्कयम् "अपहतपाप्मा दिव्यो देव एको नारायण" इति तस्यापहतपाप्म-त्वात्; अतः प्रसिद्धमृत्युरिह विवक्षितः, सूर्यो वा ? तदर्कस्यार्कत्वमित्युक्तत्वात् । उच्यते;अग्र इति कारणावस्थ-त्वादयं मृत्युसञ्ज्ञोऽचिच्छरीरकः परमात्मा "यस्य मृत्युशरीरं स दिव्यो देव एको नारायण" इति श्रुतेः, अशनाया नाम जगत्सञ्जिहीर्षा; तद्वत्तया अशनायाशब्दस्तस्मिन् प्रयुक्तः, तन्मनोऽकुरुतेति मनस्कारश्च परत्वसाधकः, अर्च-न्निति पदस्यायमर्थः, अर्चनम् प्रीणनम् कर्मकारकं च स्वयमेव, अश्रुताध्याहारादपि प्रकृतस्यैव कर्मत्वोपपत्तेः "लक्ष-णहेत्वोःक्रियाया" इति शत्रन्ततया जगद्य्वापारलीलया स्वात्मानं प्रीणयितुमचरदित्यर्थः । अपां सृष्टिश्च स्रष्टुर्नारा-यणत्वे लिङ्गम्, "एको ह वै नारायण आसी "दित्युपक्रम्य "ता इमा आपः" इति श्रुतेः । अर्कशब्दश्च परस्मिन् प्रीण-नगुणयोगाद्वर्तते, अत एव हि भगवन्नामसहस्रे पठ्यते "अर्को वाजसनः #ृङ्गी " इति । अपां रपः-सारांशः । "तत्समहन्यत सा पृथिव्यभव"दिति ब्रह्माण्डसृष्टिरुच्यते । "ता इमा आपः तद्धिरण्मयमण्डमभव"दिति महोपनि#ेषदै-कार्थ्यात् अतोमृत्युशरीरो नारायण इह प्रतिपाद्यः । सुबालोपनिषदि "तदाहुः किं तदासीत्तस्मै स होवाच न सन्नासन्न सदसदिति तस्मात्तमः सञ्जायत" इति श्रूयते । अत्रेक्षणादिकं नावगम्यते धर्मिवाचिशब्दश्च सद्ब्रह्मादिर्न प्रयुक्तः, अतस्सदसदनिर्वचनीयं कारणं प्रतीयते, उत्तरत्र प्रतिपाद्यमानो नारायण एव न परमकारणम्, तमः प्रभृतिसृष्टिमुक्तवा "तदण्डं समभव"दिति अण्डोत्पत्तिमभिधाय "मध्ये पुरुषो दिव्यः सहस्रशीर्षा पुरुषः" इति तस्य कार्यान्तर्वर्तित्वप्रति-पादनात् "मृत्युर्वै परे देव एकीभवति परस्तान्न सन्नासन्न सदसदिति सदसदुभयविलक्षणस्य देवात् परत्वं चावगम्यते । नैवम्, उच्यते; कारणत्वादेव नारायणपरत्वं सिद्धम् । अस्यामुपनिषदि नारायणस्यैव भूयो भूयः प्रतिपादनं च तात्पर्यलिङ्गम् "योऽयं विज्ञानघन उत्क्रामन् स केन कतरद्वा स्थानमुत्सृज्योत्क्रामति तस्मै स होवाचे"त्युपक्रम्य "अपुनर्भवाय कोशं भिनत्ती "त्यारभ्य "अक्षरं भित्त्वा मृत्युं भिनत्ति मृत्युर्वै परे देव एकीभवति परस्तान्न सन्नासन्न सदसत्" इति मृत्योः परे देवे एकीभावः श्रूयते; मृत्युश्च तमः, स्थानप्रमाणात्तद्धि अक्षरात्परं श्रुतम्, अतस्तमस्संज्ञ-मृत्योः कारणं सदसदुभयविलक्षणतयोक्तं वस्तु परो देव इति प्रतीयते, विभागापादानस्यैव अविभागस्थानत्वात्, परो देवश्च नारायणः "दिव्यो देव एको नारायणः" इत्युक्तत्वात् । न च देवात्परं सदसदुभयविलक्षणम्; किन्तु देव एव, मृत्युस्रंज्ञातमोपादानाविभागस्थानयोरेकत्वात्, अतस्तमोऽपादानत्वाविभागस्थानत्वाभ्यां देवत्वावगमाद्देवस्य नारा-यणत्वान्मुक्तप्राप्यत्वाच्च नारायण एव सदसदुभयविलक्षणः । केवलाच्चेतनादचेतनानान्मिश्रिततदुभयरूपव्यष्टिभ्यश्च विलक्षणतया नारायणो न सन्नासन्न सदसदित्युच्यते, "मध्ये पुरुषो दिव्यः" इति वाक्यं तस्याण्डमध्ये स्वसृष्टचतु-र्मुखरूपेणावस्थानं दर्शयति, केवलपुरुषशब्दश्चतुर्मुखपरः, तच्छरीरकः परमात्मा "सहस्रशीर्षा पुरुष" इत्युच्यते । "सोऽग्रे भूतानां मृत्युमसृज"दिति त्रिशिरस्कमृत्युसृष्टिश्चतुर्मुखरूपधरपरमात्मकर्तृका; अत एव हि तस्य ब्रह्माभिभीत इत्यनन्तरमुच्यते, अतो न सन्नासन्न सददित्युक्तं जगत्कारणं नारायण इति स्थितम् । "असावादित्यो ब्रह्मेति ब्रह्मैव

1.4.29


व्याख्याता इतिपदाभ्यासोऽध्यायपरिसमाप्तिद्योतनार्थः ।। इतिश्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभा-ष्ये प्रथमस्याध्यायस्य चतुर्थः पादः ।। समाप्तश्चाध्यायः ।।