श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः २५

← श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः २४ श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः २५
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः २६ →



कोपान् मुसलधारावर्षं वर्षतीन्द्रे व्रजौकसां रक्षणार्थं गोवर्धनधारणम् -



श्रीशुक उवाच -
( अनुष्टुप् )
इन्द्रस्तदाऽऽत्मनः पूजां विज्ञाय विहतां नृप ।
 गोपेभ्यः कृष्णनाथेभ्यो नन्दादिभ्यश्चुकोप ह ॥ १ ॥
 गणं सांवर्तकं नाम मेघानां चान्तकारिणाम् ।
 इन्द्रः प्रचोदयत् क्रुद्धो वाक्यं चाहेशमान्युत ॥ २ ॥
 अहो श्रीमदमाहात्म्यं गोपानां काननौकसाम् ।
 कृष्णं मर्त्यमुपाश्रित्य ये चक्रुर्देवहेलनम् ॥ ३ ॥
 यथादृढैः कर्ममयैः क्रतुभिर्नामनौनिभैः ।
 विद्यां आन्वीक्षिकीं हित्वा तितीर्षन्ति भवार्णवम् ॥ ४ ॥
 वाचालं बालिशं स्तब्धं अज्ञं पण्डितमानिनम् ।
 कृष्णं मर्त्यमुपाश्रित्य गोपा मे चक्रुरप्रियम् ॥ ५ ॥
 एषां श्रियावलिप्तानां कृष्णेनाध्मापितात्मनाम् ।
 धुनुत श्रीमदस्तम्भं पशून् नयत सङ्‌क्षयम् ॥ ६ ॥
 अहं चैरावतं नागं आरुह्यानुव्रजे व्रजम् ।
 मरुद्‍गणैर्महावेगैः नन्दगोष्ठजिघांसया ॥ ७ ॥
 श्रीशुक उवाच -
इत्थं मघवताऽऽज्ञप्ता मेघा निर्मुक्तबन्धनाः ।
 नन्दगोकुलमासारैः पीडयामासुरोजसा ॥ ८ ॥
 विद्योतमाना विद्युद्‌भिः स्तनन्तः स्तनयित्‍नुभिः ।
 तीव्रैर्मरुद्‍गणैर्नुन्ना ववृषुर्जलशर्कराः ॥ ९ ॥
 स्थूणास्थूला वर्षधारा मुञ्चत्स्वभ्रेष्व-भीक्ष्णशः ।
 जलौघैः प्लाव्यमाना भूः नादृश्यत नतोन्नतम् ॥ १० ॥
 अत्यासारातिवातेन पशवो जातवेपनाः ।
 गोपा गोप्यश्च शीतार्ता गोविन्दं शरणं ययुः ॥ ११ ॥
 शिरः सुतांश्च कायेन प्रच्छाद्या सारपीडिताः ।
 वेपमाना भगवतः पादमूलमुपाययुः ॥ १२ ॥
 कृष्ण कृष्ण महाभाग त्वन्नाथं गोकुलं प्रभो ।
 त्रातुमर्हसि देवान्नः कुपिताद् भक्तवत्सल ॥ १३ ॥
 शिलावर्षानिपातेन हन्यमानमचेतनम् ।
 निरीक्ष्य भगवान् मेने कुपितेन्द्रकृतं हरिः ॥ १४ ॥
 अपर्त्त्वत्युल्बणं वर्षं अतिवातं शिलामयम् ।
 स्वयागे विहतेऽस्माभिः इन्द्रो नाशाय वर्षति ॥ १५ ॥
 तत्र प्रतिविधिं सम्यग् आत्मयोगेन साधये ।
 लोकेशमानिनां मौढ्याद् हनिष्ये श्रीमदं तमः ॥ १६ ॥
 न हि सद्‍भावयुक्तानां सुराणामीशविस्मयः ।
 मत्तोऽसतां मानभङ्‌गः प्रशमायोपकल्पते ॥ १७ ॥
 तस्मात् मच्छरणं गोष्ठं मन्नाथं मत्परिग्रहम् ।
 गोपाये स्वात्मयोगेन सोऽयं मे व्रत आहितः ॥ १८ ॥
 इत्युक्त्वैकेन हस्तेन कृत्वा गोवर्धनाचलम् ।
 दधार लीलया कृष्णः छत्राकमिव बालकः ॥ १९ ॥
 अथाह भगवान् गोपान् हेऽम्ब तात व्रजौकसः ।
 यथोपजोषं विशत गिरिगर्तं सगोधनाः ॥ २० ॥
 न त्रास इह वः कार्यो मद्धस्ताद्रिनिपातने ।
 वातवर्षभयेनालं तत्त्राणं विहितं हि वः ॥ २१ ॥
 तथा निर्विविशुर्गर्तं कृष्णाश्वासितमानसः ।
 यथावकाशं सधनाः सव्रजाः सोपजीविनः ॥ २२ ॥
 क्षुत्तृड्व्यथां सुखापेक्षां हित्वा तैर्व्रजवासिभिः ।
 वीक्ष्यमाणो दधावद्रिं सप्ताहं नाचलत् पदात् ॥ २३ ॥
 कृष्णयोगानुभावं तं निशम्येन्द्रोऽतिविस्मितः ।
 निःस्तम्भो भ्रष्टसङ्‌कल्पः स्वान् मेघान् संन्यवारयत् ॥ २४ ॥
 खं व्यभ्रमुदितादित्यं वातवर्षं च दारुणम् ।
 निशम्योपरतं गोपान् गोवर्धनधरोऽब्रवीत् ॥ ॥
 निर्यात त्यजत त्रासं गोपाः सस्त्रीधनार्भकाः ।
 उपारतं वातवर्षं व्युदप्रायाश्च निम्नगाः ॥ २६ ॥
 ततस्ते निर्ययुर्गोपाः स्वं स्वमादाय गोधनम् ।
 शकटोढोपकरणं स्त्रीबालस्थविराः शनैः ॥ २७ ॥
 भगवानपि तं शैलं स्वस्थाने पूर्ववत्प्रभुः ।
 पश्यतां सर्वभूतानां स्थापयामास लीलया ॥ २८ ॥
( मिश्र )
तं प्रेमवेगान् निभृता व्रजौकसो
     यथा समीयुः परिरम्भणादिभिः ।
 गोप्यश्च सस्नेहमपूजयन् मुदा
     दध्यक्षताद्‌भिर्युयुजुः सदाशिषः ॥ २९ ॥
( अनुष्टुप् )
यशोदा रोहिणी नन्दो रामश्च बलिनां वरः ।
 कृष्णमालिङ्‌ग्य युयुजुः आशिषः स्नेहकातराः ॥ ३० ॥
 दिवि देवगणाः सिद्धाः साध्या गन्धर्वचारणाः ।
 तुष्टुवुर्मुमुचुस्तुष्टाः पुष्पवर्षाणि पार्थिव ॥ ३१ ॥
 शङ्‌खदुन्दुभयो नेदुर्दिवि देवप्रचोदिताः ।
 जगुर्गन्धर्वपतयः तुंबुरुप्रमुखा नृप ॥ ३२ ॥
( मिश्र )
ततोऽनुरक्तैः पशुपैः परिश्रितो
     राजन् स्वगोष्ठं सबलोऽव्रजद्धरिः ।
 तथाविधान्यस्य कृतानि गोपिका
     गायन्त्य ईयुर्मुदिता हृदिस्पृशः ॥ ३३ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे पञ्चविंशोऽध्यायः ॥ २५ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥