श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः २४

← अध्यायः २३ श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः २४
[[लेखकः :|]]
अध्यायः २५ →



इंद्रमखभङ्ग -

श्रीशुक उवाच -
( अनुष्टुप् )
भगवानपि तत्रैव बलदेवेन संयुतः ।
 अपश्यत् निवसन् गोपान् इन्द्रयागकृतोद्यमान् ॥ १ ॥
 तदभिज्ञोऽपि भगवान् सर्वात्मा सर्वदर्शनः ।
 प्रश्रयावनतोऽपृच्छत् वृद्धान् नन्दपुरोगमान् ॥ २ ॥
 कथ्यतां मे पितः कोऽयं सम्भ्रमो व उपागतः ।
 किं फलं कस्य चोद्देशः केन वा साध्यते मखः ॥ ३ ॥
 एतद्‍ब्रूहि महान् कामो मह्यं शुश्रूषवे पितः ।
 न हि गोप्यं हि साधूनां कृत्यं सर्वात्मनामिह ॥ ४ ॥
 अस्त्यस्व-परदृष्टीनां अमित्रोदास्तविद्विषाम् ।
 उदासीनोऽरिवद् वर्ज्य आत्मवत् सुहृदुच्यते ॥ ५ ॥
 ज्ञात्वाज्ञात्वा च कर्माणि जनोऽयमनुतिष्ठति ।
 विदुषः कर्मसिद्धिः स्यात् तथा नाविदुषो भवेत् ॥ ६ ॥
 तत्र तावत् क्रियायोगो भवतां किं विचारितः ।
 अथ वा लौकिकस्तन्मे पृच्छतः साधु भण्यताम् ॥ ७ ॥
 श्रीनन्द उवाच -
पर्जन्यो भगवान् इन्द्रो मेघास्तस्यात्ममूर्तयः ।
 तेऽभिवर्षन्ति भूतानां प्रीणनं जीवनं पयः ॥ ८ ॥
 तं तात वयमन्ये च वार्मुचां पतिमीश्वरम् ।
 द्रव्यैस्तद् रेतसा सिद्धैः यजन्ते क्रतुभिर्नराः ॥ ९ ॥
 तच्छेषेणोपजीवन्ति त्रिवर्गफलहेतवे ।
 पुंसां पुरुषकाराणां पर्जन्यः फलभावनः ॥ १० ॥
 य एनं विसृजेत् धर्मं परम्पर्यागतं नरः ।
 कामाल्लोभात् भयाद् द्वेषात् स वै नाप्नोति शोभनम् ॥ ११ ॥
 श्रीशुक उवाच -
वचो निशम्य नन्दस्य तथान्येषां व्रजौकसाम् ।
 इन्द्राय मन्युं जनयन् पितरं प्राह केशवः ॥ १२ ॥
 श्रीभगवानुवाच -
कर्मणा जायते जन्तुः कर्मणैव विलीयते ।
 सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते ॥ १३ ॥
 अस्ति चेदीश्वरः कश्चित् फलरूप्यन्यकर्मणाम् ।
 कर्तारं भजते सोऽपि न ह्यकर्तुः प्रभुर्हि सः ॥ १४ ॥
 किमिन्द्रेणेह भूतानां स्वस्वकर्मानुवर्तिनाम् ।
 अनीशेनान्यथा कर्तुं स्वभावविहितं नृणाम् ॥ १५ ॥
 स्वभावतन्त्रो हि जनः स्वभावमनुवर्तते ।
 स्वभावस्थमिदं सर्वं सदेवासुरमानुषम् ॥ १६ ॥
 देहानुच्चावचाञ्जन्तुः प्राप्योत् सृजति कर्मणा ।
 शत्रुर्मित्रमुदासीनः कर्मैव गुरुरीश्वरः ॥ १७ ॥
 तस्मात् संपूजयेत्कर्म स्वभावस्थः स्वकर्मकृत् ।
 अन्जसा येन वर्तेत तदेवास्य हि दैवतम् ॥ १८ ॥
 आजीव्यैकतरं भावं यस्त्वन्यमुपजीवति ।
 न तस्माद् विन्दते क्षेमं जारान्नार्यसती यथा ॥ १९ ॥
 वर्तेत ब्रह्मणा विप्रो राजन्यो रक्षया भुवः ।
 वैश्यस्तु वार्तया जीवेत् शूद्रस्तु द्विजसेवया ॥ २० ॥
 कृषिवाणिज्यगोरक्षा कुसीदं तूर्यमुच्यते ।
 वार्ता चतुर्विधा तत्र वयं गोवृत्तयोऽनिशम् ॥ २१ ॥
 सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतवः ।
 रजसोत्पद्यते विश्वं अन्योन्यं विविधं जगत् ॥ २२ ॥
 रजसा चोदिता मेघा वर्षन्त्यम्बूनि सर्वतः ।
 प्रजास्तैरेव सिध्यन्ति महेन्द्रः किं करिष्यति ॥ २३ ॥
 न नः पुरोजनपदा न ग्रामा न गृहा वयम् ।
 नित्यं वनौकसस्तात वनशैलनिवासिनः ॥ ॥
 तस्माद्‍गवां ब्राह्मणानां अद्रेश्चारभ्यतां मखः ।
 य इंद्रयागसंभाराः तैरयं साध्यतां मखः ॥ २५ ॥
 पच्यन्तां विविधाः पाकाः सूपान्ताः पायसादयः ।
 संयावापूपशष्कुल्यः सर्वदोहश्च गृह्यताम् ॥ २६ ॥
 हूयन्तामग्नयः सम्यग् ब्राह्मणैर्ब्रह्मवादिभिः ।
 अन्नं बहुगुणं तेभ्यो देयं वो धेनुदक्षिणाः ॥ २७ ॥
 अन्येभ्यश्चाश्वचाण्डाल पतितेभ्यो यथार्हतः ।
 यवसं च गवां दत्त्वा गिरये दीयतां बलिः ॥ २८ ॥
 स्वलङ्‌कृता भुक्तवन्तः स्वनुलिप्ताः सुवाससः ।
 प्रदक्षिणां च कुरुत गोविप्रानलपर्वतान् ॥ २९ ॥
 एतन्मम मतं तात क्रियतां यदि रोचते ।
 अयं गोब्राह्मणाद्रीणां मह्यं च दयितो मखः ॥ ३० ॥
 श्रीशुक उवाच -
कालात्मना भगवता शक्रदर्पं जिघांसता ।
 प्रोक्तं निशम्य नन्दाद्याः साध्वगृह्णन्त तद्वचः ॥ ३१ ॥
 तथा च व्यदधुः सर्वं यथाऽऽह मधुसूदनः ।
 वाचयित्वा स्वस्त्ययनं तद् द्रव्येण गिरिद्विजान् ॥ ३२ ॥
 उपहृत्य बलीन् सम्यग् सर्वान् आदृता यवसं गवाम् ।
 गोधनानि पुरस्कृत्य गिरिं चक्रुः प्रदक्षिणम् ॥ ३३ ॥
 अनांस्यनडुद्युक्तानि ते चारुह्य स्वलङ्‌कृताः ।
 गोप्यश्च कृष्णवीर्याणि गायन्त्यः सद्विजाशिषः ॥ ३४ ॥
 कृष्णस्त्वन्यतमं रूपं गोपविश्रम्भणं गतः ।
 शैलोऽस्मीति ब्रुवन् भूरि बलिमादद् बृहद्वपुः ॥ ३५ ॥
 तस्मै नमो व्रजजनैः सह चक्रेऽऽत्मनाऽऽत्मने ।
 अहो पश्यत शैलोऽसौ रूपी नोऽनुग्रहं व्यधात् ॥ ३६ ॥
 एषोऽवजानतो मर्त्यान् कामरूपी वनौकसः ।
 हन्ति ह्यस्मै नमस्यामः शर्मणे आत्मनो गवाम् ॥ ३७ ॥
 इत्यद्रिगोद्विजमखं वासुदेवप्रचोदिताः ।
 यथा विधाय ते गोपा सहकृष्णा व्रजं ययुः ॥ ३८ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे चतुर्विंशोऽध्यायः ॥ २४ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥