श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः २८

← श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः २७ श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः २८
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः २९ →




विकालेऽवगाहनाद् वरुणदूतेन वरुणालयं नीतस्य नंदस्य भगवता पुनरनयनम् -

श्रीशुक उवाच -
( अनुष्टुप् )
एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् ।
 स्नातुं नन्दस्तु कालिन्द्यां द्वादश्यां जलमाविशत् ॥ १ ॥
 तं गृहीत्वानयद् भृत्यो वरुणस्यासुरोऽन्तिकम् ।
 अवज्ञायासुरीं वेलां प्रविष्टमुदकं निशि ॥ २ ॥
 चुक्रुशुस्तमपश्यन्तः कृष्ण रामेति गोपकाः ।
 भगवांस्तदुपश्रुत्य पितरं वरुणाहृतम् ।
 तदन्तिकं गतो राजन् स्वानामभयदो विभुः ॥ ३ ॥
 प्राप्तं वीक्ष्य हृषीकेशं लोकपालः सपर्यया ।
 महत्या पूजयित्वाऽऽह तद्दर्शनमहोत्सवः ॥ ४ ॥
 श्रीवरुण उवाच -
अद्य मे निभृतो देहो अद्यैवार्थोऽधिगतः प्रभो ।
 त्वत्पादभाजो भगवन् अवापुः पारमध्वनः ॥ ५ ॥
 नमस्तुभ्यं भगवते ब्रह्मणे परमात्मने ।
 न यत्र श्रूयते माया लोकसृष्टिविकल्पना ॥ ६ ॥
 अजानता मामकेन मूढेनाकार्यवेदिना ।
 आनीतोऽयं तव पिता तद् भवान् क्षन्तुमर्हति ॥ ७ ॥
 ममाप्यनुग्रहं कृष्ण कर्तुं अर्हस्यशेषदृक् ।
 गोविन्द नीयतामेष पिता ते पितृवत्सल ॥ ८ ॥
 श्रीशुक उवाच -
एवं प्रसादितः कृष्णो भगवान् ईश्वरेश्वरः ।
 आदायागात् स्वपितरं बन्धूनां चावहन् मुदम् ॥ ९ ॥
 नन्दस्त्वतीन्द्रियं दृष्ट्वा लोकपालमहोदयम् ।
 कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितोऽब्रवीत् ॥ १० ॥
 ते चौत्सुक्यधियो राजन् मत्वा गोपास्तमीश्वरम् ।
 अपि नः स्वगतिं सूक्ष्मां उपाधास्यदधीश्वरः ॥ ११ ॥
 इति स्वानां स भगवान् विज्ञायाखिलदृक् स्वयम् ।
 सङ्‌कल्पसिद्धये तेषां कृपयैतदचिन्तयत् ॥ १२ ॥
 जनो वै लोक एतस्मिन् अविद्याकामकर्मभिः ।
 उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन् ॥ १३ ॥
 इति सञ्चिन्त्य भगवान् महाकारुणिको हरिः ।
 दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥ १४ ॥
 सत्यं ज्ञानमनन्तं यद् ब्रह्म ज्योतिः सनातनम् ।
 यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥ १५ ॥
 ते तु ब्रह्मह्रदं नीता मग्नाः कृष्णेन चोद्‌धृताः ।
 ददृशुर्ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात् पुरा ॥ १६ ॥
 नन्दादयस्तु तं दृष्ट्वा परमानन्दनिवृताः ।
 कृष्णं च तत्रच्छन्दोभिः स्तूयमानं सुविस्मिताः ॥ १७ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे अष्टाविंशोऽध्यायः ॥ २८ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥