श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः २९

← श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः २८ श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः २९
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ३० →



वेणुनादं श्रुत्वा आगतानां गोपीनां श्रीकृष्णेनसह संवादः; रासारम्भः; तासां मानापनोदाय भगवतो अंतर्धानं च -

श्रीशुक उवाच -
( अनुष्टुप् )
भगवान् अपि ता रात्रीः शरदोत्फुल्लमल्लिकाः ।
 वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः ॥ १ ॥
( मिश्र )
तदोडुराजः ककुभः करैर्मुखं
     प्राच्या विलिम्पन्नरुणेन शन्तमैः ।
 स चर्षणीनामुदगाच्छुचो मृजन्
     प्रियः प्रियाया इव दीर्घदर्शनः ॥ २ ॥
 दृष्ट्वा कुमुद्वन्तं अखण्डमण्डलं
     रमाननाभं नवकुङ्‌कुमारुणम् ।
 वनं च तत्कोमलगोभी रञ्जितं
     जगौ कलं वामदृशां मनोहरम् ॥ ३ ॥
 निशम्य गीतां तदनङ्‌गवर्धनं
     व्रजस्त्रियः कृष्णगृहीतमानसाः ।
 आजग्मुरन्योन्यमलक्षितोद्यमाः
     स यत्र कान्तो जवलोलकुण्डलाः ॥ ४ ॥
( अनुष्टुप् )
दुहन्त्योऽभिययुः काश्चिद् दोहं हित्वा समुत्सुकाः ।
 पयोऽधिश्रित्य संयावं अनुद्वास्यापरा ययुः ॥ ५ ॥
 परिवेषयन्त्यस्तद्धित्वा पाययन्त्यः शिशून् पयः ।
 शुश्रूषन्त्यः पतीन् काश्चिद् अश्नन्त्योऽपास्य भोजनम् ॥ ६ ॥
 लिम्पन्त्यः प्रमृजन्त्योऽन्या अञ्जन्त्यः काश्च लोचने ।
 व्यत्यस्तवस्त्राभरणाः काश्चित् कृष्णान्तिकं ययुः ॥ ७ ॥
 ता वार्यमाणाः पतिभिः पितृभिः भ्रातृबन्धुभिः ।
 गोविन्दापहृतात्मानो न न्यवर्तन्त मोहिताः ॥ ८ ॥
 अन्तर्गृहगताः काश्चिद् गोप्योऽलब्धविनिर्गमाः ।
 कृष्णं तद्‍भावनायुक्ता दध्युर्मीलितलोचनाः ॥ ९ ॥
 दुःसहप्रेष्ठविरह तीव्रतापधुताशुभाः ।
 ध्यानप्राप्ताच्युताश्लेष निर्वृत्या क्षीणमङ्‌गलाः ॥ १० ॥
 तमेव परमात्मानं जारबुद्ध्यापि सङ्‌गताः ।
 जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः ॥ ११ ॥
 श्रीपरीक्षिदुवाच -
कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने ।
 गुणप्रवाहोपरमः तासां गुणधियां कथम् ॥ १२ ॥
 श्रीशुक उवाच -
उक्तं पुरस्ताद् एतत्ते चैद्यः सिद्धिं यथा गतः ।
 द्विषन्नपि हृषीकेशं किमुताधोक्षजप्रियाः ॥ १३ ॥
 नृणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप ।
 अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥ १४ ॥
 कामं क्रोधं भयं स्नेहं ऐक्यं सौहृदमेव च ।
 नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥ १५ ॥
 न चैवं विस्मयः कार्यो भवता भगवत्यजे ।
 योगेश्वरेश्वरे कृष्णे यत एतद् विमुच्यते ॥ १६ ॥
 ता दृष्ट्वान्तिकमायाता भगवान् व्रजयोषितः ।
 अवदद् वदतां श्रेष्ठो वाचः पेशैर्विमोहयन् ॥ १७ ॥
 श्रीभगवानुवाच -
स्वागतं वो महाभागाः प्रियं किं करवाणि वः ।
 व्रजस्यानामयं कच्चिद् ब्रूतागमनकारणम् ॥ १८ ॥
 रजन्येषा घोररूपा घोरसत्त्वनिषेविता ।
 प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सुमध्यमाः ॥ १९ ॥
 मातरः पितरः पुत्रा भ्रातरः पतयश्च वः ।
 विचिन्वन्ति ह्यपश्यन्तो मा कृढ्वं बन्धुसाध्वसम् ॥ २० ॥
 दृष्टं वनं कुसुमितं राकेश कररञ्जितम् ।
 यमुना अनिललीलैजत् तरुपल्लवशोभितम् ॥ २१ ॥
 तद् यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन् सतीः ।
 क्रन्दन्ति वत्सा बालाश्च तान् पाययत दुह्यत ॥ २२ ॥
 अथवा मदभिस्नेहाद् भवत्यो यन्त्रिताशयाः ।
 आगता ह्युपपन्नं वः प्रीयन्ते मयि जन्तवः ॥ २३ ॥
 भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्यमायया ।
 तद्‍बन्धूनां च कल्याणः प्रजानां चानुपोषणम् ॥ २४ ॥
 दुःशीलो दुर्भगो वृद्धो जडो रोग्यधनोऽपि वा ।
 पतिः स्त्रीभिर्न हातव्यो लोकेप्सुभिरपातकी ॥ २५ ॥
 अस्वर्ग्यमयशस्यं च फल्गु कृच्छ्रं भयावहम् ।
 जुगुप्सितं च सर्वत्र ह्यौपपत्यं कुलस्त्रियः ॥ २६ ॥
 श्रवणाद् दर्शनाद् ध्यानाद् मयि भावोऽनुकीर्तनात् ।
 न तथा सन्निकर्षेण प्रतियात ततो गृहान् ॥ २७ ॥
 श्रीशुक उवाच -
इति विप्रियमाकर्ण्य गोप्यो गोविन्दभाषितम् ।
 विषण्णा भग्नसङ्‌कल्पाः चिन्तामापुर्दुरत्ययाम् ॥ २८ ॥
( वसंततिलका )
कृत्वा मुखान्यव शुचः श्वसनेन शुष्यद्
     बिम्बाधराणि चरणेन भुवः लिखन्त्यः ।
 अस्रैरुपात्तमषिभिः कुचकुङ्‌कुमानि
     तस्थुर्मृजन्त्य उरुदुःखभराः स्म तूष्णीम् ॥ ॥
 प्रेष्ठं प्रियेतरमिव प्रतिभाषमाणं
     कृष्णं तदर्थविनिवर्तितसर्वकामाः ।
 नेत्रे विमृज्य रुदितोपहते स्म किञ्चित्
     संरम्भगद्‍गदगिरोऽब्रुवतानुरक्ताः ॥ ३० ॥
 श्रीगोप्य ऊचुः ।
 मैवं विभोऽर्हति भवान् गदितुं नृशंसं
     सन्त्यज्य सर्वविषयांस्तव पादमूलम् ।
 भक्ता भजस्व दुरवग्रह मा त्यजास्मान्
     देवो यथाऽऽदिपुरुषो भजते मुमुक्षून् ॥ ३१ ॥
 यत्पत्यपत्यसुहृदां अनुवृत्तिरङ्‌ग
     स्त्रीणां स्वधर्म इति धर्मविदा त्वयोक्तम् ।
 अस्त्वेवमेतदुपदेशपदे त्वयीशे
     प्रेष्ठो भवांस्तनुभृतां किल बन्धुरात्मा ॥ ३२ ॥
 कुर्वन्ति हि त्वयि रतिं कुशलाः स्व आत्मन्
     नित्यप्रिये पतिसुतादिभिरार्तिदैः किम् ।
 तन्नः प्रसीद परमेश्वर मा स्म छिन्द्या
     आशां धृतां त्वयि चिरादरविन्दनेत्र ॥ ३३ ॥
 चित्तं सुखेन भवतापहृतं गृहेषु
     यन्निर्विशत्युत करावपि गृह्यकृत्ये ।
 पादौ पदं न चलतस्तव पादमूलाद्
     यामः कथं व्रजमथो करवाम किं वा ॥ ३४ ॥
 सिञ्चाङ्‌ग नस्त्वदधरामृतपूरकेण
     हासावलोककलगीतजहृच्छयाग्निम् ।
 नो चेद् वयं विरहजाग्नि उपयुक्तदेहा
     ध्यानेन याम पदयोः पदवीं सखे ते ॥ ३५ ॥
 यर्ह्यम्बुजाक्ष तव पादतलं रमाया
     दत्तक्षणं क्वचिदरण्यजनप्रियस्य ।
 अस्प्राक्ष्म तत्प्रभृति नान्यसमक्षमङ्ग
     स्थातुं त्वयाभिरमिता बत पारयामः ॥ ३६ ॥
 श्रीर्यत्पदाम्बुजरजश्चकमे तुलस्या
     लब्ध्वापि वक्षसि पदं किल भृत्यजुष्टम् ।
 यस्याः स्ववीक्षण कृतेऽन्यसुरप्रयासः
     तद्वद् वयं च तव पादरजः प्रपन्नाः ॥ ३७ ॥
 तन्नः प्रसीद वृजिनार्दन तेऽन्घ्रिमूलं
     प्राप्ता विसृज्य वसतीस्त्वदुपासनाशाः ।
 त्वत्सुन्दरस्मित निरीक्षणतीव्रकाम
     तप्तात्मनां पुरुषभूषण देहि दास्यम् ॥ ३८ ॥
 वीक्ष्यालकावृतमुखं तव कुण्डलश्री
     गण्डस्थलाधरसुधं हसितावलोकम् ।
 दत्ताभयं च भुजदण्डयुगं विलोक्य
     वक्षः श्रियैकरमणं च भवाम दास्यः ॥ ३९ ॥
 का स्त्र्यङ्‌ग ते कलपदायतमूर्च्छितेन
     सम्मोहितार्यचरितान्न चलेत्त्रिलोक्याम् ।
 त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं
     यद् गोद्विजद्रुममृगाः पुलकान्यबिभ्रन् ॥ ४० ॥
 व्यक्तं भवान् व्रजभयार्तिहरोऽभिजातो
     देवो यथाऽऽदिपुरुषः सुरलोकगोप्ता ।
 तन्नो निधेहि करपङ्‌कजमार्तबन्धो
     तप्तस्तनेषु च शिरःसु च किङ्‌करीणाम् ॥ ४१ ॥
 श्रीशुक उवाच -
( अनुष्टुप् )
इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः ।
 प्रहस्य सदयं गोपीः आत्मारामोऽप्यरीरमत् ॥ ४२ ॥
( मिश्र )
ताभिः समेताभिरुदारचेष्टितः
     प्रियेक्षणोत्फुल्लमुखीभिरच्युतः ।
 उदारहासद्विजकुन्ददीधतिः
     व्यरोचतैणाङ्‌क इवोडुभिर्वृतः ॥ ४३ ॥
( अनुष्टुप् )
उपगीयमान उद्‍गायन् वनिताशतयूथपः ।
 मालां बिभ्रद् वैजयन्तीं व्यचरन् मण्डयन् वनम् ॥ ४४ ॥
 नद्याः पुलिनमाविश्य गोपीभिर्हिमवालुकम् ।
 रेमे तत्तरलानन्द कुमुदामोदवायुना ॥ ४५ ॥
( वसंततिलका )
बाहुप्रसारपरिरम्भकरालकोरु
     नीवीस्तनालभननर्मनखाग्रपातैः ।
 क्ष्वेल्यावलोकहसितैर्व्रजसुन्दरीणां
     उत्तम्भयन् रतिपतिं रमयाञ्चकार ॥ ४६ ॥
( अनुष्टुप् )
एवं भगवतः कृष्णात् लब्धमाना महात्मनः ।
 आत्मानं मेनिरे स्त्रीणां मानिन्योऽभ्यधिकं भुवि ॥ ४७ ॥
 तासां तत् सौभगमदं वीक्ष्य मानं च केशवः ।
 प्रशमाय प्रसादाय तत्रैवान्तरधीयत ॥ ४८ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे एकोन्त्रिंशोऽध्यायः ॥ २९ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥