श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः २७

← अध्यायः २६ श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः २७
[[लेखकः :|]]
अध्यायः २८ →


सांख्यक्रियायोग वर्णनम् -

श्रीउद्धव उवाच -
( अनुष्टुप् )
क्रियायोगं समाचक्ष्व भवदाराधनं प्रभो ।
 यस्मात्त्वां ये यथार्चन्ति सात्वताः सात्वतर्षभ ॥ १ ॥
 एतद् वदन्ति मुनयो मुहुर्निःश्रेयसं नृणाम् ।
 नारदो भगवान् व्यास आचार्योऽग्‌गिरसः सुतः ॥ २ ॥
 निःसृतं ते मुखाम्भोजाद् यदाह भगवानजः ।
 पुत्रेभ्यो भृगुमुख्येभ्यो देव्यै च भगवान् भवः ॥ ३ ॥
 एतद् वै सर्ववर्णानां आश्रमाणां च सम्मतम् ।
 श्रेयसामुत्तमं मन्ये स्त्रीशूद्राणां च मानद ॥ ४ ॥
 एतत्कमलपत्राक्ष कर्मबन्धविमोचनम् ।
 भक्ताय चानुरक्ताय ब्रूहि विश्वेश्वरेश्वर ॥ ५ ॥
 श्रीभगवानुवाच -
न ह्यन्तोऽनन्तपारस्य कर्मकाण्डस्य चोद्धव ।
 सङ्‌क्षिप्तं वर्णयिष्यामि यथावदनुपूर्वशः ॥ ६ ॥
 वैदिकस्तान्त्रिको मिश्र इति मे त्रिविधो मखः ।
 त्रयाणामीप्सितेनैव विधिना मां समर्चरेत् ॥ ७ ॥
 यदा स्वनिगमेनोक्तं द्विजत्वं प्राप्य पूरुषः ।
 यथा यजेत मां भक्त्या श्रद्धया तन्निबोध मे ॥ ८ ॥
 अर्चायां स्थण्डिलेऽग्नौ वा सूर्ये वाप्सु हृदि द्विजः ।
 द्रव्येण भक्तियुक्तोऽर्चेत् स्वगुरुं माममायया ॥ ९ ॥
 पूर्वं स्नानं प्रकुर्वीत धौतदन्तोऽङ्गशुद्धये ।
 उभयैरपि च स्नानं मन्त्रैर्मृद् ग्रहणादिना ॥ १० ॥
 सन्ध्योपास्त्यादिकर्माणि वेदेनाचोदितानि मे ।
 पूजां तैः कल्पयेत् सम्यक् सङ्कल्पः कर्मपावनीम् ॥ ११ ॥
 शैली दारुमयी लौही लेप्या लेख्या च सैकती ।
 मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता ॥ १२ ॥
 चलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम् ।
 उद्वासावाहने न स्तः स्थिरायामुद्धवार्चने ॥ १३ ॥
 अस्थिरायां विकल्पः स्यात् स्थण्डिले तु भवेद् द्वयम् ।
 स्नपनं त्वविलेप्यायां अन्यत्र परिमार्जनम् ॥ १४ ॥
 द्रव्यैः प्रसिद्धैर्मद्यागः प्रतिमादिष्वमायिनः ।
 भक्तस्य च यथालब्धैः हृदि भावेन चैव हि ॥ १५ ॥
 स्नानालङ्करणं प्रेष्ठं अर्चायामेव तूद्धव ।
 स्थण्डिले तत्त्वविन्यासो वह्नावाज्यप्लुतं हविः ॥ १६ ॥
 सूर्ये चाभ्यर्हणं प्रेष्ठं सलिले सलिलादिभिः ।
 श्रद्धयोपाहृतं प्रेष्ठं भक्तेन मम वार्यपि ॥ १७ ॥
 भूर्यप्यभक्तोपाहृतं न मे तोषाय कल्पते ।
 गन्धो धूपः सुमनसो दीपोऽन्नाद्यं च किं पुनः ॥ १८ ॥
 शुचिः सम्भृतसम्भारः प्राग्दर्भैः कल्पितासनः ।
 आसीनः प्रागुदग् वार्चेद् अर्चायामथ सम्मुखः ॥ १९ ॥
 कृतन्यासः कृतन्यासां मदर्चां पाणिनामृजेत् ।
 कलशं प्रोक्षणीयं च यथावदुपसाधयेत् ॥ २० ॥
 तदद्‌भिर्देवयजनं द्रव्याण्यात्मानमेव च ।
 प्रोक्ष्य पात्राणि त्रीण्यद्‌भिः तैस्तैर्द्रव्यैश्च साधयेत् ॥ २१ ॥
 पाद्यार्घ्याचमनीयार्थं त्रीणि पात्राणि दैशिकः ।
 हृदा शीर्ष्णाथ शिखया गायत्र्या चाभिमन्त्रयेत् ॥ २२ ॥
 पिण्डे वाय्वग्निसंशुद्धे हृत्पद्मस्थां परां मम ।
 अण्वीं जीवकलां ध्यायेत् नादान्ते सिद्धभाविताम् ॥ २३ ॥
 तयाऽऽत्मभूतया पिण्डे व्याप्ते सम्पूज्य तन्मयः ।
 आवाह्यार्चादिषु स्थाप्य न्यस्ताङ्गं मां प्रपूजयेत् ॥ २४ ॥
 पाद्योपस्पर्शाहणादीन् उपचारान् प्रकल्पयेत् ।
 धर्मादिभिश्च नवभिः कल्पयित्वाऽऽसनं मम ॥ २५ ॥
 पद्ममष्टदलं तत्र कर्णिकाकेसरोज्ज्वलम् ।
 उभाभ्यां वेदतन्त्राभ्यां मह्यं तूभयसिद्धये ॥ २६ ॥
 सुदर्शनं पाञ्चजन्यं गदासीषुधनुर्हलान् ।
 मुसलं कौस्तुभं मालां श्रीवत्सं चानुपूजयेत् ॥ २७ ॥
 नन्दं सुनन्दं गरुडं प्रचण्डं चण्डमेव च ।
 महाबलं बलं चैव कुमुदं कुमुदेक्षणम् ॥ २८ ॥
 दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून् सुरान् ।
 स्वे स्वे स्थाने त्वभिमुखान् पूजयेत् प्रोक्षणादिभिः ॥ २९ ॥
 चन्दनोशीरकर्पूर कुङ्कुमागुरुवासितैः ।
 सलिलैः स्नापयेन्मन्त्रैः नित्यदा विभवे सति ॥ ३० ॥
 स्वर्णघर्मानुवाकेन महापुरुषविद्यया ।
 पौरुषेणापि सूक्तेन सामभी राजनादिभिः ॥ ३१ ॥
 वस्त्रोपवीताभरण पत्रस्रग्गन्धलेपनैः ।
 अलङ्कुर्वीत सप्रेम मद्‍भक्तो मां यथोचितम् ॥ ३२ ॥
 पाद्यं आचमनीयं च गन्धं सुमनसोऽक्षतान् ।
 धूपदीपोपहार्याणि दद्यान्मे श्रद्धयार्चकः ॥ ३३ ॥
 गुडपायससर्पींषि शष्कुल्यापूपमोदकान् ।
 संयावदधिसूपांश्च नैवेद्यं सति कल्पयेत् ॥ ३४ ॥
 अभ्यङ्गोन्मर्दनादर्श दन्तधावाभिषेचनम् ।
 अन्नाद्यगीतनृत्यादि पर्वणि स्युरुतान्वहम् ॥ ३५ ॥
 विधिना विहिते कुण्डे मेखलागर्तवेदिभिः ।
 अग्निमाधाय परितः समूहेत् पाणिनोदितम् ॥ ३६ ॥
 परिस्तीर्याथ पर्युक्षेद् अन्वाधाय यथाविधि ।
 प्रोक्षण्याऽऽसाद्य द्रव्याणि प्रोक्ष्याग्नौ भावयेत माम् ॥ ३७ ॥
 तप्तजाम्बूनदप्रख्यं शङ्खचक्रगदाम्बुजैः ।
 लसच्चतुर्भुजं शान्तं पद्मकिञ्जल्कवाससम् ॥ ३८ ॥
 स्फुरत्किरीटकटक कटिसूत्रवराङ्गदम् ।
 श्रीवत्सवक्षसं भ्राजत् कौस्तुभं वनमालिनम् ॥ ३९ ॥
 ध्यायन्नभ्यर्च्य दारूणि हविषाभिघृतानि च ।
 प्रास्याज्यभागावाघारौ दत्त्वा चाज्यप्लुतं हविः ॥ ४१ ॥
 जुहुयान्मूलमन्त्रेण षोडशर्चावदानतः ।
 धर्मादिभ्यो यथान्यायं मन्त्रैः स्विष्टिकृतं बुधः ॥ ४१ ॥
 अभ्यर्च्याथ नमस्कृत्य पार्षदेभ्यो बलिं हरेत् ।
 मूलमन्त्रं जपेद् ब्रह्म स्मरन्नारायणात्मकम् ॥ ४२ ॥
 दत्त्वाऽऽचमनमुच्छेषं विष्वक्सेनाय कल्पयेत् ।
 मुखवासं सुरभिमत् ताम्बूलाद्यमथाहयेत् ॥ ४३ ॥
 उपगायन् गृणन् नृत्यन् कर्माणि अभिनयन् मम ।
 मत्कथाः श्रावयन् श्रृण्वन् मुहूर्तं क्षणिको भवेत् ॥ ४४ ॥
 स्तवैरुच्चावचैः स्तोत्रैः पौराणैः प्राकृतैरपि ।
 स्तुत्वा प्रसीद भगवन् इति वन्देत दण्डवत् ॥ ४५ ॥
 शिरो मत्पादयोः कृत्वा बाहुभ्यां च परस्परम् ।
 प्रपन्नं पाहि मामीश भीतं मृत्युग्रहार्णवात् ॥ ४६ ॥
 इति शेषां मया दत्तां शिरस्याधाय सादरम् ।
 उद्वासयेद् चेद् उद्वास्यं ज्योतिर्ज्योतिषि तत्पुनः ॥ ४७ ॥
 अर्चादिषु यदा यत्र श्रद्धा मां तत्र चार्चयेत् ।
 सर्वभूतेष्वात्मनि च सर्वात्माहं अवस्थितः ॥ ४८ ॥
 एवं क्रियायोगपथैः पुमान्वैदिकतान्त्रिकैः ।
 अर्चन् उभयतः सिद्धिं मत्तो विन्दत्यभीप्सिताम् ॥ ४९ ॥
 मदर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेद् दृढम् ।
 पुष्पोद्यानानि रम्याणि पूजायात्रोत्सवाश्रितान् ॥ ५० ॥
 पूजादीनां प्रवाहार्थं महापर्वस्वथान्वहम् ।
 क्षेत्रापणपुरग्रामान् दत्त्वा मत्सार्ष्टितामियात् ॥ ५१ ॥
 प्रतिष्ठया सार्वभौमं सद्मना भुवनत्रयम् ।
 पूजादिना ब्रह्मलोकं त्रिभिर्मत्साम्यतामियात् ॥ ५२ ॥
 मामेव नैरपेक्ष्येण भक्तियोगेन विन्दति ।
 भक्तियोगं स लभते एवं यः पूजयेत माम् ॥ ५३ ॥
 यः स्वदत्तां परैर्दत्तां हरेत सुरविप्रयोः ।
 वृत्तिं स जायते विड्भुग् वर्षाणां अयुतायुतम् ॥ ५४ ॥
 कर्तुश्च सारथेहेतोः अनुमोदितुरेव च ।
 कर्मणां भागिनः प्रेत्य भूयो भूयसि तत्फलम् ॥ ५५ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां एकादशस्कन्धे सप्तविंशोऽध्यायः ॥ २७ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥