श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः ७

← श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः ६ श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः ७
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः ८ →


सूत उवाच -
(अनुष्टुप्)
अथर्ववित्सुमन्तुश्च शिष्यम् अध्यापयत् स्वकाम् ।
 संहितां सोऽपि पथ्याय वेददर्शाय चोक्तवान् ॥ १ ॥
 शौक्लायनिर्ब्रह्मबलिः मादोषः पिप्पलायनिः ।
 वेददर्शस्य शिष्यास्ते पथ्यशिष्यानथो श्रृणु ।
 कुमुदः शुनको ब्रह्मन् जाजलिश्चाप्यथर्ववित् ॥ २ ॥
 बभ्रुः शिष्योऽथांगिरसः सैन्धवायन एव च ।
 अधीयेतां संहिते द्वे सावर्णाद्यास्तथापरे ॥ ३ ॥
 नक्षत्रकल्पः शान्तिश्च कश्यपाङ्‌गिरसादयः ।
 एते आथर्वणाचार्याः श्रृणु पौराणिकान् मुने ॥ ४ ॥
 त्रय्यारुणिः कश्यपश्च सावर्णिः अकृतव्रणः ।
 वैशंपायनहारीतौ षड् वै पौराणिका इमे ॥ ५ ॥
 अधीयन्त व्यासशिष्यात् संहितां मत्पितुर्मुखात् ।
 एकैकाम् अहमेतेषां शिष्यः सर्वाः समध्यगाम् ॥ ६ ॥
 कश्यपोऽहं च सावर्णी रामशिष्योऽकृतव्रणः ।
 अधीमहि व्यासशिष्यात् चत्वारो मूलसंहिताः ॥ ७ ॥
 पुराणलक्षणं ब्रह्मन् ब्रह्मर्षिभिः निरूपितम् ।
 श्रृणुष्व बुद्धिमाश्रित्य वेदशास्त्रानुसारतः ॥ ८ ॥
 सर्गोऽस्याथ विसर्गश्च वृत्तिरक्षान्तराणि च ।
 वंशो वंशानुचरितं संस्था हेतुरपाश्रयः ॥ ९ ॥
 दशभिः लक्षणैर्युक्तं पुराणं तद्विदो विदुः ।
 केचित्पञ्चविधं ब्रह्मन् महदल्पव्यवस्थया ॥ १० ॥
 अव्याकृतगुणक्षोभान् महतस्त्रिवृतोऽहमः ।
 भूतसूक्ष्मेन्द्रियार्थानां संभवः सर्ग उच्यते ॥ ११ ॥
 पुरुषानुगृहीतानाम् एतेषां वासनामयः ।
 विसर्गोऽयं समाहारो बीजाद्बीजं चराचरम् ॥ १२ ॥
 वृत्तिर्भूतानि भूतानां चराणाम् अचराणि च ।
 कृता स्वेन नृणां तत्र कामात् चोदनयापि वा ॥ १३ ॥
 रक्षाच्युतावतारेहा विश्वस्यानु युगे युगे ।
 तिर्यङ्‌मर्त्यर्षिदेवेषु हन्यन्ते यैस्त्रयीद्विषः ॥ १४ ॥
 मन्वन्तरं मनुर्देवा मनुपुत्राः सुरेश्वराः ।
 ऋषयोंऽशावताराश्च हरेः षड्‌विधमुच्यते ॥ १५ ॥
 राज्ञां ब्रह्मप्रसूतानां वंशस्त्रैकालिकोऽन्वयः ।
 वंशानुचरितं तेषां वृत्तं वंशधराश्च ये ॥ १६ ॥
 नैमित्तिकः प्राकृतिको नित्य आत्यन्तिको लयः ।
 संस्थेति कविभिः प्रोक्तः चतुर्धास्य स्वभावतः ॥ १७ ॥
 हेतुर्जीवोऽस्य सर्गादेः अविद्याकर्मकारकः ।
 यं चानुशायिनं प्राहुः अव्याकृतमुतापरे ॥ १८ ॥
 व्यतिरेकान्वयो यस्य जाग्रत् स्वप्नसुषुप्तिषु ।
 मायामयेषु तद्ब्रह्म जीववृत्तिष्वपाश्रयः ॥ १९ ॥
 पदार्थेषु यथा द्रव्यं सन्मात्रं रूपनामसु ।
 बीजादिपञ्चतान्तासु ह्यवस्थासु युतायुतम् ॥ २० ॥
 विरमेत यदा चित्तं हित्वा वृत्तित्रयं स्वयम् ।
 योगेन वा तदात्मानं वेदेहाया निवर्तते ॥ २१ ॥
 एवं लक्षणलक्ष्याणि पुराणानि पुराविदः ।
 मुनयोऽष्टादश प्राहुः क्षुल्लकानि महान्ति च ॥ २२ ॥
 ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्‌गं सगारुडं ।
 नारदीयं भागवतं आग्नेयं स्कान्दसंज्ञितम् ॥ २३ ॥
 भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं सवामनम् ।
 वाराहं मात्स्यं कौर्मं च ब्रह्माण्डाख्यमिति त्रिषट् ॥ २४ ॥
 ब्रह्मन्निदं समाख्यातं शाखाप्रणयनं मुनेः ।
 शिष्यशिष्यप्रशिष्याणां ब्रह्मतेजोविवर्धनम् ॥ २५ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां द्वादशस्कन्धे सप्तमोऽध्यायः ॥ ७ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥