श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः ८

← श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः ७ श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः ८
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः ९ →


श्रीशौनक उवाच –
(अनुष्टुप्)
सूत जीव चिरं साधो वद नो वदतां वर ।
 तमस्यपारे भ्रमतां नॄणां त्वं पारदर्शनः ॥ १ ॥
 आहुश्चिरायुषमृषिं मृकण्डुतनयं जनाः ।
 यः कल्पान्ते उर्वरितो येन ग्रस्तमिदं जगत् ॥ २ ॥
 स वा अस्मत् कुलोत्पन्नः कल्पेऽस्मिन् भार्गवर्षभः ।
 नैवाधुनापि भूतानां सम्प्लवः कोऽपि जायते ॥ ३ ॥
 एक एवार्णवे भ्राम्यन् ददर्श पुरुषं किल ।
 वटपत्रपुटे तोकं शयानं त्वेकमद्‌भुतम् ॥ ४ ॥
 एष नः संशयो भूयान् सूत कौतूहलं यतः ।
 तं नश्छिन्धि महायोगिन् पुराणेष्वपि सम्मतः ॥ ५ ॥
 सूत उवाच -
प्रश्नस्त्वया महर्षेऽयं कृतो लोकभ्रमापहः ।
 नारायणकथा यत्र गीता कलिमलापहा ॥ ६ ॥
 प्राप्तद्विजातिसंस्कारो मार्कण्डेयः पितुः क्रमात् ।
 छन्दांस्यधीत्य धर्मेण तपःस्वाध्यायसंयुतः ॥ ७ ॥
 बृहद्व्रतधरः शान्तो जटिलो वल्कलाम्बरः ।
 बिभ्रत्कमण्डलुं दण्डमुपवीतं समेखलम् ॥ ८ ॥
 कृष्णाजिनं साक्षसूत्रं कुशांश्च नियमर्द्धये ।
 अग्न्यर्कगुरुविप्रात्मस्वर्चयन् सन्ध्ययोर्हरिम् ॥ ९ ॥
 सायं प्रातः स गुरवे भैक्ष्यमाहृत्य वाग्यतः ।
 बुभुजे गुर्वनुज्ञातः सकृन्नो चेदुपोषितः ॥ १० ॥
 एवं तपःस्वाध्यायपरो वर्षाणामयुतायुतम् ।
 आराधयन् हृषीकेशं जिग्ये मृत्युं सुदुर्जयम् ॥ ११ ॥
 ब्रह्मा भृगुर्भवो दक्षो ब्रह्मपुत्राश्च ये परे ।
 नृदेवपितृभूतानि तेनासन् अतिविस्मिताः ॥ १२ ॥
 इत्थं बृहद्व्रतधरः तपःस्वाध्यायसंयमैः ।
 दध्यावधोक्षजं योगी ध्वस्तक्लेशान्तरात्मना ॥ १३ ॥
 तस्यैवं युञ्जतश्चित्तं महायोगेन योगिनः ।
 व्यतीयाय महान् कालो मन्वन्तरषडात्मकः ॥ १४ ॥
 एतत् पुरन्दरो ज्ञात्वा सप्तमेऽस्मिन् किलान्तरे ।
 तपोविशङ्‌कितो ब्रह्मन् आरेभे तद्विघातनम् ॥ १५ ॥
 गन्धर्वाप्सरसः कामं वसन्तमलयानिलौ ।
 मुनये प्रेषयामास रजस्तोकमदौ तथा ॥ १६ ॥
 ते वै तदाश्रमं जग्मुः हिमाद्रेः पार्श्व उत्तरे ।
 पुष्पभद्रा नदी यत्र चित्राख्या च शिला विभो ॥ १७ ॥
 तदाश्रमपदं पुण्यं पुण्यद्रुमलताञ्चितम् ।
 पुण्यद्विजकुलाकीर्णं पुण्यामलजलाशयम् ॥ १८ ॥
 मत्तभ्रमरसङ्‌गीतं मत्तकोकिलकूजितम् ।
 मत्तबर्हिनटाटोपं मत्तद्विजकुलाकुलम् ॥ १९ ॥
 वायुः प्रविष्ट आदाय हिमनिर्झरशीकरान् ।
 सुमनोभिः परिष्वक्तो ववावुत्तम्भयन् स्मरम् ॥ २० ॥
 उद्यच्चन्द्रनिशावक्त्रः प्रवालस्तबकालिभिः ।
 गोपद्रुमलताजालैः तत्रासीत् कुसुमाकरः ॥ २१ ॥
 अन्वीयमानो गन्धर्वैः गीतवादित्रयूथकैः ।
 अदृश्यतात्तचापेषुः स्वःस्त्रीयूथपतिः स्मरः ॥ २२ ॥
 हुत्वाग्निं समुपासीनं ददृशुः शक्रकिङ्‌कराः ।
 मीलिताक्षं दुराधर्षं मूर्तिमन्तमिवानलम् ॥ २३ ॥
 ननृतुस्तस्य पुरतः स्त्रियोऽथो गायका जगुः ।
 मृदङ्‌गवीणापणवैः वाद्यं चक्रुर्मनोरमम् ॥ २४ ॥
 सन्दधेऽस्त्रं स्वधनुषि कामः पञ्चमुखं तदा ।
 मधुर्मनो रजस्तोक इन्द्रभृत्या व्यकम्पयन् ॥ २५ ॥
 क्रीडन्त्याः पुञ्जिकस्थल्याः कन्दुकैः स्तनगौरवात् ।
 भृशमुद्विग्नमध्यायाः केशविस्रंसितस्रजः ॥ २६ ॥
 इतस्ततो भ्रमद्दृष्टेः चलन्त्या अनु कन्दुकम् ।
 वायुर्जहार तद्वासः सूक्ष्मं त्रुटितमेखलम् ॥ २७ ॥
 विससर्ज तदा बाणं मत्वा तं स्वजितं स्मरः ।
 सर्वं तत्राभवन् मोघमनीशस्य यथोद्यमः ॥ २८ ॥
 त इत्थमपकुर्वन्तो मुनेस्तत्तेजसा मुने ।
 दह्यमाना निववृतुः प्रबोध्याहिमिवार्भकाः ॥ २९ ॥
 इतीन्द्रानुचरैर्ब्रह्मन् धर्षितोऽपि महामुनिः ।
 यन्नागादहमो भावं न तच्चित्रं महत्सु हि ॥ ३० ॥
 दृष्ट्वा निस्तेजसं कामं सगणं भगवान् स्वराट् ।
 श्रुत्वानुभावं ब्रह्मर्षेः विस्मयं समगात् परम् ॥ ३१ ॥
 तस्यैवं युञ्जतश्चित्तं तपःस्वाध्यायसंयमैः ।
 अनुग्रहायाविरासीत् नरनारायणो हरिः ॥ ३२ ॥
(मिश्र-१२)
तौ शुक्लकृष्णौ नवकञ्जलोचनौ
     चतुर्भुजौ रौरववल्कलाम्बरौ ।
 पवित्रपाणी उपवीतकं त्रिवृत्
     कमण्डलुं दण्डमृजुं च वैणवम् ॥ ३३ ॥
 पद्माक्षमालामुत जन्तुमार्जनं
     वेदं च साक्षात् तप एव रूपिणौ ।
 तपत् तडिद्वर्णपिशङ्‌गरोचिषा
     प्रांशू दधानौ विबुधर्षभार्चितौ ॥ ३४ ॥
(अनुष्टुप्)
ते वै भगवतो रूपे नरनारायणौ ऋषी ।
 दृष्ट्वोत्थायादरेणोच्चैः ननामाङ्‌गेन दण्डवत् ॥ ३५ ॥
 स तत् सन्दर्शनानन्द निर्वृतात्मेन्द्रियाशयः ।
 हृष्टरोमाश्रुपूर्णाक्षो न सेहे तावुदीक्षितुम् ॥ ३६ ॥
 उत्थाय प्राञ्जलिः प्रह्व औत्सुक्यादाश्लिषन्निव ।
 नमो नम इतीशानौ बभाषे गद्‌गदाक्षरम् ॥ ३७ ॥
 तयोरासनमादाय पादयोरवनिज्य च ।
 अर्हणेनानुलेपेन धूपमाल्यैरपूजयत् ॥ ३८ ॥
 सुखमासनमासीनौ प्रसादाभिमुखौ मुनी ।
 पुनरानम्य पादाभ्यां गरिष्ठाविदमब्रवीत् ॥ ३९ ॥
 श्रीमार्कण्डेय उवाच -
(वसंततिलका)
किं वर्णये तव विभो यदुदीरितोऽसुः
     संस्पन्दते तमनु वाङ्‌मन इन्द्रियाणि ।
 स्पन्दन्ति वै तनुभृतामजशर्वयोश्च
     स्वस्याप्यथापि भजतामसि भावबन्धुः ॥ ४० ॥
 मूर्ती इमे भगवतो भगवन् त्रिलोक्याः
     क्षेमाय तापविरमाय च मृत्युजित्यै ।
 नाना बिभर्ष्यवितुमन्यतनूर्यथेदं
     सृष्ट्वा पुनर्ग्रससि सर्वमिवोर्णनाभिः ॥ ४१ ॥
 तस्यावितुः स्थिरचरेशितुरङ्‌घ्रिमूलं
     यत्स्थं न कर्मगुणकालरुजः स्पृशन्ति ।
 यद्वै स्तुवन्ति निनमन्ति यजन्त्यभीक्ष्णं
     ध्यायन्ति वेदहृदया मुनयस्तदाप्त्यै ॥ ४२ ॥
 नान्यं तवाङ्‌घ्र्युपनयादपवर्गमूर्तेः
     क्षेमं जनस्य परितोभिय ईश विद्मः ।
 ब्रह्मा बिभेत्यलमतो द्विपरार्धधिष्ण्यः
     कालस्य ते किमुत तत्कृतभौतिकानाम् ॥ ४३ ॥
 तद् वै भजाम्यृतधियस्तव पादमूलं
     हित्वेदमात्मच्छदि चात्मगुरोः परस्य ।
 देहाद्यपार्थमसदन्त्यमभिज्ञमात्रं
     विन्देत ते तर्हि सर्वमनीषितार्थम् ॥ ४४ ॥
 सत्त्वं रजस्तम इतीश तवात्मबन्धो
     मायामयाः स्थितिलयोदयहेतवोऽस्य ।
 लीला धृता यदपि सत्त्वमयी प्रशान्त्यै
     नान्ये नृणां व्यसनमोहभियश्च याभ्याम् ॥ ४५ ॥
 तस्मात्तवेह भगवन्नथ तावकानां
     शुक्लां तनुं स्वदयितां कुशला भजन्ति ।
 यत्सात्वताः पुरुषरूपमुशन्ति सत्त्वं
     लोको यतोऽभयमुतात्मसुखं न चान्यत् ॥ ४६ ॥
 तस्मै नमो भगवते पुरुषाय भूम्ने
     विश्वाय विश्वगुरवे परदैवतायै ।
 नारायणाय ऋषये च नरोत्तमाय
     हंसाय संयतगिरे निगमेश्वराय ॥ ४७ ॥
 यं वै न वेद वितथाक्षपथैर्भ्रमद्धीः
     सन्तं स्वखेष्वसुषु हृद्यपि दृक्पथेषु ।
 तन्माययावृतमतिः स उ एव साक्षाद्
     आद्यस्तवाखिलगुरोरुपसाद्य वेदम् ॥ ४८ ॥
 यद्दर्शनं निगम आत्मरहःप्रकाशं
     मुह्यन्ति यत्र कवयोऽजपरा यतन्तः ।
 तं सर्ववादविषयप्रतिरूपशीलं
     वन्दे महापुरुषमात्मनिगूढबोधम् ॥ ४९ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां द्वादशस्कन्धे अष्टमोऽध्यायः ॥ ८ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥