श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १९

← श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १८ श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १९
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २० →


स्वकीय अश्वमेधयज्ञे विघ्नकारिणं इंद्र हन्तुकामस्य पृथोर्ब्रह्मसान्त्वनया यज्ञाद्विरतिः -

मैत्रेय उवाच -
(अनुष्टुप्)
अथादीक्षत राजा तु हयमेधशतेन सः ।
 ब्रह्मावर्ते मनोः क्षेत्रे यत्र प्राची सरस्वती ॥ १ ॥
 तदभिप्रेत्य भगवान् कर्मातिशयमात्मनः ।
 शतक्रतुर्न ममृषे पृथोर्यज्ञमहोत्सवम् ॥ २ ॥
 यत्र यज्ञपतिः साक्षाद् भगवान् हरिरीश्वरः ।
 अन्वभूयत सर्वात्मा सर्वलोकगुरुः प्रभुः ॥ ३ ॥
 अन्वितो ब्रह्मशर्वाभ्यां लोकपालैः सहानुगैः ।
 उपगीयमानो गन्धर्वैः मुनिभिश्चाप्सरोगणैः ॥ ४ ॥
 सिद्धा विद्याधरा दैत्या दानवा गुह्यकादयः ।
 सुनन्दनन्दप्रमुखाः पार्षदप्रवरा हरेः ॥ ५ ॥
 कपिलो नारदो दत्तो योगेशाः सनकादयः ।
 तमन्वीयुर्भागवता ये च तत्सेवनोत्सुकाः ॥ ६ ॥
 यत्र धर्मदुघा भूमिः सर्वकामदुघा सती ।
 दोग्धि स्माभीप्सितान् अर्थान् यजमानस्य भारत ॥ ७ ॥
 ऊहुः सर्वरसान्नद्यः क्षीरदध्यन्नगोरसान् ।
 तरवो भूरिवर्ष्माणः प्रासूयन्त मधुच्युतः ॥ ८ ॥
 सिन्धवो रत्‍ननिकरान् गिरयोऽन्नं चतुर्विधम् ।
 उपायनं उपाजह्रुः सर्वे लोकाः सपालकाः ॥ ९ ॥
 इति चाधोक्षजेशस्य पृथोस्तु परमोदयम् ।
 असूयन् भगवान् इन्द्रः प्रतिघातमचीकरत् ॥ १० ॥
 चरमेणाश्वमेधेन यजमाने यजुष्पतिम् ।
 वैन्ये यज्ञपशुं स्पर्धन् अपोवाह तिरोहितः ॥ ११ ॥
 तं अत्रिर्भगवानैक्षत् त्वरमाणं विहायसा ।
 आमुक्तमिव पाखण्डं योऽधर्मे धर्मविभ्रमः ॥ १२ ॥
 अत्रिणा चोदितो हन्तुं पृथुपुत्रो महारथः ।
 अन्वधावत सङ्‌क्रुद्धः तिष्ठ तिष्ठेति चाब्रवीत् ॥ १३ ॥
 तं तादृशाकृतिं वीक्ष्य मेने धर्मं शरीरिणम् ।
 जटिलं भस्मनाच्छन्नं तस्मै बाणं न मुञ्चति ॥ १४ ॥
 वधान्निवृत्तं तं भूयो हन्तवेऽत्रिरचोदयत् ।
 जहि यज्ञहनं तात महेन्द्रं विबुधाधमम् ॥ १५ ॥
 एवं वैन्यसुतः प्रोक्तः त्वरमाणं विहायसा ।
 अन्वद्रवद् अभिक्रुद्धो रावणं गृध्रराडिव ॥ १६ ॥
 सोऽश्वं रूपं च तद्धित्वा तस्मा अन्तर्हितः स्वराट् ।
 वीरः स्वपशुमादाय पितुर्यज्ञं उपेयिवान् ॥ १७ ॥
 तत्तस्य चाद्‍भुतं कर्म विचक्ष्य परमर्षयः ।
 नामधेयं ददुस्तस्मै विजिताश्व इति प्रभो ॥ १८ ॥
 उपसृज्य तमस्तीव्रं जहाराश्वं पुनर्हरिः ।
 चषालयूपतश्छन्नो हिरण्यरशनं विभुः ॥ १९ ॥
 अत्रिः सन्दर्शयामास त्वरमाणं विहायसा ।
 कपालखट्वाङ्‌गधरं वीरो नैनमबाधत ॥ २० ॥
 अत्रिणा चोदितस्तस्मै सन्दधे विशिखं रुषा ।
 सोऽश्वं रूपं च तद्धित्वा तस्थावन्तर्हितः स्वराट् ॥ २१ ॥
 वीरश्चाश्वमुपादाय पितृयज्ञमथाव्रजत् ।
 तदवद्यं हरे रूपं जगृहुर्ज्ञानदुर्बलाः ॥ २२ ॥
 यानि रूपाणि जगृहे इन्द्रो हयजिहीर्षया ।
 तानि पापस्य खण्डानि लिङ्‌गं खण्डमिहोच्यते ॥ २३ ॥
 एवमिन्द्रे हरत्यश्वं वैन्ययज्ञजिघांसया ।
 तद्‍गृहीतविसृष्टेषु पाखण्डेषु मतिर्नृणाम् ॥ २४ ॥
 धर्म इत्युपधर्मेषु नग्नरक्तपटादिषु ।
 प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु ॥ २५ ॥
 तदभिज्ञाय भगवान् पृथुः पृथुपराक्रमः ।
 इन्द्राय कुपितो बाणं आदत्तोद्यतकार्मुकः ॥ २६ ॥
 तमृत्विजः शक्रवधाभिसन्धितं
     विचक्ष्य दुष्प्रेक्ष्यमसह्यरंहसम् ।
 निवारयामासुरहो महामते
     न युज्यतेऽत्रान्यवधः प्रचोदितात् ॥ २७ ॥
 वयं मरुत्वन्तमिहार्थनाशनं
     ह्वयामहे त्वच्छ्रवसा हतत्विषम् ।
 अयातयामोपहवैरनन्तरं
     प्रसह्य राजन् जुहवाम तेऽहितम् ॥ २८ ॥
(अनुष्टुप्)
इत्यामन्त्र्य क्रतुपतिं विदुरास्यर्त्विजो रुषा ।
 स्रुग्घस्तान् जुह्वतोऽभ्येत्य स्वयम्भूः प्रत्यषेधत ॥ २९ ॥
 न वध्यो भवतां इन्द्रो यद्यज्ञो भगवत्तनुः ।
 यं जिघांसथ यज्ञेन यस्येष्टास्तनवः सुराः ॥ ३० ॥
 तदिदं पश्यत महद् धर्मव्यतिकरं द्विजाः ।
 इन्द्रेणानुष्ठितं राज्ञः कर्मैतद्विजिघांसता ॥ ३१ ॥
 पृथुकीर्तेः पृथोर्भूयात् तर्ह्येकोनशतक्रतुः ।
 अलं ते क्रतुभिः स्विष्टैः यद्‍भवान् मोक्षधर्मवित् ॥ ३२ ॥
 नैवात्मने महेन्द्राय रोषमाहर्तुमर्हसि ।
 उभावपि हि भद्रं ते उत्तमश्लोकविग्रहौ ॥ ३३ ॥
 मास्मिन्महाराज कृथाः स्म चिन्तां
     निशामयास्मद्वच आदृतात्मा ।
 यद्ध्यायतो दैवहतं नु कर्तुं
     मनोऽतिरुष्टं विशते तमोऽन्धम् ॥ ३४ ॥
(अनुष्टुप्)
क्रतुर्विरमतामेष देवेषु दुरवग्रहः ।
 धर्मव्यतिकरो यत्र पाखण्डैः इन्द्रनिर्मितैः ॥ ३५ ॥
 एभिरिन्द्रोपसंसृष्टैः पाखण्डैर्हारिभिर्जनम् ।
 ह्रियमाणं विचक्ष्वैनं यस्ते यज्ञध्रुगश्वमुट् ॥ ३६ ॥
 भवान्परित्रातुमिहावतीर्णो
     धर्मं जनानां समयानुरूपम् ।
 वेनापचारादवलुप्तमद्य
     तद्देहतो विष्णुकलासि वैन्य ॥ ३७ ॥
 स त्वं विमृश्यास्य भवं प्रजापते
     सङ्‌कल्पनं विश्वसृजां पिपीपृहि ।
 ऐन्द्रीं च मायामुपधर्ममातरं
     प्रचण्डपाखण्डपथं प्रभो जहि ॥ ३८ ॥
 मैत्रेय उवाच -
इत्थं स लोकगुरुणा समादिष्टो विशाम्पतिः ।
 तथा च कृत्वा वात्सल्यं मघोनापि च सन्दधे ॥ ३९ ॥
 कृतावभृथस्नानाय पृथवे भूरिकर्मणे ।
 वरान्ददुस्ते वरदा ये तद्‍बर्हिषि तर्पिताः ॥ ४० ॥
 विप्राः सत्याशिषस्तुष्टाः श्रद्धया लब्धदक्षिणाः ।
 आशिषो युयुजुः क्षत्तः आदिराजाय सत्कृताः ॥ ४१ ॥
 त्वयाऽऽहूता महाबाहो सर्व एव समागताः ।
 पूजिता दानमानाभ्यां पितृदेवर्षिमानवाः ॥ ४२ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे एकोनविंशोऽध्यायः ॥ १९ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥