श्रीसिद्धान्तसुधानिधिः/अध्यायः १-पादः १/आह्निकम् ६

← आह्निकम् ५ श्रीसिद्धान्तसुधानिधिः
आह्निकम् ६
[[लेखकः :|]]
आह्निकम् ७ →

सर्वादीनि सर्वनामानि 26 ।
(1.1.6)

सर्वदीनि शब्दस्वरूपाणि सर्वनामसंज्ञानि स्युः । प्रदेशाः "सर्वनाम्नः स्मै " इत्यादयः । ननु सर्वशब्दस्य संज्ञा न स्यात् । तदादौ सर्वशब्दपाठाभावात् । सत्यम् । सर्व आदौ येषां तानि सर्वादीनीति बहुव्रीहिः । सर्वश्चासावादिश्च सर्वादिरिति कर्मधारयः । अत्रादिशब्दस्य प्रयोजनाभावेऽपि सारूप्यसम्पादनमात्रार्थमुपादानम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्, कर्मधारये त्वन्तोदात्तत्वम् । "स्वरभिन्नानां यत्परं तच्छिष्यते" इति बहुव्रीहितत्पुरुषयोरेकशेषे तत्पुरुषलोपः ।
वस्तुतस्तु तद्‌गुणत्वाद्‌ बहुव्रीहेः सिद्धम् । अत एव "जन्माद्यस्य यत" इति सूत्रे "जन्मनोऽपि ब्रह्मलक्षणत्वम्" इति भगवत्पादादयः । अधिकं बहुव्रीहिसंज्ञासूत्रे वक्ष्यामः ।
अत्र हि उद्‌भूतावयवभेदः समुदायः समासार्थः । तस्य च युगपत्प्रयोगाभावात्कार्यार्थत्वव्याप्यायाः संज्ञायास्तदवयवेषु निवेशादविशेषात्सर्वशब्देऽपि निवेशः । अत एव "सर्वादीनि" इति बहुत्वं सङ्गच्छते । समुदायस्य संज्ञित्वे एकवचनप्रसङ्गात् । महासंज्ञाकरणमन्वर्थत्वविज्ञानार्थम् । तेन संज्ञोपसर्जनानां व्यावृत्तिः । तेषां धर्मिविशेषमात्रबोधकत्वात् ।
ननु किमिदं सर्वनामत्वम् । न यावदर्थबोधकत्वम् । पूर्वादिपदानां घटाद्यवाचकत्वात् । न च पूर्वत्वादिरूपेण तद्बोधजनकत्वात्तदर्थकत्वम्, केनचिद्रूपेण यावदर्थबोधजनकत्वस्य विवक्षितत्वादिति वाच्यम् । विभुद्रव्याणां गुणादीनां च पूर्वत्वादिरूपेणाप्यबोधनात् । आत्मपरेषु स्वयुष्मदस्मत्पदेष्वव्याप्तेश्च । अत एव कैयटेन "सर्वेषां नामानि" इति भाष्यव्याख्यायां "स्वविषयापेक्षया सर्वनामत्वम्, यथा जात्यादेः स्वविषयापेक्षया सर्वगतत्वम्" इत्युक्तम् । नाप्यनेकार्थबोधकत्वम् । सर्वपदस्यापि संज्ञाभूतस्य तथात्वात् । तद्वाच्यव्यक्तीनामवस्थाभेदेन भिन्नत्वात् । नापि विजातीयानेकबोधकत्वम् । स्वादिपदेष्वव्याप्तेः । आत्मत्वेन तेषां साजात्यात् । प्रियसर्वौ चैत्रमैत्रावित्युपसर्जनसर्वपदस्यापि तथात्वादतिव्याप्तेश्च । तस्मात्संज्ञोपसर्जनव्यावृत्तमवयवार्थतावच्छेदकं दुर्वचमिति चेत्, सत्यम् । अन्वर्थसंज्ञयैवोभयव्यावृत्तिरिति नभाष्याभिप्रायः, किन्तु तत्र तात्पर्यग्राहकत्वमात्रम्, व्यावृत्तिस्तु "संज्ञोपसर्जनप्रतिषेधः" इति वार्त्तिकवचनादेव । न च तत्राप्युक्तानुयोगः । आधुनिकसङ्केतः संज्ञा, वृत्तिप्रवेश उपसर्जनत्वमित्युभयसंमतत्वात् । अत एवाग्रे कैयटो वक्ष्यति---
उपसर्जनप्रतिषेधो वार्त्तिककारस्य, न सूत्रकारस्य । "न बहुव्रीहौ" इत्यस्यारम्भादिति ।
संज्ञायास्त्वन्वर्थत्वाश्रयणादपि व्यावृत्तिरिति तदभिप्रायः । ननु सर्वनामपदे "पूर्वपदात्संज्ञायाम्" इति णत्वं स्यात् । निपातनस्वीकारे सणत्वस्यासाधुत्वापत्तेः । न चोभयप्रामाण्यादुभयोः साधुत्वम् । निषेधस्थलेऽपि विकल्पापत्तेः । विशेषशास्त्रेण सामान्यशास्त्रसङ्कोचस्य तुल्यत्वात् । सत्यम् । सणत्वस्यासाधुत्वमेव । उक्तन्यायात् । न च "क्रियासातत्ये" इत्यनेन सन्ततशब्दबाधापत्तिः । एकदेशानुमतिद्वारा "लुम्पेदवश्यमः कृत्ये" इति पूर्वाचार्यश्लोकस्यैव ज्ञाप्यत्वात् । न च "पुराणप्रोक्तेषु " इति नुडागमाभावनिपातनात्पुरातनशब्दस्यासाधुत्वापत्तिः । इष्टत्वादिति केचित् ।
पृषोदरादिषु तस्य पाठ्यत्वादिति कैयटः ।
कौस्तुभकारास्तु पुराणेति निर्देशेन आगमशासनस्य अव्ययानां भमात्रे टिलोपः" इत्यस्य चानित्यत्वामात्रं जाप्यत इत्याहुः । तेन "पुरातनं त्वां पुरुषं पुराविदः" इत्यादि सिद्धम् ।
संज्ञोपसर्जनयोः संज्ञाप्रतिषेधप्रकारमाह वार्त्तिककारः ।
पाठात्पर्युदासः पठितानां संज्ञाकरणमिति ।
अयमर्थः---संज्ञोपसर्जनानां सर्वादिमध्ये पाठो नास्तीति वचनमारभ्यते । तेषां पाठबहिर्भावं कृत्वा पठितानां संज्ञा विधेयेति । यद्वा---नेदं संज्ञासूत्रम्, किन्तु गणशुद्धिमात्रफलकम् । यथा "तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः" इति सूत्रे यानि कुत्सनाभीक्ष्ण्वृत्तीनि गोत्रादिशब्दस्वरूपाणि तान्येव गोत्रादिगणे पठ्यन्ते, न त्वान्यादृशानीति । तेन "चनचिदीवगोत्रादितद्धिताम्रेडितेष्वगतेः" "कुत्सने च सुप्यगोत्रादौ" इत्यत्र तादृशानामेव ग्रहणम्, न त्वर्थान्तरवृत्तीनाम् । एवमिहापि यानि सर्वादिवाचकानि तान्येव सर्वादिगणे पठितानि, न तु संज्ञोपसर्जनीभूतानि । तेषां विशेषवृत्तीनाम् । एवमिहापि यानि सर्वादिवाचकानि तान्येव सर्वादिगणे पठितानि, न तु संज्ञोपसर्जनीभूतानि । तेषां विशेषवृत्तित्वात् । तथा च तेषां गणपाठाभावादेव न संज्ञाप्रसक्तिरित्यर्थः । न चैवं संज्ञाप्रयुक्तकार्यासिद्धिः । सर्वनाम्न इत्यादौ यौगिकार्थस्यैव ग्रहणात् ।
वस्तुत एवं सकलकृत्स्नादिशब्देष्वतिव्याप्तिः । तस्मात् "सर्वादीनि" इत्यत्रोभयत्राप्येकशेषः । यानि सर्वेषां नामानि तान्येव सर्वादीनीति गणशुद्ध्यर्थमेकवाक्यम् ।
वार्त्तिककृता वचनान्तरेण पूर्वं गणशुद्धिः कृता ।
भाष्यकृता त्वनेनैव प्रकारेणेति विशेषः । यानि सर्वादीनि तानि सर्वनामसंज्ञानीति संज्ञार्थं द्वितीयमिति न कोऽपि दोषः । न चैवं सहविवक्षाविरहादेकशेषानुपपत्तिः, अर्थद्वयस्योद्देश्यविधेयभाववैपरीत्येनान्वयादिति वाच्यम् । जातिपक्षे प्रत्याख्यातस्य सरूपसूत्रस्य प्रक्रियादशायां सहभावविवक्षाविरहेऽप्येकशेषविधायकत्वस्वीकारात् । येषां सर्वनामत्वं नेष्यते तेषां "न बहुव्रीहौ" इत्यत्र नेतियोगविभागेन संज्ञानिषेधो व्याख्येय इति चतुर्थे वक्ष्यमाणं भाष्यारूढं समाधानमप्यत्र संचारणीयम् ।
वार्त्तिकमते "एकद्रव्योपवेशिनी संज्ञा" इति संज्ञासंज्ञया सर्वनामसंज्ञा बाध्यते इति एकसंज्ञाधिकारे वक्ष्यमाणरीत्याऽपि संज्ञांशे समाधेयमिति दिक् ।
तेन तेषां संज्ञाकार्यमन्तर्गणकार्यं च न । संज्ञाकार्यं यथा---सर्वो नाम कश्चित् तस्मै सर्वाय । अतिक्रान्तः सर्वमतिसर्वः तस्मै अतिसर्वाय । अन्तर्गणकार्यं यथा---तद्‌ नाम कश्चित् "त्यदादीनामः" इत्यत्वं न । तमतिक्रान्तोऽतितत् "अद्‌ड्डतरादिभ्यः" इत्यद्‌डादेशो न । न च संज्ञायां गौणमुख्यन्यायादेव वारणात्पर्युदासवैयर्थ्यम् । इष्टापत्तेरिति हरदत्तादयः ।
तस्य पदकार्यमात्रविषयकत्वादिति कैयटः ।
"युष्मदस्मद्भ्यां ङसोऽश्‌" इत्यादिकं त्वतियुष्मदित्यादौ भवत्येव । शब्दस्वरूपमात्राश्रयतया गणपाठानपेक्षत्वात् । न च "युष्मद्युपपदे" इत्यादावप्यापत्तिः । "अभिव्यक्तपदार्थाये" इति न्यायात्प्रसिद्धार्थपरतायामेव तत्प्रवृत्तेः । तत्र च शब्दपरत्वात् । अत्र भाष्यम्---
संज्ञाप्रतिषेधो व्यर्थः, पूर्वपरावरेत्यत्रासंज्ञायामिति योगं विभज्य तस्य पूर्वोत्तरशेषतया व्याख्यानात् ।
एवमुपसर्जनस्यापि "अनुपसर्जनात्" इति सूत्रस्य प्रत्याख्यानात्, तदधिकारे प्रयोजनाभावात् । तच्च तत्रैव वक्ष्यामः । किन्तु तदन्यथा व्याख्येयम् । "अनुपसर्जन" इति षष्ठ्यन्तम्, छान्दसत्वात्तलोपः । अश्च अच्च आत् उक्तादेशौ अनुपसर्जनस्य भवत इत्यर्थः । न चैवम्, अतियुष्मदित्यस्यासिद्धिः । अकारान्तरं प्रश्लिष्य तेन पूर्वोक्तादेशयोर्विशेषणात् । अकारात्परौ यौ अकारात्कारौ इति व्याख्यानात् त्यदाद्यत्वमद्‌डादेशश्चाकारात्परतो विधीयेते इति तत्र परिभाषोपस्थानम्, न त्वतियुष्मदित्यत्र "पञ्चम्या अत्‌" इत्यद्‌भावस्य । युष्मदस्मद्भ्यां परस्य ङस्यादेर्विधानात् । तयोश्चाकारान्तत्वाभावात् ।
नन्वेवं प्रियौ द्वावस्येति बहुव्रीहौ प्रियद्विरित्यत्र त्यदाद्यत्वं स्यात् । इकारस्थानिकस्याकारादेशस्य वकारात्परत्वादकारात्परतो विधानाभावादुक्तपरिभाषाया अप्रवृत्तेः । एवम् "तदोः सः सावनन्त्ययोः" इति सत्वमप्युपसर्जने स्यात् । उक्तपरिभाषायां सकारस्यानुपादानात् । मैवम् । "त्यदादीनामः" इत्यत्रोक्तपरिभाषयाऽनुपसर्जनग्रहणे सिद्धे साहचर्यात्तथाभूतस्यैव द्विशब्दस्योपादानात् । सत्वविधावप्यर्थाधिकारेण तथाविधानामेव त्यदादीनां ग्राह्यत्वात् ।
यद्वा---अङ्गाधिकारेष्वर्थद्वारकविशेषणमाश्रयणीयम् । तदुक्तम्---
अङ्गाधिकारे यदुच्यते गृह्यमाणविभक्तेस्तद्भवतीति ।
गृह्यमाणाद्विहिता विभक्तिरित्यर्थे तु परमपञ्चेत्यादौ लुक्‌ न स्यात् । तथा च सर्वनामार्थवृत्तिसंख्याकारकाभिधायिनो ङेः स्मै स्यादित्यादिरर्थः । प्रियविश्वायेत्यादौ त्वन्यपदार्थवृत्तय एवं संख्यादयो विभक्त्योच्यन्ते, न तु सर्वशब्दार्थवृत्तय इत्यदोषः । परमसर्व इत्यादौ तु सर्वशब्दार्थवृत्तय एवेति नाव्याप्तिः । ननु "द्वन्द्वे च" इति ज्ञापकात्सर्वनामसंज्ञायां तदन्तविधिरस्ति । तथा च तदन्तस्यापि प्रियविश्वादेः सर्वनामत्वात्सर्वनामार्थवृत्तिसंख्याद्यभिधायित्वं विभक्तेरक्षतमिति चेत्, सत्यम् । सर्वादिगणपठितत्वे सति सर्वनामत्वस्यात्र निवेशात् । तदन्तस्य च सत्यामपि संज्ञायां तदभावात् । न चैवं विहितविशेषणेनैव तत्सिद्धिरिति वाच्यम् । उपायस्योपायान्तरानपवादकत्वात् ।
अन्ये त्वेतदपरितोषादेवान्वर्थसंज्ञाश्रयणमित्याहुः ।
वस्तुतस्तु अन्वर्थसंज्ञापक्षे उपसर्जनव्यावृत्तस्यावयवार्थस्य दुर्वचत्वात् । तत्र भाष्यस्य न तात्पर्यम् । "द्वन्द्वे च" इत्यनेन ज्ञाप्यमानस्तदन्तविधिस्तु यत्र सर्वनाम्नः प्राधान्यं तत्रैव । लक्ष्यानुरोधात् । धर्मिग्राहकप्रमाणानुरोधाच्च । तेनातिसर्व इत्यादौ नातिव्याप्तिः । "न बहुव्रीहौ" इति सूत्रं तु अलौकिकवाक्ये संज्ञानिषेधार्थं प्रत्याख्येयं वेत्यन्यदेतत् ।
यस्त्वङ्गाधिकारलभ्यतदन्तविधिप्रयुक्तोऽतिप्रसङ्गः स तत्रैव विहितविशेषणेन परिहरिष्यते । अन्यथा तेनापि तत्परिहारानुपपत्तेः । तत्र विहितविशेषणेन तद्दोषपरिहारस्य च सर्वाभिमतत्वात् । अन्यथाऽवयवसंज्ञानिषेधार्थतयैव वचनोपपत्त्या तदन्तविधिज्ञापकत्वानुपपत्तेः । कैयटस्याप्ययमेवाभिप्रायः ।
अतिसर्वायेत्यादौ त्वविशेषकार्यमपरिहृतमेवेति दोषस्य "अनुपसर्जनाद्" इति पूर्वोक्तपक्षमेव प्रक्रम्य तेन लिखितत्वात् । अर्थद्वारकविभक्तिविशेषणपक्षे तद्दोषाभावस्य तदभिमतत्वात् । अविशेषकार्यं सर्वनामसंज्ञाप्रयुक्तमित्यर्थः । तस्मादर्थद्वारकविभक्तिवेशेषणएव भाष्यस्य तात्पर्यम् ।
ननु पञ्चकाः शकुनय इत्यत्र प्रत्ययस्य स्वार्थिकत्वात् षडर्थप्राधान्यात् पङ्‌भ्यो लुक् स्यादिति चेन्न । प्रत्ययविशिष्टस्य शब्दान्तरत्वान्नान्तत्वाभावाच्च षट्‌संज्ञाविरहात् । ननु "युष्मदस्पद्भ्यां ङसोऽश्‌" इत्यादिकमप्युपसर्जने न स्यात्, युष्मदाद्यर्थनिष्ठसंख्याद्यनभिधायकत्वात्तत्रत्यविभक्तेरिति चेन्न । तत्प्रकरणे अङ्गस्यार्थद्वारा युष्मदस्मद्भ्यां च परत्वमात्रेण विभक्तेर्विशेषणीयत्वात् । अङ्गनिष्ठसंख्याभिधायिन्या युष्मदस्मद्भ्यां परस्या ङसादिविभक्तेरशादयो भवन्तीत्यर्थः । "अद्‌ड्‌डतरादिभ्यः" इत्यत्र त्वङ्गाधिकाराभावाद् डतरादिभ्यो यो विहित इत्यर्थद्वारकं विधानमाश्रयणीयम् । तेन परमकतरदित्यादौ अतिकतरमित्यादौ च नाव्याप्त्यतिव्याप्ती । "अस्थिदधिसक्थ्यक्ष्णामनुङुदात्तः" "त्यदादीनामः" इत्यादौ तु "अङ्गस्य" इति षष्ठ्या अपि सत्त्वादस्थ्यादिभिरङ्गेन वा विभक्तिर्विशेष्यत इत्युभयसम्भवात् । अस्थीत्यादौ अङ्गस्य विभक्तावस्थ्यादीनामनङ्‌ स्यादिति वाक्यार्थः । तेन प्रियसक्थ्नेत्यादौ नाव्याप्तिः । अत्र शकटावयववाची सक्थिशब्दः । अन्यथा "बहुव्रीहौ सक्थ्यक्ष्णोः" इति षट्‌प्रसङ्गात् । "त्यदादीनामः" इत्यादौ तु त्यदादिकं विभक्तेर्विशेषणम्, अङ्गस्येत्यकारस्य । त्यदाद्यर्थनिष्ठसंख्याद्यभिधायिन्यां विभक्तावङ्गस्याकारोऽन्तादेशः स्यादित्यर्थः । तेन अतिस अतितद्‌ इत्यादौ नाव्याप्त्यतिव्याप्ति । लक्ष्यानुरोधेनैव व्याख्यानप्रवृत्तेरित्यास्तां विस्तरः ।
उभशब्दः पर्याप्त्या द्वित्वविशिष्टस्य वाचकः । अत एव नित्यं द्विवचनान्तः ।
नन्वेवं सर्वादिपाठोऽस्य व्यर्थः । एकबहुवचनयोरेव सर्वनामसंज्ञाप्रयुक्तकार्यविशेषदर्शनात् । उभ्याभ्यां हेतुभ्यामिति तृतीययोश्च "निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम्" इति हेताविति सूत्रस्थसर्वनामसंज्ञानपेक्षवार्त्तिकादेव सिद्धेः । काकचोश्च विशेषाभावादिति चेत्, सत्यम् । उभकावित्यकजर्थोऽत्र पाठः । न ह्येतत्कप्रत्ययेनेष्टं सिद्ध्यति ।
अयचा उभयकावित्यापत्तेः । द्विवचनातिरिक्तस्थले उभशब्दादयजुत्पत्तिनियमात् । तथा हि---"उभादुदात्तो नित्यम्" इत्यत्र उभादिति योगो विभज्यते । अवयववृत्तेः सङ्ख्यावाचिनः उभशब्दादवयविन्यर्थेऽयच्स्यात् । उभयो मणिः । श्यामलोहिताभ्यां भागाभ्यामारब्ध इत्यर्थः । ततो नित्यम् । उभशब्दान्नित्यमयच्स्यात्, अर्थविशेषानिर्देशात्स्वार्थे । उभौ पुत्रौ यस्यासावुभयपुत्रः ।
न चैवं द्विदण्ड्यादिषूभाहस्तीत्यस्यानुपपत्तिः । तत्र पाक्षिकायजभावनिपातनेन तत्सिद्धेः । नदुक्तं वार्त्तिककृता---
अन्याभावो द्विवचनटाब्विषयत्वाद्‌, उभयोऽन्यत्रेति ।
अन्यत्र द्विवचनपरत्वाभावे इत्यर्थः । तथा च कप्रत्ययेन व्यवधानाद्द्विवचनपरत्वाभावात् अयच्‌ स्यात् । अकचि तु तस्य मध्यपातित्वादुभशब्दस्य द्विवचनपरत्वमस्त्येवेति न तत्प्रसङ्गः ।
भाष्यकृतस्त्वाहुः---स्वार्थिकत्वादु भशब्दतुल्यार्थकत्वात्तद्रूपद्विवचनपरत्वमस्त्येवेति अवश्यं वक्तव्यम् । एवं च कप्रत्ययस्यापि द्वित्वार्थकप्रकृतिकस्य द्वित्वाभिधायकप्रत्ययत्वरूपद्विवचनत्वसद्भावात् तस्मिन्परे अयचो न प्रसङ्गः । पारिभाषिकद्विवचनमात्रस्योक्तवार्त्तिकेऽनुपादानात् । अत एव "णेरणौ" इत्यत्र कर्मशब्देन क्रियाग्रहणम् । अत उभयशब्दोऽत्र न पठनीय एवेति । एवं च "नित्यम्" इतियोगविभागस्य व्याख्याने वृत्तिमात्रे इत्यस्य प्रक्षेपो निर्मूल इति बोध्यम् ।
यस्त्वेवम्---उभयत उभयत्रेत्यादावप्ययचोऽनुपपत्तिः । न च तत्र तसो विभक्त्यन्ताद्विधानाद्विभक्त्यर्थस्याप्यधिकस्याभिधानात् द्वित्वमात्रवाचकत्वं नास्तीति वाच्यम् । कप्रत्ययस्याप्यज्ञाताद्यर्थबोधकत्वात् । पञ्चकं प्रातिपदिकार्थ इति पक्षेऽधिकवाचकत्वाच्च इति । तच्चिन्त्यम् । द्वित्वमात्रवाचकत्वं हि न द्विवचनत्वम् । कर्मत्वादेरपि ततो बोधात् ।
अथ द्वित्ववाचकतावच्छेदकरूपेण द्वित्वान्यावाचकत्वं द्वित्वमात्रवाचकत्वम् । तत्र तु द्वितीयात्वादिना कर्मत्वादिवाचकत्वम्, औत्वादिना तु द्वित्ववाचकत्वमिति चेत् कप्रत्ययस्यापि द्वित्वार्थकप्रकृतिकत्वेन द्वित्ववाचकत्वं तदर्थविहितत्वेनाज्ञाताद्यर्थवाचकत्वमिति साम्यात् ।
वस्तुतस्तु त्रतसोरव्ययत्वाद्द्वित्वाभिधानसामर्थ्यं नास्तीति कैयटोक्तेर्न तयोर्द्विवचनत्वम् । स्वार्थिकत्वेऽपि स्वस्वभावविरोधिनोऽर्थस्याभिधानानर्हत्वात् । तत्प्रकृत्यर्थबोधस्य स्वार्थिकतायामनुपयोगात्प्रमाणाभावात् । प्रकृतभाष्यस्य बाधकत्वाच्च ।
उभयशब्दस्तु व्याख्यातः । स चावयवद्वयारब्धेऽवयविनि वर्त्तते ।
तस्य मित्राण्यमित्रास्ते ये च ये चोभये नृपाः ।
मित्रत्वामित्रत्वारूपधर्मावच्छिन्ना इत्यर्थः । धर्मद्वयं च विशेष्यतावच्छेदकावच्छिन्नव्यक्तिभेदसामानाधिकरण्येन भासते, न तु परस्परसामानाधिकरण्येनेति विशेषः । "उभयमेव वदन्ति मनीषिणः" इत्यादौ तु इन्द्रदशरथरूपमवयवद्वयमादाय तदुभयसमुदाय उभयशब्देन विवक्षितः । यदा तु उभयो मणिरिति व्युत्पाद्य तादृशं मणिद्वयं सह विवक्ष्यते, तदा एकशेषेण द्विवचनं प्राप्तमनभिधानान्निवारणीयम् । "तद्धितश्चासर्वविभक्तिः " इति सूत्रे उभयशब्दस्य द्विवचनानुत्पादादसर्वविभक्तित्वमिति कैयटोक्तेः । तथा च तस्याव्ययत्ववारणाय परिगणनं कर्त्तव्यमिति तदर्थः ।
हरदत्तस्तु पचतिकल्पमित्यादिवारकत्वेन परिगणनसामर्थ्यस्योपक्षीणत्वात् उभयशब्दाद्द्विवचनं भवत्येवेत्यूचे । ननु अयचस्तयपप्रत्ययादेशत्वेन प्रथमचरमेत्यादिसूत्रेण जसि सर्वनामसंज्ञापत्तिरिति चेत्, मैवम् । व्यवस्थितविकल्पात् पूर्वविप्रतिषेधाद्वा तत्र नित्यैव संज्ञेति केचित् । विभक्तिनिरपेक्षत्वादन्तरङ्गया नित्यसंज्ञया विभक्तिसापेक्षत्वाद्बहिरङ्गा विभाषा बाध्यतइत्यन्ये ।
भाष्यकृतस्त्वाहुः---अयच्‌ स्वतन्त्र एव प्रत्ययः । तद्विधौ तयपोऽनुवृत्तौ मानाभावात् । न चैवमुभयीत्यत्र "टिड्‌ढाणञ्‌" इति सूत्रेण तयबन्तत्वप्रयुक्तो ङीब्‌ न स्यादिति वाच्यम् । तत्रत्ये मात्रच्‌पदे मात्रशब्दमारभ्य अयटश्चकारपर्य्यन्तं प्रत्याहारग्रहणे तदन्तर्भावादयचोऽपि स्वातन्त्र्येण ङीप्‌सिद्धेः । एवं च तयग्रहणमपि तत्र न कर्त्तव्यम् । उक्तप्रत्याहारान्तर्भावादेव सिद्धेः ।
यद्वा---द्वयसजिति प्रत्याहारस्तेन दघ्नञ्‌मात्रचोर्ग्रहणमपि न कार्यम् । "प्रमाणे मात्रज्‌द्वयसज्‌दघ्नचः" इति सूत्रपाठे तु मात्र जित्येव प्रत्याहारः । न चैवं कति स्त्रिय इत्यादौ ङीबापत्तिः, डतेरपि तदन्तः पातादिति वाच्यम् । "न षट्‌स्वस्रादिभ्यः" इति निषेधात् । "टिड्‌ढाणञ्‌" इत्यत्र अत इत्यनुवृत्तेश्च । न चैवमपि तैलमात्रेत्यादौ अतिप्रसङ्गः, प्रत्याहारपक्षे चकारस्य मात्रशब्दं प्रत्यविशेषणत्वात् चकारान्तमात्रपदग्रहणे प्रमाणाभावेन "हुयामाश्रुवसिभसिभ्यस्त्रन्‌" इत्यस्य त्रन्प्रत्ययान्तमात्रपदस्यापि ग्रहापत्तेरिति वाच्यम् । सदृशस्यापि प्रत्याहारेऽनन्तर्भावात् । प्रमाणे वर्त्तमानाद्विहितस्य प्रमेयवृत्तेरेव मात्रशब्दस्य ग्रहणात् । प्रत्ययानुकरणतया मात्रशब्दस्य यथोक्तप्रातिपदिकपरत्वाभावात् ।
ननु "व्यथां द्वयेषामपि मेदिनीभृताम्" इत्यत्र कथं सर्वनामसंज्ञेति चेत्, सत्यम् । उभयेत्यर्थपरो निर्देश इति केचित् ।
गुरुद्वयाय गुरुणोः इत्यादिविरोधान्नेदं युक्तम्, किन्तु द्वयं द्वैधमिष्णन्ति गच्छन्तीति द्वयेषस्तेषां द्वयेषामिति कथंचित्समाधेयमित्यपरे । चाक्रवर्मणव्याकरणे द्वयशब्दस्यापि सर्वनामताऽभ्युपगमात्तदिति त्वन्ये । युक्तं चैतदेव । "कर्तृकर्मणोः कृति" "गतिकारकोपपदाद्‌" इति च सूत्रे धातोर्हि द्वये प्रत्यया विधीयन्ते इति महाभाष्यस्वारस्यात् । अत एव---
यवादिशब्दाः किं द्व्यर्था नो वाऽऽर्यम्लेच्छसाम्यतः ।
दीर्घशूकप्रियङ्‌ग्वाद्या द्वयेऽप्यर्था विकल्पिताः ।।
इति यववराहाधिकरणे माधवाचार्यप्रयोगः । न च तयादेशत्वात् "प्रथमचरम" इति तत्सिद्धिः । अयच्‌ प्रत्ययान्तरमेवेति भाष्यसिद्धान्तात् ।
डतरडतमौ प्रत्ययौ । ततश्च तदन्ताः शब्दाः ग्राह्याः । संज्ञाविधौ प्रत्ययग्रहणे तदन्तविध्यभावेऽपि केवलयोः संज्ञाविधानवैयर्थ्यात् ।
अन्यपदमन्योऽन्याभाववदर्थकम् । तदेकदेशे समभिव्याहृतपदार्थस्य घटादेरन्वयाद्‌ घटादन्य इत्यादौ बोधः ।
अन्यतरान्यतमशब्दावव्युत्पन्नौ स्वभावाद् द्विबहुविषये निर्धारणे वर्त्तेते इति पस्पशायां कैयटः । तत्र द्वितीयस्य सर्वनामसंज्ञाविरहान्न तत्कार्यम् । अत एव "न तावत्सामान्यादिष्वन्यतमं तमः" इत्यादिप्रयोगः । शाकटायनेन "डतरडतमान्तत्वेन तयोर्व्युत्पादनेऽपि अन्यतरशब्दपाठस्य नियामकत्वादन्यतमशब्दस्य गणकार्याद्यभावः" इति व्याख्यानात् ।
इतरस्त्वन्यनीचयोः इत्यमरः । अथ कथं "पक्षेतरेऽतिव्याप्तेश्च" इति उपाधिवादे नैयायिका इति चेत्, सत्यम् । पक्षमितरयतीति कृदन्तमितरपदमिति तत्र प्राञ्चः ।
पक्ष इतरो यस्मादिति बहुव्रीहौ न सर्वनामत्वमित्यन्ये । पक्षेतरपदं पक्षेतरत्वे पारिभाषिकम् । ततश्च आधुनिक्या इतरसंज्ञाया इवास्यापि न सर्वनामत्वमिति मिश्राः ।
एतेन "वन्येतरा जानपदोपदाभिः" इत्यादि व्याख्यातम् ।
त्व त्व इति द्वावप्यकारान्तौ अन्यपर्यायौ । "एतं त्वमन्ये दशयन्त्रमुत्सम्" इत्युदात्तस्य "उत त्वः पश्यन्‌" इत्यादिरनुदात्तस्येति केचित् ।
प्रथमस्तकारान्तः । "तरीरुत त्वद्भवति सूत उत त्वद्‌" इति मन्त्रे त्वदिति सर्वनामसु पठितोऽनुदात्तोऽन्यपर्यायः" इति वेदभाष्योक्तेः । "त्वदधरमधुरमधूनि पिबन्तम्" इति जयदेवप्रयोगाच्च । त्वत्तोऽन्यस्या अधर इत्येव तदर्थात् । "पश्यति दिशि दिशि रहसि भवन्तम्" इति पूर्ववाक्यालोचनया तवाधरस्त्वदधर इतिविग्रहायोगादित्यन्ये ।
एवमेषां प्रामाण्येऽपि "उतो त्वस्मै तन्वं विसस्रे" इत्यनुदात्तस्य स्मायादिदर्शनात्तस्य सर्वादित्वनिर्णयः ।
उदात्ताकारान्तस्य तकारान्तस्य वाऽत्र पाठे तु सन्देहः । आद्यस्य स्मायादिकं उत्तरस्य त्वकजादिकं क्वचिच्छाख्यां दृष्ट्वा तु निर्णेयम् ।
वस्तुतो भिन्नस्वरयोरप्यकारान्तयोरेकश्रुत्या तन्त्रेणैव पाठसम्भवादुभयपाठसामर्थ्येन प्रथमस्य तकारान्तत्वमेव युक्तमिति केचित् ।
नेम इत्यर्द्धार्थः । "प्रनेमस्मिन् ददृशे सोम" इति दर्शनात् ।
समसिमशब्दौ सर्वपर्ययौ । "मा नः समस्य द्रव्यः" "उरुष्याणो अघायतः समस्माद्‌" इत्यादिदर्शनात् । "आद्रात्रीवासस्तनुते सिमस्मै" इति दर्शनाच्च । "त्वत्त्वसमसिमेत्यनुच्चानि" इति फट्‌सूत्रादनुदात्तत्वे प्राप्ते "सिमस्याथर्वण उदात्तः" इति वचनादुदात्तत्वम् । आथर्वणपदस्योपलक्षणार्थतया व्याख्यातत्वात् । तुल्यपर्यायसमशब्दस्य तु नयं संज्ञा । "यथासंख्यमनुदेशः समानाम्" इति ज्ञापकात् ।
पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् । स्वमज्ञातिधनाख्यायाम् । अन्तरं बहिर्योगोपसंब्यानयोः ।
पूर्वादयः पञ्च दिक्कालयोः तदवच्छिन्ने च । पूर्वस्यां दिशि पूर्वस्यां वाप्यां पूर्वस्मिन्काले पूर्वस्मिन्गुरावित्यादि । दक्षिणाधरशब्दौ दिशि तदवच्छिन्ने च । "दिशः सपत्नी भव दक्षिणस्याः" । न चार्थनियमे मानाभावः । व्यवस्थायामित्यस्यैव मानत्वात् । स्वाभिधेयापेक्षोऽवधिनियमो हि व्यवस्था । पूर्वादीनां चोक्तार्थस्य नियमेनावधिसाकाङ्क्षत्वात् । पूर्व इत्यादावुक्ते कस्मादित्याकाङ्क्षाया उत्पत्तेः । दक्षिणस्या इत्यत्रापि वस्तुतोऽवधिरस्त्येव, प्रसिद्धेस्तु तदप्रयोगः । न च संज्ञायामिति निषेधः । आधुनिकसङ्केत एव हि संज्ञा, न च दिक्षु साऽस्ततीति पञ्चमे व्याख्यातारः । व्यवस्थायां किम् । दक्षिणाः गाथकाः । प्रवीणाः । अधरे ताम्बूलरागः । ओष्ठे । उत्तरे शक्तः । प्रतिवाक्ये इत्यादिरर्थः ।
अथ कथम् "तथा परेषां युधि च" इति कालिदासादयइति चेत्, सत्यम् । व्यवस्थाविषयस्यैव पराधिशब्दस्य लक्षणया वैर्यादौ प्रयोगः । न चैवमुपसर्जनता । स्वार्थविशिष्टार्थान्तरपरत्वस्यैवोपसर्जनत्वात् । अत्र च लक्षणया वैरित्वादिप्रकारकबोधेऽपि शक्यार्थस्य तत्रानन्वयात् । अत एव पक्षेतरे इत्यत्रेतरपदस्य भावप्रधानत्वेऽपि सर्वनामकार्यापाताद् "बहुव्रीहिं कृत्वैव भावप्राधान्यमाश्रयणीयम्" इति दीधितिव्याख्यातारः ।
यत्तु तस्माद्वह्निमानित्यादौ ज्ञानलक्षणापक्षेऽपि सर्वनामकार्यमिति, तच्चिन्त्यम् । धूमादितिहेतुघटकधूमपदेषु लक्षणास्वीकारेऽपि तस्मादिति सर्वनाम्ना शक्त्यैव धूमज्ञानस्य बोधयितुं शक्यतया तत्र लक्षणायां मानाभावात् । "तत् त्वमसि" इत्यत्र तत्पदेन पूर्वोपक्रान्तस्यात्मन एव परामर्शात्तत्सदृशे लक्षणा नैयायिकैरुच्यत इत्यविरोधः ।
यत्तु शत्रुत्वादिप्रकारकबोधो मानस एव, शाब्दस्तु देशान्तरनिष्ठत्वादिप्रकारक एवेति । तच्चिन्त्यम् । तदुत्तरं मानससामग्रीनियमाभावात् । असंज्ञायां किम् । उत्तराः कुरवः । सुमेरुमवधीकृत्योत्तरशब्दस्य कुरुषु वृत्तावपि संज्ञात्वान्न सर्वनामत्वम् । न च दिक्षु संज्ञा नास्ति कुरुष्वस्तीत्यत्र मानाभावः । अविच्छिन्नसम्पदायमूलकव्याख्यातृवचनस्यैव मानत्वात् ।
स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने ।
इत्यमरः । आत्मनीत्यस्य पुंल्लिङ्गशब्देनान्वयः । ज्ञातिधनयोः संज्ञानिषेधादात्मन्यात्मीये च वाच्ये सर्वनामत्वम् । आख्याग्रहणसामर्थ्यादात्मीयत्वेन ज्ञातिधनयोर्बोधतात्पर्ये सर्वनामत्वमेव । यथा स्वे पुत्राः । स्वे गावः । विशेष्यतासम्बन्धेन ज्ञातिधनयोः स्वपदजन्यबोधवत्त्वं यत्र तत्रैव तन्निषेधात् ।
यत्तु "निराकृतः स्वस्यां सततमितरस्यां प्रणयवान्" इति कैश्चित्प्रयुक्तम्, तदपि तनावित्यादिस्त्रीलिङ्गविशेष्यपदाध्याहारेण आत्मीयार्थकतयैव कथञ्चिद्व्याख्येयम् ।
केचित्तु "स्वमात्मात्मीययोः" इत्येव पठनीयम् । न च "स्वामिन्नैश्वर्ये" इति सूत्रे ऐश्वर्य्यस्यापि तदर्थत्वात्तदसंग्रहापत्तिः । तस्य तन्मात्रविषयकत्वात्तदर्थे मत्वर्थीयमामिन्प्रत्ययं विना प्रयोगानर्हत्वादित्याहुः ।
अन्तरमवकाशावधिपरिधानात्नर्द्धिभेदतादर्थ्ये ।
छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च ।।
तस्यार्थद्वये संज्ञा । तत्र बहिरित्यनावृतो देश उच्यते । तेन सह योगो बाह्यस्य भवति । अन्तरे अन्तरा वा गृहाः । नगरबाह्याश्चण्डालादिगृहा इत्यर्थः । बहि शब्दस्य तद्देशवृत्तिपरत्वे तु बहिर्वर्त्तिना सहाभ्यन्तरस्य योगात् नगराभ्यन्तरा गृहा इत्यर्थः । उभयस्याप्यत्र ग्रहणम् । उपसंव्यानशब्दोऽपि करणव्युत्पत्त्या उत्तरीयं कर्मव्युत्पत्त्या त्वन्तरीयमभिधत्ते ।
अपुरीति वक्तव्यम् । अन्तरायां पुरि । अत्र सर्वनामत्वाभावान्न तत्कार्यम् । लिङ्गविशिष्टपरिभाषया एकादेशस्य पूर्वान्तत्वेन ग्रहणाद्वाऽत्र प्रसक्तिः । न चैतद्वार्त्तिकं जसिविभाषाविधेरेव शेषः, तत्रैव पठितत्वादिति वाच्यम् । अदन्तत्वाभावादेव टाबन्ताज्जसः शीभावाप्रसङ्गात् । प्रकारादभ्यन्तरे बहिश्च देशभेदात् पुनः क्रियमाणत्वादुभयोपपत्तिः । उपसंव्यानग्रहणमनर्थकं बहिर्योगेण कृतत्वात् । उत्तरीयपरत्वे बहिर्योगशब्दस्याद्यमर्थम् । अन्तरीयपरत्वे तु द्वितीयमर्थमादाय सिद्धमित्यर्थः ।
न वा शाटकयुगाद्यर्थम् ।
समानप्रमाणे शाटकयुगे अपरिहिते किमुत्तरीयं किमन्तरीयमित्यनवबोधादपरिधानदशायां बहिर्योगेण अनिर्वाहादुपसंव्यानग्रहणमिति वार्तिकाभिप्रायः ।
भाष्यकारास्तु उपसंव्यानत्वमप्यपरिधानदशायां नास्ति, बुद्ध्या व्यवस्थापनं तु बहिर्योगस्यापि तुल्यमित्युपसंव्यानग्रहणं व्यर्थमित्याहुः ।
केचित्तु शाटकानां त्रये शरीरे साक्षात्संयुक्तस्य स्वसंयुक्तसंयुक्तेन बाह्येन तृतीयेन सह योगो नास्ति । न च मध्यवर्त्तिनोऽपि तदपेक्षया बाह्यत्वात् तद्योगेनोपपत्तिः । यावान्समुदायो यत्र बुद्धिस्थः तदपेक्षया बाह्यत्वस्य ग्राह्यत्वात् । एवं बाह्यस्य शरीरसंयुक्तेनाभ्यन्तरेणापि योगो नास्ति । मध्यवर्त्तिन उक्तन्यायेनाभ्यन्तरत्वाभावात् । एवं चतुष्टयेऽपि योज्यम् । शाटकयुगाद्यर्थमिति आदिशब्दोपादानेन वार्त्तिकस्यैतादृशाभिप्रायलाभादित्याहुः ।
भाष्यस्य त्वयमाशयः---बहिर्योगेत्यस्य स्वरितत्वात् तेन च गौणार्थस्यापि ग्रहणात्परम्परासम्बन्धमादाय तत्रापि बाह्याभ्यन्तरयोगोपपत्तिरिति अन्तरशब्दस्यार्थद्वये सर्वनामत्वम् ।
त्यद् तद्‌ एतौ पूर्वोक्तपरामर्शकौ । आद्यश्छान्दसः "एषस्य वाजि" इत्यादिप्रयोगाल्लोके चादर्शनादिति केचित् । "स्यश्छन्दसि" इति सूत्रे छन्दोग्रहणसामर्थ्याल्लोकेऽपीत्यन्ये ।
यत्पदम् उद्देश्यार्थकम् । एतदिदमौ प्रत्यक्षोपस्थिते । अदस् व्यवहिते ।
एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा ।
साधारणे समाने च संख्यायां च प्रयुज्यते ।।
"प्रजामेका रक्षत्युर्जमेका" इत्यत्रान्यार्थः । "एकवीरः" इत्यादौ प्रधानार्थः । "एके।ञल्पप्राणाः" इत्यादौ प्रथमार्थः । "अत एकहल्मध्ये" इत्यादौ असहायरूपकेवलार्थः । "एतावेकधनौ द्वौ" इत्यादौ साधारणार्थः । "तेनैकदिक्" इत्यादौ समानार्थः । "एको द्वौ " इत्यादौ संख्यार्थ इति । "ष्णान्ता षट्‌" इति सूत्रे संख्यायामसहायत्वे अन्यत्वे चेत्यर्थत्रयमस्य भाष्ये उक्तम् । "एके मुख्यान्यकेवलाः" इत्यमरे मुख्यत्वमप्युक्तम् । तदन्यत्र लक्षणया प्रयोगः । शक्तौ मानाभावात् । अत एवाद्वैतचन्द्रिकायाम् "एकमेवाद्वितीयं ब्रह्म" इत्यस्य व्याख्यायां समानाद्यर्थवाचकत्वं निरस्तम् । "तेनैकदिक्" इति सूत्रे एकजातीयत्वेन समाने गौणपदप्रयोगः । सुदाम्ना एकदिक् सौदामनी, सुदामाख्यपर्वतयुक्तदिक् । सदृशदिग्युक्तेति यावत् । चैत्रमैत्रावेकधनौ इत्यत्रापि यथेष्टविनियोगार्हत्वरूपसादृश्येन चैत्रो मैत्रीययथेष्टविनियोगार्हधने यथेष्टं विनियोक्तेति यावत् । इत्युक्तत्वात् ।
सम्बोधनविषयो युष्मदर्थः । उच्चारयित्रर्थस्तु अस्मच्छदः । अलिङ्गत्वन्तूभयत्र समानम् । उच्चारकत्वं च यत्र वाक्यमनन्यवक्तृतात्पर्यकम् तत्रैव । तेन "वाच्यस्त्वया मद्वचनात्स राजा" इत्यादौ मच्छब्देन कालिदासपरामर्शाभावेऽपि न क्षतिः । सीताभिप्रायेण तद्वाक्यसमुल्लेखात् । अत एव कुसुमाञ्जलौ---
तदैक्षत बहु स्याम् इत्यादौ उत्तमपुरुषस्यास्मदर्थसामानाधिकरण्यनियमात्तदाक्षेपेऽहं बहु स्यामित्यनन्यतात्पर्यकास्मच्छब्दत्वेन हेतुना तस्य वक्तृपरत्वं साधयित्वा ईश्वरः साधितः । "गृभ्णामि ते सौभगत्वाय हस्तम्" इत्यादौ व्यभिचारवारणायानन्यतात्पर्यकत्वप्रवेश इति वर्द्धमानादौ स्पष्टम् ।
भवच्छब्दस्तु युष्मच्छब्दसमानार्थः । परन्तु लिङ्गयोगी । अत्रभवच्छब्दादौ सम्बोधनव्यभिचारी चेति विशेषः । "भातेर्डवतुः" इति व्युत्पादितः । नन्वस्य हलन्तत्वेन स्मायादीनामभावः, तृतीया तु "निमित्तकारण" इत्यादिनैव गतार्थेति चेत् । अत्राहुः---
फिञद्रिमयटः पूर्वनिपातः ठक्‌छसौ तथा आत्वशेषष्यञ्‌विरहाः अकच्च भवतः फलम् ।
अत्राकजात्वैकशेषा भाष्ये कण्ठोक्ताः । अन्ये उपलक्षणतया संगृहीता इति । वतोऽपत्यं भावतायनिः । त्यदादित्वेन वृद्धसंज्ञायाम् "उदीचां वृद्धाद्‌" इति फिञ्‌ । भवन्तमञ्चतीति भवद्य्रङ्‌ । "विष्वग्‌देवयोश्च टेरद्र्यञ्चतावप्रत्यये" इति चकारेण सर्वनामग्रहणाट्टेरद्र्यादेशः । भवन्मय इत्यत्र "नित्यं वृद्धशरादिभ्यः" इति मयट् । भवन्मित्रः । "सर्वनामसंख्ययोः" इति पूर्वनिपातः । "भवतष्ठक्‌छसौ" इत्यत्र शतृप्रत्ययान्तभवच्छब्दनिवृत्त्यर्थं वृद्धाद् इत्यनुवर्त्तनात् । भवतोरिति पाठेनापि निर्वाहान्नेदं नियतमिति तु बोध्यम् । भवानिव दृश्यते भवादृक् । "आ सर्वनाम्नः" इत्यात्वम् । देवदत्तश्च भवाँश्च भवन्तौ । "त्यदादीनि सर्वैः" इत्येकशेषः । भवतो भावो भवत्तेत्यत्र सर्वनामसंज्ञया गुणवचनसंज्ञाबाधात् "गुणवचनब्राह्मणादिभ्यः" इति ष्यञभावः । "गुणवचनसंज्ञा ऽसर्वनामसंज्ञा" इत्येकसंज्ञाधिकारे वार्त्तिककृता पठितत्वात् । भवकानित्यत्र "अव्ययसर्वनाम्नाम्" इत्यकच् । कप्रत्यये भवत्क इत्येव स्यात् । "सर्वनाम्नो वृत्तिमात्रे" इति भाष्यवचनात्पुंवद्भावोऽपि फलम् । "भवन्मयो ध्यायति नावनीपतिः" इति श्रीहर्षः ।
किंशब्दः प्रश्नाक्षेपयोः । प्रश्नो द्विविधः, जिज्ञासामूलको विप्रतिपत्तिमूलकश्च । आद्यो यथा---
किमेकं दैवतं लोके किं वाऽप्येकं परायणम् ।
इति । द्वितीयो यथा---ईश्वरसद्भावे किं प्रमाणमिति । अयमेव कथाप्रवृत्तिहेतुः । आद्यस्योपदेशमात्रेण जिज्ञासानिवृत्तौ विश्रामात् । आक्षेपो यथा---"को नामायं सवितुरुदयः" इति । द्विदैवाक्षेपः । "खट्‌वाऽऽक्षेपे" इत्यादौ दर्शनात् । खण्डने तु किं प्रमाणमित्युपन्यस्य किंशब्दोऽयमाक्षेपार्थो वा कुत्सितार्थो वा वितर्कार्थो वा प्रश्नार्थो वा स्यादिति विकल्पचतुष्टयमुक्तम् । अभावप्रतिपादनार्थत्वं दुष्टत्वप्रतिपादनार्थत्वं सन्देहार्थत्वं जिज्ञासाविषयत्वप्रतिपादनार्थत्वमिति च क्रमेण तद्व्याख्यातम् । ईश्वरसद्भावे प्रमाणं नास्तीत्याद्ये, कुत्सितं प्रमाणमिति द्वितीये, प्रमाणमन्यद्वेति तृतीये, प्रमाणं जिज्ञासाविषय इति चतुर्थे अर्थपर्यवसानं तत्फलितार्थमादायेति बोध्यम् । वृत् सर्वादिगणो वृत्तः, समाप्त इत्यर्थः । गणपाठे वृच्छब्दस्य समाप्तौ परिभाषितत्वात् ।
यत्तु "यदिन्द्राग्नी अवमस्यां पृथिव्यां, मध्यमस्यां, परमस्यामुतस्थ" इत्यादाववमादिपदानामपि सर्वनामकार्यं दृश्यते तच्छान्दसत्वादेवेति कैयटादयः । इतरेतरस्मात् अन्योऽन्येषामित्यादौ तु द्विः प्रयोगो द्विर्वचनमिति पक्षे तदन्तविधिना सिद्धम् । "द्वन्द्वे च" इति ज्ञापकेन सर्वनामसंज्ञायां तदन्तविधेरङ्गीकारात् । स्थानेद्विर्वचनपक्षे तु स्थानिवद्भावेन सर्वनामत्वम् । सन्नियोगशिष्टत्वेनान्तरङ्गमपि द्वित्वं बाधित्वा "अन्तरङ्गानपि" इति न्यायेन "समासवच्च बहुलम्" इति समासत्त्वप्रयुक्तस्य लुकः पूर्वं प्रवृत्तेः । अन्यथा सुबन्तस्य द्वित्वे स्थानिनः सर्वनामत्वाभावेन तदादेशेऽपि तदनुपपत्तेः । न चैवं पदत्वाभावात्तदधिकारीयद्वित्वानुपपत्तिः । प्रत्ययलक्षणेन तथात्वात् । अङ्गाधिकारीयत्वाभावाद् "न लुमता" इति निषेधाप्रवृत्तेः । अन्योऽन्येषामित्यत्र तु समासवत्त्वाभावेऽपि पूर्वपदस्य "प्रथमैकवचनान्तत्वम् द्वितीयादयस्तु परपदस्य" इति वचनबलात्प्रकृति प्रत्ययविभागसिद्धेः ।
अत्रेदमधिकमनुसंधेयम् । तदादिसर्वनाम्नां बुद्धिस्थत्वरूपेण शक्तिः । न चैवं बुद्धिस्थत्वप्रकारक एव बोधः स्यात्, न तु घटत्वप्रकारकः, शाब्दबोधस्य शक्यतावच्छेदकप्रकारकत्वनियमादिति वाच्यम् । अत्र तत्परित्यागात् । अल्पनायाः फलानुरोधित्वात् । अत एव सर्वनाम्नि न लक्षणेति प्रवादः । शक्त्यैव तत्प्रकारकबोधादिति प्राञ्चः ।
अन्ये तु घटत्वादयो धर्मा एव शक्यतावच्छेदकाः, नानार्थत्वस्येष्टत्वात् । न च लघुसमनियतगुरुधर्मप्रकारकशाब्दस्थले लक्षणापत्तावुक्तप्रवादविरोधः, कम्बुग्रीवादिमत्त्वस्य घटत्वाद्यपेक्षया गुरुत्वेन स्वशक्यतानवच्छेदकत्वात्, तत्र निष्प्रकारकव्यक्तिबोधोपगमे च पदान्निर्विकल्पकानङ्गीकारनियमविरोधादिति वाच्यम् । पदान्निर्विकल्पकस्वीकारपक्षएव तदवतारात् । तद्भङ्गेऽपि क्षतिविरहाच्चेत्याहुः ।
मिश्रास्तु हरिपदवन्नानार्थत्वे प्रमाणाभावाद् बुद्धिस्थत्वमुपलक्षणीभूय शक्यतावच्छेदकानामनुगमकम् । बुद्धिविषयतावच्छेदकावच्छिन्नमेषां शक्यमित्येव शक्तिग्रहात् । एवं च यद्धर्मे यदा यत्पुरुषीयबुद्धिविषयतावच्छेदकत्वं गृह्यते, तदा यथोक्तशक्तिग्रहजन्यसंस्कारस्य तद्धर्मांशउद्बोधात्तद्धर्मप्रकारकावेव पदार्थस्मृतिशाब्दबोधौ । एवं च घटत्वादिनिष्ठप्रकारतानां बुद्धिविषयत्वरूपप्रकारतावच्छेदकैक्यादनुगमः । विशिष्य घटत्वादीनां शक्यतावच्छेदकत्वे तु तन्निष्ठप्रकारतानामानन्त्येन गौरंव स्यात् । शक्यतावच्छेदकैक्यवत् शक्यतावच्छेदकतावच्छेदकस्यापि शक्त्यैक्यसम्पादकत्वादित्याहुः ।
अन्ये तु एवमपि कदाचिद् घटत्वप्रकारको बोधः कदाचित्तु पटत्वप्रकारक इत्येतदुपपत्त्यर्थं घटत्वप्रकारकबोधं प्रति बुद्धिस्थत्वावच्छिन्नघटत्वप्रकारकशक्तिज्ञानस्य हेतुता वाच्या । एवमन्यत्रापीत्युक्तहेतुताकोटौ बुद्धिस्थत्वावच्छिन्नत्वनिवेशे गौरवम् । तदपेक्षया नानार्थत्वमेव स्वीकृत्य बुद्धिस्थत्वस्य प्रयोगोपाधित्वकल्पनमेव युक्तमित्याहुः ।
नन्वेवमपि सर्वेषां सर्वनाम्नां पर्यायत्वं स्यादिति चेन्न । बुद्धिविशेषेण तदभावात् । सर्वपदस्य उद्देश्ततावच्छेदकत्वे सति यावतां प्रिकाराणां बुद्धिविषयत्वम् तेषु शक्तिः । न चोद्देश्येत्यस्य वैयर्थ्यम् । विधेयानां तदर्थत्वाभावात् । न चैवमपि यत्पदपर्यायत्वापत्तिः । तत्र तत्पदघटितवाक्यसाकाङ्क्षाया अवान्तरवाक्योद्देश्यबुद्धेर्विवक्षितत्वात् । अत्र प्रकारस्यानेकत्वेन विशेषणाद्वा । य आकाशः स शब्दाश्रय इत्यादौ यत्पदजन्यबुद्धिप्रकारस्यानेकत्वव्यभिचारात् । एतेन तत्पदसाधारण्यमपि निरस्तम् । अत्र पदान्तरसमभिव्याहारस्यापि नापेक्षा । सर्वे ब्राह्मणा इत्यत्र ब्राह्मणत्वावच्छिन्नपरत्वस्य सर्वे इत्यादौ प्रमेयत्वावच्छिन्नपरत्वस्य च दर्शनात् ।
प्रश्नप्रत्येकबुद्धिविषयावच्छिन्ने किंपदस्य शक्तिः । न न्वज्ञाते इच्छानुदयात् ज्ञाते च जिज्ञासानुत्पत्तेः कथं प्रश्न इति चेन्न । "किमेकं दैवतं लोके" इत्यादौ प्रश्रजनकज्ञाने उत्तरवाक्यजन्यज्ञाने च विषयतावच्छेदकधर्म एक एव तथाऽप्येकदैवतात्वव्याप्यधर्मप्रिकारकं ज्ञानं ममेच्छाविषय इति प्रश्नवाक्यार्थः । अत्र विष्णुत्वनिष्ठा प्रकारता एकदैवतत्वावच्छिन्ना, विष्णुर्दैवतमित्यत्र त्वनवच्छिन्ना । तथा च तद्धर्मांशे निरवच्छिन्नप्रिकारताकज्ञानेच्छया प्रश्नवाक्यं तदंशे किञ्चिदवच्छिन्नप्रकारताकज्ञानजन्यमिति न दोषः । किमयं स्थाणुः पुरुषो वेति संशयाभिलापे कोऽयमित्याक्षेपे च यद्यपि यथोक्तमव्याप्तम्, तथाऽपि तत्र शक्त्यन्तरं कल्प्यम् ।
तत्पदघटितवाक्यसाकाङ्क्षावान्तरवाक्योद्देश्यबुद्धिविषयप्रकारावच्छिन्ने यत्पदस्य, यत्पदघटितवाक्यसाकाङ्क्षावान्तरवाक्योद्देश्यबुद्धिविषये तत्पदस्य शक्तिः । न च यो गतः स आगत इत्यादावव्याप्तिः । तच्छब्दसमानार्थकपदस्य विवक्षितत्वात् ।
अयं तु विशेषः । प्रक्रान्तप्रसिद्धानुभूतार्थकस्तच्छब्दो न यच्छब्दसाकाङ्क्षः । क्रमेण यथा---
कातर्यं केवला नीतिः शौर्य्यं श्वापदचेष्ठितम् ।
अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः ।।
अत्रातिथिसंज्ञो राजा प्रक्रान्तः ।
द्वयं गतं संप्रति शोचनीयतां
समागमप्रार्थनया कपालिनः ।
कला च सा कान्तिमती कलावतः
त्वमस्य लोकस्य च नेत्रकौमुदी ।।
अत्र चन्द्रकला प्रसिद्धा ।
उत्कम्पिनी भयपरिस्खलितांशुकान्ता
ते लोचने प्रतिदिशं तरले क्षिपन्ती ।
क्रूरेण दारुणतया सहसैव दग्धा
धूमाकुलेन दहनेन न वीक्षिताऽसि ।।
सागरिकानेत्रे वत्सराजेन पूर्वमनुभूते ।
इति काव्यप्रकाशे । किं च उत्तरवाक्यान्तर्गतो यच्छब्दो नियमेन पूर्ववाक्ये तच्छब्दोपादानं नापेक्षते ।
उदयति स्म तदद्‌भुतमालिभिर्धरणिभृद्‌भुवि तत्र विमृश्य यद् । इत्यादौ तत्सत्त्वेऽपि---
साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताऽधिके ।
इत्यादौ तदभावात् । अत्र केचिदुक्तस्थलेऽपि तच्छब्दाक्षेप इत्याहुः ।
अन्ये तु अत्र पृथगेव शक्तिः । अवान्तरवाक्योद्देश्यविषये तत्पदमित्येव मिश्रैरुक्तम् । "साधु चन्द्रमसि" इत्यादौ यत्पदेनोद्देश्यबोधे तदुत्तरमेव प्रथमपादजन्यबोधान्महावाक्यार्थबोधः । तत्पदाक्षेपेण पुनः प्रथमपादजन्यबोधकल्पने गौरवात् । एवम् ---
उत्पत्तिरिन्दोरपि निष्फलैव दृष्टा विनिद्रा नलिनी न येन ।
इत्यादावपि तत्पदाध्याहारे इन्दुत्वविशिष्टोपस्थितौ पौनरुक्त्यापत्तेः । न च विनिद्रनलिनीदर्शनाभावविशिष्टत्वेन तत्पदाद्‌ बोधः । यत्पदार्थस्यैव दर्शनविशेषणत्वात् । यन्मीलितमित्यत्र यत्पदेनापि मीलितस्यैवोक्तेः । सम्भेदे चान्यतरवैयर्थ्याभावात् । न च यत्पदवैयर्थ्यम् । "यच्छब्दयोगः प्राथम्यम्" इति रित्योद्देश्यत्वलाभार्थत्वादित्याहुः ।
समीपवर्त्तिनि प्रत्यक्षविषयतावच्छेदकावच्छिन्ने इदमेतत्पदयोः शक्तिः । अत एव "प्रत्यञ्जलि वाक्यावृत्तिः । उपादास्यमानपयस इदमा निर्द्दशानुपपत्तेः "इति वर्द्धमानोपाध्यायः ।
तादृशप्रत्यक्षयोग्यधर्मावच्छिन्ने शक्तिः । उपादास्यमानाञ्जलीनामप्येतदिति निर्द्देश इति निबन्धकारोक्तेरेकमेव वाक्यमित्यन्ये ।
मानसप्रत्यक्षविषयेऽपीदानीं घट इत्यादौ काले इदम्पदप्रयोगादुपादास्यमानपयस इदमा निर्द्देशः सम्भवत्येव । परं तु तदातनत्यागेन तत्र स्वत्वध्वंसो न भवति । उपादानपूर्वकाले तत्र स्वत्वानुत्पत्त्याऽनुत्पन्नस्य ध्वंसायोगात् इत्यपरे ।
व्यवहितवर्त्तिनि प्रत्यक्षविषयतावच्छेदकावच्छिन्ने अदस्‌पदस्य शक्तिः । व्यवधानं तु देशकालाभ्याम् । इदमादिना यो बोध्यते ततो विप्रकृष्टे तत्प्रयोगात् । प्राथमिकप्रत्यक्षविषये अयमिति प्रयोगात् । द्वितीयप्रत्यक्षविषयेऽसाविति प्रयोगाच्छ । उभयत्र यथायोगं प्राथमिकत्वं द्वितीयत्वं च प्रत्यक्षे विशेषण मिति केचित् ।
यद्धर्मावच्छिन्ने सम्बोध्यत्वबुद्धिः तद्धर्मावच्छिन्ने युष्मत्पदस्य यद्धर्मवच्छिन्ने यद्वाक्योच्चारयितृत्वबुद्धिः तद्धर्मावच्छिन्ने अस्मत्पदस्य शक्तिः । अभिमुखीकरणानमुकूलज्ञानविशेषविषयत्वं सम्बोध्यत्वम् । तत्तत्पदोत्तरत्वेन तत्तत्पदानुसन्धानमुच्चारणम् । तदनुकूलव्यापारवत्त्वमुच्चारयितृत्वम् । मौनिसाधारण्यात् । उच्चारणं च अनन्यतात्पर्यकत्वगर्भमिति प्रागेवोक्तम् ।
अथैवं काव्यादावचेतने त्वत्पदप्रयोगो न स्यात् । एवं वयं गच्छाम इत्यादावपीति चेत्, सत्यम् । उच्चारयितृत्वविषयकं यदुच्चारयितृतात्पर्यं तद्विषयतावच्छेदकधर्मवत्त्वस्य विवक्षितत्वात् । उच्चारयितृत्वारोपस्य तत्रापि सम्भवात् ।
अन्ये तु सम्बोध्यतावच्छेदकावच्छिन्ने उच्चारयितृतावच्छेदकावच्छिन्ने च युष्मदस्मदोः शक्तिः । तदवच्छेदकत्वं च चैत्रा दिशरीरावच्छिन्नात्मत्वम् । असम्बोध्यादेस्तद्भ्रमाच्छाब्दबोधस्तु शक्तिभ्रमेण समर्थनीयः । अत एव तस्याप्रामाण्यम् ।
कस्त्वम्भोः कथयामि दैवहतकं मां विद्धि शाखोटकम् ।
इत्यादौ भ्रमासम्भवे लक्षणा, मुख्यार्थान्वयानुपपत्तेः । "सर्वोऽप्यहं गुणीति वेत्ति" इत्यादावपि तथा । सम्बोध्यत्वोच्चारयितृत्वप्रतिपत्तेर्यथायोगं प्रयोजनत्वात् । वयं गच्छाम इत्यादौ महार्णवोक्तो विरूपैकशेष इत्याहुः ।
ननु चैत्रत्वादिना बोधे "अनयोरात्ममात्रशक्तत्वम्" इतिग्रन्थविरोधः । "तत् त्वमसि" "अहमात्मा गुडाकेश" इति श्रुतिस्मृत्योरात्मन्येव प्रयोगाच्छ चैत्रत्वादेः शरीरवृत्तिजातित्वात् । जातस्य नाम कर्म करोतीति शरीरस्यैव नामकरणविधानात् । चैत्रः पण्डित इत्यादेश्च भाक्तत्वात् । अत एव मृतस्यापि चैत्रादिपदेन निर्देशः । गोत्रान्वयार्थमुक्तप्रकारस्यावश्यकत्वात् । सत्यम् । शरीरघटितपरम्परासम्बन्धेन चैत्रत्वादेरात्मवृत्तित्वोपपत्तेरिति दिक् । सर्वादिगणव्याख्यानं सम्पूर्णम् ।

विभाषा दिक्समासे बहुवीहौ 27 ।

अत्र सर्वनामसंज्ञा वा स्यात् । उत्तरस्याः पूर्वस्याश्च दिशोऽन्तरालम् उत्तरपूर्वा । "दिङ्‌नामान्यन्तराले" इति बहुव्रीहिः" तस्यै उत्तरपूर्वस्यै उत्तरपूर्वायै । प्रतिपदोक्तदिक्समासग्रहणान्नेह । या पूर्वा सोत्तरा स्योन्मुग्धस्य स उत्तरपूर्वः । तस्मै उत्तरपूर्वाय देहि ।
यत्तु योत्तरा सा पूर्वा यस्येत्येव विग्रहो युक्तोऽन्यथा पूर्वनिपातवैपरीत्यापत्तिरिति । तन्न । वस्तुतो या पूर्वा सा यस्योत्तरत्वप्रकारकज्ञानविषय इत्यत्र उत्तरेत्यस्यैव विशेषणत्वात् । उत्तरविशेष्यकपूर्वत्वप्रकारभ्रमाविवक्षायां तु पूर्वोत्तरेत्यस्यापि इष्टत्वात् । एवं च बहुव्रीहाविति न कार्यम् । दक्षिणोत्तरपूर्वाणामिति द्वन्द्वस्य प्रतिपेदाक्तपरिभाषयैव वारितत्वात् ।
ननूत्तरसूत्रे बहुव्रीहिरेव यो बहुव्रीहिस्तत्रैव निधेधो यथा स्यान्न त्वतिदिष्टबहुव्रीहावित्येतदर्थं तत् । अन्यथा एकैकस्मैदेहीत्यादौ "एकं बहुव्रीहिवत्" "आबाधे च" इति द्विर्वचनेऽपि निषेधप्रसङ्गात् । मैवम् । समासपदानुवृत्त्यैव समास एव यो बहुव्रीहिरित्यर्थलाभात् ।

न बहुव्रीहौ 28 ।

बहुव्रीहिसंज्ञाप्रवृत्तिविषयीभूते पदे सर्वादेरुक्तसंज्ञा न स्यात् । न च तस्य बहुव्रीहिपदार्थत्वाभावः । तादर्थ्यात्तच्छब्दोपपत्तेः । न चैवं लौकिकविग्रहेऽपि निषेधापत्तिः । तस्य बहुव्रीह्यर्थप्रदर्शनपरत्वेऽपि तादर्थ्याभावात् । एकार्थीभावे वृत्तिरेव, व्यपेक्षायां तु वाक्यमेवेति सिद्धान्तात् । अलौकिकवाक्य एव समासप्रवृत्तिस्वीकारात् । तथा च कैयटेनोक्तम्---
अप्रयोगसमवायि यत्प्रक्रियावाक्यं तत्रायं प्रतिषेधो न लौकिकवाक्ये प्रयोगार्हे तस्य पृथगेव प्रयोगादिति ।
नन्वेवम् अलौकिकविग्रहेऽपि प्रतिषेधवैयर्थ्यम् । उपसर्जनत्वादेव प्राप्त्यभावात् । न च तस्यान्वयबोधाजनकत्वात्तदर्थकस्य कथमुपसर्जनत्वमिति वाच्यम् । समासे उपसर्जनत्वदर्शनेन तत्रापि तदनुमानात् । अन्यथा सामर्थ्यस्याभावात्तत्र समासप्रवृत्त्यनुपपत्तेरिति वक्ष्यमाणत्वात् । न च सामर्थ्यमेव तत्रानुमीयते "अनेकमन्यपदार्थे" इत्यादिशास्त्रीयानुवादसामर्थ्यात्, न तूपसर्जनत्वमपि, तस्य समासप्रवृत्त्यनुपयोगितयाऽर्थापत्त्यविषयत्वादिति वाच्यम् । एकार्थीभावातिरिक्तस्य सामर्थ्यस्य दुर्वचत्वात् । तदाक्षेपादेवोपसर्जनत्वस्याप्याक्षेपसिद्धेः । समासोत्तरं सामर्थ्यस्वीकारे प्रयोजनाभावात् सत्यम् । समासान्यथाऽनुपपत्त्याऽलौकिकवाक्येऽपि समुदायएव सामर्थ्यमनुमीयते न तु पदेषु प्रत्येकप्रयोजनकल्पकयोः । अन्यतरस्याप्यनवतारात् । तथा चावयवमात्रस्यानुपसर्जनत्वात्संज्ञाप्रसक्तौ प्रतिषेधोपपत्तेः ।
मुख्यएव बहुव्रीहावयं निषेध इति पक्षोऽपि भाष्ये प्रथममुपन्यस्तः । त्वकं पिता यस्य त्वत्कपितृकः । अहकं पिता यस्य मत्कपितृकः । अत्र सर्वनामसंज्ञायाम् "अव्ययसर्वनाम्नामकच्‌ प्राक्‌ टेः" इत्यकच्‌ स्यात् । तस्य कप्रत्ययापवादत्वात् । एवं द्वकौ पुत्रौ यस्य स द्विकपुत्र इत्यप्युदाहार्यम् । व्यञ्जनान्तेषु काकचोर्विशेष इति भाष्ये अकारान्तभिन्नत्वस्योपलक्षितत्वादिति कैयटः । तथा च त्वकत्पितृको मकत्पितृको द्वकिपुत्र इत्यादिकं प्रसज्येतेति प्रतिषेधोऽसमारभ्यते ।
नन्वेवमपि अकट्‌प्रसङ्गः । संज्ञानिमित्तकत्वेन तस्यान्तरङ्गत्वात् । पदान्तरसंनिधाने वर्त्तिपदार्थविशेषणान्यपदार्थविवक्षायां प्रवर्त्तमानस्य बहुव्रीहेर्बहिरङ्गत्वात् । तथा च समासात्प्रागेव प्रवृत्तस्याकचः समासानन्तरप्रवृत्तिकेनोक्तनिषेधेन बाधितुमशक्यत्वात् । न च यथा "प्रत्ययोत्तरपदयोश्च" इति लिङ्गाद् बहिरङ्गोऽपि समासाश्रयो लुक् अन्तरङ्गानामपि बाधकः, एवमुक्तनिषेधसामर्थ्यात्समासोऽप्यकचं बाधित्वा प्रवर्त्ततइति वाच्यम् । प्रियविश्वायेत्येतदर्थमप्येतदुपपत्तेः । "वा प्रियस्य" इति प्रियस्य पूर्वनिपातः । एवं द्व्यन्याय त्र्यन्याय । "सर्वनामसंख्ययोः सन्निपाते परत्वात्संख्यायाः पूर्वनिपातः" इति वक्ष्यमाणत्वात् । अत्र हि कार्यकालपक्षे सर्वनामसंज्ञायाः स्मायाद्यादेशविधिभिरेकवाक्यत्वात् विश्वशब्दस्य सर्वनामसंज्ञामुपजीव्य तदन्तविधिना प्रियविश्वशब्दस्य संज्ञा स्यात्, सा मा भूदिति विश्वशब्दस्यैव संज्ञा निषिध्यते । अत्र बहुव्रीहिसंज्ञोत्तरकालं प्रसक्तसंज्ञानिषेधेनोक्तवचनस्य चरितार्थत्वात् उक्तार्थज्ञापनानुपपत्तेः । मैवम् । उपसर्जनप्रतिषेधेनाप्येतावन्मात्रसिद्धेः यथोक्तज्ञापनस्य सुस्थत्वात् । इममेव पक्षमाश्रित्य प्राञ्चो व्याचख्युः---
बहुव्रीहौ सर्वादेः सर्वनामता न स्यात् । प्रियसर्वाय । सूत्रकारमते बहुव्रीहौ न सर्वनामता, भाष्यकारमते गौणत्वमात्रे । त्वत्कपितृको मत्कपितृक इत्यत्र समासावयवयोर्युष्मदस्मदोः सर्वनामत्वादनङ्गकार्यत्वेनाकच्‌ स्यात् स मा भूत् कप्रत्यय एव स्यादित्येतदर्थमिदं सूत्रमिति न्यासकृन्मतमिति । अवयवस्य संज्ञानिषेधोऽत्र विवक्षितः । तेन किं समुदायस्यायं निषेध इति विकल्पकोटिर्निरस्ता । सर्वादेः सर्वनामता न स्यादिति ग्रन्थं प्रकृत्य तत्तच्छङ्काऽनवतारात् ।
नन्ववयवस्यापि कथं संज्ञाप्रसक्तिः, उपसर्जनानां पाठात्पर्युदासस्य वार्त्तिककृतोक्तत्वात् । सत्यम् । सूत्रकारेण तदनङ्गीकारात् । तदाह---सूत्रकारमतइति । अत्र चैतत्सूत्रारम्भस्यैव ज्ञापकत्वात् । जहत्स्वार्थवृत्तिपक्षेऽपि स्वार्थवाचकत्वस्य संज्ञोपयोगिनो वृत्तावपि सत्त्वात् । एतेन त्वत्कपितृक इत्यस्य व्याख्यायाम् "समासान्तः पातिनोर्युष्मदस्मदोः सर्वार्थवाकचकत्वेन" इति प्रसादग्रन्थः, "समुदायो हि विशेषे वर्त्तते, पूर्वपदं तु सर्वार्थताया अनपेतमेव " इति न्यासग्रन्थश्च व्याख्यातः । एतेन "अन्वर्थसंज्ञाबलादेव सूत्राक्षरैरेवोपसर्जनपर्युदासलाभ" इत्यपि निरस्तम् । "ननु चात्रान्वर्थसंज्ञाकरणादेव संज्ञानिरासे कृतेऽकच्‌ न भविष्यति, विशेषविषयत्वाद्" इत्याशङ्क्य नैतदस्ति समुदायो हीत्यादिग्रन्थावतारात् । उक्तरीत्या तु नावयवव्यावृत्तिरिति तदभिप्रायात् । तथा हि---किमिदं विशेषविषयत्वम् । न तावच्छक्यतावच्छेदकयावद्धर्मप्रकारकबोधानुपधायकत्वम्, त्वकं पिता यस्येत्यादावपि तथात्वात् । युगपत्तावत्प्रकारकबोधाभावात् । बुद्धिविषयतावच्छेदकीभूतकिञ्चिद्धर्मप्रकारकबोधस्याप्युभयत्रैव जायमानत्वात् । अत एव शक्यतावच्छेदकयत्किञ्चिद्धर्मावच्छिन्नयावद्व्यक्तिबोधाजनकत्वमप्यनाशङ्क्यम् । सर्वे घटा आनीता इत्यादावभावात् । सर्वत्वमाधिकारिकमिति न्यायात् । नापि विशेषधर्मावच्छिन्नशक्यताकत्वम् । सर्वनाम्नां सर्वेषामेव तथात्वात् । नाप्यन्यधर्मानवच्छिन्नशक्यताकत्वे सति तत् । अवयवसाधारण्यात् । नापि संज्ञोपसर्जनोभयभिन्नत्वम् । पारिभाषिकत्वापत्त्याऽन्वर्थसंज्ञालभ्यत्वानिर्वाहात् ।
नन्वेकार्थीभावरूपायां वृत्तौ अवान्तरपदविभागानभ्युपगमात्कथमेवमिति चेत्, मैवम् । प्रक्रियादशायामेव व्युत्पत्तिकार्याणां प्रवृत्तिस्वीकारात् परिनिष्ठितपदे तदप्रवृत्तेः । अन्यथा परिनिष्ठितत्वव्याघातात् । "तद्धि अप्रवृत्तनित्यविध्युद्देश्यतावच्छेदकधर्मानाक्रान्तत्वम् । निहते तिङन्तादावव्याप्तिवारणाय अप्रवृत्तेति । वैकल्पिकेडागमोद्देश्यतावच्छेदकाक्रान्ते सेद्धेत्यादावव्याप्तिवारणाय नित्येति" इति स्वयमेव निरूपितत्वात् । अत एव "द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम्" इति वार्तिकं सङ्गच्छते । अन्यथा अवान्तरतत्पुरुषस्य महाविभाषया वैकल्पिकत्वापत्तेः । तदंशे वार्त्तिकं न्यायसिद्धार्थानुवादमात्रमिति तु तत्रैव निराकरिष्यामः ।
"एतेन जहत्स्वार्थायां वृत्तौ समासावयवयोरर्थ एव नास्ति । अजहत्स्वार्थायामपि स्वार्थविशिष्टार्थान्तरवृत्तित्वेनोपसर्जनत्वं स्पष्टमेव" इति निरस्तम् । प्रक्रियोपयोगिनोऽर्थस्य जहत्स्वार्थायामपि सत्त्वात् । कृतद्धितेत्यादौ तथैव भाष्यादिभिः सिद्धान्तितत्वात् । अन्यथा "द्वन्द्वे च" इत्यस्यानुपपत्तेः । वृत्त्यन्तर्गतस्यानर्थकत्वादेव सर्वनामत्वाभावे तदन्तविधिना समासे तत्प्रसङ्गस्य दुर्घटत्वात् । तस्याप्यलौकिकविग्रहपरताया दुर्वचत्वात् । समुदायस्यायं प्रतिषेध इति सिद्धान्तात् । कथं वा परमसर्व इत्यादौ सर्वनामत्वम् । द्वन्द्वकर्मधारययोरवयवस्याप्यर्थवत्त्वम्, न तु बहुव्रीह्यादाविति वैषम्ये बीजाभावात् । वृत्तेरुभयत्र साधारण्यात् । पूर्वोत्तरपदत्वभेदस्य त्वकिञ्चित्करतायाः स्वयमेवोक्तत्वात् । एवं "त्यदादिप्रधानाप्येतत् सिद्धम्" इति प्रतिभाष्यस्याप्ययमेवाभिप्रायः । अन्यथाऽनर्थकत्वादेव नात्र संज्ञाया अकच्प्रसक्तिरित्येव ब्रूयात् । अपिशब्दस्य त्वयमर्थः---प्रियविश्वायेत्यत्रैतत्प्रतिषेधस्य चरितार्थत्वात्त्वत्कपितृक इत्यादौ कथमकचो निवृत्तिः । समासात्प्रागेवान्तरङ्गत्वात्तदापत्तेः उक्तत्वात् ।
यदि तु प्रतिषेधसामर्थ्यात्पूर्वमप्यकचो न प्रवृत्तिरित्यस्य रक्षार्थं प्रियविश्वायेत्यत्र उपसर्जनप्रतिषेध आश्रीयते, तदा त्वत्कपितृक इत्यत्राकजपि तेनैव न भविष्यतीत्युक्तनिषेधवैयर्थ्यम् । अलौकिकवाक्यएव अकचो निषेधार्थमारम्भ इति स्वीकारे तु द्वितीयपक्षएव पर्यवसानम् ।
अजहत्स्वार्थायामपीत्यादावपि प्रष्टव्यम्---किं स्वार्थस्यान्यविशेषणतापन्नत्वादुपसर्जनत्वमिति विवक्षितम्, उत स्वस्यार्थान्तरे लाक्षणिकत्वादिति । नाद्यः । सर्वस्मै इत्यादावपि तदापत्तेः । विभक्त्यर्थविशेषणतापन्नत्वात् । नान्त्यः । न हि लाक्षणिकत्वमुपसर्जनत्वमिति स्वपरग्रन्थविरोधात् । बहुव्रीहौ पूर्वपदस्यैवान्यपदार्थे लक्षणेति पक्षे प्रकृतोपयोगस्याप्यभावाच्च ।
प्रकृतमनुसरामः । ननूपसर्जनपर्युदासानभ्युपगमेऽतिसर्वायेत्यादावतिप्रसङ्ग इत्यत आह---भाष्यकारेति । वृत्तिप्रवेशसाम्येऽपि यत्र सर्वनामार्थस्य विशेषणत्वं न तत्र संज्ञा, यत्र तु विशेष्यत्वं तत्रास्त्येव । यथा परमसर्वे इत्यादाविति भावः । ततश्च त्वत्कपितृक इत्युदाहरणानुपपत्त्याऽलौकिकविग्रहे प्रतिषेधपरमेतत्सूत्रमिति भाष्याभिप्राय इति प्राचामाशयः ।
न्यासकारस्त्वाह---प्रियविश्वायेति नोदाहरणम् । समुदायस्यासर्वनामत्वात् । संज्ञायां ज्ञापकलभ्यस्य तदन्तविधेश्च सर्वनामार्थप्राधान्यविषयकत्वात् । तदवयवानां च विश्वादीनां सर्वनामकार्थप्राधान्यविषयकत्वात् । तदवयवानां च विश्वादीनां सर्वनामकार्यप्रसक्त्यभावात् । स्मैप्रभृतीनामङ्गाधिकारीयत्वात् । न च "अङ्गाधिकारे तस्य च तदुत्तरपदस्य च" इति सिद्धान्तात्सर्वनामान्तादङ्गात्परत्वमाश्रित्य तदापत्तिः । विहितविशेषणाश्रयणात् । सर्वनाम्नोऽङ्गाद्विहितस्य ङेप्रभृतेरित्यर्थात् । "द्वन्द्वे च" इत्यत्र दक्षिणोत्तरपूर्वाणामिति भाष्यप्रयोगस्य तत्र प्रमाणत्वात् । एकवाक्यस्यैकरूपेणैव सर्वत्र प्रवृत्तेः । न च सर्वनामान्तादङ्गाद्विहितस्येत्यर्थप्रसङ्गादतिप्रसङ्गतादवस्थ्यम् । विहितविशेषणवैयर्थ्यापत्तेः । अङ्गात्सर्वनाम्न इत्येव सर्वनाम्नो विसेष्यत्वस्वीकारात् । तेन च तदन्तविधेरप्रवृत्तेः । अत एवोक्तं प्रकाशकारैः---
अवयवमात्रस्य सत्यपि सर्वनामत्वे दोषाभावादिति ।
एवं च "न बहुव्रीहौ" इति निषेधस्य प्रियविश्वायेत्यत्रानपेक्षितत्वात्तत्सामर्थ्यादन्तरङ्गोऽप्यकच्‌ समासात्पूर्वं न प्रवर्त्तते इति त्वत्कपितृक इत्याद्युदाहणं सुस्थमेव । तत्सिद्धं कृते बहुव्रीहाववयवसंज्ञानिषेधार्थमेवैतत्सूत्रमिति । तदेतदुपन्यस्यति, त्वत्कपितृक इत्यादिना । तथा च सूत्रकारमतइत्यनेनोपसर्जनप्रतिषेधानङ्गीकारादेतत्सूत्रारम्भ इत्युक्तम् । वार्त्तिकमते तूपसर्जनप्रतिषेधादेव सिद्धमित्यर्थः । विषयजिज्ञासायां तु भाष्यमतेऽलौकिकविग्रहेऽयं निषेधः ।
न्यासकृन्मते तु बहुव्रीहाववयवानामिति विवेक उक्तः । न चास्य भाष्येऽपि प्रथमं लिखितत्वात्कथं न्यासकारीयत्वेनोपन्यास इति वाच्यम् । आद्ये उपसर्जनप्रतिषेधेन प्रियविश्वायेत्यादीनामन्यथासिद्धिरुक्ता । द्वितीये तु संज्ञामभ्युपगम्य प्रकारान्तरेणेति विशेषात् ।
एवं सूत्रे व्याख्याते प्रत्याख्यानाभिप्रायेणाह भाष्यकारः । गोनर्द्दीयस्त्वाह---
अकच्स्वरौ तु कर्त्तव्यौ प्रत्यङ्गं मुक्तसंशयौ ।
त्वकत्पितृको मकत्पितृक इत्येव भवितव्यमिति । स्वरः "स्वाङ्गशिटामदन्ताम्" इत्याद्युदात्तत्वम् । यथोत्तरं मुनीनां प्रामाण्याद्भाष्यानुसारादेव साधुत्वव्यवस्था ।

तृतीयासमासे 29 ।

सर्वनामसंज्ञा न स्यात् । मासपूर्वाय देहि । पुनः समासग्रहणं वाक्यभेदेन समासार्थकवाक्येऽपि निषेधलाभार्थम् । मासेन पूर्वाय । न च त्वयका कृतम् त्वकत्कृतमित्यादावप्यापत्तिः । प्रतिपदोक्तस्य "पूर्वसदृश" इतिसमासस्यैवोपादानात् ।
यद्वा असमासे इत्यन्यो योगः । पर्युदासेन समाससदृशस्य लौकिकवाक्यस्य ग्रहणम् । न च पूर्वसूत्रवदस्याप्यलौकिकवाक्यपरत्वमेवास्त्विति वाच्यम् । अदन्तेषु काकचोरविशेषात् । तकारान्तानां च प्रतिपदोक्ततृतीयासमासाभावाद्वैयर्थ्यप्रसङ्गात् ।

द्वन्द्वे च 30 ।


सर्वनामसंज्ञा न स्यात् । पूर्वापराधराणाम् । समुदायस्यायं निषेधो न त्ववयवानाम् । न च समुदाये संज्ञाप्रसक्त्यभावः । उक्तनिषेधेनैव तदनुमानात् । प्रयोजनं सर्वनामाव्यवसंज्ञायामिति वार्त्तिकाच्च ।
नन्वयमवयवस्यैव संज्ञानिषेधः कुतो न स्यादिति चेद्, मैवम् । फलाभावात् । त्यदादिभ्यः पूर्वेषामकारान्तत्वेन काकचोर्विशेषाभावात् । त्यदादीनां चैकशेषविधानेन द्वन्द्वस्यैवाप्रसिद्धेः । द्वन्द्वापवाद एकशेष इति वक्ष्यमाणत्वात् । दक्षिणोत्तरपूर्वाणामित्यत्र पुंवद्भावस्य चेष्टत्वात् । "सर्वनाम्नो वृत्तिमात्रे" इत्यत्र यस्य कुत्रचित्सर्वनामसंज्ञा तस्योपादानात्संज्ञानिषेधेनापि तस्य दुर्वारत्वाच्च । न च त्वच्छब्दस्तान्त इति पक्षे तत्राकचो निवृत्त्यर्थ एव निषेधोऽस्त्विति वाच्यम् । शास्त्रस्याल्पविषयकत्वापत्तेः । नन्वेवमपि अवयवस्य संज्ञानिषेधानङ्गीकारे उक्तस्थलेऽङ्गाधिकरीयतदन्तविधिना सुट्‌ स्यात् । न च निषेधवैयर्थ्यम् । अङ्गाधिकारबहिर्भूतस्य त्रतसिलादेर्व्यावृत्त्या सार्थक्यात् । अत्राहुः---
अङ्गकार्येषु विहितविशेषणान्न दोष इति ।

विभाषा जसि 31 ।

जसादेशे शीभावे कार्ये द्वन्द्वे उक्ता संज्ञा वा स्यात् । वर्णाश्रमेतरे । वर्णआश्रमेतराः । जसीति कार्यापेक्षयाऽऽधारत्वम् । यद्यप्यादेशेन जसोऽपहाराद्भिन्नकालीनयोर्नाधाराधेयभावः । तथाऽपि आदेशप्रवृत्तिप्रयोजकप्रसङ्गप्रतियोगित्वरूपं गौणं तद्बोध्यम् ।
केचित्तु जस इरिति षष्ठीसमासः । जसीति सौत्रः सप्तमीलोपः । ग्रहणकशास्त्रेण च दीर्घ ईकारो लभ्यत इत्याहुः ।
अन्ये तु कार्यकालपक्षे "जसः शी" इत्यत्रैव एतत्संज्ञोपस्थानित्याहुः इति सर्वं कैयटे स्पष्टम् । सर्वथाऽपि शीभावं प्रत्येव विकल्पः । अन्यत्र पूर्वेण निषेध एव । तेन वर्णाश्रमेतरका इत्यादावकच् न, किं तु कप्रत्यय एव । अकचि तु तन्मध्यपतितन्यायेन पक्षे जसः शी स्यात् । तथा च भाष्यम्---
जसः कार्यं प्रति विभाषा, अकज्‌ हि न भवतीति ।

प्रथमचरमतयाल्पार्द्धकतिपयनेमाश्च 32 ।
शीभावे कार्ये वा सर्वनामसंज्ञा । नेमस्य प्राप्तेऽन्येषां त्वप्राप्ते विभाषेयम् ।
"ये भूताः प्रथमे पुराणचरितास्तेषामयं धूर्वहः" इति भवभूतिः।
"बभूवुर्न प्राञ्चस्त्वमिव भवितारो न चरमे"
"पश्यामः श्रवसी कृते च शृणुमस्तद्वक्तुमल्पे वयम्"
"वैदेहीकुचपत्रभङ्गिरचनावैदग्ध्यमर्द्धे कराः"
"संवर्तव्रतवृत्तयः कतिपये पीयूषभानोः कराः"
इति च मुरारिः । सुगममन्यत् ।

पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् 33 ।
स्वमज्ञातिधनाख्यायाम् 34 ।
अन्तरं बहिर्योगोपसंव्यानयोः 35 ।

इयन्त्रिसूत्री गणव्याख्यायामेव व्याख्याता । समानाकारत्वात् । यादृशेऽर्थे तत्र नित्या संज्ञा विहिता तस्मिन्नेव जसि विभाषाविधानार्थमारम्भः । पूर्वे पूर्वाः इत्यादि । अत्र वार्तिकम्--
अवरादीनां च पुनः सूत्रपाठे ग्रहणानर्थक्यं गणे पठितत्वात् ।
अस्यार्थः---अवरादीनामित्यादिशब्दस्य प्रकारार्थत्वात्पूर्वपरयोरपि लाभः । तथा च पूर्वादीनां यथोक्तार्थविशेषपुरस्कारेणैव नित्यसंज्ञाऽर्थं गणे पठितत्वात् "पूर्वादीनि नव" इत्येव सूत्रणीयम् । तेषामेवात्र प्रत्यभिज्ञानात् । तत्रैवार्थनिर्द्देशः पाठविशेषणं, यथा---"तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः" इत्यत्र कुत्सनाभीक्ष्ण्यग्रहणं गोत्रादिपाठस्य एतेनार्थविशेषनिर्द्देशार्थमिह प्रत्येकं पाठ इत्यपि निरस्तम् ।
"पूर्वादीनि नव" इति अत्रत्यसूत्रं प्राप्तविभाषा भविष्यतीति । ननु नियतसंनिवेशव्यवस्थितगणपाठोत्तरं सूत्रपाठ इत्यत्र प्रमाणाभावः । सर्वादीनीत्यादिशब्दस्य प्रकारार्थत्वमपि सम्भवति । तत्प्रदर्शनायाभियुक्तैर्गणाः पठ्यन्ते । श्रेण्यादयः पठ्यन्ते । कृतादिराकृतिगणः इति दर्शनात् । कृतादीनां च वृत्तिकारैर्निदर्शनार्थं पठितत्वात् । "मध्यमस्याम् अवमस्याम्" इत्यादिप्रयोगाणामपि वेदे दर्शनाच्च । मैवम् । "पूर्वादिभ्यो नवभ्यो वा" इति नवग्रहणेन गणपाठस्य पूर्वत्वज्ञापनात् । अन्यथा त्यदादिव्यवच्छेदार्थस्य नवग्रहणस्यानुपयोगात् । तेन सर्वादीनीत्यादिशब्दो व्यवस्थाऽर्थः । अन्यथा सकलादिपदेष्वतिव्याप्तेः । मध्यमस्यामित्यादेश्च छान्दसत्वात् ।
अथ त्यदादिपाठानन्तरं कैश्चित् पूर्वादीनि पठ्यन्ते । तत्र पूर्वादिभ्यस्त्रतसिलादीनां प्रतिषेधः प्राप्नोति । "किंसर्वनामबहुभ्यः" इत्यधिकारेऽद्व्यादिभ्य इति पर्युदासात् द्व्यादिभिन्नेभ्य एव सर्वनामभ्यस्तद्विधानात् । अतः पुनः सर्वनामसंज्ञाविधानार्थमयं प्रतिपदपाठः । तेन सामर्थ्यात्पर्युदासो बाध्यते । यथा---"अनुर्लक्षणे" इति पुनर्विधानेन हेतुतृतीया । न चैवं जसि विभाषा न लभ्येतेति वाच्यम् । वाक्यभेदेन तस्या अपि विधानात् । यथा---"अमि पूर्वः" "संप्रसारणाच्च" इत्यत्र "वा छन्दसि" इति वाक्यभेदेन सम्बन्धाच्छन्दसि पूर्वरूपविकल्प इति चेत् । मैवम् । "पूर्वत्रासिद्धं जश्भावादिति चेदुत्तरत्राभावादपवादप्रसङ्गः" इतिसूत्रवार्तिकप्रयोगादेव पूर्वादिष्वद्व्यादिभ्य इति पर्युदासो न प्रवर्ततइति ज्ञापयितुं शक्यत्वात् । तस्मादर्थविशेषविशिष्टानां पूर्वादीनां प्रतिपदपाठवैयर्थ्यमिति प्राप्ते सिद्धान्तमाह भाष्यकारः---
जसि विभाषां वक्ष्यामीति ।
अस्यार्थः---यद्यत्र "पूर्वादीनि नव" इत्येव सूत्र्येत तदा गणपाठेऽर्थनिर्द्देशस्य नित्यसंज्ञाविधानएवोपयोगात्पाठविशेषणे प्रमाणाभावादर्थान्तरे पूर्वादीनामप्राप्तविभाषेयं स्यात् । न च तथाऽपि प्राप्तविभाषैवेयमस्त्विति वाच्यम् । उक्तानुवाददोषादप्राप्तिविभाषायामपूर्वविधानात् । तथा हि---अर्थनिर्द्देशस्य पाठविशेषणत्वाभावे अर्थविशेषानवच्छिन्नानामेव पूर्वादीनां सर्वादौ पाठः । अर्थनिर्द्देशस्तु नित्यविभाषायामेवोपयुक्तः । तथा च व्यवस्थादौ नित्या संज्ञा । जसि विभाषा तु व्यवस्थादिवृत्तीनां पूर्वादीनाम् उत अर्थान्तरवृत्तीनामिति वीक्षायां आद्येऽनुवाददोषः, प्राप्तत्वाज्जस्यपि संज्ञायाः । द्वितीये त्वप्राप्तैव संज्ञा विधीयतइति नानुवादः । न चात्राप्यभावकोटावनुवादः भावकोटौ विधिः, प्राप्तविभाषायां तु भावकोटावनुवादो निषेधकोटौ विधिरिति वाच्यम् । भावपरत्वानुपपत्तावेवानायत्या विधेर्निषेधे तात्पर्यकल्पनात् । अर्थान्तरवृत्तीनाम् अप्राप्तसंज्ञाविधानसम्भवे तदनौचित्यात् । अतो विभाषायामप्यर्थविशेषपुरस्कारेण पूर्वादीनां प्रतिपादपाठः । तद्बलाच्च प्राप्तविभाषात्वमर्थविशेषपुरस्कारेण विहितत्वादर्थान्तरे विकल्पप्रवृत्तेरनुपपत्तेः ।
अत्र वदन्ति---गणे एवोक्तत्रिमूत्र्यनन्तरं "विभाषा जसि" इति पठनीयम् । अर्थविशिष्टानां पूर्वादीनामनुवृत्त्या विकल्पलाभात् । न च सर्वादीनामप्यनुवृत्त्यापत्तिः । नेमस्य जसि विभाषारम्भात् । न च नेमपर्यन्तानामननुवृत्तेस्तेन ज्ञापितत्वेऽपि समासिमयोरनुवृत्तिर्दुर्वारेति वाच्यम् । समसिमनेमेति पाठेनापि निर्वाहात् ।
यद्वा---"जस्‌ङसिङीनां शीस्मात्स्मिनः" "पूर्वादिभ्यो नवभ्यो वा" "औङ आपः शी" "नपुंसकाच्च" इति सप्तमे न्यासः कर्त्तव्यः । संज्ञाविकल्पविधानापेक्षया शीशब्दस्य द्विरूपादानेऽपि यथान्यासापेक्षया लाघवस्य भूयस्त्वात् ।
यद्वा---यथान्यासएव "पूर्वादिभ्यो नवभ्यो वा" इत्येतद्‌ "जसः शी" इत्यत्रानुवर्त्य वाक्यभेदेन व्याख्येयम् । एभ्यः परस्य जसो वा शीभावः स्यादिति । तस्मादुक्तभिसूत्री अष्टाध्याय्यां न पाठ्येति ।
अत्रेदं चिन्त्यम् । जसि संज्ञाविकल्पानारम्भे पूर्वा इत्यादौ शीभावाभावपक्षेऽपि सर्वनामसंज्ञासद्भावादाद्युदात्तत्वप्रसङ्गः । यथान्यासे तु तत्रान्तोदात्तत्वमिति फलवैषम्यमिति ।
*विभाषाप्रकरणे तीयस्य ङित्सूपसंख्यानम् ।
* द्वितीयस्मै द्वितीयायेत्यादि । एवं च "विभाषा द्वितीयातृतीयाभ्याम्" इति सूत्रं नारभ्यम् । लिङ्गविशिष्टपरिभाषया एकादेशस्य पूर्वान्तत्वेन ग्रहणाद्वा स्त्रीलिङ्गेऽपि सिद्धेः । न च विनिगमकाभावः । स्त्रीलिङ्गोपादानेन पुंनपुंसकयोः कार्यासिद्धेः । जात्यन्तात् छ बन्धुनि । ब्राह्मणजातीयाय । प्रकारवचने जातीयर् । पटुजातीयाय । तसन्ताभ्यां मुखपार्श्वशब्दाभ्यां गहादित्वाच्छः । मुखतीयाय । पार्श्वतीयाय । अत्र न सर्वनामत्वम् । लाक्षणिकत्वात् । अनर्थकत्वाच्च । "पूरणाद्भागे तीयादन्" इति अन्प्रत्यये "यस्येति च" इत्यकारलोपे च कृते तृतीयाय भागायेत्यत्रापि न भवति । लाक्षणिकत्वात् । न चैकदेशविकृतन्यायः । अन्नन्तस्यान्यत्वात् । अनो विकारत्वाभावात् ।
इति सर्वनामसंज्ञाप्रकरणम् ।

स्वरादिनिपातमव्ययम् 36 ।

स्वरादयो निपाताश्चाव्ययसंज्ञाः स्युः । समाहारे द्वन्द्वः । निपाताश्च "प्राग्रीश्वराद्‌" इत्यधिकृत्य "अधिरीश्वरे" इत्येतत्पर्यन्तं वक्ष्यन्ते । ननु स्वरादीनपि चादिष्वेव पठित्वा अव्ययप्रदेशेषु च निपातशब्दमेवोपादाय अव्ययसंज्ञा नारभ्येति चेन्न । चादीनां हि असत्त्ववाचिनामेव निपातसंज्ञा । "लोधं नयन्ति पशु मन्यमानाः" इत्यत्र सम्यगर्थपशुशब्दस्यैव स्यात्, न तु "पशूंस्तांश्चक्रे" इत्यादौ सत्त्ववाचिनोऽपि, स्वरादीनां तु सत्त्ववाचिनामप्यव्यसंज्ञा, स्वः पश्येत्यादिदिर्शनात् इति वैषम्यात् ।
अथैवमपि "प्राग्रीश्वरान्निपाताः" "स्वरादीनि" चादयोऽसत्त्वे" इति न्यासः क्रियतामिति चेन्न । "निपात एकाजनाङ्‌" इति प्रगृह्यसंज्ञायाः स्वरादीनामिप्येकाचां प्रसङ्गात् । "किमोऽत्‌" इत्यत्प्रत्ययस्य "दक्षिणादाच्‌" इत्याच्‌प्रत्ययस्य च तद्धितस्य केन्‌प्रभृतीनाञ्च कृतामेकाचां स्वरादिषु सत्त्वात् । न च "चादिरेकाजनाङ्‌" इत्येव पठनीयमिति वाच्यम् । चादीनामसत्त्ववाचित्वविशेषणाभावे कामवाचकस्य इशब्दस्य सम्बुद्धौ एऽवेत्यत्रापि प्रगृह्यत्वापत्तेः । निपात इत्युक्ते तु असत्त्ववाचिनामेव चादीनां तत्संज्ञत्वमिति अतिप्रसङ्गाभावात् । अव्ययेत्यन्वर्थसंज्ञाविज्ञानादुपसर्जनानां संज्ञा न । विविधं विकारं न गच्छति, सत्त्वधर्मान् लिङ्गसंख्याकारकादीन् न गृह्णातीति यावत् । तेन अत्युच्चैसौ अत्युच्चैस इत्यत्र अव्ययसंज्ञाविरहान्नसुपो लुक् । अतिक्रान्तप्राधान्येन सत्त्वधर्मग्राहित्वात् । न चात्र संज्ञायाः प्रसक्तिरेव नास्तीति वाच्यम् । तदन्तविधेरप्यन्वर्थसंज्ञयैव ज्ञापनात् । अन्यथोपसर्जने प्रसक्त्यभावे तद्व्यावृत्त्यर्थायास्तस्या अनुपपत्तेः । परमस्वरित्यादौ उत्तरपदार्थप्राधान्ये तु भवत्येव । आथर्वणे प्रणवविद्यायां भाष्योदाहृता श्रुतिरप्यत्र मानम् ।
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ।।
सादृश्यं च लिङ्गविशेषप्रतिपादने सामर्थ्याभावात् ।
केचित्तु लिङ्गविशेषानन्वयेऽपि लिङ्गसामान्ययोगोऽव्ययानामस्त्येवेत्याहुः । तन्न । लिङ्गसामान्ये प्रमाणाभावादिति कैयटः । विभक्तिषु कारकेषु । साधनप्रधानानामव्ययानां शक्त्यन्तरानावेशात्, क्रियाप्रधानानां च शक्तिसम्बन्धाभावात् । वचनेष्वेकबहुत्वादिषु । अव्ययीभावस्य तु लिङ्गसंख्यायोगेऽपि वचनादव्ययत्वम्, सुप्रभृतीनां कर्मप्रवचनीयसंज्ञावत् ।
अथ स्वरादयः । स्वरिति स्वर्गपरलोकयोः । स्वर्गे---"स्वारसातलभवाहवशङ्की" । परलोके---"समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः"। अन्तरिति मध्ये । "अन्तः पांशुलहेमकेतकदला द्रोणीदुरापश्रियः" । प्रातरिति प्रभाते । "प्रातः पश्य सखे दरिद्रवदभून्निर्मुद्रमम्भोरुहम्" । स्वः शब्द स्वरितः । "न्यह्‌स्वरौ स्वरितौ" इति फिट्‌सूत्रात् । अन्तरिक्षमथो स्वरिति प्रयोगाच्च । द्वावन्तोदात्तौ । "प्रातरग्निं प्रातरिन्द्रं हवामहे" इत्यादौ तथादर्शनात् । पुनरित्यप्रथमे विशेषे च । अप्रथमे"अनुभवपुनरुक्तां मुञ्च नस्तोत्रचर्याम्" । विशेषे---"किं पुनर्नवमीयुक्ता" । आद्युदात्तोऽयम् । सनुतरित्यन्तर्द्धाने । "सनुतश्चोरो गच्छति" । उच्चैरिति महति । "उच्चैरुच्चरति ध्वनिः श्रुतिपथोन्माथी यथाऽयं तथा" । नीचैरित्यल्पे । "नीचैः शंस हृदि स्थितो हि ननु मे प्राणेश्वरः श्रेष्यति" । शनैरिति क्रियामान्द्ये । "शनैश्चिद्यन्तो अद्रिवः" । ऋधगित्थासमर्त्यः । ह्यस् इति अव्यवहितपूर्वेऽह्नि । श्वस् इत्यव्यवहितोत्तरेऽह्नि । "श्वस्तस्याः प्रियमाप्तुमुद्‌धुरधियो धाराः सृजन्त्या रयात्" दिवेति दिवसे । "न शोभनं यद्दिवा स्वपिषि" । रात्राविति निशि । "रात्रौ वारिभरालसाम्बुदरवोद्विग्नेन जाताश्रुणा" । सायमिति निशामुखे । "सायं स्नानमुपासितं मलयजेनाङ्गं समालेपितम्" । चिरमिति बहुकाले । "चिरं स्वेच्छस्पर्शैरमृतशिशिरैर्यः परिचितः" । मनागिति ईषदर्थे । "गन्धेन स्फुरता मनागपहृतो भक्तस्य सर्पिष्मतः" । ईषदित्यल्पे । "तदीषद्विस्तारि स्तनयुगलमासीन्मृगदृशः" । जोषमिति सुखे मौने च । सुखे---"जोषमास्ते जितेन्द्रियः" । मौने---"जोषं जोषं जोषमेवावतस्थे" । तूष्णीमिति मौने । "बभूत तूष्णीमहितापकारकः" । बहिस् अवस् इति बाह्ये । "बहिः पुरोऽभूत्पुरुहूतपौरुषः" । समयेति समीपे मध्ये च । निकषेत्यन्तिके । "विलङ्घ्य लङ्कां निकषा हनिष्यति" । स्वयमित्यात्मनेत्यर्ते । "स्वयं त्यक्तास्त्वेते शमसुखमनन्तं विदधति " । वृथेति व्यर्थे । "वृथा परीहास इति प्रगल्भता" । नक्तमिति रात्रौ ।
नक्तं रत्नमयूखपाटवमिलत्काकोलकोलाहलः ।
त्रस्यत्कौशिकभुक्तकन्दरतया सोऽयं गिरिः स्मर्यते ।।
नञ्‌ इति निषेधे । "तथाऽऽद्रियन्ते न बुधाः सुधामपि" । हेताविति निमित्तार्थे । इद्धेति प्राकाश्ये । अद्धेति स्फुटावधारणयोः । तत्त्वातिशययोरित्येके । "तत्त्वे त्वद्धाऽञ्जसा द्वयोः" इत्यमरः । "अद्धा श्रद्धाकरमिह करच्छेदमप्यस्य पश्य" । सामीत्यर्द्धजुगुप्सितयोः । "पूर्वं गाधिसुतेन सामिघटिता मुक्ताऽनुमन्दाकिनी" । ह्यस्प्रभृतयः साम्यन्ता द्वाविंशतिरन्तोदात्ताः इति काशिका । "वृथा सृजत्पथिभिः" "नक्तं ददृश्रे कुहचिद्दिवेयुः" इत्यादयस्त्वाद्युदात्ताः प्रयुज्यन्ते" इति इति कौस्तुभे ।
वत् । वत्प्रत्ययान्तमव्ययसंज्ञम् । तुल्यार्थे इवार्थे च विहितस्य वतेरुपादानमविशेषात् । न तु "उपसर्गाच्छन्दसि धात्वर्थे" इति विहितस्य । सत्त्वार्थकत्वात् । यदुद्वतो निवतः । उद्गतान् निगतानित्यर्थः । सना सनत् सनात् एते नित्ये । सनातनः । सनत्कुमारः । अत एव सनत्सुजातपदव्याख्यायां श्रीनारायणसर्वज्ञाः---"सनत्पदं नित्यार्थम्, सनत्‌वाजसनमिति छन्दसि तथा दर्शनात् । सुष्ठुजातः स्वधर्माविर्भूतदेहत्वादिति" "अधीहि भगव इत्युपससार सनत्कुमारं नारदः" इति छान्दोग्योपनिषत् । "इमा गिर आदित्येभ्यो घृतस्नूः सनाद्राजभ्यो जुह्वा जुहोमि" इति मन्त्रे "चिरञ्जुह्वा जुहोमि चिरं राजभ्य इति चेति निरुक्तिकृता चिरार्थोऽप्युक्तः । तिरसिति अन्दर्द्धौ तिर्यगर्थे च । अन्तर्द्धौ---"लावण्यप्रसरतिरस्कृताङ्गलेखाम्" । "तिरस्कृतस्तस्य जनाभिभाविना" इत्यादौ परिभूते तूपचारात् । एते आद्युदात्ता इति काशिका । अन्तोदात्तौ सनातिरः शब्दौ वेदे दृश्येते इति कौस्तुभे । अन्तराऽन्तरेणेति मध्ये विनार्थे च । अऽन्तोदात्तः । मध्ये---"द्यामन्तरा वसुमतीमपि गाधिजन्मा" । "मृणालसूत्रामलमन्तरेण स्थितश्चलच्चामरयोर्द्वयंसः" । विनाऽर्थे---"त्वामन्तरा तामरसायताक्षि" "कर्णारुन्तुदमन्तरेण रणितं गाहस्व काक स्वयम् ।
ज्योगिति कालभूयस्त्वे प्रथमे शीघ्रार्थे संप्रत्यर्थे च । "सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या" इति छान्दोग्योपनिषत् । कमिति वारिमूर्द्धनिन्दासुखेषु । क्रमेण यथा---कञ्जं पद्मम् । कञ्जाः कचाः । कन्दर्प्पः । कंयुः । "कंशंभ्यां युः" इति मत्वर्थीयो युः । शमिति सुखे । शंयुः । सहसेत्याकस्मिकाविमर्शयोः । "एव प्लोषार्त्तयोषिज्जन इव सहसैवोत्थितोऽन्तः पुरोऽग्निः" "क्रूरेण दारुणतया सहसैव दग्धा"। स्वधेति पितृदाने । "स्वधा कृतं यत्तनयैः पितृभ्यः । अलमिति भूषणपर्याप्तिशक्तिवारणनिषेधेषु । "चलन्नलंकृत्य महारयं हयम्" । "पठत्सु तेषु प्रतिभूपतीनलम् विनिद्ररोमाऽजनि शृण्वती नलम्" "ग्रन्थानधीत्य व्याकर्तुमिति दुर्मेधसोऽप्यलम्" । "एतावताऽलमघनिर्हरणाय पुंसाम्" । "अलं विलम्ब्य त्वरितं हि वेला" । वषट्‌ वौषट्‌ श्रौषट्‌ एते हविर्दाने । "वैतानेषु कृपीटयोनिषु पुरोडाशं वषट्‌ कुर्वते" । "तस्यै द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं वषट्‌कारं च" इति ब्राह्मणम् । विनेति वर्जने । "तव रूपमिदं तया विना" । नानेत्यनेकविनाऽर्थयोः । श्रियो नानास्थानभ्रमणरमणीयां चपलताम्" । "नाना नारीं निष्फला लोकयात्रा" । "नेह नानाऽस्ति किञ्चन"इत्यत्र नानाशब्दो नञ्‌समानार्थकतया अन्योऽन्याभावार्थः । "विनञ्‌भ्यां नानाञौ नसह" इति स्वार्थिकनाञ्‌प्रत्ययान्तनञ्‌पदव्युत्पन्नत्वात् । तस्य च धर्मिपरतया भिन्नं नास्तीत्यर्थ इत्यौपनिषदाः । स्वस्ति इति मङ्गले । "स्वस्ति न इन्द्रो वृद्धश्रवाः" । अन्यदित्यन्यार्थे । देवदत्त आयातोऽन्यच्च यज्ञदत्तः । अस्तीति सत्तायाम् । "अस्ति वाम्यभरमस्ति कौतुकम्" । उपांशु इत्यप्रकाशोच्चारणरहस्ययोः । "उच्चैर्ऋचा क्रियते नीचैर्यजुषा उपांशु साम्ना" इति श्रुतिः । क्षमेति क्षान्तौ । "क्षमाकरोतु भवान्" । विहायसेति वियदर्थे । "विहायसा रम्यमितो विभाति" । दोषेति रात्रौ । "दोषाऽपि नूनमहिमांशुरसौ किलेति " । मृषा मिथ्येति द्वौ वितथे । "मृषा निशानाथमहः सुधा वा" । "मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे" । मुधेति व्यर्थे । "भजन्ति हि मुधा बुधा अहह कुक्षितः कुक्षितः" । "क्त्वातोसुन्‌कसुनः" "कुन्मकारसंध्यक्षरन्तः" "अव्ययीभावश्च" इमानि गणसूत्राणि अष्टाध्यायीस्थत्रिसूत्रीसमानार्थानि । अर्थस्तत्रैव वक्ष्यते ।
स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा ।
इत्यमरः । "उपाध्यायेन पुराऽधीयते" । अविरतमपाठीत्यर्थः । "स्मरेण मुक्तेषु पुरा पुरारौ" इत्यादौ अतीतकालार्थः । "पुरा विकुरुते मायाम्" । समनन्तरं विकरिष्यतीत्यर्थः । मिथो मिथस् इति रहः सहार्थयोः । "कथाप्रबन्धेषु मिथः सखीमुखात्" । सहार्थोऽन्योऽन्यार्थः । "मिथोऽन्योऽन्यं रहस्यपि" इत्यमरः । प्रायास् इति बाहुल्ये । क्वाचित्कव्यभिचारविशिष्टसहचारबाहुल्ये इत्यर्थः ।
मृगेन्द्राश्च नरेन्द्राश्च प्रायः सीदन्ति दुः खिताः ।
मुहुस् इति पुनरर्थे । "मुहुर्व्यजनवीजनैर्बहलचन्दनासेवनैः" । प्राहुकमिति समकाले ऊर्द्ध्वार्थे च । प्रवाहिकेति केचित् । आर्यहलमिति बलात्कारे । "आर्येति प्रतिबन्धे हलमिति प्रतिषेधविवादयोः" इति शाकटायनः । अभीक्ष्णमिति पौनः पुन्ये । "अभीक्ष्णमुष्णैरपि तस्य सोष्मणः" । साकं सार्द्धमित्येतौ सहार्थे ।
"उत्क्षिप्तं सह सौशिकस्य पुलकैः सार्द्धं मुखैर्नामितम्" ।
"भूपानां जनकस्य संशयधिया साकं समास्फालितम्" ।
नमस् इति नतौ । "नमस्ते रुद्र मन्यवे" । हिरुगिति वर्जने ।
"य इन्दुदर्शं हिरुगिन्नु तस्मात्" । धिगिति निन्दाभर्त्सनयोः ।
"धिग्धैवदुर्विलसितं यदयं हिमांशुरभ्युद्यतश्च तमसा कवलीकृतश्च"।
"प्रियमपि ततो धिग्ब्राह्मण्यं धिगङ्गिरसः कुलम्" । तसिलादिस्तद्धित एधाच्‌पर्यन्तः, शस्‌तसी, कृत्वसुच्‌, सुच्, आस्‌थालौ, च्व्यर्थाच्चेति गणसूत्राणि ।
अयमर्थः । "पञ्चम्यास्तसिल्" इत्यारभ्य "एधाच्च" इत्येतदन्तैः सूत्रैर्विहितो यस्तद्धितस्तदन्ताः शब्दाः स्वरादिषु बोद्धव्याः । "बह्वल्पार्थात्" इति विहितः शस् । प्रतियोगे पञ्चम्यास्तसिः । "संख्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच्"। "द्वित्रिचतुर्भ्यः सुच्" । "इण आसिः" इत्युणादिसूत्रेण विहितः आसिः । अया इति यस्य रूपम् । "प्रत्नपूर्वविश्वेमात्थाल्छन्दसि" इति सूत्रेण विहितः थाल्‌ । "तं प्रत्नथा पूर्वथा विश्वथेमथा" । "सम्पद्यकर्तरि च्विः" "विभाषा साति कार्त्स्न्ये" "देये त्रा च" "अनिदौ डाच्‌" एतदन्ता अपि ग्राह्याः । अम् "अमु चच्छन्दसि" इति विहितः । आम् इत्यङ्गीकारे ।
आं जानीमो गमनसमये हन्त कान्तारसीम---
न्येकाकिन्याः कुवलयदृशो लुण्ठिता लोचनश्रीः ।
"किमेत्तिङव्ययादाम्" "कास्प्रत्ययादाममन्त्रे लिटि" इति विहितोऽपीत्यन्ये । प्रताम् इति ग्लानौ । प्रशान् इति सादृश्ये । प्रशान्देवदत्तो यज्ञदत्तेन । प्रतानिति विस्तारे । मा इति निषेधे ।
"मा जानीत विदर्भजामविदुषीं कीर्त्तिर्मुदः श्रेयसी" ।
माङिति निषेधाशङ्कयोः । "मा ते मलीमसविकारघना मतिर्भूत्" । आकृतिगणत्वात्स्वरादेरन्येषामपि संग्रहः । कामं स्वाच्छन्द्ये अनास्थायां च ।
कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वंसहे ।
प्रकामाः । निकाममित्यतिशये ।
"निकामं क्षामाङ्गीसरसकदली गर्भसुभगा" । भूय इति पुनरर्थे । "भूयोऽपि नामाधरसाम्यगर्वम्" । सांप्रतमिति न्याय्ये ।
"रामाल्लब्धसमस्तहेतिगुरुणो वीर्य्यस्य यत्सांप्रतम्" ।
परमिति किन्त्वर्थे । "वक्तुं विशेषः परमस्ति विशेषः" । साक्षादिति प्रत्यक्षे । "तदेव साक्षादमृतांशुमाननम्" । व्यवधानरहितत्वेऽपि । यथा साक्षात्कारणम् । साचीति तिर्यगर्थे ।
"काकुव्याकुलवाचि साचिहसितस्फूर्जत्कपोलश्रिया" ।
सत्यमित्यर्द्धाङ्गीकारे । "सत्यं मनोरमाः रामाः सत्यं रम्या विभूतयः" ।
मङ्‌क्षु आशु इति द्वौ शैघ्ये । संवत् इति वर्षे । अवश्यमिति निश्चये । "अवश्यं यातारश्चिरतरमुषित्वाऽपि विषयाः" । सपदीति शैघ्र्ये । "तव सपदि समीपमानयेताम्" ।
बलवदिति अतिशये । "बलवत्तु द्रवमाणं प्रत्याययन्तीव मे हृदयम्" । प्रादुराविरिति प्राकाश्ये ।
"वपुष्प्रादुर्भावादनुमितमिदं जन्मनि पुरा" ।
"आविर्भूतप्रणयसुमुखाश्चातका वा भजन्ते" ।
अनिशं नित्यदा सदा अजस्रं सततम् एते सातत्ये । "लवणमम्बु सदैव महोदधेः" । "अजस्रमभ्याशमुपेयुषा समम्" । उषेति रात्रौ । रोदसी द्यावापृथिव्यर्थे । ॐमिति ब्रह्मण्यङ्गीकारे च । " ॐनमः सर्वभूतानि"। "ॐमित्युक्तवतोऽथ शार्ङ्गिण इति व्याहृत्य वाचं नभः" । भूर्भुवः स्वरिति पृथिव्यन्तरिक्षलोकयोः । "द्रष्टुं नीर चिरस्य धाम भवतस्तद्‌ भूर्भुवः स्वस्त्रयी" । हृन्मर्मव्रणरोपणौषधमिमौ बाहू बहूत्ताम्यतः । झटिति झगिति तरसा इति शैघ्र्ये । "झटिति कुरुते दृष्टः कोऽयं दृशाममृताञ्जनम्" । "कालामच्छाक्षमालां झगिति भगवतो भैरवस्यार्पयामि" ।
स्राक् झटित्यञ्जसाऽह्नाय द्राङ्‌ मङ्‌क्षु सपदि द्रुते ।
इत्यमरः । "मूर्च्छन्मोहमहर्षिहर्षविहितस्नानाह्निकाऽह्नायवः । सुष्ठु प्रशंसायाम् । "ये वर्तन्ते तव च हृदये सुष्ठु सम्बन्धयोग्या"। कु इति कुत्सितेषदर्थयोः । "धिक्‌ तस्य मन्दमनसः कुकवेः कवित्वम्" "द्रागेतच्छुरिकारयेण ठणिति च्छिन्नापसर्पच्छिराः" । अञ्जसेति तत्त्वे शैघ्र्ये च । अ इति बहरर्थे । मिथुनम् इति द्वावित्यर्थे । मिथुनं त्रपेते । विष्वगिति समन्तादित्यर्थे । "वात्यासंवेगविष्वग्विततवलयितस्फीतधूम्याप्रकाशः" । भाजगिति शैघ्र्ये । भाजक् पचति । अन्वगित्यानुकूल्ये ।
चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः ।
आदिपदं चिरं चिरेण चिरादितिपरम् ।
"चिराय रात्रिञ्जर वीरचक्रमाराङ्कवैज्ञानिकपश्यतस्त्वाम्" ।
"दीक्षितं चिररात्राय श्रुत्वा तं तु युधिष्ठिरः" ।
"सुचरितपरिपाकात्प्राप्तश्चिरस्य समागमः" । "चिरेण लब्धा बहुभिर्मनोरथैः " । "उदञ्चदुच्चारणचारुणश्चिरात् " । अस्तमिति विनाशे । "राज्यमस्तमितेश्वरम्" । आनुषगित्यानुपूर्व्ये । "आनुषक् प्रविशतीत्याह बन्द्युत" । दान्तोऽयमिति केचित् । ह्रस्वादिरयमनुमाने इति शाकटायनः । अम्नस् इति शीघ्रसाम्प्रतिकयोः । अम्नरेव । स्थाने इति युक्ते । "तस्यार्थे गरुडामरेन्द्रसमरः स्थाने समानेऽजनि" । वरमिति ईषदुत्कर्षे । "स्वाधीना वचनीयताऽपि हि वरं बद्धो न सेवाञ्जलिः" । दुष्ट इति निष्कृष्टार्थे । बलादिति हठार्थे । "भित्त्वा प्रसरति बलात्" । शु इति पूजायाम् । "शुनासीरः" "शुतुद्रिस्तोमं सचता परुष्ण्या" । अर्वागिति प्राचीने सुदि शुक्लपक्षे वदि कृष्णपक्षे इत्यादि प्रयोगानुसारेण ज्ञेयम् ।

तद्धितश्चासर्वविभक्तिः 37 ।

यस्माद्वचनत्रयं नोत्पद्यते, किन्त्वेकवचनमेव स तद्धितान्तः शब्दोऽव्ययसंज्ञः स्यात् । तत्र । ततः । तद्धित इति किम् । एकः द्वौबहवः । तेषां नियतवचनत्वेन वचनत्रयानुत्पत्तेः । विशेषणं किम् । औपगवः । इह यदि यस्य तद्धितस्योत्पत्तौ सर्वविभक्तिर्न निमित्तम्, किं तु विभक्तिविशेषपुरस्कारेणैव तदुत्पत्तिः, तस्याव्ययसंज्ञा । यथा"सर्वैकान्यकिंयत्तदः काले दा" इति दाप्रत्ययस्य सप्तम्येवोत्पत्तिनिमित्तमिति व्याख्याने विना नाना इत्यादीनामव्ययसंज्ञा न स्यात्, तदुत्पत्तौ कस्याश्चिदपि विभक्तेरनपेक्षितत्वादित्यव्याप्तिः । दाक्षिरित्यादौ "तस्यापत्यम्" इति षष्ठ्या एव निमित्तत्वेनाश्रयणादतिव्याप्तिश्च । एवं त्रलादीनामप्यव्ययत्वं न स्यात् । न च "पञ्चम्यास्तसिल्" "सप्तम्यास्त्रल्" इति तेषाम् एकैव विभक्तिर्निमित्तमिति वाच्यम् । "इतराभ्योऽपि दृश्यन्ते" इति विभक्त्यन्तरेऽपि तद्धिधानात् ।
अथाश्रूयमाणसर्वविभक्तिकः शब्दोऽव्ययम् । न च दधि मधु इत्यादावतिप्रसङ्गः । विभक्त्यन्तरस्य श्रूयमाणत्वादिति । तदाऽन्योऽन्याश्रयः । अव्ययत्वाद्विभक्तिलोपः, तस्मिंश्च सति अव्ययत्वमिति ।
यदि तु लिङ्गसङ्ख्यारहितत्वमव्ययत्वम् । न चात्रान्योऽन्याश्रयः । लिङ्गसंख्याऽनन्वयस्य शब्दस्वाभाव्याधीनत्वेन वाचनिकत्वाभावात् इत्युच्यते, तदा सम्यगेवेति भाष्यमतम् ।
वार्तिककारस्तु---सिद्धं तु पाठात्, तसिलादयः प्राक् पाशपःष शस्प्रभृतयः प्राक्समासान्तेभ्यः, मान्तः कृत्वोऽर्थः तसिवती नानाञाविति ।
न च "प्रत्नपूर्व" इत्यादिना विहितस्य थाल्‌प्रत्ययस्यासंग्रहः । प्रकारवचने यः थाल् तस्यैव तत्र विधानात् । स्वरादौ पाठेन सङ्ग्रहाच्चेत्यपरे । मान्त इति । अम् आम् चेत्यर्थः । तसिपदेन "प्रतियोगे पञ्चम्यास्तसिः" "तेनैकदिक्" "तसिश्च" इति विहितौ द्वावपि गृह्येते । कृत्वोऽर्थः कृत्वसुच् सुच् च ।
स्यादेतत् । कारकविधीनां वचनविधीनां च स्वादिविधिनैकवाक्यत्वात् अव्ययेषु स्वादीनां प्राप्तिरेव दुर्घटा । कर्मत्वैकत्वाद्यभावेन तत्तदर्थेषु तत्तद्विभक्तिविधायकवचनानामव्ययेषु प्रवृत्तिविरहात् । सत्यम्---
चत्वारोऽत्र पक्षाः ग्रन्थेषु प्रतीयन्ते । अव्ययेभ्यः सप्तानामपि विभक्तीनां वचनत्रयं भवतीत्येकः । सप्तानामेकवचनमेवेति द्वितीयः । प्रथणायाः वचनत्रयमेवेति तृतीयः । एकवचनमेवेति चतुर्थः । तत्राद्यत्रयमभ्युच्चयमात्रम् । अन्त्यस्तु तात्त्विकः । ते च यथा---यदि कर्मणि द्वितीयैव, अभिहिते प्रथमैव, एकत्वे एकवचनमेवेत्यादिरर्थनियमः, यदि वा द्वितीया कर्मण्येव इत्यादिः प्रकृतार्थापेक्षो विभक्तिनियमः ।
सुपां कर्मादयोऽप्यर्थआः संख्या चैव तथा तिङाम् ।
प्रसिद्धो नियमस्तत्र नियमः प्रकृतेषु वा ।।
इति भाष्योक्तेः । अत्र तृतीयचरणेनाद्योऽन्तचरणेन च द्वितीयो नियम उक्तः । तदा "अव्ययादाप्सुपः" इति लोपविधानाज्ज्ञापकात् अविशेषेण सुम्मात्रसिद्धिः । यदा तु "द्विबह्वोर्द्विवचनबहुवचने" इति सूत्रं कृत्वा एकस्मिन्नित्यपहाय एकवचनमित्येव पृथक् सूत्र्यते, एवं च कर्मण्येव द्वितीया न करणादौ, द्वित्वबहुत्वयो रेव द्विवचनबहुवचने न त्वेकत्वे इति सजातीयापेक्षो नियमः । तत्राव्ययेभ्यः सर्वा विभक्तयः प्राप्नुवन्ति । उक्तनियमव्यावर्त्यार्थान्तरस्य तत्राभावात् । तत्तद्विभक्त्युत्पत्तौ बाधकाभावात् । तत्रैकवचनमिति सूत्रं नियमार्थम् एकवचनस्य द्विवचनादेश्च प्राप्तौ एकवचनमेव भवतीति ।
यद्वा---कर्मण्येव द्वितीयेति सामान्यापेक्षनियममाश्रित्य कर्मत्वाद्यभावे द्वितीयादेरप्राप्तौ "एकवचनम्" इति सूत्रं विध्यर्थमेव । तस्य च ङ्याप्सूत्रैकवाक्यतया ङ्याबादिभ्यः कर्मादिष्वेकवचनं सिद्धमेवेति सूत्रसामर्थ्यादव्ययेभ्य एव तत्सिद्धिः । तिङन्तेभ्योऽपि तदुत्पत्तिवारणार्थं च ङ्याप्सूत्रैकवाक्यत्वम् । प्रदेशान्तरे पाठश्च, तदा द्वितीयः पक्षः ।
अथ द्वितीया कर्मण्येवेत्यादिः सामान्यापेक्षः प्रत्ययनियमः । प्रथमा प्रातिपदिकार्थएवेति नियमेन च कर्माद्याधिक्यस्थलएव तन्निषेधादव्ययेभ्यः प्रथमैव । "द्व्येकयोः" इत्यादिकं तु यथान्यासमेव । एकत्वे एवैकवचनं न तु द्वित्वादौ इति सजातीयापेक्षः प्रत्ययनिमपक्षः, तदा तृतीयः । अव्ययानां निः संख्यत्वात् । तेभ्यः प्रथमाया वचनत्रयोत्पत्तावपि स्वस्वार्थसङ्ख्याभिन्नसङ्ख्यायां तदनुत्पत्तिसत्त्वेन नियमविरोधाभावात् ।
यदि तु द्वितीयपक्षरीत्या सकलविभक्त्येकवचनप्राप्तौ एकवचनमित्येकत्वविवक्षया प्रथमोपस्थितत्वेन प्रथमैकवचनमेवेति, तदा चतुर्थः ।
परं तु आद्यपक्षत्रये पचतिरूपमित्यादावतिव्याप्तिः । प्रथमैकवचनस्यैव तत्रेष्टत्वात् । प्रथमान्तदेवदत्तादिपदसामानाधिकरण्यानुरोधात् । तद्रीत्या च विभक्त्यन्तरस्यापि प्रसङ्गात् । पचतिरूपम् पचन्तिरूपमित्यादावपि द्विवचनाद्युत्पत्तौ प्रयोजनाभावात् । आख्यातादेव द्वित्वाद्युपस्थितिसत्त्वात् । अतोऽन्तपक्ष एव सिद्धान्त इति ।
कृन्मेजन्तः 38 ।

मान्त एजन्तश्च यः कृत्तदन्तमव्ययसंज्ञं स्यात् । स्वादुंकारं भुङ्क्ते । वक्षे रायः । "स्वादुमि णमुल्" । "लुमर्थे से" इति वचेः सेप्रत्ययः ।
इह यदि मेजन्तेन कृतं विशेष्य तदन्तविधिः, तदा उक्तपक्षः । यदि तु कृता तदन्तविधिं कृत्वा कृदन्तमित्येतत् मेजन्तेन विशेष्यते, तदा कृदन्तं यन्मेजन्तं तदव्ययसंज्ञं स्यादित्ययं पक्षः । संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणाभावेऽपि "प्रयोजनं सर्वनामाव्ययसंज्ञायाम्" इति वचनात्तदन्तविधिः, अन्वर्थसंज्ञाबलाद्वा । केवलप्रत्ययस्य प्रयोगानर्हस्य च नानावचनादिरूपविविधगमनानुपपत्तेस्तन्निषेधायोगात् ।
नन्वाद्यपक्षे कारयाञ्चकारेत्यामन्तस्य संज्ञा न स्यात् । लिटस्तिङादेशाभावेन "कृदतिङ्‌" इति कृत्संज्ञत्वेऽपि मान्तत्वाभावात् । आमश्च कृत्संज्ञत्वाभावात् । सत्यम् । स्वरादिषु "आम्" इति पाठेन रूपसिद्धेः ।
अथ तत्र तद्धितस्यैव आमो ग्रहणम्, तदा कृत्त्वात्स्वाद्युत्पत्तावपि "आम" इति सूत्रेण लुक्‌सिद्धिः । न च तत्र लेरित्यस्यानुवृत्तिः । प्रयोजनाभावात् । न च तरबादेरपि लुगापत्तिः । संख्याकारकादिविषयकोत्थिताकाङ्क्षत्वरूपादपरिसमाप्तार्थत्वात् तरबादीनामनुत्पत्तेः तदर्थम् अनुप्रयोगस्यावश्यकतया ऽनुप्रयुज्यमानधातूत्तरोत्पन्नतरबादिनैवामन्तार्थगतोत्कर्षप्रतीतेः । अत एव "कृञ्चानुप्रयुज्यते" इत्यत्र व्यवहितनिवृत्त्यर्थं चेति वक्ष्यते ।
यद्वा---पूर्वसूत्रोक्तसिद्धान्तरीत्या सोरेवोत्पत्तौ तस्य हल्‌ङ्यादिलोप इति दीक्षिताः ।
अथ द्वितीये प्रतामौ प्रताम इत्यत्रातिव्याप्तिः । प्रत्ययलक्षणेन कृदन्तत्वात् स्वरूपेण च मान्तत्वादिति चेन्न । स्वरादिषु प्रशाञ्छब्दस्य पाठेन प्रत्ययलक्षणेन कृदन्तत्वमाश्रित्याव्ययसंज्ञा न भवतीति ज्ञापितत्वात् । न च "मो नो धातोः" इति नत्वे खतमेतन्मान्तमिति वाच्यम् । नत्वस्यासिद्धत्वात् । न चैवं कारयाञ्चकारेत्यस्यापि आमन्तस्य संज्ञा न स्यात्, प्रत्ययलक्षणेनैव तस्य कृदन्तत्वादिति वाच्यम् । नियमस्य सजातीयापेक्षतया धातोरेव व्यावर्त्तितत्वात् । आमः प्रत्ययलक्षणेन कृदन्तत्वे बाधकाभावात् । न च प्रशानिति शान तेजने इत्यस्य चुरादित्वस्वीकारात्सन्नन्तत्वनियमाभावेन तस्यैव क्विबन्तस्य स्वरादौ पाठ इति कथं ज्ञापकतेति वाच्यम् । ज्ञापकत्वोपन्यासकभाष्यप्रामाण्येन तस्मात् क्विन्प्रत्ययोऽनभिधानान्न भवतीति निर्णयात् । न च गौर्ग्लौर्नौरित्येतेषामप्यव्ययसंज्ञा स्यादिति वाच्यम् । उणादीनामव्युत्पन्नत्वात् । व्युत्पत्तिपक्षेऽपि "च्विरव्ययम्" इत्युणादिसूत्रेण डोडौप्रत्ययान्ताश्च्व्यन्ता एवाव्ययसंज्ञा इति नियमितत्वात् । नन्वाधये चिकीर्षवे चिकीर्षोः इत्यादीनामप्यव्यत्वापत्तिरिति चेत् । अत्र वार्तिकम्---
अनिकारोकारप्रकृतिरिति वक्तव्यम् ।
अत्र त्विकारोकारप्रकृतिकत्वान्न दोष इति । यदि त्वेवमपि कुम्भकारेभ्यो नगरकारेभ्य इत्यादावतिव्याप्तिः, तर्हि अनन्यप्रकृतिरिति वक्तव्यम् । तेन आदेशमात्रस्य व्यावृत्तिः ।
भाष्यकृतस्त्वाहुः---"सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य" इति परिभाषाया आवश्यकत्वात् तत एव नातिप्रसङ्गः । सुप्‌सन्निपातकृतस्य एजन्तत्वस्य तद्विघातकाव्ययसंज्ञायामनिमित्तत्वात् । सत्यां हि तस्यां सुलोपापत्त्या एजन्तत्वनिमित्तस्य विघातः स्यादिति ।
अयमर्थः---सन्निपातः संबन्धः लक्षणं निमित्तं यस्य तादृशो विधिः तद्विघातकस्य स्वनिमित्तसंबन्धविघातकस्य कार्यस्य निमित्तं न भवतीति ।
न्यायसिद्धं चैतत् । उपजीव्याविरोधेनैव उपजीवकस्य प्रवृत्तेः । न चैवं वह्न्यादेस्तृणादिविघातकत्वं न स्यादिति वाच्यम् । कल्पनाविषयत्वादुक्तन्यायस्य अन्यत्र यथाप्रमाणमेव व्यवस्थापनात् । अत एवानुभवस्य स्मृतिकारणत्वे संस्कारस्य कारणत्वं न सिद्ध्यति । कार्याव्यवहितपूर्ववर्त्तित्वाभावेनानुभवस्य स्मृतिं प्रति कारणत्वानिर्वाहात् तन्निर्वाहार्थमेव संस्कारकल्पनयाऽनुभवकारणतायास्तदुपजीव्यत्वात् । अत एव "कष्टाय क्रमणे" इत्यादिना ह्रस्वांशे सन्निपातपरिभाषाबाध इति सिद्धान्तः । "कृन्मेजन्तः" इत्यादेस्तु स्वाभाविकएजन्तस्थले सावकाशत्वात् नोक्तस्थले एतत्परिभाषाबाधकत्वमिति ।
इदं पुनरवधेयम् । यत्रोपजीव्यतावच्छेदकधर्मो रूपान्तरापत्तावपि नान्यथा भवति, न तत्रोक्तन्यायप्रवृत्तिः । यथा करिष्यसीत्यत्र वलादित्वविशिष्टमार्द्धधातुकमिडागमस्योपजीव्यमिति तद्रूपादिणः परस्य सस्य षत्वं भवत्येव । षत्वे कृतेऽपि तस्य वलादित्वाविघातात् । एवं सर्वेषामित्यादावपि । सकारस्य एत्वनिमित्तत्वेऽपि एकारात्परत्वेन षत्वे कृतेऽपि झलादित्वाविगाताद् । "हलि सर्वेषाम्" इति निर्देशान्नात्र सन्निपातन्यायप्रवृत्तिरिति प्रवादस्तु अभ्युपेत्यैव बोध्यः । यद्रूपावच्छिन्नायां यस्यां व्यक्तौ निमित्तत्वं पर्यवस्यति तद्व्यक्तेरपि विघातो न भवतीत्यर्थं कल्पयित्वाऽनित्यत्वमाश्रित्य समाधेः संदर्भविरुद्धत्वात् ।
प्रसङ्गादस्याः प्रयोजनान्तराण्यप्युपन्यस्यन्ते । अमुनेत्यत्रासिद्धत्वेन मुत्वस्याकारान्तत्वेऽपि घिसंज्ञानिमित्तं नाभावमाश्रित्य "सुपि च" इति दीर्घो न । घिसंज्ञाव्याघातापत्तेः । "न मु ने" इत्यत्र नाभावे कर्त्तव्ये कृते च सति मुभावो नासिद्धः इति व्याख्यानं तु संभवमात्रेण । उक्तरीत्यैव सुस्थत्वात् ।
शकटिपद्धत्यादिभ्यः सप्तम्येकवचनस्य ङेरौकारादेशे तत्सन्नियोगेनेकारस्याकारादेशे च कृते अदन्तलक्षणष्टाप् न भवति । तयोरानन्तर्यस्य विघातापत्तेः । नन्वौकारादेशस्यानन्तर्यप्रयुक्तत्वेऽपि तत्सन्नियोगशिष्टे अत्वेऽपि तथात्वे मानाभाव इति चेत्सत्यम् । अत एवापरितोषात्सप्तमे भाष्यकारेण "औकारादेशो डित्कर्त्तव्य" इत्युक्तत्वान्न दोषः । डित्त्वेन टिलोपे हलन्तत्वेन टापः प्राप्तेरेवाभावात् ।
एवम् "इजादेश्च गुरुमत" इति सूत्रे इयेषेत्यादावपि आम्प्राप्तिमाशङ्क्य "उपदेशवचनात् सिद्धम्" इति वार्तिकं प्रत्याख्यातुं भाष्ये लिट्‌सन्निपातकृतस्य गुणस्य लिट्‌सन्निपातविघातकमामं प्रति न निमित्तत्वमित्युक्तम् । "आम" इति लेर्लुक्‌प्रसङ्गात् ।
एवम् "अचः परस्मिन्" इति सूत्रे पञ्चमीसमासानाश्रयणपक्षे मथितं पण्यमस्येत्यर्थे "तदस्य पण्यम्" इति ठकि तस्य इकादेशे" यस्येति च" इति अकारलोपे च कृते तान्तत्वात्कादेशो न । तस्य हि तान्तत्वं निमित्तम् । तत्र च इकप्रत्ययः । तस्मिन्परे अकारलोपोत्पत्तेः । तस्य कादेशे च तद्विघातापत्तेः । एवमन्यदप्यूह्यम् ।
दाक्षिरित्यादौ इञ्‌प्रत्ययस्योपजीव्याकारलोपनिमित्तत्वं तु उक्तपरिभाषाया अनित्यत्वादेव । तत्र च प्रमाणं प्रागेवोक्तम् ।
एवं "न यासयोः" इति सूत्रमपि तत्र प्रमाणम् । अन्यथा अकारसन्निपातकृतस्य टापस्तद्विघातकमित्वं प्रति निमित्तत्वानुपपत्त्यैव सिद्धौ इत्वनिषेधवैयर्थ्यात् ।
स्यादेतत् । अग्निशब्दोऽप्युत्पत्तिपक्षे फिट्‌स्वरेण व्युत्पत्तिपक्षे तु प्रत्ययस्वरेणान्तोदात्तः । ततो मतुप् । तस्यान्तोदात्तत्वात् ह्रस्वान्नुटश्च परस्य मतुप उदात्तत्वं स्यादित्यर्थकेन "ह्रस्वनुड्‌भ्यां मदुब्‌" इति सूत्रेण उदात्तत्वे कृते "अनुदात्तं पदमेकवर्ज्जम्' इति शेषनिघातेन प्रकृतिभागस्यानुदात्तत्वं न स्यात् । तदीयान्तोदात्तत्वस्य मतुबुदात्तोपजीव्यत्वात् । "ह्रस्वनुड्‌भ्यां मतुब्‌" इति सूत्रे "अन्तोदात्तादुत्तरपदाद्‌" इत्यतोऽन्तोदात्तादित्यस्यानुवृत्तेरिति । उच्यते----अनित्यत्वादेवात्र न दोषः । अत एव परमवाचा इत्यत्र "अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे" इति सूत्रेण अन्तोदात्तात्परस्या विभक्तेर्विधीयमानमुदात्तत्वं प्रकृतिभागस्य शेषनिघाते निमित्तं भवत्येव ।
यत्तु स्वरविधौ सन्निपातपरिभाषा न प्रवर्त्तते इति । तच्चिन्त्यम् । प्रमाणाभावात् । तथा हि । गोपायतमित्यत्र गुप्‌ इति धातुस्वरेणान्तोदात्तः । आयप्रत्यय आद्युदात्तः । "सनाद्यन्ता धातवः" इति पुनर्धातुसंज्ञायामन्तोदात्ततया यकाराकार उदात्तः, न तु उकार आकारो वा । "सतिशिष्टस्वरबलीयस्त्वम्" इति न्यायात् । ततः शप्प्रत्ययः । "अनुदात्तौ सुप्पितौ" इत्यनुदात्तः । "अतो गुणे" इति पररूपम् । "एकादेश उदात्तेनोदात्तः" इति अकार उदात्तः । तमादेशो लसार्वधातुकस्वरेणानुदात्तः । "उदात्तादनुदात्तस्य" इति स्वरितः । तमाश्रित्य पूर्वस्य शेषनिघातः प्राप्नोति । सन्निपातपरिभाषया तु न भवति । उदात्तोपजीवकस्य स्वस्तिस्य तद्विघातकनिघाताप्रवर्त्तकत्वात् ।
यत्तु वदन्ति---यथोद्देशपक्षे शेषनिघातपरिभाषा त्रिपाद्यां न प्रवर्त्तते । अतः शेषनिघाते क्रियमाणे स्वरितस्यासिद्धत्वादेव न शेषनिघात इति तत्र सन्निपातपरिभाषायाः प्रयोजनाभावः । न च तस्या यथोद्देशमेव प्रवृत्तौ मानाभावः । "तव्यत्तव्यानीयरः" इति तव्यतस्तित्करणस्य प्रमाणत्वात् । तथा हि---तव्यमात्रस्यापि प्रत्ययस्वरेणाद्युदात्तत्वे शेषनिघाते च कृते "उदात्तादनुदात्तस्य" इति स्वरितत्वाविशेषात्, शेषनिघातपरिभाषायाश्च कार्यकालमपि प्रवृत्तौ तस्या "उदात्तादनुदात्तस्य" इत्येतत्समानदेशतया स्वरितस्य शेषनिघातं प्रत्यसिद्धत्वाभावात् निघाते च कृते उभयत्रापि स्वरसाम्यात्तव्यतस्तित्त्वं व्यर्थं स्यात् । तस्या यथोद्देशमेव प्रवृत्तौ तु "उदात्ताद्" इति स्वरितस्य शेषनिघातं प्रत्यसिद्धत्वात् तव्यप्रत्यये शेषनिघातो न भवति । तव्यत्प्रत्यये तु "तित्स्वरितम्" इत्यस्य पाष्ठत्वात्तस्य निघातं प्रत्यसिद्धत्वं नास्तीति भवत्येव शेषनिघात इति तित्त्वस्य सार्थक्यमेवेति ।
तदपि चिन्त्यम् । उदात्तीपजीवकस्य स्वरितस्य संनिपातन्यायेन तद्विघातकशेषनिघाताप्रवर्त्तकत्वादेव तव्यप्रत्यये तदप्रवृत्तेः । "तित्स्वरितम्" इत्यस्य तु उदात्तोपजीवकत्वाभावेन शेषनिघातनिमित्तत्वमव्याहतमिति फलभेदस्य स्पष्टतया तित्करणस्य वेयर्थ्याभावेन यथोक्तज्ञापकत्वानुपपत्तेः । सन्निपातपरिभाषायाः स्वरविधावप्रवृत्तिसिद्धिरित्यन्योऽन्याश्रयात् ।
एतेन "यतोऽनावः" इति सूत्रस्य शेषनिघातपरिभाषाया यथोद्देशमेव प्रवृत्तिरित्यत्र ज्ञापकत्वम् । तस्य हि यत्प्रत्ययान्तस्य नौशब्दभिन्नस्य द्व्यच आदिरुदात्त इत्यर्थः । अन्यथा यतस्तित्त्वेन स्वरितत्वात् तमाश्रित्य शेषनिघाते पूर्वस्यानुदात्तत्वमुक्तसूत्रं विनैव स्यात् । आद्युदात्ते कृतेऽपि शेषनिघातेनानुदात्तत्वे "उदात्तादनुदात्तस्य" इति स्वरितत्वे च कृते शेषनिघातेन पूर्वस्यानुदात्तत्वमेव भवतीति विशेषाभावात् "यतोऽनाव" इति सूत्रं व्यर्थमेव स्यात् । शेषनिघातपरिभाषाया यथोद्देशमेव प्रवृत्तौ तु "उदात्तादनुदात्तस्य" इत्यस्य शेषनिघातं प्रत्यसिद्धत्वाच्छेषनिघातो न भवतीति सूत्रसार्थक्यमित्यपि परास्तम् ।
त्रैपादिकस्य स्वरितस्य उदात्तोपजीवकत्वेन तद्विघातकशेषनिघातं प्रत्यप्रवर्तकतया सूत्रारम्भे फलभेदस्य सत्त्वात् । "अनावः" इति पर्युदासस्य विधेयं विनाऽनुपपत्त्या तदर्थतयैव सूत्रसार्थक्याच्च । तस्मात्सन्निपातपरिभाषाया अनित्यत्वेनैव सर्वेष्टसिद्धौ शेषनिघातपरिभाषाया यथोद्देशमेव प्रवृत्तिरिति नियमकल्पनमप्रामाणिकमेव । अत एव शब्दकौस्तुभेऽप्यत्रैव सूत्रे अग्निमानित्यत्र सन्निपातपरिभाषाया अनित्यत्वादेव शेषनिघात इत्युक्तम् । तस्मादुक्तमनोरमादिग्रन्था निर्युक्तिका एवेति दिक् ।

कत्वातोसन्कसुनः 39 ।

एतदन्तमव्ययसंज्ञम् । कृत्वा । पुरा सूर्यस्योदेतोः । पुरा वत्सानामपाकर्त्तोः । उदयादपाकणाच्चेत्यर्थः । "भावलक्षणे स्थेण्‌कृञ्‌वदिचरिहुतमिजनिभ्यस्तोसुन्‌" । "पुरा क्रूरस्य विसृपो विरप्‌शिन्‌" "पुरा जत्रुभ्य आतृदः" । "सृपितृदोः कसुन्" िति कसुन् । द्वावेतौ छान्दसौ ।

अव्ययीभावश्च 40 ।

अव्ययसंज्ञः स्यात् । परिगणनं कर्तव्यम् ।
लुकि मुखस्वरोपचारयोर्निवृत्तौ चेति ।
लुकि यथा---उपाग्नि । प्रत्यग्नि । "अव्ययादाप्‌सुपः" इति सुपो लुक् । मुखस्वरनिवृत्तौ यथा---उपाग्निमुखः । प्रत्यग्निमुखः । "मुखं स्वाङ्गम्" इति उत्तरपदस्याद्युदात्तत्वे प्राप्ते "नाव्ययदिक्‌शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः" इति निषेधः । ततश्च उपाग्नि अग्निसमीपे मुखं यस्येति उपाग्निमुख इत्यत्र "बहुव्रीहौ प्रकृत्या" इति पूर्वपदे प्रकृतिस्वर एव । स च समासत्वादन्तोदात्तः । विसर्गादेशस्य सकारस्य उपचारेति पूर्वाचार्यसंज्ञा । तन्निवृत्तौ यथा---उपपयः कारः । उपपयः कामः । "अतः कृकमि" इति सत्वे प्राप्ते "अनव्ययस्य" इति पर्युदासः । परिगणनं किम् । उपग्न्यधीयान । पराङ्गवद्भावेन षाष्ठम् "आमन्त्रितस्य च" इत्याद्युदात्तत्वम् । अन्यथाऽव्ययानां पराङ्गवद्भावप्रतिषेधात्तन्न स्यात् । उपाग्निकमित्यादौ "अव्ययसर्वनाम्नाम्" इत्यकज्‌ न । उपकुम्भम्मन्य इत्यत्र "अरुर्द्विषद्‌" इति मुम् । अन्यथा "अनव्ययस्य" इति प्रतिषेधः स्यात् । उपकुम्भीभूतः "अस्य च्वौ" इत्यत्राव्ययानामुपसंख्यानप्रतिषेधो न ।
इदमवधेयम् । नाव्ययीभावादिति विशेषनिषेधादेव लुक्‌ सिद्धः । "अतः कृकमि" इत्यत्र "अनुत्तरपदस्थस्य" इत्यनुवृत्त्यैव न सत्वम् । अतो मुखस्वरनिवृत्तिरेव प्रयोजनम् ।
तत्र केचित् । मुखस्वर इष्ट एव । यद्येतावत्प्रयोजनं स्यात्तत्रैवायं ब्रूयाद् "नाव्ययादव्ययीभावाच्च" इति भाष्यस्वारस्यात् ।
अन्ये तु अनव्ययमव्ययं भवतीत्यन्वर्थसंज्ञाविज्ञानादेव मुखस्वरनिवृत्तिर्भविष्यतीति सर्वथाऽपि सूत्रमिदमनारभ्यम् । एवं "तद्धितश्च" इत्यादिसूत्रचतुष्टयमपि । स्वरादौ हि तसिलादिस्तद्धित एधाच्‌पर्यन्त इत्यादिच्व्यर्थाच्चेत्यन्तेन औणआदिकमासिं विहाय "तद्धितश्च" इति सूत्रस्यार्थः संगृहीतः, कृन्मकारसन्ध्यक्षरा इत्यनेन 'कृन्मेजन्तः" इत्यस्य ।

शि सर्वनामस्थानम् 41 ।

जश्शसोरादेशः शीत्येतदुक्तसंज्ञम् । वारीणि । "सर्वनामस्थाने चासम्बुद्धौ" इति दीर्घः । प्रदेशेष्वेव शिसुटोरित्युक्तौ तु नपुंसकेऽपि स्यात् । न च शिग्रहणसामर्थ्यम् । शसर्थत्वेनोपक्षयात् । तस्मात्संज्ञाऽऽरम्भ आवश्यकः । तस्या महत्त्वं तु पूर्वाचार्यसंप्रदायात् ।

सुडनपुंसकस्य 42 ।

नपुंसकभिन्नप्रकृतिकानि स्वादिपञ्चवचनान्युक्तसंज्ञानि । राजा । राजानौ । राजानः । राजानम् । राजानौ । प्राग्वद्दीर्घः । अनपुंसकस्य किम् । सामनी "विभाषा ङिश्योः" इत्यल्लोपाभावे संज्ञाविरहान्न दीर्घः । पर्युदासः किम् । नपुंसके विधिप्रतिषेधाभावाब्यां पूर्वसूत्रेण प्राप्तां संज्ञा यथा स्यात् । तेन वनानीत्यादि सिद्धम् । न च तदारम्भसामर्थ्यम् । शसादेशे चरितार्थत्वात् ।
यद्वा प्रतिषेध एवायम् । न चोक्तदोषः । "अनन्तरस्य विधिर्वा निषेधो वा" इति तदभावात् । अन्यथा "सुट्‌ स्त्रीपुंसयोः" इति प्रतिपत्तिलाघवार्थं ब्रूयात् । "अनपुंसकस्य" इति वचनेषु केषाञ्चिन्नञ्समासानामसामर्थ्येऽपि साधुत्वं ज्ञाप्यते । तेनाश्राद्धभोजीत्यादि सिद्धम् । असमर्थसमासो वाक्यभेदश्चेति गौरवं तु न दोषः । फलमुखत्वात् ।

नवेति विभाषा 43 ।

निषेधविकल्पयोर्विभाषा संज्ञा स्यात् । इतिशब्दस्योभयान्वितत्वात् । स च पदार्थविपर्यासकृत् । लोके हि गवादिशब्दा अर्थपरा इतिकरणेन गौरित्याहेत्यादौ शब्दपराः । सम्पद्यन्ते । व्याकरणे तु "स्वं रूपं शब्दस्य" इति परिभाषणात् स्वरूपपरत्वमुत्सर्गः, इतिकरणेन तु अर्थपरत्वमिति विशेषः । तस्मादर्थ एवात्र संज्ञा संज्ञी च । न च नवेत्यखण्डनिपातार्थस्य निषेधमात्रस्य संज्ञित्वापत्तिः । "विभआषा दिक्‌समासे" इति ज्ञापकात् । अन्यथा "न बहुव्रीहौ" इत्येव सिद्धेः । इतिशब्दाभावे तु "विभाषा श्वेः" इत्यादौ नवेतिशब्द एवादेशः स्यात् । अर्थस्य संज्ञात्वाद् अन्यतरस्याम् इत्यादिस्थलेऽपि वक्ष्यमाणरीत्या वैरूप्योद्धारः । तथा हि---उभयत्र विभाषायामेवास्योपयोगो नान्यत्र । "विभाषोपपदेन प्रतीयमाने" इति प्राप्तविभाषायाम् "स्वरितञित" इत्यादिना नित्यमात्मनेपदे प्राप्ते पक्षे तन्निवृत्तिमात्रस्य विधेयत्वात्पक्षे भवतीत्यस्यानुवादत्वात् । "विभाषोर्णोः" इति नित्यङित्त्वाभ्युपगमात् प्रौर्णवितेत्यादौ तदभावांशस्य स्थितत्वाद्भावांशमात्रस्य विधेयत्वात् । "विभाषा श्वेः " इत्युभयत्र विभाषायां तु विधिमुखेन प्रवृत्तौ पित्स्वेव विकल्पः स्यात् । कित्सु तु यजादित्वान्नित्यमेव सम्प्रसारणं स्यात् । निषेधमुखेन प्रवृत्तौ तु कित्‌स्वेव विकल्पः स्यात्, न तु पित्सु । तत्र प्रसक्तिविरहात् । उभयथा प्रवृत्तौ तु वैरूप्यलक्षणो वाक्यभेदः स्यात् । संज्ञारम्भे तु श्रुतक्रमवशान्नेति निषेधस्य प्रथमं कित्सु प्रवृत्तिः । ततः किदकिति सर्वस्मिन् लिटि ऐकरूप्यापन्ने सति पक्षे भवतीति विधिमुखेनैव विकल्पः प्रवर्त्ततइति न वैरूप्यम् । आकृतौ पदार्थे समुदाये सकृल्लक्षणप्रवृत्त्या सूत्रमेतत् । व्यक्तिपक्षे तु "विभाषा श्वेः" इत्यादेः प्रतिलक्ष्यं भिन्नत्वात् क्वचिद्विधिमुखेन क्वचिच्च निषेधमुखेन प्रवृत्तिः । लक्षणभेदेन वैरूप्याभावादित्यनारभ्यम् । तथा च वार्त्तिकम्---
अशिष्यो वा विदितत्वादिति ।
अत्रवदन्ति । आकृतिपक्षेऽपि प्रदेशेष्वेव 'न वा श्वेः" इत्यादि पठनीयम् । अन्यथा अन्यार्थमप्यारब्धा संज्ञा "विभाषोर्णोः" इत्यत्र प्रवर्त्तेत । प्रतिषेधानां च बलीयस्त्वात् । प्रौर्णुवीत्यत्रापि प्रथमं ङित्त्वनिषेधः, ततश्च विकल्पः स्यात् इति ।
वस्तुतस्तु । "विभाषा" इत्येव प्रदेशेषु पठनीयम् । संज्ञापक्षेऽपि प्रथमं निषेधस्ततो विकल्पः प्रवर्त्ततइत्यावृत्तिलक्षणवाक्यभेदसत्त्वात् ।
अत्र भाष्यकृता "ग्रो यङि" "अचि विभाषा" इति वचनमप्राप्तविभाषासु पठितम् । तत्र प्रत्यवतिष्ठन्ते---त्रिसंशया इत्युपक्रमात् प्राप्तेऽप्राप्ते उभयत्र वेति संशयविषयीभूतविभाषाणामेव व्युत्पाद्यत्वाद् अत्र कोटित्रयस्योक्तिसम्भवाभावः । तथा हि--निजेगिल्यतइत्यत्र नित्यं लत्वम्, न तु विभाषाप्रसक्तिरिति न प्राप्तविभाषाऽवसरः । न च यङीत्यनुवर्तनाद्यङ्‌निमित्तस्य रेफस्याचि परे लत्वमिति व्याख्यानात्तत्सम्भव इति वाच्यम् । निजेगिर्‌ य अच्‌ इति स्थिते "ग्रो यङि" इत्यस्य प्राप्तिसमये अच्परत्वाभावेन विभाषाप्राप्त्यभावात् । न च विभाषारम्भसामर्थ्यात् यङ्‌लुकः पूर्वम् "ग्रो यङि" इति न प्रवर्त्ततइति कल्प्यम् । तथाऽपि उभयत्र विभाषात्वस्य दुर्लभत्वात् । विभाषाया गिरति गिलतीत्यादौ चरितार्थतया "ग्रो यङि" इत्यस्य यङ्‌लुकः प्रागेव प्रवृत्तेरुभयोरसमानकालीनत्वात् । न च लत्वस्यासिद्धतया दुर्बलत्वात्तत्पूर्वमेव लुगिति वाच्यम् । अन्तर्भूतयङपेक्षत्वेनान्तरङ्गलत्वं प्रति बहिर्भूतप्रत्ययापेक्षस्य लुकोऽसिद्धत्वात् । पूर्वाभावेन "पूर्वत्रा सिद्धम्" इत्यस्याप्रवृत्तेः ।
अत्राहुः---प्राप्तविभाषात्वपुक्तरीत्यैव । अप्राप्तविभाषात्वं त्वित्थम्--"अन्तरङ्गानपि" इति न्यायेन लत्वात्पूर्वं लुक् । न च लुग्‌निमित्तादच्प्रत्ययात्पूर्वमेव लत्वं स्यात्, तस्य कर्तृरूपार्थापेक्षत्वेन बहिरङ्गतयाऽसिद्धत्वात् पूर्वाभावे पूर्वत्रासिद्धत्वस्याप्रवृत्तेरिति वाच्यम् । कृतितुग्विधिग्रहणेन बहिरङ्गपरिभाषाया अनित्यत्वज्ञापनात् । धर्मिग्राहकमानेन लुक इव तदुपजीव्यानां समासप्रत्ययादीनामपि प्राबल्यसिद्धेश्च ।
ननु तथाऽपि निजेगिर् अच् इत्यत्र लत्वं दुर्लभम् । यङ्‌परत्वाभावात् । प्रत्ययलक्षणस्य च " न लुमता" इति निषेधात् । न च लत्वस्याङ्गाधिकारबहिर्भावान्न तत्प्रवृत्तिरिति वाच्यम् । अङ्गाधिकारबहिर्भूतं तदन्तर्भूतं वा वस्तुगत्या अङ्गस्य यत्कार्यं प्राप्नोति तन्न भवतीति तदर्थात् । तत् कथमुभयत्र विभाषासम्भव इति चेन्न । पृथगल्लोपाश्रयेण "अचः परस्मिन्" इति स्थानिवद्भावसम्भवात् । पूर्वत्रासिद्धे न स्थानि वदित्यस्य "तस्य दोषः संयोगादिलोपलत्वणत्वेषु" इति निषेधात् । न च तथाऽपि उभयत्र विभाषाऽनुपपत्तिः, "ग्रोयङि" इत्येतत् प्रति "अचि विभाषा" इत्यस्यासिद्धत्वात् न विप्रतिषेध इति वाघ्यम् । "न मु ने" इत्यत्र नेतियोगविभागात् ।
यद्वा---योगे योगो नासिद्धः, किं तु "प्रकरणे प्रकरणम्" इत्याश्रयणात् । समुदायलोपपक्षे तु अजपेक्षयाऽन्तरङ्गत्वान्नित्यं लत्वमिति बोध्यम् । उक्तिसम्भवसमर्थनमात्रं चैतत् । सिद्धान्ते तु विभाषाया असिद्धत्वादेव नित्यं लत्वम् ।

इति श्रीसिद्धान्तसुधानिधौ प्रथमाध्यायस्य प्रथमे पादे षष्ठमाह्निकम् ।


************************-------------------