श्रीसिद्धान्तसुधानिधिः/अध्यायः १-पादः १/आह्निकम् ७

← आह्निकम् ६ श्रीसिद्धान्तसुधानिधिः
आह्निकम् ७
[[लेखकः :|]]
आह्निकम् ८ →

इग्‌ यणः संप्रसारणम् 44 ।
(1.1.7)

यणः स्थाने इग्भवतीत्येवंरूपो वाक्यार्थो, यण्‌स्थानिक इग्रूपो वर्णश्चेत्युभयं सम्प्रसारणसंज्ञम् । "ष्यङः सम्प्रसारणम्" इत्यादिविधिस्थले वाक्यार्थस्य ग्रहणम्, "सम्प्रसारणाच्च" इत्याद्यनुवादस्थलेतु वर्णस्येति भेदः । इतिशब्दानुवृत्तेर्वाक्यार्थस्य संज्ञित्वम् । तदनारम्भे तु वाक्यस्यैव संज्ञा । न च तस्यैव विधेयत्वापत्तिः । "वाह ऊठ्‌" संप्रसारणमिति सामानाधिकरण्येन तदर्थस्यैव विधेयत्वात् । "ष्यङः सम्प्रसारणम्" इत्यादौ च उक्तज्ञापकस्य सामान्यापेक्षत्वकल्पनात् । न चैकवाक्ये वाक्यस्य तदर्थस्य वा संज्ञाऽस्तु, वर्णस्य तु कथमिति वाच्यम् । तन्त्रावृत्त्येकशेषाणामन्यतमाश्रयणात् । न च तत्र मानाभावः । विधेयानुवाद्यसमर्पकविभक्त्या सूत्रनिर्द्देशस्य तथात्वात् । तदुक्तम्---
विभक्तिविशेषनिर्देशस्तु ज्ञापक उभयसंज्ञात्वस्येति ।
हरिणाऽप्युक्तम्---
संप्रसारणसंज्ञायां लिङ्गाभ्यां वर्णवाक्ययोः ।
प्रविभागस्तथा सूत्रएकस्मिन्नेव जायते ।।
तथा "द्विर्वचनेऽचि" इति तन्त्रावृत्त्यादिलक्षणः एकशेषेण निर्देशो भाष्य एव समर्थितः । तन्त्रं द्विधा---शब्दतन्त्रमर्थतन्त्रं च । अर्थभेदाच्छब्दभेदे आद्यम् । शब्दैक्ये द्वितीयम् ।
यद्वा---वाक्यार्थ एव संज्ञी, अनुवादे तु तन्निर्वर्त्ये वर्णे लक्षणा ।
अथ वा "वर्ण एव संज्ञी । विधिप्रदेशे सूत्रशाटकवद् भाविसंज्ञाऽऽश्रयणीया" इति भाष्यम् ।
अथ अदुहितरामित्यत्र लकारस्थाने उत्तमपुरुषस्यैकवचनमिट्‌, तस्य यण्‌स्थानिकत्वेन संप्रसारणसंज्ञायां "हलः" इति दीर्घात्तिः । तरपं प्रति तिङन्तस्याङ्गत्वात् । अत्राहुः---
यथासंख्याश्रयणाद्यकारस्थानिकस्यैव इकारस्य संप्रसारणसंज्ञेति ।
तथा हि---वाक्यार्थः संज्ञीति पक्षे तस्योद्देश्यविधेयोः संसर्गरूपतया यथासंख्यपरिभाषोपस्थितौ यणः स्थाने इक्‌ स्याद्यथासंख्यमित्यवान्तरवाक्यार्थः । स संप्रसारणसंज्ञः स्यादिति महावाक्यार्थः । न चावान्तरवाक्यार्थं गृहीत्वा याति वातीत्यादावतिप्रसङ्गः । तस्य संज्ञासंबन्धमात्रे तात्पर्यात् । अन्यथा "ष्यङः संप्रसारणम्" इत्यादिवैयर्थ्यात् । अदुहीत्यादेस्तज्जत्वाभावाच्च । उभयसंज्ञापक्षेऽपि उपस्थितत्वाद्यथासंख्यप्रवृत्तवर्णस्यैव संज्ञित्वात् । इदं च कर्मकर्त्तरि शुद्धे कर्त्तरि वा रूपम् ।
वर्णसंज्ञापक्षे तु न यथासंख्यम् । अनुवादे परिभाषाऽनुपस्थानात् । न चैवं स्थानेयोगोऽपि न स्यादिति वाच्यम् । "षष्ठी स्थानेयोगा" इत्यत्रानुवर्त्यास्य व्याख्येयत्वात् । तदुक्तम्---
सिद्धं तु षष्ठ्यधिकारे वचनादति ।
यद्वा---सिंहावलोकितन्यायेनात्रैव स्थानग्रहणमपकृष्यताम्, संप्रसारणस्येत्यत्र तन्त्रादिना तद्भावितग्रहणात् ।
अथ वा कार्यकालपक्षे यणः संप्रसारणमिग्भवतीति वाक्यार्थान्नानुवादत्वमिति । यथासंख्यपरिभाषोपस्थितौ तत्प्रवृत्त एव वर्णः संज्ञी, स एव "संप्रसारणस्य" इत्यादावुपतिष्ठते ।
अथ वा लौकिकन्यायसिद्ध एव स्थानक्रमेण संबन्धोऽनुवादेऽपि सुलभ इति द्युभ्यामित्यत्र "हलः" इति दीर्घो न । "दिव उत्‌" इति तपरकरणात् । एवं द्युलोक इत्यत्र "संप्रसारणस्य' इति दीर्घो न । न च दीर्घाप्रवृत्त्या चरितार्थस्य तपरत्वस्य "भाव्यमानोऽप्युकारः सवर्णग्राहकः" इत्यत्र कथं ज्ञापकत्वमिति वाच्यम् । वाक्यार्थः संज्ञीति पक्षेण तदुक्तेः । "संप्रसारणस्य" इत्यत्र तद्भावितग्रहणाद्वा ।
पक्षान्तरे तु "ऋत उद्‌" इति ज्ञापकम् । न चाक्षद्युवौ अक्षद्युव इत्यादौ ऊठः संप्रसारणसंज्ञायां "संप्रसारणाच्च" इति औकारादेः पूर्वरूपापत्तिः । "संप्रसारणपूर्वत्वे समानाङ्गग्रहणम् " इति वार्त्तिकोक्तोः क्विन्बिरूपिताया अङ्गसंज्ञाया धातुमात्रे विभक्तिनिरूपितायास्तु समासरूपे समुदाये विश्रान्तत्वात् । वार्णादाङ्गस्य बलवत्त्वाच्च । वाक्यार्थः संज्ञीति पक्षे तु पूर्वरूपप्रसक्तेरेव विरहात् । हूतो जीन इत्यादौ तु "हलः" इतिसूत्रसामर्थ्यात्संप्रसारणनिर्वृत्तस्यादेशेऽपि दीर्घः ।
वर्णः संज्ञीति पक्षेऽपि अल्विधौ स्थानिवद्‌भावासंभवादारम्भसामर्थ्यात्संप्रसारणादेशे कार्यप्रवृत्तेर्वाच्यत्वात् ।

आद्यन्तौ टकितौ 45 ।

टित्कितौ यस्य विहितौ तस्य क्रमादाद्यन्तावयवौ स्तः । भविता । पाययति । न च "चरेष्टः" "गापोष्टक्‌" "व्रीहिशाल्योर्ढक्‌" इत्यादावतिप्रसङ्ग इति वाच्यम् । पुरस्तादपवादन्यायेन स्थानेयोगापवादस्यास्य "प्रत्ययः" "परश्च" इत्यनेन परेण बाधात् । परिभाषेयम् । परेण परिभाषाप्रकरणेन साहचर्यात् । यद्वा---
संज्ञैवेति भाष्यम् ।
तथा हि---टकिताविति कर्मधारयः । इत्संज्ञकौ टकारककारावाद्यन्तयोः संज्ञे स्तः । तेन "आर्द्धधातुकस्येड्‌ वलादेः" इत्यत्र इकारादिशब्दस्योपस्थितिः । इकारादिरिति बहुव्रीहौ इकार आदिर्यस्येति विग्रहः । स्थानेऽन्तरतमपरिभाषया तव्यस्य इतव्यादेशे सिद्धम् । तदाहुः---
अनागमकानां सागमका आदेशा भवन्तीति । एवं यापयतीत्यत्र या इत्यस्य याप् इत्यादेशः । न च "आद्यन्तौ टकौ" इत्येवास्तु संज्ञायाः संज्ञिप्रत्यायकत्वमात्रेण स्वयं कार्यानन्वयादिति वाच्यम् । "आलजाटचौ" "ठस्येकः" इत्यादावतिप्रसङ्गात् । इत्संज्ञया तु देशविशेषस्योपलक्षणम् । तेन इत्संज्ञकस्य यो देशस्तत्रावस्थितौ टकारककारौ संज्ञे । आटचष्टकारः इकादेशस्य ककारश्च न तथेति न दोषः । न च अडागमस्थले भू इत्यस्य अभू इत्यादेशः स चोदात्त इत्यर्थे अलोऽन्त्यषरिभाषया अङ्गस्य अन्तोदात्तत्वं स्यादिति वाच्यम् । अ ट् उदात्तश्च यस्येति त्रिपदबहुव्रीहिणा उदात्ताकारादिरभू इत्यादेश इति व्याख्यानात् । उदात्तपदस्य विशेषणत्वेऽपि सौत्रः परनिपातः । न च तथाऽपि "आडजादीनाम्" इत्यत्र दोषः । उदात्तपदानुवृत्तावपि तेन सह श्रूयमाणस्याटो बहुव्रीह्ययोगादिति वाच्यम् । तत्सूत्रस्य प्रत्याख्यानात् । वक्ष्यति च वार्तिककृत्---
अजादीनामटा सिद्धमित्यादि ।

मिदचोऽन्त्यात्परः 46 ।

अचां मध्ये योऽन्त्यादचः परो मित् स्यात् । स्थानेयोगस्य "परश्च" इत्यस्य चापवादः । वनानि । यशांसि । "रुधादिभ्यः शनम्" । रुणद्धि । न च पूर्ववदस्य "परश्च" इत्येतद्‌बाधकत्वानापत्तिः । बाध्यसामान्यचिन्तायां स्वविषये प्राप्तं सर्वं बाध्यतइत्यभ्युपगमात् । अन्यथा श्नमो मित्त्ववैयर्थ्यात् । "तृणहः" इति निर्द्देशेन मकारस्य श्रवणार्थत्वानुपपत्तेः । अच इति निर्द्धारणे षष्ठी । जातावेकवचनम् । न चाच इति पञ्चम्येव, अन्त्यादिति पञ्चम्यन्तसामानाधिकरण्यादिति वाच्यम् । "शे मुचादीनाम्" इत्यादावन्त्यस्याचोऽसम्भवेन एतदप्रवृत्तौ अलोऽन्त्यपरिभाषायाः प्रवृत्त्यापत्त्या मित्त्ववैयर्थ्यात् । एवं चान्त्यादचः परो मित्स्यादिति प्राचां वृत्तिरप्येवमेव व्याख्येया ।
अन्ये तु तत्राच इति अस्तु पञ्चम्येव । किं तथा सति सर्वथैव नुम् न स्यादिति विवक्षितम् उतेष्टदेशे न स्यादिति । नाद्यः । वचनवैयर्थ्यात् । नान्त्यः । अन्त्यबाधेऽप्यचः परत्वसंभवात् । प्रधानबाधापेक्षया गुणबाधस्यैव कल्पयितुमुचितत्वादिष्टसिद्धेरिति । एतेन अजंशवैकल्येऽपि प्रवृत्तिः स्यादित्यपि निरस्तम् । अचो विशेष्यत्वात्तद्वैकल्ये प्रवृत्त्यनापत्तेरित्याहुः ।
पूर्वसूत्रे द्वन्द्वनिर्द्दिष्टस्यापि अन्तग्रहणस्यात्रानुवृत्तेर्मित् पूर्वान्तः । अभक्तत्वे तु "ता ता पिण्डानाम्" इत्यादौ "शेश्छन्दसि बहुलम्" इति शिलोपे नलोपो न स्यात् । प्रातिपदिकान्तत्वाभावात् । वहंलिह इत्यत्र मुमो मकारस्यानुस्वारो न स्यात् । अपदान्तत्वात् । आदिग्रहणानुवृत्त्या परादिरिति व्याख्यानेतु वारिणे इत्यादौ "घेर्ङिति" इति गुणः स्यात्, वहंलिह इत्यनुस्वारो न स्यात् । अतिशयितः सखा येषां तानि अतिसखीनि ब्राह्मणकुलानि । अत्र "सख्युरसंबुद्धौ" इति णित्त्वाद्वृद्धिः स्यात् । न च गौणत्वात्तदभावः । गौणत्वेऽपि तत्प्रवृत्तेः । "अस्थिदधि" इत्यादिवत् । एवं त्रपूणीत्यादौ अङ्गस्य नान्तित्वाभावात् "सर्वनामस्थाने च" इति दीर्घो न स्यात् । तस्मात्पूर्वान्तपक्षः साधुः । अत्र वार्तिकम्---
अन्त्यात्पूर्वो मस्जेरनुषङ्गसंयोगादिलोपार्थम् ।
मग्नः मग्नवान् । "ओदितश्च" इति निष्ठानत्वं तस्यासिद्धत्वात्कुत्वम् । "मस्जिनशोर्झलि" इति नुम्, तस्य त्द्यन्त्यादचः परत्वे "अनिदिताम्" इति अनुषङ्गलोपो न स्यात् । अनुषङ्ग इति नकारस्योपधायाः प्राचां संज्ञा । न च "स्कोः" इति सलोपे नकारस्योपधात्वाल्लोप इति वाच्यम् । तं प्रति सलोपस्यासिद्धत्वात् । बहूनां समवाये समुदायस्यैव संयोगसंज्ञेति पक्षे सकारस्य संयोगादित्वाभावाच्च । एवं मङ्‌क्‌ता मङ्‌क्तव्यमित्यादि बोध्यम् । "भर्जिमर्च्योश्च" अन्त्यात्पूर्वो मिदित्यनुवर्त्तते । भृजी भर्जने । औणादिके अचि कृते उमागमः । भरुजा । मर्च शब्दे चुरादिः । औणादिक इप्रत्ययः । ईमागमः । मरीचिः । निपातनात् सिद्धम् । उक्तवार्त्तिकप्रत्याख्यानमिदम् । अङ्गुल्यादिषु भरुजाशब्दस्य बाह्वादिषु च मरीचिशब्दस्य पाठात् । "मृकणिभ्यामीचिः" मरीचिः इति तूपायान्तरम् ।

एच इग्‌ ह्रस्वादेशे 47 ।

आदिश्यतइत्यादेशः । ह्रस्वेन कर्मधारयः । निर्द्धारणे सप्तमी । जातावेकवचनम् । आदिश्यमानेषु ह्रस्वेषु मध्ये एच इगेव स्यात् । हेशब्दमतिक्रान्तं अतिहि कुलम् । चित्रगुः । अतिरि । अतिनु । संध्यक्षरान्तरतमस्य ह्रस्वस्याभावे एकदेशसादृश्येन प्रसक्तयोरिवर्णोवर्णयोर्निरासार्थमेतत् । वार्त्तिककारस्त्वाह---
सिद्धमेङः सस्थानत्वाद्, ऐचोश्चोत्तरभूयस्त्वादिति ।
अयमर्थः---शब्दपरविप्रतिषेधादेङ उत्तरभागान्तरतमौ इउवर्णावेव । तथा च षष्ठे कैयटः---
विप्रतिषेधे परं कार्यमिति नायं नियमो लक्षणयोर्विप्रतिषेधे परं भवतीति किं तर्हि एकलक्षणविहितयोरपि कार्ययोर्विप्रतिषेधे परशब्दविषयत्वात्परं कार्यं भवतीत्येषोऽप्यर्थ आश्रीयते इति ।
यद्वा---एकारः शुद्धतालव्य ओकारस्तु शुद्धौष्ठ्यः इति मते सिद्धम् । तथा च बह्‌वृचप्रातिशाख्यम्---
तालव्यावेकारचवर्गाविकारैकारौ यकारः शकार इति, शेष ओष्ठोपपाद्य इति च ।
पूर्वोक्तभिन्नो वर्णराशिरोष्ठाभ्यामुपपाद्यः । उकारः पवर्ग ओदौतौ उपध्मानीयश्च ओष्ठ्या इति वृत्तिकृत् । "शेष ओष्ठ्योऽपवाद्य" इति तद्भाष्ये पाठः । उत्तरसूत्रे वक्ष्यमाणान्विहायेत्यर्थः । स्पष्टार्थञ्चेदम् । ऐक्षु समाधानान्तरमप्याह वार्तिककारः---ऐचोश्चेति । उत्तरभूयस्त्वाच्चेत्यन्वयः । अर्द्धमात्रा अवर्णस्य सार्द्धमात्रा त्विवर्णोवर्णयोरिति पक्षे मल्लग्रामादिवद् भूयसा व्यपदेशादपीकारोकारावादेशौ इति प्रकृतसूत्रमनारभ्यमिति । समप्रविभागपक्षोऽप्यष्टमे स्थितः, तत्र पूर्वोक्तसमाधानद्वयमेव ।

षष्ठी स्थाने योगा 48 ।

योगोऽस्त्यस्या इत्यर्श आदित्वादच्‌ भूमार्थे । अनेकसम्बन्धपरतया सम्भाव्यमानेति यावत् । अयोगेति छेदे त्वनिर्द्धारितसम्बन्धविशेषा षष्ठी स्थानप्रयुक्तसम्बन्धपरा बोध्या । स्थानं प्रसङ्गः । दर्भाणां स्थाने शरैः प्रस्तरितव्यमितिवत् । अस्तेर्भूः समीपोऽनन्तरो वेति संशये तत्स्थाने उच्चारणीय इत्यर्थात्सामीप्यादिनिवृत्तिः । योगेति किम् । "ऊदुपधाया गोहः" "शास इदङ्‌हलोः" इत्यादौ मा भूत् । अन्यथा गोहिशासोः स्थाने धातुमात्रस्योपधाया ऊदितौ स्याताम् ।
यद्वा---स्थानेयोगेत्येकं पदम् । पूर्वपदे सप्तम्या तृतीयया वा बहुव्रीहिः । निपातनादलुगेत्वं वा । न च गोहः शास इत्यादावतिप्रसङ्गः । अनियमप्रसक्तौ नियमार्थमेव परिभाषाप्रवृत्तेः । उपधासन्निधानेन अवयवषष्ठीत्वनिर्णयादाकाङ्क्षाविरहात् । मार्गप्रश्ने वामदक्षिणपुरस्कारेण मार्गोपदेशेऽपि मार्गद्वैधस्थलएव तदुपस्थितेः ।
भाष्यकृतस्त्वाहुः---लक्ष्यानुरोधादन्तरङ्गत्वात् स्थानिवदादेश इति ज्ञापकाच्च इष्टस्थले स्थानेयोगत्वव्याख्यानसम्भवान्नायमेतद्वाक्यार्थः, किं तु षष्ठ्यन्तमुच्चार्य्यमाणमेव स्थानेन युज्येत, न तु प्रतीयमानमित्येव । तदुच्यते---
निर्दिश्यमानस्यादेशा भवन्ति इति ।
तेन "जराया जरस्" इत्यादौ जराशब्दान्तं यदङ्गं तदवयवस्य जराशब्दस्य जरसादेशो न तु निरित्यस्यापीति ।
यत्तु जराशब्दोत्तरषष्ठ्या स्वप्रकृत्यर्थभूतजराशब्दनिष्ठमेव स्थानित्वं बोध्यते, न तु निर्जरादिशब्दनिष्ठम् । तस्य प्रकृत्यर्थत्वाभावात् । न च तदन्तपरिभाषया सोऽपि प्रकृत्यर्थ इति वाच्यम् । जराशब्दरूपस्याङ्गस्य स्थाने इत्यर्थमुपजीव्य तत्प्रवृत्त्या तदविरोधेन अवयवद्वारैव निर्जरादिशब्दानां स्थानित्वस्य बोध्यत्वात् । अत एव "उदोष्ठ्यपूर्वस्य" इत्यादावोष्ठ्येत्यादिकं पदार्थैकदेशे ऋकारादौ विशेषणम् । अत एव सागमकस्य नादेशः । प्रक्रियादशायाम् 'अनागमकानां सागमका आदेशो भवन्ति" इत्यस्यानुचितत्वात् । स्थानिवद्भावे तु स्थानिबुद्ध्यैव कार्यप्रवृत्त्या न निर्दिश्यमानस्येतिन्यायबाधः ।
अस्तु वा भाष्योक्तरीत्योक्तसूत्रनिष्पन्ना वाचनिकी "निर्द्दिश्यमानस्य" इति परिभाषा । सा च बहिरङ्गपदाङ्गाधिकारेत्यादीनां बाधिकेति ।
तच्चिन्त्यम् । तदन्तस्य स्थानित्वबोधनेऽपि जरारूपस्याङ्गस्य स्थानित्वबाधावश्यकत्वाद् उपजीव्यविरोधस्य दुर्वारत्वात् । वार्त्तिकमते जराशब्दान्तस्यैवाङ्गस्य स्थानित्वं व्यपदेशिवद्भावेन केवलजराशब्दस्याप्यादेशसिद्धेरिति सिद्धान्ताच्च । एवं निर्जरादिशब्दान्तर्गतजराशब्दस्याङ्गत्वाभावेऽपि तस्य स्थानित्वांशमादायोपजीव्यविरोधाभावस्य सुवचत्वात् । "उदोष्ठ्य" इत्यादौ तु विशेषणान्वयानन्तरमेव तदन्तविधिरिति सिद्धान्तात् । " अलोऽन्त्यस्य" "आदेः परस्य" इति तु द्वयमारम्भसामर्थ्यादस्य बाधकम् । "अनेकाल् शित् सर्वस्य" इत्यनेन सह त्वविरोधात्समुच्चयः । एवं च तन्त्रादिना स्फुटप्रतिपत्त्यर्थं प्रागुक्तार्थोऽपि बोध्यः ।
अत्र वदन्ति । "इको गुणवृद्धी" इतिवदयं योगः पदोपस्थापक एवास्तु । इह शास्त्रे अनिर्द्धारितसम्बन्धविशेषा षष्ठी स्थानेशब्देन युज्यते । स्थाने इति सप्तम्यन्तं पदं तत्रोपतिष्ठते इति । स्थानेयोगाऽस्या इति विग्रहः । एवम् "अलोऽन्त्यस्य" "ङिच्च" इत्यादावपि ।

स्थानेऽन्तरतमः 49 ।

प्रसक्तानां मध्ये सदृशतम आदेशः स्यात् ।
यदि त्वयं स्वतन्त्रो विधिः स्यात्तदा विधेयस्यादेशविशेषस्यानिर्द्देशात् दधिशब्दस्य दधिशब्द एवादेशः स्यात् । तस्याप्यन्यः स एवेत्यनवस्था स्यात् । प्रयोजनव्यतिरेकेण प्रवर्त्तमानस्य सकृत् प्रवृत्तौ नियामकाभावात् । तथा च पदमात्रस्य निवृत्त्युन्मुखत्वादर्थप्रत्यायनाय प्रयोगो न स्यात् । एवं बिसं मुसलम् इत्यादौ समुदायस्थाने समुदाये आदेशे तन्मात्रस्यानादेशत्वेऽपि सकारस्य सकारादेशे षत्वापत्तिः । तस्मात् प्रकरणात्परिभाषेयमिति भाष्यम् । तच्च चतुर्द्धा---
तत्र स्थानतो यथा---सुद्‌ध्युपास्यः । मध्वरिः । धात्रंशः । लाकृतिः । इकारादीनां तुल्यस्थाना यादयः । यथासङ्ख्यपक्षे ऽप्यविरोधादेतत्प्रवृत्तेः । दैत्यारिः श्रीशः इत्यादिकमप्युदाहार्यम् ।
अर्थतो यथा---वातण्ड्ययुवतिः । "वतण्डाच्च" इत्यपत्ये यञ्‌ ।"लुक् स्त्रियाम्" इति लुक् । शार्ङ्गरवादित्वान्ङीन् । वतण्डी चासौ युवतिश्चेति विग्रहे "पोटायुवति" इत्यादिना समासः । "पुंवत्कर्मधारय" इति पुंशब्दातिदेशे वतण्डीशब्दस्यापत्यवाचिनोऽपत्यवाचक एव वातण्ड्यशब्द आदेशः ।
गुणतो यथा---पाकः । त्यागः । "चजोः" इति कुत्वेऽल्पप्राणस्याऽघोषस्य चकारस्य घोषवतो नादवतो महाप्राणस्य जकारस्य च यथाक्रमं तादृशावेव ककारगकारौ ।
प्रमाणतो यथा---अमुम् अमू अमून् । "अदसोऽसेः" इति विहित उकारो ह्रस्वस्य ह्रस्वो दीर्घस्य दीर्घ उकारः । पुनः स्थानग्रहणादन्योऽपि वाक्यार्थः । ताल्वादिस्थाने योऽन्तरतमः तत्प्रयुक्तान्तर्यवानिति यावत् । प्रसक्तानां मध्ये स स्यादिति । तदुक्तम्---
यत्रानेकविधमान्तर्यं तत्र स्थानत आन्तर्यं बलीय इति ।
तेन चेता स्तोता इत्यादौ प्रमाणतोऽन्तरोऽप्यकारो न ।
वाक्यभेदे तमग्रहण्सय मानत्वात् । स्थानमात्रप्रयुक्तसादृश्यविवक्षायां सादृश्यान्तरस्याप्रसक्त्या तद्व्यवच्छेदार्थस्य तमग्रहणस्यानुपयोगात् । तेन वाग्घरिरित्यादौ सोष्मणः सोष्माण इति द्वितीयानाम्, नादवतो नादवन्त इति च तृतीयानाम् प्रसक्तौ तमग्रहणादुभयवन्तश्चतुर्था भवन्ति । वर्गे वर्गे च प्रथमावघोषौ युग्मौ सोष्माणावनुनासिकोऽन्त्य इति बह्‌वृचप्रातिशाख्योक्त्या तेषां सोष्मत्वात् । शादय ऊष्माणः सस्थानेन द्वितीया हकारेण चतुर्था इति शिक्षान्तरम् । इत्थम्भूतलक्षणे तृतीया । हशषसाः खच्छादीनां द्वितीयानां सस्थानाः । यथा ते ऊष्माण एवं द्वितीया अपीत्यर्थः । फकारस्य सस्थान ऊष्मा नास्ति । तस्मात्तस्य विशेषत ऊष्मत्वं वक्तव्यम् । हकारेण चतुर्था इति । यथा हकार ऊष्मा एवं तेऽपीत्यर्थ इति हरदत्तः ।
न चैवम् इष्ट उप्त इत्यादौ आन्तर्यादर्धमात्रस्य यणः स्थाने तादृगेव इक् स्यादिति वाच्यम् । अर्द्धमात्रस्येकोऽप्रसिद्धेः । एतेन दध्यत्र सुध्युपास्य इत्यादौ मातृकद्विमातृकयोस्तादृगेव यण्‌ स्यादित्याशङ्काऽप्यपास्ता । आपाद्यस्य लोकवेदयोरप्रसिद्धत्वात् ।
स्यादेतत् । संहितया पाठेऽन्तरतमे इति सप्तम्यन्तमेव छिद्यताम् । षष्ठीत्यनुवर्त्तते । अन्तरतमे स्थानिनि षष्ठी उपसंहर्तव्येति सूत्रार्थः । तेन "अकः सवर्णे" इत्यत्र विधेयस्य अन्तरतमे स्थानिनि षष्ठ्या उपसंहारादिष्टं सिद्धम् । स्थानशब्दस्य ससम्बन्धिकतया विधेयप्रतियोगिकस्यैवान्तरतम्यलाभात् । प्रथमान्तच्छेदपक्षे तु "वान्तो यि' इत्यत्र ओदौतोरिति स्थानिनिर्देशः कर्त्तव्यः स्यात् । एच इत्यनुवृत्तौ तु एज्मात्रस्य वान्तादेशः स्यात् । स्थानितोऽन्तरतमनिर्वृत्तौ तु एच इति षष्ठ्या वान्तादेशस्यान्तरतमे स्थानिनि ओकारौकाररूपे उपसंहारात्सिद्धम् । अत्र भाष्यम्--
एवं सति आदेशान्तरतमः स्थानी ग्राह्य इत्यर्थे ह्रस्वानामेव यण्‌ स्यान्न तु दीर्घाणाम् । अर्द्धमात्रिकस्य मातृक एवान्तरतम इति तत्रेक इति षष्ठ्या उपसंहारात् । "ल्वादिभ्यः" "प्वादीनां ह्रस्वः" इत्यादिज्ञआपकानुसरणे तु प्रतिपत्तिगौरवम् । "इको गुणवृद्धी" "अचो ञ्णिति" इति षष्ठ्योरपि विधेयगुणवृद्ध्यन्तरतमेषु इक्ष्वक्षु चोपसंहारे नेता लविता नायको लावक इत्यादिदीर्घान्तस्थले एव "सार्वधातुकार्द्धदातुकयोः" "अचोऽञ्णिति" इति गुणवृद्ध्योः प्रवृत्तिः स्यात् । चेता स्तोता चायकः स्तावक इत्यादौ न स्यात् । विधेययोर्द्विमातृकतया ह्रस्वस्य तदान्तरतम्याभावात् । आदेशतोऽन्तरतमनिर्वृत्तिरिति पक्षे तु न दोषः । स्थानिषष्ठ्या असंकुचितत्वात् । न च एज्मात्रस्य वान्तादेशापत्तिः । "एचोऽयवायावः" इति सूत्रे यथासंख्यान्तरतमपरिभाषयोः प्रवृत्तेरर्थाधिकाराश्रयणाद्यादृशो वान्तादेशः पूर्वं दृष्टस्तादृशो यकारादौ प्रत्यये भवतीति सूत्रार्थात् । तादृशश्च ओकारस्थानिकोऽव्‌ औकारस्थानिक आव्‌ चेति ।
यद्वा---वान्त इति त्याज्यम् । "क्ष्य्यजय्यौ" इति योगं विभज्य कणअठतालव्यस्य चेद्भवति क्षिज्योरेवेति नियमं व्याख्याय चेयं नेयमित्यादावयादेशवारणात् । क्षिज्योः शक्यार्थएवेति द्वितीयो योगः । तेनार्हाद्यर्थे तयोरपि नायादेशः । रायमिच्छति रैयतीत्यत्र तु रायिश्छान्दसः दृष्टानुविधिश्छन्दसि भवतीति भाष्यम् । क्यजन्तरैशब्द एवच्छान्दसः । अन्यादृशस्तु भाषायामपीति केचित् ।
क्यच् तु नास्ति गोसमानाक्षरनान्तादिति वचनात् ।
अन्ये तु भाषायां रैशब्दप्रयोग एव नेत्याहुः इति कैयटः ।
नन्वेवमपि "नृनरयोश्च' इति नरशब्दे ङीन्संनियोगेन विधीयमाना वृद्धिः "अलोऽन्त्यस्य' इत्यन्त्यस्य स्यात् । यस्येति लोपे च कृते वृद्धिविधानवैयर्थ्यम् । नृशब्दमात्रार्थत्वे "नुर्वृद्धिश्च" इति न्यासापत्तिः । न च परत्वाद् यस्येति लोपे कृते प्रथमाकारस्य वृद्धिः । प्रत्ययसन्नियोगशिष्टत्वेन वृद्धेरन्तरङ्गत्वात् । न चाङ्गगुणविरोधन्यायेनान्तरङ्गपरिभाषां बाधित्वा परत्वाद् यस्येति लोपे कृते वृद्धिः, वचनसामर्थ्याद्‌ वृद्ध्या लोपबाधे धर्मिबाधापत्तेरिति न दोष इति वाच्यम् । तथा ऽपि सप्तम्यन्तच्छेदस्यावश्यकत्वात् । तत्र हि स्थानितोऽन्तरतमनिर्वृत्तिरिति वृद्ध्यन्तरतमे स्थानिनि षष्ठ्या उपसंहारादकारस्य वृद्धिः । प्रथमान्तच्छेदपक्षे तु प्रकृतितोऽन्तरतमनिर्वृत्तिरिति अनन्तरतमादेशव्यावृत्तावपि स्थानिनियामकत्वाभावात् अलोऽन्त्यपरिभाषया रेफस्य स्यात् ।
अत्राहुः---सप्तम्यन्तच्छेदनिरासपरभाष्यप्राणाम्यान्नरशब्दपाठप्रत्याख्यानमेव तत्संमतम् । न च नरशब्दाज्जातिलक्षणे ङीषि नरीत्यापत्तिः । इष्टत्वात् । किन्नरीणां नरीणामिति दर्शनात् ।
यद्वा---नरशब्दो नियतपुलँलिङ्गः । नरीति प्रयोगस्तु पुंयोगलक्षणे ङीषि । तस्य यथान्यासेऽपि दुर्वारत्वात् ।
यद्वा---"नृनरयोः" इत्यत्र "अजाद्यतष्टाप्‌" इति सूत्रा दत इत्यनुवर्त्तते । "शार्ङ्गरवाद्यञ" इत्यादिशब्देन गणसूत्रस्याप्यस्य हृदयमानीतत्वात् । तच्च षष्ठ्या विपरिणतं नरशब्दे वैयधिकरण्येन सम्बध्यते, नरशब्दस्य योऽत् तस्य वृद्धिरिति । अतो न अलोऽन्त्यपरिभाषाप्रवृत्तिः ।
यद्वा---नर् इति रान्तं लुप्ताकारानुकरणम्, तस्य अः नरः तस्य वृद्धिरिति चाद् गणपाठाच्च ङीन् ।
यत्तु स्थानितोऽन्तरतमनिर्वृत्तिरित्याश्रित्य हरदत्तेन नारीति रूपं साधितम्, तद्‌ "उपेयप्रतिपत्त्यर्था उपायाः" इति न्यायमाश्रित्येत्यविरोधः ।
भाष्ये त्वेतत् सूत्रमेव प्रत्याख्यातम् । सभायामास्यताम् इत्युक्ते हि पण्डिताः कवयः शूराश्च स्वसजातीयैः पण्डितादिभिरेव सह समासते, न तु सङ्करेण । एवं गवां सङ्घं गौर्धावति, अश्वोऽश्वानामिति तिर्यक्ष्वपि दृश्यते । तस्मात् प्रथमवाक्यार्थलाभो नास्य प्रयोजनम् । स्थानत आन्तर्यस्य बलवत्त्वमपि लोकात्सिद्धम् । भूयः सहचरितयोर्गवोरश्वयोर्वा सजातीयान्तरसंवलने सत्यपि कृशत्वपाण्डुत्वादिगुणसदृशानपि हित्वा स्थानसाम्यपुरस्कारेणैव परस्परापेक्षा दृश्यते । तथा च लोकतः सिद्धमिति ।

उरण्‌ रपरः 50 ।

ऋवर्णस्थानीयोऽण्‌ प्रसङ्गावस्थायामेव रपरः स्यात् । र इति प्रत्याहारः । ऋ इति त्रिंशतः संज्ञा । आन्तरतम्यात् । ऋकारस्थानीयो रपरः, लृकारस्थानीयस्तु लपर इति व्यवस्था । कृष्णर्द्धिः । तवल्कारः ।
प्राञ्चस्तु ऋलृस्थानीयोऽणिति व्याचख्युः ।
यत्तु आ च आ च रलाविति विग्रहे उश्च उल्‌ च ऋलोरिति विग्रहे वा द्वन्द्वो दुर्लभः । विरूपाणामपि समानार्थानामेकशेषविधानादिति । तन्न । सूत्रस्थऋशब्दस्योभयपरत्वप्रदर्शनपरे वाक्ये ऋलृवर्णयोः परस्परग्राहकत्वस्यानबिमततया समानार्थकत्वाभावात् । शब्दस्वरूपमात्रपरत्वात् । "समाहारसमूहयोविसेषाद्‌" इति वार्त्तिके सर्वैस्तथैव व्याख्यानात् । अन्यथा "मिहिरारुणपूषण" इत्यादावप्येकशेषापत्तेः ।
इह वाक्यार्थचतुष्टयं सम्भवति । उः स्थाने रपरत्वविशिष्टोऽण्‌ विधीयते इत्येकः । अणामनणां च प्रसङ्गेऽणेवेति नियमः, स च रपर इति वाक्यभेदेन रपरत्वविधिरिति द्वितीयः । ऋस्थानीयमणमनूद्य तस्य रपरत्वविधिरिति तृतीयः । प्रसङ्गावस्थायामेव रपरत्वं विधीयते इति चतुर्थः ।
तत्राद्ये इत्थं वचनव्यक्तिः षष्ठीनिर्द्दिष्टमात्रस्य भवन्नादेशोऽन्तरतमः स्यात्, ऋवर्णस्य त्वण्‌ रपर इति । ततश्च नाप्राप्तेषूदात्तादिषु विहितोऽण्‌ तेषां बाधकः स्यात् । तथा च कृतिरित्यत्र "ञ्नित्यादिर्नित्यम्" इत्युदात्तो न स्यात् । प्रकृतं प्रहृतमित्यत्र "गतिरनन्तरः" इति प्रशब्दस्योदात्तत्वे शेषनिघातः "उदात्तादनुदात्तस्य" इति स्वरितश्च न स्यात् । नॄँ पाहीत्यत्रानुनासिको न स्यात् । सर्वत्र तत्तद्गुणावच्छिन्नस्य रपरस्याणः प्रसङ्गात् । ऋकारस्य चाण्तवाभावात् । न च नॄनित्यत्र दीर्घो ऽपि न स्यादिति कुतो नोक्तमिति वाच्यम् । "नॄन् पे" इति निर्देशात्तत्सिद्धेः ।
किं च कर्त्ता कारक इत्यत्र गुणवृद्धिबाधेन विहितोऽण्‌ कदाचिदिकार उकारश्च स्यात् । अकार एवेतिनियमाभावात् । "ऋत इद्धातोः" "उदोष्ठ्यपूर्वस्य" इति प्रतिपदोक्तेषु इत्वोत्वादिषु च रपरत्वं न स्यात् । तेषामतेद्बाधकत्वात् ।
अथ द्वितीयः पक्षोऽस्तु । अणनणोः प्रसङ्गेऽणेवेति नियमात् कर्त्ता कारक इत्यादौ गुणवृद्ध्योर्दोषाभावात् । ननु ह्रस्व ऋकारस्य सर्वा वृद्धिरनन्तरतमा, वृद्धिमात्रस्य द्विमात्रत्वात्, दीर्घस्य तु सर्वाऽपि प्रमाणतोऽन्तरतमेति अविशेषादुभयस्थले सकलवृद्धिप्रसङ्गे ऽणेवेति नियमोऽस्तु । गुणस्थले तु ह्रस्वस्य ऋकारस्य कर्तेत्यादौ मात्रिकत्वादकार एवान्तरतमः, तरितेत्यादौ दीर्घस्य तु द्विमात्रत्वादेङेवान्तरतमः इति उभयत्राप्यणनणोर्व्यवस्थयैव प्राप्त्या उभयत्रोभयोरप्रसक्त्या नियमप्रवृत्त्यभावे दीर्घस्य ऋकारस्य विधीयमानो गुण एङेव स्यात् । ह्रस्वस्य त्वकारो भवन्नपि रपरो न स्यात् । अणनणोः प्रसक्तावणेवेति यो नियम्यते, तस्यैव द्वितीयेन रपरत्वविधानात् । अतो गुणे दोषो दुर्वार इति चेत्, सत्यम् । स्थानेऽन्तरतमपरिभाषाया अवकाशः "चजोः कु घिण्ण्यतोः" इत्यादिः, एतस्यास्तु वृद्धिविधिः, गुणे तूभयप्रसङ्गे परत्वादियमेवेति दोषाभावात् । सत्यम् । उदात्तादिषु प्रतिपदोक्तेषु च दोषतादवस्थ्यात् ।
अथास्तु तृतीयः पक्षः । अन्तरतमपरिभाषासंस्कृतैरुदात्तादिविधिभिस्तत्तद्‌गुणावच्छिन्नस्य ऋकारस्यैव विधानात् तस्य चाण्त्वाभावेन रपरत्वप्रसक्त्यभावात् । प्रतिपदोक्तेषु इत्वादिष्वपि न दोषः । ऋकारस्थानीयाण्त्वस्य तत्रापि सत्त्वात् किरतीत्यादिषु रपरत्वसिद्धेः । मैवम् । गुणवृद्ध्योर्दोषस्य सत्त्वात् । कर्त्तेत्यत्र मात्रिकस्य ऋकारस्य मात्रिकत्वादकारे गुणे रपरत्वे च दोषाभावेऽपि तरितेत्यादौ द्विमात्रस्य दीर्घस्य स्थाने तादृशस्यैङ एव प्रसङ्गात् । वृद्धिस्थले तु पूर्वोक्तरीत्या वृद्धिमात्रस्य ह्रस्वान्तरतम्याभावात् दीर्घान्तरतम्याच्चोभयत्रापि त्रिविधवृद्धप्रसङ्गे कारः तार इत्यादिसिद्धावपि पक्षे ऐचोऽपि प्रसक्त्या कायः कावः तायः ताव इत्यादेरनिष्टस्यापि प्रसङ्गात् ।
स्यादेतत् । पूर्वसूत्रे "अनान्तर्यमेवैतयोरान्तर्यम्" सम्प्रयोगो वा नष्टाश्वदग्धरथवत्" इति भाष्यवार्तिककृद्‌भ्यामुक्तत्वाददुष्ट एवायं पक्षः । तथा हि---एकस्यान्तरतमा प्रकृतिर्नास्ति अपरस्याप्यन्तरतम आदेशो नास्ति अतोऽनुरूपप्रतिसम्बन्धिराहित्यरूपधर्मेणैवान्तरतम्यनिर्वाहः । न हि चतुर्विधमेवान्तर्यमिति नियमः । मुनित्रयानुक्तेः । प्रत्युत सोष्मणः सोष्माण इति भाष्यादौ स्वीकारात् । सम्प्रयोग इत्यादेस्त्वयमर्थः---"स्थानेऽन्तरतमः" इत्यस्य प्रत्याख्यानपक्षेऽपि उभयोरनुरूपप्रतियोगिरहितत्वात् परस्परापेक्षामूलकः स्थान्यादेशभाव इति । उच्यते । ऋत्वजात्यवच्छिन्नस्य स्थानिनोऽत्वजात्यवच्छिन्नस्य चादेशस्योक्तान्तरतम्यराहित्येऽपि व्यक्तिपुरस्कारेणान्तरतम्यपरीक्षायां दोषस्योद्भटत्वात् । ऋवर्णस्य मात्रिकस्य तादृशोऽकारोऽन्तरतमः, द्विमात्रस्य त्वेकारौकारौ इति अनुरूपप्रतियोगिकत्वस्य सुलभत्वात् । "स्वतन्त्रः कर्ता" इति निर्द्देशान्न विनिमयः । "ग्रो यङि" "अचिविभाषा" इत्यारम्भाच्च न विकल्प इति कल्पनेऽपि गौरवात् । तस्माच्चतुर्थो निर्दोषः । तदुक्तम्---
सिद्धन्तु प्रसङ्गे रपरत्वादिति ।
विधिवाक्यस्यैकवाक्यताविधानकाले एव अणो रपरत्वमित्यर्थः ।
ननु स्थानेशब्दस्यात्रानुवर्त्तमानस्य प्रसङ्गावस्थायामित्यर्थे ऋकारस्येति षष्ठ्याः स्थानमर्थो न स्यात् । अण्‌ हि लक्षणान्तरेण विधीयते, न त्वनेन । तथा च "षष्ठी स्थानेयोगा" इति परिभाषा नोपतिष्ठतएव । विधौ परिभाषोपतिष्ठते नानुवादे इति न्यायात् । अत एव "उदीचामातः स्थाने यकपूर्वायाः" इत्यत्र स्थानेग्रहणम् । तथा च ऋकारस्य योऽण्‌ स प्रसङ्गावस्थायामेव रपरः स्यादित्यर्थे ऋकारसमीपस्याप्यणो रपरत्वं स्यादिति चेन्न । द्वितीयस्यापि स्थानेशब्दस्यानुवृत्तेः । तथा चैकेनानुवादेऽपि स्थानसम्बन्धस्य सिद्धिः, द्वितीयेन तु प्रसङ्गावस्थायामेवेति कालविशेषस्य । "स्थानेऽन्तरतमः" इत्यत्र ताल्वादिपरत्वेन व्याख्यातस्यापि स्थानशब्दस्यात्र शब्दाधिकारेण प्रसङ्गपरतया व्याख्यानाम् । तथा च स्थानेऽन्तरतमपरिभाषाया कृतिरित्यादावृकारस्य ऋकार एव प्रवर्त्तते इत्यणः प्रसङ्ग एव नास्ति । गुणवृद्ध्योः प्राप्त्यवस्थायामेवाणां रपरत्वप्रसक्त्या व्याख्यानतोऽन्तरतमौ अर्‌ आर्‌इत्येतौ ऋकारस्यादेशौ भवतः, न तु प्रमाणतोऽन्तरतमावेङैचाविति न दोषः । नन्वेवमादेशस्यानेकाल्त्वात्सर्वादेशः स्यादिति चेन्न । ऋस्थानीयत्वोपजीवकेन रपरत्वेनोपजीव्यविरोधिनः सर्वादेशत्वस्य प्रवृत्त्यभावात् । तथा च पूर्वसूत्रे वार्त्तिकम्---
सर्वादेशप्रसङ्गस्त्वनेकाल्त्वात्, न वाऽनेकाल्त्वस्य तदाश्रयत्वादबर्णादेशस्याविघात इति ।
अण्‌ग्रहणं किम् । अकङ्‌ लोप आनङ्‌ अनङ्‌ रीङ्‌ रिङ्‌ एषां रपरत्वं मा भूत् । सौधातकिरित्यत्र "सुधातुरकङ्‌ च" इति ङित्त्वादृकारस्य अकङ्‌ । पैतृष्वसेय इत्यत्र "ढकि लोपः" इति ऋकारलोपः । होतापोतरावित्यत्र "आनङ्‌ ऋतो द्वन्द्वे" इत्यानङ्‌ । कर्त्तेत्यत्र "ऋदुशनः" इत्यनङ्‌ । मात्रीयतीत्यत्र "रीङ्‌ ऋतः" इति रीङ्‌ । क्रियतइत्यत्र "रिङ्‌ शयग्‌" इति रिङ्‌ । न च ढकि लोपे रपरत्वप्रवृत्तौ ऋकारलोपविधिवैयर्थ्यम्, यणाऽपि तादृशरूपसिद्धेरिति वाच्यम् । सामर्थ्यादलोऽन्त्यविधिं बाधित्वा सर्वादेशत्वप्रसङ्गात् । न च होतापोतारा वित्यत्र रपरत्वेऽपि न क्षतिः, संयोगान्तलोपसंभवादिति वाच्यम् । तस्यासिद्धतया नलोपानुपपत्तेरिति कैयटः ।
यत्तु "संयोगान्तलोपे यणः प्रतिषेधः" "न वा झलो लोपाद्‌" इति पक्षद्वये तावद्रेफस्य लोपप्रसङ्ग एव नास्ति "नापि बहिरङ्गलक्षणत्वाद्‌" इति पक्षे उत्तरपदानिमित्तकस्यानङोऽन्तरङ्गसंयोगान्तलोपे कर्त्तव्येऽसिद्धत्वात् नकाररेफयोः श्रवणं स्यादिति दोषएव भाष्यस्य तात्पर्यमित्याहुः । तन्न । संयोगान्तलोपस्य संयोगपदोभयसंज्ञापेक्षत्वात् ।
न चोत्तरपदापेक्षायां पदसंज्ञापेक्षत्वमानङोऽपीति वाच्यम् । तस्य समासावयवमात्रस्यापेक्षितत्वात् । समासचरमभागस्याजादौ सुपि कुत्रापि पदसंज्ञानङ्गीकारात् । कौस्तुभेऽपि तथैव निर्णी तत्वात् । एवम् उदात्तादीनामपि ऋकाराणां रपरत्वं स्यादिति दिक् ।
स्यादेतत् । खट्‌वर्श्य इत्यादौ रपरत्वं न स्यात् । ऋमात्रस्थानिकत्वाभावात् । समुदायस्यैव तत्र स्थानित्वेनाश्रयणात् । न च "एकः पूर्वपरयोः" इत्यनेनोद्‌भूतावयवभेदस्य समुदायस्य निर्द्देशात् परस्परापेक्षयोरवयवयोरेव समुदायत्वादृकारस्थानीयत्वमक्षतमिति वाच्यम् । आनङोऽपि रपरत्वप्रसङ्गात् । अवयवस्य तत्राप्यण्‌त्वात् । ऋकारतदन्योभयस्थानिकस्यैव अणनण्‌स्वरूपस्यापि रपरत्वस्य दुर्वारत्वात् । तदुक्तम्---
अवयवग्रहणात्तदिति चेदादेशे रान्तप्रतिषेध इति ।
न च उरित्यृवर्णग्रहणात् वर्णग्रहणे तदन्तग्रहणाद्‌ ऋवर्णान्तस्य स्थाने योऽण्‌ तस्य रपरत्वं न त्वत्रेति वाच्यम् । कर्त्ता इत्यादौ तदसिद्धेः । अङ्गस्येति षष्ठ्या अन्त्येऽलि उपसंहारात् । ऋवर्णस्यैव गुणविधानात् । तस्य च ऋदन्तत्वाभावात् । न च व्यपदेशिवद्भावः । अर्थवत्त्वाभावात् ।
तस्मादेकादेशस्योपसंख्यानं कर्तव्यम् । मातुरित्यादौ "ऋत उद्‌" इत्यस्य च प्रतिषेध इति चेन्न । एकादेशेऽवयवयोरेव स्थानित्वात् ऋस्थानित्वस्य सत्त्वात् । अत एव स्थानिभेदादादेशभेदो मा भूदिति तत्रैकग्रहणम् । अत एव लोके देवदत्तस्य पुत्रो देवदत्तायाः पुत्र इत्युभाभ्यां व्यपदेशः । मातुरित्यत्र रपरत्वेऽपि दोषाभावात् । "रात्सस्य" इति सलोपे रेफस्य विसर्जनीये च रूपसिद्धेः । न चैवं मातुः करोतीत्यत्र "इदुदुपधस्य चाप्रत्ययस्य" इति षत्वापत्तिः । कस्कादिषु भ्रातुष्पुत्रशब्दपाठेन एकादेशशास्त्रं निमित्तं यस्य ततः परस्य विसर्गस्य षत्वं न भवतीति ज्ञापितत्वात् ।
इदमप्यत्रावधेयम् । पूर्वसूत्रादन्त इत्यनुवृत्तौ अयं पूर्वान्तः । आदिरित्यनुवृत्तौ परादिः । उभयानुवृत्तौ त्वभक्त इति सम्भवति । यद्यपि रपर इत्यत्रान्यपदार्थप्राधान्यम्, तथाऽपि विधेयतया रेफस्य प्राधान्यात्तस्यैवान्तत्वं विशेषणमिति बोध्यम् । न च प्रसज्यमानस्यैवाणो रपरत्वविधानात् रेफमात्रस्य कथं पक्षत्रयशङ्केति वाच्यम् । तृतीयपक्षमाश्रित्यैतदुपपत्तेः । तत्रान्त्यं प्रकृत्य वार्त्तिकम्---
अभक्ते दीर्घलत्वयगभ्यस्तस्वरहलादिशेषविसर्जनीयप्रतिषेधः प्रत्ययाव्यवस्था चेति ।
गीः पूरित्यत्र दीर्घो न स्यात् । धातोः रेफान्तत्वाभावात् । रेफवकारान्तस्य पदस्येति व्याख्याने अग्निः वायुरित्यादावतिप्रसङ्गात् । न च ऱेपवकारान्तस्य पदस्येको धातोरित्यर्थः । प्रियग्रामणिः प्रियसेनानिरित्यादावतिप्रसङ्गात् । निजेगिल्यतइत्यत्र "ग्रो यङि" इति लत्वं न स्यात् । ग्रइत्यस्यावयवषष्ठ्यान्तत्वात् । न चेयमानन्तर्ये षष्ठी । स्वर्जेगिल्यतइत्यत्राप्यापत्तेः । यदि यङाऽऽनन्तर्यं विशेष्यते, यद्वा---ग्र इति पञ्चमीत्युच्यते, तदा न दोषः । गीर्यते पूर्यते स्वयमेवेत्यत्र "अचः कर्त्तृयकि" इति स्वरो न स्यात् । रेफेण व्यवधानात् । स्वरविधौ व्यञ्जनमविद्यमानवद्भवतीत्ययमपि न दोषः । एतेन "मा हि स्म ते पिपरुः" इत्यत्र " अभ्यस्तानामादिः" उदात्तः स्यादजादौ लसार्वधातुके इति स्वरोऽपि व्याख्यातः । ववृते इत्यादौ हलादिः शेषेण रेफनिवृत्तिर्न स्यात् । अभ्यासावयवस्थानादेर्हलस्तद्विधानात् । नार्कुटो नार्पत्य इत्यादौ यस्मात् सुप्तिङ्‌विधिस्तदादिसुबन्ते च रेफान्तस्य पदत्वाद्विसर्गः स्यात् । किरतो गिरत इति च न स्यात् । किरतीत्येकवचने हि नित्यत्वात्पूर्वं विकरणः । आङ्गन्त्वनित्यम्, अकृते विकरणे गुणस्य प्राप्तिः, कृते त्वित्वस्येति । द्विवचने तु द्वयोरपि नित्यत्वात्परत्वादित्वे रेफस्याभक्ततया धात्ववयवत्वाभावाद्विकरणो न स्यात् । धातोः परे तावतैव तद्विधानात् । न च विकरणात्परो रेफः । तथाऽपि ऋकारस्थानिकादणः परत्वानुपपत्तेः । न च परत्वं व्यवहितसाधारणम् । इष्टासिद्धितादवस्थ्यात् । पूर्वादित्वे तु "रोः सुपि" इत्यवधारणं कार्यम् । रोरेव सुपि नान्यस्य । सर्पिः षु धनुः षु इत्यादौ यथा स्यात्, गीर्षु पूर्षु इत्यादौ मा भूत् ।
अभक्तत्वेऽप्ययं दोषः । तदादिवचनात् प्रत्ययावधिकपूर्वभागस्यापि पदान्तत्वात् । परादित्वपक्षे तु सुब्भक्तत्वान्न पदान्तत्वम्, किं तु नार्कल्पिरित्यत्र विसर्गापत्तिः । तदुक्तं भाष्ये---
कल्पिपदसंघातभक्तोऽसौ नोत्सहतेऽवयवस्य पदान्ततां बाधितुमिति ।
नृकल्पशब्दादिञि वृद्धिः । रेफस्तु प्रत्ययसमुदायस्य कल्पिशब्दस्यावयवो न तु कल्पमात्रस्य । तथा च कल्पशब्दे परे विधीयमाना पदसंज्ञा तदादिवचनाद्रेफान्तस्य भवतीति विसर्गः स्यात् । पद्यतेऽर्थोऽनेनेति व्युत्पत्त्या भाष्ये पदेति प्रत्ययस्योक्तेः । कल्पशब्दे परे व्यवस्थितस्यापि रेफस्य तदवयवत्वाभावात्तयोः पौर्वापर्यसद्भावादात्मन एवावयवभूतस्य पदान्तत्वविघातकत्वानुपपत्तेः । कल्पपदसंघातेति पाठे तु कल्पपदसंबन्धि यत्पदं नार्कल्पिरिति तस्य पदस्य योऽवयवः प्रत्ययसंघातः कल्पिशब्दस्तद्भक्त इति व्याख्येयम् । तस्मादेतदर्थमप्युक्तनियम आरभ्यः ।
गीर्यतइत्यत्र "अचः कर्त्तृयकि" इति स्वरस्तु उपदेशेऽजन्तत्वव्याख्यानान्निर्बाधः । परादित्वपक्षे तु दोषानाह वार्त्तिककारः---
परादावकारलोप औत्वं पुक्‌प्रतिषेधः चङ्‌युपदाह्रस्वत्वमिटोऽव्यवस्थाऽभ्यासलोपोऽभ्यस्ततादिस्वरो दीर्घत्वं चेति ।
तथा हि---कर्ता हर्ता इत्यत्रातो लोपः स्यात् । न चोपदेशग्रहणानुवृत्तिः । धिनोतीत्येकवचने अकारलोपाभावेऽपि आद्‌गुणेन यद्वा उकारस्य गुणे पररूपेण सिद्धावपि धिनुतः कृणुत इत्यनुपपत्तेः । आर्द्धधातुकोपदेशे यदकारान्तमित्यर्थे तु न दोषः । चकार जहारेत्यत्र णल औत्वं स्यात् । "निर्द्दिश्यमानस्यादेशा भवन्ति" इत्ययं न दोषः । न च "आदेः परस्य" इति वचनाद्रेफस्य औत्वापत्तिः । णल इत्यनेन प्रयोगसमवाय्यकारव्यक्तिविशेषस्य आकारान्तादङ्गात्परस्यादेशप्रवृत्तेः । सरेफस्य त्वनुमीयमानस्य नादेशः ।
भाष्ये तु प्रत्याय्यप्रत्यायकयोरभेदविवक्षया षष्ठीनिर्दिष्टस्येत्युक्तत्वात् अकारमात्रस्य च रेफेण व्यवधानात् ।
यदि तु प्रत्ययस्येति लिटीति वोच्येत तदा स्यादापत्तिः । कारयतीत्यत्र आदन्तत्वात्पुक् स्यात् । अचीकरदित्यत्र "णौ चङ्‌युपधायाः" इति ह्रस्वो न स्यात् । रेफस्य परादित्वादाकारस्योपधासंज्ञाऽनुपपत्तेः । आस्तरितेत्यादौ नित्यत्वाद्‌ गुणे रपरत्वे च कृते "नेड्वशि कृति" इतीटो निषेधः स्यात्, इट्‌प्रवृत्तौ वा रेफात्पूर्वमिट्‌ स्यात् इति इष्टव्यवस्थादौर्लभ्यम् । उभयोरपि परादित्वात् । ववृते इत्यादौ हलादिः शेषो न स्यात् । अभ्यासानवयवत्वात् । "मा हि स्म ते पिपरुः" इत्यत्र लसार्वधातुकस्य उसो रेफादित्वेऽजादित्वाभावादभ्यस्ताद्युदात्तत्वं न स्यात् । प्रकर्ता प्रकर्त्तुमित्यादौ " तादौ च निति" इति स्वरो न स्यात् । उपदेशे तकारादौ कृतीति व्याख्यानादयं न दोषः । गीः पूरित्यादौ अन्तरङ्गत्वाद्वलोपइत्वे रपरत्वे सुबाद्यवयवो रेफ इति स्वीकारे "रात्सस्य" इति सलोपे कृते तस्यासिद्धत्वाद्दीर्घो न स्यात् । तस्मात्पूर्वान्तपक्ष एव स्थितः । "रोः सुपि" इति नियमस्यारब्धतयाऽनापाद्यत्वात् ।

अलोऽन्त्यस्य 51 ।

श्थानषष्ठीनिर्द्दिष्टं यदुच्यते तत् तदन्त्यस्यालो बोध्यम् । त्यदादीनामः । सः । यः । "षष्ठी स्थानेयोगा" इति सूत्रस्यानुवृत्त्या स्थानषष्ठीलाभः । नन्वल इति प्रथमाबहुवचनान्तं व्याख्याय आदेशविशेषणमल्‌ग्रहणमस्तु, तथा च अलात्मक आदेशोऽन्त्यस्य भवतीत्यर्थाद् "अनेकाल्‌शित् सर्वस्य" इति सूत्रेऽनेकाल्‌ग्रहणं न कर्त्तव्यमिति लाघवम् । मैवम् । अन्त्यविशेषणमल्ग्रहणमिति पक्षेऽपि ङिच्च ङिदेवानेकालन्त्यस्य भवति, न त्वङिदिति नियममाश्रित्य तत्प्रत्याख्यानसंभवात् । विरजीकरोतीत्यादौ "अरुर्मनश्चक्षुश्चेतोरहोरजसाम्" इति विहितस्य लोपादेशस्यानल्त्वात्सर्वादेशत्वापत्तेः । एवं "पादशतस्य "ढे लोप" इत्यनयोर्बोध्यम् । अन्तस्यापि पदस्यादेशप्रसङ्गाच्च । तथा च "पदस्य" इत्यधिकृत्य विधीयमानं "वसुस्रंसु" इति दत्वं परमानडुद्भ्यामित्यत्र सर्वस्याप्यनुडुच्छब्दस्य स्यात् । अनेकाल्ग्रहणं च पक्षद्वयेऽप्यावश्यकम् । अन्यथा "अतो भिसः" इति पञ्चमीनिर्द्देशेऽनेकालप्यादेशः "आदेः परस्य" इति वचनादादेरेव स्यात् । न च "आदेः परस्य" इत्यत्राल इति प्रथमान्तमनुवर्त्य परस्य विहितोऽल्‌ आदेः स्यादिति व्याख्याय ऐसि दोषो निवार्यः, तस्यानल्त्वादिति वाच्यम् । बहोर्भावो भूमेत्यत्र इमनिच इकारस्य लोपानुपपत्तेः । तत्सत्त्वे च अपवादप्रतिषेधेन परत्वात्सर्वादेशसिद्धेः ।
अयं चात्रार्थः---स्थानेयोगत्वेन निर्णीता या षष्ठी साऽनेन अन्त्येऽलि अनुसंह्रियते ।
यद्वा---निश्चितो य आदेशः सोऽन्त्यस्यालः स्थाने इति । षष्ठीमात्रस्यानुसंहारे टित्किन्मितामप्यन्त्यावयवत्वप्रसङ्गात् । ततश्च "आर्द्धधातुकस्य" इति विहित इट्‌ तृच ऋकारात्पूर्वम्, दापयतीति पुक् च आकारान्त्यावयवः स्यात् । ततश्च "अर्थवतो ह्यागम" इत्ययुक्तं स्यात् । अत एव "षष्ठी स्थानेयोगा" इत्यनेन सह अस्यैकवाक्यत्वम् । इह पाठस्तु "ङिच्च" इत्यादेः संबन्धार्थः । तथा च "शास्त्रे या षष्ठी साऽन्त्येऽलि सा च स्थानेयोगैवेत्यर्थः, स्थानेयोगत्वेन ज्ञानानन्तरम् अन्त्येऽलीत्यनुसंहारस्वीकारे प्रतिपत्तिगौरवात्" इत्यपि नाशङ्क्यम् । टित्किन्मित्सु दोषतादवस्थ्यात् ।
तथा हि---"आद्यन्तौ टकितौ" "मिदचोऽन्त्यात्परः" इत्येताभ्यां स्थानेयोगत्वमेव बाध्येत । तुल्यजातीयतया संबन्धस्यैव बाध्यत्वात् । षष्ठीस्वरूपं तु अन्त्येऽलि व्यवस्थितमेवेति । अनुसंहारस्तु "आदेः परस्य" "अनेकाल्शित् सर्वस्य" इत्यनुसंहारान्तरेण बाध्यतइति न दोषः ।

ङिच्च 52 ।

अनेकालपि ङिदन्त्यस्यैवादेशः स्यात् । दध्ना । "अस्थिदधि" इति इकारमात्रस्यानङ्‌ । न चैवं तातङोऽप्यन्त्यादेशत्वापत्तिः । अनन्यार्थङित्त्वेष्वनङादिषु चरितार्थस्यास्य तातङि परत्वाद् "अनेकाल्‌शित् सर्वस्य" इत्यनेन बाधात् । न चोत्सर्गापवादयोः कथं विप्रतिषेध इति वाच्यम् । गुणवृद्धिप्रतिषेधार्थत्वेन ङित्त्वोपपत्त्या तत्रैतस्य प्रवृत्त्यनवधारणात् ।
न च सर्वादेशत्वं विना प्रत्ययत्वाभावात् गुणवृद्धिप्रतिषेधार्थत्वमेव दुर्लभम्, तथा चान्योन्याश्रय इति वाच्यम् । "एरुः" इत्यनन्तरं तादित्यादेशे कर्त्तव्ये ङित्करणस्य गुणवृद्धिप्रतिषेधार्थत्वनिर्णयात् ।

आदेः परस्य 53 ।

पञ्चमीनिर्देशेन यद्विहितं तदादेरलो बोध्यम् । ईदासः । "तस्मादित्युत्तरस्य" इत्युपतिष्ठते । तेन आकारस्येकारः । आसीनः । द्विर्गता आपोऽस्मिन्निति द्वीपम् । "ऋक्‌पूरब्धूः" इत्यकारः समासान्तः । "द्व्यन्तरुपसर्गेभ्यः" इति द्व्यादिभ्यः परस्यापशब्दस्य विधीयमानमीत्वमादेरकारस्य सिद्धम् ।
स्यादेतत् । "तस्मादित्युत्तरस्य" इति सूत्रे उत्तरशब्दस्य "आदेः परस्य" इत्यत्र परशब्दस्य च ग्रहणे गौरवात् "तस्मादित्युत्तरस्यादेः " इत्येव न्यासोऽस्तु । तत्र च आदेरिति पृथग्‌ वाक्यम् । "उत्तरस्य" इत्यनुवर्तते । सा च षष्ठीस्थानेयोगा । अनुवादे परभाषाऽनुपस्थानेऽपि स्थाने इत्यस्यानुवृत्त्याऽन्यत्र फलाभावाद्वा तल्लाभात् । तथा च पञ्चमीनिर्द्देशेन यत्कार्यं तदुत्तरस्य सम्बन्धि उत्तरस्य स्थाने विधीयमानमादेर्बोध्यमित्युभयैकवाक्यतयाऽर्थः । वाक्यभेदसामर्थ्याच्च "गाङ्‌कुटादिभ्यः" इत्यादौ द्वितीयांशवैकल्येऽपि प्रथमवाक्यार्थमात्रस्य प्रवृत्तिः । न च वाक्यभेदे मानाभावः । "उत्तरस्यादेः" इत्यसमासनिर्द्देशस्य मानत्वात् । अन्यथा उत्तरादेरित्येवावक्ष्यत् । न चैवम् प्रथमांशविकलस्य द्वितीयांशस्यापि स्वातन्त्र्येण प्रवृत्त्यापत्तौ "नित्यं ङितः" इत्यत्र सकारान्तस्य ङिदुत्तमस्य लोपः स्यादिति विधाने भवेव भवेम भूयास्व भूयास्मेत्यादौ उत्तमपुरुषेकारवकारादेर्लोपः स्यात्, न तु अलोऽन्त्यपरिभाषयाऽन्त्यस्य सकारस्येति वाच्यम् । द्वितीयवाक्यार्थबोधकाले प्रतमवाक्यार्थबोधस्योत्पत्त्या तत्त्यागे मानाभावेन प्रथमांशविकलस्य प्रवृत्त्यनुपपत्तेः । प्रत्यासत्त्या पूर्ववाक्यप्रापितस्यैवादेशस्य ग्रहणाच्च । तथा च "तस्मादित्युत्तरस्य" इति सूत्रएव आदेरिति पदमधिकं पाठ्यम् । "आदेः परस्य" इति च त्याज्यमित्यर्थः । न च "अनेकाल्‌शित् सर्वस्य" इति सूत्रात्पूर्वमेवोक्तन्यासोऽस्त्विति वाच्यम् । निर्दिष्टग्रहणानुवृत्त्यनापत्तेः । उक्तरीत्या तु " तस्मिन्निति निर्दिष्टे पूर्वस्य" इति सूत्रात्तदनुवृत्तिरिति वैषम्यम् । न च तस्याप्यत्रैवापकर्षोऽस्त्विति वाच्यम् । तथाऽपि "ङिच्च" इत्यादिसाहचर्येण सप्तमीपञ्चमीनिर्देशे षष्ठीनिर्द्दिष्टयोः पूर्वपरयोः स्थाने कार्यं बोध्यमित्यर्थप्रसङ्गात् । "सार्वधातुकार्द्धधातुकयोः" "गाङ्कुटादिभ्यः" इत्यादौ च दोषस्योद्भटत्वात् ।
अन्ये तु तथा सति "अनेकाल्‌शित् सर्वस्य" इत्यनेन "तस्मादित्युत्तरस्य" इत्यस्य बाधः स्यात्, परत्वात् । ततश्च ब्राह्मणा अष्टावित्यत्र अष्टन्‌शब्दात् पूर्वयोर्जश्शसोरौशादेशापत्तिरिति वदन्ति ।
अपरे तु नेदं युक्तम् । जश्शस्भ्यामाक्षिप्तप्रकृतेरङ्गस्य च संनिधानादष्टन्नित्यस्यैव ग्रहणात् । "सर्वस्य" इत्यस्य प्रवृत्तावपि पूर्वस्य परस्य वेति सन्देहावश्यकत्वात् "तस्मादित्युत्तरस्य" इति परिभाषाप्रवृत्तौ बाधकाभावात् । "सर्वस्य" इत्यनेन एकादेशमात्रप्रतियोगिकत्वम्, "तस्मादित्युत्तरस्य" इत्यनेन च पूर्वप्रतियोगिकत्वं व्यावर्त्यमिति विषयभेदेन विरोधाभावाच्च । "तस्मिन्" इति "तस्माद्‌" इति च सूत्रयोरविषये "सर्वस्य" इत्यस्य चरितार्थत्वविरहाच्च । "जराया जरस्" "अस्तेर्भूः" इत्यादौ "तस्मिन्" इत्यस्य "परस्मैपदानां णलतुसुस्" इत्यादौ च "तस्माद्‌ इत्यस्य प्रवृत्तेरित्याहुः ।
तत्रेदं चिन्त्यम् । "अष्टाभ्य औश्‌" इत्यत्र "तस्मादित्युत्तरस्य" इत्यस्यानुपस्थानेऽष्टाभ्यः पूर्वस्य परस्य च जसादेरौशिति वाक्यार्थे द्वयोरपि तदादेशः स्यात् । द्वयोरपि स्थानित्वनिर्णये सन्देहाभावात् "तस्माद्‌" इत्यस्य प्रवृत्तेर्दुर्लटत्वात् । विषयभेदोऽप्ययुक्तः । अत्र ह्यादेरित्यंशस्य विषयसद्भावात्तत्प्रवृत्तौ तेन सह "सर्वस्य" इत्यस्य विरोधोऽस्त्येव । प्रथमांशविकलस्यादेरित्यस्य प्रवृत्त्यनभ्युपगमात्प्रथमांशेन सह "सर्वस्य" इत्यस्य पृथग्विरोधस्यानपेक्षितत्वात् । न च तदेकवाक्यतापन्नस्य प्रथमांशस्य विशिष्टबाधात् "सर्वस्य" इत्यनेन बाधेऽपि पुनः स्वतन्त्रस्यैव प्रवृत्तिरिति वाच्यम् । "गाङ्कुटादिभ्यः" इत्यादौ द्वितीयांशविषयाभावात्तत्र प्रवृत्त्यैव चरितार्थस्य तस्य स्वैकवाक्यतापन्नद्वितीयांशबाधोत्तरं स्वातन्त्र्येण प्रवृत्तौ मानाभावात् । एतेन सूत्रद्वयाविषये "सर्वस्य" इत्यस्य चारितार्थ्याभावोद्भावनमप्यपास्तम् । तदेकवाक्यतापन्नद्वितीयांशनिर्मुक्तस्थले "अस्तेर्भूः" इत्यादौ चरितार्थतायाः स्पष्टत्वात् । केवलस्य "तस्मादित्युत्तरस्य" इत्यस्य "सर्वस्य" इत्यनेन समावेशेऽपि क्षत्यभावात् । तद्विशिष्टद्वितीयांशनिर्मुक्तविषये प्रवृत्त्यैव प्रकृतदोषनिर्वाहात् । तस्मात् "तस्मादित्युत्तरस्यादेः" इति न्यासेऽपि दोषाभाव इति प्राप्ते उच्यते---
एवं सत्यादेरित्यंशः "सर्वस्य" इत्येतद्वाधकः स्यात्, परत्वात् । ततश्च औशित्यादेशः अकारमात्रस्य स्यात् । "सर्वस्य" इत्यस्य "जराया जरस्" इत्यादौ अस्य च "बहोर्लोप" इत्यादौचरितार्थत्वात् ।

अनेकाल्‌शित् सर्वस्य 54 ।

अनेकालादेशः शिच्चेत्यन्यतरः सर्वस्य स्यात् । अस्तेर्भूः । भविता । इदम इश् । इतः । अत्र "हलन्त्यम्" इतीत्संज्ञायां प्रत्ययत्वस्यानपेक्षणात्सर्वादेशत्वं विनाऽपि शित्त्वसिद्धेः । अनेकाल्ग्रहणमपवादप्रतिषेधार्थमिति प्रागुक्तम् ।
यत्तु "जश्शसोः शिः" इति शित उदाहरणम् । तच्चिन्त्यम् । सर्वादेशत्वव्यतिरेकेण शित्त्वस्यैवासिद्धेः । सर्वादेशत्वे हि स्थानिवद्भावेन प्रत्ययसंज्ञा प्रत्ययैकदेशस्य प्रत्ययत्वाभावेन तदादेशस्य प्रत्ययत्वानुपपत्तेः । ततो "लशक्वतद्धिते" इतीत्संज्ञा । ततो लोपः । अनेकाल्‌त्वसम्पादनेन शकारस्य चरितार्थत्वात् । तत एकाल्त्वेऽपि न सर्वादेशत्वक्षतिः । उपजीव्यविरोधात् । तस्मादनेकाल्त्वादेवात्र सर्वादेशः । न चैवमिशादौ अपि अनेकाल्त्वादेव सिद्धौ शिद्ग्रहणवैयर्थ्यम् । "नानुबन्धकृतमनेकाल्त्वम्" इति ज्ञापनार्थत्वात् । तेन "दिव उत्‌" "अर्वणस्तृ" इत्यादौ न सर्वादेशत्वम् ।
अनेकान्ता अनुबन्धा इति पक्षे तु नोक्तज्ञापनं सफलम् । शिद्ग्रहणं तु "घ्वसोरेद्धावभ्यासलोपश्श्च" इत्यत्र "लोपः श्‌" इति छेदे लोपस्य सर्वादेशत्वसम्पत्त्यर्थं संज्ञायां कृतस्य शित्त्वस्य तत्रानुपयोगेन संज्ञिन्युपयोगकल्पनात्, ङमुटष्टित्त्ववत् ।
वार्तिकमते तु "नानर्थकेऽलोऽन्त्यविधिः" इत्येव सिद्धम् । न चानभ्यासविकारइति पर्युदासः । "भृञामित्" इत्यादि भावरूपस्यैव विकारस्योपादानात् । लोपस्य त्वतथात्वात् । अत एव "लोपगमवर्णविकारः" इति पस्पशायां भाष्यं सङ्गच्छते । "द्वौ चापरौ वर्णविकारनाशौ" इति च पृषोदरादिसूत्रे कैयटः ।
यत्तु एकान्तपक्षेऽपि उपदेशावस्थायामेवान्तरङ्गत्वात्संज्ञा, उच्चरितप्रध्वंसिनां स्मर्य्यमाणानामेवानुबन्धानां कार्यनिर्वाहकत्वमिति सिद्धान्तात् । तथा च तृ औत् इत्यादेरादेशस्य प्रवृत्तिवेलायामेकाल्त्वान्न सर्वादेशत्वप्रसङ्ग इत्युक्तज्ञापनस्य वैयर्थ्यं, सुतरां शिद्ग्रहणस्य । न च इश्‌ ईश् इत्यादीनामपि सर्वादेशत्वानापत्तिः । तत्र पूर्वं लोपाप्रवृत्तेः शकारोच्चारणसामर्थ्यात् । न च सर्वादेशे कृतेऽपि प्रयोजनाभावाच्छकारस्य इत्संज्ञाऽनापत्तिरिति हरदत्तौक्तदोषप्रसङ्गः । लोपस्यैव प्रयोजनत्वात् । न चोच्चारणवैयर्थ्यम् । सर्वादेशत्वसंपादनेन सार्थक्यात् । तस्मादिह सूत्रभाष्यकृतोरभिप्रायश्चिन्त्य इति । तच्चिन्त्यम् । स्मर्यमाणऐरेवानुबन्धैः कार्यान्तरस्येवानेकाल्त्बस्यापि प्रसक्तेर्दुर्वारत्वात् ।
यदपि "नानेकाल्‌शिद्‌" इति पठित्वा अन्त्यस्यादेः इति चानुवर्त्यानुसंहारद्वयनिषेधे "सर्वस्य" इति शक्यमकर्त्तुमिति, तदपि चिन्त्यम् । प्रतिपत्तौ गौरवस्य दुर्वारत्वात् । तथा हि---स्थानषष्ठीनिर्द्देशेन विधीयमानं कार्यं विनिगमकाभावादेव सर्वस्य सिद्धम् । तद्बाधित्वा "अलोऽन्त्यस्य" इत्यनेनान्त्यस्य विधीयते । तस्य च "आदेः परस्य" "अनेकाल्‌" इति द्वावपवादौ । "अनेकाल्‌" इत्यस्य "ङिच्च" इत्यपवाद इति वस्तुस्थितिः । उक्तरीत्या न्यासे च अनेकाल् शिच्चादेशोऽन्त्यस्यादेश्च न स्यादिति वाक्यार्थेऽवयवमात्रप्रतियोगिकत्वनिषेधेऽपि पुनर्न्यायसिद्धस्य सर्वप्रतियोगिकत्वस्यानुसन्धानमावश्यकम् । अतो लाघवात् "सर्वस्य" इत्येव युक्तम् ।।

इति श्रीसिद्धान्तसुधानिधौ प्रथमस्याध्यायस्य प्रथमे पादे सप्तममाह्निकम् ।।(1.1.7)


******************---------------------