श्रीसिद्धान्तसुधानिधिः/अध्यायः १-पादः २/आह्निकम् २

← आह्निकम् १ [[../../../]]
आह्निकम् २
[[लेखकः :|]]
आह्निकम् ३ →

अर्थवदधातुरप्रत्ययः प्रतिपदिकम् 45 ।
(1.2.2)

धातुप्रत्ययभिन्नमर्थवच्छब्दरूपं प्रातिपदिकसंज्ञं स्यात् । महासंज्ञाकरणं "को धातुः, कः प्रत्ययः, किं प्रातिपदिकम्" इत्यार्थवणश्रुत्यनुरोधात् । अर्थपदमभिदेयपरम् । संज्ञिविशेषलाभार्थमिदम् । तदुक्तम्---"अर्थवदितिव्यपदेशो वर्णानां मा भूद्" इति । नचाधातुरित्यादिपर्युदासात्तद्‌भिन्नस्यार्थवत एव लाभः । धर्मान्तरप्रयुक्तसादृश्यवतो वारणीयत्वात् । तेन वर्णेषु प्रत्येकं न व्यभिचारः । "वर्णानां च मा भूद्‌" इतिपाठे दशदाडिमाद्यनर्थकपदसमुदायस्य चकारेण समुच्चयः ।
स्यादेतत्---अस्तु वर्णानां संज्ञा । न च स्वादेरापत्तिः । एकवाक्यतया संख्याकर्मादिषु तेषां विधानात् ।
मैवम् । अविशेषेण स्वादीनामुत्पत्तेः । ततोऽर्थनियमः प्रकृतार्थापेक्षो वा प्रत्ययनियम इति अव्ययादिवत्सुपां दुर्वारत्वात् । ततश्च धनं वनमित्यादौ समुदायस्य पृथक् प्रातिपदिकसंज्ञायां तदन्तर्भावात् विभक्तिलोपेऽपि नलोपापत्तिः । न चाधातुरिति निषेधः । प्रत्येकस्माद्विभक्तेरापाद्यत्वात् । तत्र च धातुत्वाभावात् । अर्थवद्ग्रहणपरिभाषाया विशिष्टरूपोपादानविषयकत्वात् । "प्रादूहोढ" इत्यादिवत् ।
यत्तूक्तम्---"संघातस्यैकार्थ्यात् सुबभावो वर्णाद्‌" इति, तद्‌ वर्णानामर्थवत्त्वपक्षे तन्त्रेणैकयैव विभक्त्या समुदायावयवार्थगतैकत्वप्रतीतिसिद्धेः । अनर्थकस्य तु संज्ञायां प्रकाशनीयार्थविरहात् प्रत्येकवर्णादपि स्याद् । अन्यद् विचारितं पस्पशायाम् ।
ननु "सुपो धातुप्रातिपदिकयोः" इत्यत्र धातोः पार्थक्येन ग्रहणात् धातोः प्रातिपदिकसञ्ज्ञाविरहो ज्ञापयिष्यते । अन्यथा पुत्रीयतीत्यादौ प्रातिपदिकत्वादेव लुक्‌सिद्धेः तेन "अहन्‌ वृत्रम्" इत्यादौ न नलोपापत्तिरित्यधातुग्रहणं व्यर्थम् ।
मैवम् । तत्र "अप्रत्यय" इति प्रातिपदिकसंज्ञानिषेधात् तदर्थतया धातुग्रहणोपपत्तेः ।
नच प्रत्ययलक्षणेन "अप्रत्यय" इति संज्ञानिषेधः । "नङिसम्बुद्ध्योः" इत्यनेन लोपे कार्ये प्रत्ययलक्षणमाश्रित्योक्तपर्युदासो न प्रवर्तते इति ज्ञापितत्वात् ।
अप्रत्यय इति किम् । काण्डे, कुड्ये । अत्र विभक्त्यन्तस्य सञ्ज्ञायां 'ह्रस्वो नपुंसके प्रातिपदिकस्य" इति मा भूत् ।
अत्र भाष्ये छिद्‌ भिद्‌ इत्यादौ `अधातुः' इति निषेधात्प्रातिपदिकसंज्ञाविधायकत्वेन कृद्ग्रहणस्य चरितार्थत्वेऽपि तद्धितग्रहणस्य नियमार्थत्वं भविष्यति---एतदन्तस्यैव प्रत्ययान्तस्य संज्ञेति ।
स्यादेतद्---पदानां प्रत्येकं प्रत्ययान्तत्वेऽपि वाक्यस्य प्रातिपदिकसंज्ञा स्यात् । नच तत्र प्रत्ययान्तपर्युदासेन निर्वाहः । `प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य च' इति प्रकृतिप्रत्ययसमुदायस्यैव ग्रहणात् । ननु अर्थवत्त्वाभावादेव तद्वारणम् । अन्वयव्यतिरेकाभ्यां पदानामेवार्थवत्त्वात्, वाक्यस्य चाकाङ्क्षादिलभ्यत्वात् ।
मैवम् । ध्वनिव्यङ्ग्य नित्यं वाक्यं पदार्थसंसर्गरूपविशिष्टवाक्यार्थवाचकम् । अन्यथा वाक्यार्थस्याशाब्दत्वं स्यात् । तथाच वाक्यमेव मुख्यः शब्दः, वाक्यार्थ एव मुख्यः शब्दार्थः । पदपदार्थावस्थापनं तु लाघवार्थं सादृश्यात्कल्पितान्वयव्यतिरेकावाश्रित्य कल्पितम् । प्रतिवाक्यं व्युत्पत्त्यसम्भवात् इति सिद्धान्तात् ।
अत्र वार्तिकम्---
"अर्थवत्समुदायानां समासग्रहणं नियमार्थम्" इति ।
नन्वेवं बहुपटवः, उच्चकैः, नीचकैः इत्यादिकानामपि संज्ञा न स्यात् । द्योत्यवाच्याभ्यामर्थाभ्यां प्रत्ययस्य प्रकृतेश्चार्थवत्त्वात् अर्थवत्समुदायत्वरूपप्रतियोगितावच्छेदकधर्मावच्छिन्नत्वात् ।
नच संज्ञाविरहे यथा स्वाद्युत्पत्तिर्न भवति, तथा पूर्वोत्पन्नविभक्तिलोपोऽपि न भविष्यति इति तयैव सिद्धिरिति वाच्यम् । स्वरे दोषप्रसङ्गात् ।
तथाहि--"चित" इति सूत्रे "चितः सप्रकृतेः बह्वकजर्थम्" इतिवचनात्प्रकृतिमन्तर्भाव्य चित्स्वरो विधीयते । तथाच `पटव' इति जसन्तस्य बहुचं प्रति प्रकृतित्वात् जसकारस्योदात्तत्वं स्यात् । पूर्वोपन्नसुपो लोपे तु पुनरुत्पन्नविभक्तेः प्रकृतावनन्तर्भावाट्टाकारस्योदात्तत्वमिति सिद्धमिष्टम् । उच्चकैरित्यादावपि अकज्वतः समुदायाद्विभक्त्यभावे पदत्वाभावाद् `उच्चकैः पठति' इत्यादौ "तिङ्‌ङतिङ" इति निघातानुपपत्तिः, पदादित्यधिकारात् । तन्मध्यपतितन्यायस्यानाश्रयणेनेदम् । तस्मात्प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसंज्ञा भवत्येवेति ज्ञापनार्थम् अप्रत्यय इति वक्तव्यम् ।
नचैवं बहुपटव इत्यादेरपि निषेधापत्तिः । प्रत्ययान्तस्यैव प्रतिषेधात् ।
न च `संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणाभावः' । यत्र संज्ञा विधेया तत्रैव तन्निषेधात् । अत्र तु संज्ञाप्रतिषेध इति वैषम्यात् ।
न च जसन्तं बहुपटव इत्येतदपि प्रत्ययान्तमेवेति वाच्यम् । पटुशब्दादेव जसुत्पत्तेः, समुदायस्य तदन्तत्वाभावात् ।
न च न विद्यते प्रत्ययो यस्मिन् इति बहुव्रीहिणा प्रत्ययादेरपि बहुपटव इत्यस्य निषेधः स्यादिति वाच्यम् । वर्त्तिपदार्थप्राधान्येन तत्पुरुषस्यान्तरङ्गत्वात् ।
अत्र भाष्यम्---तुल्यजातीयस्यैव समासग्रहणेन नियमः क्रियते सुबन्तानामेव समासविधानात् ।
न चाश्वक्रीतीत्यादौ "गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः" इतिवचनादसुबन्तेनापि सुबन्तस्य समासोऽस्तीति वाच्यम् । भेदसंसर्गद्वारकार्थवत्त्वयुक्तानामित्यर्थादिति कैयटः ।
तथाच प्रकृतिप्रत्ययभावानापन्नसमुदायस्य समासभिन्नस्योक्तनियमेन व्यावृत्तिरिति फलितम् ।
एतेनोक्तदोषभिया प्रत्ययान्तप्रतिषेधसामर्थ्यात्प्रकृतिप्रत्ययसमुदायस्य संज्ञा भवत्येवेति न्यासग्रन्थो यथाश्रुतपरत्वेन व्याख्यातः ।
केचित्तु---यत्र संघाते पूर्वो भागः पदम् उत्तरस्तु न प्रत्ययस्तस्य व्यावृत्तिः । बहुपटव इत्यत्र पूर्वभागस्य पदत्वाभावान्न दोषः । जन्मवानित्यादौ तूत्तरभागस्य प्रत्ययत्वात् । न च तद्धितग्रहणसामर्थ्यम् । औपगव इत्यादौ पूर्वस्य भसंज्ञया तत्र चरितार्थत्वात् । न चान्तर्वर्त्तिविभक्तिमाश्रित्य पदसंज्ञा । तुल्यावधिकया भसंज्ञया तद्बाधात् । न च `अयमियान्' इत्यादिसमुदायस्य संज्ञाप्रसङ्गः पूर्वभागस्य पदत्वेऽप्युत्तरस्य प्रत्ययत्वादुक्तनियमेन तत्र प्रवृत्त्यभावादिति वाच्यम् । तद्विहितत्वस्यापि प्रत्ययविशेषणत्वात् । तद्विहितत्वाभावाप्रयुक्तविशिष्टाभावस्य तत्राप्यनपायादित्याहुः ।
न च सुप्तिङ्‌समुदायस्य संज्ञापत्तिः । "जहिकर्मणा बहुलमाभीक्ष्ण्ये कर्त्तारं चाभिदधाति" इत्यस्य नियमार्थत्वात् । यद्यपि समाससंज्ञा समासान्तोदात्तार्था तथापि समासत्वादेव प्रातिपदिकत्वमिति तत्तुल्यजातीयताप्रतिपादनार्थमेतदुक्तमिति कैयटः ।
न च `पश्य धावति' इत्यादेस्तिङ्‌समुदायस्य तदापत्तिः । "आख्यातमाख्यातेन क्रियासातत्ये" इत्यस्य नियमार्थत्वात् । तस्मात्समासग्रहणेन तुल्यजातीयानां सर्वेषां वाक्यानां नियमान्निवृत्तिरिति सिद्धम् ।
अत्र वदन्ति---नैयायिकमते समासस्य शक्तिलक्षणोभयरहितत्वादर्थवत्त्वाभावादप्राप्तसंज्ञाविधायकत्वे बहुपटव इत्यादेरसिद्धिः, तद्धितान्तत्वाभावात्समासत्वाभावात् ।
न च तद्धितग्रहणं तद्विशिष्टपरमिति वाच्यम् । पचतकीत्यादावतिव्याप्तेरिति । तन्न । पदार्थद्वयस्य विशेष्यत्वप्रकारत्वाभ्यामन्वयात् यत्र विशिष्टार्थलाभस्तादृशसमुदायस्यैव तैरनर्थकत्वोपगमात् । बहुचस्तु स्वार्थिकप्रत्ययत्वेन पटुशब्दस्यैव तादृशार्थकत्वात् ।
तथाच अयं विशेषः---वैयाकरणानां वाक्यसमासयोरपि बहुपटव इत्यादिवदर्थवत्त्वात्समासग्रहणस्य नियमार्थत्वाद् वाक्यवद्बहुपटव इत्यादेरपि व्यावृत्तिप्रसक्तौ तद्व्यावृत्तं नियमप्रतियोगितावच्छेदकं रूपमाश्रित्य वाक्यस्य संज्ञा वार्यते ।
नैयायिकानां तु समासस्य विशेषविधानात्संज्ञा न तु वाक्यस्य, विशेषविध्यभावाद् । अर्थवत्त्वाभावेन सामान्यविधेरप्रवृत्तेश्च । बहुपटव इत्यादेस्तु उभयमतेऽप्यर्थवत्त्वादेव प्रातिपदिकसंज्ञेति ।
यदप्युक्तम्---समासग्रहणस्य नियमार्थत्वाभावे `मूलकेनोपदंशम्' इत्यादौ समुदायस्य प्रसङ्गः । कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणात् । वैयाकरणमते तु समासग्रहणकृतनियमेन परत्वात्तद्बाधात् । एवञ्च "कृतद्धित" इति सूत्रे कृद्ग्रहणपरिभाषा नोपतिष्ठते एव फलाभावादिति ।
तदप्यसत् । विधिमुखेन नियमप्रवृत्तौ निषेधस्याक्षेप्यत्वात् प्रत्यक्षविधिनां समं विप्रतिषेधायोगात् । आक्षेप्यापेक्षया प्रत्यक्षस्य बलवत्त्वात् । निषेधस्य समासभिन्नपरताया इव कृद्भिन्नपरताया अप्यवश्यं कल्पनीयत्वात् ।
निषेधमुखेन प्रवृत्तिरिति पक्षेऽपि कृद्ग्रहणपरिभाषया कारकपूर्वस्यापि प्रातिपदिकसंज्ञायां सिद्धायां परेणापि नियमेन व्यवच्छेदो न स्यात् । कारकपूर्वस्य प्रातिपदिकसंज्ञाविधेरन्यत्र सावकाशत्वाभावात् सावकाशनिरवकाशयोर्विप्रतिषेधानुपपत्तेः ।
न च नियमानुरोधात्तदप्रवृत्तिः । नियमस्य कृद्भिन्नपरत्वम्, कृद्ग्रहणपरिभाषासङ्कोचो वा कल्प्यते इत्यत्र नियामाकाभावात् । परिभाषाया अप्रवृत्तौ नियमस्य कृत्साधारण्यम्, तत्सिद्धौ तत्परिभाषाया अप्रवृत्तिरित्यन्योऽन्याश्रयापत्तेश्च । प्रत्युत तस्याः प्रथमोपस्थितिकतया कारकपूर्वस्य संज्ञासिद्धौ नियमस्य तद्भिन्नपरताया एव युक्तत्वात् ।
अथ एव "कृत्तद्धित" इत्यत्र कृद्ग्रहणपरिभाषोपस्थाने `मूलकेनोपदंशम्' इत्यत्र समासाभावपक्षेऽपि तृतीयाया लुक् स्यात् । न च समासविकल्पविधिवैयर्थ्यम् । `दधिउपदंशम्' इत्यत्र शाकलप्रकृतिभावार्थतया तदुपपत्तेः । अन्यथा "अमैवाव्ययेन" इति नित्यसमासापत्त्या "सिन्नित्यसमासयोः प्रतिषेधो वक्तव्यः" इति शाकलप्रकृतिभावनिषेधापत्तेरिति कैयटेन चतुर्थे उक्तम् । "गतिकारकोपपदात्कृत्" इति उत्तरपदप्रकृतिस्वरविरहार्थं तया तदुपपत्तिरिति च सीरदेवेनोक्तम् । परत्वान्नियमेन तत्संज्ञाबाधमनभिधाय कृद्ग्रहणपरिभाषाया अप्रवृत्तेरेव तेन प्रथममुक्तत्वात् ।
तथाहि प्रष्ठीत्यादौ समासात्प्रागेव "पुंयोगाद्" इत्यादिवचनैर्ङ्यादिप्रत्ययः स्यादित्याशङ्क्य प्रष्ठादिसमुदायस्य प्रातिपदिकत्वाभावात्स्त्रीप्रत्ययानुपपत्तिरित्युक्त्वा कृद्ग्रहणपरिभाषया समुदायस्य कृदन्तत्वात्संज्ञा स्यादित्याशङ्क्य अप्रत्यय इति पर्युदासात्प्रत्ययान्तस्य प्रातिपदिकसंज्ञाया अप्राप्तावपि कृद्ग्रहणेन कृदन्तस्य संज्ञा न तु गतिकारकपूर्वस्यापीत्युक्तम् । तस्मात्समासे कृते तन्निबन्धनप्रातिपदिकसंज्ञया स्त्रीमत्यय इति तद्ग्रन्थार्थः । अतस्तत्र कृद्ग्रहणपरिभाषा नोपतिष्ठते इत्युभाभ्यामुक्तम् ।
तस्मादेवं समाधेयम्---
"कृत्तद्धित" इत्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविध्यभावेऽपि अर्थवदित्यस्यानुवृत्त्या प्रक्रियादशायामन्वयव्यतिरेकाभ्याङ्कल्पितामर्थवत्तामाश्रित्य प्रकृतिप्रत्यययोर्मिलित्वा यदर्थबोधकत्वं तदर्थबोधकसमुदायस्य प्रातिपदिकसंज्ञेति तावद्भाष्यादावेव स्पष्टम् । ततश्च नैयायिकमतेऽपि अर्थवद्ग्रहणानुवृत्त्या प्रकृतिप्रत्ययसमुदायस्यैव विधानसामर्थ्यात्संज्ञा न तु कारकपूर्वस्यापि । अधिकग्रहणे प्रमाणाभावात् । तद्बलात्परिभाषाया एव प्रवृत्त्यभावात् ।
वस्तुतो नात्र तत्परिभाषाऽवकाशः । "गतिरनन्तर" इत्यत्र तस्या ज्ञापयिष्यमाणत्वात् । प्रत्येकपूर्वस्यैव ग्रहणमिति तदर्थात् । उभयपूर्वस्य युगपदनुपादानात् । अवतप्तेनकुलस्तितम्, उदकेविशीर्णमित्यादौ तथैव दर्शनाच्चेति दिक् ।
नन्वेतत्सूत्रं व्यर्थम्, व्युत्पत्तिपक्षे कृदन्तत्वादेव सर्वत्र सिद्धेरिति चेन्न । अव्युत्पत्तिपक्षे सार्थक्यात् । तत्र चेदमेव ज्ञापकमिति प्राञ्चः ।
निरुक्तेऽप्युक्तम्---"नामान्याख्यातजानीति शाकटायनः, नैरुक्तसमयश्च, न सर्वाणीति गार्ग्यो वैयाकरणानाञ्चैके" इति ।
व्युत्पत्तिपक्षेऽपि निपातार्थमनुकरणार्थञ्चेति हरदत्तोक्तं तु चिन्त्यम् । तत्रापि प्रकृत्यादिकल्पनसम्भवात् ।
वस्तुतस्तु व्युत्पत्तिपक्षेऽपि बहुपटव इत्याद्यर्थं सूत्रम् । न चैवं बहुच्पूर्व इत्येव सूत्र्यतामिति वाच्यम् । मूलकेनोपदंशमित्यादौ कृदन्तत्वेनातिप्रसङ्गात् । अर्थवत्सूत्रं विना समासग्रहणस्य नियमार्थत्वायोगादिति दीक्षिताः ।
तदसत् । भेदविवक्षायामनुकरणानां प्रकृत्यादिकल्पेन मानाभावात् ।
अयं तु विशेषः । भेदविवक्षापक्षेऽनुकार्येणार्थवत्त्वात्प्रातिपदिकसंज्ञा "भुवो वुग्‌" इत्यादिवत् । अभेदविवक्षायां तु न, गवित्ययमाहेत्यादिवत् । मूलकेत्यादावतिप्रसङ्गस्य च निरस्तत्वात् ।

कृत्तद्धितसमासाश्च 46 ।

कृदन्ततद्धितान्तसमासाः प्रातिपदिकसंज्ञाः । प्रत्ययान्तप्रतिषेधस्य पूर्वमुक्तत्वात्तदपवादस्यास्य प्रत्ययान्त एव प्रवृत्तेः, "संज्ञाविधौ" इत्यस्य नात्र प्रवृत्तिरिति न्यासकारः । लिट्‌ धुक् इत्यादौ अधातुरिति, कर्तेत्यादौ प्रत्ययान्तमिति पर्युदासे प्राप्तेऽयमारम्भः । समासग्रहणं च नियमार्थमिति व्याख्यातम् ।
ननु समासस्य प्रत्ययान्तत्वादप्राप्तविधिरयं स्यात् । मैवम् । प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात् । न च "स्त्रीप्रत्यये चानुपसर्जनेन" इत्यनुपसर्जनस्त्रीप्रत्यये तदादिनियमाभावाद् `राजकुमारी' इत्याद्यर्थं स्यादिति वाच्यम् । अन्तरङ्गस्यापि हल्‌ङ्यादिलोपस्य लिग्विषये प्रवृत्त्यभावात्, श्रूयमाणे एव सुपि समासप्रवृत्तेः, `परिहृत्यापवादविषयम्' इतिन्यायात् । तत्राप्रत्ययान्तत्वेन समासवाक्ये प्रवृत्तायाः संज्ञाया एकदेशविकृतन्यायेन विभक्तिलुक्यपि सुलभत्वात् । अत एव गोमत्प्रियः इत्यादौ न नुमादयः । लुका लोपे प्रत्ययलक्षणाभावात् ।
ननु तथाऽप्यसमर्थसमासे विध्यर्थं स्यात् । मैवम् । अर्थवदित्यनुवृत्तेः, तस्य चानर्थकत्वात् । न चैवं तत्र संज्ञाऽऽनापत्तिः । धर्मिग्राहकमानेन तत्सिद्धेः । "असूर्यललाटयोः" इत्यनेन ह्यसूर्यशब्दे उपपदे खश्‌ । विभक्त्यन्तं विना च उपोच्चारितपदरूपोपपदत्वानुपपत्तेः ।
स्यादेतत् । शशविषाणादिसमासार्थमयमपूर्वविधिः । तेषामनर्थकत्वात् । ननु शशपदं शशसबन्धाभाववत्परम् । तस्याभेदेन विषाणान्वयः । तथा च शशसम्बन्धाभाववदभिन्नं विषाणमित्यर्थवदेव तदिति वाच्यम् । शशविषाणं नास्तीत्यस्यायोग्यत्वापत्तेः ।
अतएव विषाणे शशसम्बन्धाभावनिश्चयदशायां शशविषाणनिर्मितं कार्मुकमिति वाक्यान्न शाब्दधीरित्यभियुक्तः ।
अत एव---
एष वन्ध्यासुतो याति खपुष्पकृतशेखरः ।
मृगतृष्णाऽम्भसि स्नातः शशशृङ्गधनुर्द्धरः ।।
इत्यादेरपार्थकत्वमिति क्षीरस्वाम्यादिभिरुक्तम् । अत एव `सङ्गतिग्रहणआभावाच्छशशृङ्गादिपदानामबोधकता' इति बौद्धाधिकारदीधितावुक्तम् ।
मैवम् । "शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः" इति पातञ्जलसूत्रात् शशविषाणादेरलीकस्यापि शब्दबोध्यत्वात् । अनेन पदेनालीकं बोध्यमिति वृत्तेस्तत्र स्वीकाराच्च । अत एव `गगनकमलस्यापि शब्दाभासप्रतिपन्नत्वाद्' इति लीलावत्यामुक्तम् ।
अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि । इति---
खणअडनकारोक्तेश्च ।
वस्तुतस्तु तन्निष्ठात्यन्ताभावप्रतियोगिनि शशपदस्य लक्षणा । ततश्च तदर्थेनार्थवत्वात्प्रातिपदिकसंज्ञा । `शशसम्बन्धविशेषवद्विषाणम्' इतिधीस्तु भ्रमादेव । एतेन शशविषाणं नास्तीत्यपि व्याख्यातम् । शशसम्बन्धविशेषस्यैव तत्र प्रतियोगितावच्छेदकताया भ्रमविषयत्वात् । अत एव `शशादिप्रत्येकपदार्थव्युत्पन्नस्य शशविषाणादिपदात्तदर्थप्रत्ययप्रसङ्गाद्' इति दीधितावुक्तं विशिष्टस्यार्थवत्त्वं नास्तीत्यभिप्रायात् ।
अयं तु विशेषः---तादृशार्थविशेषशक्तस्य शशविषाणादिसमासस्य कदाचिच्छक्तिभ्रमादन्यथाबोधकत्वमिति ।
प्राञ्चस्तु खपुष्पशशशृङ्गादिशब्दानामभाववचनत्वादर्थवत्त्वम् ।
तथाहि---खे पुष्पं नास्तीति विग्रहे नञर्थान्तर्भावः । विग्रहे नास्तीति कथनं समासार्थविवरणार्थम् । समासोत्तरं नास्तीति पदजातं त्वनुवादमात्रम् । स्पष्टं चैतन्मीमांसावार्त्तिकादावित्याहुरिति दिक् ।

ह्रस्वो नपुंसके प्रातिपदिकस्य 47 ।

अजन्तस्य प्रातिपदिकस्य नपुंसके ह्रस्वः । श्रीपम् । ह्रस्वश्रुत्या "अच" इत्युपस्थितौ तदन्तविधिः । प्रातिपदिकसम्बन्धिनोऽच इत्यन्वये तु वैयधिकरण्यम्, सुवाक् कुलमित्यादावतिव्याप्तिश्च स्यात् ।
न च नपुंसकपदेनैव प्रातिपदिकाक्षेपसम्भवात्तदुपादानवैयर्थ्यम् । काण्डे कुड्ये रमते ब्राह्मणकुलमित्यादिव्यावृत्त्यर्थत्वात् । साधनाश्रयसंख्यावत्तल्लिङ्गस्याप्युपादानसंभवात् ।
नचोक्तन्यायेन `दोषा ब्राह्मणकुलम्' इत्यादौ सहचरितत्वाद्दोषाशब्दस्यौपचारिकत्वेऽव्ययस्यापि ह्रस्वापत्तिः प्रातिपदिकत्वादिति वाच्यम् । `दोषा दिवा' इति शब्दौ हि रात्रावहनीति सप्तम्यर्तविशिष्टार्थौ । ब्राह्मणकुलसाधानानां क्रियाणां अधिकरणं कालो भवन् ब्राह्मणकुलस्याधिकरणम्---`दोषा दृश्यते चरत्यधीते वा' इति । आधेयव्यवधानेनाधिकरणस्य क्रियाधारत्वात् । ततश्चाव्ययं नपुंसकस्याधिकरणमेव न तु नपुंसकमिति ।
ननु काण्डीभूतं ब्राह्मणकुलमित्यादौ प्रकृतिविकृत्योरभेदविवक्षायां च्विप्रत्ययान्तस्यापि नपुंसकत्वादतिव्याप्तिरिति । नच कृते ह्रस्वे "च्वौच" इति दीर्घो भविष्यतीति वाच्यम् । अन्तरङ्गे दीर्घे बहिरङ्गस्य ह्रस्वत्वस्यासिद्धत्वात् । एवं रमते इत्यत्रापि ह्रस्वत्वे टेरेत्वं नेति योज्यमिति चेन्न ।
असत्त्ववाचित्वादव्ययस्य नपुंसकत्वाभावात् । एतेन तिबन्तमपि व्याख्यातम् । शक्त्याश्रयद्रव्यनिष्ठसंख्याप्रतिपादकस्याप्याख्यातस्य तदीयलिङ्गप्रतिपादने सामर्थ्यविरहात् । शब्दशक्तिस्वाभाव्यात् । `काण्डे तिष्ठतः' इत्यत्रापि नपुंसकत्वाभावः, संख्यायाः प्राधान्यात् । अवयवधर्मण समुदायस्य नपुंसकत्वव्यपदेशे तु काण्डे कुड्ये इत्यत्र स्यात् । प्रातिपदिकविभक्त्योरेकादेशस्य प्रातिपदिकग्रहणेन ग्रहणात् `ह्रस्वो नपुंसके यत्तस्य' इति कर्त्तव्यं स्यात् । साक्षात्तस्यैव यदा नपुंसकत्वं तदा ह्रस्वो न त्ववयवद्वारके तस्मिन्निति तदर्थः ।
अथवा तस्यैवानुपजातव्यतिरेकस्येत्यर्थः । विभक्त्यन्तं चोपजातव्यतिरेकमिति नातिप्रसङ्गः ।
सूत्रकारस्य त्वयमभिप्रायः---मुख्यमेवात्र नपुंसकवृत्ति प्रातिपदिकं गृह्यते । अन्तवद्भावातिदेशात्तु प्रातिपदिकत्वं न मुख्यमिति । युगवरत्राय, युगवरत्रार्थम्, युगवरत्रेभ्य इत्यादौ तु न ह्रस्वः । बहिरङ्गत्वाद्दीर्घादीनामसिद्धत्वात् । एवमतिखट्वायेत्यादौ उत्तरसूत्रेण ह्रस्वोऽपि नेति व्याख्येयम् ।

गोस्त्रियोरुपसर्जनस्य 48 ।

उपसर्जनेति गोस्त्रियोः, तेच प्रातिपदिकस्य विशेषणम् । तेन तदन्तविधिः । "ग्रहणवता प्रातिपदिकेन" इति निषेधस्य प्रत्ययविधिमात्रविषयकत्वात् । तथा चोपसर्जनभूते ये गोस्त्रियौ तदन्तं यत्प्रातिपदिकं तस्य ह्रस्वः स्यात् । "अलोऽन्त्यस्य" । निष्कौशाम्बिः, अतिखट्‌वः । "एकविभक्ति च" इत्युपसर्जनत्वम् । चित्रगुः । प्रथमानिर्दिष्टत्वात् ।
स्यादेतत् । अतिश्रीः, अतिलक्ष्मीरित्यादौ ह्रस्वत्वं स्यात् । मैवम् ।
अत्र वार्त्तिकम्---
"गोटाङ्ग्रहणं कृन्निवृत्त्यर्थम्" ।
कृत्स्त्रीणां धातुस्त्रीणां चेत्यर्थः । टाङिति टापमारभ्य ष्यङो ङकारेण प्रत्याहारः । तथा च कृदन्तस्त्रीणां तद्बहिर्भावान्न दोषः ।
भाष्यकारास्त्वाहुः---स्त्रीग्रहणं स्वरितमाश्रित्य "स्त्रियाम्" इत्यधिकारे विहिता एव प्रत्यया गृह्यन्ते ।"स्वरितमाश्रित्य" इति सूत्रस्य यत्र स्वरितत्वं तत्र तदधिकारोपादानमिति, अस्यापिव्याख्यास्यमानत्वात् ।
नन्वेवं राजकुमारीमतिक्रान्तोऽतिराजकुमारिरित्यादौ ह्रस्वो न स्यात् । प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्यैव ग्रहात् । कुमारशब्दस्य ङीप्रकृतित्वात्कुमारीशब्दस्यैव स्त्रीप्रत्ययान्तत्वान्न तु राजकुमारीशब्दस्येति चेन्न । स्त्रीप्रत्यये तदादिनियमाभावात् । अत एव परमकारीषगन्धीपुत्र इत्यत्र "ष्यङः संप्रसारणम्" इत्यस्य प्रवृत्तिः ।
ननूपसर्जनस्त्रीप्रत्यये तदादिनियमोऽस्त्येव अन्यथाऽतिकारीषगन्ध्यापुत्र इत्यत्रापि सम्प्रसारणापत्तेः ।
अत्र कैयटः---`क्वचिदुपसर्जनस्त्रीप्रत्ययेऽपि तदादिनियमो नास्ति हल्‌ङ्यादिसूत्रे दीर्घग्रहणात् । अन्यथा निष्कौशाम्बिः, अतिखट्व इत्यादौ उपसर्जनत्वात् ङ्याबन्ताभावादेव सुलोपानापत्त्या तद्वैयर्थ्यापत्तेः ।
नन्वेवं कुम्भकारीशब्दादपि स्त्रीभ्यो ढगुत्पत्त्या कौम्भकारेयसिद्धौ "अनुपसर्जनाद्" इत्यत्र तत्सिद्धिर्न स्यादिति भाष्यविरोध इति चेन्न । तत्र तदादिनियमाभावे कदाचित् कारीशब्दादपि तदापत्तेरिति तदाशयादिति ।
न्यासकारस्त्वाह---`अङ्गसंज्ञासूत्रे योगविभागलभ्येयं परिभाषा । तत्र "वाऽऽमि" इत्यत्राव्यवस्थितविभाषार्थस्य वाशब्दस्यानुवृत्तिमाश्रित्यात्र तत्प्रवृत्तिर्नेति व्याख्येयम् ।
यद्वा "कृत्तद्धित" इत्यतोऽनुक्तसमुच्चयार्थश्चकारोऽनुवर्त्त्यः, इति ।
स्यादेतत् । गोकुलमित्यादावतिप्रसङ्गः । कुमारीपुत्र इत्यत्र कुमारीशब्दस्य प्रत्ययान्तत्वादप्रातिपदिकत्वेऽपि राजकुमारीशब्दस्य समासप्रातिपदिकत्वाद्राजकुमारीपुत्र इत्यत्रापि अतिप्रसङ्ग एव । खट्वायादो मालायाद इत्यादौ तु न तच्छङ्का, उभयत आश्रयेऽन्तादिवद्भावनिषेधात् । अत्र हि प्रातिपदिकं स्त्रीप्रत्ययश्चाश्रीयते---स्त्रीप्रत्ययान्तं यत्प्रातिपदिकमिति । एकादेशश्च यदि प्रातिपदिकस्यान्तवत्तदा स्त्रीप्रत्ययस्यान्तत्वं नास्ति, अथ स्त्रीप्रत्ययस्यादिवत्तदा प्रातिपदिकत्वं नास्तीति ।
मैवम् । गोकुलमित्यादौ तदन्तत्वाभावात् प्रातिपदिकेच व्यपदेशिवद्भावस्य निषेधात् ।
ननु "येन विधिः" इति सूत्रे "रोण्या अम्‌" "तस्य च" इति वार्त्तिककृतोक्तत्वात् "स्वं रूपम्" इत्यस्यानुवृत्तिरिति लभ्यते । तथा च गोऽन्तत्वाभावेऽपि गोशब्दस्वरूपसत्त्वादेव गोकुलमित्यादौ ह्रस्वः स्यात् ।
मैवम् । "स्वं रूपम्" इत्यस्याननुवृत्तेः । आद्यन्तवत्सूत्रे "येन विधिस्तदन्तत्वे प्रयोजनम्" इति वार्त्तिकोक्तेः ।
न च तथापि "तस्य च" इति वार्त्तिकादेव गोकुलमित्यत्र ह्रस्वापत्तिः । तस्य वार्त्तिकमाक्षशेषत्वात् ।
नापि द्वितीयः । उपसर्जनं यः स्त्रीप्रत्ययस्तदन्तस्योपसर्जनस्येत्युक्त्या यत्प्रतियोगिकं यस्योपसर्जनत्वं तत्प्रतियोगिकस्यैवान्तत्वस्य लाभात् । राजकुमारीशब्दस्य तु पुत्रपदेन यः षष्ठीसमासस्तन्निरूपितोपसर्जनत्वसत्त्वेऽपि तन्निरूपितान्त्यत्वाभावात् । अन्यथा "पूर्वपदप्रतिषेधः" इति वार्त्तिकारम्भेऽप्यनिर्वाहात् । पञ्च कुमार्यः प्रिया अस्येति त्रिपदे बहुव्रीहावाद्यपदद्वयस्य "तद्धितार्थोत्तरपद" इति द्विगुसमासे कुमारीशब्दस्य पूर्वपदत्वाभावात् ह्रस्वापत्तेः । भिन्नप्रतियोगिकयोरन्तत्वोपसर्जनत्वयोः सत्त्वात् । एतेन अगोपुत्र इत्यपि व्याख्यातम् ।
अथ तथाऽपि द्वन्द्वस्य प्रतिषेधो वक्तव्यः । कुक्कुटमयूर्यावित्यत्र समासार्थेऽवयवार्थस्योपसर्जनत्वाद्‌, "अनेकम्" इत्यनुवृत्त्या प्रथमानिर्दिष्टत्वाच्च मयूरीशब्दस्योपसर्जनत्वात्तस्मिन्नेव समासेऽन्त्यत्वाच्च ।
मैवम् । "परवल्लिङ्गम्" इति "शब्दशब्दार्थौ" इति वक्ष्यमाणत्वाल्लिङ्गतदर्थबोधकप्रत्ययोभयातिदेशस्वीकारान्मयूरीशब्दस्योक्तरीत्या ह्रस्वत्वेऽपि द्वन्द्वसमासोत्तरं ङीप्प्रत्ययोपपत्तेः । अवयवार्थयोरेव परस्परसन्निहितयोर्द्वन्द्वार्थत्वमिति प्राधान्यादुपसर्जनत्वाभावाच्च ।
स्यादेतत् । "कपि प्रतिषेधो वक्तव्यः" । बहुकुमारीकः । विषयसप्तमी चेयम् । कपः पूर्वमेवान्तरङ्गत्वात् ह्रस्वप्रवृत्तिप्रसङ्गात् । न च "न कपि" इति प्रतिषेधः । "केऽण" इति प्राप्तेरेव तेन प्रतिषेधाद् । "अनन्तरस्य" इति न्यायात् । अन्यथा प्रियं ग्रामणि यस्य प्रियग्रामणिक इत्यादेरपि निषेधापत्तेः । कुलादिविशेषण त्वाद्ग्ामणिशब्दे क्लीबत्वम् ।
मैवम् । कपः समासान्तावयवत्वात्कपि कृते स्त्रीप्रत्ययान्तस्य समासप्रातिपदिकत्वविरहात् । बहुयवागूक इत्यादौ अतिमाल इत्यादौ च द्वयोः सावकाशतया परत्वात्कप एव प्रवृत्तेः । न चोपसर्जनस्त्रीप्रत्ययान्तप्रातिपदिकमात्रापेक्षं ह्रस्वत्वमन्तरङ्गं कप्तु समासविशेषस्य नद्युत्तरपदबहुव्रीहेः सापेक्षत्वाद्बहिरङ्ग इति वाच्यम् । समासार्थोत्तरपदान्ताः समासान्ता इति पक्षे कपोऽवयवापेक्षत्वात्, ह्रस्वस्य च समुदायापेक्षत्वात् सर्वेभ्यः समासकार्येभ्यः कपोऽन्तरङ्गत्वात् ।
तस्माद्‌ "ईयसो बहुव्रीहेः पुंवद्वचनम्" इत्येव वार्त्तिकमारभ्यम् । बह्व्यः श्रेयस्योऽस्य बहुश्रेयसी । "ईयसश्च" इति कप्प्रतिषेधः । बहुव्रीहेः किम् । श्रेयसीमतिक्रान्तोऽतिश्रेयसिरिति तत्पुरुषे ह्रस्वो यथा स्यात् ।

लुक् तद्धितलुकि 49 ।

स्त्रीप्रत्ययस्य लुक् तद्धितलुकि सति । अभावरूपस्य लुकः परत्वासम्भवात् । पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्रः । "तद्धितार्थ" इति समासः । ततः "साऽस्य देवता" इत्यण्‌ । तस्य "द्विगोर्लुगनपत्ये" इति लुक् । "इन्द्रवरुण---"इत्यादिना विहितस्य ङीपोऽनेन लुक् । सन्नियोगशिष्टन्यायेन आनुकोऽपि निवृत्तिः । पञ्चभिः शष्कुलीभिः क्रीतः पञ्चशष्कुलः । "तेन क्रीतम्" इत्यार्हीयस्य ठकः"अध्यर्द्धपूर्व---" इति लुक् । आमलक्याः फलं आमलकम् । "नित्यं वृद्धशरादिभ्य" इति मयट् । फले लुक् । एवं बदरं कुवलमिति । शष्कुल्यादयो गौरादिङीषन्ताः । लौकिकं चैषामुपसर्जनत्वम् । व्याप्तिन्यायादुभयविधस्याप्यत्र ग्रहणात् । लुकि किम् । गार्गीकुलम् । गार्ग्यशब्दाद् "यञश्च" इति ङीप् "यस्येति च" इत्यकारलोपे "हलस्तद्धितस्य" इति यकारलोपः ।
स्यादेतत् । अवन्तेरपत्यं गोत्रं स्त्री अवन्ती । "वृद्धेत्कोसलाजादाद्" इति ञ्यङ्‌ । कुन्तीत्यप्येवम् । कुरोरपत्यं स्त्री कुरूः । "कुरुनादिभ्यो ण्यः" । "स्त्रियामवन्तिकुन्तिकुरुभ्यश्च" इति लुक् । आद्याभ्याम् "इतो मनुष्यजातेः" इति ङीष्। अन्त्याद् "ऊङुतः" इत्यूङ्‌ । अत्रावन्त्यादीनामुपसर्जनस्त्रीप्रत्ययसत्त्वात्तद्धितलुकश्च कृतत्वात्स्त्रीप्रत्ययस्य लुक् स्यात् ।
मैवम् । यत्र स्त्रीप्रत्ययान्तात्परस्य तद्धितस्य लुक् तत्रैवास्य लुकः प्रवृत्तेः । अत्र च कृते लुकि स्त्रीप्रत्ययोत्पत्तेः । तदुक्तम्---"अलुक्‌परत्वाद्‌" इति । उक्तोऽर्थः । बुद्धिपरिकल्पितं लुकः परत्वमाश्रित्य तु वार्त्तिककृतैवमुक्तम् ।
भाष्यकृतस्तु उपसर्जनत्वाभावादेव न दोषः । उपसर्जनेन स्त्रीप्रत्ययस्य विशेषणात्, शास्त्रीयस्योपसर्जनस्यासम्भवाद् अप्रधानरूपोपसर्जनत्वस्याश्रयणात् । अवन्तीत्यादौ चापत्यलक्षणाया जातेः प्राधान्येनाभिधानात्, अप्रातिपदिकत्वाच्च न ह्रस्वत्वम् । आमलकमित्यादौ तु तद्धितान्तत्वात्प्रातिपदिकत्वम् लिङ्गविशिष्टस्यैवोपादानान्न लिङ्गविशिष्टपरिभाषाप्रवृत्तिः । कुरूरित्यत्राप्युभयत आश्रयणेऽन्तवद्भावनिषेधात् ।
इद्गोण्याः 50 ।

तद्धितलुकि गोणीशब्दस्योक्तविषये इत्त्वं स्यात् । पञ्चभिर्गोणीभिः क्रीतः पञ्चगोणिः । "तद्धितार्थ---" इति समासे क्रीतार्थे ठक् । पूर्ववत् तस्य लुक् । लुकि प्राप्ते ह्रस्वारम्भः । अत्र वार्त्तिकम्---
"इद्गोण्या नेति वक्तव्यं ह्रस्वता हि विधीयते ।
इति वा वचने तावन्मात्रार्थं वा कृतं भवेत् ।।
गोण्या इत्त्वं प्रकरणात् सूच्याद्यर्थमथापि वा ।"
अस्यार्थः---ननु गोण्या लुङिनषेध एव कर्त्तव्यो न त्वित्त्वम्, "गोस्त्रियोः" इति ह्रस्वेन सिद्धेः । मैवम् । नेत्युक्ते इदित्युक्ते वा विशेषाभावात् । यदा गोणिमात्रमिदं गोणिरिति मात्रप्रत्ययस्य लोपः क्रियते, तदा लुकि निषिद्धे ह्रस्वत्वं सिद्धम् । तस्मात्प्रथमाविधाने परिमाणग्रहणस्य प्रयोजनं तद्धितं विनाऽपि यत्र परिमाणशब्दाः परिमेये वर्त्तन्ते तदाऽपि प्रथमा यथा स्यादिति । एवं चानुपसर्जनन्तावदभेदोपचारेण प्रमेयवृत्तित्वादप्राप्ते ह्रस्वे इत्त्वविधिः । नन्वेवं सर्वत्र गोण्या इत्त्वं स्यात् । तर्ह्युपसर्जनस्येत्यनुवर्त्तते एव नतु तद्धितलुकीति, तेन यत्र स्वार्थोपसर्जनमर्थान्तरं प्रत्याय्यते तत्रेदमित्त्वं विधीयते । नहि तत्र ह्रस्वेन सिद्धिः । अप्रातिपदिकत्वेन तदप्रवृत्तेः । प्रकारान्तरेण प्रत्याचष्टे---गोण्या इत्त्वमिति । अशिष्यमिति शेषः । प्रकरणादिति । गोण्या इत्येव सूत्रणीयम् । न च संनिधानाल्लुकोऽनुवृत्तिप्रसङ्गः । वैयर्थ्यप्रसङ्गात् । तेनैव सिद्धेः । तथा च ह्रस्वानुवृत्तौ लुकोऽपवादो ह्रस्वत्वं विधीयते इति सिद्धमिष्टम् । सिद्धान्तमाह---सूच्यादीति । यद्यपि गोणिरिति मात्रलोपेनापि सिद्धम्, तथापि इदिति योगविभागार्थमिदम् । तेन पञ्चसूचिरित्यादि सिद्धम् । न चान्यत्राप्यापत्तिः । तस्येष्टमात्रसिद्ध्यर्थत्वात् । तपरत्वं तु दीर्घनिवृत्त्यर्थम् । न च दीर्घस्य दीर्घविध्यानर्थक्यम् । ह्रस्वलुग्बाधार्थत्वेनोपपत्तेः । न च भाव्यमानत्वादेव दीर्घनिवृत्तिः । लुको ह्रस्वस्य बाधनेन स्वरूपावस्थापनमात्रफलकतयाऽपूर्वविधायकत्वाभावात् ।

लुपि युक्तवद्व्यक्तिवचने 51 ।

लुपि सति प्रकृतिवल्लिङ्गवचने स्तः । अनेन प्रकृत्यर्थसम्बन्धिन्यौ लिङ्गसंख्ये प्रत्ययार्थेऽतिदिश्येते । युक्तपदस्य प्रकृतिपरत्वात् । प्रकृतिप्रत्ययार्थयोः परस्परं युक्तत्वेऽपि प्रत्ययार्थे प्रत्ययार्थातिदेशवैयर्थ्यात् । पञ्चालानां निवासो जनपदः पञ्चालाः । कुरवः, अङ्गाः, वङ्गाः, कलिङ्गाः । "जनपदे लुब्‌" इति लुप्‌ । कुरुशब्देण्यस्य, अन्यत्राण इति विशेषः । पूर्वाचार्यवचनं चैतत् । अग्रे प्रत्याख्यास्यमानत्वात् । व्यक्तिवचने इति किम् । शिरीषाणामदूरभवोग्रामः शिरीषाः । "अदूरभवश्च" इत्यण्‌ । तस्य च "वरणादिभ्यश्च" इति लुप् । तेषां वनं शिरीषवनम् इत्यत्र णत्वं मा भूत् अन्यथा व्यक्तिसंख्ययोरिव प्रकृतिवृत्तेर्वनस्पतित्वस्याप्यतिदेशापत्त्या "विभाषौषधिवनस्पतिभ्यः" इति णत्वं स्यात् । तदप्रवृत्तौ तु ग्रामार्थकत्वान्न णत्वाम् । `फली वनस्पतिर्ज्ञेयः' इति भेदस्य णत्वविधावनाश्रयणात् । एवं कटुबदर्या अदूरभवो ग्रामः कटुबदरीत्यादि ।
स्यादेतत् । प्रकृतिगतस्य ग्रामापेक्षव्यतिरेकस्याप्यतिदेशात्षष्ठ्यपि स्यात्, वचनशब्दस्यैकवचनादिप्रत्ययवाचकत्वात् । एकवचनादिसंज्ञविधिकालेऽनुनिष्पादिवचनशब्दस्यापि पारिभाषिकत्वानपायात् । वाक्ये च षष्ठीदर्शनात् । न च वचनशब्देन संख्यैवातिदिश्यते इति वाच्यम् । तद्वाचकशब्दातिदेशपर्यवसाने षष्ठ्या अपि संख्याप्रतिपादकत्वेन तदापत्तेः ।
मैवम् । शिरीषाणां ग्रामस्य च यः सम्बन्धो वाक्ये भासते लुपि कृते तस्य विशिष्टस्यैव प्रातिपदिकार्थेऽन्तर्भावात्, मासजात इत्यादिवत् ।
अत्र भाष्यम्---
"प्रागपि वृत्तेर्युक्तं वृत्तं चापीह यावता युक्तम् ।
वक्तुश्च कामचारः प्राग्‌वृत्तेर्लिङ्गसंख्ये ये" ।।
अस्यार्थः---वृत्तेः प्राग्वाक्यावस्थामपि प्रकृतिवाच्यं वस्तु प्रत्ययार्थेन संबद्धं वृत्त्यनन्तरमपि तथैव, उभयत्राप्यर्थभेदाभावात् । वक्तुश्चेति चकारस्य भिन्नक्रमत्वात्प्राग्वृत्तेश्चेति योज्यम् । प्राग्वृत्तेर्ये लिङ्गसंख्ये चशब्दाद्वृत्तस्यापि ते अतिदेष्टुं कामचारः । तथा च प्राग्वृत्तेर्ये लिङ्गसंख्ये तयोर्नातिदेशः किन्तु प्रत्यासत्त्या वृत्तस्य ये लिङ्गसंख्ये तयोरेव । ततश्च यथा तावकीनो मामकीन इत्यादौ आदेशबलादुपसर्जनस्यापि संख्याविशेषावगतिः, यथा वा आदेशे प्रथमासामानाधिकरण्यदर्शनाल्लटि तदवगतिस्तथाऽत्रापि प्रत्ययार्थेऽतिदिष्टसंख्याऽवगमात् तत्प्रकृत्यर्थेऽपि तदवगमः । तत्र वृत्तावुपसर्जनं प्रधानार्थमभिधत्ते इति व्यतिरेकाभावात् संख्यामात्रप्रत्ययार्थं प्रातिपदिकार्थमात्रे प्रथमैव भवति । शिरीषाणां मनुष्या इत्यादौ तु मनुष्यादिजनितव्यतिरेकापेक्षा षष्ठी । शिरीषग्रामयोर्यः सम्बन्धस्तस्यैव वृत्तावन्तर्भावात् । "अथवा प्राग्वृत्तेर्ये लिङ्गसंख्ये ते अतिदिश्येते । षष्ठी कस्मान्न भवति । सामान्यातिदेशे विसेषानतिदेशः" इति भाष्ये पाठान्तरम् । तत्र वाक्यावस्थायां प्रकृत्यर्थस्य ये लिङ्गसंख्ये ते अतिदिश्येते । षष्ठी तु व्यतिरेकनिबन्धना । न चेह प्रत्ययार्थस्य व्यतिरेकोऽस्ति । न च व्यतिरेकसहिता संख्याऽतिदिश्यते, संख्यामात्रातिदेशे सम्बन्धसहितसंख्याऽतिदेशाभावादित्यर्थ इति कैयटः ।
अत्र वार्त्तिकम्--"समास उत्तरपदस्य बहुवचनस्य लुपः" । वर्त्तिपदार्थानामेवापेक्षितपरस्पराणां द्वन्द्वार्थमिदम् । उत्तरपदे यत्र बहुवचनस्य लुप् तत्रैव बहुवचनातिदेशो न तु पूर्वपदेऽपीति । मथुरापञ्चालाः । नेह पञ्चालमथुरे । एवं मथुरागोदा इति । न तु मथुरागोदौ । द्वन्द्वेऽपि गोदार्थस्य द्वित्वानतिक्रमादिति कैयटः ।

विशेषणानां चाजातेः 52 ।

लुवर्थस्य विशेषणानामपि तद्वदेव लिङ्गवचने स्तो न तु जातेः । पञ्चाला रमणीयाः । गोदौ रमणीयौ । गोदौ ह्रदविशेषौ । विशेषणानां विशेष्यसमानयोगक्षेमत्वात्सिद्धेऽपिजातिप्रतिषेधार्थमारम्भः । पञ्चाला जनपदः । गोदौ ग्रामः । जनपदग्रामशब्दौ जातिवचनौ । एवं तद्विशेषणेऽपि गोदौ ग्रामो रमणीयो बह्वन्न इत्यादि । अत्र हि सामानाधिकरण्येनान्वये जातिभिन्नानां विशेषणानां युक्तवद्व्यक्तिवचने, जातिरूपस्य तु विशेषणस्य नेत्यर्तः । वैयधिकरण्येनान्वये तु जातेर्यानि विशेषणानि तेषां नेति । भवतिना नञ्सम्बन्धादसमर्थसमासश्चायम् । आद्ये पञ्चाला जनपद इति सिद्धम् । सुभिक्षः संपन्नपानीयो बहुमाल्यफल इति तद्विशेषणानां तु बहुवचनान्तत्वं स्यात् । अन्त्ये वैपरीत्येन योज्यम् । तसमात्सूत्रे आजातेरिति आह्‌ प्रश्लेष्यः तथा च यावज्जा । नियतलिङ्गवचना एव तेषां संज्ञाः । आपो दारा वर्षाः सिकता इत्यादिवत् । तेषां तत्तज्जात्यवच्छिन्नैकव्यक्तिमात्रेऽपि बहुचनान्तानामेव प्रवृत्तेः ।

लुब्योगाप्रख्यानात् 54 ।

लुबपि न विधेयो योगस्य यौगिकार्थस्याप्रख्यानात् अनवगम्यमानत्वात् इत्यर्थः । पञ्चाला इत्यादिभ्यो देशविशेषबोधस्य पञ्चालत्वादिप्रकारकस्यैव जायमानत्वात् । क्षत्त्रियविशेषसम्बन्धित्वेन बोधस्यानुभवसिद्धत्वाभावात् ।
ननु "हस्ताज्जातौ" "कम्बलाच्च सञ्ज्ञायाम्" इत्यादौ सञ्ज्ञाशब्दानामपि व्युत्पादनमस्त्येव, हस्तीत्यादिभ्योऽपि जातिविशेषप्रकारकस्यैव बोधस्योदयात् । सत्यम् । तत्र तद्धितोत्पत्त्या रूपे विशेषात् । अत्र तु लुप आवश्यकतया तदभावादिति न्यासकृत् ।

योगप्रमाणे च तदभावे दर्शनं स्यात् 55 ।

चशब्दो हेत्वर्थः । योगस्य प्रमाणं योगप्रमाणम् । यौगिकार्थप्रत्ययकत्वमिति यावत् । यदि हि पञ्चालादयः शब्दाः क्षत्त्रियादिसम्बन्धं प्रवृत्तिनिमित्तमभिधायैव जनपदादौ प्रवर्त्तेरन् तदा तदभावे योगाभावे पञ्चालशब्दानामदर्शनमप्रयोगः स्यात् । दण्डसम्बन्धाभावे पुरुषे दण्दिपदाप्रयोगात् । नचेष्टापत्तिः । प्रयोगविरोधात् ।

प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् 56 ।

वचनमित्यनन्तरं अशिष्यमित्यनुषङ्गः । प्रधानं प्रकृत्यर्थनिष्ठप्रकारतानिरूपितविशेष्यत्वरूपेण प्राधान्येन प्रतीपाद्यः प्रत्ययार्थो यत्र तत् । प्रत्ययार्थः प्रधानमित्येवं रूपं वचनमिति यावत् । अशिष्यमनारभ्यं अर्थस्य विशेषणविशेष्यभावरूपस्य अन्यप्रमाणत्वात् लोकानुभवमूलकत्वात् ।
तेन हि प्रत्ययार्थत्वावच्छेदेन प्राधान्यं बोध्यते उत तत्सामानाधिकरण्यमात्रेण ।
नाद्यः । घटमित्यादौ कर्मत्वादौ प्रातिपदिकार्थस्य प्रकारत्वेऽपि संख्याऽऽदेः प्रत्ययार्थस्य प्रातिपदिकार्थे प्रकारत्वात् ।
नान्त्यः । प्रकृत्यर्थस्यापि क्वचित्प्रधानतया प्रत्ययार्थेऽपि तद्वचनस्यानुपयुक्तत्वात् । तथा च क्रमेण लोकविरुद्धार्थबोधकत्वादिति लोकसिद्धार्थबोधकत्वादिति च हेतुद्वये तात्पर्यम् ।

कालोपसर्जने च तुल्यम् 57 ।

अतीताया रात्रेः पश्चिमार्द्धेनागामिन्याः पूर्वार्द्धेन च सहितो दिवसोऽद्यतनः, विशेषणमुपसर्गनमित्यादि पूर्वाचार्याणां वचनम् । तत्राप्यशिष्यत्वं समानं लोकसिद्धत्वात् ।
यद्वा लोकसिद्धत्वाख्यो हेतुस्तुल्यः । तथा चाशिष्यत्वसिद्धिरिति योज्यम् ।

जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् 58 ।

स्पष्टोर्थः । यद्यपि जातिरुपलक्षणं व्यक्तिस्तु पदार्थ इति पक्षे बहुष्वेकवचनमित्येव युक्तम्, "जातेरुपलक्षणत्वेनाख्यायाम्" इति व्याख्यानात्, तथाऽपि जातौ पदार्थ एतत् । तदुक्तम्---"जात्याख्यायां सामान्याभिधानादैकार्थ्यम्" इति । भाष्ये तु "यद्‌ गार्ग्ये गार्ग्यत्वं तदेकम्" इत्यप्युक्तं तद्‌ गोत्रस्य परिभाषिकजातित्वाभ्युपगमात्, बहुषु गर्गेषु गार्ग्यत्वस्यैकस्य भावादिति कैयटः । जातिश्चेह समानकालीनानेकवृत्तिरेव गृह्यते न तु भिन्नकालीनानेकवृत्तिर्डित्थत्वादिः । जातिपदार्थपक्षे सर्वेषां जातिशब्दत्वेऽपि "जात्याख्यायाम्" इत्युक्तिसामर्थ्यात् ।
नन्वत्र पक्षे व्रीहिभ्य आगत इत्यत्र "र्घेङिति" इति गुणः स्यात् स्थानिवद्भावेन ङयादेशस्य भ्यसो ङित्त्वात् । मैवम् । एकस्मिन्नर्थे बहुत्वस्यैवानेनातिदेशात् स्थान्यादेशभावविरहात् ।
तदुक्तम्---"अर्थातिदेशात्सिद्धम्" इति ।
एवं "तिष्यपुनर्वस्वोः" इत्यत्रापि द्विवचनबहुवचनशब्दाभ्यां द्वित्वबहुत्वयोरभिधानमिति बोध्यम् ।
"सङ्ख्याप्रयोगे प्रतिषेधो वक्तव्यः" ।
एकस्मिन्बहुत्वातिदेशस्यैकशब्दप्रयोगेऽपि प्राप्तौ प्रतिषेधारम्भः । एको व्रीहिः संपन्नः सुभिक्षं करोति । विकल्पः किम् । व्रीहिरित्यपि यथा स्यात् । तत्र सम्पन्नो व्रीहिरित्यादौ भिन्नव्यक्तिपरत्वेऽपि एकत्वं व्रीहित्वजातावेवान्वेति क्वचित्पदार्थतावच्छेदकपदार्थयोरप्यन्वयस्वीकारादिति केचित् ।
अन्ये तु व्रीह्यादिपदशक्यतावच्छेदकतया व्रीहित्वादेः स्वरूपत एवोपस्थित्या अन्वयितावच्छेदकव्रीहित्वत्वरूपेणानुपस्थितेस्तत्र पदार्थान्तरान्वयानुपपत्त्या स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्त्वसम्बन्धेन प्रकृत्यर्थे व्रीह्यादावेवैकत्वान्वय इत्याहुः ।
नव्यास्तु नेदं युक्तम् । नह्येकत्वमात्रमेकवचनस्यार्थः वस्तुमात्रसाधारण्यादर्थवत एव लाभादनुपयोगाच्च, किन्तु सजातीयान्तरराहित्यविशिष्टम् । तच्च सजातीयनिष्ठभेदप्रतियोगितानवच्छेदकैकत्वरूपम् । साजात्यं च समभिव्याहृतपदार्थसम्बन्धित्वविशिष्टप्रकृत्यर्थतावच्छेदकरूपेण । तेनात्र घटोऽस्तीत्यादौ एतद्धटनिष्ठस्यैकत्वस्य घटान्तरनिष्ठभेदप्रतियोगितायां वस्त्वन्तरनिष्ठैकत्वस्य चैतद्‌घटनिष्ठभेदप्रतियोगितायामवच्छेदकतया घटनिष्ठभेदप्रतियोगितानवच्छेदकैकत्वाप्रसिद्धावपि न क्षतिः । एतद्देशविद्यमानत्वविशिष्टघटनिष्ठभेदप्रतियोगितानवच्छेदकत्वस्य तद्धटनिष्ठैकत्वे एव प्रसिद्धेः । तत्र घटान्तरसत्त्वविवक्षायां तु तदप्रसिद्धमेव स्यात् । अत एव "पशुना यजेत" इत्यादावेकत्वस्य विवक्षितत्वात् तद्यागव्यक्तौ पश्वन्तरव्यावृत्तिः । बहुघटसत्त्वे `घटोऽस्ति' इति प्रयोगस्तु जात्यभिप्रायेण समर्थनीयः ।
यत्तु भावाख्यातवदत्राप्येकत्वमविवक्षितमेव साधुत्वार्थत्वादिति । तन्न । तत्र गत्यन्तराभावेऽप्यत्र तदभावात् इत्याहुः ।
प्रकृतमनुसरामः---
अत्र वार्त्तिकं "अशिष्यं वा बहुवत्पृथक्त्वाभिधानाद्" इति ।
जातिप्राधान्यविवक्षायामेकवचनस्य द्रव्यप्राधान्यविवक्षायां तु बहुवचनस्य सिद्धत्वात् सूत्रं नारभ्यमित्यर्थः ।
"अस्मदः सविशेषणप्रयोगे नेति वाच्यम्"।
देवदत्तः गार्ग्यायणः पण्डितो वा अहं ब्रमीमि । त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नता इत्यादौ भवत्येव । निषेधस्यानुवाद्यविशेषणविषयत्वादिति हरदत्तादयः ।

अस्मदो द्वयोश्च 59 ।

एकत्वे द्वित्वे वा विवक्षितेऽस्मदो बहुवचनं वा स्यात् । वयं ब्रूमः । अहं ब्रवीमि, आवां ब्रूव इति वा ।
इदमपि भाष्ये प्रत्याख्यातम् । इदं मे अक्षि सुष्ठु पश्यति, अनेनाक्ष्णाऽहं सुष्ठु पश्यामीत्युभयथा लोके प्रयोगदर्शनात् । आद्ये आख्यातस्य संयोगादिव्यापारपरत्वात्, अन्त्ये चाश्रयत्वापरत्वात् । तथा च वयं पश्यामः इत्यादौ वयमित्यनेनेन्द्रियाणामभिधानात् शरीरवत्तत्राप्यहंकारोत्पादात् । एकेन्द्रियप्रवृत्ताविन्द्रियान्तराणामौदासीन्येन संविधातृत्वात्कर्तृत्वस्य विवक्षितत्वात् । पारतन्त्र्यविवक्षायां त्वहमित्येकवचनम् । युष्मदस्मदोश्चैकशेषेऽस्मद एवार्थद्वयाभिधायित्वात् द्विवचनम् ।

फल्गुनीप्रोष्ठपदानां च न क्षत्रे 60 ।

द्वित्वे बहुत्वप्रयुक्तं कार्यं वा स्यात् नक्षत्रेर्थे । उदिते पूर्वे फल्गुन्यौ प्रोष्ठपदे वा । उदिताः पूर्वाः फल्गुन्यः प्रोष्ठपदा वा । नक्षत्रे किम् । फल्गुन्यौ माणविके ।
इदप्रपि प्रत्याक्यातम् । तद्युक्तं चन्द्रमसामादाय बहुत्वसंभवात् छत्रिणो गच्छन्तीत्यादिवत् । अमावास्यायामप्यादित्यमण्डलप्रविष्टेन चन्द्रेण नक्षत्राणां योगात् । एकस्यां तूत्तरायां फल्गुनीशब्दस्यावृत्तेः पुष्पवन्तावित्यादिवन्नैकवचनम् । शिष्टप्रयोगस्य नियामकत्वाच्च नातिप्रसङ्गः ।

छन्दसि पुनर्वस्वोरेकवचनम् 61 ।

विशाखयोश्च 62 ।

द्वित्वे एकवचनं वा । पुनर्वसु, विशाखा वा नक्षत्रम् । पक्षे पुनर्वसू, विशाखे ।
इमे अपि प्रत्याख्याते । तथा च वार्तिकम्---
"पुनर्वसु विशाख्योः सुपां सुलुक् पूर्वसवर्णेति सिद्धम्" इति ।।

तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् 63 ।

बहुत्वं द्वित्ववद्भवति । तिष्यश्च पुनर्वसूच तिष्यपुनर्वसू । तिष्येति किम् । कृत्तिकारोहिण्यः । नक्षत्रेति किम् । तिष्यश्च पुनर्वसूच माणवकाः तिष्यपुनर्वसवः । न चात्र गौणत्वादेव व्यावृत्तिरिति वाच्यम् । तिष्यपुनर्वसुयुक्तकालभवत्वेन माणवकेषु तिष्यपुनर्वसुशब्दस्य मुख्यत्वात् । न च तथापि पूर्वसूत्रादेव नक्षत्रपदलाभ इति वाच्यम् । कालार्थकतिष्यपुनर्वसुशब्दस्य वारणार्थत्वात् । वहवः तिष्यपुनर्वसवो गताः कतरेण तिष्येण गतः । यद्वा अनयोः प्रदेशान्तरस्थमपि कार्यं नक्षत्रत्वे एव स्यादित्येतदर्थम् । तेन "तिष्यपुनर्वस्वोर्नक्षत्राणि यलोप" इत्यत्र नक्षत्रपदं नोपादेयम् । ननु तत्र वाऽत्र वा तदुपादाने न कश्चिद्विशेष इति चेत्तर्हि पर्यायस्यापि ग्रहणार्थम् सिद्धपुनर्वसू इति सिद्धम् । द्वन्द्वेति किम् । यस्तिष्यः स एव पुनर्वसू येषां भ्रान्तानां ते तिष्यपुनर्वसवः । बह्विति किम् । समाहारे मा भूत् । उदितं तिष्यपुनर्वसु । न चाप्राणिनामिति पर्युदासाज्जातिप्रयुक्तैकवद्भावानुपपत्तिः । सर्वो द्वन्द्वो विभाषैकवद्भवतीत्यस्य ज्ञाप्यत्वात् । तेन बाभ्रवशालङ्कायनं बाभ्रवशालङ्कायना इत्यादि सिद्धम् । तथाहि---अप्राणिजातिद्वन्द्वे नित्यमेकवद्भावः प्राणिद्वन्द्वे तु विकल्पेन, एकवद्भावप्रकरणं प्राण्यङ्गादीनां समाहार एव द्वन्द्व इति विषयविभागार्थमिति वक्ष्यमाणत्वात् । तथा च तत्प्रकरणानुपात्तानां "चार्थ द्वन्द्व" इत्यनेनैव इतरेतरयोगद्वन्द्वे द्विवचनादि, समाहारद्वन्द्वे त्वेकवद्भाव इति न्यायसिद्धेऽर्थे बहुवचनग्रहणमपि लिङ्गमिति सिद्धम् । तथा च समाहारे प्राण्यङ्गादीनामेव द्वन्द्व इति तत्र विपरीतनियमवारणार्थमेतदिति तात्पर्यम् ।

इति श्रीसिद्धान्तसुधानिधौ प्रथमस्य द्वितीये द्वितीयमान्हिकम् । (1.2.2)


********************--------------------