श्रीसिद्धान्तसुधानिधिः/अध्यायः १-पादः २/आह्निकम् ३
← आह्निकम् २ | श्रीसिद्धान्तसुधानिधिः आह्निकम् ३ [[लेखकः :|]] |
अथ तृतीयमाह्निकम् ।
(1.2.3)
सरूपाणामेकशेषएकविभक्तौ 64 ।
स्वाद्यन्यतमयावत्प्रत्ययप्रकृतिकानां येषां शब्दानां सारूप्यं तेषां मध्ये एक एव शिष्यते । वृक्षौ वृक्षाः । यद्यपि समानानामित्युक्तौ रूढत्वात्समानपदस्य तुल्यार्थत्वावगमे लाघवम्, सरूपाणामित्यत्र तु पदद्वयार्थावगमपूर्वकान्यपदार्थावगमात्प्रतिपत्तिगौरवम्, तथाऽपि शब्दार्थोभयकृतसाम्विवक्षापत्त्या वृक्षा इत्यादावेवैकशेषः स्यान्न त्वाक्षाः पादा इत्यादौ अर्थभेदात् । "स्वं रूपम्" इत्यत्र रूपग्रहणेन व्याकरणेऽर्थाङ्गीकारस्यापि ज्ञापितत्वात् । रूपग्रहणे तु शब्दस्वरूपमात्रगतं तुल्यत्वं गृह्यते इति न दोषः ।
नन्वेकग्रहणं व्यर्थम् । शेषशब्दस्य भावसाधनत्वपक्षे प्राथम्यादेकस्यैव शेषसिद्धेः । शिष्यते इति शेष इति कर्मसाधनत्वेऽप्येकत्वस्य विवक्षितत्वादेकस्यैव शेषसिद्धेः । मैवम् । आद्ये व्याप्तिन्यायादनेकस्यापि शेषापत्तेः । द्वितीयेऽपि "ग्रहं समार्ष्टि" इतिवत्संस्कार्यसंख्याया अविवश्रितत्वात् ।
अथ शेषग्रहणं व्यर्थम् । सरूपाणामेकः साधुर्भवतीति वाक्यशेषाध्याहारेणान्तरतमस्यैकस्योदशस्योपपत्तेः । मैवम् । एकस्यादेशत्वाप्रसङ्गात् । "षष्ठीस्थाने योगा" इति नियमात् । ततश्चाश्वश्च अश्वश्चाश्वौ । समुदायघटकयोर्द्वयोर्द्वयोरश्वशब्दयोरादावुदात्तत्वादन्त्ये चानुदात्तत्वात्सर्वोदात्तस्य सर्वानुदात्तस्य वाऽश्वशब्दस्य प्रसङ्गात् । उदात्तद्वयानुदात्तद्वयवतः समुदायस्य स्थाने तदन्यतरवत एवादेशस्यान्तरतमत्वात् ।
अथैकविभक्ताविति किमर्थम् । न च पयः पयो जरयति, वासो वासः छादयति, ब्राह्मणाभ्यां च कृतं ब्राह्मणाभ्यां च देहीत्यादावेकशेषवारणार्थमिति वाच्यम् । सहविवक्षायामित्यस्यावश्यकत्वात् । अत एव "इदितो नुम्धातोः" इत्येकशेषाभावः सङ्गच्छते । परस्परविशेष्यविशेषणभावानापन्नानामेव तत्संभवात् । बहूव्रीहौ तु वर्त्तिपदार्थानां विशेष्यविशेषणभावसत्त्वात् । वक्ष्यति हि वार्त्तिककारः "न वाऽर्थविप्रतिषेधाद्युगपद्वचनाभाव" इति । युगपद्वचनं सहविवक्षा । यत्र शिष्यमाणो लुप्यमानार्थाभिधानसमर्थस्तत्र ह्येकशेषः । कर्तृत्वकर्मत्वसम्प्रदानत्वादयश्च एकेन युगद्बोधयितुमशक्याः । युगपदेकस्माद्विभक्तिद्वयानुत्पत्तेः । चतुर्थ्यन्तस्य शेषे च ब्राह्मणेभ्य इत्युक्ते वर्तृत्वस्य, तृतीयान्तस्य शेषे ब्राह्मणैरित्युक्ते सम्प्रदानत्वस्यानवगमात् । एकेन भिन्नेन वा पदेनोपस्थितानामैकरूप्येणैव प्रत्ययार्थान्वयादित्यर्थः ।
मैवम् । तस्य सारूप्योपलक्षणार्थताया वक्ष्यमाणत्वात् ।
स्यादेतत् । अनेकव्यक्तिबुबोधयिषायामनेकशब्दप्रयोगे प्राप्ते तन्निवृत्यर्थं तावदयमारम्भः । ततश्च विरूपानेकशब्दप्रयोगस्य धवखदिरौ इत्यादौ दर्शनात् सरूपैकशेषारम्भवत् वृक्षा इत्यादौ सरूपैकशेषदर्शनाद्विरूपाणामनेकशेष इत्येवाऽऽरभ्यताम् दृष्टान्तमात्रस्य हेत्वभावस्य चोभयत्र साम्यात् । प्रयोगानुसरणे तु किञ्चिदारब्धव्यम् । व्यक्तिपक्षेऽपि एकस्यापि शब्दस्य बह्वर्थबोधकत्वसम्भवादन्यथैकशेषारम्भेऽप्यनिर्वाहात् । शब्दशक्तेर्वचनमूलकत्वाभावात् । किञ्च सरूपैकशेषे गौरवं द्वयोरेकशेषे एकस्य, यदा त्रयाणामेकः शिष्यते तदा द्वयोश्चतुरादीनामेकशेषे त्रयादीनां निवृत्तिरेकस्य च प्रवृत्तिर्व्याख्येये इति प्रवृत्तिनिवृत्तिलक्षणविषयभेदाद्बुद्धिगौरवापर्तेः । शेषशब्दस्य निवृत्तिविशिष्टावस्थानवाचित्वात् विरूपानेकशेषारम्भे तु प्रवृत्तिविषया बुद्धिरेकरूपैवेति लाघवम् । उच्यते । "वृद्धोयूना" त्यादावेकशेषस्यैव विधेयत्वात् इह त्वनेकशेषविधाने प्रस्थानद्वयापत्त्या लाघवादेकशेषस्यैव युक्तत्वात् ।
इदं त्ववधेयम्---एकपदस्य पूर्वोक्तरीत्या सजातीयान्तरराहित्यार्थकतया शब्दान्तरनिवृत्तिरेव विधीयते, आवस्थानं तु सिद्धत्वादनूद्यते । अत एव कैयटेन प्रवृत्तिनिवृत्तिलक्षणविषयभेदादित्युक्तम् । आपाततो "दध्ना जुहोति" इत्यादिवदवस्थानस्यापि विधेयत्वप्रतीतेः । निवृत्तेरवस्थाने वैशिष्ट्यञ्च निवर्त्तमानपदसमभिव्याहाराभावरूपम् । प्रतियोगिप्रसिद्धिश्च श्रूयमाणतत्पदसमभिव्याहृतशब्दान्तरस्थले एव अलौकिकप्रक्रियावाक्य एव वा सुलभा ।
स्यादेतत् । षडत्र पक्षाः सम्भवन्ति । तथाहि---समुदायादेकविभक्तौ परत एकशेषो विधीयते एकशब्दस्य संख्यावाचित्वेन प्रसिद्धत्वात् । ननु "ङ्याप्प्रातिपदिकाद्" इत्यत्रैकवचनान्तानामेव द्वन्द्वः क्रियते वृत्तिपदार्थानां सर्वत्रैकत्वभानस्यौत्सर्गिकत्वात् । यौष्माकीन इत्यादौ आदेशादिबलादेव बहुत्वादिकात्स्वादयो न तु समुदायात् । "कर्त्तुरीप्सितमम्" इत्यादौ तु द्वयोर्बहूनां वा ईप्सितस्य कर्मसंज्ञादर्शनाल्लक्ष्यानुरोधान्न संख्याविवक्षेति वैषम्यम् । तथा च समुदायादेकस्या विभक्तेः परत्वाभावादसंभव एव । तदुक्तं "एकविभक्ताविति चेन्नाभावाद्विभक्तेः" इति ।
मैवम् । स्वार्थमादायावयवयोरिव परस्परापेक्षायां सत्यां समुदायार्थस्याप्यवयवार्थातिरिक्तस्यानुभूयमानत्वात् तमादाय समुदायस्याप्येकप्रातिपदिकत्वाद्विभक्त्युपपत्तेः । नचार्थवत्समुदायानां समासग्रहणं नियमार्थमिति वाच्यम् । तस्य सजातीयविषयकत्वात् सुबन्तानामेव व्यावृत्तेः । राजदर्शीत्यादावुपपदादिसमासेऽपि पूर्वपदस्य नलोपादिपदकार्यानुरोधेन सुबन्तत्वात् । तथा चैकाज्द्विर्वचनन्यायेन समुदायादेव द्विवचनाद्युत्पत्तिः । तेनैवावयवार्थानां संख्यान्वयात्मकानुग्रहसंपत्तेः । न च राजन् राजन् औ इत्यत्र परत्वान्नित्यत्वाच्चोपधादीर्घे कृते वैरूप्यादेकशेषो न स्यात् इतिं वाच्यम् । "विरूपाणामपि समानार्थानाम्" इति तत्सम्भवात् ।
यद्वा अन्तरङ्गत्वादेकशेषः । संबुद्धिभिन्नसर्वनामस्थानरूपविभक्तिविशेषम्, उपधां चापेक्षमाणस्य दीर्घस्य बहिरङ्गत्वात् । न च द्वन्द्वेऽपि द्वन्द्वं विनैव समुदायाद्विभक्तिप्रसङ्ग इति वाच्यम् । तद्विधावनेकं सुबन्तमित्यनुवृत्त्या उक्तन्यायबाधात् । तथा च वृक्ष वृक्ष औ इति स्थिते एकशेषप्रवृत्तिरित्येकः पक्षः ।
यद्वा पृथग्विभक्तौ परत एकशेषः । ननु वृक्ष स् वृक्ष स् इति स्थिते विभक्तौ परतः सरूपाणामेकशेषस्य विभक्तिनिमित्तकत्वात् प्रकृतिनिवृत्तौ तदुत्तरविभक्तेः केवलायाः प्रयोगः स्यात् । न च केवलयोः प्रकृतिप्रत्यययोः प्रयोग इति निषेध इति वाच्यम् । तयोः परस्परलोपप्रयोजनकत्वे `अग्निचिद्' `इयती' इत्यादौ परस्परराहिन्येऽपि प्रयोगदर्शनात् । न चान्येषां सकाराणां संयोगान्तलोपेन निस्तारः । संयोगान्तं यत् पदं तदन्तस्य तद्विधानात् । वृक्षस्स्स् इति स्थिते च वृक्षम् इत्येकम्, स् इति द्वितीयम्, स् इति तृतीयं तदमिति कस्यापि पदस्य संयोगान्तत्वाभावात् । एतेन संयोगादिलोपोऽपि परास्तः ।
मैवम् । "संयोगान्तलोप" इति भाष्यस्य संयोगान्तस्यान्तः सकारस्तस्य लोपः । स च हल्ङ्यादिसूत्रेणेतिव्याख्येयत्वात् । इति द्वितीयः ।
अथवा समासादेकविभक्तौ परत एकशेषोऽस्तु । प्रथमसूत्राद् द्वन्द्वे इत्यनुवृत्तेः । तथा च वृक्षश्च वृक्षश्चेति द्वन्द्वे वृक्षवृक्षऔ अत्रैकशेष इति । तदुत्तरविभक्तेः "सपो धातु---" इतिलोपान्न श्रवणापत्तिरिति तृतीयः ।
यद्वा पृथक् सर्वेषां विक्त्यन्तानामेकशेषः एकविभक्तीनामिति न्यासाश्रयणात् । सप्तमीनिर्देशे हि प्रकृतिमात्रनिवृत्तौ प्रत्ययश्रवणप्रसङ्गः, उक्तरीत्या तु विभक्त्यन्तानामेव निवृत्त्या नेति चतुर्थः ।
अथवा प्रातिपदिकानामेवैकशेषः । तथाहि---एकविभक्ताविति न क्रियते । "ह्रस्वो नपुंसके" इति सूत्रात्प्रातिपदिकग्रहणमनुवर्त्त्यानुत्पन्नायामेव विभक्तौ सरूपाणां प्रातिपदिकानामेकशेषो विधीयते । तिङन्तेष्वपि पच्ल् पच्ल् इति स्थिते कृदन्तत्वात्प्रातिपदिकसंज्ञायां तदुपपत्तेः । तथा च लुप्यमानप्रकृतिकविभक्तिश्रवणस्य नापत्तिः । न च प्रातिपदिकमात्रसारूप्यविवक्षायां जननीपरिच्छेत्तृवाचिनोरपि मातृशब्दयोरेकशेषापत्तिः । विभक्त्यन्तानामेकशेषपक्षेऽपि तुल्यत्वात् । क्वचिद्विभक्तौ सारूप्यसत्त्वात् । न च प्रातिपदिकावस्थायां सारूप्यस्य सार्वदिकत्वात्सर्वत्रैकशेषापत्तिः । विभक्त्यन्तानां सरूपाणामेकशेषे तु यस्यां तृतीयादिविभक्तौ सारूप्यं तत्रैकशेषो नत्वन्यत्रेति वाच्यम् । अर्थविप्रतिषेधादत्राप्येकशेषानापत्तेः । मातृशब्दद्वयैकशेषे ताभिरित्यनुप्रयुक्ते पुमर्थस्य, तैरित्युक्ते च स्त्र्यर्थस्यानवबोधात् इति पञ्चमः ।
यद्वा द्विवचनबहुवचनान्तानमेकशेषः । युगपदधिकरणविवक्षायां चैकैकस्य पदस्यार्थद्वयबोधकत्वात् वृक्षावित्यादौ द्विवचनादिसिद्धिः । न चैवं एकशेषेण नित्येन वृक्षश्च वृक्षश्चेति वाक्यबाधापत्तिः । तत्र सहविवक्षाविरहात् भिन्नार्थत्वादेकशेषवृत्त्या वाक्यबाधाभावात् । इदं च द्वन्द्वे इत्यनुवर्त्य द्वन्द्वे प्रसक्ते सतीति व्याख्यानाल्लभ्यते इति षष्ठः ।
तत्र---नाद्यः । भिक्षाणां समूहो भैक्षमित्यादेरसिद्धेः । तथाहि---भिक्षा बिक्षा भिक्षा आम् अ इति स्थिते सर्वविधिभ्यो लुग्विधेर्बलवत्त्वादामो लुकि कृते एकशेषो न स्यात् । विभक्तिपरत्वाभावात् । न च प्रत्ययलक्षणम् । "न लुमताऽङ्गस्य" इति तन्निषेधात् । राम राम औ इत्यत्रापि परत्वाद्वृद्धौ हेत्वभावादेकशेषो न स्यात् । न चान्तादिवद्भावेन विभक्तेः परत्वमिति वाच्यम् । उभयत आश्रये तन्निषेधात् ।
न द्वितीयः । द्विवचनबहुवचनार्थं द्वन्द्वप्रतिषेधार्थं च वचनान्तरारम्भापत्तेः । न चानवकाश एकशेषो द्वन्द्वबाधकः । तिङन्तेषु एकशेषस्य सावकाशत्वात् । कारकभेदेन क्रियाभेदादनेकतिङन्तप्रसङ्गात् । ततश्च परत्वात् द्वन्द्वः स्यात् । न च तदुत्तरम् एकशेषः । सकृद्गताविति न्यायात् । पुनः प्रसङ्गविज्ञानेऽपि वक्ष्यमाणरीत्या स्वरसमासान्तेषु दोषप्रसङ्गात् । वृक्षस् वृक्षस्इत्यत्र पूर्वस्यापि वृक्षशब्दस्य पाक्षिकनिवृत्तिप्रसङ्गे स्वृक्षावित्यापत्तेः । परस्यैव निवृत्तौ नियामकाभावात् । एवं बहुत्वेऽपियोज्यम् । न च संयोगादिलोपेन सिद्धिः । एकपदसम्बन्धीयः संयोगस्तदादेर्हलोऽत्राभावात् । स् स् इत्यनयोः प्रत्येकं पदत्वात् । इदं चोपलक्षणं परनिवृत्तावपि पूर्वोक्तस्य हल्ङ्यादिलोपस्यानुपपत्तेः । सुतिसीतिप्रत्ययैः प्रकृत्याक्षेपात् हलन्तायाः प्रकृतेः परेषामेव स्वादीनां लोपविधानात् । एवं गोदौ दाराः सिकता इत्यादीनां नियतवचनानां यत्रैकशेषस्तत्र हल्ङ्यादिलोपादेः शङ्कितुमप्यशक्यत्वाच्च । एतेन संयोगान्तस्य पदान्तस्येति पक्षाश्रयेणापि निर्वाहो न सम्भवतीति दिक् । एवं शिष्यमाणप्रातिपदिकोत्तरविभक्तेः श्रवणप्रसङ्गश्चेत्यवधेयम् ।
नापि तृतीयः । तदुक्तम्---"समास इति चेत्स्वरसमासान्तेषु दोषः" इति ।
तथाहि अश्वश्वाश्वश्चेति द्वन्द्वे समासान्तोदात्तत्वे शेषनिघाते च यदि पूर्वशेषस्तदा सर्वानुदात्तत्वापत्तिः, अथ परशेषस्तदाऽन्तोदात्तत्वप्रसङ्गः परत्वादेकशेषं बाधित्वा समासान्तोदात्तत्वप्रवृत्तेः । न च येननाप्राप्तिन्यायेनैकशेषः समासान्तोदात्तत्वापवाद इति वाच्यम् । तदुत्तरमप्येकशेषप्रवृत्तिसम्भवाद्विरोधाभावाच्च । एवं ऋच् ऋच् अ इति स्थइतेऽन्तर्वर्तिन्या विभक्तेर्लुका लुप्तत्वात् प्रत्ययलक्षणप्रतिषेधाच्च विभक्तिपरत्वाभावादेकशेषार्थं समुदायादन्या विभक्तिरुत्पाद्या, तस्यां च नास्ति सारूप्यम् । एको हि ऋच्शब्दः, अपर ऋचशब्दः । न च समासान्तः समासस्यैवावयवो नतूत्तरपदस्येति वाच्यम् । समासान्तकृतव्यवधानेन विभक्तिपरत्वाभावादेकशेषानापत्तेः । न चायमेव दोषो वक्तव्यो नत्वसारूप्यमिति वाच्यम् । समासार्थस्योत्तरपदस्यावयवः समासान्त इति पक्षमाश्रित्य तथोक्तत्वात् । एवं स्वसा च स्वसारौ चेत्यत्र परत्वाद् गुणदीर्घयोः कृतयोः सारूप्याभावादेकशेषो न स्यात् । एवं नौश्च नावौ चेत्यादावनङ्गकार्ये आवादेशादावपि बोध्यम् । तथा हि यद्यन्तर्वर्त्तिन्यां विभक्तौ लुका लुप्तायामपि वचनसामर्थ्यात्प्रत्ययलक्षणमाश्रीयते तदाऽत्र वैरूप्यम्, अथ समासविभक्त्यैकविभक्तिपरत्वं तथाऽपि वैरूप्यतादवस्थ्यम् । एवम् "आख्यातमाख्यातेन " इत्यत्र प्रकरणे द्वन्द्वश्च सरूपाणामिति कल्पनीयम् । अन्यथा तिङन्तानामेकशेषानापत्तेः ।
नापि चतुर्थः । लुप्यमानानां प्रत्ययेन सहैव निवृत्तावपि शिष्यमाणप्रकृतिकप्रत्ययस्य श्रवणापत्त्या तल्लोपविधानस्य द्विबहुवचनविधानस्य द्वन्द्वप्रतिषेधवचनस्य चारम्भणीयत्वात् ।
नापि पञ्चमः । भैक्षमित्यस्यासिद्धेः । समर्थस्य यद् ङ्याप्प्रातिपदिकं तस्मात्तद्धिता इत्याबन्तादणि कृते परत्वादादिवृद्धौ कृतायां वैरूप्यादेकशेषानापत्तेः । हरितस्य स्त्री हरिणी, एव हरिणस्यापि । हरिणी च हरिणी च हरिण्यावित्येकशेषानुपपत्तेश्च । प्रातिपदिकावस्थायां वैरूप्यात् । एवं श्येन्यौ रोहिण्यावित्यत्रापि । यद्यपि हरितशब्दात्पुंयोगे ङीषा हरितीति रूपं तथाऽपि हरितशब्दस्य स्त्री हरिणी स्त्रीप्रत्ययान्तो हरितशब्द इति यावदिति कैयटः । प्रातिपदिकग्रहणस्य विच्छिन्नत्वाच्च प्रातिपदिकानां लोके प्रयोगाभावात्सारूप्यस्य पदान्तर्भावेणैव ग्रहणात् । तदुक्तम्---"न वा पदस्यार्थे प्रयोगाद्" इति ।
नापि षष्ठः । जहत्स्वार्थायां वृत्तौ पदद्वयस्याप्यनर्थकत्वात् एकैकस्यानेकार्थाभिधायित्वानुपपत्तेः । अजहत्स्वार्थावृत्तिपक्षेऽपि प्रथमप्रवृत्तस्यैकवचनस्य त्यागायोगात् । अन्यथा षष्ठीतत्पुरुषाद्ययोगात् तत्रापि पूर्वपदस्योत्तरपदार्थे उपसंक्रमेण षष्ठ्याद्ययोगात् । तथा च भाष्यम्---"सेयं युगपदधिकरणवचनता दुः खा च दुरुपपादाच" इति । एतच्च द्वितीयं प्रपञ्चयिष्यामः । तस्मात्षडपि पक्षा दुष्टा एवेति प्राप्ते सिद्धान्तमाह भाष्यकारः---
"प्रातिपदिकानां चैकशेषेसिद्धम्" इति । तथाहि---एकशेषे न एकविभक्तिर्निमित्तं किं तर्हि सारूप्ये उपलक्षणम् । एकविभक्तौ लौकिकप्रयोगे यानि सरूपाणि दृष्टानि तेषामेकशेषः । स चानैमितिकत्वाद्विभक्तिं नापेक्षते इत्यन्तरङ्गत्वात्सुबुत्पत्तेः । प्रागेव प्रवर्त्तते । भाष्ये प्रातिपदिकग्रहणं चोपलक्षणम् । तेन हरिण्यादीनामपि तत्सिद्धिः । "स्वरभिन्नानां यत् परं तच्छिष्यते" इति वचनान्ङीबन्तस्य हरिणीशब्दस्य शेषः । केचित्तु हरितहरिणशब्दयोरेवैकशेषे उभयवाचित्वेऽप्यन्यतरस्य वर्णवाचित्वं चाश्रित्य स्त्रीप्रत्यय इत्याहुः, तेषां पक्षे स्वरभेदप्रसङ्ग इति कैयटः । भैक्ष्यमित्यादावप्यनैमित्तिकत्वेनान्तरङ्गत्वात्पूर्वमेकशेषस्ततो वृद्धिः । यद्वैकशेषोत्तरमेव तद्धितोत्पत्तिरिति न दोषः ।
तस्मादयमत्रार्थः---विभक्तिपदमत्र स्वादिमात्रपरम्, सत्यप्याश्रयभेदेन क्रियाभेदे निवृत्तभेदाया एव तस्यास्तिङन्तेन बोधात् । प्रकर्षाभ्यावृत्त्यादीनां च स्वाश्रयाभ्यावृत्त्यादिनिमित्तकत्वात् । पचत इत्यादिद्विवचनादीनां च कर्त्रादिनिष्ठसंख्याप्रतिपादकत्वात् । नच कर्तृकर्मणोर्विहितस्य लकारस्य तद्भेदाद्भेद एव युक्त इति वाच्यम् । इष्टापत्तेः । "लस्य" इत्यत्र लत्वजातेराश्रयणादनेकेषामपि लकाराणां स्थानेऽर्थत आन्तर्यात् द्विवचनबहुवचनयोः प्रवृत्तेः । एकपदं च समानार्थकं सत्सजातीयार्थकम् । साजात्यं च न विभक्तित्वेन विभक्तिपदादेव सिद्धेः, तदुपादानस्यापि वैयर्थ्यापत्तेश्च । विभक्तित्वावच्छेदेन सारूप्यस्यासम्भवादेवाविवक्षणीयत्वात् । तत्सामानाधिकरण्यमात्रेण सारूप्यस्य च सरूपपदोपादानादेव लाभात्, किन्तु विभक्तित्वव्याप्येन सुत्वादिना । न तु प्रथमात्वादिना । वृक्षः वृक्षौ वृक्षा इत्यादावपि सारूप्याभावात् । तात्पर्यवशाच्च प्रकृत्यर्थतावच्छेदकसुत्वादिधर्माणां यावत्त्वं गम्यते । तादृश्यत्किञ्चिद्धार्मावच्छेदेन सारूप्यस्य तद्व्यतिरेकेणैव सिद्धेः । अवच्छिन्नत्वं च सप्तम्यर्थः । तथा च विभक्तित्वव्याप्या यावन्तः सुत्वादिधर्माः प्रत्येकं तदवच्छिन्नयावत्प्रत्ययव्यक्तिषु सारूप्यमित्यर्थः । सुत्वादियावद्धर्मावच्छिन्नाया एकस्याः प्रत्ययव्यक्तेरप्रसिद्धत्वात्प्रत्येकमित्युक्तम्, सुत्वाद्यवच्छिन्नयत्किञ्चद्व्यक्तौ सारूप्यवारणाय यावदित्युक्तम् । तेन जननीपरिच्छेत्तृवाचिनोर्मातृशब्दयोर्नैकशेषः । औ इत्यारभ्य शस्पर्यन्तं सारूप्याभावात् । एतेनोत्तरसूत्रस्थस्यैवकारस्येहानुकर्षणात्सरूपाण्येवेत्यर्थो लभ्यते इत्यपास्तम् । उक्तरीत्यैव तल्लाभात् ।
नन्वेवं नियतवचनानां दाराश्च दाराश्चेत्यादीनामेकशेषो न स्यात् । मैवम् । यावत्यः प्रत्ययव्यक्तयो यस्मात्सम्भवन्ति तदवच्छेदेन सारूप्यस्य विवक्षितत्वाद् इति दिक् ।
स्यादेतत् । गार्गा इति न सिद्ध्यति । अपत्यबहुत्वे हि यञोऽपि बहव उत्पाद्याः प्रत्यर्थशब्दनिवेशाद्, अन्यथैकशेषवैयर्थ्यात् । न च द्वितीयादीनां यञां प्रकृतेः परत्वं न स्यादिति वाच्यम् । यञाकृतेरेकत्वाद्व्यवधानाभावात् । गर्ग य य य इति स्थिते प्रथमयञः प्रकृतिसन्निपातकृतवैरूप्यादेकशेषो न स्यात् । एवं विभक्तिनिमित्तकत्वपक्षेऽपि समुदायस्य तद्धितान्तत्वात्प्रातिपदिकसंज्ञायां एकविभक्त्युत्पत्तौ बोध्यम् । सहविवक्षायां विभक्त्यन्तानामेकशेष इति पक्षेऽपि गर्ग य अस् य अस् इति स्थितेऽप्येवम् । न च प्रकृत्यंशं विहाय यशब्दानां सारूप्यात्तदुपत्तिः । प्रकृतिविशिष्टसमुदायादेव विभक्त्युत्पत्त्या तल्लक्षितसारूप्याश्रये एकशेषे विभक्तिबहिर्भावस्यानुचितत्वात् । यञा प्रकृत्यर्थानपेक्षसमुदायानभिधायित्वाच्च । न चैकैकस्य प्रत्ययार्थस्य प्रकृत्यर्थेन योगात्प्रधानावृत्त्या च गुणावृत्तेर्न्याय्यतया गर्गशब्दानामपि बहुत्वाद्गार्ग्यशब्दानामेवैकशेष इति वाच्यम् । "तद्राजस्य बहुषु" इति यलोपानुपपत्तेः । बहुषु वृत्तेर्यञादेरेव तद्धिधानात् । तस्य च यञामेकशेष एव शिष्यमाणयञो बह्वर्थकत्वादुपपत्तेः । उक्तरीत्या तु यञन्तस्यैव बह्वर्थकत्वात् ।
मैवम् । तत्कृते बहुत्वे इत्यस्यापि तदन्तकृते बहुत्वे इत्येव व्याख्यानात् । न चैकस्मिन्कश्यपापत्येऽञि कृते तस्माद् "इवे प्रतिकृतौ" कन् । "जीविकार्थे चापण्ये" इति तस्य लुक् । प्रतिकृतिवहुत्वविवक्षायां काश्यपा इत्यत्रापि लुक् स्यात्, अञन्तस्य बहुर्थकत्वादिति वाच्यम् । अपत्यबहुत्ववाचिन एव लोपविधानात् अस्य च प्रतिकृतिबहुत्ववाचित्वात् । यद्वा एकस्मादेव गर्गशब्दात्परेषां बहूनां यञां सत्यपि प्रकृतिसन्निपातकृतवैरूप्ये सर्वेषां प्रकृत्यर्थविशिष्टापत्याभिधायित्वाद् "विरूपाणामपि समानार्थानाम्" इत्येकशेष इति सिद्धम् । यद्येतत्सूत्रं न स्यात्तर्हि प्रत्येकं विभक्त्युत्पत्तौ द्वन्द्वः स्यात्, सति त्वनेकसुबन्ताभावान्न तत्पसक्तिः । एतेन द्वन्द्वापवाद एकशेष इति व्याक्यातम् ।
ननु पदार्थतावच्छेदकभेदे द्वन्द्व इति पक्षे घटश्च घटश्चेति द्वन्द्वस्य न प्रसङ्ग इति चेन्न । पदार्थभेदे द्वन्द्वपक्षे सम्भवात् । पयसी इत्यत्र जलत्वदुग्धत्वरूपपदार्थतावच्छेदकभेदसत्त्वाच्च । स्यादेतत् । एकश्च, एकश्च द्वौ च द्वौ चेत्येकशेषः स्यात् । अत्र वार्त्तिकम्---"संख्याया अर्थासंप्रत्ययादन्यपदार्थत्वाच्चानेकशेषः" इति । यत्रैकः शब्दोऽनेकार्थाभिधानसमर्थः तत्रैवैकशेषः । प्रयुक्तानामेवान्वाख्यानात् । एकानित्युक्ते च सहायादेरेवार्थस्या प्रतीत्या द्वित्वप्रतीत्यभावात् । अन्यपदार्थत्वाच्चेत्यस्यासंदिग्धेन पदान्तरेण द्वावित्यादिनैव तदर्थः प्रत्याय्यते इत्यर्थः । एतेन तत्र द्वन्द्वोऽपि नास्त्यनभिधानात् । ननु गार्ग्यावित्यत्र गार्ग्यश्च गार्ग्यश्चेति सरूपैकशेषस्यापि सम्भवात्सन्देहादर्थासंप्रत्ययेऽपि एकशेषो दृश्यते उत्तरकालं प्रकरणादिना सन्देहनिवृत्तेः । न च तत्र "वृद्धो यूना" इत्यारम्भसामर्थ्यात् तथा, अत्र त्वसन्दिग्धविषयसम्भवान्नेति वाच्यम् । अक्षा इत्यादावप्यप्रवृत्त्यापत्तेः । मैवम् । अर्थासम्प्रत्यये सत्यन्यपदार्थत्वादिति विशिष्टस्य हेतुत्वात् ।
अत्रेदं तात्पर्यम्---यत्पदार्थतावच्छेदकावच्छिन्नं द्वित्वादिपर्याप्त्यधिकरणं तत्पदयोरेकशेषः । एकत्वावच्छिन्नं तु न द्वित्वादिपर्य्याप्त्यधिकरणम् । ननु घटत्वाद्यवच्चिन्नमपि प्रत्येकं न तथा, मिलितं त्वेकत्वावच्छिन्नमपि तथेति तुल्यम् । न च तत्र पदार्थताऽवच्छेदकं घटत्वादिकमुभयत्राप्यभिन्नम्, एकत्वं तु प्रतिव्यक्ति भिन्नमिति वाच्यम् । पयसी इत्यादावपि जलत्वदुग्धत्वरूपपदार्थतावच्छेदकयोः सामानाधिकरण्याभावात् । मैवम् । यत्पदार्थतावच्छेदकं प्रत्ययार्थसंख्यानिष्ठप्रतियोगितावच्छेदकताकभेदप्रकारतानिरूपितविशेष्यतावच्छेदकं न भवति, तत्पदयोरेकशेषः । एकत्वं तु एको द्वित्ववद्भिन्न इति प्रतीतौ विशेष्यतावच्छेदकमवे । पर्याप्तिसम्बन्धस्य प्रतियोगितावच्छेदकत्वलाभाय प्रत्ययार्थेत्युक्तम् । एकघटे घटाविति प्रयोगाभावेन विभक्त्यर्थद्वित्वादेः पर्याप्त्यैवान्वयस्य व्युत्पन्नत्वात् । एको द्वित्ववानित्यत्र तु द्वित्वमाश्रयत्वमात्रेण विशेषणं न तु पर्याप्त्येति नदोषः । घटो द्वित्ववद्भिन्न इत्यत्रापि एकत्वमेव यथोक्तभेदप्रकारतानिरूपितविशेष्यतायामवच्छेदकं न तु घटत्वं न द्वाविति प्रयोगाभावात् । अत एव चैत्रो मैत्रश्च गच्छतः इत्यत्र प्रत्येकमेकत्वान्वयेऽपि चैत्रत्वमैत्रत्वे धर्मितावच्छेदकीकृत्यैवाख्यातार्थद्वित्वान्वयधीर्न त्वेकत्वमपीत्यदोषः । एवं द्विशब्दादावपि योज्यम् ।
प्रकृतमनुसरामः---एकार्थानामपि विरूपाणामेकशेषो वक्तव्यः । वक्रदण्डश्च कुटिलदण्डश्च वक्रदण्डौ कुटिलदण्डौ वा । सरूपाणामित्यनेन समानार्थकत्वस्यापि सङ्ग्रहात् । "स्वरभिन्नानां यस्योत्तरस्वरविधिस्तस्यैकशेषो वक्तव्यः" । स्वरेण भिन्नानां भिन्नस्वराणामिति यावत् । अक्षश्चाक्षश्च अक्षौ । एकोऽक्षशब्दोऽशेर्देवने इति सप्रत्ययान्तत्वादन्तोदात्तः । द्वितीयस्तु घञन्तत्वादादाद्युदात्त इति तस्यैकशेषः । मीमांसकौ । एको मीमांसकशब्दोण्वुलन्तत्वान्मध्योदात्तः अपरस्तु मीमांसामधीते इति "क्रमादिभ्यो वुन्" इति आद्युदात्तस्तस्यैकशेषः ।
इदमप्यवधेयम्---घटावित्यादौ पदार्थतावच्छेदकसामानाधिकरण्येन द्वित्वं प्रतीयते, अक्षावित्यादावपि पदार्थतावच्छेदकयोर्बिभीतकत्वदेवनत्वयोः परस्परसामानाधिकरण्याभावेऽपि प्रत्येकं तदधिकरणयोर्द्वयोर्द्वित्वान्वये द्वित्वेन सह तयोः सामानाधिकरण्यमव्याहतम्, पदार्थतावच्छेदकयोः परस्परसामानाधिकरण्यप्रत्ययस्यानुभवसिद्धत्वाभावात् प्रयोजनाभावात् घटावित्यादावसम्भवाच्च । एकशेषस्थले च अक्षपदमेव एकपदार्थतावच्छेदकप्रकारकत्वविशिष्टापरपदार्थतावच्छेदकप्रकारकज्ञानजनकम् । अनुभवानुरोधात् । तथाचानारभ्य एवैकशेषः । एकेनैव तादृशार्थबोधसिद्धेः, अन्यथा तदारम्भेऽप्यनिस्तारात् । नहि स्वतोऽसती शक्तिराचार्येण कर्तुं शक्यते । शब्दशक्तेर्लोकप्रयोगमात्रकल्प्यत्वात् । नचैवमग्निचित् सोमसुदित्यादौ क्विब्लोपादेरपि वैयर्थ्यापत्तिः । प्रत्ययलक्षणादेस्तत्प्रयोजनत्वात् । एकशेषस्य च प्रक्रियायामुपयोगविरहात् । नचैकेन शब्देन कथमनेकार्थाभिधानमिति वाच्यम् । तुल्यत्वात् वृत्तिविषयतावच्छेदकावच्चिन्नबोध्यत्वात् । एकद्विबहूनामर्थानां घटो गोदौ दारा इत्यादिशब्दवृत्तिविषयत्वस्याविशेषात् । नचैवं प्लक्षन्यग्रौधावित्यादावपि सहविवक्षायां समुदायार्थप्रार्दुभावादेकेनैवार्थद्वयबोधात् द्वितीयप्रयोगो न स्यादिति वाच्यम् । प्लक्षावित्युक्ते प्लक्षान्तरेणैव सहत्वप्रतीतेः । क्वचित् द्विरूपेणाप्यर्थद्वयाभिदानदर्शनाच्च । यथा---द्यावाक्षामा । द्यावा चिदस्मै पृथिवीनमेते इति । द्योशब्देनात्र द्यावापृथिव्योरभिधानम् । औकारस्य "सुपां सुलुग्" इत्याकारादेशः । पृथिवीइति द्विवचनान्तम् । "वा छन्दसि" इति पूर्वसवर्णदीर्घः । पृथिवीपदेन दिवस्पृथिव्योरभिधानम् । तथाच प्रकरणादिवशाद्यत्रार्थविशेषनिर्णयस्तत्र प्रवृत्तिनिमित्तभेदेऽपि विरूपस्याप्यनेकार्थाबिदायित्वदर्शनात्सरूपस्य सुतरां तदुपपत्तेः ।
एतेन नानार्थानुरोधादेकशेषारम्भ इत्यपास्तम् । उक्तरीत्या एकेनैव शक्यतावच्छेदकद्वयप्रकारकधीसम्भवात् । नच द्वन्द्ववारणार्थमयमारम्भः । अनभिदानादेव तत्सिद्धेः ।
तदेवं पक्षद्वयेऽपि सूत्रं प्रत्याख्यातम् ।
अत एव "सरूपाणाम्" इति "जात्याख्यायाम्" इति च सूत्रयोर्भाष्यकृता प्रत्याख्यास्यमानत्वेऽपि लक्ष्यानुरोध एव पक्षद्वयाश्रये बीजमित्युक्तं कौस्तुभे पस्पशायाम् ।
पदार्थतावच्छेदकैक्यस्थलाभिप्रायेण तु प्राह वार्त्तिककारः---'आकृत्यभिधानाद्वैकं विभक्तौ वाजप्यायनः" इति । सूत्राभिप्रायवर्णनमात्रार्थं वार्त्तिकान्तरं "द्रव्याभिधानं व्याडिः" इति । जातिव्यक्त्योः पदार्थत्वे तारतम्यं विप्रतिषेधसूत्रे निरूपयिष्यामः ।
जातिसद्भावे प्रमाणमाह---"प्रख्याऽविशेषाद्" इति । प्रख्याया बुद्धेरविशेषादेकरूपत्वात् । भिन्नव्यक्तिविशेष्यकयोरपि सौरित्याकारकयोर्द्वयोर्बोधयोः समानप्रकारकत्वानुभवात् । एवं चैकत्वमपि जातेर्धर्मिग्राहकमानसिद्धम् । लाघवेन नित्यत्वकल्पनाच्च नाश्रयनाशनाशयत्वम् । नचैकस्या जातेर्युगपदनेकव्यक्तिषु कथं वृत्तिरिति वाच्यम् । तस्या अपि धर्मिग्राहकात्सिद्धेः ।
यत्तु "एक इन्द्रोऽनेकस्मिन्क्रतुशते आहूतो युगपत्सर्वत्र भवति" इति भाष्यं तद् अभुयच्चयमात्रम् । कायव्यूहेन तदुपपत्तेरुत्तरमीमांसायां निरूपितत्वात् । अचेतनदेवतापक्षे तु सन्निधानस्यैवानङ्गीकारात् ।
ननु गोत्वं व्यापकमवश्यं वाच्यम्, अन्यथा उत्पन्ने गोपिण्डे तत्प्रत्ययो न स्यात् । तदुक्तं बाह्यैः---
न याति न च तत्रासीदस्ति पश्चान्नचांशवत् ।
जहाति पूर्वं नाधारमहो व्यसनसन्ततिः ।।
ततश्च घटादावपि गोत्वप्रकारकप्रत्ययः ।
तदुक्तम्---
व्यक्तौ चैकत्र सा व्यक्त्याऽभेदात्सर्वत्रग यदि ।
जातिर्दृश्येत सर्वत्रेति ।
मैवम् । समवायाक्यसम्बन्धविशेषस्य गोव्यक्तिभिरेव समंस्वीकारात् । तत्र स्वभावस्यैव नियामकत्वात् । अत एव जीवानां व्यापकत्वेऽप्यकच्छेदकत्वाख्यः सम्बन्धः शरीरविशेष एव स्वीक्रियते । अन्यथा सर्वशरीरावच्छेदेन सर्वेषां सुखादिसाक्षात्कारापत्तेः ।
यत्तु बौद्धाः---अपोह एव अतद्व्यावृत्तिरूपो जातिः । गोभिन्नभेदस्य मोमात्रे सत्त्वादतिरिक्तगोत्वे मानाभावादिति । तदसत् । गोभिन्नमित्यत्र यत्किञ्चिद्गोप्रतियोगिको भेदो निवेश्यते, गोत्वावच्छिन्नप्रतियोगिताकोवा । नाद्यः गोरपि यत्किञ्चिद्गवापेक्षया भिन्नत्वात् । तद्भेदस्य घटेऽपि वृत्त्या तत्रापि गौरिति प्रत्ययापत्तेः । नान्त्यः । अतिरिक्तगोत्वसिद्धेः । तदाहुः---
सिद्धश्चागौरपोद्येत गोनिषेधात्मकश्च सः ।
तत्र गौरेव वक्तव्यो नञा यः प्रातिषिध्यते ।। इति ।
क्रियाशब्दानामपि जातिवाचित्वमेव । गुडतण्डुलादिपाकव्यक्तिष्ववान्तरवैलक्षण्यसत्त्वेऽपि पाकत्वस्य प्रत्यभिज्ञाबलात्सिद्धेः । भिन्नडित्थशब्दगतं यथा डित्थशब्दत्वं नाम तेष्वभिन्नप्रत्ययाभिदानहेतु तथा सोऽयमिति शब्दार्थयोरभेदाध्यवसायादध्यस्तडित्थशब्देषु संज्ञिष्वपि सम्बन्धादभिन्नप्रत्ययाभिधाननिमित्तम् ।
तथाच स्वाश्रयवाच्यत्वसम्बन्धेन व्यक्तिनिष्ठं डित्थशब्दत्वं तदर्थेषु प्रवृत्तिनिमित्तम् । वह्निमानित्यादौ स्वसमवायिसंयोगसम्बन्धेन वह्नित्वमिवेत्याशयः ।
तौ एतौ इत्यादौ च परोक्षत्वप्रत्यक्षत्वादिकम् ।
अभावाश्चत्वार इत्यत्रापि निरुपाख्यत्वं नाम सामान्यमाश्रयणीयम् । गोत्वाश्वत्वे सामान्ये इति व्यावृत्तेष्वनुवृत्तप्रत्ययहेतुत्वं सामान्यानामपि सामान्यमस्ति ।
अथवा निः सामान्यानि सामान्यानीति तार्किकदर्शनं वैयाकरणैर्न नियमत आस्थेयम् । कार्योन्नीयमाना हि तेषां पदार्था इति सामान्येष्वपि सामान्यमस्ति इति कैयटः । नचैवं सामान्येष्वपि सामान्यस्वीकारेऽनवस्थापत्तिरिति वाच्यम् । एकव्यक्तित्वरूपबाधकसत्त्वेन तत्र जातेरस्वीकारात् । यत्तु घटत्वादिजातिमादाय तस्याप्यनेकव्यक्तिकत्वमस्त्येवेति । तन्न । तत्साधारणजात्यन्तरस्वीकारे प्रयोजनाभावात् । सामान्यत्वजात्यैव तत्रानुवृत्तप्रतीत्युपपत्तेरिति दिक् ।
ननु जातौ पदार्थे द्वित्वादीनां कथमन्वयः तस्या एकत्वात् । मैवम् । एकाश्रयसम्बन्धविवक्षायामाकृतेरेकवचनम् । यथा "पशुन । यजेत" इति । अनेकाश्रयसम्बन्धविवक्षायां तु द्विवचनबहुवचने । नहि जातिपदार्थवादिना व्यक्तेरनभिधेयत्वं स्वीक्रियते, किन्तु गुणभावमात्रम् । तत्र पचति पचतः पचन्तीत्यादौ क्रियाप्राधान्येऽपि साधनसंख्याकृतो वचनभेदः, एवमाकृतिप्राधान्येऽपि द्रव्यसंख्याकृतः इत्यादोषात् । नन्वेवमपि लिङ्गभेदो न स्यात् ब्राह्मणी ब्राह्मण इति । उक्तं हि "विशेषणानां चाजातेः" इत्यत्र "आविष्टलिङ्गा जातिः" इति । सर्वदाऽप्येकमेवाश्रयगतं लिङ्गमुपादत्ते इत्यर्थः । मैवम् । स्तनकेशादिसम्बन्धरूपस्य स्त्रीत्वादेर्लौकिकस्यात्र लिङ्गत्वेनानुपादानात् । तथा सति लिङ्गान्तरसम्बन्धायोगात् । किन्तु स्वसिद्धान्तव्यवस्था शाब्दिकैराश्रीयते । तथाहि सत्त्वरजस्तमः परिणामरूपाणआं शब्दादीनां वृद्धिह्रासमध्यस्थाऽवस्थाः शब्दैकगोचरा लिङ्गत्वेन परिगृह्यन्ते । गुणानां वृद्धिः पुंस्त्वम्, अपचयः स्त्रीत्वम्, स्थितिमात्रं नपुंसकत्वम् । अत एवोत्कर्षापकर्षसत्त्वेऽपि तदविवक्षया स्तितिमात्राभिप्रायेण "सामान्ये नपुंसकम्" इति शास्त्रं सङ्गच्छते । एतच्च "स्त्रियाम्" इति सूत्रे प्रपञ्चयिष्यामः ।
वृद्धो यूना तल्लक्षणश्चेदेव विशेषः 65 ।
अपत्यमन्तर्हितं वृद्दमिति पूर्वाचार्यपरिभाषया वृद्धपदं गोत्रपरं पारिभाषिकयुवपदसाहचर्यात् । युवप्रत्ययान्तेन सहोक्तौ कोत्रप्रत्ययान्तः शिष्यते उक्तप्रत्ययमात्रकृतं चेत्तयोः कृत्स्नं वैरूप्यम् । गार्ग्यश्च गार्ग्यायणश्च गार्ग्यौ । वृद्धेति किम् । गर्गश्च गार्ग्यायणश्च गर्गगार्ग्यायणौ । यूनेति किम् । गर्गश्च गार्ग्यश्च गर्गगार्ग्यौ । तल्लक्षणेति किम् । गार्ग्यश्च वात्स्यायनश्च गार्ग्यवात्स्यायनौ । कृत्स्नं किम् । भागवित्तिभागवित्तिकौ । भागवित्तशब्दाद्गोत्रापत्ये "अत इञ्" तस्माद्यून्यपत्ये "वृद्धाठ्ठक् सौवीरेषु बहुलम्" इति ठक् । अत्र न केवलं प्रत्ययमात्रकृतं वैरूप्यं किन्तु कुत्सासौवीरगोत्रत्वकृतमपि । "गोत्रस्त्रियाः सुत्सने" इत्यतः "कुत्सने" इत्यस्यानुवृत्तेः । कृत्स्नं किम् । गार्ग्यश्च वात्स्यायनश्च गार्ग्यवात्स्यायनौ ।
स्त्री पुंवच्च 66 ।
यूना सहोक्तौवृद्धा स्त्री शिष्यते तदर्थश्च पुंवत् । स्त्रीत्वप्रयुक्तवैरूप्याधिक्यादप्राप्तावारम्भः । गार्गी च गार्ग्यायणौ च गर्गाः । "अस्त्रियाम्" इत्यनुवृत्तौ "यञञोश्च" इति लुक्दाक्षी च दाक्षायणश्च दाक्षी । इह स्त्रीशब्दस्य स्वरितत्वे तदधिकारीयप्रत्ययोपादाने पुंवत् स्त्रीप्रत्यय इति अभावातिदेशो वा, स्वरितत्वाभावे शब्दस्यग्रहणं वा, अर्थग्रहणं वा । नाद्यः । उक्तस्थले गर्गा इत्यत्र यञः श्रवणापत्तेः । "अस्त्रियाम्" इति तल्लोपनिषेधात् । प्रसज्यप्रतिषेधे चायं दोषः । पर्युदासे तु स्त्रीसदृशार्थसत्त्वात् शिष्यमाणस्य लुप्यमानार्थाभिधायित्वात् । न द्वितीयः । स्त्रीत्वस्यानिवृत्त्या गर्गान्पश्येत्यत्र "तस्माच्छसो नः पुंसि" इति नत्वानुपपत्तेः । तस्मात् तृतीयः साधुः । पुमर्थातिदेशे तत्प्रयुक्तकार्यप्रवृत्तेः । एवमन्यत्रापि बोध्यम् ।
पुमान्स्त्रिया 67 ।
सरूपाणां मध्ये स्त्रिया सहोक्तौ पुमान् शिष्यते स च पुंवदेव तल्लक्षण एव चेद्विशेषः । हंसश्च हंसी च हंसौ । शिष्यमाणस्य लुप्यमानार्थाभिधायित्वेन स्त्रीत्वस्यापि सत्त्वेन टाप्प्राप्तः पुंवदेवेत्यनुवृत्तेर्न भवति । पदान्तरगम्येऽपि तल्लक्षणविशेषेऽयमेकशेषः । यथा गौश्चायं गौश्चेयमित्येतौ गावौ चरत इति कैयटः । तदितरकृतविशेषविरहरूपे विशिष्टाभावेऽस्य तात्पर्यम् । स चात्रापि विशेष्याभावादस्त्येवेति दीक्षिताः । पुमानिति योगविभागाद्विशेषाभावेऽप्येकशेषः शिष्टप्रयोगस्य नियामकत्वाच्च नातिप्रसङ्ग इति न्यासकारः । हंसत्वजातेः शक्यतावच्छेदकत्वसाम्याच्छब्दभेदस्य स्त्रीत्वमात्रलक्षणत्वेऽपि हंसश्च वरटा च इत्यादौ नैकशेषः । सरूपानुवृत्त्या प्रकृतिसाम्यलाभात् ।
भातृपुत्रौ स्वसृदुहितृभ्याम् 68 ।
भ्राता च स्वसा च भ्रातरौ । पुत्रश्च दुहिताच पुत्रौ । पूर्वसूत्रे सरूपपदानुवृत्तौ चैतदेव सूत्रं मानम् । अन्यथाऽत्रापि तेनैव स्यात् । "त्यदादीनि सर्वैः" इत्यत्र तु न तदनुवृत्तिर्बाधितत्वात् । अत्र भाष्यम् गार्ग्यश्च गार्ग्याणश्चेत्यत्र वृद्धयूनोर्यदेकं गर्गापत्यत्वरूपं सामान्यं तस्यैव विवक्षितत्वात् सिद्धं गार्ग्याविति । वृद्धयूनोरत्रोपादानं किं वा वृद्धयोरेवेति विशेषावधारणार्थम् एकशेषारम्भपक्षेऽपि प्रकरणादेरेवापेक्षणीयत्वात् सामान्योपादानेऽपि तेनैव विशेषनिर्णयसंभवात् ।
न च द्वन्द्ववारणार्थमेकशेषारम्भः । अनभिधानादेव तन्निवृत्तेः । स्त्रीपुंसयोरपि मृगक्षीरादिवज्जातिमात्रविवक्षायां ब्राह्मणावित्यादि सिद्धम् ।
स्यादेतत् । ब्राह्मणवत्सा च ब्राह्मणीवत्सश्चेत्यत्र "पुमान्स्त्रिया" इत्येकशेषप्रसङ्गः । यत्रैका प्रत्ययप्रकृतिरन्यत्तु वैरूप्यम्, तादृशविषयस्य सत्त्वात् । नच "एकविभक्तौ" इत्यनुवृत्त्या एकशेषनिमित्ते विभक्तौ परतो यत्र स्त्रीपुंसकृतो विशेषस्तत्रैकशेषः इह तु पूर्वपदविभक्तावपि स्त्रीपुंसकृतविशेषसत्त्वान्नेति वाच्यम् । कारकश्च कारिकाच कारकावित्येकशेषानापत्तेः । इत्त्वं ह्यत्र स्त्रीत्वकृतो विशेषस्तस्य चैकशेषनिमित्तविभक्तिपेक्ष्य पूर्वत्वाभावात् । नच इत्त्वस्य स्त्रीप्रत्ययकृतविशेषरूपत्वेऽपि स्त्रीत्वरूपार्थकृतविशेषत्वं नास्तीति वाच्यम् । तथा सति गोमांश्च गोमती च गोमन्तावित्यसिद्धेः । स्त्रीप्रत्ययेनात्र विशेषान्तरानाधानात् । स्त्रीत्वरूपार्थेन तु प्रत्ययरूपस्यैव विशेषस्योक्तत्वात् । तथाच क्वचिदर्थाहितस्य क्वचिच्च स्त्रीप्रत्ययाहितस्य विशेषस्यावश्यं ग्राह्यत्वात् । नच पक्षद्वयेऽपि पटुश्च पट्वीच पटू इत्यादावेकशेषो न स्यात्, यणादेशे स्त्रीत्वस्त्रीप्रत्ययान्यतरस्यापि निमित्तत्वाभावात्, अज्रूपत्वमेवाश्रित्य यणो विहितत्वादिति वाच्यम् । तद्भावभावितामात्रेण स्त्रीप्रत्ययस्य परंपरया च स्त्रीत्वस्य यणादेशे निमित्तत्वात्, एवं इत्वेऽपीति ब्राह्मणवत्सा चेत्यादावेकशेषो दुर्वार इति ।
मैवम् । तत्पदस्यानुवृत्त्या प्रधानयोरेव स्त्रीपुंसयोर्ग्रहणात् । सहविवक्षायां चैकशेषविधानात् । तस्याश्च प्रधानमात्रविषयकत्वात् यत्र प्रधानस्त्रीपुंसकृतो विशेषस्तत्रैकशेषः अत्र त्वप्रधानस्त्रीपुंसकृतस्यापि विशेषस्य सत्त्वादिति ।
नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् 69 ।
अक्लीबेन सहोक्तौ क्लीबं शिष्यते तच्चैकवद्वा तल्लक्षण एव चेद्विशेषः । शुक्लश्च कंबलः शुक्लं च वस्त्रं तदिदं शुक्लं ते इमे शुक्ले । शुक्लः कंबलः शुक्ला बृहतिका शुक्लं वस्त्रं च तदिदं शुक्लं तानीमानि शुक्लानि ।
अत्र भाष्यं स्थितिमात्रविवक्षायां औत्सर्गिकं नपुंसकमेव सिद्धण् । न च पाक्षिकैकवद्भावार्थं सूत्रम् । जातिप्राधान्यविवक्षयैव सिद्धेः ।
पिता मात्रा 70 ।
स्पष्टम् । वेत्यनुवर्तते । पिता च माता च पितरौ मातापितरौ । दौहित्राभावे पितरौ धनभाजावित्येतद्व्याख्याने----यद्यपि युगपदधिकरणवचनतायां द्वन्द्वस्मरणात्तदपवादत्वादेकशेषस्य धनग्रहणे पित्रोः क्रमो न प्रतीयते तथापि विग्रहवाक्ये पूर्वनिपातादेकशेषाभावपक्षे च मातापितराविति मातृशब्दस्य पूर्वं श्रवणात्पाठक्रमेणार्थक्रमावगमाद्धनसम्बन्धेऽपि क्रमापेक्षायां प्रतीतक्रमानुरोधेनैव प्रथमं माता धनभाक्, तदभावे पितेति गम्यते इति विज्ञानेश्वरः ।
एतेन जगतः पितरौ वन्दे इत्यपि व्याख्यात्तम् । योग्यतादिप्रमाणान्तरवशान्निर्णय इति पर्यवसानात् ।
एतेन भवानपि त्वद्दयिताच शेषे सायुज्यमासादयतं शिवाभ्यामिति विषयान्तरमपि व्याख्यातम् । स्त्रीलिङ्गस्य विग्रहवाक्ये पूर्वप्रयोगनियमे मानाभावात् । "उष्ट्री च करभश्च, हंसश्च वरटा चेत्यादौ कस्मान्न भवति" इति भाष्यदर्शनात् ।
श्वशुरः श्वश्व्रा 71 ।
स्पष्टम् । श्वशुरौ श्वश्रूश्वशुरौ । सूत्रत्रयमधिकृत्य भाष्यम्---वृत्तिविषये भ्रात्रादिशब्दानां स्वस्रादिबोधकत्वं तावदेकशेषारम्भेऽपि स्वीकार्यम्, शिष्यमाणं लुप्यमानार्थाभिधायीति सिद्धान्तात्, तद्वरम् एकशेषं विनाऽपि शब्दार्थसम्बन्धस्य नित्यत्वात्सहविवक्षायामेव तथात्वं स्वीक्रियताम्; अनभिधानाच्च भ्रातृस्वसृशब्दयोर्न द्वन्द्वः; मातापितरौ श्वश्रूश्वशुरावित्यत्र च द्वन्द्वस्य वाशब्दामुवृत्त्या त्वयाऽपि स्वीकारात्; किमयं सरूपयोरेकशेष उत विरूपयोरित्यवधारणार्थं प्रकरणादेर्नियामकत्वस्य वाच्यत्वाच्चेति । `श्यालः स्वास्रोरथाग्रहीद्' इति भागवते तु स्वसृपदं "प्राणभृदुपदधाति" इतिवल्लिङ्गसमवायेन स्वसृतत्पत्योर्लाक्षणिकम् । नचोभयोः साम्यादल्पत्वानुपपत्तिः, तत्र प्राणपदगर्भमन्त्रस्य तद्रहितमन्त्रापेक्षयाऽल्पत्वात् इति वाच्यम् । लक्ष्यापेक्षया शक्यानां बहुत्वाभावमात्रस्य तत्र विवक्षितत्वात् इति श्रीधरः ।
त्यदादीनि सर्वैर्नित्यम् 72 ।
स्वभिन्नैः सर्वैः सहोक्तौ त्यदादीनि नित्यं शिष्यन्ते । स च देवदत्तश्च तौ ।
"त्यदादितः शेषे पुन्नपुंसकतो लिङ्गवचनानीति वक्तव्यम्" ।
सा च देवदत्तश्च तौ । सा च कुण्डेच तानि । शिष्यमाणत्वात्त्यदादिलिङ्गे प्राप्ते आरम्भः । पुंनपुंसकयोस्त्वेकशेषे शब्दपरविप्रतिषेधान्नपुंसकशेषः । तच्च देवदत्तश्च ते ।
"अद्वन्द्वतत्पुरुषविशेषणानामिति च वक्तव्यम्" ।
स च कुक्कुटः सा च मयूरी कुक्कुटमयूर्यौ ते । तच्च साच अर्द्धपिप्पल्यौ ते ।
न्यायसिद्धं चेदम् । "परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः" इति समासार्थस्य लिङ्गातिदेशात्तद्विशेषणस्य सर्वनाम्नस्तल्लिङ्गत्वसिद्धेरिति कैयटः । त्यदादीनां सर्वनामतया वस्तुमात्रपरामर्शकत्वात्पदान्तरेण सहोक्तौ तेषामेव शेषो न्यायसिद्ध इति नेदमारभ्यम् । नच त्यदादीनां यत्परं तच्छिष्यते इत्येतदर्थं सूत्रम्, तद्विना शब्दपरविप्रतिषेधालाभादिति वाच्यम् । सच यश्च तावानय यावानयेति पूर्वशेषस्यापीष्टत्वात् । सूत्रारम्भपक्षे च तदसिद्धेः । नापि तद्देवदत्ताविति प्रयोगवारणार्थम् । "सामान्यविशेषवाचिनोर्न द्वन्द्वः" इति वचनस्यावश्यकत्वात् । नचैवं शूद्रभीरम्, गोबलीवर्दम्, तृणोलपम्, इति न स्यादिति वाच्यम् । आभीराणां जात्यन्तरत्वात् । ब्राह्मणादुग्रकन्यायामाभीरो नाम जायते ।
माहिष्योग्रौ प्रजायते विट्शूद्राङ्गनयोर्नृपाद् ।। इति---
स्मृतेः । गोशब्दस्य च स्त्रीगवीमात्रवाचकत्वात् वृषभे शक्त्यन्तरस्वीकारात् । न च सामान्यपदेन विशेषार्थस्यापि प्रतीतिसिद्धेः न द्वन्द्वप्रसक्तिरिति वाच्यम् । तं ब्राह्मणमानय गार्ग्यमिति प्रयोगदर्शनात् । विशेषणविशेष्यभाववद् विशेष्यसन्निधौ सामान्यशब्दस्य तदितरविशेषपरत्वस्यापि ब्राह्मणा आगता वसिष्ठोऽप्यागत इत्यादौ दर्शनात् । तस्मात्सामान्यविशेषयोर्द्वन्द्ववचनस्यावश्यकत्वात्तत एव सिद्धौ नैतत्सूत्रमारभ्यमिति भाष्यम् ।
ग्राम्यपशुसङ्घेष्वतरुणेषु स्त्री 73 ।
पुमान्स्त्रियेत्यस्यापवादः । एषु सहविवक्षायां स्त्री शिष्यते । गाव इमाः । अजा इमाः । ग्राम्येति किम् । न्यङ्कव इमे । सूकरा इमे । पश्विति किम् । ब्राह्मणा इमे । सङ्घेति किम् । एतौ गावौ । संघे गुणत्वानुपपत्त्या तद्घटकनिष्ठं तद्ग्राह्यम्, द्व्यवयवसङ्घसम्भवेऽपि सङ्घपदग्रहणसामर्थ्यादनेकघटितस्यैव विवक्षितत्वात् । अतरुणेति किम् । तरुणका इमे । वर्करा इमे । संघे तरुणत्वतदभावयोरन्वयानुपयोगात्संघघटकपशुव्यक्तिनिष्ठयोस्तयोरुपादानं सामर्थ्यात् । "अनेकशफेष्विति वाच्यम्" । नेह अश्वा इमे । उष्ट्रा इमे । विकल्पानुवृत्त्या व्यव्शितत्वाच्चेदमिति न्यासकृत् ।
अत्रापि भाष्यम्---नैतदारभ्यम् । सङ्घेषु स्त्रीगवीनामेव बाहुल्यान्मल्लग्रामादिवद् भूयस्त्वेन व्यपदेशादेव स्त्रीशेषसिद्धेः, अग्राम्येषु तु पुंसामेव प्राधान्यात्, उष्ट्राणां तु आरण्यकत्वेन सूत्रारम्भेऽपि स्त्रीशेषत्वाभावात् । ब्राह्मणा इत्यादावपि पुंसामेव प्राधान्यात् । एतावित्यादौच निर्ज्ञाते लिङ्गविशेषे पुंस एव शेषात्, वत्सा इमे इत्यादावपि पुंसामेव प्राधान्यादिति ।
इति श्रीसिद्धान्तसुधानिधौ प्रथमस्य द्वितीये तृतीयमाह्निकम् पादश्चायं समाप्तः ।।(1.2.3)
**********************--------------------