अथ द्वितीयं प्रकरणम् ।


प्रायश्चित्तसंग्रहकारिकाः ।

 अथ संक्षेपेण कर्मसंधानार्थानि प्रायश्चित्तानि । तत्र तेषां संग्राहिका मत्कृताः कारिकाः--

विहितस्याननुष्ठानेऽन्यथानुष्ठान एव च ।
श्रुतिलक्षणकं प्रायश्चित्तं कृत्स्नं विधीयते ॥ १ ॥
प्रायो विनाशपर्यायः संधानं चित्तमीरितम् ।
तच्च ज्ञेयं द्विधा प्रत्यक्षातीन्द्रियविभेदतः ॥ २ ॥
बहिर्गतस्यानलस्य तत्र संस्थापनं पुनः ।
स्कन्नस्य हविषः शुद्धदेशस्थस्य पुनर्ग्रहः ॥ ३ ॥
बुधैश्चित्तं ह्येवमादि प्रत्यक्षं परिकीर्तितम् ।
जपहोमादिकं चित्तं बुधैः स्मृतमतीन्द्रियम् ॥ ४ ॥
प्रायश्चित्तनिमित्ते चेद्यत्संख्यावचनादिकम् ।
श्रूयमाणं भवेत्तच्च विज्ञेयमविवक्षितम् ॥ ५ ॥
आज्यं संस्कृत्य वह्नेस्तु परिस्तरणमाचरेत् ।
परिषिच्य ततोऽद्भिस्तं शुक्लपुष्पाक्षतादिभिः ॥ ६ ॥
अलंकृत्याग्निमाधाय पालाशीं समिधं ततः ।
सस्वाहाकारमन्त्रेण जुहुयाद्विहिताहुतिम् ॥ ७ ॥
दर्व्या संस्कृतया ज्ञेयः प्रायश्चित्ताहुतौ विधिः ।
अथवा श्रौतसूत्रोक्ताः श्रौतसूत्रोक्तरीतितः ॥ ८ ॥
चित्तहोमाः प्रकर्तव्या नियमेन विचक्षणैः ।
शास्त्रान्तरोक्ताः सर्वे तु स्युर्गार्ह्यविधिनैव हि ॥ ९ ॥
एते विवेचयिष्यामः समनन्तरमेव तु ।
श्रौते भवेत्स्रुचा होमो नियता समिदाहितिः ॥ १० ॥
अनेकाहुतिके होमे तावत्यः समिधः स्मृताः ।
परिस्तृतौ विकल्पः स्यात्परिषेकस्त्वमन्त्रकः ॥ ११ ॥
परीत्यानलमग्रेण तस्य दक्षिणतः स्थितः ।
नाभिं प्रति स्रुचं धृत्वा जुहुयाद्विहिताहुतिम् ॥ १२ ॥

अनेकाहुतिके होमे विग्राहं होम ईरितः ।
यत्र स्रुवाहुतिविधिस्तत्र नाऽऽसादयेत्स्रुचम् ॥ १३ ॥
गृह्ये स्रुवाहुतिविधावपि दर्व्येव कीर्तिता ।
[१]द्विस्त्रिर्गृहीतादिहोमे स्यात्स्रुवोऽप्युभयत्र तु ॥ १४ ॥
ग्रहणार्थं स्रुवस्यापि कर्तव्यं सादनं त्विह ।
दर्व्याः स्रुचो वा संमार्गात्पूर्वं संमार्ग ईरितः ॥ १५ ॥
श्रौतस्रुवस्येव भवेत्संमार्गो मन्त्रवर्जितः ।
संमार्गदर्भाधानात्प्राक्चित्तहोमो यदाऽऽपतेत् ॥ १६ ॥
तदा संस्कृत्य चिर्त्ताथमाज्यं तेन हुतिं चरेत् ।
निर्वापकाले चित्तं चेत्तदाऽऽज्यं त्वेकमेव हि ॥ १७ ॥
चित्तार्थमथ कर्मार्थं नात्रोत्पत्तिः पृथग्भवेत् ।
श्रौतोक्तरीत्या होमेऽपि गृह्योक्तैवाऽऽज्यसंस्कृतिः ॥ १८ ॥
अग्नेः परिस्तृतेरूर्ध्वं नैव कार्या परिस्तृतिः ।
न कार्यं समिदाधानमिध्माधानादनन्तरम् ॥ १९ ॥
प्रायश्चित्तस्य कालस्तु निमित्तानन्तरं स्मृतः ।
प्रधानहोमतः प्राग्वा बौधायनमुनिस्मृतेः ॥ २० ॥
प्रायश्चित्तविशेषो न यत्र प्रोक्तस्तु तत्र वै ।
समस्ताभिर्व्याहृतिभिरेकाहुतिरुदीरिता ॥ २१ ॥
भवेद्दर्व्या स्रुचा वेयमाहुतिर्न स्रवेण तु ।
एतदेव स्मृतं सर्वप्रायश्चित्तं हि याज्ञिकैः ॥ २२ ॥
यत्र होमस्त्वदृष्टार्थं विहितो न भवेद्यदि ।
सर्वाभिधानकं प्रायश्चित्तं तत्र तदाचरेत् ॥ २३ ॥
यत्र होमस्त्वदृष्टार्थं विहितोऽपि भवेद्यदि ।
सर्वाभिधानकं चित्तं तत्रापि च समाचरेत् ॥ २४ ॥
पूर्वमालेखनमतमाश्मरथ्यमतं परम् ।
पात्रानुक्तौ चित्तहोमे श्रौते स्रुग्घोमसाधनम् ॥ २५ ॥
गार्ह्ये भवेच्चित्तहोमे दर्विका होमसाधनम् ।
संख्यानुक्तौ सकृद्ग्राहो द्रव्यानुक्तौ घृतं स्मृतम् ॥ २६ ॥
कर्महोमस्य कर्ता यः स एवात्र प्रकीर्तितः ।
दाने कर्ता पतिः प्रोक्तः पत्नी स्यात्तदसंनिधौ ॥ २७॥

एवं त्यागेऽपि विज्ञेयं कात्यायनमुनिस्मृतेः।
अनाहिताग्नेश्चित्तेष्टिस्थाने स्युः पाकधर्मतः ॥ २८ ॥
सर्वत्र चरवः शास्त्रान्तराज्ज्ञेयं बुधैरिदम् ।
पूर्णाहुतिरशक्तौ स्यात्तत्प्रकारोऽधुनोच्यते ॥ २९ ॥
चतुर्वारं गृहीत्वाऽऽज्यमष्टवारमथापि वा ।
स्रुचि द्वादशवारं वा दर्विकायामथापि वा ॥ ३० ॥
उपोत्तमेनान्तिमेन सह वा ग्रहणेन तु ॥
अभिपूर्याऽऽज्येन तां तु स्वाहाशब्दसमन्वितम् ॥ ३१ ॥
चतुर्थ्यन्तं देवताया नाम प्रोक्त्वा तयाऽऽहुतिः ।
स्वाहान्ते तु बुधैर्देया पूर्णाहुतिरियं स्मृता ॥ ३२ ॥
पूर्णस्रुवेणात्यशक्तौ पूर्णाहुतिरुदीरिता ।
सर्वत्रानाज्ञातजपो वैष्णव्यृग्जप एव च ॥ ३३ ॥
समस्तव्याहृतीनां च जपः कार्यो विपश्चिता ।
द्रव्यस्य विहितस्यात्राभावश्चेत्स्यात्स्वरूपतः ॥ ३४ ॥
स्त्रीकर्तव्यः प्रतिनिधिः प्रायश्चित्तं न चात्र तु ।
अर्थद्रव्यविरोधेऽर्थो बलीयान्संप्रकीर्तितः ॥ ३५ ॥
तत्र स्वरूपसत्तायामपि प्रकृतकर्मणः ।
प्रधानकार्याशक्तत्व एष न्यायः प्रकीर्तितः ॥ ३६ ॥
विरोधे द्रव्यगुणयोर्बलवद्द्रव्यमीरितम् ।
प्रधानकार्यशक्तत्वे गुणसंपादनाय न ॥ ३७ ॥
उपादानं प्रतिनिधेस्तत्रैष न्याय ईरितः ।
लोपे स्वराक्षरादीनामाभिरित्याहुतिः स्मृता ॥ ३८॥
मन्त्रलोपे प्रोक्षणादिलोपे च व्यत्यये तथा ।
त्वं नः स त्वं न इत्याभ्यां जुहुयादाहुतिद्वयम् ॥ ३९ ॥
यदि प्रधानयागात्प्राग्लुप्तस्य स्मरणं भवेत् ।
तदा चित्तोत्तरमनिष्पन्नार्थाङ्गस्य वै क्रिया ॥ ४० ॥
निष्पन्नार्थं यदाङ्गं चेच्चित्तमेव न तु क्रिया ।
उदाहरणमेतस्य ज्ञेयमिध्मेन्धनादिकम् ॥ ४१ ॥
आज्यभागोत्तरं मुख्याहुतितः प्राक्स्मृतिर्यदि ।
तदेध्ममनले दत्त्वा विपर्यासार्थचित्तकम् ॥ ४२ ॥

ऊर्ध्वं चेच्चित्तमेव स्यादिति सूत्रे निदानके ।
आज्यभागाद्यङ्गलोपे त्वं नः स त्वं न आहुती ॥ ४३ ॥
अकाले चेत्कृतं कर्म भवेद्यत्तस्य नैव तु ।
क्रमार्थं पुनरावृत्तिरित्युक्तं कठसूत्रके ॥ ४४ ॥
परिस्तरणदर्भाणां परिधीनां च बर्हिषः ।
इध्मोपवेषशुल्बानां दाहे च च्छेदने तथा ॥ ४५ ॥
मूत्राद्यैरुपघाते च सर्वथा च विनाशने ।
तज्जातीयं च तद्रूपं तत्प्रमाणं तथैव च ॥ ४६ ॥
आहृत्य तद्यथापूर्वं यथास्थानं निवेश्य च ।
तेन कर्म प्रकर्तव्यं नैवोपहतसंग्रहः ॥ ४७ ॥
द्वे त्वमग्ने अयाः प्राजापत्यर्चा च स्रुवाहुती ।
इध्मे न्यूना समिच्चेत्स्याद्यत्पाकत्नाहुतिं तदा ॥ ४८ ॥
हुत्वा संपादयेन्न्यूनमुक्तसंस्कारपूर्वकम् ।
अधिके त्वधिकं त्याज्यं भवेदत्रापि साऽऽहुतिः ॥ ४९ ॥
बहिरिध्मादिपतने स्थालीपाकादिकर्मसु ।
संस्थाप्य तूष्णीं स्वस्थाने जुहुयात्सर्वचित्तकम् ॥ ५० ॥
आधेयाग्न्युपघाते तु पुनस्त्वामन्त्रतः समित् ।
एतेनैवाऽऽहुतिस्त्वेका होतव्योपहतेऽनले ॥ ५१ ॥
यदा कदाचिदग्निश्चेत्स्वयं प्रज्वलितस्तदा ।
उद्दीप्यस्वेतिमन्त्राभ्यां द्वाभ्यामग्नौ समिद्द्वयम् ॥ ५२ ॥
प्रणीतानां प्रोक्षणीनां स्कन्दने पात्रपूरणम् ।
आपो हि ष्ठादिभिः कुर्यात्त[२]तमित्याहुतिस्ततः ॥ ५३ ॥
शोषे स्रावेऽप्येवमेव प्रायश्चित्तं प्रकीर्तितम् ।
समुत्सर्पेदायतनाद्बहिरग्निः स चेद्यदि ॥ ५४ ॥
पुनः प्रक्षेपणे योग्यस्तं धृष्ट्याऽऽदाय वै पुनः ।
स्वस्थाने व्याहृतीभिस्तं प्रक्षिपेत्तदनन्तरम् ॥ ५५ ॥
सर्वप्रायश्चित्तमनाज्ञातत्रयजपादि च ।
अध्वर्य्वाग्नीध्रहोतॄणां प्रयाजानां तथैव च ॥ ५६ ॥
अभावान्मा तम इति चित्तं नैतद्भवेदिह ।
अङ्गारो यद्यायतनात्पतितश्चेद्बहिः स च ॥ ५७ ॥

श्रौताग्नेर्लौकिकाग्नेर्वा सांनिध्याज्ज्ञायते नहि ।
कस्यानलस्यायमिति तदाङ्गारमुपेक्ष्य तम् ॥ ५८ ॥
सर्वाख्यचित्तं जुहुयादित्युक्तं द्विशतीकृता ।
श्रौताग्नावथ गृह्याग्नौ होतव्यं सर्वचित्तकम् ॥ ५९ ॥
निर्वापादूर्ध्वमाज्यं चेत्स्कन्देदुत्पवनात्पुरा ।
वरं दत्त्वा ब्राह्मणाय देवान्जनमगन्निति ॥ ६० ॥
एतैर्मन्त्रैः पञ्चभिर्यत्स्कन्नं तदनुमन्त्रयेत् ।
उत्पूयमानमाज्यं चेत्स्कन्देद्दत्त्वा तदा वरम् ॥ ६१ ॥
अजां गां वा प्रदत्त्वा च देवानित्यादि पूर्ववत् ।
स्कन्देदुत्पूतमाज्यं चेत्तदा यत्स्वगृहे भवेत् ॥ ६२ ॥
मुख्यं द्रव्यं प्रदत्त्वा तद्देवानित्यादि पूर्ववत् ।
गृहीताज्यस्कन्दने तु वरदानानुमन्त्रणे ॥ ६३ ॥
विधाय भूपतय इत्येतेन मनुना पुरः ।
स्कन्नाज्यस्य प्रकुर्वीत प्रादेशं तदनन्तरम् ॥ ६४ ॥
भुवनेति तु मन्त्रेण तस्य दक्षिणतो भवेत् ।
भूतानां पतय इति तस्य पश्चिमतो भवेत् ॥ ६५ ॥
भूतायेत्युत्तरे तस्योर्ध्वं तु व्याहृतिभिः स्मृतः ।
स्वाहान्ता मनवो ज्ञेया बुधैर्व्याहृतिभिर्विना ॥ ६६ ॥
स्कन्नोपरि ततो वारि सिञ्चेत्सं त्वेतिमन्त्रतः ।
प्रक्षिपेच्छुचिदेशस्थं चेद्यज्ञस्येतिमन्त्रतः ॥ ६७ ॥
अभिमन्त्र्याशुचिस्थं चेद्गृह्णीयात्स्थानतः पुनः ।
हविःस्कन्देऽप्येष एव प्रायश्चित्तविधिः स्मृतः ॥ ६८ ॥
स्कन्दनं स्रुवपर्याप्तस्याधिकस्यापि वा यदि ।
एतत्स्कन्दनचित्तं तु तदा ज्ञेयं विचक्षणैः ॥ ६९ ॥
स्रुवपर्याप्ततो न्यूनस्कन्दे सर्वाभिधं भवेत् ॥
द्रवद्रव्येषु सर्वेष्वप्येवमेव प्रकीर्तितम् ॥ ७० ॥
सर्वेषु कठिनद्रव्येष्वङ्गुष्ठपरुषोऽधिकम् ।
स्कन्नं यदि भवेत्पूर्वं चित्तमूने तु सर्वकम् ॥ ७१ ॥
नैव चित्तं भवेत्स्कन्दे बर्हिर्भस्मानलादिषु ।
अग्निक्षिप्ताहुतेः स्कन्दो बहिष्परिधि चेद्भवेत् ॥ ७२ ॥
संकृष्याञ्जलिना तां तु जुहुयान्मा यजेत्यतः ।
स्वस्यैव कर्तृताऽत्र स्यान्नाऽऽग्नीध्रस्तदसंभवात् ॥ ७३ ॥

एता संकृष्य जुहुधीत्येतल्लोपोऽत एव तु ।
पूर्णपात्रप्रदानस्यापि लोपोऽत्र प्रकीर्तितः ॥ ७४ ॥
निर्वापादावविहितां देवतां योजयेद्यदि ।
तस्मिन्द्रव्ये तु संयोज्य विहितां देवतां तदा ॥ ७५ ॥
यद्वो देवा अतीत्येतन्मनुना जुहुयात्ततः ।
देवतां चेदविहितां संस्मरन्निष्टवांस्तदा ॥ ७६ ॥
प्रायश्चित्तमिदं कृत्वा यागमावर्तयेत्कृतम् ।
एतदेव भवेच्चित्तमौपासनहुतावपि ॥ ७७ ॥
विपर्यासो यदि भवेत्स्वाहाकारप्रदानयोः ।
तदा मनोज्योतिरिति जुहुयाद्वै मनस्वतीम् ॥ ७८ ॥
अवदानद्रव्ययागदेवमन्त्रविपर्यये ।
ज्ञाते तन्त्रसमाप्तेः प्राक्त्वं नः स त्वं न आहुती ॥ ७९ ॥
जुहुयाद्द्वे ततः सर्वप्रायश्चित्तादिकं स्मृतम् ।
यन्मुख्यं स्वगृहे द्रव्यं दद्याद्विप्राय वै ततः ॥ ८० ॥
तन्त्रावृत्तिः पुनः कार्याऽत ऊर्ध्वं न भवेद्धुतिः ।
प्रधानद्रव्यस्यैकस्यानेकस्याप्यथवा पुनः ॥ ८१ ॥
बहुप्रधाने होमेऽनुत्पादे स्याद्यदि यागतः ।
पूर्वं स्मृतिस्तदा त्वं नः स त्वं नो अग्न आहुती ॥ ८२ ॥
हुत्वा द्रव्यं तदुत्पाद्य यागं कुर्याद्यथास्थितम् ।
स्मृते यागादुत्तरं तु कर्माऽऽरब्धं समापयेत् ॥ ८३ ॥
चित्तं ततोऽनन्तरोक्तमाहुत्यात्मकमाचरेत् ।
साङ्गस्यान्तरितस्यैव प्रधानस्य ततः कृतिः ॥ ८४ ॥
([३]एकदेशापहारेऽग्नेर्मनस्वत्याहुतिर्भवेत् ।
औपासनहुतौ प्रातर्होमे चेदग्नये हुतम् ॥ ८५ ॥
सायंहोमे तु सूर्याय हुतं चेत्स्यात्पुनः क्रिया ।
तदा होमस्य कर्तव्या पक्षश्चेत्स्वीकृतो भवेत् ॥ ८६ ॥
तदैव चित्तमेतत्स्यान्नान्यपक्षे भवेदिदम् । )
एकावदानाग्रहणे ज्ञाते यागात्पुरो यदि ॥ ८७ ॥
त्वं नः स त्वं न इत्याभ्यां जुहुयादाहुतिद्वयम् ।
अवदानं गृहीत्वा तद्यागं कुर्याद्यथास्थितम् ॥ ८८ ॥

यागोत्तरं यदि ज्ञातमाहुतिद्वयमेव तु ।
होतव्यं न तदा यागः पुनः कार्यो मनीषिभिः ॥ ८९ ॥




अथ वक्ष्ये हविर्दोषान्यैर्हविर्दुष्टतामियात् ।
अशुचिर्मक्षिका नीला याऽश्वदेहे च वर्तते ॥ ९० ॥
कुशातिका गवामङ्गे तल्पादिषु च मत्कुणः ।
यूका चैलशिरःस्था स्यात्कीटश्च मलपिण्डकृत् ॥ ९१ ॥
मार्जारो नकुलश्चाऽऽखुर्विष्ठा वायसकुक्कुटौ ।
श्वा वानरो वस्त्रदशा छिन्नकेशनखानि च ॥ ९२ ॥
अशुचि स्याच्छरीरस्थमपि कुत्सितकं नखम् ।
द्रव्याणि पूतिगन्धीनि घुणाख्यः कीट एव च ॥ ९३ ॥
द्रप्सस्वेदाश्र्वसृक्स्नेहकासक्षवथवस्तथा ।
नासिकामुखजो बिन्दुर्द्रप्सो ज्ञेयो हि सूरिभिः ॥ ९४ ॥
शरीरजं जलं स्वेदो वार्यश्रूक्तं हि नेत्रजम् ॥
असृग्ज्ञेयं हि रुधिरं स्नेहो घ्राणमलः स्मृतः ॥ ९५ ॥
कासः श्लेष्मविकारः स्याद्वदनाद्यो विनिर्गतः ।
क्षवथुः क्षुतमित्युक्तं गोपालाख्येन सूरिणा ॥ ९६ ॥
मूत्रमज्जे वसाशुक्रे कर्णविट्पूयसस्तथा ।
एतैरशुचिभिः स्पृष्टमन्यैरेतादृशैरपि ॥ ९७ ॥
उदक्यासूतिकाभ्यां वा चण्डालपतितादिभिः ।
शिशुर्यज्वा गर्भिणी च ब्राह्मणो नृप इत्यमी ॥ ९८ ॥
भ्रूणा एतद्विहन्तारः स्मृता भ्रूणहनो बुधैः ।
एतैरन्यैश्च पापिष्ठैः स्पृष्टं दृष्टं च यद्भवेत् ॥ ९९ ॥
यत्र प्रसूयते नारी म्रियते दह्यतेऽपि वा ।
चण्डालाध्युषिते यत्र यत्र विष्ठादिसंगतिः ॥ १०० ॥
तस्मिन्नमेध्ये देशे यन्निहितं तच्च दुष्यति ।
दुष्टं प्रधानयागात्प्राग्घविर्यदि भवेत्तदा ॥ १ ॥
शुद्धवारिणि हस्तेन तद्धविः प्रक्षिपेत्ततः ।
द्वे मिन्दे जुहुयात्सर्वप्रायश्चित्तादिकं तथा ॥ २ ॥
पुनर्हविस्तावदेवोत्पाद्य यागः क्रमाद्भवेत् ।
अत्यशक्तौ पुनर्यागमाज्येनैव समाचरेत् ॥ ३ ॥

दुष्टे यागोत्तरं शेषमाज्येनैव समापयेत् ।
दुष्टेन हविषा यागः कृतश्चेज्जुहुयात्तदा ॥ ४ ॥
प्रणवेन व्याहृतिभिर्जुहुयाद्द्वे स्रुवाहुती ।
पुनर्यागो नात्र भवेत्कात्यायनमुनिस्मृतेः ॥ ५ ॥
अवदानस्य ग्रहणे दोषज्ञानं यदा भवेत् ।
प्रक्षिपेत्तद्धविः सर्वं दुष्टं शुद्धजले ततः ॥ ६ ॥
पुनर्हविः समुत्पाद्य त्वं नः स त्वं न आहुती ।
हुत्वा यागं तेन कुर्यादनाज्ञातजपादि च ॥ ७ ॥
मध्यात्पूर्वार्धतोऽवत्तं गृहीतं दोषगामि चेत् ।
तत्प्रक्षिप्य जले शुद्धे मध्यात्पूर्वार्धतः पुनः ॥ ८ ॥
अवदाय यजेत्सर्वप्रायश्चित्तादिकं ततः ।
प्रधानयागद्रव्यस्य प्रधानात्प्राग्विनाशनम् ॥ ९ ॥
ज्ञातं भवेत्तदा तस्मिन्नेव तन्त्रे तदैव तु ।
नष्टं हविः समुत्पाद्य तेन यागं समाचरेत् ॥ ११० ॥
यागे बहुहविष्के स्यात्सर्वेषां हविषां यदि ।
नाशो दोषोपहारो वा प्रतिसंख्याय देवताः ॥ ११ ॥
इष्ट्वाऽऽज्येनैव सर्वास्ता यागमावर्तयेत्पुनः ।
अवर्जनीयैः क्षुद्रैश्चेन्मक्षिकाकीटकादिभिः ॥ १२ ॥
पिपीलिकादिभिश्चैव जीवैः स्याद्धविषो यदि ।
योगः पञ्चाधिकैर्ज्ञेया तदा तस्य सदोषता ॥ १३ ॥
न्यूनैश्चेत्पतिताञ्जीवानुद्धृत्याद्भिः समुक्ष्य च ।
लौकिकाभ्यां पवित्राभ्यां पवनात्तस्य योग्यता ॥ १४ ॥
हविष्यपक्वे चित्तं तु कर्माऽऽरब्धं समाप्य तत् ।
चतुःशरावमात्रं तु पक्त्वा सुशृतमोदनम् ॥ १५ ॥
भोजयेत्तेन चतुरः सुशीलान्ब्राह्मणाञ्शुचीन् ।
तेषां भार्गव एकः स्यात्तेभ्यो देया वराः समाः ॥ १६ ॥
कृत्स्नं दग्धं यदा तत्स्यात्पुनरुत्पादयेद्धविः ।
स एव यागः कर्तव्यो न पुनर्याग इष्यते ॥ १७ ॥
स्वल्पं हविरदग्धं चेत्तदा सर्वाभिधानकम् ।
प्रायश्चित्तं प्रकुर्वीत ततो यागं च शेषतः ॥ १८ ॥

समापयेद्धृतेनान्यन्न पुनर्याग इष्यते ।
अधुना हविरुत्सेकप्रायश्चित्तं प्रवक्ष्यते ॥ १९ ॥
प्राच्यां दिशि समुत्सेकेऽग्नये स्वाहाहुतिर्भवेत् ।
दक्षिणस्यां यमायेति वरुणायेति पश्चिमे ॥ १२० ॥
सोमायेत्युत्तरस्यां स्यात्सर्वाभ्यः सर्वदिक्षु चेत् ।
यद्यवान्तरदिक्षु स्या[४]द्धोमो व्याहृतिभिस्तदा ॥ २१ ॥
सर्वेष्वेतेषु होमत्वात्स्वाहाकारान्तता भवेत् ।
आप्यायस्वेति समिति चाऽऽज्येनाऽऽप्याययेद्धविः ॥ २२ ॥
द्वे मिन्दे जुहुयात्सर्वप्रायश्चित्तादिकं तथा ।
यागान्वाधानयोर्मध्ये यदि सूर्यग्रहो भवेत् ॥ २३ ॥
उद्वयं तमसस्पर्युदु त्यं चित्रमिति त्रिभिः ।
जुहुयादाहुतीस्तिस्रः प्रधानात्पूर्वमेव तु ॥ २४ ॥
कैश्चिन्मन्त्रत्रयेणात्रोपस्थानमपि कीर्तितम् ।
मध्ये चन्द्रग्रहश्चेत्प्राक्प्रधानादाहुतिद्वयम् ॥ १२५ ॥
नवो नवो यमादित्या इत्याभ्यां जुहुयात्तदा ।
कैश्चिन्मन्त्रद्वयेनात्रोपस्थानमपि कीर्तितम् ॥ २६ ॥
अन्वाधानाक्रियायां तु न प्रायश्चित्तमिष्यते ।
वानस्पत्यस्य पात्रस्य भेदनेऽन्यत्समाहरेत् ॥ २७ ॥
गृह्याग्नौ ज्वलितं भिन्नं प्राग्दण्डं प्रहरेत्ततः ।
लौकिकानलसाध्यायां क्रियायां लौकिकेऽनले ॥ २८ ॥
वानस्पत्यस्य भिन्नस्य प्रक्षेपः पूर्ववद्भवेत् ।
मृन्मयं चे[५]द्विभिद्येत भूमिर्भूमिमगादिति ॥ २९ ॥
ब्रह्माभिमन्त्रितं भिन्नमभावे स्वाभिमन्त्रितम् ।
क्षिपेत्पात्रं जले शुद्धे तत्कार्येऽन्यन्नियोजयेत् ॥ १३० ॥
क्रियाकाले विधिमिमं प्राहुरन्ये तु सर्वदा ।
यत्किंचित्पात्रभेदे तु प्रणवेन घृताहुतिः ॥ ३१ ॥
समस्तव्याहृतीभिर्वा होतव्या यज्ञपार्श्वतः ।
आज्याधिश्रयणात्पूर्वं निरूढाग्नेर्विनाशनम् ॥ ३२ ॥
भवेद्यदि तदा स्थानात्पुनः कुर्यान्निरूहणम् ।
ततश्चतुर्गृहीतेन मनस्वत्याहुतिर्भवेत् ॥ ३३ ॥

आज्यस्योद्वासनादूर्ध्वं निरूढाग्नेर्विनाशने ।
मनस्वत्येव होतव्या न तु तत्र निरूहणम् ॥ ३४ ॥
प्रधानाहुतिसंसृष्टा स्याच्चेत्स्विष्टकृदाहुतिः ।
तदा सर्वाभिधं चित्तमनाज्ञातजपादि च ॥ १३५ ॥
अन्वाधानोत्तरं स्वप्ने भवेत्स्वाम्यृत्विजां यदि ।
रेतःपातस्तदेमं मे तत्त्वा यामीति चाऽऽहुती ॥ ३६ ॥
हुत्वा व्याहृतिभिश्चैकां सूर्यं संपूजयेत्ततः ।
पुनर्मामनुवाकस्य जपस्त्रिरथ वा सकृत् ॥ ३७॥
विसर्गो बुद्धिपूर्वं चेत्तदा व्रातपतोऽधिकः ।
स्थालीपाकः प्रकर्तव्यः पूर्णाहुतिरथापि वा ॥ ३८ ॥
नैमित्तिको विरामश्चेत्किंचित्प्रारब्धकर्मणि ।
सदा सर्वाभिधं चित्तं हुत्वा शेषं समापयेत् ॥ ३९ ॥
चतुष्पादद्विपादानां कर्ममध्ये भवेद्यदि ।
ऋत्विजामृत्विगग्न्योर्वा पतिहोत्रोरथापि वा ॥ १४० ॥
चेद्वा भवेत्स्वामिपत्न्योरन्तरा गमनं तदा ।
मिन्दादिसंज्ञं दुर्गादिसंज्ञं वा जुहुयाद्गणम् ॥ ४१ ॥
दर्व्यां द्वादशवारं तु गृहीत्वा स्रुचि वा घृतम् ।
तेन पञ्चाऽऽहुतीः कार्या दुर्गादिगणहोमके ॥ ४२ ॥
एतत्कर्तुमशक्तश्चेज्जुहुयात्सर्वचित्तकम् ।
मिन्दाहुतिद्वयं चैव व्याहृत्यः प्रणवाधिकाः ॥ ४३ ॥
वारुण्यस्तन्तुमत्यश्चानुख्या चैव मनस्वती ।
महाव्याहृतयः सप्त ते प्रजापत एव च ॥ ४४ ॥
एष मन्त्रसमूहः स्यान्मिदादिगणसंज्ञकः ।
जातवेदस आद्यः स्यान्मनोज्योतिर्द्वितीयकः ॥ ४५ ॥
महाव्याहृतयस्तिस्र एष दुर्गादिको गणः ।
अन्वाहिताग्निरथ चेत्प्रयास्यञ्जुहुयात्तदा ॥ ४६ ॥
तुभ्यमित्याहुतिं हुत्वाऽरण्योः समिधि वा ततः ।
समारोप्यानलं यत्र वसेत्तत्र तु मन्थनम् ॥ ४७ ॥
उपावरोहमन्त्रेण कृत्वा कर्म समापयेत् ।
प्रमादादिष्ट्यकरणमन्वाधानोत्तरं यदि ॥ ४८ ॥

व्यस्ताभिश्च समस्ताभिः स्यादाहुतिचतुष्टयम् ।
औपासनाहुतिद्रव्यं कठिनं वाऽथ चेद्द्रुतम् ॥ ४९ ॥
स्कन्देदस्कान्द्यौदस्कानित्येताभ्यामभिमन्त्र्य तत् ।
उन्नम्भयेति तस्याथोपरिष्टात्प्रक्षिपेज्जलम् ॥ १५० ॥
अनाज्ञातजपं कृत्वा सर्वचित्तं विधाय च ।
स्कन्नं द्रव्यं समादद्याद्गत्वोत्तरदिशं ततः ॥ ५१ ॥
उद्घाटितबिलां कुर्याद्वल्मीकस्य वपां शुचिम् ।
उपस्पृश्य जलं शुद्धं दक्षिणेन करेण तु ॥ ५२ ॥
स्कन्नं सर्वं समादाय प्रजापत इति ह्यृचा ।
तस्मिन्बिले क्षिपेद्भूरित्युपतिष्ठेद्धृदा ततः ॥ ५३ ॥
जुहोतिचोदनाभावान्नर्चि स्वाहाकृतिर्भवेत् ।
पुनर्होमं प्रकुर्वीत संकल्पादि च पूर्ववत् ॥ ५४ ॥
औपासनाहुतिद्रव्ये कठिने वा द्रुतेऽपि वा ।
अमेध्यसेवी पिण्डस्य कर्ता कीटो यदा पतेत् ॥ १५५ ॥
प्रायश्चित्तं तदा तत्र पूर्ववत्तु समाचरेत् ।
तत्राऽऽदानं ह्यन्तिमेन मध्यमेनाथवा भवेत् ॥ ५६ ॥
पलाशस्य च पर्णेन मही द्यौः पृथिवीत्यृचा ।
अन्तःपरिधि देशे तत्त्यजेत्पात्रस्य संस्कृतिम् ॥ ५७ ॥
विदधीत ततो योग्यामन्यत्सर्वं तु पूर्ववत् ।
पयसौपासनहुतौ स्थाल्याश्चेत्स्रवणं भवेत् ॥ ५८ ॥
गर्भ स्रवन्तमगदमित्येतेनाभिमन्त्रयेत् ।
सूर्यास्ततो होमकालः प्रोक्तस्तु नव नाडिकाः ॥ ५९ ॥
तदतिक्रमणे हुत्वाऽऽहुतिं दोषेतिमन्त्रतः ।
एतस्या आहुतेर्देवो वरुणः परिकीर्तितः ॥ १६० ॥
प्राक्तनं समिदाधानात्कर्म कुर्याद्यथास्थितम् ।
रुन्ध्याद्यावद्बलं श्वासं वरं दद्यादनन्तरम् ॥ ६१ ॥
समस्तव्याहृतीरुक्त्वा नित्यं होमं समाचरेत् ।
व्याहृतीभिरुपस्थाय होमशेषं समाप्य च ॥ ६२ ॥
वरुणाय चरुः कार्यः पूर्णाहुतिरथापि वा ।
प्रातर्होमस्य कालस्तु घट्यो द्वादश वा दश ॥ ६३ ॥
संगवः सूरिभिः प्रोक्तः प्रहरात्मक एव वा ।
एतस्यातिक्रमे प्रातरित्येतेनाऽऽहुतिर्भवेत् ॥ ६४ ॥

एतस्या आहुतेर्देवो मित्रः सूर्योऽथवा स्मृतः ।
पूर्वं च समिदाधानाच्छ्वासरोधो यथाबलम् ॥ १६५ ॥
वरदानं प्रकुर्वीत व्याहृत्युच्चारणं तथा ।
नित्यहोममुपस्थानं व्याहृतीभिस्तथैव च ॥ ६६ ॥
होमशेषं समाप्याथ मैत्रसौर्यचरू स्मृतौ ।
वक्ष्ये होमस्य विच्छेदे प्रायश्चित्तमथाधुना ॥ ६७ ॥
अयाश्चेत्याहुतिः कार्या विच्छेदेऽर्वाक्त्रिरात्रतः ।
मनस्वत्या द्वितीया स्यादर्वाक्चेत्सप्तरात्रतः ॥ ६८ ॥
तन्तुमत्या तृतीया स्यादर्वाक्चेद्द्वादशाहतः ।
तत्रापि होमविच्छेदे पुनराहितिरेव तु ॥ ६९ ॥
जुहुयात्प्रतिसंख्याय वैतान्होमान्महापदि ।
ऊर्ध्वं चेदेष आपत्तावपि कल्पो न युज्यते ॥ १७० ॥
खण्डस्याऽऽक्षेपकत्वेऽपि वस्तुतः प्रबलत्वतः ।
श्रौतमेव भवेच्चित्तं नाया इत्यादिकं भवेत् ॥ ७१ ॥
तद्धि शास्त्रान्तरोक्तत्वाद्दुर्बलं नात्र युज्यते ।
श्रौतं चित्तं तदधुना सुस्पष्टं संप्रवक्ष्यते ॥ ७२ ॥
द्वयोस्त्रयाणामेकस्य वा होमस्यातिपातनम् ।
सप्तहोतृमनस्वत्यौ जुहुयात्तदनन्तरम् ॥ ७३ ॥
समाचरेदतिक्रान्तं होमं नेत्यपरे जगुः ।
एवमेव प्रातरौपासनहोमं समाचरेत् ॥ ७४ ॥
चतुर्थ्यादिषु षष्ठान्तेष्वेकस्य ह्यतिपातनम् ।
सप्तान्तेष्विति केचित्तु बुधाः प्राहुः पुरातनाः ॥ १७५ ॥
द्वयोस्त्रयाणां सर्वेषां वा स्यात्तन्तुमते चरुः ।
अष्टमादिष्वपि चरुरेव तान्तुमतो भवेत् ॥ ७६ ॥
अत ऊर्ध्वमतिक्रामे भवेत्तु पुनराहुतिः ।
उतैकाहमिति श्रुत्यैकाहं वा द्व्यहमेव च ॥ ७७ ॥
होमातिपत्तौ चित्तं न भवेत्कैश्चिदितीरितम् ।
यद्यस्तमितविभ्रान्त्या जुहुयादस्वकालके ॥ ७८ ॥
साङ्गो होमः पुनः कार्यस्तस्मिन्नेवानले ततः ॥
जातत्वान्न पुनः कार्यं प्रादुष्करणमत्र तु ॥ ७९ ॥
होमानन्तरमग्नेस्तु भवतं न उपस्थितिः ।
एवमेवोदितभ्रान्तौ प्रायश्चित्तं प्रकीर्तितम् ॥ १८० ॥

ऊर्ध्वं प्रादुष्कृतेर्होमात्पूर्वं स्वामी समाचरेत् ।
भक्षणं चेद्धुतेः पूर्वं तस्मिन्नेवानले ततः ॥ ८१ ॥
कुर्याद्व्रातपतस्थालीपाकं स्या[६]द्वाऽऽहुतिद्वयम् ।
यत्ते वयं यथा हेति होममन्त्रौ प्रकीर्तितौ ॥ ८२ ॥
समिधौ वा समादध्यादथवा प्रजपेदिमौ ।
पत्न्यामप्येवमेवेदं प्रायश्चित्तं प्रकीर्तितम् ॥ ८३ ॥
अतिसंकटतः प्रातर्होमो यदि न जायते ।
तदैतस्मिन्दिने स्वामी भोजनं न समाचरेत् ॥ ८४ ॥
सायंहोमे तु तद्रात्रौ भोजनं न समाचरेत् ।
एतावता होमसिद्धिः प्रायश्चित्तं न हीष्यते ॥ १८५ ॥
पूर्वाहुतेश्चेदुपरि स्कन्दः स्यादुत्तराहुतेः ।
तदा यत्रेत्यृचा वह्नौ वानस्पत्याभिधानया ॥ ८६ ॥
आदध्यात्समिधं पश्चात्स्कन्नशेषेण तूत्तराम् ।
तूष्णीं हुत्वाऽऽहुतिं सर्वं होमशेषं समापयेत् ॥ ८७ ॥
पुनर्होमं ततः कुर्यादभिहोमेऽप्यदो भवेत् ।
उत्तराहुतिपर्याप्तद्रव्यसत्त्वे भवेन्न हि ॥ ८८ ॥
औपासनाहुतिद्रव्ये वृष्टिबिन्दुः पतेद्यदि ।
उपसाद्य हविः कूर्चे प्राकृतां समिदाहितिम् ॥ ८९ ॥
कृत्वा जपेद्व्याहृतीस्तु तेनैव हविषा ततः ।
मित्रो जनान्कल्पयतीत्यनया प्रथमाहुतिः ॥ १९० ॥
उत्तराहुतिहोमादिहोमशेषं ततश्चरेत् ।
ततः संकल्पप्रभृतिपुनर्होमं समाचरेत् ॥ ९१ ॥
प्रादुष्करणकालस्यातिक्रमे सर्वचित्तकम् ।
औपासनाहुतौ स्याच्चेद्द्वितीयाहुतिविस्मृतिः ॥ ९२ ॥
समाप्तेः कर्मणः प्राक्सा होतव्याऽन्तरिताऽऽहुतिः ।
उत्तरं चेत्स्मृतिः सर्वचित्तमेव न चाऽऽहुतिः ॥ ९३ ॥
आद्याहुतेर्विस्मृतौ तु कृत्स्नं होमं पुनश्चरेत् ।
स्वकाले यद्यनारम्भः स्यादाद्यौपासनाहुतेः ॥ ९४ ॥
तदा परेद्युः सायं स्यात्सप्तहोत्राहुतिस्तथा ।
मनस्वत्या द्वितीया स्यात्ततो होमं समारभेत् ॥ १९५ ॥

पिण्डयज्ञात्यये सप्तहोतृहोमः प्रकीर्तितः ।
औपासनाग्नेर्गमन उपलेपादि पूर्ववत् ॥ ९६ ॥
आहृत्य श्रोत्रियागारात्प्रतिष्ठाप्य हविर्भुजम् ।
विवाहे यदि निर्मन्थ्यो मथितव्यस्तदाऽनलः ॥ ९७ ॥
आऽन्यस्माद्धोमकालात्स्त्री नाश्नीयादथवा गृही ।
उपोषणाशक्ततायां विध्यन्तरमथोच्यते ॥ ९८ ॥
उपलेपादिकं वह्निस्थापनान्तं तु पूर्ववत् ।
पात्राणि च समासाद्य कुर्यात्प्राग्वत्पवित्रके ॥ ९९ ॥
संस्कृत्य प्रोक्षणीः पश्चात्पात्राणां प्रोक्षणं ततः ।
दर्वीं संमृज्य संस्कृत्याऽऽज्यं प्रागुक्तविधानतः ॥ २०० ॥
परिस्तीर्यानलं पश्चात्परिषेकं समाचरेत् ।
अलंकारं प्रकुर्वीताभ्याधानं समिधस्तथा ॥ १ ॥
अयाश्चेत्याहुतिं हुत्वा विसृज्य स्तरणानि तु ।
कृत्वोत्तरं ततः सेकं होमं नित्यं समाचरेत् ॥ २ ॥
अपोढे वर्तमाने तु मुख्योऽग्निर्यदि गच्छति ।
अपोढाग्नेरेकदेशं मुख्याग्न्यायतने ततः ॥ ३ ॥
निधाय सर्वचित्तं तु जुहुयाद्भुवआहुतिम् ।
शान्तिके पौष्टिके चैव गृह्यानुक्ते तु कर्मणि ॥ ४ ॥
अग्नेरनुगतिश्चेत्स्यात्तद्भस्म प्रक्षिपेद्बहिः ।
अनन्तरं स्थण्डिलस्योपलेपोल्लेखनादिकम् ॥ २०५ ॥
कृत्वा संस्थाप्य तत्राग्निमाज्यसंस्कृतिमाचरेत् ।
जुहुयात्तेन सर्वाख्यचित्तं संस्थापितेऽनले ॥ ६ ॥
अयाश्चेत्यपि होतव्यमिति केचिद्बुधा जगुः ।
औपासनाग्न्यनुगतावेवाया इति चित्तकम् ॥ ७ ॥
इत्येतस्मिन्मते नैतद्भवेदुपनयादिषु ।
किं त्वेतेष्वपि विज्ञेयं सर्वाख्यं चित्तमेव हि ॥ ८ ॥
गायत्र्या उपदेशात्प्राङ्मुख्यहोमादनन्तरम् ।
उपनायेऽग्निनाशश्चेदग्निं संस्थाप्य पूर्ववत् ॥ ९ ॥
हुत्वा मुख्याहुती तत्र जुहुयात्सर्वचित्तकम् ।
उपदेशोत्तरं नाशे स्यात्सर्वाभिधमात्रकम् ॥ २१० ॥
पाणिग्रहणतः प्राक्चेद्विवाहेऽनलनाशनम् ।
तदा मुख्याहुतीरेव नायाश्चेत्यादि चित्तकम् ॥ ११ ॥

अत ऊर्ध्वं त्वेतदेव सर्वाख्यमुभयत्र तु ।
संसर्गे कुणपोदक्यासूतिकापतितादिभिः ॥ १२ ॥
अन्याग्निभिश्च संसर्गे स्यात्तत्र पुनराहितिः ।
([७]वस्तुतोऽन्याग्निसंसर्गे वैविचश्चरुरेव तु ॥ १३ ॥
क्षेपकत्वात्तु खण्डस्य नैवात्र पुनराहितिः । )
श्रौतातिदेशात्सूत्याद्यैः संसर्ग इयमेव तु ॥ १४ ॥
गृह्याग्निद्वयसंसर्गे गृह्याग्निस्वामिनावुभौ ।
गृहीत्वा समिधौ तस्मिन्संसृष्टाग्निं सहैव तु ॥ २१५ ॥
मन्त्रेण तु समारोप्य ततस्तं लौकिकानलम् ।
मन्त्रेणाच्छा गिर इति विभज्योभौ ततोऽनले ॥ १६ ॥
स्वे स्वे स्वां स्वां च समिधमुपावेति तु मन्त्रतः ।
निक्षिपेत्तां ततः पाको वैविचस्तूभयोर्भवेत् ॥ १७ ॥
पृथग्गतोऽग्न्येकदेशः संसृष्टो लौकिकाग्निना ।
श्रौताग्निना वाऽथ यदि वैविचो न तदा भवेत् ॥ १८ ॥
किंतूपेक्ष्यैकदेशं तं जुहुयात्सर्वचित्तकम् ।
शतद्वयीकृद्वरदराजाभ्यामित्थमीरितम् ॥ १९ ॥
वनदाहाग्निसंसर्गे भवेद्व्रात[८]पतश्चरुः ।
चरुस्तदा स्याच्छुचये चेत्संसर्गः शवाग्निना ॥ २२० ॥
सूतिकानलसंसर्गे भवेत्सांकुसुकश्चरुः ।
वैद्युतानलसंसर्गे भवेदाप्सुमतश्चरुः ॥ २१ ॥
[९]पाकानां वैविचादीनां पञ्चानां संनिपातने ।
निमित्तक्रमसत्त्वेऽपि ज्ञेयो वाचनिकः क्रमः ॥ २२ ॥
विविचिश्च शुचिः पश्चाद्व्रतभृच्चाप्सुमांस्ततः ।
ततः संकुसुक इति क्रमस्तत्रैवमेव तु ॥ २३ ॥
संनिपाते क्षामवतोऽप्यन्त एव भवेदयम् ।
चतुरादिषु यस्य स्यान्निमित्तस्य त्वसंभवः ॥ २४ ॥
तावन्मात्रं परित्यज्यान्यः क्रमः पूर्ववद्भवेत् ।
स्थालीपाकातिपत्तौ तु चरुः पाथिकृतो भवेत् ॥ २२५ ॥

द्वयोरतिक्रमे वैश्वानरपाथिकृतौ चरू ।
तृतीयाद्यतिपत्तौ तु स्यात्तत्र पुनराहितिः ॥ २६ ॥
क्षेपकत्वे तु खण्डस्य स्थालीपाकातिपातने ।
श्रौत एव प्रकार: स्यात्स इदानीं प्रवक्ष्यते ॥ २७ ॥
आरब्धौ पार्वणस्थालीपाकौ चेदतिपन्नकौ ।
स्यातां तदा पाथिकृतं स्थालीपाकं समाचरेत् ॥ २८ ॥
भवेतां यद्यनारब्धावेतौ चेदतिपन्नकौ ।
तदा वैश्वानरस्थालीपाकं कुर्याद्विचक्षणः ॥ २९ ॥
प्रथमस्य प्रयोगस्य संकल्पोत्तरमक्रिया ।
चेद्विभ्रेषनिमित्तं तु प्रकर्तव्यं चरुत्रयम् ॥ २३० ॥
स्थालीपाकमकरणे तत्प्रकारः प्रदर्श्यते ।
कर्मणो गौणकालश्चेत्ततस्तस्याप्यनुष्ठितिः ॥ ३१ ॥
प्रकारान्तरमप्यत्राधुनाऽतिपतने ब्रुवे ।
आरब्धयोर्द्वयोः पातः स्याच्चेत्पाथिकृतश्चरुः ॥ ३२ ॥
ऊर्ध्वयोरपि पातश्चेत्तदा वैश्वानरश्चरुः ।
स्वकाले यद्यनारम्भश्चेत्स्थालीपाकयोर्द्वयोः ॥ ३३ ॥
विभ्रेषार्थं तदा कार्यं स्थालीपाकत्रयं बुधैः ।
पर्वणि व्रतलोपे तु कुर्याद्व्रातपतं चरुम् ॥ ३४ ॥
पर्वण्यार्त्याऽश्रुपाते तु कुर्याद्व्रातभृतं चरुम् ।
पवित्रस्य विनाशे तु स्यात्पवित्रवते चरुः ॥ २३५ ॥
हिरण्यस्य विनाशे तु स्याद्धिरण्यवते चरुः ।
स्वकीयगृहदाहे तु कुर्यात्कामवते चरुम् ॥ ३६ ॥
होममौपासनं दर्शस्थालीपाकादिकं तथा ।
जुहुयात्प्रातरस्नातश्चेत्तदा वारुणश्चरुः ॥ ३७ ॥
ऋत्विक्स्याद्यदि सुस्नातोऽस्नातश्चाथ स्वयं भवेत् ।
तदाऽपि वारुणः कार्यो नात्यन्तातुर एष तु ॥ ३८ ॥
विज्ञेयं प्रातरेवेदं सायं स्यात्सर्वचित्तकम् ।
अदने सूतकान्नस्य भवेत्तन्तुमते चरुः ॥ ३९ ॥
भार्या युग्मप्रसूर्गौर्वा स्यात्तदा मारुतश्चरुः ।
यमौ जातौ पुमांसौ चेत्तयोरेकोऽपि वा पुमान् ॥ २४० ॥
वैश्वानरो मारुतश्चेत्येवं केचिद्बुधा जगुः ।
एवंरूपाणीति सूत्राद्गृह्योक्तोऽप्याद्भुतो विधिः ॥ ४१ ॥

समुच्चीयत एवात्र भवेदौपासने स च ।
कात्यायनादिभिर्ह्येतस्याप्युक्ताऽद्भुतताऽस्ति वै ॥ ४२ ॥
य आहिताग्नेरित्येतच्छास्त्राङ्गीकार एव तु ।
स्थालीपाको भवेदेषोऽनङ्गीकारे त्वयं न हि ॥ ४३ ॥
गृह्योक्तविधिमेवात्र कल्पेऽस्मिंस्तु समाचरेत् ।
स्नातकस्य यदा गौः स्याद्युग्मसूर्लौकिकानले ॥ ४४ ॥
प्रकुर्वीत तदा स्थालीपाकं गार्ह्यविधिं च सः ।
गृह्योक्तविधिमात्रं वा स्थालीपाको भवेन्न तु ॥ ४५ ॥
वर्णिनो विधुरस्यापि विधिरेवं प्रकीर्तितः ।
कात्यायनोक्तमेवात्र विधिं केचित्समूचिरे ॥ ४६ ॥
सर्वेऽपीमं विधिं कुर्युरिति प्राहुर्बुधाः परे ।
पुमानन्यतरः सोऽपि मृतस्तत्रापि मारुतः ॥ ४७ ॥
आहिताग्नेर्भवेदिष्टिरिष्टी चेति यथायथम् ।
कात्यायनोक्तस्य विधेर्विकल्पः स्यादनुष्ठितौ ॥ ४८ ॥
मृतशब्दश्रुतौ स्वस्य स्यात्सौरभिमतश्चरुः ।
अनिष्ट्वाऽऽग्रयणेनान्नं भक्षयेद्यदि नूतनम् ॥ ४९ ॥
वैश्वानराख्यदेवत्यं चरुं कुर्वीत तत्र तु ।
अविप्रतिग्रहेऽप्येष हिरण्यं दक्षिणाऽत्र तु ॥ २५० ॥
विद्विषाणस्य चेदन्नं भुञ्जीयात्स्यात्तदाऽप्ययम् ।
अग्निर्गुणी भवेदेषु विविच्याद्या गुणाः स्मृताः ॥ ५१ ॥
स्थालीपाके त्वतिक्रान्ते यद्यन्याग्नौ स्वयं यजेत् ।
स्वाग्नावन्यो यजेद्यद्वा स्यादाग्नावैष्णवश्चरुः ॥ ५२ ॥
प्रधानोत्तरविज्ञान एवैष चरुरीरितः ।
स्थालीपाकं पुनः कुर्यादनिषिद्धे दिने बुधः ॥ ५३ ॥
पूर्वं चेत्तत्परित्यज्य हविः सर्वाख्यचित्तकम् ।
तदा होतव्यमेतावदेव चित्तं चरुर्न तु ॥ ५४ ॥
अत्रापि स्थालीपाकस्याऽऽहुराचार्याः पुनः क्रियाम् ।
सर्वेष्वेतेषु कर्तव्या पूर्णाहुतिरथापि वा ॥ ५५ ॥
स्थालीपाके त्वनारब्धे नियतैषा प्रकीर्तिता ॥ ५६ ॥

इति संक्षेपेण प्रायश्चित्तानि ।

प्रायश्चित्तमन्त्राणामृष्यादिकथनम् ।

 अथ कारिकासूपात्ताः प्रायश्चित्तमन्त्रा ऋष्यादिसहिता उच्यन्ते--

 अनाज्ञातमितिमन्त्रत्रयस्य विश्वे देवा ऋषयः, अग्निर्देवता, प्रथमद्वितीययोरनुष्टुप्, तृतीयस्य त्रिष्टुप् । प्रायश्चित्तार्थे जपे विनियोगः-- "ॐ अनाज्ञातं य० तथम् । पुरुष० तथम् । यत्पाकत्रा० यजाति" । इदं विष्णुरित्यस्य[१०] मन्त्रस्य सोमो विष्णुर्गायत्री । प्रायश्चित्तार्थे जपे विनियोगः-- "ॐ इदं विष्णु० सुरे"। समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । प्रायश्चित्तार्थे जपे विनियोगः-- "ॐ भूर्भुवः सुवः" । आभिर्गीर्भिरित्यस्य विश्वे देवा हरिवानिन्द्रस्त्रिष्टुप् । स्वराक्षरादिलोपनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः-- "ॐ आभिर्गीर्भिर्य० ते स्याम स्वाहा" हरिवत इन्द्रायेदं० । त्वं नो अग्ने स त्वं नो अग्न इत्यन[११]योर्मन्त्रयोर्विश्वे देवा अग्निर्वरुणश्च त्रिष्टुप् । मन्त्रलोपनिमित्तकेऽमुककर्मलोपनिमित्तके विपर्यासनिमित्तके वा प्रायश्चित्ताज्यहोमे विनियोगः-- "ॐ त्वं नो अ० स्मत्स्वाहा" अग्नये वरुणाय चेदं० । "ॐ स त्वं नो० एधि स्वाहा" अग्नये वरुणाय चेदं । त्वमग्ने अयासीत्यस्य विश्वे देवा अया अग्निरनुष्टुप् । प्रजापत इत्यस्य विश्वे देवाः प्रजापतिस्त्रिष्टुप् । परिस्तरणदाह[१२]निमित्तकप्रायश्चित्ताज्यहोमे विनियोगः-- "ॐ त्वमग्ने अ० षज स्वाहा" अयसेऽग्नय इदं० । "ॐ प्रजापते० णा स्वाहा" प्रजापतय इदं० । परिध्यादिदाहे तु तत्तच्छब्देनोहो विनियोगवाक्ये । छेदनादिषु दाहशब्दे छेदनादिशब्दोहः । यत्पाकत्रेत्यस्य विश्वे देवा अग्निस्त्रिष्टुप् । इध्मसमिन्न्यूनत्वनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः-- "ॐ यत्पाकत्रा ० जाति स्वाहा" अग्नय इदं० । इध्मसमिदतिरेकनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः । इतीध्मसमिदतिरेकप्रायश्चित्ताज्यहोमे विनियोगवाक्यम् । समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । बर्हिष्पतननिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः-- "ॐ भूर्भुवः सुवः स्वाहा" प्रजापतय इदं० । एवमिध्मादिपतनेऽपि । पुनस्त्वे[१३]त्यस्य मन्त्रस्याग्निरादित्या रुद्रा वसवो ब्रह्माणश्च त्रिष्टुप्[१४] । पुनस्त्वेतिमन्त्रस्याग्निर्वसुनीथोऽग्निस्त्रिष्टुबिति वा । अग्न्युपघातनिमित्तकप्रायश्चित्तसमिदाधाने विनियोगः । अग्न्युपघातनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः, इति होमे[१५]

 "ॐ पुनस्त्वाऽऽदित्या० कामाः स्वाहा" आदित्येभ्यो रुद्रेभ्यो वसुभ्यो ब्रह्मभ्यश्चेदं० । वसुनीथायाग्नय इदमिति वा । उद्दीप्यस्व मा नो हि सीरित्यनयोर्याज्ञिक्यो देवता उपनिषदो जातवेदा अग्निरनुष्टुप् । स्वयं प्रज्वलननिमित्तकप्रायश्चित्तार्थे समिद्द्वयाभ्याधाने विनियोगः-- "ॐ उद्दीप्यस्व जात० दिश" "मा ना हि सी० पातय" । आपो हिष्ठेतिमन्त्रत्रयस्याग्निर्विश्वे देवा वाऽऽपो गायत्री । स्कन्नप्रणीतापात्रपूरणे विनियोगः । स्कन्नप्रोक्षणीपात्रस्य पूरणे विनियोगः । शोषणेन[१६] रिक्तस्य पात्रस्य पूरणे विनियोगः, इति शोष[१७]णे । स्रवणेन रिक्तस्य पात्रस्य पूरणे विनियोगः । इति स्रवणे ।

 "ॐ आपो हि० च नः"  । ततं म आप इत्यस्य विश्वे देवा ऋभवो जगती, प्रणीतास्कन्दननिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः । प्रोक्षणीस्क०ज्यहोमे विनि० । प्रणीताशोषणनिमित्तकप्रायश्चि० । प्रणीतास्रवणनिमित्त० । प्रोक्षणीशोषणनिमित्तकप्रा० । प्रोक्षणीस्रवणनिमित्तकप्रायश्चित्ताज्य० । "ॐ ततं म आ० र्भुवः स्वाहा" ऋभुभ्य इदं० । समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । आयतनाद्बहिः समुत्सृप्तस्याग्नेः स्वस्थाने प्रक्षेपणे विनियोगः । अज्ञाताग्निबहिष्पातप्रायश्चित्ताज्यहोमे विनियोग इति यथायथं विनियोगवाक्यम् । "ॐ भूर्भुवः सुवः"

 देवानित्यादीनां पञ्चानां सौ[१८]त्रमन्त्राणां वामदेव ऋषिः । देवा गन्धर्वाः पितर आप ओषधयो वनस्पतयश्च पञ्चजना इति क्रमेण देवताः । यजूंषि । स्कन्नानुमन्त्रणे विनियोगः--

 "देवाञ्जनमगन्यज्ञस्ततो मा यज्ञस्याऽऽशीरागच्छतु वर्धताम् । गन्धर्वाञ्जनमगन्यज्ञ० वर्धताम् । पितॄञ्जनम० वर्धताम् । आप ओषधीर्वनस्पतीञ्जनम० वर्धताम् । पञ्चजनाञ्जनम० वर्धताम्" ।

 भूपतय इत्यादीनां चतुर्णां[१९] मन्त्राणां वामदेव ऋषिः । आद्यानां त्रयाणामग्निर्वा । भूपतिर्भुवनपतिर्भूतानां पतिर्भूतमिति क्रमेण देवताः । यजूंषि । समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । प्रादेशकरणे विनियोगः--

 "ॐ भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहा भूताय स्वाहा भूर्भुवः सुवः स्वाहा" ।

 सं त्वा सिञ्चामीत्यस्य[२०] मन्त्रस्य प्रजापतिः स्कन्नं हविरनुष्टुप् । स्कन्नोपरि [२१]जलसिञ्चने विनियोगः "स त्वा सिञ्चामि० रिषत्" यज्ञस्य त्वेत्यस्य सौत्रमन्त्रस्य  वामदेवः[२२] स्कन्नं हविर्यजुः । स्कन्नस्य स्वस्थाने प्रक्षेपे विनियोगः । अभिमन्त्रणकल्पे तु स्कन्नाभिमन्त्रणे विनियोग इति विनियोगवाक्यम् । "ॐ यज्ञस्य त्वा प्र मयाऽभि मया वि मयोन्मया परिगृह्णा[२३]मि" । मा यजमान इत्यस्य सौत्रस्य वामदेवोऽग्निर्यजुः । बहिष्परिधिस्कन्नाया आहुतेः पुनरग्नौ होमे विनियोगः । "ॐ मा यजमानस्त० षं कृत स्वाहा" अग्नय इदं० । जुहुयादित्यस्य प्रक्षेपमात्रमर्थ इति वा । अस्मिन्कल्पे न त्यागः । अग्निभ्रातॄणां तृप्तिस्तु बहिष्परिधिपातमात्रेण ।

 यद्वो देवा इत्यस्य विश्वे देवा देवास्त्रिष्टुप् । अविहितदेवतायोजननिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः । "ॐ यद्वो देवा अ० धेतन स्वाहा" देवेभ्य इदं० । मनोज्योतिरिति मनस्वतीसंज्ञक[२४]स्याग्निर्मनो ज्योतिस्त्रिष्टुप् । स्वाहाकारप्रदानविपर्यासनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः "ॐ मनोज्योतिर्जु० घृतेन स्वाहा" मनसे ज्योतिष इदं० । [२५]त्वं नो अग्ने स त्वं नो अग्न इत्यनयोर्विश्वे देवा अग्निर्वरुणश्च त्रिष्टुप् । अवदानविपर्यासनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः "ॐ त्वं नो अ० स्मत्स्वाहा" अग्नये वरुणाय इदं० । "ॐ स त्वं नो ० एधि स्वाहा" अग्नये वरुणाय चेदं० । एवं द्रव्यत्यागदेवतामन्त्रविपर्यासेऽप्यूहेन । प्रधानद्रव्यानुत्पादनिमित्तकप्रायश्चित्ताज्यहोमे विनियोग इति प्रधानद्रव्यानुत्पादनिमित्तकप्रायश्चित्ताज्यहोमविनियोगवाक्यम् । यन्म आत्मनः पुनरग्निमिति मिन्दाभिधयोर्द्वयोः सोम ऋषिर्मिन्दवाञ्जातवेदा अग्निः प्रथमस्य देवता । द्वितीयस्याग्निरिन्द्रो बृहस्पतिरश्विनौ च । प्रथमस्य गायत्री [२६]छन्दः, द्वितीयस्यानुष्टुप् । हविर्दोषनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः । "ॐ यन्म आ० चर्षणिः स्वाहा" मिन्दवते जातवेदसेऽग्नय इदं० । "ॐ पुनरग्नि० मक्ष्योः स्वाहा" अग्नय इन्द्राय बृहस्पतयेऽश्विभ्यां चेदं० । अग्नये स्वाहेत्यादीनां[२७] मन्त्राणां वामदेव ऋषिः । अग्निर्यमो वरुणः सोमश्चेति क्रमेण देवताः । यजूंषि । समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । चरूत्सेकनिमित्तकप्रायश्चित्ताज्यहोमे विनि० "ॐ अग्नये स्वाहा" अग्नय इदं० "ॐ यमाय स्वाहा" यमायेदं० "ॐ वरुणाय स्वाहा" वरुणायेदं० । "ॐ सोमाय स्वाहा" सोमायेदं० । "ॐ भूर्भुवः सुवः स्वाहा" प्रजापतय इदं० । आप्यायस्व सं ते पया सीत्यनयोरग्निर्ऋषिः । सोमो देवता प्रथमस्य गायत्री[२८] छन्दः, द्वितीयस्य त्रिष्टुप् । उत्सिक्तस्य हविष आप्यायने विनियोगः "ॐ आप्यायस्व० गथे" "ॐ सं ते पया सी० धिष्व" । यन्म आत्मनः पुनरग्निरि[२९]तिमिन्दाभिध क. सौत्रस्य । योर्द्वयोर्मन्त्रयोः सोम ऋषिः, मिन्दवाञ्जातवेदा अग्निः प्रथमस्य देवता । द्वितीयस्याग्निरिन्द्रो बृहस्पतिरश्विनौ च । प्रथमस्य गायत्री द्वितीयस्यानुष्टप् । हविरुत्सेकनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः-- "ॐ यन्म आत्म० स्वाहा" मिन्दवते जातवेदसेऽग्नय इदं० । "ॐ पुनर० क्ष्योः स्वाहा" अग्नय इन्द्राय बृहस्पतयेऽश्विभ्यां चेदं० । उद्वयं तमस इत्यस्याग्निः सूर्योऽनुष्टप् । उदु त्यं चित्रमित्यनयोः सोम ऋषिः, सूर्यो देवता । प्रथमस्य यागत्री द्वितीयस्य त्रिष्टुप् । यागान्वाधानमध्योत्पन्नसूर्यग्रहणनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः । यागान्वाधानमध्योत्पन्नसूर्यग्रहणनिमित्तकप्रायश्चित्तार्थे सूर्योपस्थाने विनियोग इत्युपस्थानविनियोगवाक्ये विशेषः । "ॐ उद्वयं त० त्तम स्वाहा" सूर्यायेदं० । "उदु त्यं जा० सूर्य स्वाहा" सूर्यायेदं० । "ॐ चित्रं देवा० पश्च स्वाहा । सूर्यायेदं" ।

 ([३०]उद्वयं०, उदु त्यं०, चित्रं० ), नवो नवो, यमादित्या इत्यनयोर्विश्वे देवाश्चन्द्रमास्त्रिष्टुप् । यागान्वाधानमध्योत्पन्नचन्द्रग्रहणनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः । यागान्वाधानमध्योत्पन्नचन्द्रग्रहणनिमित्तकप्रायश्चित्तार्थे चन्द्रोपस्थाने विनियोग इत्युपस्थानविनियोगवाक्ये विशेषः । "नवो नवो भ० मायुः स्वाहा" चन्द्रमस इदं० । "ॐ यमादित्या अ० गोपाः स्वाहा" चन्द्रमस इदं० ।

 भूमिर्भूमिमित्यस्य सौत्रमन्त्रस्य वामदेवो भूमिरनुष्टुप् । भिन्नमृन्मयपात्राभिमन्त्रणे विनियोगः--

 "ॐ भूमिर्भूमिमगान्माता मातरमप्यगात् । ऋध्यास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यताम्" ।

 प्रणवस्य परब्रह्मर्षिः परमात्माऽग्निर्वा देवता दैवी गायत्री छन्दः, पात्रभेदननिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः-- "ॐ स्वाहा" परमात्मन इदं० । अग्नय इदमिति वा ।

 मनो ज्योतिरिति मनस्वतीसंज्ञकस्याग्निर्मनो ज्योतिस्त्रिष्टुप् । निरूढाग्निविनाशनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः-- "ॐ मनो ज्योतिर्जु० घृतेन स्वाहा" मनसे ज्योतिष इदं० ।

 समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । प्रधानाहुतिस्विष्टकृदाहुतिसंसर्गनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः । "ॐ भूर्भुवः सुवः स्वाहा" प्रजापतय इदं० ।  इमं मे तत्त्वा यामीत्यनयोर्विश्वे देवा वरुणो देवता । प्रथमस्य गायत्री छन्दो द्वितीयस्य त्रिष्टुप् । समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । स्वप्नजातरेतोविसर्गजन्यदोषपरिहारनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः--"ॐ इमं मे० के स्वाहा" वरुणायेदं० । "ॐ तत्त्वा या० षीः स्वाहा वरुणायेदं० ।" "भूर्भुवः सुवः स्वाहा" प्रजापतय इदं० ।

 पुनर्मामित्यनुवाकमन्त्राणामरुणा ऋषयः सूर्यो देवता । प्रथमस्यानुष्टुप् द्वितीयस्य द्विपदा त्रिष्टुप्, तृतीयस्य द्विपदा गायत्री, चतुर्थस्यानुष्टुप् । स्वप्नजातरेतोविसर्गजन्यदोषपरिहारनिमित्तके जपे विनियोगः--

 "पुन र्मा० तु मा ॥ १ ॥ यन्मेऽद्य० दापः ॥ २ ॥ इदं त० र्चसे ॥ ३ ॥ यन्मे रे. कुरु ॥ ४ ॥"

अथ मिन्दादिगणः।

 यन्म आत्मन इत्यस्य विश्वे देवा अग्निर्जातवेदा गायत्री । पुनरग्निरित्यस्य विश्वे देवा अग्निरिन्द्रो बृहस्पतिरश्विनौ चानुष्टुप् । व्यस्तव्याहृतीनां याज्ञिक्यो देवता उपनिषदः । अग्निर्वायुः सूर्यो गायत्र्युष्णिगनुष्टुभः । प्रणवस्य परब्रह्मर्षिः परमात्माऽग्निर्वा देवता परमात्माग्न्योरभेदविवक्षयैकैव वा देवता । गायत्री छन्दः । यच्चिद्धि त इत्यस्य विश्वे देवा वरुणो गायत्री । यत्किंचेदमित्यस्य विश्वे देवा वरुणो विराड्जगती स्वराट्त्रिष्टुब्वा । कितवास इत्यस्य विश्वे देवा वरुणस्त्रिष्टुप् । तन्तुं तन्वन्नित्यस्य विश्वे देवास्तन्तुमानग्निर्जगती । निचृज्जगती वा । उद्बुध्यस्वेत्यस्य विश्वे देवास्तन्तुमानग्निस्त्रिष्टुप्, निचृत्रिष्टुब्वा । त्रयस्त्रि शदित्यस्य विश्वे देवास्तन्तुमानग्निर्जगती । त्रिष्टुब्वा । अन्वग्निरित्यस्याग्निरग्निर्जातवेदा निचृत्त्रिष्टुप् । मनो ज्योतिरित्यस्य मनस्वतीसंज्ञकस्याग्निर्मनो ज्योतिस्त्रिष्टुप् । भूरग्नये च पृथिव्यै चेत्यादिमहाव्याहृतिसंज्ञकमन्त्रचतुष्टयस्य याज्ञिक्यो देवता उपनिषद ऋषयः, अग्निरग्निः पृथिवी म[३१]हत् । वायुर्वायुरन्तरिक्षं महत् । सूर्य आदित्यो द्यौर्म[३२]हत् । प्रजापतिश्चन्द्रमा नक्षत्राणि दिशो म[३३]हत् । महानिति वा सर्वत्र । इति क्रमेण देवताः । यजूंषि । सप्त त इत्यस्याग्निः सप्तवानग्निर्जगती । प्रजापत इत्यस्य विश्वे देवाः प्रजापतिस्त्रिष्टुप् । सर्वेषामन्तरागमनप्रायश्चित्ताज्यहोमे विनियोगः--  "ॐ यन्म० णिः स्वाहा" मिन्दवतेऽग्नय इदं० । "ॐ पुनरग्नि० क्ष्योः स्वाहा" अग्नय इन्द्राय बृहस्पतयेऽश्विभ्यां चेदं० । "ॐ भूः स्वाहा" अग्नय इदं । "ॐ भुवः स्वाहा" वायव इदं । "ॐ सुवः स्वाहा" सूर्यायेदं० । "ॐ भूर्भुवः सुवः स्वाहा" प्रजापतय इदं० । "ॐ स्वाहा" परमात्मन इदं० । अग्नय इदमिति वा । परमात्मनेऽग्नय इदमित्येकैव वा देवता । "ॐ यच्चि० विस्वा०" वरुणायेदं । "ॐ यत्किंचेदं० रिषः स्वाहा" वरुणायेदं । "ॐ कितवा० प्रियासः स्वाहा" वरुणायेदं० । "ॐ तन्तुं त० जन स्वाहा" तन्तुमतेऽग्नय इदं० । "ॐ उद्बुध्य० त स्वाहा" तन्तुमते०[३४] । "ॐ त्रयस्त्रि श० तु स्वाहा" तन्तु० । "ॐ अन्वग्निन० स्वाहा" अग्नये जातवेदस इदं० । "ॐ मनो० न स्वा०" मनसे ज्योतिष इदं० । "ॐ भूरग्नये च० हते च स्वाहा" अग्नयेऽग्नये पृथिव्यै महते चेदं० । "ॐ भुवो वायवे०ते च स्वाहा" वायवे वायवेऽन्तरिक्षाय महते चेदं० । "ॐ सुवरादित्याय च० ते च स्वाहा" सूर्यावाऽऽदित्याय दिवे महते चेदं । "ॐ भूर्भुवः० च स्वाहा" प्रजापतये चन्द्रमसे नक्षत्रेभ्यो दिग्भ्यो महते चेदं० । "सप्त ते तेन स्वाहा" सप्तवतेऽग्नय इदं० । "ॐ प्रजापते न० णा स्वाहा" प्रजापतय इदं० ।

इति मिन्दादिगणः ।

अथ दुर्गादिगणः ।

 ([३५]जातवेदसे याज्ञिक्यो देवता उपनिषद ऋषयः । दुर्गा देवता त्रिष्टुप्, पञ्चानामन्तरागमनप्रायश्चित्ताज्यहोमे विनियोगः--) "ॐ जातवेदसे० त्यग्निः स्वाहा" जातवेदसेऽग्नय इदं । "ॐ मनो ज्योति० तेन स्वाहा" मनसे ज्योति० । पूर्ववत्तिस्रो महाव्याहृतयः ।

इति दुर्गादिगणः ।


 तुभ्यं ता इत्यस्य विश्वे देवा अङ्गिरस्तमोऽग्निः कामो गायत्री । अन्वाधानानन्तरप्राप्तप्रयाणनिमित्तप्रायश्चित्ताज्यहोमे विनियोगः । "ॐ तुभ्यं ता अ० मिरे स्वाहा" कामायेदं० ।  अस्कान्द्यौरस्कानजनीत्यनयोर्विश्वे देवा यज्ञस्त्रिष्टुप् । स्कन्नस्यौपासनाहुतिद्रव्यस्याभिमन्त्रणे विनियोगः । "ॐ अस्कान्द्यौः पृ० यतु" | "अस्कान० महि" ।

 उन्नम्भयेत्यस्य सोम आदित्योऽनुष्टुप् । स्कन्नस्यौपासनस्याऽऽहुतिद्रव्यस्योपरि जलसिञ्च(सेच)ने विनियोगः--"ॐ उन्नम्भ० दृतिम्" ।

 प्रजापते न त्वदित्यस्य विश्वे देवाः सोमो वा प्रजापतिस्त्रिष्टुप् । स्कन्नस्यौपा० व्यस्य वल्मीकवपायां प्रक्षेपणे विनियोगः--"प्रजापते० रयीणाम्" ।

 भूरित्यस्या व्याहृत्याः प्रजापतिरग्निर्गायत्री । वल्मीकवपाप्रक्षिप्तद्रव्यस्योपस्थाने विनियोगः-- "ॐ भूः" ।

 मही द्यौरित्यस्य विश्वे देवा द्यावापृथिवी गायत्री । कीटावपन्नस्य द्रव्यस्यान्तःपरिधिदेशे निवपने विनियोगः-- "ॐ मही द्योः पृ० मभिः" ।

 गर्भ स्रवन्तमगदमित्यस्य विश्वे देवा अग्निरिन्द्रस्त्वष्टा बृहस्पतिश्च त्रिष्टुप् । औपासनहोमस्थालीस्रवणनिमित्तके स्थाल्यभिमन्त्रणे विनियोगः- "ॐ गर्भ स्रव० राचैः" ।

 अयाश्चेत्यस्य [३६]सौत्रमन्त्रस्य वामदेवोऽया अग्निः पङ्क्तिः । अर्वाक्त्रित्ररात्रजाताग्निविच्छेदनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः--

 "अयाश्चाग्नेऽस्यनभिशस्तीश्च सत्यमित्त्वमया असि । अयसा मनसा धृतोऽयसा हव्यमूहिषेऽया नो धेहि भेषज स्वाहा" अयसेऽग्नय इदं० ।

 अयाश्चेत्य० पङ्क्तिः । मनो ज्योतिरित्यस्य मनस्वतीसंज्ञकस्याग्निर्मनो ज्योतिस्त्रि० । त्रिरात्रप्रभृत्यर्वाक्सप्तरात्रजाताग्निविच्छेदनिमित्तकप्रायश्चित्ताज्यहो०- "ॐ अयाश्चाने०" । "ॐ मनो ज्यो० तेन स्वाहा" मनसे ज्योतिष इदं० ।

 अयाश्चेत्य० पङ्क्तिः । मनो ज्योति० ज्योतिस्त्रिष्टुप् । तन्तुं तन्वन्नित्यस्य सोमस्तन्तुमानग्निर्जगती । सप्तरात्रप्रभृत्यर्वाग्द्वादशाहजाताग्निविच्छेदनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः--"ॐ अयाश्चा०" "मनोज्यो०" "तन्तुं तन्व० जन स्वाहा" तन्तुमतेऽग्नय इदं ।  दोषावस्तरित्यस्य [३७]सौत्रमन्त्रस्य वामदेवो वरुणो यजुः । सायंहोमकालातिक्रमनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः-- "ॐ दोषावस्तर्नमः स्वाहा" वरुणायेदं० ।

 समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । सायंहोमकालातिक्रमनिमित्तप्रायश्चित्तार्थे पठने विनियोगः--"ॐ भूर्भुवः सुवः" सायंहोमकालातिक्रमनिमित्तप्रायश्चित्तार्थ उपस्थाने विनियोगः, इन्युपस्थानविनियोगवाक्यम् ।

 प्रातर्वस्तरित्यस्य वामदेवो मित्रः सूर्यो वा यजुः । प्रातर्होमकालातिक्रमनिमित्तप्रायश्चिताज्यहोमे विनियोगः-- "ॐ प्रातर्वस्तर्नमः स्वाहा" मित्रायेदं० ।सूर्यायेदमिति वा ।

 समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । प्रातर्होमकालातिक्रमनिमित्तप्रायश्चित्तार्थे पठने विनियोगः-- "ॐ भूर्भुवः सुवः", उपस्थाने विनियोग इत्युपस्थानविनियोगवाक्य ऊहः । संग्रहस्य सप्तहोतृमन्त्रस्य प्रजापतिर्वाचस्पतिर्ब्रह्मा यजुः । मनो ज्योतिरि० स्त्रिष्टुप् । एकहोमातिपातननिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः । होमद्वयातिपातनिमित्तकप्रायश्चित्ताज्यहोमे विनियोग इति होमद्वयातिपातननिमित्तकप्रायश्चित्तहोमे । होमत्रयातिपातननिमित्तकप्रायश्चित्ताज्यहोमे विनियोग इति होमत्रयातिपातननिमित्तकप्रायश्चित्तहोमे । "ॐ महाहविर्होता स० थिव्यै स्वाहा" वाचस्पतये ब्रह्मण इदं० । "ॐ मनो ज्यो० घृतेन स्वाहा" मनसे ज्योतिष इदं० ।

 भवतं न इत्यस्य मन्त्रस्य सोमोऽग्नी पङ्क्तिः । अग्न्युपस्थाने विनियोगः-- "ॐ भवतं नः स० द्य नः" । यत्ते वयं यथा हेतिर्द्वयोर्विश्वे देवा अग्निस्त्रिष्टुप् । होमान्तरशननिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः-- "ॐ यत्ते वयं० गग्ने स्वाहा" अग्नय इदं० । "ॐ यथा हत० आयुः स्वाहा" अग्नय इदं० ।

 समिदभ्याधानपक्षे होमान्तरशननिमित्तकप्रायश्चित्तार्थे समिदभ्याधाने विनियोग इति विनियोगवाक्यम् । जपपक्षे जपे विनियोग इति ।

 यत्र वेत्थेत्यस्य विश्वे देवा वनस्पतिर्गायत्री । पूर्वाहुत्युपर्युत्तराहुतिस्कन्दननिमित्तकप्रायश्चित्तार्थे समिदाधाने विनियोगः--"ॐ यत्र वेत्थ व० गामय"

 समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । होमद्रव्ये वृष्टिबिन्दुपतननिमित्तकप्रायश्चित्तार्थे जपे विनियोगः । "ॐ भूर्भुवः सुवः"  मित्रो जनान्कल्पयतीत्यस्य[३८] मन्त्रस्य विश्वे देवा मित्रस्त्रिष्टुप् । वृष्टिबिन्दुपतननिमित्तकपूर्वाहुतिस्थानविहितवैशेषिकप्रथमाहुतौ विनियोगः-- "ॐ मित्रो जनान्कल्पय० ज्जुहोत स्वाहा" मित्रायेदं० ।

 समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । प्रादुष्करणकालातिक्रमनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः-- "ॐ भूर्भुवः सुवः स्वाहा" प्रजापतय इदं० ।

 सग्रहस्य सप्तहोतृमन्त्रस्य प्रजापतिर्वाचस्पतिर्ब्रह्मा यजुः । मनो ज्योतिरि० तिस्त्रिष्टुप् । स्वकाल औपासनहोमानारम्भनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः "ॐ महाहविर्होता० थिव्यै स्वाहा" वाचस्पतये ब्रह्मण इदं । "मनो ज्योति० घृतेन स्वाहा" मनसे ज्योतिष इदं० ।

 सग्रहस्य सप्तहोतृमन्त्रस्य प्रजापतिर्वाचस्पतिर्ब्रह्मा यजुः । पिण्डपितृयज्ञातिपातननिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः-- "ॐ महाहविर्होता० थिव्यै स्वाहा" वाचस्पतये ब्रह्मण इदं० ।

 समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती। अमुककर्मार्थाग्निनाशप्रायश्चित्ताज्यहोमे विनियोगः-- "ॐ भूर्भुवः सुवः स्वाहा" प्रजापतय इदं० ।

 अयाश्चेत्यस्य [३९]सौत्रमन्त्रस्य वामदेवोऽया अग्निः पङ्क्तिः । औपासनाग्न्यनुगमननिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः-- "ॐ अयाश्चाग्ने० भेषज स्वाहा" अयसेऽग्नय इदं० ।

 समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । पृथग्गतौपासनाग्न्येकदेशस्य लौकिकाग्निना श्रौताग्निना वा जातस्य संसर्गस्य दोषपरिहारार्थप्रायश्चित्तहोमे विनियोगः--"ॐ भूर्भुवः सुवः[४०] स्वाहा" प्रजापतय इदं० ।

इति प्रायश्चित्तहोममन्त्रास्तेषामृष्यादि च ।

 अथ शास्त्रान्तरोक्तानि प्रायश्चित्तानि गण्यन्ते--

स्वराक्षरादिलोपश्च इध्मादेश्छेदनादिकम् ।
इध्मकाष्ठातिरेकश्चेध्मकाष्ठन्यूनता तथा ॥ १ ॥
अनलस्योपघातश्च स्वयं प्रज्वलनं तथा ।
प्रणीताप्रोक्षणीस्कन्दः शोषणस्रवणे तथा ॥ २ ॥

हविषो दोष उत्सेकः सूर्यचन्द्रग्रहस्तथा ।
पात्रभेदो निरूढाग्नेर्विनाशो वीर्यपातनम् ॥ ३ ॥
होममध्येऽशनं होमानारम्भः समये स्वके ।
पिण्डयज्ञात्ययो वह्निपत्न्यृत्विक्स्वामिमध्यतः ॥ ४ ॥
द्विपादाद्यागमोऽन्वाहित्युत्तरं वा कृतिर्यजेः ।
एतेषां तु भवेत्प्रायश्चित्तं शास्त्रान्तरीयकम् ॥ ५ ॥

 श्रौतोक्तप्रायश्चित्तानामत्र प्राप्तिः श्रौतमध्ये गार्ह्याम्नानबलात् । अविरुद्धत्वाच्छास्त्रान्तरोक्तानां प्राप्तिः । सर्वप्रायश्चित्तमात्रं वा सर्वत्र ।

इति संस्काररत्नमालायां प्रायश्चित्तप्रयोगः ।

इत्योकोपाह्वश्रीमद्गणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचि-
तायां सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमा-
लायां द्वितीयं प्रकरणम् ॥ २॥

  1. ग. घ. ड. द्विरादिके ग्रहे गार्ह्ये श्रौत एकादिके स्रुवः । ग्र ।
  2. घ. ङ. तत्तमि ।
  3. धनुश्चिह्नान्तर्गतं क. पुस्तक एव ।
  4. क. ख. स्याज्जुहुयाद्व्याहृतीस्तदा । आ ।
  5. ग. चेद्धि भि ।
  6. ग. घ. ङ. स्यादाहु ।
  7. धनुश्चिह्नान्तर्गतश्लोकस्थाने ग. घ. ङ. पुस्तकेषु-–"क्षेपकत्वे तु खण्डस्य वैविचश्चरुरेव नु । भवेदन्याग्निसंसर्गे नैवात्र पुनराहितिः" इति श्लोको वर्तते ।
  8. ग. घ. ड. तभृत ।
  9. ग. चरूणां ।
  10. क. स्य सो ।
  11. क. योर्वि ।
  12. क. ख. हप्रा । ङ. हकप्रा ।
  13. त्यस्याऽऽ ।
  14. क. प् । अग्नि ।
  15. ग. मे । पुनस्त्वाऽऽदित्या कामाः । पु ।
  16. क. ख. न स्रवणेन वा रि ।
  17. क. ख. षणस्रावणयोः । आ ।
  18. क. ख. सौत्राणां । क. र्णा. वा ।
  19. क. र्णा. वा ।
  20. क. स्य प्र ।
  21. "जलसेचने" इति पाठोऽपेक्षितः ।
  22. ग. घ. ङ. देव ऋषिः । स्क ।
  23. ग. घ. ङ. ह्णाति । मा ।
  24. ग. कस्य मन्त्रस्यां ।
  25. क. ख. त्वं नः स त्वं न इ ।
  26. क. त्री । द्वि ।
  27. क ख. नां वा ।
  28. क. ख. त्री द्वि ।
  29. क. तिद्वयोः
  30. धनुश्चिह्नान्तर्गत सर्वेष्वपि पुस्तकेष्वधिकम् ।
  31. क. ख. ड. महान् ।
  32. क. ख. ङ. र्महान् । प्र ।
  33. क. ख. महानिति क ।
  34. ख. ग. घ. ते । "अ ।
  35. धनुश्चिह्नान्तर्गतो ग्रन्थ. क. पुस्तकातिरिक्तपुस्तकेषु नास्ति ।
  36. क. सौत्रस्य ।
  37. क. सौत्रस्य ।
  38. क. स्य वि' ।
  39. क. सौत्रस्य ।
  40. ग घ. ङ. वः । इ ।