ॐ तत्सद्ब्रह्मणे नमः ।

भट्टगोपीनाथदीक्षितविरचिता

संस्काररत्नमाला ।


तत्र प्रथमं प्रकरणम् ।

मङ्गलाचरणम् ।

वात्सल्यात्पितरौ कपोलयुगुलं स्वस्याऽऽगतौ चुम्बितुं
दृष्ट्वाऽऽकुञ्चितमास्यपद्मममलं सेषत्स्मितं सत्वरम् ।
अन्योन्यं शिवयोस्ततः सुवदने युक्ते अभूतां तयो-
रित्थं येन विनोदितौ स भगवान्बालो गजास्योऽवतु ॥ १ ॥

तं गजास्यं स्तुतं देवैः प्रशान्तं विद्यया युतम् ।
तंत्रयंत्रावृतं नौमि तन्वन्तं जगतां हितम् ॥ २ ॥

षट्पत्रपद्मबन्धोऽयम् ।

विनायकं सुकण्ठकं विधीशविष्णुविष्टुतं
विनाशितामितासुरं विषाणपा[१][२]पाणिकम् ।
विपांस्विभास्यभालकं विभाकरं परं सुरं
विशालदण्डदन्तिनं विभुं भजे यजे सदा ॥ ३ ॥

अष्टपत्रपद्मबन्धोऽयम् ।

नमस्तस्मै गणेशाय ज्ञानविज्ञानदायिने ।
यस्यान[३]लायते नाम विघ्नारण्यविदाहने ॥ ४ ॥
विद्यामहागणपतिं देवं व्याडीश्वरं तथा ।
योगेश्वरीं च वाग्देवीं लक्ष्मीनारायणौ गुरून् ॥ ५ ॥
सत्याषाढं मुनिश्रेष्ठं जातरूपशिरोरुहम् ।
पितरौ च नमस्कृत्य मातृदत्तं तथैव च ॥ ६ ॥
सूत्रभाष्यं च विविधाः पद्धतीः प्रेक्ष्य च स्मृतीः ।
ओकोपाह्वेन विदुषा गोपीनाथेन कौतुकात् ॥ ७ ॥
विश्वेशतुष्ट्यै विदुषां सतां संतोषकारिणी ।
संस्काररत्नमालाख्या पद्धतिः प्रवितन्यते ॥ ८॥

महादेवमहेशाभ्यां पद्धत्योः कृतयोर्यतः ।
न वै मूलं संगृहीतं कर्तुं तस्यापि संग्रहम् ॥ ९ ॥
क्वचित्क्वचित्कृतां ताभ्यां सूत्रस्वारस्यवर्जिताम् ।
संत्यज्य पद्धतिं तत्रान्यां वै रचयितुं तथा ॥ १० ॥
क्वचित्सूत्रे भाष्यकृता व्याख्या नैव कृता यतः ।
व्याख्यातुमपि तत्सूत्रमपि व्याख्यान्तरं क्वचित् ॥ ११ ॥
सूत्रस्वरसतः कर्तुं क्रियतेऽतो मयोद्यमः ।
मान्यान्मात्सर्यरहितान्सदाचारयुतान्बुधान् ॥ १२ ॥
मुहुर्मुहुः प्रणम्याहं प्रार्थयामि कृताञ्जलिः ।
अत्रानुक्तं दुरुक्तं वा मतेर्मान्द्याच्छ्रुतस्य वा ॥
यद्भवेत्पूरणीयं तद्विशोध्यं च विचक्षणैः ॥ १३ ॥

संस्काराः ।

 अथ संस्काराः । तानाह गौतमः--

"गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनचौलोपनयनानि, चत्वारि वेदव्रतानि, स्नानं, सहधर्मचारिणीसंयोगः, पञ्च महायज्ञाः, अष्टका पार्वणः श्राद्धं श्रावण्याग्रहायणी चैत्र्याश्वयुजीति सप्त पाकयज्ञसंस्थाः, अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यान्याग्रयणेष्टिर्निरूढपशुबन्धः सौत्रामणीति सप्त हविर्यज्ञसंस्थाः, अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति सप्त सोमयज्ञसंस्थाः, इत्येते चत्वारिंशत्संस्कारा अष्टावात्मगुणा दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासो माङ्गल्यमकार्पण्यमस्पृहेति यस्यैते चत्वारिंशत्संस्कारा अष्टावात्मगुणाश्च स ब्रह्मणः सायुज्यमाप्नोति" इति ।

 स्नानं समावर्तनम् । सहधर्मचारिणीसंयोगो विवाहः । पार्वणः पार्वणस्थालीपाकः । श्राद्धं मासिकश्राद्धं तस्यैव संस्थात्वात् । तच्च श्राद्धप्रकरणे साधयिष्यामः । श्रावणी पौर्णमासी तत्र कर्तव्यं श्रवणाकर्म । आग्रहायणी मार्गशीर्षी तत्र कर्तव्यं प्रत्यवरोहणम् । चैत्री तत्र कर्तव्यः शूलगवः । आश्वयुज्याश्विनी पौर्णमासी तत्र कर्तव्यमाश्वयुजीकर्मेति । आपन्नस्य द्वेष्टुरपि रक्षणं दया । बाह्य आभ्यन्तरे वा परेण दुःख उत्पादितेऽपि तस्मिन्कोपाभावः क्षमा । सैव क्षान्तिः । गुणिनां गुणानाविष्करणमसूया । एतद्भिन्नाऽनसूया । निन्दितसंसर्गाभक्ष्यादिपरिहारपूर्वकं स्वधर्मव्यवस्थानं शौचम् । शरीरपीडावहक्षुद्रकर्माचरणमायासस्तद्भिन्नोऽनायासः । अप्रशस्तकर्मविवर्जनपूर्वकं प्रश स्तकर्माचरणं मङ्गलं तस्य भावो माङ्गल्यम् । अदैन्यपूर्वकं सत्पात्रे भक्त्या शक्त्या च प्रत्यहं दानमकार्पण्यम् । परकीयवस्तुन्यभिलाषः स्पृहा तद्भिन्नाऽस्पृहा । सूत्रकृताऽऽश्वयुज्या अविधानात्तत्रौपासनहोमः संस्थात्वेन ग्राह्यः ।

 उक्तं च वैखानसेन--

 "स्थालीपाकोऽष्टका अमाश्राद्धमौपासनहामः श्रावण्याग्रहायणी चैत्रीति सप्त पाकयज्ञसंस्था वैश्वदेवमेके चैत्रीस्थाने समामनन्ति" इति ।

 पाकयज्ञसंस्थाः सप्तेत्यन्वयः । पाकयज्ञसंस्था उद्दिश्य सप्तत्वं विधीयते । तच्च सप्तत्वं चरमपदलक्षणया सप्तान्यतमत्वम् । उद्देश्यविधेयभावस्थले विधेयतावच्छेदकरूपेण विधेयस्योद्देश्यतावच्छेदकव्यापकत्वबोधो व्युत्पत्तिसिद्धः । उद्देश्यतावच्छेदकं पाकयज्ञसंस्थात्वम् । विधेयतावच्छेदकं सप्तान्यतमत्वम् । तच्चाष्टकादिभेदसप्तकाभाववत्त्वम् । तथा च पाकयज्ञसंस्थाः सप्तान्यतमा इत्यर्थे सिद्ध आधिक्यव्यवच्छेदसिद्धिः । एतेन सिद्ध्यसिद्धिव्याघातो निरस्तः । न्यूनत्वव्यवच्छेदस्तु सप्तत्वान्वयादेव लभ्यते । बौधायनेन तु पाकयज्ञसंस्थानामपरिमितत्वमपि पक्ष उक्तं कर्मान्तसूत्रे--

 "अपरिमिता उ हैके ब्रुवते यच्च किंचान्यत्र विहाराद्भूयते सर्वास्ताः पाकयज्ञसंस्थाः" इति ।

 अत्रैतद्भवस्वामिभाष्यम्--

 "अविशेषेण यत्किंचित्त्रेताग्नेरन्यत्र हूयते सर्वास्ताः पाकयज्ञसंस्थाः" इति ।

 एतेनापरिमितत्वं दर्शितमिति । एतन्मते सप्तान्यतमत्वं सप्तपदेन न लक्षणीयम् ।

 अङ्गिराः--

गर्भाधानं पुंसवनं सीमन्तो बलिरेवच ।

बलिर्विष्णुबलिः ।

जातकृत्यं नामकर्म निष्क्रमोऽन्नाशनं तथा ।
चौलकर्मोपनयनं तद्व्रतानां चतुष्टयम् ।
स्नानोद्वाहौ चाऽऽग्रयणमष्टकाश्च यथायथम् ।
श्राव[४]ण्यमाश्वयु[५]ज्यं च मार्गशी[६]र्ष्यं च पार्वणम् ।
उत्सर्गश्चाप्युपाकर्म महायज्ञाश्च नित्यकाः ।

नित्या एव नित्यकाः । स्वार्थे कप्रत्ययः ।

संस्कारा नियता एते ब्राह्मणस्य विशेषतः ।
पञ्चविंशतिसंस्कारैः संस्कृता ये द्विजातयः ।
ते पवित्राश्च योग्याः स्युः श्राद्धादिषु सुयन्त्रिताः" इति ।

 तद्व्रतानामित्यत्र प्रसिद्धिवाचिना तच्छब्देन वेदो ग्राह्यः । सत्याषाढेन भगवताऽऽचार्येण काण्डव्रतानामुक्तत्वाद्वेदव्रतस्थाने काण्डव्रतानि ग्राह्याणि । तानि नव षट्पञ्च चत्वारि वेत्यग्रे वक्ष्यते । ([७]श्रावण्यां भवं कर्म श्रावण्यम् । आश्वयुज्यां भवमाश्वयुज्यम् । मार्गशीर्षे भवं मार्गशीर्ष्यम् । दिगादित्वाद्यत्प्रत्ययः ।) श्रावण्यामाश्वयुज्यां मार्गशीर्ष्यां क्रमेण कर्त[८]व्यं श्रवणाकर्माऽऽश्वयुजी प्रत्यवरोह[९]णमिति तदर्थः । पार्वणमित्यत्र पार्वणश्च पार्वणं चेत्येकशेष एकवद्भावश्च नपुंसकमनपुंसकेनेति सूत्रात् । तेन पार्वणस्थालीपाकस्यापि संग्रहः । उत्सर्गो वेदोत्सर्जनम् । श्राद्धादिष्वित्यादिशब्दाद्यजनादीनां ग्रहणम् । अत्र ब्राह्मणग्रहणं क्षत्त्रियवैश्ययोरुपलक्षणम् ।

"अतः परं द्विजातीनां संस्कृतिर्नियतोच्यते ।
संस्काररहिता ये तु तेषां जन्म निरर्थकम्"

 इत्याश्वलायनेन द्विजातिपदोपादानात् । नियता नित्या । उदाहृताङ्गिरोवचने पञ्चविंशतिरित्युक्तिस्तत्तद्गृह्योक्तसंस्कारोपलक्षिका

  अस्ति चात्र स्मृतिः--

"स्वे स्वे गृह्ये यथा प्रोक्तास्तथा संस्कृतयोऽखिलाः ।
कर्तव्या भूतिकामेन नान्यथा सिद्धिमृच्छति" इति ।

 अतोऽस्मद्गृह्ये केषांचित्संस्काराणामनुक्तावपि न दोषः ।

  संज्ञाविशेषमप्याहाऽऽश्वलायनः--

"नैमित्तिकाः षोडशोक्ताः समुद्वाहावसानकाः ।
सप्तैवाऽऽग्रयणाद्याश्च संस्कारा वार्षिका मताः ॥
मासिकं पार्वणं प्रोक्तमशक्तानां तु वार्षिकम् ।
महायज्ञाश्च नित्याः स्युः संध्यावच्चाग्निहोत्रवत्" इति ।

 अङ्गिरोवचनोपात्ता गर्भाधानप्रभृतयः समुद्वाहावसानकाः षोडश नैमित्तिका इत्यर्थः । आग्रयणाद्याः पार्वणश्राद्धव्यतिरिक्ताः सप्त संस्कारा वार्षिका मताः । पार्वणं श्राद्धं मासि कर्तव्यम् । अशक्तानां वार्षिकम् । अशक्तैर्वर्षे यस्यां कस्यांचिदमायां कर्तव्यमित्यर्थः । एतस्मादेव वचनान्मासिकं पार्वणं प्रोक्तमित्यत्र प्रतिदर्शं कर्तव्यताऽवगता भवति ।
 स्पष्टमेतदुक्तं स्मृत्यन्तरे--

"प्रतिदर्शं पार्वणं स्यादशक्तौ वार्षिकं भवेत्" इति[१०]

पार्वणस्थालीपाकस्तु पर्वणि पर्वण्येव ।
 याज्ञवल्क्य:--

"ब्रह्मक्षत्त्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः ।
निषेकादिश्मशानान्तास्तेषां वै मन्त्रतः क्रियाः" इति ।

 निषेको गर्भाधानम् । श्मशानशब्देनान्त्यकर्म लक्ष्यते । तेषां द्विजानाम् । तेषां मंत्रत इत्युक्तेः शूद्रस्यामन्त्रका इति गम्यते ।

 संस्कारानुक्त्वाऽऽह यमः--

"शूद्रोऽप्येवंविधः कार्यो विना मन्त्रेण संस्कृतः" इति ।

 तत्र शूद्रस्य वेदाध्ययनाद्यभावात्तदर्थोपनयनकाण्डव्रतादीनां निवृत्तिः । जातकर्माद्याः क्रियाः स्त्रीणाममन्त्रकाः ।

"तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः" इति स्मृतेः ।

 एता जातकर्मादिचूडान्ताः । होमोऽपि द्विजानामेव ।

"गार्भैर्होमैर्जातकर्मचूडामौञ्जीनिबन्धनैः ।
बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते" ।

 इति मनुवाक्ये द्विजग्रहणात् । बीजं शुक्रशोणिते तत्संबन्धि निषिद्धकालमैथुनादिप्रयुक्तं बैजिकम् । अशुचिगर्भकोशस्थितिजं गार्भिकम् । तदपगच्छतीति कुल्लूकभट्टः । बीजगर्भयोः पापनिमित्तत्वाभावादुभयसंसर्गादशुचित्वमात्रमेनःशब्दार्थो न तु पापमिति तु मेधातिथिः ।
 विज्ञानेश्वरस्तु--

"एवमेनः शमं याति बीजगर्भसमुद्भवम्"

 इत्येतद्व्याख्याने व्याधिसंक्रान्त्यादिनिमित्तमेनो न तु पतितोत्पन्नत्वादीत्याह ।

संस्काराणां फलानि ।

 अथ संस्काराणां फलानि । स्मृतिसंग्रहे--

"निषेकाद्बैजिकं चैनो गार्भिकं चापमृज्यते ।
क्षेत्रसंस्कारसिद्धिश्च गर्भाधानफलं स्मृतम् ॥
गर्भे भवेच्च पुंसूतेः पुंस्त्वस्य प्रतिपादनम् ।

 पुंसूतिः पुंसवनम् ।

निषेकफलवज्ज्ञेयं फलं सीमन्तकर्मणः ।

 निषेको गर्भाधानम् ।

गर्भाम्बुपानजो दोषो जातात्सर्वोऽपि नश्यति ।

 जाताज्जातकर्मानुष्ठानात् । अपिशब्दस्य दोषशब्देनान्वयः ।

आयुर्वर्चोभिवृद्धिश्च सिद्धिर्व्यवहृतेस्तथा ।

 व्यवहृतिर्व्यवहारस्तस्य सिद्धिरित्यर्थः ।

नामकर्मफलं त्वेतत्समुद्दिष्टं मनीषिभिः ।
सूर्यावलोकनादायुरभिवृद्धिर्भवेद्ध्रुवा ॥
निष्क्रमादायुःश्रीवृद्धिरप्युद्दिष्टा मनीषिभिः ।
अन्नाशनान्मातृगर्भमलाशादपि शुध्यति ॥
बलायुर्वर्चोवृद्धिश्च चूडाकर्मफलं स्मृतम् ।
उपनीतेः फलं त्वेतद्द्विजतासिद्धिपूर्विका ॥
वेदाधीत्यधिकारस्य सिद्धिर्ऋषिभिरीरिता ।
देवपित्रर्णापगमो विवाहस्य फलं स्मृतम्" इति ।

 यत्र यत्र चापी श्रूयेते तत्र बैजिकगार्भिकैनोविनाशोऽपि फलं ज्ञेयम् । अन्येऽपि कर्णवेधादयः संस्काराः शास्त्रान्तरोक्तास्तत्र तत्र वक्ष्यन्ते ।

इति संस्काराः ।

परिभाषाकारिकाः ।

 अथ वक्ष्यमाणकर्मणां परिभाषाधीनत्वादादौ संक्षेपतः परिभाषार्थः कारिकाभिर्निबध्यते ।

स्नातः कुर्वीतोपवीती सर्वं कर्म पवित्रवान् ।
[११]आचान्तः पुनराचामेत्तिलकी बद्धचूडकः ॥ १ ॥
श्रद्धया कर्म कुर्वीत धौतवस्त्रधरो भवेत् ।
अव्यग्रोऽलंकृतो मौनी दम्भासूयादिवर्जितः ॥ २ ॥
आपद्युक्तोऽपि शुद्धः सन्नेव कर्म समाचरेत् ।
जपहोमादिषु नरमन्यं नाकारणास्पृशेत् ॥ ३ ॥
अबुद्धिपूर्वसंस्पर्शश्चेत्तदा वार्युपस्पृशेत् ।
बुद्धिपूर्वकसंस्पर्शे प्राणायामत्रयं चरेत् ॥ ४ ॥
[१२]वर्णत्रयस्य संस्पर्शादाचम्य प्रयतो भवेत् ।
संस्पर्शे प्रतिलोमानां स्ना[१३]नमेव विधीयते ॥ ५ ॥
खल्वाटत्वादिदोषेण विशिखश्चेन्नरो भवेत् ।
कौशीं तदा धारयीत ब्रह्मग्रन्थियुतां शिखाम् ॥ ६ ॥
कार्येयं सप्तभिर्दर्भैर्धार्या श्रोत्रे तु दक्षिणे[१४]
नैकवासा न च द्वीपे नान्तराले कदाचन ॥ ७ ॥
श्रुतिस्मृत्युदितं कर्म न कुर्यादशुचिः क्वचित् ।
परितो वेष्टितो देशोऽद्भिर्यः स द्वीपमुच्यते ॥ ८ ॥
अनावृतस्तु यो देशः सोऽन्तरालं प्रकीर्तितम् ।
दानं प्रतिग्रहो होमो भोजनं बलिरेव च ॥ ९ ॥
साङ्गुष्ठेन सदा कार्यमसुरेभ्योऽन्यथा भवेत् ।
अप्रौढपादः कुर्वीत कृतास्वायाम एव च ॥ १० ॥
त्रिमात्रः प्रणवो वाच्यः कर्मारम्भे च सर्वदा ।
उपोषितः कर्म कुर्याद्विध्यनुज्ञे विना सदा ॥ ११ ॥
पेषणादिकयन्त्रेषु शब्दो यावत्प्रवर्तते ।
पतितान्त्यजचण्डालादीनां यावच्च शब्दकः ॥ १२ ॥
तावत्कर्म न कर्तव्यं तथा संध्याद्वयेऽपि च ।
संकीर्त्य मासपक्षादीन्निमित्तानि तथैव च ॥ १३ ॥
इदं कर्म करिष्येऽहमिति संकल्पमाचरेत् ।
यावन्ति कर्मसंबद्धान्यृक्षाणि स्युस्तु तावताम् ॥ १४ ॥

वारादीनामपि तथा युक्तं सर्वत्र कीर्तनम् ।
केनचित्तु नवीनेन प्रोक्तमेतत्तु युक्तितः ॥ १५ ॥
कर्मण्यनियतैर्घस्रैः साध्ये साधारणोक्तितः ।
वारादीनां समुल्लेखो निर्वाह्योऽस्मिंस्तु कल्पके ॥ १६ ॥
प्रायौगिकास्त्वेकभादेरेव कुर्वन्ति कीर्तनम् ।
अनुल्लङ्घ्य स्वशास्त्रोक्तविधिं कर्म समाचरेत् ॥ १७ ॥
कर्मान्यथा कृतं ज्ञात्वा तावदेव पुनश्चरेत् ।
प्रधानस्याक्रियायां तु साङ्गं तत्पुनराचरेत् ॥ १८ ॥
तदङ्गाकरणे प्रायश्चित्तमेव न कर्म तत् ।
प्राची दिशामनुक्तौ स्यादथ वैशान्युदक्स्मृता ॥ १९ ॥
अनुक्तौ प्रह्वतादीनां कर्तुरासीनता भवेत् ।
कर्त्रङ्गाणामनुक्तौ तु दक्षिणाङ्गं प्रकीर्तितम् ॥ २० ॥
चक्षुरादिषु नैतत्स्यादिति नारायणः सुधीः ।
कदङ्गस्पर्शने वामो हस्तोऽन्यस्पर्शनेऽन्यकः ॥ २१ ॥
नाभ्यधोऽङ्गान्यसन्ति स्युर्नाभ्यूर्ध्वं स्युस्तु सन्ति वै ।
नाभौ त्वन्यतरो हस्त इति ज्ञेयं विचक्षणैः ॥ २२ ॥
करे रोगो यदि तदोभयत्रोभावपि स्मृतौ ।
अवैधं नाभ्यधःस्पर्शं कर्मकाले न चाऽऽचरेत् ॥ २३ ॥
रक्तपूयो(य)रेतआदिस्पर्शे स्नानं प्रकीर्तितम् ।
प्राक्संस्थं कर्म देवानामुदग्दिगपवर्गकम् ॥ २४ ॥
उदग्दिक्संस्थमथवा प्राचीदिगपवर्गकम् ।
दक्षिणाशापवर्गं तु प्रत्यग्दिक्संस्थमेव हि ॥ २५ ॥
पित्र्यं कर्म प्रकर्तव्यं स्पष्टं यदि वचो भवेत् ।
अङ्गोपस्पर्शने वस्त्रदशासंस्पर्शने तथा ॥ २६ ॥
छेदने भेदने चैव निरासे खनने तथा ।
पैतृके राक्षसे रौद्रे नैर्ऋते चाऽऽभिचारिके ॥ २७ ॥
एतेषु वै निमित्तेषु जलोपस्पर्शनं भवेत् ।
अधोवायुसमुत्सर्गे प्रहासेऽनृतभाषणे ॥ २८ ॥
मार्जारमूषकस्पर्श आक्रन्दे क्रोधसंभवे ।
निमित्तेष्वेषु सर्वेषु कर्म कुर्वन्नपः स्पृशेत् ॥ २९ ॥
यत्त्वोत्वाख्वोः स्नानमुक्तं तद्वन्यविषयं भवेत् ।
इति केचिद्बुधाः प्राहुरन्ये त्वित्थं समूचिरे ॥ ३० ॥

पुच्छान्यदेशसंस्पर्श उदकस्पर्शनं भवेत् ।
स्नानं तु पुच्छस्पर्शे स्यात्कर्मकाले च भोजने ॥ ३१ ॥
अबुद्धिस्पर्शविषये वार्युपस्पर्शनं भवेत् ।
बुद्धिपूर्वे तु स्नानं स्यादिति प्राहुः परे वुधाः ॥ ३२ ॥
सौम्याख्यदिशि कर्तव्यो निरासो देवकर्मसु ।
पितृकर्मसु याम्याख्यदिश्येष परिकीर्तितः ॥ ३३ ॥
दैवे कर्मणि सामन्ते प्रादक्षिण्यं प्रकीर्तितम् ।
पित्र्येऽप्येवं बुधैज्ञेयं नेदं स्यात्परिषेचने ॥ ३४ ॥
अप्रादक्षिण्यमेव स्यात्तत्र सूत्रकृदुक्तितः ।
निवीतिता मानुषे स्याद्दैवे यज्ञोपवीतिता ॥ ३५ ॥
प्राचीनावीतिता तु स्यात्पित्र्ये स्पष्टं वचो यदि ।
स्मृत्युक्ताङ्गेषु विज्ञेये उभे स्मृत्युक्तरीतितः ॥ ३६ ॥
अप्रादक्षिण्यापसव्ये सूत्रोक्तनियमोऽत्र वा ।
हवनं भोजनं दानं श्राद्धं देवार्चनादि च ॥ ३७ ॥
बहिर्जानु न कार्यं स्यात्तद्वदाचमनं स्मृतम् ।
विहारः पृष्ठतो नैव प्रकर्तव्यः कदाचन ॥ ३८ ॥
पात्राण्याज्यं हविर्वह्निरेतेष्वन्तः क्रमात्परम् ।
कर्तारस्तु बहिर्भूता एवैप्वन्तस्तु होमकृत् ॥ ३९ ॥
बहिर्भूतस्ततो ब्रह्माऽन्येभ्योऽन्तर्भूत ईरितः ।
सर्वेष्वेतेषु पत्न्यन्तस्ततोऽप्यन्तः पतिर्भवेत् ॥ ४० ॥
एतत्सर्वत्र विज्ञेयं विशेषविधिना विना ।
अविज्ञातस्वरा मन्त्राः प्रयोक्तव्याः प्रयोक्तृभिः ॥ ४१ ॥
एकश्रुत्यैव सर्वत्र जयन्तस्वामिभाषणात् ।
ऋषिं च देवतां छन्दो विनियोगं मनोस्तथा ॥ ४२ ॥
विज्ञायैव क्रियाः कार्या याज्ञवल्क्यमुनिस्मृतेः ।
ऋषिश्छन्दो देवते च च्छन्दश्चर्षिश्च देवता ॥ ४३ ॥
ऋषिश्च देवता छन्द इत्येवं स्यात्त्रिधा क्रमः ।
सौत्रमन्त्रा वेदविद्भिर्वामदेवर्षयः स्मृताः ॥ ४४ ॥
लिङ्गोदितो भवेद्देवोऽस्पष्टे देवेऽनलः स्मृतः ।
सौत्रे ह्यृष्यादिविज्ञानं नेत्युक्तं पारिजातके ॥ ४५ ॥
वैतानिके मखे श्राद्धे ब्रह्मयज्ञे तथैव च ।
ऋष्याद्यवगतेर्नैवापेक्षाऽस्तीति पुरातनाः ॥ ४६ ॥

श्रौते श्राद्धे च मन्त्रादौ प्रणवोऽपि न हीष्यते ।
अन्ये त्वेतस्य वचसो निर्मूलत्वादिहापि च ॥ ४७ ॥
स्यादृष्यादिस्मृतिस्तारोच्चारणं चेति वै जगुः ।
मन्त्रान्त्यस्य त्वक्षरस्य पाठकाले हि कर्मणः ॥ ४८ ॥
सर्वत्रोपक्रमः कार्यः सूत्रकारस्य वाक्यतः ।
स्वाहाकारो हि मन्त्रान्ते नि[१५]त्यो गार्ह्ये प्रकीर्तितः ॥ ४९ ॥
पित्र्यमन्त्रेऽपि नो यत्र स्वधाकारनिदर्शनम् ।
स्वाहान्त एव तत्र स्यादिति भाष्यकृतेरितम् ॥ ५० ॥
मन्त्रादौ मन्त्रमध्ये वा स्वाहाशब्दोऽस्ति चेत्तदा ।
नान्ते प्रयोक्तव्य इति प्रोक्तवानाश्वलायनः ॥ ५१ ॥
भवेदव्यवधानेन देवतापदतः पुरा ।
स्वाहाकारस्य पाठश्चेत्तदा नान्ते भवेदयम् ॥ ५२ ॥
न चेद्भवेत्पाठ इत्थं तदाऽन्तेऽपि भवेत्स तु ।
स्वाहाधिमिति मन्त्रेऽस्मिन्नर्थे ह्यस्ति निदर्शनम् ॥ ५३ ॥
इदमेवानुसर्तव्यमत एव मनीषिभिः ।
मन्त्रान्ते या वह्निजाया सा तु मन्त्रस्वरूपिणी ॥ ५४ ॥
तदन्तेऽन्यां प्रयुञ्जीत सा होमाङ्गतया मता ।
शक्तिसंगमतन्त्रोक्तादेतस्माद्वाक्यतः पुनः ॥ ५५ ॥
स्वाहाशब्दं प्रयुञ्जीत तन्त्रस्य प्रबलत्वतः ।
विशेषोऽयं तन्त्रयुक्ते वैदिके होमकर्मणि ॥ ५६ ॥
जुहोतिविधिसंबद्धमन्त्रेष्वेष विधिः स्मृतः ।
स्वाहान्तो नाममन्त्रः स्यादमन्त्रास्वाहुतिष्वथो ॥ ५७ ॥
कर्मशिष्टोदकं कर्मसमाप्तौ तु परित्यजेत् ॥
न त्वन्यत्रोपयुञ्जीताऽऽचमनक्षालनादिषु ॥ ५८ ॥
मन्त्रमुच्चारयेन्मन्त्रप्रतिपाद्यं तु शेषिणम् ।
संस्तुवंस्तन्मना भूत्वा स्यादेतदनुमन्त्रणम् ॥ ५९ ॥
आभिमुख्येक्षणाधिक्यादेतदेवाभिमन्त्रणम् ।
[१६]शेषिणश्चिन्तनं कुर्वन्सम्यक्स्थित्वा समीपतः ॥ ६० ॥

नतिमुद्रायुतो मन्त्रं पठेदियमुपस्थितिः ।
[१७]तिष्ठ[१८]ता श्रवणं चेत्स्या[१९]दत्र सा नियता तदा ॥ ६१ ॥
अभिमर्शो मन्त्रपाठः संस्पर्शसमकालिकः ।
चतुःस्वरोच्चारणात्मा जपतीति विधौ जपः ॥ ६२ ॥
अभिमर्शानुमन्त्राभिमन्त्रोपस्थितिकर्मणाम् ।
प्रसाधितं जपत्वं हि व्याख्याकृद्भिरतस्त्वयम् ॥ ६३ ॥
चतुःस्वरत्वधर्मस्तु मन्त्रेष्वेतेष्वपि स्मृतः ।
ततोऽन्यत्र तु मन्त्राणां नियतैकश्रुतिर्भवेत् ॥ ६४ ॥
कात्यायनमतादत्रापि स्युर्वा स्वरसंयुताः ।
सर्वत्रैव न्यूङ्खसाम्नोश्चत्वारो नियताः स्वराः ॥ ६५ ॥
संवादप्रैषभिन्नानां मन्त्राणां स्यादुपांशुता ।
आश्रावणं प्रवरणं प्रत्याश्रावणमेव च ॥ ६६ ॥
श्रौत एतान्यपि ज्ञेयान्युच्चैरेव विचक्षणैः ।
कुर्यादुपनयादीनि विवाहान्तानि लौकिके ॥ ६७ ॥
प्रायश्चित्ताख्यकर्माणि काम्यकर्माणि वै तथा ।
औपासने लौकिके वा कर्तव्यानि सदा बुधैः ॥ ६८ ॥
उपाकर्मोत्सर्जने तु कुर्याच्छिष्ययुतो यदि ।
लौकिकानां तदा कुर्यादशिष्यश्चेत्स्ववह्निके ॥ ६९ ॥
गृह्यानले प्रकर्तव्यो होमः पारायणीयकः ।
पारायणस्य कर्ता चेदृत्विग्लोकानले तदा ॥ ७० ॥
अवशिष्टं गृह्यकर्म कार्यमौपासनेऽनले ।
औपासनाग्निसाध्येषु प्रजासंस्कारकर्मसु ॥ ७१ ॥
मुख्यकर्तुरभावेन यदि कर्त्रन्तरं भवेत् ।
लौकिकाग्नौ तदा कर्म न तु गृह्ये कदाचन ॥ ७२ ॥
सर्वाधानी भवेद्विप्रश्चेत्तदा तत्र लुप्यते ।
स्थालीपाकः पार्वणाख्य औपासनहुतिस्तथा ॥ ७३ ॥
मासिश्राद्धादि लोकाग्नाविति केचिद्बुधा जगुः ।
मासिश्राद्धं दक्षिणाग्नावष्टकादीनि लौकिके ॥ ७४ ॥

वैजयन्तीकृदाहेति प्राहुरन्येऽपि केचन ।
प्रजासंस्कारकर्माणि स्युर्लोकानल एव तु ॥ ७५ ॥
शास्त्रान्तरप्रोक्तचित्तहोमाः संधानहेतवः ।
नष्टस्य कर्मणो यस्मात्तस्मात्स्युर्गृह्य एव ते ॥ ७६ ॥
स्वतन्त्रत्वाल्लौकिकाग्नावेव शास्त्रान्तरेरितम् ।
ग्रहयज्ञादिकं कार्यं न तु गृह्यानले चरेत् ॥ ७७ ॥
गृह्यान्तरोक्तं लोकाग्नौ गृह्याग्नावथ वाऽऽचरेत् ।
पुनरग्न्याहितौ सर्वाधानिनो मथितानले ॥ ७८ ॥
आनीते श्रोत्रियागाराद्वाऽग्नौ ब्रह्मौदनक्रिया ।
विवाहे यदि निर्मन्थ्यस्तदाऽत्र स्यात्तु मन्थनम् ॥ ७९ ॥
यदि द्वितीयः पक्षः स्यात्स्वीकार्योऽत्र स एव तु ।
एवंरूपा व्यवस्था तु व्याख्याकृद्भिः प्रदर्शिता ॥ ८० ॥
बहुशुष्केन्धने चाग्नौ सुसमिद्धे विधूमके ।
साङ्गारे लेलिहाने च होतव्यं नान्यथा क्वचित् ॥ ८१ ॥
आज्यहोमे सूत्रकृता दर्व्येव विहिता यतः ।
अतस्तत्र भवेत्सैव न स्रुवेणाऽऽहुतिर्भवेत् ॥ ८२ ॥
साधनं क्षीरदध्यादिहोमे दर्वी स्रुवोऽथवा ।
सूत्रकृद्विहिते होमे द्रव्यस्य कठिनस्य तु ॥ ८३ ॥
दर्वी हस्तोऽथवा ज्ञेयः शान्त्यादौ हस्त एव तु ।
होमे शिष्टैरादृतोऽस्ति यतोऽतोऽत्र स एव हि ॥ ८४ ॥
हस्त एवाऽऽचार्यवाक्यादौपासनहुतौ भवेत् ।
होमद्रव्ये त्वनादिष्टे सर्वत्राऽऽज्यं प्रकीर्तितम् ॥ ८५ ॥
कण्ठोक्त्या समिधां स्याच्चेद्यत्र प्रादेशमात्रता ।
तत्रैव सा स्यादन्यत्र त्वैच्छिकीयं समीरिता ॥ ८६ ॥
ओषध्यः सक्तवः पुष्पं काष्ठं मूलं फलं तृणम् ।
एतद्धस्तेन होतव्यं नान्यत्किंचिदचोदनात् ॥ ८७ ॥
अनादेशे दक्षिणा गौर्हेम वा पूर्णपात्रकम् ।
देवकार्ये नैव देयं रजतं त्वश्रुजं हि तत् ॥ ८८ ॥
पात्रं पादोपसंस्पृष्टं प्रक्षाल्यं सर्वथा बुधैः ।
हुतं यन्मांसधौतेन तन्न भुङ्क्ते हि देवता ॥ ८९ ॥
पात्राणां शोधनं नातः कार्यं केवलहस्ततः ।
किंतु दर्भैस्तृणैर्वाऽपि पर्णैर्वा वाससाऽपि वा ॥ ९० ॥

सर्वेषु धर्मकार्येषु पत्नी दक्षिणतो भवेत् ।
अभिषेके विप्रपादक्षालने वामतः स्मृता ॥ ९१ ॥
प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते ।
स नाऽऽप्नोति फलं तस्य परत्रेति श्रुतिः स्मृतिः ॥ ९२ ॥
बह्वल्पं वा स्वगृह्योक्तं यस्य यावत्प्रचोदितम् ।
तस्य तावति शास्त्रार्थे कृते सर्वं कृतं भवेत् ॥ ९३ ॥
यन्नाऽऽम्नातं स्वशाखायां पारक्यमविरोधि यत् ।
आकाङ्क्षितं शेषभूतमनुष्ठेयं विचक्षणैः ॥ ९४ ॥
तत्कृतौ फलवैशिष्ट्यं न दोषस्त्वकृतौ भवेत् ।
सामयाचारिका धर्मा देश[२०]जातिकुलोद्भवाः ॥ ९५ ॥
ग्रामाचाराः परिग्राह्या ये च शास्त्राविरोधिनः ।
युगधर्माः परिग्राह्याः सर्वत्रैव यथोचितम् ॥ ९६ ॥

इति संक्षेपेण परिभाषाः ।

दक्षिणार्थद्रव्येयत्ताव्यवस्था धनिकादिलक्षणं च ।

अथ धनिकादिप्रदेयदक्षिणार्थद्रव्येयत्ताव्यवस्था ।
 तत्राऽऽदौ धनिकादिलक्षणं वाराहे--

"वर्धयित्वा धनं यस्तु तस्माद्वासमपीह यः ।
न खादेत्संग्रहपरो धनिकः स उदाहृतः ॥
पोषणीयकुटुम्बस्य निर्वाहो यावता भवेत् ।
तावदेव सुखं येन लभते प्रतिवार्षिकम् ॥
ऋणं यस्य तु नास्त्येव स मध्यम उदाहृतः ।
धनं पूर्वापरं यस्य वर्तते बहुसंख्यया ।
अधिकस्यार्जको यः स्यात्स महाधन उच्यते ।
सदाचाररतो विप्रो धनार्जनपराङ्मुखः ॥
कुटुम्ब्ययत्नमतिकः स दरिद्र इति स्मृतः ।
यस्य स्यादशनाभावः सदाचाररतस्य हि ।
महादरिद्रः स भवेद्वासोधान्यविवर्जितः ॥

वर्धयित्वा धनं यस्तु ग्रासं वार्षिकमर्जयेत् ।
स वै धन्य इति प्रोक्तश्चैकवर्षेण यः पुमान् ॥
वर्षद्वयमितं ग्रासं स हि धन्यतरः स्मृतः ॥
अधिकस्यार्जको यः स्यात्स धन्यतम ईरितः ।
धनेनैव विना यस्तु ग्रासं वार्षिकमर्जयेत् ॥
स वै धीर इति प्रोक्तस्तारतम्यं च पूर्ववत्" इति ।

 अथैतेषु मध्ये केन कियद्देयमित्याकाङ्क्षायां वाराहे लक्षनमस्कारहोमं प्रकृत्य--

"व्याहृतीनां सहस्रस्य होमे शुल्कं द्विजेऽर्पयेत् ।
माषमात्रं सुवर्णं तु लक्षहोमे शतं यवाः" इत्युक्तम् ।
"धनिको द्विगुणं दद्यात्त्रिगुणं तु महाधनः ।
यवार्धं तु दरिद्रेण दातव्यं पुण्यलब्धये ॥
दद्यान्महादरिद्रस्तु तदर्धं शुल्कमेव च" इति ।

 मध्यमादिभिस्तु धनिकाद्यपेक्षया किंचिन्न्यूनं दरिद्राद्यपेक्षया किंचिदधिकं देयमित्यर्थात्तारतम्येन कल्पनीयम् । धीरेण तु दरिद्रतोऽपि न्यूनं समं वा लाभानुसारेण कल्पनीयम् । एतच्च सुवर्णादिद्रव्यविषयमेव, न तु गवादिविषयम् । सुवर्णं प्रकृत्यैव द्वैगुण्यादेरुक्तत्वात् । एतत्सर्वं नित्यकर्मविषयमनुक्तपरिमाणविषयकं च ज्ञेयम् । काम्य उक्तपरिमाणे च कर्मणि तु यथावदेव देयम् । धनिकादिस्तु दरिद्र्यहमिति प्रख्यापयन्यथावन्न ददाति स कर्मफलं नैवाऽऽप्नोति ।
 तथाच मनुः--

"प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते ।
स नाऽऽप्नोति फलं तस्य परत्रेति श्रुतिः स्मृतिः" इति ।

 पुराणान्तरेऽपि--

"वित्तशाठ्यं नरो यस्तु धने सति करोति हि ।
स नाऽऽप्नोति फलं तत्र चोर एव प्रकीर्तितः" इति ।

 एवं स्वल्पकालसाध्यबहुकालसाध्यकर्मसु श्रमाद्यनुरोधेन द्रव्येयत्ता कल्पनीया ।

कुशाहरणादिविधिः ।

  अथ संक्षेपेण कुशाहरणादिविधिः । तत्र शातातपः--

"समित्पुष्पकुशादीनि ब्राह्मणः स्वयमाहरेत् ।
शूद्रानीतैः क्रयक्रीतैः कर्म कुर्वन्पतत्यधः" इति ।

 आदिशब्देन दूर्वादि । उत्तरार्धादिदमपि ज्ञायते स्वस्याऽऽहरणाशक्तौ ब्राह्मणक्षत्रियवैश्याहृतैः कर्मकरणे दोषो नास्तीति । लक्षपुष्पार्चनादौ तु क्रयक्रीतनिषेधो न

"लक्षपुष्पार्चनादौ तु क्रयक्रीतमपीष्यते" इति मन्त्रकोशकारोक्तेः ।

 आदिशब्देन दूर्वादिलक्षपूजनं गृह्यते । कुशग्रहणकालमाहाङ्गिराः--

"अहन्यहनि कर्मार्थं कुशच्छेदः प्रशस्यते ।
कुशा धृता ये पूर्वत्र योग्याः स्युर्नोत्तरत्र ते" इति ।

पूर्वकर्मणि धृता ये कुशास्ते नोत्तरत्रानन्तरं क्रियमाणेषु कर्मसु योग्या इत्यर्थः ।

 जाबालिः--

"कुशान्काशांश्च पुष्पाणि गवार्थं च तृणादिकम् ।
निषिद्धे चापि गृह्णीयादमावास्याहनि द्विजः" इति ।

 अहन्यहनि दर्भच्छेदनासंभवे कालान्तरमुक्तं स्मृत्यन्तरे--

"मासि मास्याहृता दर्भास्तत्तन्मास्येव चोदिताः" इति ।

 अस्याप्यसंभवे विष्णुः--

"दर्शे श्रावणमासस्य समन्त्रोत्पाटिताः कुशाः ।
अयातयामास्ते दर्भा नियोज्याः स्युः पुनः पुनः" इति ।

 अयातयामा अपर्युषिताः । नियोज्या उपयुक्ता अप्यनिषेधेऽन्यत्र प्रयोज्या इत्यर्थः । यस्तु--

"अमायां नैव हिंस्यात्तु कुशांश्च समिधस्तथा ।
सर्वत्रावस्थिते सोमे हिंसायां ब्रह्महा भवेत् ॥
वनस्पतिगते सोमे यस्तु हिंस्याद्वनस्पतिम् ।
घोरायां ब्रह्महत्यायां युज्यते नात्र संशयः" ॥

 इति निषेधः स यस्मिन्मुहूर्तत्रये वनस्पतिषु सोमो वसति तत्परो न तु कृत्स्नामापर इति । योऽयं वनस्पतिगतसोमविशिष्टे काले छेदननिषेधः स लौकिकच्छेदनपरो न त्विध्मादिच्छेदनपरस्तस्य विहितत्वादिति द्रष्टव्यम् । सोमवासकालस्तु गरुडपुराणेऽभिहितः--

"त्रिमुहूर्तं वसत्यर्के त्रिमुहूर्तं जले तथा ।
त्रिमुहूर्तं तथा गोषु त्रिमुहूर्तं वनस्पतौ" इति ।

 एतच्चामामारभ्य ज्ञेयम् । कुशच्छेदनविधिमाह कौशिकः--

"शुचौ देशे शुचिर्भूत्वा स्थित्वा पूर्वोत्तरामुखः ।
ओंकारेण तु मन्त्रेण कुशान्स्पृष्ट्वा द्विजोत्तमः ॥
विरिञ्चिना सहोत्पन्नं परमेष्ठिनिसर्गज ।
नुद सर्वाणि पापानि कुश स्वस्तिकरो भव ॥
इमं मन्त्रं समुच्चार्य ततः पूर्वोत्तरामुखः ।
हुंफट्कारेण दर्भांस्तु सकृच्छित्त्वा समुद्धरेत्" इति ।

 क्त्वाप्रत्ययादेव च्छेदनेऽपि पूर्वोत्तरामुखत्वे सिद्धे पुनर्वचनं विशेषविधिप्रतिपादितधर्मान्तरपरिसंख्यार्थम् । तेन स्थित्वेत्यस्यैव विशेषविधिप्रतिपादितत्वाच्छेदने निवृत्तिः । शुचौ देशे शुचिर्भूत्वेत्यस्य तु न निवृत्तिः । विशेषविधिप्रतिपादितत्वाभावादिति द्रष्टव्यम् । क्वचिच्छेदने विशेष उक्तो भरद्वाजेन--

"प्रेतक्रियार्थं पित्रर्थमभिचारार्थमेव च ।
दक्षिणाभिमुखश्छिन्द्यात्प्राचीनावीतिको द्विजः" इति ।

 छेदनीयकुशान्विशिनष्ट्यङ्गिराः--

"अच्छिन्नाग्रान्पवित्रांश्च अच्छिद्रान्कोमलाञ्शुभान् ।
पितृदेवक्रियार्थं च समादद्यात्कुशान्द्विजः" इति ।

 त्याज्यान्कुशानाह हारीत:--

"पथि दर्भाश्चितौ दर्भा ये दर्भा यज्ञभूमिषु ।
स्तरणासनपिण्डेषु तेषां त्यागो विधीयते" इति ।

 आपस्तम्बः--

"ब्रह्मयज्ञे च ये दर्भा ये चैव पितृतर्पणे ।
हता मूत्रपुरीषाभ्यां तेषां त्यागो विधीयते" इति ।

 देवलः--

"अपूता गर्भिता दर्भा चाग्रच्छेदिता नखैः ।
क्वथिता अग्निदग्धाश्च कुशा वर्ज्याः प्रयत्नतः" इति ।

 गर्भिता गर्भदलसंयुताः । वस्तुतस्तु सूत्रकृता यत्रानन्तर्गर्भत्वमुक्तं तत्रैव नियतम्, अन्यत्रानियतमिति द्रष्टव्यम् ।

  जाबालिः--

"नीविमध्यस्थिता दर्भा ब्रह्मसूत्रे च ये धृताः ।
पवित्रांस्तान्विजानीयाद्यथा कायस्तथा कुशाः" इति ।

 स्मृत्यन्तरे--

"अमूला देवकार्येषु पितृकार्ये समूलकाः" इति ।

 कौशिकः--

"सप्रसूनाः स्मृता दर्भा अप्रसूनाः कुशाः स्मृताः ।
समूलाः कुतपाः प्रोक्ताश्छिन्नाग्रास्तृणसंज्ञिताः" इति ।

 प्रसूनं पुष्पम् ।

अत्रिः-- "उभाभ्यामपि हस्ताभ्यां द्विजैर्दर्भपवित्रके ।
  धारणीये प्रयत्नेन ब्रह्मग्रन्थिसमन्विते" इति ।

 प्रयत्नेन ब्रह्मग्रन्थिसमन्विते धारणीये इति योजना ।

  स एव--

"ब्रह्मयज्ञे जपे चैव ब्रह्मग्रन्थिर्विधीयते ।
भोजने वर्तुलः प्रोक्त एवं धर्मो न हीयते" इति ।

 ब्रह्मग्रन्थिलक्षणं हेमाद्रिणोक्तम्--

  "द्विगुणीकृतानां दर्भशिखानां पाशः प्रदक्षिणमर्धावेष्टनं विधाय पश्चाद्भागेन यदा प्रवेश्यते तदा वर्तुलो ग्रन्थिः । स एव यदा प्रादक्षिण्येन सर्ववेष्टनं विधाय पुरोभागेण प्रवेश्यते तदा ब्रह्मग्रन्थिः" इति ।

 हारीतः--

"वामहस्ते कुशान्कृत्वा समाचामति यो द्विजः ।
उपस्पृष्टं भवेत्तेन रुधिरेण मलेन वा" इति ।

 केवलं वामहस्त इत्यर्थः । न चैतदाचमने वामहस्ते कुशधारणनिषेधकमिति वक्तुं शक्यम् ।

"उभयत्र स्थितैर्दर्भैः समाचामति यो द्विजः ।
सौमपानफलं सोऽपि भुक्त्वा यज्ञफलं लभेत्" ॥

 इति देवलवचनविरोधापत्तेः ।  मार्कण्डेयः--

"न ब्रह्मग्रन्थिनाऽऽचामेन्न दूर्वाभिः कदाचन ।
काशहस्तस्तु नाऽऽचामेत्कदाचिद्विधिशङ्कया इति ।

 पवित्रलक्षणमाह कात्यायनः--

"अनन्तर्गर्भितं साग्रं कौशं द्विदलमेव च ।
प्रादेशमात्रं विज्ञेयं पवित्रं यत्रकुत्रचित्" इति ।

 विशेषतः पवित्रलक्षणं स्मृत्यन्तरे--

"द्व्यङ्गुलं मूलतः कुर्याद्ग्रन्थिरेकाङ्गुलस्तथा ।
चतुरङ्गुलमग्रं स्यात्पवित्रस्य च लक्षणम्" इति ।

 प्रवणेन पवित्रग्रन्थिकरणमुक्तं तत्रैव--

"तारेण कुर्याद्ग्रन्थिं तु पवित्रस्य विचक्षणः" इति ।

  तारः प्रणवः ।

 पवित्रदर्भसंख्यामाह मार्कण्डेयः--

"चतुर्भिर्दर्भपिञ्जूलैर्ब्राह्मणस्य पवित्रकम् ।
एकैकन्यूनमुद्दिष्टं वर्णे वर्णे यथाक्रमम्" इति ।

 गरुडपुराणे तु--

"सप्तभिर्दर्भपिञ्जूलैर्ब्राह्मणस्य पवित्रकम् ।
पञ्चभिः क्षत्रियस्यैव चतुर्भिस्तु तथा विशः ॥
द्वाभ्यां शूद्रस्य विहितमातुराणां तथैव च ।
सर्वेषां वा भवेद्द्वाभ्यां पवित्रं ग्रन्थितं न वा" इति ।

 स्मृत्यन्तरे--

"चतुर्भिर्दर्भपिञ्जूलैर्द्वाभ्यां वाऽथ पवित्रकम् ।
दैवे कर्मणि कर्तव्यं पित्र्ये तत्त्रिभिरीरितम्" इति ।

 रत्नावल्याम्--

"द्वयोस्तु पर्वणोर्मध्ये पवित्रं धारयेद्बुधः" इति ।

 पवित्रपातप्रायश्चित्तमुक्तं स्मृत्यन्तरे--

"पवित्रे पतिते ज्ञा[२१]ते तथा जपमणावपि ।
प्राणायामत्रयं कुर्यात्स्नात्वा विप्रोऽघमर्षणम्" इति ।

  जपेदिति शेषः ।

 पवित्रत्यागे विशेष उक्तः स्मृत्यन्तरे--

"नित्ये नैमित्तिके वाऽपि कर्मोपकरणे द्विजः ।
धृतं पवित्रं कर्मान्ते ग्रन्थिं मुक्त्वैव तत्त्यजेत्" इति ।

 कुशाभावे स्मृत्यन्तरे--

"कुशाभावे तु काशाः स्युः कुशाः काशाः समाः स्मृताः ।
काशाभावे ग्रहीतव्या अन्ये दर्भा यथोचितम्" इति ।

 हारीतः--

"कुशाभावे तथा काशा दूर्वा व्रीहियवा अपि ।
गोधूमाश्चैव नीवाराः श्यामाकोशीरवल्वजाः ॥
मुञ्जा वाऽथ परिग्राह्याः सर्वकर्मसु निश्चितम्" इति ।

अत्र व्रीहियवगोधूमनीवारश्यामाकशब्दास्तत्तत्तृणपराः । विस्तरस्त्वाचाररत्नमालायां वक्ष्यते ।

यज्ञियपात्रवृक्षाः, यज्ञियपात्रलक्षणानि च ।

  पात्रवृक्षाः संग्रहे--

"पात्राणि दारवाणि स्युर्यथाशक्त्यनुरूपतः ।
पूर्णपात्रादयो ग्राह्याः शस्ता यज्ञद्रुमोद्भवाः ॥
प्रशस्ते पूर्णपात्रार्थे दारुकांस्यमये मखे" इति ।

 पात्र इति शेषः ।

"खादिरेण स्रुवः कार्यः पालाशी तु जुहूर्भवेत् ।
त्वक्प्रदेशे बिलं स्यातामन्यैर्वा यज्ञियैर्द्रुमैः ॥
तदलाभे पलाशस्य पर्णाभ्यां हूयते हविः ।
पलाशपर्णाभावे तु पर्णैर्वा पिप्पलोद्भवैः" इति ।

 गृह्यकर्मणि सर्वत्राऽऽज्यहोमे दर्व्येवाऽऽचार्योक्तेः । शास्त्रान्तरे दृष्टत्वात्खादिर्यपि दर्वी ग्राह्येति मातृदत्तः । अपिशब्दात्पालाशी ।   बौधायनगृह्ये--

 "खादिरी दर्वी तेजस्कामस्यौदुम्बर्यन्नाद्यकामस्य पालाशी ब्रह्मवर्चसकामस्य" इति ।  स्रुवे विशेषमाह स एव--

"पालाशेन स्रवेणेत्यात्रेयः खादिरेणेत्याङ्गिरसस्ताम्रायसेनेत्याथर्वणः
कार्ष्णायसेनाभिचरन्निति सार्वत्रिकम्" इति ।

 दर्व्या आकृतिर्लोकप्रसिद्धा भाषया 'पळी' इत्युच्यते । तदलाभे स्रुगलाभे दर्व्यलाभे च स्रुवस्थानीयं पर्णमत्र मध्यमं ग्राह्यम् ।

"मध्यमेन पर्णेन जुहोति स्रुग्ध्येषा" इति श्रुतेः ।
"खादिरो मुसलः कार्यः पालाशः(शं) स्यादुलूखलः(लम्) ।
यद्वोभौ वारणौ कार्यौ तद[२२]लाभेऽन्यवृक्षजौ ॥
चमसः स्यात्प्रणीतानां कांस्यपात्रमथापि वा" इति ।

 आज्यस्थालीलक्षणं छन्दोगपरिशिष्टे--

"आज्यस्थाली प्रकर्तव्या तैजसद्रव्यसंभवा ।
महीमयी वा कर्तव्या सर्वास्वाज्याहुतीषु च ॥
आज्यस्थाल्याः प्रमाणं तु यथाकामं तु कारयेत् ।
सुदृढामव्रणां भद्रामाज्यस्थालीं प्रचक्षते" इति ।

 आज्यस्थाली मृन्मयीति मातृदत्तवैजयन्तीकारौ । कांस्यमयीति केचित् । सा चार्थसिद्धपरिमाणा विशेषानुक्तेः । यथाकामं तु कारयेदित्यनन्तरोदाहृतच्छन्दोगपरिशिष्टवचनाच्च । मृन्मयीतिपक्षे हस्तघटितैव न कुलालचक्रनिर्मिता । अचक्रावर्तामित्यग्निहोत्रहोमप्रकरणे सूत्रकारेणोक्तत्वात् ।

"कुलालचक्रनिष्पन्नमासुरं मृन्मयं स्मृतम् ।
तदेव हस्तघटितं स्थाल्यादि दैविकं भवेत्" ।

 इति कर्मप्रदीपवचनाच्च । चक्रेणाऽऽवर्तो भ्रमो यस्याः सा चक्रावर्ता न चक्रावर्ताऽचक्रावर्ता ताम् । इदमग्निहोत्रस्थालीविशेषणम् । आज्याहुतीनामतिबाहुल्येनैकाज्यस्थाल्यसंभवेऽनेका महत्य आज्यस्थाल्य उपयोक्तव्याः ।

 प्रदर्शितं चास्त्याचार्येण--

"असंभवाद्वा यथाऽश्वमेधे पशुकर्मसु" इत्यनेन सूत्रेण ।

 अन्यो निर्वापो वा कार्यः । आज्यस्थालीगताज्यस्य स्कन्दनेऽप्येषः । प्रायौगिकास्तु संस्कृते स्थालीगत आज्य एव लौकिकमाज्यमानीय तेन कर्म कुर्वन्ति । प्रणीताप्रणयनपात्रं चमसः । स च न्यग्रोधजो रौहीतकजो वा चतुरङ्गुलदण्डश्चतुरस्रः षडङ्गुलदीर्घस्त्र्यङ्गुलनिम्नश्चतुरस्रबिलोऽदण्डो वा । अस्मिन्पक्षे परितो व्द्यङ्गुलमवशेष्य सर्वं बिलमेव । रौहीतको वटावान्तरजातिरिति पशुप्रकरणे व्याख्यातारः । यद्यप्यमरेण करञ्जभेदे रौहीतकशब्दप्रवृत्तिरुक्ता तथाऽप्यमरव्याख्यायाम्--

"रोही रोहीतकश्चैत्यवटपादपयोः पुमान्" ।

 इति रामाश्रमोदाहृतकोशान्तराद्वटवाचिताऽपि । यद्यपि न्यग्रोधरोहितकशब्दयोः पर्यायता कोशान्तरात्प्रतीयते तथाऽपि नैयग्रोधान्रौहीतकान्वेति सूत्रे पृथगुपादानाद्वटविशेषपरता रौहीतकशब्दस्य । रोहीतकरोहितकशब्दौ पर्यायौ । वारणजो वा चमसः । "अहोमार्थानि तु वारणस्य" इतिवचनात् । इयं च परिभाषा गार्ह्यकर्मण्यनित्येति ज्ञापयिष्यते च सोमसूत्रव्याख्याने । तथा च विकङ्कताद्यन्यतमयज्ञियवृक्षजान(न्य)पि । मातृदत्तस्तु प्रणीताप्रणयनपात्रं मृन्मयमित्याह । कांस्यपात्रं ब्रह्मवर्चसकामनायामिति केचित् । प्रोक्षणीपात्रं स्रुगाकारं वारणवृक्षजम् । अहोमार्थत्वात् ।

 तत्र स्रुग्लक्षणमित्थं याज्ञिका उपदिशन्ति--

"आयामं पञ्चधा कृत्वा चतुर्धा वाऽग्रतो द्वयोः ।
उपान्त्यः पात्रमित्युक्तो हविराश्रयभावतः ॥
उपान्त्यभागे विस्तारः स्वदैर्घ्येण समो भवेत् ।
सोऽञ्जल्याकृतिरुद्दिष्टो बिलमत्र च वर्तुलम् ।
षडङ्गुलं बाहुमात्र्यां तदर्धेन च निम्नता ।
अरत्निमाने हस्तस्य तलमानं बिलं स्मृतम् ॥
विस्तारार्धेन निम्नं स्यादन्त्यभागेऽथ निर्णयः ।
भागेऽन्तिमे भवेद्ग्रीवा दैर्घ्यार्धेन च विस्तृता ॥
तस्या मुखं हंसमुखं हस्त्योष्ठमुखमेव वा ।
बिलात्प्रणालिका तावत्पर्यन्तार्थानुरूपतः ॥
कर्णौ ससुषिरौ ग्रीवापार्श्वयोश्चोदितौ तथा ।
बिलस्य बुध्ने पद्मं स्यादथ दण्डस्य लक्षणम् ॥
अवशिष्टास्त्रयो द्वौ वा भागौ दण्ड इतीर्यते ।
तस्य मूले भवेत्स्थूलः परिणाहो नवाङ्गुलः ॥

 परिणाहो विशालता ।

अन्ते पञ्चाङ्गुलः श्लक्ष्णो यन्त्रतो वर्तुलो भवेत् ॥
दण्ड एवं स्रुचां काकपुच्छत्वं समुदीरितम् ।
यथाशोभं स्रुचः कार्या इति बौधायनोऽब्रवीत् ।
शास्त्रान्तरात्तु विज्ञेयं विशेषान्तरमत्रयत् ।
प्रादेशमात्रताऽपि स्याद्बौधायनमतादितः ।
दण्डो भागद्वयेन स्यात्पात्रं भागद्वयेन च ।
ऊर्ध्वमेकेन भागेन ग्रीवा चेति यथार्थतः ।
स्रुचः सह स्रुवेण स्युरुक्तवृक्षा अथापि वा" इति ।

 एतत्कारिकाभ्यः पूर्वत्र खादिरस्योपक्रान्तत्वात्तेन साकमयं विकल्पः । गृह्यकर्मणि-- 'वितस्तिर्गृह्यकर्मणि' इति वचनाद्वितस्तिप्रमाणेन प्रोक्षण्यर्था स्रुक्कार्या । एवं दर्व्यादीन्यपि । वितस्तिर्द्वादशाङ्गुला । त्रयोदशाङ्गुलेति केचित् । शूर्पं लोकप्रसिद्धम् । तच्च वैणवं नलमयं वेति भरद्वाजः । उलूखलं पालाशं वारणं वा । मुशलं खादिरं वारणं वा । एतयोः परिमाणे अर्थसिद्धे । दृषदुपले पेषणार्थे पाषाणमये अर्थसिद्धपरिमाणे । पात्री धातुमयी मृन्मयी वा । कपालानि तु नवं मृन्मयं घटं भित्त्वा तच्छकलानि पुरोडाशश्रपणयोग्यानि चत्वारि । एतैरश्वशफमात्रो विस्तारो यथा संपद्यते तावन्मानानि ।

  यज्ञपार्श्वे तु--

"समानि चतुरस्राणि द्व्यङ्गुलानि समन्ततः ।
कुर्यादेककपालानां कपालं पाणिसंमितम् ॥
द्विकपालत्रिकादीनि कुर्यात्तदनुसारतः ।
एवमादिसमादेशं कुर्यादौत्सर्गिकं सदा" इति ।

 मण्डनोऽपि--

"रथचक्रवदाकारः सर्वतश्च षडङ्गुलः ।
यथा कपालयोगः स्यात्तथैकैकं कपालकम् ।
उत्सेधा द्व्यङ्गुलास्तेषामेवं कुर्यान्मृदा पृथक् ।
यद्वा भिन्नघटादीनां गृह्णीतावयवानिह" इति ।

 कुलालभावितया मृदा सर्वतः षडङ्गुलं रथचक्राकृति द्व्यङ्गुलोच्चं समभूमिकं वर्तुलपीठं कृत्वाऽधस्तात्किंचित्परिशेष्य प्राञ्चं तिर्यञ्चं च विभजेत् । तेन चत्वारि कपालानि भवन्ति । ततस्तानि पक्त्वा परिशेषितप्रदेशेषु विभजेत् । अत्रैव कपालशब्दस्य रूढेः । शम्यामानमप्याह स एव--

"त्रिप्रादेशा भवेच्छम्या कुम्बाग्राऽतिमनोहरा ।
एकप्रादेशमात्रा वा शम्या लौगाक्षिदर्शनात्" इति ।

 दृषदादीनां पूर्वेद्युःश्राद्ध उपयोगः ।

  स्रुवलक्षणमाह मण्डनः--

"अर्धाङ्गुलमितच्छिद्रः स्रुवस्त्वङ्गुलबुध्नवान् ।
अङ्गुष्ठपर्वणो यद्वा वृत्तं तन्मात्रपुष्करम्" इति ।

 आश्वलायनस्मृतौ--

"अष्टाङ्गुलमिता स्थाली प्रोक्षणी च षडङ्गुला ।
चमसश्चाऽऽज्यपात्रं च षडङ्गुलमिति स्मृतम्" इति ।

 उच्चताऽर्थसिद्धा । स्थाली चरुस्थाली । आज्यपात्रमाज्यस्थाली । वितस्तिर्गृह्यकर्मणीतिवचनसिद्धेन वितस्त्यात्मकेन प्रोक्षणीप्रमाणेन षडङ्गुलप्रमाणं विकल्पत इति केचित् ।

 कात्यायनेन चरुस्थालीलक्षणमन्यथोक्तम्--

"दृढा प्रादेशमात्र्यूर्ध्वं तिर्यङ्नातिबृहन्मुखी ।
मृन्मय्यौदुम्बरी वाऽपि चरुस्थाली प्रशस्यते" इति ।

 एतच्च प्रादेशमात्रत्वमाश्वलायनस्मृत्युक्तेनाष्टाङ्गुलप्रमाणेन विकल्पते । औदुम्बरी ताम्रमयी । मेक्षणलक्षणमप्युक्तं कात्यायनेन--

"इध्मजातीयमिध्मार्धप्रमाणं मेक्षणं भवेत् ।
वृत्तं वार्क्षं च पृथ्वग्रमवदानक्रियाक्षमम्" इति ।

 इध्मजातीयमित्यनेनैव वृक्षलाभे वार्क्षमिति वचनमिध्मवृक्षातिरिक्तवृक्षस्यापि पक्षे संग्रहार्थम् ।

 संग्रहे--

"आयामं पञ्चधा कृत्वा त्रिभागं दण्डमेव च ।
द्विभागं पुष्करं प्रोक्तं दर्व्या लक्षणमुत्तमम्" इति ।

 इयं च दर्वी पूर्णाहुत्यादिहोमे होमानुसारेण कल्पनीया । यत्र द्विस्त्रिर्गृहीताज्यहोमः प्रायश्चित्तादौ तत्राप्येवम् । यत्रैवमाज्यहोमो नास्ति तत्र[२३] कर्षप्रमाणमाज्यं यावति बिले संमाति तावत्प्रमाणबिला दर्वी ग्राह्या ।

पात्राणां शुद्धिप्रकारः ।

 अथ संक्षेपेण पात्राणां द्रव्याणां च शुद्धिप्रकारः । तत्र लेपरहितानां दारुमयाणामश्ममयानां वैणवानां च लेपं विनोच्छिष्टपुरुषादिस्पृष्टानां जलेन प्रक्षालनाच्छुद्धिः । सलेपानामेतेषां सलेपोच्छिष्टादिपुरुषस्पृष्टानां तक्षणात्प्रक्षालनाच्च शुद्धिः । सलेपानामेतेषां लेपं विनोच्छिष्टपुरुषादिस्पृष्टानामुष्णोदकेन प्रक्षालनाच्छुद्धिः । शूर्पस्य तु तक्षणासंभवात्परित्याग एव । लेपसहितानां दारुमयाणामश्ममयानां च काकादिमुखावमृष्टानां तक्षणाच्छुद्धिः । लेपरहितानां तूष्णोदकेन प्रक्षालनात् । एवं मार्जारव्यतिरिक्तश्वापदमुखावमृष्टानामपि । चण्डालादिस्पर्शविण्मूत्राद्युपहत्योस्तु सर्वत्र परित्याग एव । सलेपानां सौवर्णराजतकांस्यमयताम्रमयाणां यथाक्रममुष्णोदकगोशकृद्भस्माम्लैः शुद्धिः । सलेपानां सौवर्णराजतव्यतिरिक्तानां पात्राणां काकादिमुखावमृष्टानां शूद्रसंस्पृष्टानां च तक्षणात्प्रक्षालनाच्च शुद्धिः। एवं शूद्रोपभुक्तानामलेपानामपि । सौवर्णराजतानां तु दाहादुष्णोदकेन प्रक्षालनाच्च शुद्धिः । एतेषां चण्डालादिस्पर्शे विण्मूत्राद्युपहतौ च पुनः करणम् । अथवा गोमूत्रे सप्तरात्रं संस्थापनाद्दाहादुष्णोदकेन प्रक्षालनाच्च शुद्धिः । नूतनानां मृन्मयानां विना लेपमुच्छिष्टपुरुषादिस्पृष्टानां जलेन प्रक्षालनम् ।आज्यलिप्तानामुच्छिष्टपुरुषादिस्पृष्टानां पुनर्दाहः । सलेपानामुच्छिष्टपुरुषादिस्पृष्टानां मूत्रपुरीषाद्युपहृतानां च परित्याग एव ।

द्रव्याणां शुद्धिप्रकारः ।

 कृष्णाजिनस्य लेपं विनोच्छिष्टस्पर्शे गोमयोदकेन प्रक्षालनम् । सलेपोच्छिष्टस्पर्शे गौरसर्षपपिष्टैर्गोमयेन मृदोष्णोदकेन च शुद्धिः । विण्मूत्राद्युपहतावप्येवम् । घनाया भूमेर्विण्मूत्राद्युपहतौ गोमयेनोपलेपनम् । ससुषिरायाः कर्षणम् । आर्द्राया मेध्यमृदा प्रच्छादनम् । अशुद्धायां भूमौ न्यस्तानां प्रक्षालनम् । पुरुषवाह्यानां काष्ठशिलेष्टकानां चण्डालादिस्पृष्टानां प्रक्षाल्यावशोषणम् । यज्ञाद्यर्थं शूद्रादिभिराहृतानां दर्भकाष्ठादीनां पवमानानुवाकेन प्रोक्षणाच्छुद्धिः । एकपुरुषाहारपरिमितानां व्रीहियवगोधूमादीनां विण्मूत्राद्युपहतौ परित्यागः । अधिकानां तु यावत उपहतिर्भवति तावत एवोत्सर्गं कृत्वाऽवशिष्टानां प्रोक्षणकण्डनक्षालनानि कार्याणि । फलीकृतानां तण्डुलानां पाणिभ्यां निर्मलीकरणप्रोक्षणप्रक्षालनानि । होमार्थस्य चर्वादेः केशकीटपतङ्गादिभिरुपघाते परित्याग एव । सर्पिषस्तैलस्य चोच्छिष्टस्पर्श उदके तत्पात्रं निधायोद्धृत्योपयोजयेत् । मधुपयोदध्यादीनां तस्मात्पात्रादन्यस्मिन्पात्र उद्धृत्योपयोगः कार्यः । एतेषां लेपसंबन्धे परित्याग एव । परित्यागव्यतिरिक्ते सर्वत्र पवमानानुवाकप्रोक्षणस्य समुच्चयः । सर्पिरादीनां क्षुद्रकेशकीटकादिभिः संसर्गे तमुद्धृत्य पर्यग्निकरणं वस्त्रादिभिर्गालनं पवित्राभ्यां तूष्णीमुत्पवनं च कार्यम् । एवं काकादिभिरवघ्रातेष्वपि । विण्मूत्राद्युपहतौ तु परित्याग एव । एतन्मूलभूतानि वचनानि तु हेमाद्रिविज्ञानेश्वरमदनपारिजातादिषु द्रष्टव्यानि ।

इति पात्रद्रव्यशुद्धिप्रकारः ।

द्रव्यप्रतिनिधिनिरूपणम् ।

 अथ संक्षेपेण प्रतिनिधिनिरूपणम् । तत्र व्रीहयो यवा वा मुख्यास्तदभावे नीवारगोधूमौ यथायथं तदभावे वेणुयवास्तदभावे माषचणककोद्रवादिनिषिद्धद्रव्यातिरिक्तं द्रव्यम् । गव्यमाज्यं मुख्यं तदभावे माहिषं तदभाव आजं तदभावे तैलं तदभावे जर्तिलातसीकुसुम्भसर्षपमधूकबीजनारिकेलस्नेहादीनि पूर्वपूर्वालाभे ग्राह्याणि । एतेषामप्यलाभे यवव्रीहिश्यामाकान्यतमोद्भवं पिष्टं जलेनाऽऽलोड्याऽऽज्यकार्ये नियोजयेत् । एवमञ्जनेऽपि । बर्हिःकार्ये दर्भा मुख्यास्तदभावे काशास्तदभावे शरसुगन्धितृणाश्वबालमुञ्जदूर्वायवश्यामाकतृणेक्षुपत्रक्षीरद्रूमपत्राणि पूर्वपूर्वालाभे ग्राह्याणि । समित्कार्ये पलाशो मुख्यः । इध्मकार्ये खदिरोऽपि । तदभावेऽश्वत्थोदुम्बरशम्यर्कापामार्गादयः । अपि वा कपित्थराजवृक्षकदम्बनिम्बकरञ्जशाल्मलितिलकञ्चनारश्लेष्मातकविभीतकशाकद्रुमादीन्निषिद्धान्वर्जयित्वाऽवशिष्टाञ्शुचीन्वनस्पतीनुपयुञ्ज्यात् । गोपयो मुख्यं, तदभावे माहिषं, तदभाव आजं, तदभावे गवादीनां दधि, तदभावे यवव्रीहिश्यामाकान्यतमोद्भवपिष्टमिश्रितं जलम् । केषांचिदाचार्याणां मते गोपयोभावे दधि, तदभावे माहिषं पयः, तदभाव आज, तदभावे महिष्यादीनां दधि, तदभावे यवव्रीहिश्यामाकान्यतमोद्भवपिष्टमिश्रितं जलमिति क्रमः । एवं दध्नोऽपि । पात्रेषूक्तवृक्षाभावे पूर्वोक्तान्कपित्थादीन्वर्जयित्वा पारयोग्ययज्ञियवृक्षमात्रं ग्राह्यम् ।

दक्षिणामानम् ।

 दक्षिणासु वरेषु चोक्तद्रव्यालाभे विभवानुसारेण मूल्याध्यायोक्तमानेन द्रव्यं देयम् । तत्र मानं पञ्चधा । वराटकताम्ररौप्यकसुवर्णरजतभेदात् । तत्रैकस्या गोर्मूल्यं वराटकमानेन षष्ट्यधिकपञ्चविंशतिशती वराटकानां भवति । ताम्रमानेनैकस्या गोर्मूल्यं मधुमुद्राङ्कितढब्बूकस्य चतुश्चत्वारिंशदधिकशतगुञ्जात्मकत्वात्ताम्रपणस्य । चाशीतिगुञ्जात्मकत्वात्किंचिन्न्यूना अष्टादश ढब्बूका भवन्ति । रौप्यकमानेन त्वेकस्या गोर्मूल्यं किंचिन्न्यूनैकयवाधिकगुञ्जाद्वयपरिमितं सुवर्णं भवति । सुवर्णमानेन त्वेकस्या गोर्मूल्यं चत्वारिंशन्माषकपरिमितं सुवर्णं भवति । राजतमानेन त्वेकस्या गोर्मुल्यं राजतचत्वारिंशन्माषपरिमितं रजतं भवति । वराटकमानेन वरमूल्यं विंशतियुक्तशताधिकपञ्चसाहस्री वराटकानां भवति । ताम्रमानेन तु किंचिन्न्यूनषट्त्रिंशढ्ढब्बूका भवन्ति । रौप्यकमानेन तु किंचिन्न्यूनयवद्वयाधिकचतुर्गुञ्जामात्रं सुवर्णं भवति । सुवर्णमानेन तु षोडशमाषात्मकाः पञ्च सुवर्णा भवन्ति । राजतमानेन तु राजताशीतिमाषकपरिमितं रजतं भवति । वराटकमानेन वृषमूल्यं षट्पञ्चाशद्युक्तशताधिकसप्तसाहस्री वराटकानां भवति । ताम्रमानेन तु किंचिन्न्यूनचतुष्पञ्चाशढ्ढब्बूका भवन्ति । रौप्यकमानेन तु किंचिन्न्यूनसप्तगुञ्जापरिमितं सुवर्णं भवति । सुवर्णमानेन तु सार्धसप्तसुवर्णा भवन्ति । राजतमानेन तु विंशतिरजतमाषाधिकशतमाषा रूप्यं भवति । अनडुहि वरापेक्षया द्विगुणं बोध्यम् । वराटकमानेन धेनुमूल्यमष्टशताधिकद्वादशसाहस्री वराटकानां भवति । ताम्रमानेन किंचिन्न्यूननवतिढब्बूका भवन्ति । रौप्यकमानेन यवद्वयाधिकमाषकद्वयं सुवर्णं भवति । सुवर्णमानेन सार्धद्वादश सुवर्णा भवन्ति । राजतमानेन राजतशतद्वयं माषका भवन्ति । वराटकमानेनाश्वमूल्यं शतद्वयाधिकैकोनविंशतिसाहस्री वराटकानां भवति । ताम्रमानेन पञ्च[२४]विंशत्यधिकशतं ढब्बूका भवन्ति । रौप्यकमानेन यवत्रयाधिकमाषकत्रयपरिमितं सुवर्णं भवति । सुवर्णमानेन पादोनैकोनविंशतिसुवर्णा भवन्ति । राजतमानेन राजतशतत्रयं माषका भवन्ति । वराटकमानेन हिरण्यमूल्यं सहस्रद्वयं वराटका भवन्ति । ताम्रमानेनाष्टगुञ्जान्यूनचतुर्दशढब्बूका भवन्ति । रौप्यकमानेन किंचिन्न्यूनसार्धपञ्चकमाषप्रमाणं सुवर्णं भवति । सुवर्णमानेन सपादैकत्रिंश [२५]न्माषा भवन्ति । राजतमानेन सपादैकत्रिंशद्राजतमाषा भवन्ति । वराटकमानेन वस्त्रमूल्यमशीत्यधिकद्वादशशती वराटकानां भवति । ताम्रमानेन किंचिन्न्यूननवढब्बूका भवन्ति । रौप्यकमानेन किंचिन्न्यूनसर्षपत्रयाधिकगुञ्जामात्रं सुवर्णं भवति । सुवर्णमानेन विंशतिमाषपरिमितं सुवर्णं भवति । राजतमानेन विंशतिराजतमाषपरिमितं रजतं भवति । गोरपेक्षया पादमात्रं छागमूल्यम्[२६] । अवावजापेक्षया सार्धमधिकं बोध्यम् । धेन्वपेक्षया क्रमेण पञ्चगुणं दासीमूल्यम् । दासीवन्निष्कमूल्यम् । वराटकमानेन गजमूल्यं चत्वारिंशत्सहस्राधिकलक्षषट्कं वराटकानां भवति । ताम्रमानेन स्थूलदृशा पञ्चशत्यधिकसहस्रचतुष्टयं ढब्बूका भवन्ति । रौप्यकमानेन स्थूलदृशाऽशीत्यधिकपञ्चशतगुञ्जापरिमितं सुवर्णं भवति । सुवर्णमानेन पञ्चशतमाषपरिमितं सुवर्णं भवति । रजतमानेन पञ्चशतराजतमाषपरिमितं रजतम् । धेन्वपेक्षया क्रमेणार्धं नरवाह्ययानस्य मूल्यम् । अनडुद्वद्गृहस्य मूल्यम् । एतन्मूलं गोपालकृतमूल्याध्यायविवरणे द्रष्टव्यम् । नित्येषु कर्मसु मूल्यस्याप्यभावे मन्थौदनकन्दमूलफलादीनि पूर्वपूर्वालाभे देयानि । काम्येषु कर्मसु तु यथोक्तवस्तून्येव न प्रतिनिधिः । आरब्धेष्वेतेषु यथोक्तवस्त्वलाभेऽस्त्येव प्रतिनिधिः ।

इति संक्षेपेण प्रतिनिधिनिरूपणम् ।


कर्मादौ गणेशपूजनस्याऽऽवश्यकता ।

 अथ गणपतिपूजनम् । तच्च सर्वकर्मस्वादौ कर्तव्यं, निर्विघ्नार्थत्वात् 'न ऋते त्वत्क्रियते' इति मन्त्रलिङ्गात् ।

"नार्चितो हि गणाध्यक्षो यज्ञादौ यत्सुरोत्तमाः ।
तस्माद्विघ्नं समुत्पन्नं तत्क्रोधजमिदं खलु" इति पद्मपुराणाच्च ।

 अत्र पूजा द्विविधा, षोडशोपचारा पञ्चोपचारा वा । तत्र प्रतिष्ठितप्रतिमायामावाहनविसर्जनयोरभावेन चतुर्दशोपचारैव पूजा । अथवाऽऽवाहनविसर्जनयोः स्थाने मन्त्रपुष्पाञ्जलिदानं तेन षोडशोपचारा भवन्ति । नूतनप्रतिमायां तु षोडशोपचारैव । आवाहनाभावे प्रतिमादौ पूजाया असंभवात् । क्वचित्तु वचनाद्विसर्जनमुत्कृष्यते । आग्निमारुतादूर्ध्वमनूयाजैश्चरन्तीतिवत् । यथा ग्रहयज्ञादौ--

"एवं समग्रं निष्पाद्य सर्वदेवान्विसर्जयेत्" ॥

 इति मात्स्ये विधानादन्ते विसर्जनम् । ईदृश्येव चेयं पूजा वचनत्याजितकिंचित्पदार्था पिण्डरहितसंक्रान्तिश्राद्धवत्स्वतन्त्रापि । पञ्चोपचारपूजा तु यत्र स्थापितदेवानां विसर्जनात्प्राक्पूजोक्ता तद्विषया ।

स्वस्तिवाचनम् ।

 अथ स्वस्तिवाचनम् । व्यासः--

"संपूज्य गन्धमाल्याद्यैर्ब्राह्मणान्स्वस्ति वाचयेत् ।
धर्मकर्मणि माङ्गल्ये सङ्ग्रामेऽद्भुतदर्शने" इति ॥

 गन्धमाल्याद्यैरिति वचनं गन्धपूर्वभाविनां पादप्रक्षालनादीनामुपचाराणामनावश्यकत्वबोधनार्थम् । आद्यशब्देन ताम्बूलादिग्रहणम् ।

 गृह्यपरिशिष्टे--

"अथ स्वस्तिवाचनमृद्धिपूर्तेप्यृद्धिर्विवाहान्ता अपत्यसंस्काराः
प्रतिष्ठोद्यापने पूर्ते" इति ।

 अत्र प्रतिष्ठाग्रहणमुत्सर्गोपलक्षणम् । बौधायनः--

"सेतुबन्धनदीखाततडागपुष्करिणीवापीकूपदेवगृहप्रासादवसतीना-
मोषधिवनस्पतीनां च पूर्तं भवति" इति ।

 सेतुबन्धो जलोपरिगमनमार्गः । नदीखातं गोदावर्यादिनदीतीरे स्नानसंध्यादिकर्मार्थमुपवेशनार्थं स्थलं सोपानानि च । नदीत्युपलक्षणं, तेनाश्वत्थादिवृक्षमूलसमन्ताद्भागोऽपि खातशब्देनोच्यते । तडागो द्वाररहितश्चतुर्दिक्षु सोपानवान् । समन्तत आवृता चतुर्दिक्षु द्वारसोपानवती पुष्करिणी क्षुद्रतडागो वा । एकत्रसोपानवत्यनावृता वापी । कूपः प्रसिद्धः । देवगृहं देवालयम्(यः)। प्रासादो नदीतीरादावन्नसत्राद्यर्थोच्चशाला । वसतिः पान्थेभ्यो वासार्थं निर्मितं स्थलम् । ओषधिवनस्पतयः पुष्पवाटिकारामादिकम् । एतेषां पदार्थानामुत्सर्गः पूर्तं पूर्तसंज्ञको भवतीत्यर्थः । एतत्प्रयोगविशेष उत्सर्गरत्नमालायां वक्ष्यते ।

 आश्वलायनः--

"वैदिके तान्त्रिके चाऽऽदौ स्वस्तिवाचनमिष्यते" इति ।

 प्रयोगपारिजाते स्मृत्यन्तरे--

"गर्भाधानादिसंस्कारेष्विष्टापूर्तक्रतुष्वपि ।
वृद्धिश्राद्धं पुरा कार्यं कर्मादौ स्वस्तिवाचनम्" इति ।

 इष्टान्यग्न्याधानदर्शपूर्णमासादीनि दर्शपूर्णमासस्थालीपाकादीनि च । पूर्तानि प्रतिष्ठादीनि । क्रतवोऽग्निष्टोमादयः । वृद्धिश्राद्धं पुरा कार्यमित्येतस्य वचनस्य यथाश्रुतमर्थमनुसरन्तः पूर्वं वृद्धिश्राद्धं ततः स्वस्तिवाचनमित्येतादृशः क्रमेणैव केचिदनुष्ठानमाचरन्ति । अन्ये तु गर्भाधानादीत्यस्मिन्वाक्ये पूर्वं वृद्धिश्राद्धं ततः स्वस्तिवाचनमित्येतावतैव सिद्धे पुनः कर्मादावित्युक्तिर्वृद्धिश्राद्धसहितकर्मण आदौ स्वस्तिवाचनप्राप्त्यर्था । तेन पूर्वं स्वस्तिवाचनमनन्तरं वृद्धिश्राद्धमित्येवानुष्ठानक्रम इत्याहुः । बौधायनेन सर्वत्र नान्दीश्राद्धस्य संस्कारदिनात्पूर्वेद्युरनुष्ठानमुक्तम् । गृह्यपरिशिष्टे तु-- "महत्सु पूर्वेद्युस्तदहरल्पेषु" इत्येवं व्यवस्थोक्ता । महत्स्वनेकदिनसाध्येषु । अल्पेष्वेतद्भिन्नेषु । अन्यान्यपि स्वस्तिवाचननिमित्तानि संग्रह उक्तानि--

"पुण्येऽहनि तु संप्राप्ते विवाहे चौलके तथा ।

 चौलके चौले । स्वार्थे कप्रत्ययः ।

"व्रतबन्धे च यज्ञादौ तथा जननकर्मणि ।
गृहारम्भे धनप्राप्तौ तीर्थाभिगमने तथा ।
गृहप्रवेशने चैव ग्रामस्याभिनिवेशने ।
नवग्रहमखे शान्तावद्भुतानां तथैव च ।
गजबन्धे तुरंगाणां दासादीनां च संग्रहे ।
धर्मकर्मसु सर्वेषु प्रारम्भे स्वस्तिवाचनम्" इति ।

 विश्वप्रकाशे--

"उपाकर्मोत्सर्जनयोः श्रौतानां कर्मणां तथा ।
प्रथमानुष्ठितावेव स्वस्तिवाचनमिष्यते" इति ।

 उपाकर्मोत्सर्जनग्रहणं नित्यानां श्रवणाकर्माग्रहायणीस्थालीपाकादीनामुपलक्षणम् । अत्र वर्णानुसारेण विधिविशेषमाह यमः--

"पुण्याहवाचनं सर्वं ब्राह्मणस्य विधीयते ।
तदेव च निरोंकारं कुर्यात्क्षत्रियवैश्ययोः" इति ॥

 सर्वमोंकारसहितम् । निरोंकारमोंकाररहितम् ।उचैरोंकाररहितमिति केचित् ।

 संग्रहे--

"शुभे कर्मणि पुण्याहवाचने कलशद्वयम् ।
स्थापयेदशुभे त्वेकमिति यज्ञविदो विदुः" इति ।

 अत्र स्थापयेदितिवचनात्स्थापनविषय एवाशुभसंबन्धिता । तेन शुभकर्मसंबन्धिपुण्याहवाचने बौधायनोक्तरीत्या कलशैकत्वेऽपि न क्षतिः । तत्र स्थापनाभावात् । पूर्वकर्तव्यतामाह हारीतः--

"गोमयेनोपलिप्योर्वीं रङ्गवल्लिकयाऽर्चयेत् ।
प्रस्थधान्यं प्रतिष्ठाप्यं पूर्णं हि कलशद्वयम् ।

 प्रतिष्ठाप्यमित्यत्रोपसर्गात्सुनोतीति षत्वम् । पूर्णमुदकपूर्णम् ।

दक्षिणे चोत्तरे चैव उत्तरे तु निधापयेत् ।
ताम्बूलमक्षता द्रव्यं दूर्वाः पुष्पाणि चन्दनम् ।
कुङ्कुमाक्तानि पात्राणि अक्षताः कुङ्कुमान्विताः ।
पुण्यतीर्थोदकं सम्यङ्निधाय कलशं शुभम् ।
सुवर्णफलपुष्पादिद्रव्यं तत्र निधापयेत् ।
पात्रमक्षतपूर्णं च कलशोपरि विन्यसेत्" इति ।

 अयमर्थः--यत्र स्वस्तिवाचनं करिष्यन्भवति तत्राऽऽदौ गोमयेन भूमिमुपलिप्य रङ्गवल्लिकया तां भूषयेत् । ततो भूषितभूप्रदेशादुत्तरतः प्रस्थपरिमितं धान्यं स्थापयिष्यमाणकलशद्वयाधःप्रदेशद्वये पुञ्जीकरणार्थं संस्थाप्य तदुत्तरतः शुद्धोदकपूरितं कलशद्वयं स्थापयिष्यमाणकलशद्वयपरिपूरणार्थमुदक्संस्थं निधाय तदुत्तरतः पूजोपयोगिताम्बूलादिद्रव्याणि संस्थापयेत् । ताम्बूलाक्षतादिपात्राणि कुङ्कुमेन रञ्जितानि कार्याणि । एवं कलशद्वयं पूजोपयोग्यक्षताश्च । पुण्यतीर्थजलपूरितं तृतीयं कलशं गणपत्यादिपूजार्थं निधाय सुवर्णफलधूपादिद्रव्याणि तृतीयकलशसमीपे निधाय स्थापयिष्यमाणकलशद्वयाननापिधानार्थं पात्रद्वयं समीपे संस्थाप्य तत्पूरणार्थाक्षतापात्रं कलशोपरि निधाय संकल्पमारभेदिति ।

प्रस्थपलयोः परिमाणम् ।

 प्रस्थपरिमाणं तु स्मृतिसंग्रहे--

"पलं च कुडवः प्रस्थ आढको द्रोण एव च ।
धान्यमानेषु बोद्धव्याः क्रमशोऽमी चतुर्गणाः" इति ।

 पलपरिमाणं भविष्यपुराणे--

"पलद्वयं तु प्रसृतं मुष्टिरेकं पलं स्मृतम्" इति ।

 स्कान्दे त्वन्यथोक्तम्--

"पञ्चकृष्णलको माषस्तैश्चतुःषष्टिभिः पलम्" इति ।

 कृष्णलो गुञ्जा । तैर्माषैः ।  दक्षिणकलशचालननिषेधः स्मृत्यन्तरे--

"पुण्याहवाचने चैव यः कुर्यात्कलशार्चनम् ।
दक्षिणस्थः स्थिरश्चैव उत्तरस्थश्चरो भवेत्" इति ।

 वास्तोष्पत इति धारापातात्प्राक्स्थिरता ।

कलशधातवः पञ्चरत्नानि च ।

 कलशाः पञ्चरत्नानि च विष्णुधर्मोत्तरे--

"हैमराजतताम्रा वा मृन्मया लक्षणान्विताः ।
सुवर्णं रजतं मुक्त्वा माणिक्यं च प्रवालकम् ।
पञ्चरत्नमिति ख्यातं समस्तसुरवल्लभम्" इति ।

 पञ्चरत्नाभावे हेम--

"अभावे सर्वरत्नानां हेम सर्वत्र योजयेत्" इत्यादित्यपुराणात् ।

पञ्च पल्लवास्त्वचश्च ।

 पञ्च पल्लवास्त्वचश्च ब्रह्माण्डपुराणं--

"न्यग्रोधपिप्पलप्लक्षजम्बूचूततरूद्भवाः ।
पल्लवाः पञ्च विज्ञेयास्त्वकैतेषामपीष्यते" इति ।

 न्यग्रोधो वटः । पिप्पलोऽश्वत्थः । प्लक्षः पा[२७]यरीति भाषया प्रसिद्धः । जम्बूः प्रसिद्धा । चूत आम्रवृक्षः । एतेषां तरूणाम् । भविष्यपुराणे तु जम्बूस्थान उदुम्बर उक्तः ।

सर्वौषधिगणः ।

 सर्वौषध्यश्छन्दोगपरिशिष्टे--

"कुष्ठं मांसी हरिद्रे द्वे मुरा शैलेयचन्दनम् ।
सटीचम्पकमुस्ताश्च सर्वौषधिगणः स्मृतः" इति ।

 कुष्ठं कोष्ठमिति भाषया प्रसिद्धम् । मांसी जटामांसी । एका हरिद्रा प्रसिद्धा । द्वितीया दारुहळद इति भाषया प्रसिद्धा । मुरा मोरवेल इति परशुरामक्षेत्रे प्रसिद्धा । शैलेयं शिलारसः । चन्दनं श्वेतचन्दनम् । सटी कचोरः । चम्पकः प्रसिद्धस्तस्य त्वक् । मुस्ता भद्रमोथा ।

कर्मदेवतानामानि ।

कर्मदेवता आह बौधायनः--

 "अथ पुण्याहदेवता व्याख्यास्यामो विवाहस्या[२८]ग्निरौपासनस्याग्निसूर्यप्रजापतयः स्थालीपाकस्याग्निर्गर्भाधानस्य ब्रह्मा पुंसवनस्य प्रजापतिः सीमन्तस्य धाता विष्णुबलेर्विष्णुर्जातकर्मणो मृत्युर्नामकर्मणः सविता तस्यान्ते प्रजापतिरुपनिष्क्रमणस्य सविता तस्यान्ते चित्रियाण्यन्नप्राशनस्य सविता चौलस्य केशिनस्तस्यान्ते प्रजापतिरुपनयनस्येन्द्रः श्रद्धामेधे अन्ते विसर्गे सुश्रवाः पुनरुपनयनस्याग्निरथ यदि ब्रह्मचार्यव्रत्यमाचरेत्तस्मिन्नपायहोमे सविता समावर्तनस्य श्रीरिन्द्रो वा शूलगवस्येशानः प्रत्यवरोहणस्य सवितोपाकर्मणि व्रतेषु च सविता वास्तुहोमस्य वास्तोष्पतिरन्ते प्रजापतिरहुतहोमस्येन्द्रोऽन्ते प्रजापतिरायुष्यहोमस्याग्निरायुष्मान्नक्षत्रहोमस्य नक्षत्रेष्टिषूक्ताऽष्टमी प्रदोषस्येशान आग्रयणस्याऽऽग्रयणदेवताः सर्पबलेः सर्पा एकोद्दिष्टस्यान्ते प्रजापतिस्तडागादीनां वरुणो यक्षबलेर्यक्षा ग्रहशान्तिहोमस्याऽऽदित्यादिनवग्रहा नागारितन्त्रहोमे ब्रह्मादयः प्रीयन्तामित्येवमेवान्येषां होमानां यान्न्यानुवाक्ययोर्देवताऽसौ प्रीयतामिति सूतकान्ते प्रधामोदकान्ते प्रजापतिः कूष्माण्डहोमस्याऽऽदित्यादयश्चान्द्रायणस्याग्न्यादयोऽग्न्याधेयस्याग्न्यादयोऽग्निष्टोम इन्द्र एवमनादिष्टकर्मसु प्रजापतिरित्याह भगवान्बौधायनः" इति ।

पुण्याहवाचनविधिः ।

पुण्याहवाचनविधिमप्याह स एव--

 "अथातः पुण्याहवाचनं व्याख्यास्यामः शुचौ समे देशे दूर्वादर्भान्धारयमाणाश्चत्वारो ब्राह्मणाः प्रशस्ता अरिक्तहस्ताः प्राङ्मुखास्तिष्ठन्ति तेषां दक्षिणत उदङ्मुखोऽपिहितमुदकुम्भं धारयन्वाचयिता तस्य दक्षिणं बाहुमाश्रित्य पत्नयस्तिष्ठन्ति ततः सपवित्रेषु विप्रपाणिषु जलं दद्यादोमाप इति शिवा आपः सन्त्विति ते प्रत्यूचुस्ततो गन्धा इति गन्धं ददाति सुगन्धाः पान्त्विति प्रतिगृह्णन्ति ततः सुमनस इति पुष्पाणि ददाति सौमनस्यमस्त्विति प्रतिगृह्णन्ति ततोऽक्षता इत्यक्षतान्ददाति ।

अक्षतशब्देन व्रीहिमिश्रास्तण्डुला उच्यन्ते ।

अक्षतं चारिष्टं चास्त्विति प्रतिगृह्णन्ति । ततो दक्षिणा इति दक्षिणां ददाति स्वस्ति दक्षिणाः पान्तु बहुदेयं चास्त्विति प्रतिगृह्णन्ति । ततो वाचयिता दक्षिणं जानु भूमौ निधाय सव्यमुत्थाप्योदङ्मुख इडा देवहूरिति जपित्वोद्कुम्भमादायोपोत्तिष्ठति । ततो मनः समाधीयतामिति वदति समाहितमनसः स्म इति विप्राः प्रत्यूचुस्ततो वाचयिता प्रसीदन्तु भवन्त इति वदति प्रसन्नाः स्म इति विप्राः प्रत्यूचुस्ततो वाचयिता शान्तिरस्तु पुष्टिरस्तु तुष्टिरस्तु वृद्धिरस्त्वविघ्नमस्त्वायुष्यमस्त्वारोग्यमस्तु शिवं कर्मास्त्विति वदति तथाऽस्त्विति विप्राः प्रत्यूचुः कर्म यद्देवत्यं भवति तस्य नाम गृह्णात्यसौ प्रीयतामिति । ततः पुण्याहं भवन्तो ब्रुवन्त्वित्यों पुण्याहमिति विप्राः प्रत्याहुस्ततः स्वस्ति भवन्तो ब्रुवन्त्वित्यों स्वस्तीति विप्राः प्रत्याहुस्तत ऋद्धिं भवन्तो ब्रुवन्त्वित्योमृध्यतामिति विप्राः प्रत्याहुः सर्वाणि त्रिस्त्रिर्वाचयति । ततो विप्रा उपविश्य सुरभिमत्याऽब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिश्च वाचयितारमभिषिञ्चेयुस्ततो वाचयिता भूर्भुवः सुवरोमिति जपतीत्याह भगवान्बौधायनः" इति ।

 प्रशस्ताः श्राद्धभोजनप्रतिग्रहादिरहिताः । सुरभिमती-- "दधिक्राव्णो अकारिषम्" इत्यृगेका । अब्लिङ्गाः--आपो हि ष्ठादयः । वारुण्यः-- "यच्चिद्धि ते" इत्यादयः । हिरण्यवर्णाः-- "हिरण्यवर्णाः शुचयः पावकाः" इत्यादयः । पावमान्यः--"पवमानः सुवर्जनः" इत्यनुवाकोपात्ताः । अन्यत्स्पष्टम् ।

अथ सकलशिष्टपरिगृहीतः पुण्याहवाचनप्रयोगः ।

 सपत्नीकः कर्ता कृतनित्यक्रियः कृतमाङ्गलिकस्नानः स्वलंकृतो बद्धशिखो गोमयेनोपलिप्तायां भूमौ कंचित्प्रदेशं पुण्याहवाचनकलशस्थापनार्थं रङ्गवल्लिकाभूषितं कृत्वा तदुत्तरत उक्तरीत्या सर्वान्संभारान्निधाय रङ्गवल्लिकाभूषितप्रदेशस्य पश्चाद्वस्त्राच्छादिते पीठे प्राङ्मुख उपविश्य पत्नीं स्वस्य दक्षिणतः प्राङ्मुखीमुपवेश्य तद्दक्षिणतो युग्मान्ब्राह्मणानुदङ्मुखान्स्वस्योत्तरतः प्राङ्मुखान्योपवेशयेत् । पुत्रादिसंस्कारकर्माङ्गपुण्याहवाचनादौ तु पत्नीदक्षिणतः संस्कार्योऽप्युपवेशनीयः । ततः पवित्रपाणिराचम्य प्राणानायम्येष्टदेवतादिनमस्कार पूर्वकं सुमुखश्चैत्यादीन्मङ्गलश्लोकान्पठित्वा देशकालौ संकीर्त्यामुकं कर्म करिष्ये । तदङ्गत्वेन पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं च करिष्य इति संकल्पं कुर्यात् । यदा तु प्रयोगाद्बहिर्भूतं पुण्याहवाचनादि तदाऽमुकं कर्म कर्तुमादौ पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं च करिष्य इतिसंकल्पपूर्वकं पुण्याहवाचनादि कृत्वा प्रधानसंकल्पं कुर्यात् । वस्तुतस्तु पुण्याहवाचनादीनां संकल्प एतेषां बहिर्भूतत्वकल्प एव नान्तर्भूतत्वकल्प इति युक्तं प्रतिभाति । पुण्याहवाचनादीनां स्वस्वारम्भकाले वा संकल्पः । यथा पुण्याहवाचनारम्भे पुण्याहवाचनं करिष्य इति, मातृकापूजनारम्भे मातृकापूजनं करिष्य इति, नान्दीश्राद्धारम्भे नान्दीश्राद्धं करिष्य इति, मातृकापूजनस्य नान्दीश्राद्धाङ्गत्वं ये स्वी कुर्वन्ति तन्मते तस्य पृथक्संकल्पो न, नान्दीश्राद्धसंकल्पेनैव तत्सिद्धेः । यानि भविष्यदनद्यतनकर्तव्यानि करोति जुहोति यजतीत्येवमादिविहितानि कर्माणि तेषु करिष्ये होष्यामि यक्ष्य इत्यादिशब्दस्थाने कर्ताहे होताहे यष्टाह इत्येवं वा यथायथम् । कर्तृगामिक्रियाफलाभावे तु कर्तास्मि करिष्यामीति प्रयोगः । एवं सर्वत्र । अतीताया रात्रेः पश्चार्धमारभ्याग्रिमरात्रेः पूर्वार्धपर्यन्तं भविष्यदद्यतनं, ततः परं भविष्यदनद्यतनम् । ततस्तदादौ निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं करिष्य इति संकल्प्य गणानां त्वा विश्वे देवा गणपतिर्जगती, गणपत्यावाहने विनियोगः ॐ गणानां त्वा गण० सीद सादनम् । ऋद्धिसिद्धिसहिताय गणपतये नम ऋद्धिसिद्धिसहितं गणपतिमावाहयामीत्यावाह्य नर्य प्रजामित्यस्याग्निर्नर्योऽनुष्टुप्, प्रतिष्ठापने विनियोगः । नर्य प्रजां० प्रतिष्ठितामिति प्रतिष्ठाप्याऽऽसनादिदक्षिणादानान्तैरुपचारैः संपूज्य पुष्पाञ्जलिं दत्त्वा

मन्त्रहीनं क्रियाहीनं भक्तिहीनं गजानन ।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ।
वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ।

 इति संप्रार्थ्य

विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय विकटाय गजाननाय ।
विनायकाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते ।

 इति नमस्कुर्यात् । विसर्जनं तु कर्मसमाप्त्यन्त इति शिष्टाः । एवं सर्वत्र ।

ततः कलशस्थापनम् ।

 मही द्यौरित्यस्य विश्वे देवा भूमिर्गायत्री, भूमिस्पर्शने विनियोगः, ॐ मही द्यौः पृ० भरीमभिः । मन्त्रावृत्त्या दक्षिणत उत्तरतश्च भूमिं स्पृष्ट्वा । ओषधयः समित्यस्याग्निरोषधयोऽनुष्टुप् । स्पृष्टदेशयोरोषधिपुञ्जीकरणे विनियोगः, ॐ ओषधयः सं० पारयामसि । स्पृष्टप्रदेशयोरुपकल्पितप्रस्थधान्यस्य द्वौ पुञ्जौ कृत्वा । आजिघ्रेत्यस्य विश्वे देवा मही शक्वरी, कलशस्थापने विनियोगः, ॐ आजिघ्र कलशं० शताद्रयिः । तयोः पुञ्जयोरुपरि द्वावच्छिद्रौ नूतनौ हेमरजतताम्रान्यतमनिर्मितावभावे मृन्मयौ वा सूत्रवेष्टितकण्ठौ कलशौ निधाय । इमं मे गङ्ग इत्यस्य याज्ञिक्यो देवता उपनिषदो गङ्गादिनद्यो जगती, कलशपूरणे विनियोगः, ॐ इमं मे गङ्गे यमुने० सुषोमया । उपकल्पितकलशोदकाभ्यां तौ पूरयित्वा । गन्धद्वारामित्यस्य याज्ञिक्यो देवता उपनिषदः श्रीरनुष्टुप्, गन्धप्रक्षेपणे विनियोगः, ॐ गन्धद्वारां ०श्रियम् । तयोर्गन्धं प्रक्षिप्य । या जाता ओषधय इत्यस्याग्निरोषधयोऽनुष्टुप्, ओषधिप्रक्षेपणे विनियोगः। ॐ या जाता ओष० सप्त च । तयोः सर्वौषधीः प्रक्षिप्य । काण्डात्काण्डादित्यस्याग्निर्याज्ञिक्यो देवता उपनिषदो वौषधयोऽनुष्टुप्, दूर्वाप्रक्षेपणे विनियोगः । ॐ काण्डात्काण्डात्प्ररो० शतेन च । तयोर्दूर्वाः प्रक्षिप्य । अश्वत्थे व इत्यस्याग्निरोषधयोऽनुष्टुप्, पञ्चत्वक्पञ्चपल्लवयोः प्रक्षेपणे विनियोगः । ॐ अश्वत्थे वो० पूरुषम् । तयोः पूर्वोक्ततरूणां त्वचः पल्लवांश्च मन्त्रावृत्त्या प्रक्षिप्य । याः फलिनीरित्यस्याग्निरोषधयोऽनुष्टुप्, फलप्रक्षेपणे विनियोगः । ॐ याः फलिनी० त्व हसः । तयोः फलं प्रक्षिप्य । अग्नेरेतश्चन्द्रमित्यस्याग्निर्हिरण्यं त्रिष्टुप्, हिरण्यप्रक्षेपणे विनियोगः । ॐ अग्नेरेतश्च० तरेयम् । तयोर्हिरण्यं प्रक्षिप्य । बृहस्पते जुषस्व न इत्यस्य विश्वे देवा बृहस्पतिर्गायत्री, पञ्चरत्नप्रक्षेपणे विनियोगः । ॐ बृहस्पते जुष० दाशुषे । तयोः पञ्च रत्नानि प्रक्षिपेत्, अभावे हेम वा । हेमप्रक्षेपेऽप्ययमेव मन्त्रः । युवा सुवासा इत्यस्य विश्वे देवा यूपस्त्रिष्टुप्, कलशवेष्टने विनियोगः । ॐ युवा सुवासाः० देवयन्तः । वस्त्राभ्यां तौ वेष्टयित्वा । पूर्णा दर्वीत्यस्य विश्वे देवाः शतक्रतुरनुष्टुप्, कलशाननपिधाने विनियोगः । ॐ पूर्णा दर्वि ० शतक्रतो । उपकल्पितकलशोपरि नूतनपात्रस्थतण्डुलैरुपकल्पिते पात्रे पूरयित्वा सतण्डुलाभ्यां पात्राभ्यां कलशयोरानने अपिदध्यात् । सर्वत्र प्रतिकलशं मन्त्रावृत्तिरुत्तरसंस्थता च ज्ञेया । ततस्तत्त्वा यामीत्यस्य विश्वे देवा वरुणस्त्रिष्टुप्, वरुणावाहने विनियोगः । ॐ तत्त्वा यामि ब्रह्मणा० प्रमोषीः । उत्तरकलशे वरुणमावाह्य नर्य प्रजामिति प्रतिष्ठाप्य पूजयेत् ।  "कलशद्वयेऽपि वरुणावाहनमिति केचित्" इति प्रयोगदर्पणे । ततस्तत्रैव देवता आवाहयेत् । "कलशस्य मुखे विष्णुः० सर्वे समुद्राः० दुरितक्षयकारकाः । इत्यावाह्य संपूज्याक्षतानुत्तरकलशे प्रक्षिपेत् "मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव" इति ।

 कलशद्वयेऽपि वरुणावाहनपक्षे कलशस्य मुखे विष्णुरित्येतस्याऽऽवृत्तिः । ततोऽवनिकृतजानुमण्डलः कमलमुकुलसदृशमञ्जलिं शिरस्याधाय दक्षिणेन पाणिना सुवर्णपूर्णकलशं धारयित्वाऽऽशिषः प्रार्थयेत् । एताः सत्या आशिषः सन्तु । दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णुपदानि च । तेनाऽऽयुष्प्रमाणेन पुण्याहं दीर्घमायुरस्तु, इति । विप्राः सन्त्वस्त्विति यथायोग्यं प्रत्युत्तरं दद्युः ।

 ततः कर्ता शिवा आपः सन्तु । सौमनस्यमस्तु । अक्षतं चारिष्टं चास्तु । गन्धाः पान्तु, सौमङ्गल्यं चास्तु, अक्षताः पान्तु । आयुष्यमस्तु । पुष्पाणि पान्तु, [२९]सौश्रियमस्तु । ताम्बूलानि पान्तु, ऐश्वर्यमस्तु । दक्षिणाः पान्तु, बहुदेयं चास्तु । दीर्घमायुः श्रेयः शान्तिः पुष्टिस्तुष्टिश्चास्तु । श्रीर्यशो विद्या विनयो वित्तं बहुपुत्रं चाऽऽयुष्यं चास्तु । इति वाक्यानि पठेत् । तत्राऽऽद्यवाक्यत्रयान्त उदकं विप्रहस्तेषु दत्त्वा द्वयोर्द्वयोर्वाक्ययोरन्ते तत्तल्लिङ्गानुसारेण तं तमुपचारं दत्त्वा दीर्घमायुरिति वाक्यद्वयेन विप्रान्प्रार्थयेदिति संप्रदायः । विप्राः पान्त्वस्त्विति यथायोग्यं प्रत्युत्तरं दद्युः । अथवा शिवा आपः सन्तु । गन्धाः पान्तु । अक्षताः पान्तु । पुष्पाणि पान्तु । ताम्बूलानि पान्तु । दक्षिणाः पान्त्वित्येतैर्वाक्यैरुदकग[३०]न्धव्रीहिमिश्राक्षतपुष्पतांबूलदक्षिणाभिः क्रमेण विप्रान्पूजयेत्[३१] । व्रीह्यभावे केवला वाऽक्षताः । ततो विप्रा [३२]अवशिष्टानि वाक्यानि तत्तदनन्तरं क्रमेण प्रतिब्रूयुः ।

 ततः कर्ता यं कृत्वा सर्ववेदयज्ञक्रियाकरणकारम्भाः शुभाः शोभनाः प्रवर्तन्ते तमहमोंकारमादिं कृत्वा, ऋग्यजुःसामाशीर्वचनं बह्वृषिमतं संविज्ञातं भवद्भिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्य इति वदेत् । वाच्यतामिति विप्राः ।

 ततः कर्ता--"भद्रं कर्णेभिः० यदायुः । द्रविणोदा० दीर्घमायुः । सविता पश्चा० दीर्घमायुः । नवो नवो भवति० दीर्घमायुः । उच्चा दिवि० प्रतिरन्त आयुः । आप उन्दन्तु० वर्चसे । यस्त्वा हृदा० अमृतत्वमश्याम् । यस्मै त्व सुकृते शते स्वस्ति । सन्त्वा सिञ्चामि यजुषा प्रजामायुर्धनं च । इति मन्त्रानुक्त्वा व्रतनियमतपःस्वाध्यायक्रतुदमदानविशिष्टानां ब्राह्मणानां मनः समाधीयतामिति विप्रान्प्रार्थयेत् । विप्राः समाहितमनसः स्म इति । कर्ता प्रसीदन्तु भवन्त इति वदेत् । विप्राः प्रसन्नाः स्म इति ।

 ततः कर्ता--शान्तिरस्तु १ पुष्टिरस्तु २ तुष्टिरस्तु ३ वृद्धिरस्तु ४ अविघ्नमस्तु ५ आयुष्यमस्तु ६ आरोग्यमस्तु ७ शिवं कर्मास्तु ८ कर्मसमृद्धिरस्तु ९ धर्मसमृद्धिरस्तु १० वेदसमृद्धिरस्तु ११ शास्त्रसमृद्धिरस्तु १२ पुत्रसमृद्धिरस्तु १३ धनधान्यसमृद्धिरस्तु १४ इष्टसंपदस्तु १५ अरिष्टनिरसनमस्तु १६ यत्पापं तत्प्रतिहतमस्तु १७ यच्छ्रेयस्तदस्तु १८ उत्तरे कर्मण्यविघ्नमस्तु १९ उत्तरोत्तरमहरहरभिवृद्धिरस्तु २० उत्तरोत्तराः क्रियाः शुभाः शोभनाः संपद्यन्ताम् २१ तिथिकरणमुहूर्तनक्षत्रसंपदस्तु २२ तिथिकरणमुहूर्तनक्षत्रग्रहलग्नाधिदेवताः प्रीयन्ताम् २३ तिथिकरणे मुहूर्तनक्षत्रे सग्रहे सदैवते प्रीयेताम् २४ दुर्गापाञ्चाल्यौ प्रीयेताम् २५ अग्निपुरोगा विश्वे देवाः प्रीयन्ताम् २६ इन्द्रपुरोगा मरुद्गणाः प्रीयन्ताम् २७ ब्रह्मपुरोगाः सर्वे वेदाः प्रीयन्ताम् २८ विष्णुपुरोगाः सर्वे देवाः प्रीयन्ताम् २९ माहेश्वरीपुरोगा उमामातरः प्रीयन्ताम् ३० वसिष्ठपुरोगा ऋषिगणाः प्रीयन्ताम् ३१ अरुन्धतीपुरोगा एकपत्न्यः प्रीयन्ताम् ३२ ऋषयश्छदांस्याचार्या देवा वेदा यज्ञाश्च प्रीयन्ताम् ३३ ब्रह्म च ब्राह्मणाश्च प्रीयन्ताम् ६४ श्रीसरस्वत्यौ प्रीयेताम् ३५ श्रद्धामेधे प्रीयेताम् ३६ भगवती कात्यायनी प्रीयताम् ३७ भगवती माहेश्वरी प्रीयताम् ३८ भगवती पुष्टिकरी प्रीयताम् ३९ भगवती तुष्टिकरी प्रीयताम् ४० भगवती ऋद्धिकरी प्रीयताम् ४१ भगवती वृद्धिकरी प्रीयताम् ४२ भगवन्तौ विघ्नविनायकौ प्रीयेताम् ४३ भगवान्स्वामी महादेवो महासेनः सपत्नीकः ससुतः सपार्षदः सर्वस्थानगतः प्रीयताम् ४४ हरिहरहिरण्यगर्भाः प्रीयन्ताम् ४५ सर्वा ग्रामदेवताः प्रीयन्ताम् ४६ सर्वाः कुलदेवताः प्रीयन्ताम् ४७ सर्वा इष्टदेवताः प्रीयन्ताम् ४८ हता ब्रह्मद्विषः ४९ हताः परिपन्थिनः ५० हता अस्य कर्मणो विघ्नकर्तारः ५१ शत्रवः पराभवं यान्तु ५२ शाम्यन्तु घोराणि ५३ शाम्यन्तु पापानि ५४ शाम्यन्त्वीतयः ५५ शुभानि वर्धन्ताम् ५६ शिवा आपः सन्तु ५७ शिवा ऋतवः सन्तु ५८ शिवा अग्नयः सन्तु ५९ शिवा आहुतयः सन्तु ६० शिवा ओषधयः सन्तु ६१ शिवा वनस्पतयः सन्तु ६२ शिवा अतिथयः सन्तु ६३ अहोरात्रे शिवे स्याताम् ६४ निकामे निकामे नः पर्जन्यो वर्षतु ५५ फलिन्यो न ओषधयः पच्यन्ताम् ६६ योगक्षेमो नः कल्पताम् ६७ आदित्यपुरोगाः सर्वे ग्रहाः प्रीयन्ताम् ६८ भगवान्नारायणः प्रीयताम् ६९ भगवान्पर्जन्यः प्रीयताम् ७० भगवान्स्वामी महासेनः प्रीयताम् ७१ इत्येकसप्ततिवाक्यानि पठेत् ।

 एतानि वाक्यानि पठन्प्रतिवाक्यं पात्रे जलं पातयेत् । तत्रारिष्टनिरसनमस्तु यत्पापं तत्प्रतिहतमस्त्विति द्वाभ्यां वाक्याभ्यां हता ब्रह्मद्विष इत्यादिभिः सप्तभिर्वाक्यैश्च पात्राद्बहिरुत्तरतो जलं पातनीयमिति संप्रदायः । विप्रा अस्तु संपद्यन्तां प्रीयन्तां प्रीयेतां प्रीयतां हता यान्तु शाम्यन्तु वर्धन्तां सन्तु स्यातां वर्षतु पच्यन्तां कल्पतामिति कर्तृवाक्यानुरोधेन प्रतिवचनानि दद्युः ।

 ततः कर्ता--पुण्याहकालान्वाचयिष्य इति वदेत् । वाच्यतामिति विप्राः । ततः कर्ता-- उद्गातेव शकुने० पुण्यमावद । याज्यया यजति प्रत्तिर्वै याज्या पुण्यैव लक्ष्मीः पुण्यामेव तल्लक्ष्मीं संभावयति पुण्यां लक्ष्मीं संस्कुरुते । यत्पुण्यं नक्षत्रं० तावति कुर्वीत यत्कारी स्यात् । पुण्याह एव कुरुते । तानि वा एतानि यमनक्षत्राणि । यान्येव देवनक्ष० कुरुते ।

 मह्यं सकुटुम्बाय महाजनान्नमस्कुर्वाणायाऽऽशीर्वचनमपेक्षमाणायामुककर्मणः पुण्याहं भवन्तो ब्रुवन्त्विति त्रिर्वदेत् । ॐ पुण्याहमिति त्रिर्विप्राः । स्वस्तये वायु० भवन्तु नः । आदित्य उदयनीयः पथ्ययैवेतः स्वस्त्या प्रयन्ति पथ्यां स्वस्तिमभ्युद्यन्ति स्वस्त्येवेतः प्रयन्ति स्वस्त्युद्यन्ति स्वस्त्युद्यन्ति । स्वस्ति न इन्द्रो वृद्धश्र० दधातु । अष्टौ देवा वसवः स्वस्ति ।

 मह्यं सकुटुम्बाय महाजनान्नमस्कुर्वाणायाऽऽशीर्वचनमपेक्षमाणायामुककर्मणः स्वस्ति भवन्तो ब्रुवन्तु । इति त्रिः कर्ता वदेत् । ॐ स्वस्तीति त्रिर्विप्राः । ऋध्याम स्तोमं० काममप्राः । सर्वामृद्धिमध्नुयामिति० य एवं वेद । ऋध्यास्म हव्यै० सवीराः । त्रीणि त्रीणि वै० प्रतितिष्ठति ।

 मह्यं सकुटुम्बाय महाजनान्नमस्कुर्वाणायाऽऽशीर्वचनमपेक्षमाणायामुककर्मण ऋद्धिं भवन्तो ब्रुवन्त्विति त्रिः कर्ता वदेत् । ॐ ऋध्यतामिति त्रिर्विप्राः । श्रिये जातः श्रिय आ० मितद्रौ । श्रिय एवैनं० पशुभिर्य एवं वेद । यस्मिन्ब्रह्माऽभ्यजयत्सर्वमेतत् । अमुं च० त्दृणीयमानम् । अहे बुध्निय मन्त्रं मे गोपाय । यमृष० मृतासताम् ।  मह्यं सकुटुम्बाय महाजनान्नमस्कुर्वाणायाऽऽशीर्वचनमपेक्षमाणायामुककर्मणः श्रीरस्त्विति भवन्तो ब्रुवन्त्विति त्रिः कर्ता वदेत् । ॐ अस्तु श्रीरिति त्रिर्विप्राः।

 अत्र सुवासिनीभिर्नीराजनं कारयेयुराचारात् । ततः कर्ता वर्षशतं पूर्णमस्तु । मङ्गलानि भवन्तु । शिवं कर्मास्तु । गोत्राभिवृद्धिरस्त्विति वाक्यान्युक्त्वा विप्रैर्यथायोग्यं प्रतिवचनेषूक्तेषु बौधायनोक्ततत्तत्कर्मदेवतानाम प्रथमया विभक्त्या संकीर्त्य प्रीयतां प्रीयेतां प्रीयन्तामिति देवतैकत्वाद्यनुसारेणोक्त्वा पात्रे जलं क्षिपेत् । अनादेशे देवतासंदेहे च प्रजापतिर्देवता ज्ञेया ।

 ततः--शुक्रेभिरङ्गैरज आततन्वा० बृहतीरनूनाः । तदप्येष श्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन्गृहे । आविक्षितस्य कामप्रेर्विश्वे देवाः सभासद इति पठित्वोत्तरकलशं दक्षिणहस्ते दक्षिणकलशं वामहस्ते गृहीत्वा ताभ्यां धाराद्वयं संततं पात्रे निषिञ्चेत् । तत्र मन्त्राः-- वास्तोष्पते प्रति० चतुष्पदे । वास्तोष्पते प्रतर० जुषस्व । वास्तोष्पते शग्मया० सदा नः । अमीवहा० एधि न इति । ततः शिवमिति त्रिर्वदेत् । आधारे धारायां चाऽऽदिसंयोग इत्यापस्तम्बोक्तेर्मन्त्रारम्भसमकालं कर्मारम्भः ।

 ततो विप्राः कर्तुर्वामतः पत्नीमुपवेश्य पात्रे पातितेन जलेन पल्लवदूर्वाभिरुदङ्मुखास्तिष्ठन्त उपविष्टा वा सपत्नीकं कर्तारमभिषिञ्चेयुः ।

 तत्र मन्त्राः--समुद्रज्येष्ठाः सलि० ४ । त्रायन्तामिह० शामसि । इमा आपः शिवत० द्भद्रा जनित्र्यजीजनत् । देवस्य त्वा० स्ताभ्यामग्नेस्तेजसा० सेन्नाधाय । देवस्य त्वा० भ्या सरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्नेस्त्वा साम्राज्येनाभिषिञ्चामि । देवस्य त्वा० भ्या सरस्वत्यै वाचो यन्तुर्यन्त्रेणेन्द्रस्य त्वा साम्राज्येनाभिषिञ्चामि । देवस्य त्वा० भ्या सरस्वत्यै वाचो यन्तुर्यन्त्रेण बृहस्पतेस्त्वा साम्राज्येनाभिषिञ्चामि । देवस्य त्वा० सवितुः प्रसवे । अश्विनो० हस्ताभ्याम् । अश्विनोर्भैषज्येन तेज० चामि । देवस्य त्वा सवितुः प्रसवे० अश्वि० स्ताभ्यां सरस्वत्यै भैष० चामि । देवस्यत्वा सवितुः प्रसवे । अश्वि० भ्याम् । इन्द्रस्येन्द्रिये० भिषिञ्चामि । सुरास्त्वा० सर्वकामार्थसिद्धये । ॐ भूर्भुवः सुवः । तच्छंयोरा० चतुष्पदे । इत्यभिषिच्यामृताभिषेकोऽस्त्विति वदेयुः । तथाऽस्त्विति कर्ता प्रतिब्रूयात् । ततो द्विवारमाचमनं कुर्यात् । पत्नी दक्षिणतः सकृदाचम्योपविशेत् । ततः सुवासिन्यो नीराजनाशीःप्रयोगनूतनवस्त्रदानादि कुर्युराचारात् । पत्या वस्त्रे स्वीक्रियमाणे पत्नी वामतो भवेत्, इति वृद्धाः।

इति शिष्टपरिगृहीतः पुण्याहवाचनप्रयोगः ।

नान्दीश्राद्धविधिः ।

 अथाऽऽभ्युदयिकश्राद्धम् । तच्च गर्भाधानादिगर्भसंस्कारेषु जातकर्माद्यपत्यसंस्कारेषु श्रवणाकर्मादिषु वापीकूपतडागारामाद्युत्सर्गादिषु देवप्रतिष्ठायां व्रतोद्यापने वानप्रस्थाद्याश्रमस्वीकारे तुलापुरुषादिमहादानादौ नूतनगृहप्रवेशे काण्डव्रतेषु राजाभिषेके शान्तिकपौष्टिकेषु अग्न्याधानादिश्रौतकर्मणामुपाकर्मोत्सर्जनयोः पार्वणस्थालीपाकश्रवणाकर्मादीनां च प्रथमे प्रयोग उत्सवादौ च कार्यम् । व्रतोद्यापने दुष्टग्रहपीडादिनिवृत्त्यर्थशान्त्यादौ च नान्दीश्राद्धं न कार्यम् । शाकलकारिकासु निषेधस्योक्तत्वादिति केचित् ।बहुस्मृतिप्रामाणिकग्रन्थविरुद्धत्वान्नाऽऽदर्तव्यमेतदित्यन्ये । एतच्छ्राद्धं मातृकापूजनं चैकस्यानेकसंस्कारेष्वेककर्तृकेषु युगपदुपस्थितेषु सर्वादौ सकृदेव कार्यं न तु प्रतिसंस्कारमावृत्तिः । यथा दैवादकृतजातकर्मादिकस्योपनयनकाले जातकर्माद्यनुष्ठाने देशान्तरगतस्य मृतबुद्ध्या कृतौर्ध्वदेहिकस्याऽऽगतस्य पुनर्जातकर्मादिसंस्काराणां विहितानां युगपदनुष्ठाने कर्मनाशाजलस्पृष्टादीनां प्रायश्चित्तार्थत्वेन विहितानां पुनःसंस्काराणां युगपदनुष्ठाने वा ।

 तथा च ब्रह्मपुराणम्--

"गणशः क्रियमाणानां मातॄणां पूजनं सकृत् ।
सकृदेव भवेच्छ्राद्धमादौ न पृथगादिषु" इति ॥

 ([३३]बह्वपत्यानां युगपत्संस्कारकरणविषयमिदं वचनमिति बोपदेव आह । )
मातॄणां पूजनं सकृदितिपृथग्वचनादेवं ज्ञायते मातृपूजनं नान्दीश्राद्धस्यानङ्गमेव भवतीति । अतोऽस्मिन्कल्पे मातृकापूजनस्य पृथगेव संकल्पः ।

यत्र [३४]यत्र भवेच्छ्राद्धं तत्र तत्र च मातरः"

 इति पुराणान्तरवचनेनाङ्गत्वम् । अस्मिन्कल्पे न पृथक्संकल्पः ।

 अथैतत्कालः । कर्मारम्भाव्यवहितपूर्वतनदिने मातृपार्वणं कर्मारम्भदिने पितृपार्वणं कर्मसमाप्त्युत्तरदिने मातामहपार्वणम् । एवं कर्तुमशक्तौ कर्मारम्भाव्यवहितपूर्वतनदिनत्रये क्रमेण पार्वणत्रयं कार्यम् । प्रथमदिने मातृपार्वणं द्वितीयदिने पितृपार्वणं तृतीयदिने मातामहपार्वणमिति । एवं कर्तुमशक्तौ कर्मारम्भदिनात्पूर्वस्मिन्नहन्येव पूर्वाह्णे मातृपार्वणं मध्याह्ने पितृपार्वण मपराह्णे मातामहपार्वणमिति । अत्राप्यशक्तौ पूर्वस्मिन्नहनि पूर्वाह्ण एव पार्वणत्रयं तन्त्रेण कार्यं, तदारम्भदिन एव वा । पुत्रजन्मनि तु भुक्तवताऽपि पुत्रजन्मानन्तरमेव रात्रावपि कार्यम् । यज्ञादौ क्रियमाणे नान्दीश्राद्धेऽमूला दर्भा हस्तयोर्धारणीयाः । विवाहादिमङ्गलकर्मादौ क्रियमाणे दर्भस्थाने दूर्वा एव । अग्न्याधानसोमयागादौ क्रियमाणे नान्दीश्राद्धे दक्षक्रतू, अन्यत्र सत्यवसू इति केचित् । गर्भाधानपुंसवनसीमन्तेष्वपि दक्षक्रतू इत्यन्ये । गर्भाधानपुंसवनसीमन्तसोमेष्वेव दक्षक्रतू नान्यत्रेत्यपरे ।

नान्दीश्राद्धाधिकारिणः ।

 अथाधिकारिणः । प्रथमविवाहान्तेषु सुतसंस्कारेषु पिता वृद्धिश्राद्धं कुर्यात् । द्वितीयादिविवाहे तु वर एव कुर्यात् । प्रथमविवाहे यदि पित्रादीनां सर्वेषां वक्ष्यमाणानामधिकारिणामभावस्तदाऽपि स्वयमेव । प्रवासादिना पितुरभावेन ज्येष्ठभ्राता कुर्वन्स्वपितुः पितृभ्यो दद्यान् । यदि तु पिता न जीवति पितामहस्तु प्रवासस्थितस्तदा पितृप्रपितामहवृद्धप्रपितामहानुद्दिश्य पार्वणं कुर्यात् । एवं मातृमातामहपार्वणयोरपि द्रष्टव्यम् । सर्वेषां जीवने नान्दीश्राद्धलोप एव । नित्यवन्नान्दीश्राद्धविधिनैव[३५] नैव कुर्यादितिलोपशास्त्रमहकृतेन तत्प्रापणात् । सर्वेषां यथोक्ताधिकारिणामभावेन यदि माता पुत्र्या विवाहं कुर्यात्तदा स्वयं संकल्पमात्रं कृत्वा स्वस्तिवाचननान्दीश्राद्धादिकं सर्वं ब्राह्मणद्वारा कारयेदिति प्रयोगपारिजाते । समावर्तने नान्दीश्राद्धं पितैव कुर्यात् । प्रवासादिना पितुरभावे स्वयमेव कुर्यादिति केचित् । अत्र पितरि विद्यमानेऽपि स्वयमेव कुर्यादित्यन्ये । सुतसंस्कारेषु अजीवन्मातृपितृमातामहः पिता स्वमात्राद्युद्देश्यकं पार्वणत्रयं कुर्यात् । मातरि जीवन्त्यां तत्पार्वणलोपः । मातामहे जीवति तत्पार्वणस्य । तदा पार्वणद्वयेनैव नान्दीश्राद्धसिद्धिः । मातृमातामहजीवने पितृपार्वणेनैव नान्दीश्राद्धसिद्धिः । पितृमातृजीवने मातामहपार्वणेनैव । पितृमातामहजीवने देवरहितेन मातृपार्वणेनैव । जीवत्प्रपितामहः पितृपितामहवृद्धप्रपितामहानुद्दिश्य पितृपार्वणं कुर्यात् । जीवत्पितामहप्रपितामहः पितृवृद्धप्रपितामहातिवृद्धप्रपितामहानुद्दिश्य पितृपार्वणं कुर्यात् । एवं मातृमातामहपार्वणयोरपि द्रष्टव्यम् । सापत्नमातरि मृतायां तया सहैव मातृपार्वणं कार्यम् । सपत्न्योः पितामहीप्रपितामह्योरपि स्वपितामहीप्रपितामहीभ्यां सह स्वमातरि जीवन्त्यामपि सापत्नमात्रा मातृपार्वणनिर्वाह इति केचित् । तन्न । तस्या एकोद्दिष्टदेवतात्वेन पार्वणेऽनुप्रवेशाभावात् । आपरपक्षिकान्वष्टक्यादिश्राद्धवत्प्रापकवचनाभावाच्च । मातामहपार्वणे मुख्यमातामह्यादिषु जीवन्तीषु तत्सपत्नीभिः सपत्नीकत्वगुणोपपत्तिर्द्रष्टव्येति केचित् । वर्गत्रयाद्यानां जीवने सुतसंस्कारेषु नान्दीश्राद्धलोप एव । एवं स्वस्य द्वितीयादिविवाहाङ्गत्वेन नान्दीश्राद्धं कुर्वञ्जीवत्पितृकस्तु पितुः पित्रादीनुद्दिश्य पार्वणं कुर्यात् । जीवत्पितृपितामहस्तु पितामहस्य पित्रादीनुद्दिश्य पार्वणं कुर्यात् । अत्र पितुरित्यस्य स्थाने पितामहस्य निर्देशः । एवं मातृमातामहपार्वणयोरपि । एवमेव जातकर्मनिमित्तके पुरुषार्थे नान्दीश्राद्धे जातकर्माङ्गभूतद्वितीयनान्दीश्राद्धपुत्रप्रथमविवाहाङ्गभूतनान्दीश्राद्धे तु सुतसंस्काराङ्गकनान्दीश्राद्धवदेव कार्ये इत्येकं मतम् । सुतसंस्कारेष्वित्युद्वाहपुत्रजननव्यतिरिक्तसुतसंस्कारपरम् । एवं च प्रथमविवाहपुत्रजननयोरपि येभ्य एव पिता दद्यादितिशास्त्रानुरोधेनैव नान्दीश्राद्धं भवतीत्यपरं मतम् । जीवत्पितृकः सुतसंस्कारव्यतिरिक्तकर्मसु येभ्य एवेतिशास्त्रात्पितुः पितामहादीनुद्दिश्य स्वमातृमातामहयोरजीवतोस्तदुद्देशेन पार्वणद्वयं च कुर्यादिति केचिद्वदन्ति । तन्न । परस्परविरुद्धस्य येभ्य एवेतिशास्त्रस्य गृह्यपरिशिष्टस्य चैकत्र प्रवृत्त्ययोगात् । यदा तु पितृव्यमातुलादयः कन्याविवाहं कुमारस्योपनयनमुपनीतस्य प्रथमविवाहं वा कुर्युस्तदा संस्कार्यस्याजीवत्पितृमातमातामहकत्वे तत्पित्रादीनुद्दिश्य पार्वणत्रयं कुर्युः । सोदरज्येष्ठभ्रातुः प्रयोगे विशेषो नास्ति, तदीयपित्रादीनां संस्कार्यपित्रादिभिरभेदात् । सापत्नज्येष्ठस्तु संस्कार्यस्य मात्रादीरुद्दिश्य मातृपार्वणं कुर्यादिति केचित् । मातृपार्वणलोप एवात्रेत्यन्ये । पितृव्यादिस्तु सर्वेषु पार्वणेषु संस्कार्यस्येति सविशेषणप्रयोगं कुर्यात् । संस्कार्यस्य जीवत्पितृमातृमातामहकत्वे तस्य पितुः पित्रादीनुदिश्य पार्वणत्रयं कुर्यात् । एवं प्रथमविवाहेऽपि कर्त्रन्तराभाववशेन वर एव नान्दीश्राद्धं कुर्वञ्जीवत्पितृकः पितुः पित्रादीनुद्दिश्य पार्वणं कुर्यात् । एवं मातृमातामहपार्वणयोरपीति केचित् । अन्ये त्वस्मिन्विषये तत्तद्वर्गाद्यजीवने तत्तत्पार्वणलोप एवेति वदन्ति ।

"आत्मीकृत्य सुवर्णेन परकीयां तु कन्यकाम् ।
धर्म्येण विधिना दातुमसगोत्रोऽपि युज्यते" इति स्कान्दात् ।
"अनाथां कन्यकां दत्त्वा सदृशे नाऽधिके वरे ।
द्विगुणं फलमाप्नोति कन्यादाने यदीरितम्" ॥

 इति विष्णुधर्मोत्तरवचनाद्वा केनापि हेतुना कन्यां दातुमशक्नुवता दानाधिकारिणा त्वं कन्यादानं कुर्विति प्रार्थनाद्वा यः परकन्यां दातुमिच्छति सोऽपि संस्कार्यकन्यायाः पित्रादीनुद्दिश्य तस्या जीवत्पितृकत्वे तदीयमात्राद्युद्देश्यकपार्वणानुष्ठानं यथासंभवं कुर्यात् । दत्तकपुत्रस्तु यदि लब्धबीजिरिक्थस्तदोभौ पितरौ पितामहौ प्रपितामहौ चोद्दिश्य कुर्यात् । एवमितरयोः पार्वणयोर्बोध्यम् । यदि तु बीजिरिक्थग्रहणेऽधिकार्यन्तरसंभवात्

"गोत्ररिक्थे जनयितुर्न भजेद्दत्तिमः सुतः"

 इति शास्त्रादलब्धतद्रिक्थस्तदा प्रतिग्रहीतृकुलसंबद्धपित्राद्युद्देश्यकमेव कुर्यात् ।

मातृकापूजनप्रयोगः ।

 अथ प्रयोगः । कर्ता पुण्याहवाचनसंकल्पकाले यदि मातृकापूजनसंकल्पो न कृतस्तदाऽमुककर्माङ्गभूतं मातृकापूजनं करिष्य इति संकल्पं कृत्वा मातृपितामहीप्रपितामहीमातामहीमातुःपितामहीमातुःप्रपितामहीपितृष्वसृमातृष्वसॄणां मध्ये यावत्यो जीवन्ति तावतीः कुङ्कुमादिभिर्यथायोग्यं संपूज्य गोमयेनोपलिप्ते रङ्गवल्ल्याद्यलंकृते देशे कृताग्न्युत्तारणप्राणप्रतिष्ठासु संस्थापितासु प्रतिमासु अभावे पटादौ लिखितास्वक्षतपुञ्जेषु वा गोर्यादिदेवता आवाहयेत् ।

 तद्यथा--गौर्यै नमो गौरीमावाहयामि । पद्मायै नमः पद्मामावाहयामि । शच्यै नमः शचीमावाहयामि । मेधायै नमो मेधामावाहयामि । सावित्र्यै नमः सावित्रीमावाहयामि । विजयायै नमो विजयामावाहयामि । जयायै नमो जयामावाहयामि । देवसेनायै नमो देवसेनामावाहयामि । स्वधायै नमः स्वधामावाहयामि । स्वाहायै नमः स्वाहामावाहयामि । मातृभ्यो नमो मातॄरावाहयामि । लोकमातृभ्यो नमो लोकमातॄरावाहयामि । धृत्यै नमो धृतिमावाहयामि । पुष्ट्यै नमः पुष्टिमावाहयामि । तुष्ट्यै नमस्तुष्टिमावाहयामि । अमुकनाम्न्यै कुलदेवतायै नमोऽमुकनाम्नीं कुलदेवतामावाहयामि । ब्राह्म्यै नमो ब्राह्मीमावाहयामि । माहेश्वर्यै नमो माहेश्वरीमावाहयामि । कौमार्यै नमः कौमारीमावाहयामि । वैष्णव्यै नमो वैष्णवीमावाहयामि । वाराह्यै नमो वाराहीमावाहयामि । इन्द्राण्यै नम इन्द्राणीमावाहयामि । चामुण्डायै नमश्चामुण्डामावाहयामि । गणाधिपाय नमो गणाधिपमावाहयामि । दुर्गायै नमो दुर्गामावाहयामि । क्षेत्रपालाय नमः क्षेत्रपालमावाहयामि । वास्तोष्पतये नमो वास्तोष्पतिमावाहयामि । इत्यावाहयेत् ।  गौर्याः पूर्वं वा गणाधिपावाहनम्[३६] । ततस्तत्तन्नाममन्त्रैः काण्डानुसमयेन पदार्थानुसमयेन वा षोडशोपचारैः पूजयेत् । गौर्याद्यावाहितदेवताभ्यो नम इति समुदितरूपेण वा पूजनम् । गौर्याः पूर्वं गणाधिपावाहनपक्षे गणाधिपाद्यावाहितदेवताभ्यो नम इति प्रयोगः । नान्दीश्राद्धस्य पार्थक्येन संकल्पकरणे मातृकापूजनोत्तरं पाकान्तरेण वैश्वदेवं कृत्वा तत्कर्तव्यम् । पुण्याहवाचनसंकल्पेन सहैतत्संकल्पे तु पुण्याहवाचनात्पूर्वं वैश्वदेवः पाकान्तरेणैव कार्यः । वस्तुतस्तु पार्थक्येनैव संकल्पो युक्तः ।

नान्दीश्राद्धप्रयोगः ।

 कर्ता सदूर्वाङ्कुरं साक्षतं जलमादाय--सत्यवसुसंज्ञका विश्वे देवा नान्दीमुखा भूर्भुवः सुवरिदं वः पाद्यं स्वाहा न ममेयं च वृद्धिरिति पात्रे क्षिपेत् । एवमग्रेऽपि । मातृपितामहीप्रपितामह्यो नान्दीमुखा भुर्भुवः सुवरिदं वः पाद्यं स्वाहा न ममेयं च वृद्धिः । नान्दीमुख्य इति केचित् । पितृपितामहप्रपितामहा नान्दीमुखा भूर्भुवः सुवरिदं वः पाद्यं स्वाहा न ममेयं च वृद्धिः । मातामहमातुःपितामहमातुःप्रपितामहाः पत्नीसहिता नान्दीमुखा भूर्भुवः सुवरिदं वः पाद्यं स्वाहा न ममेयं च वृद्धिः ।

 ततः सर्वाङ्कुरं साक्षतगन्धपुष्पजलमादाय--सत्यवसुसंज्ञका विश्वे देवा नान्दीमुखा भूर्भुवः सुवरिदं व आसनगन्धाद्युपचारकल्पनं स्वाहा न ममेयं च वृद्धिरिति पात्रे क्षिपेत् । एवमग्रेऽपि । मातृपितामहीप्रपितामह्यो नान्दीमुखा भूर्भुवः सुवरिदं व आसनगन्धाद्युपचारकल्पनं स्वाहा न ममेयं च वृद्धिः । पितृपितामहप्रपितामहा नान्दीमुखा भूर्भुवः सुवरिदं व आसनगन्धाद्युपचारकल्पनं स्वाहा न ममेयं च वृद्धिः । मातामहमातुःपितामहमातुःप्रपितामहाः पत्नीसहिता नान्दीमुखा भूर्भुवः सुवरिदं व आसनगन्धाद्युपचारकल्पनं स्वाहा न ममेयं च वृद्धिः ।

 ततो गौर्यादिषोडशमातरो ब्राह्म्यादिसप्तमातरो गणाधिपदुर्गाक्षेत्रपालवास्तोष्पतयश्च भूर्भुवः सुवरिदं वो युग्मब्राह्मणभोजनपर्याप्तान्ननिष्क्रयीभूतं चतुर्गुणं द्विगुणं समं वा हिरण्यममृतरूपेण स्वाहा न ममेयं च वृद्धिः । इति विभवानुसारेण दद्यात् । गौर्याः पूर्वं गणाधिपपूजनमिति पक्षे गणाधिपगौर्यादिषोडशमातरो ब्राह्म्यादिसप्तमातरो दुर्गाक्षेत्रपालवास्तोष्पतयश्च भूर्भुवः सुवरित्यादिप्रयोगो ज्ञेयः ।  ततः--सत्यवसुसंज्ञका विश्वे देवा नान्दीमुखा भूर्भुवः सुवरिदं वो युग्मब्राह्मणभोजनपर्याप्तान्ननिष्क्रयीभूतं चतुर्गु० । मातृपितामहीप्रपितामह्यो नान्दीमुखा भूर्भुवः सुवरिदं वो युग्मब्रा० । पितृपितामहप्रपितामहा नान्दीमुखा भूर्भुवः सुवरिदं वो युग्मब्राह्म० । मातामहमातुःपितामहमातुःप्रपितामहाः पत्नीसहिता नान्दीमुखा भूर्भुवः सुवरिदं वो युग्म० । इति क्रमेण दद्यात् ।

 ततः-- उपास्मै गायता नरः० वता मधु ५ ! अक्षन्नमी० हरी, इति श्रावयित्वा कृतस्य नान्दीश्राद्धस्य संपूर्णतासिद्धये प्रतिविप्रं कुडवपरिमितान्प्रस्थपरिमितान्वा यथासंभवं वा द्राक्षामलकमूलयवांस्तन्निष्क्रयीभूतं द्रव्यं वा दक्षिणां दत्त्वा प्रजापते न त्वदेता० रयीणामिति पठित्वा कुलदेवतां नमस्कृत्य

माता पितामही चैव तथैव प्रपितामही ।
पिता पितामहश्चैव तथैव प्रपितामहः ॥
मातामहस्तत्पिता च प्रमातामह[३७]कादयः ।
एते भवन्तु सुप्रीताः प्रयच्छन्तु च मङ्गलम् ॥

 इति श्लोकद्वयं पठेत् । ([३८]अत्राऽऽदिशब्देन गुणत्वेन प्रविष्टा मातामह्यादयो ग्राह्याः[३९]। मातामहीसत्त्वे प्रमातामहकस्तथेत्येवं पठेत् । नतु प्रमातामहकादय इति।) तत्तत्पार्वणाद्यजीवनवशेन यस्य कस्यचित्पार्वणस्य लोपे तु तत्पार्वणविषयकश्लोकैकदेशस्यापि लोपः कार्यः । सूक्तवाकवदिष्टदेवतासंस्कारार्थत्वाच्छ्लोकपाठस्य । केवलमातृपार्वण एता भवन्तु सुप्रीता इत्यूहः । केवलमातृपार्वणे देवलोपः ।

 ततः--इडामग्ने० र्भूत्वस्म इति मन्त्रं पठन्पात्रान्तरेण किंचिद्द्रव्यं संघट्टयेत् । ततोऽनेन नान्दीश्राद्धेन नान्दीमुखदेवताः प्रीयन्तां वृद्धिरस्त्विति वदेत् । वरुणादिदेवताः कर्मसमाप्त्यन्ते विसर्जयेत् । विवाहोपनयनव्यतिरिक्तेष्वनेकदिनसाध्येषु कर्मसु तु तद्दिन एव विसर्जनम् । एतच्चानुकल्पानुष्ठानं मुख्यकल्पासंभवे वेदितव्यम् । स च मुख्यकल्पः श्राद्धप्रकरणे वक्ष्यते ।

इत्याभ्युदयिकश्राद्धम् ।

अङ्कुरारोपणप्रयोगः ।

 अथाङ्कुरारोपणप्रयोगः । कर्ताऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्यामुककर्मसाफल्यनिरन्तरशुभतासिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थमङ्कुरारोपणं करिष्य इति संकल्प्य गणपतिं संपूज्य पदप्रभृतिसमसंख्यान्ब्राह्मणान्संपूज्यान्नेन परिविष्याङ्कुरारोपणकर्मणः पुण्याहं भवन्तो ब्रुवन्तु । अङ्कुरारोपण[४०]कर्मणः स्वस्ति भवन्तो ब्रुवन्तु । अङ्कुरारोपणकर्मण ऋद्धिं भवन्तो ब्रुवन्तु । इति त्रिस्त्रिर्विप्रान्वाचयेत् । ॐ पुण्याहम् , ॐ स्वस्ति, ओमृद्धिरोमृध्यतामिति वा, इति विप्रास्त्रिस्त्रिः प्रतिब्रूयुः ।

 ततः कर्ता ब्रह्मादयः प्रीयन्तामिति पात्रे जलं क्षिप्त्वा शुचौ देशे गोचर्ममात्रं चतुरश्रं स्थण्डिलं गोमयेन विधाय रङ्गवल्ल्यादिभिरलंकृत्य श्वेताक्षतान्संप्रकीर्याद्भिरभ्युक्ष्य सुवर्णरजतताम्रान्यतमनिर्मिता अभावे मृन्मयीर्वा पञ्च पालिकास्तत्र संस्थापयेत् । अत्र गोचर्मशब्दो यौगिक एव ग्राह्यो न तु--

"वृषभैकशतं यत्र गवां तिष्ठति संवृतम् ।
बालवत्साशतं चैव गोचर्मेति बुधा विदुः" इति पारिभाषिकः ।

 एतस्य दानविषयत्वात्प्रकृतेऽसंभवाच्च । एवं च गोर्यावत्प्रमाणं चर्म तदनुसारेणैव चतुरश्रस्थण्डिलकरणमत्र । ततो वल्मीकमृदं ह्रदमृदं शुष्कगोमयचूर्णं चैकीकृत्य मध्यमायां पालिकायां प्रक्षिप्य प्रागादिषु क्रमेण प्रक्षिपति । ततस्तासामधोभागेषु दूर्वाङ्कुराश्वत्थशिरीषबिल्वपत्राणि प्रक्षिप्य श्वेतसूत्रेण पालिका आवेष्ट्य तासु क्रमेण देवता आवाहयेत् । प्रणवस्य परब्रह्मर्षिः परमात्माऽग्निर्वा देवता देवी गायत्री छन्दः । व्यस्तव्याहृतीनामग्निर्ऋषिः । समस्तव्याहृतीनां प्रजापतिर्ऋषिः । अग्निवायुसूर्यप्रजापतयः क्रमेण देवताः । गायत्र्युष्णिगनुष्टुब्बृहत्यः क्रमेण च्छन्दांसि । आवाहने विनियोगः । ॐ भूर्ब्रह्माणमावाहयामि । ॐ भुवश्चतुर्मुखं ब्रह्माणमावाहयामि । ॐ सुवः प्रजापतिं ब्रह्माणमावाहयामि । ॐ भूर्भुवः सुवर्हिरण्यगर्भं ब्रह्माणमावाहयामीति मध्यमायां पालिकायां ब्रह्माणमावाह्य । ॐ भूर्वज्रिणमावाहयामि । ॐ भुवः शचीपतिमावाहयामि । ॐ सुवरिन्द्रमावाहयामि । ॐ भूर्भुवः सुवः शतक्रतुमावाहयामि । इति पूर्वस्यां पालिकायां वज्रिणम् । ॐ भूर्यममावाहयामि । ॐ भुवो वैवस्वतमावाहयामि । ॐ सुवः पितृपतिमावाहयामि । ॐ भूर्भुवः सुवः प्रेतपतिमावाहयामि । इति दक्षि  णस्यां पालिकायां यमम् । ॐ भूर्वरुणमावाहयामि । ॐ भुवः प्रचेतसमावाहयामि । ॐ सुवः सुरूपिणमावाहयामि । ॐ भूर्भुवः सुवरपांपतिमावाहयामि । इति पश्चिमायां पालिकायां वरुणम् । ॐ भूः शशिनमावाहयामि । ॐ भुव इन्दुमावाहयामि । ॐ सुवर्निशाकरमावाहयामि । ॐ भूर्भुवः सुवः सोममावाहयामि । इत्युत्तरस्यां पालिकायां सोमम् ।

 ततस्तत्तन्मन्त्रैर्नाममन्त्रैर्वा काण्डानुसमयेन पदार्थानुसमयेन वा पूजयेत् । आपो हि ष्ठेतिमन्त्रत्रयस्याग्निर्विश्वे देवा वाऽऽपो गायत्री । हिरण्यवर्णा इति मन्त्रचतुष्टयस्याग्निरापस्त्रिष्टुप् । पवमानानुवाकमन्त्राणां प्रजापतिर्ऋषिः । पवमानः सुवर्जनो विचर्षणिः पोता च । देवजना मनवो विश्व आयवश्च । जातवेदा अग्निरग्निर्देवः सविता वैश्वदेवी पुनती च । वैश्वानरो वात इषिरो मयोभूर्द्यावापृथिव्यावृतावर्यौ च । सविता देवोऽग्निश्च ब्रह्मा पावमान्यः ६ । ब्रह्म, इन्द्रः सुनीत्या सद्दितः सोमः स्वस्त्या सहितो वरुणः समीच्या सहितो यमो राजा प्रमृणाभिः सहितो जातवेदा ऊर्जयन्त्या सहितश्चेति सप्तदशानां क्रमेण देवताः । प्रथमद्वितीयचतुर्थपञ्चमाष्टमानां गायत्री छन्दः । तृतीयनवमदशमैकादशद्वादशत्रयोदशचतुर्दशपञ्चदशषोडशानामनुष्टुप् । पष्ठसप्तमसप्तदशानां त्रिष्टुप् । स्थापने विनियोगः । ॐ आपो हि ष्ठा म० ३ । हिरण्यवर्णाः शुच० ४ । पवमानः सुवर्जनः । पवित्रेण विचर्षणिः० मोर्जयन्त्या पुनातु । इत्येतैः सर्वान्ते ब्रह्मादीन्संस्नापयेत् । प्रतिमन्त्रमिति केचित् ।

 पुष्पाञ्जलिसमर्पणान्ते--

दिशां पतीन्नमम्यामि सर्वकामफलप्रदान् ।
कुर्वन्तु सफलं कर्म कुर्वन्तु सततं शुभम् ।

 इति पालिकानां पश्चात्तिष्ठन्प्राङ्मुख उपतिष्ठतेति पूजने विशेषः ।

 तत उपविश्य व्रीहियवतिलमुद्गसर्षपान्मिश्रीकृत्य क्षीरेण प्रक्षाल्य मध्यमपालिकादिक्रमेण निवपति । ब्रह्म जज्ञानमिति द्वयोरग्निर्ब्रह्मा त्रिष्टुप्, ओषधिनिवपने विनियोगः । ॐ ब्रह्म जज्ञानं प्रथमं० विवः । हिरण्यगर्भः समवर्त० विधेम इति द्वाभ्यां मध्यमपालिकायां निवपति । यत इन्द्रेति द्वयोर्विश्वे देवा ऋषयः । इन्द्रा देवता । आद्याया बृहती अन्त्याया अनुष्टुप् । ओषधिनिवपने विनियोगः । ॐ यत इन्द्र० जहि । स्वस्तिदा विशस्प० अभयंकरः । इति द्वाभ्यां पूर्वस्यां पालिकायां निवपति । योऽस्य कौष्ठ्येति द्वयोः प्रजापतिर्यमोऽनुष्टुप्, ओषधिनिवपने विनियोगः । ॐ योऽस्य कौष्ठ्यन० पृथिवी दृढा, इति द्वाभ्यां दक्षिणस्यां पालिकायां निवपति । इमं म इति द्वयोर्विश्वे देवा ऋषयः । वरुणो देवता । आद्या गायत्री । अन्त्या त्रिष्टुप् । ओषधिनिवपने विनियोगः । ॐ इमं मे व० प्रमोषीः, इति द्वाभ्यां पश्चिमायां पालिकायां निवपति । सोमो धेनुमिति द्वयोर्विश्वे देवाः सोमस्त्रिष्टुप्, ओषधिनिवपने विनियोगः । ॐ सोमो धेनु शदस्मै । अषाढं युत्सु० सोम, इति द्वाभ्यामुत्तरस्यां पालिकायां निवपति । व्रीहियवादीनामलाभ एतदन्यतममेकमेव द्रव्यं पालिकासु निवपेत् ।

 ततो यथाक्रमं शुद्धाभिः सिकताभिः पालिकाः प्रच्छाद्य पञ्चगव्येन संप्रोक्ष्य, प्रणवस्य परब्रह्मर्षिः । परमात्माऽग्निर्वा देवता । दैवी गायत्री छन्दः । पालिकापिधाने विनियोगः । ॐ इति महता पात्रेणापिधाय कर्मसमाप्तिपर्यन्तं सुरक्षितं कुर्यात् । अग्निशब्दवाच्यः परमात्मा देवतेत्येवं वा प्रयोगः । समाप्ते कर्मणि देवताः संपूज्य पूर्वोक्तैरों भूर्ब्रह्माणमित्याद्यैर्मन्त्रैरावाहयामीत्यस्य स्थान उद्वासयामीत्यूहितैर्यथाक्रमं देवता उद्वास्य कर्मेश्वरायार्पयेत् ।

 एतच्च गर्भाधानादिनामकर्मान्तकर्माणि हित्वाऽन्नप्राशनादिविवाहान्तापत्यसंस्कारेष्वन्येषु च नूतनागारप्रवेशादिशुभकर्मसु कर्मारम्भदिनात्पूर्वं सप्ताहं पञ्चाहं त्र्यहमेकाहं वा कार्यम् । इदं च रात्रौ कल्याणसंज्ञके प्रथममुहूर्ते कर्तव्यम् ।

 तथा च शौनकः--

"रात्रौ मुहूर्ते कल्याणे प्रथमेऽङ्कुररोपणम्"इति ।

 कुर्यादिति शेषः ।

  रात्रावङ्कुररोपणे हेतुमप्याह स एव--

"ओषधीनां हि सर्वासां चन्द्रः प्रोक्तोऽधिदैवतम् ।
तस्मात्सर्वप्रयत्नेन रात्रावङ्कुररोपणम्" इति ।

 हिर्हेतौ । अतित्वरायां सद्यो दिवैव । "आत्यन्तिकेषु कार्येषु सयोऽह्न्यन्यङ्कुररोपणम्" इति बृहस्पत्युक्तेरिति केचित् ।

 कर्मविशेषेऽङ्कुरारोपणस्याक्रियोक्ता तेनैव--

"निषेकं गर्भसंस्कारं जातकर्म च नाम च ।
हित्वाऽङ्कुरारोपणं स्यादन्यत्र शुभकर्मसु" इति ।

 निषेको गर्भाधानम् ।

इति बौधायनसूत्रानुसारेणाङ्कुरारोपणप्रयोगः ।

अथाग्निमुखविधिः ।

 तत्राग्न्यायतनदेशो गृह्ये--

"प्राचीनप्रवण उदीचीनप्रवणे प्रागुदक्प्रवणे समे वा
देश उद्धत्यावोक्ष्य" इति ।

 अस्यार्थः--प्राचीनप्रवणाद्यन्यतमे देश आयतनं विधाय तदभ्र्याऽन्येन वा खनित्रेणोद्धत्यावोक्षेत् । प्रवणः क्रमनिम्नः । समे वा देश इति सप्तमीनिर्देशेन देशव्यतिरिक्तस्यैव कस्यचित्पदार्थस्योद्धननादिक्रियाकर्मत्वे प्रदर्शिते तत्र स च कः पदार्थ इत्याकाङ्क्षायामायतनपदार्थस्य ग्रहणम् । ([४१]एतेन केवले देश एवोद्धननप्रोक्षणे उक्त्वा तत्र स्थण्डिलकरणमुक्तं तत्परास्तम् । )

 तत्प्रमाणं शुल्बसूत्रे--

"पिशीलमात्रा भवन्तीति धिष्णियानां विज्ञायते" इति ।

 पिशीलं षड्विधम् । अष्टादशाङ्गुलमेकं, विंशत्यङ्गुलं द्वितीयं, बाह्वोरन्तरालं तृतीयं, बद्धमुष्टी रत्निरिति चतुर्थं, चतुर्विंशत्यङ्गुलं पञ्चमं, षट्त्रिंशदङ्गुलं षष्ठम् । घिष्णियान्यग्न्यायतनानि । विज्ञायत इत्यत्र श्रुतिरिति शेषः ।

 अङ्गुलप्रमाणं बौधायनेनोक्तम्--

"अथाङ्गुलप्रमाणं चतुर्दशाणवश्चतुस्त्रिंशत्तिलाः
पृथुसंश्लिष्टा इत्यपरम्" इति ।

 सर्वप्रमाणशेषत्वादङ्गुलप्रमाणमुच्यत इति शेषः । अणुर्धान्यविशेषः । परस्परसंश्लिष्टाश्चतुर्दशाणवो यावत्प्रमाणं तावदङ्गुलप्रमाणमित्यर्थः । कोशसंस्थानवत्पृथुप्रदेशेन संश्लिष्टाश्चतुस्त्रिंशत्तिला अङ्गुलप्रमाणमित्यपरं मतमिति व्याख्यातमेतद्द्वारकानाथेन ।

 अणुशब्दप्रवृत्तिनिमित्तं कोश आह--

"व्रीहिभेदस्त्वणुः पुमान्" इति ।

 केचित्त्वङ्गुलप्रमाणमङ्गुष्ठपर्वमात्रं मध्याङ्गुलिमध्यमपर्वमात्रं वेत्याहुः । एतच्च प्रमाणं यजमानस्याध्वर्योर्वा ग्राह्यम् । "यजमानस्याध्वर्योर्वैष हि चेष्टानां कर्ता भवति" इति शुल्बसूत्रात् । अत्राध्वर्योरभावात्स्वस्यैव प्रमाणम् । साचार्ये कर्मणि पाक्षिकत्वेनाऽऽचार्यस्यापि प्रमाणं ग्रहीतुं शक्यं तस्याध्वर्युतुल्यत्वात् ।  साङ्गमायतनं स्मृतावुक्तम्--

"अरत्निमात्रं विज्ञेयमग्नेरायतनं शुभम् ।
श्रौते चौपासने कण्ठखातयोनिविवर्जितम् ।
मेखलाद्वितयं कार्यं रेखालग्नं तु बाह्यतः ।
बाह्या द्व्यङ्गुलविस्ताराऽऽभ्यन्तरा चतुरङ्गुला ।
बाह्या षडङ्गुलोत्सेधाऽऽभ्यन्तरा द्वादशाङ्गुला" इति ।

 अत्रौपासनग्रहणं गृह्योक्तलौकिकाग्निसाध्यकर्मोपलक्षणम् ।
अथाग्न्यायतननिर्माणप्रकारः कारिकाभिः प्रदर्श्यते--

पिशीलमात्रा रज्जुः स्यात्सा च सूक्ष्मा दृढा तथा ।
यावती मानतो रज्जुस्तावत्यागन्तुकी भवेत् ॥ १ ॥
आगन्तुक्याश्चिह्नमर्धे श्रोण्यंसार्धं तु तद्भवेत् ।
लक्ष्मान्तरार्धे पाशौ द्वावभितः सर्वरज्जुषु ॥ २ ॥
पृष्ठ्यां प्रागायतां कृत्वा शङ्कून्न्यस्येत्प्रमाणतः ।
दीर्घभागस्थितं पाशं पूर्वशङ्कौ प्रकल्पयेत् ॥ ३ ॥
हृस्वभागस्थितं पाशं क्षिपेच्छङ्कौ तु पश्चिमे ।
लक्षणं कर्षणार्थं तु तत आकृष्य दक्षिणे ॥ ४ ॥
क्लृप्तलक्षणतः श्रोणिं दक्षिणां कल्पयेत्ततः ।
उत्तरेऽप्येवमाकृष्योत्तरां श्रोणिं प्रकल्पयेत् ॥ ५ ॥
ततः पाशौ विपर्यस्य तस्यांसौ कल्पयेत्पुरः, इति ॥

 विश्वकर्माऽपि--

"कृत्वा प्राक्सूत्रमृज्वेकं दक्षिणोत्तरमत्स्ययोः ।
न्यस्य सूत्रं ततः कोणैरङ्कितैश्चतुरश्रकम्" इति ।

 प्रागपरसूत्रं हस्तादीष्टप्रमाणकं कृत्वा मत्स्येन साधितयोर्दक्षिणोत्तरदिशोस्तत्प्रमाणं सूत्रमुभयतः समार्धं कृत्वा तावत्प्रमाणेन सूत्रेण कृतमध्यकर्षणेन मत्स्येन वा चतुष्कोणाङ्कैश्चतुरश्रं संपन्नं भवतीत्यर्थः । कुण्डरूपाग्न्यायतनकरणाशक्तौ स्थण्डिले कार्यम्--

"कुण्डे वा स्थण्डिले वाऽपि होमकर्म समाचरेत्" इति स्मृतिसारोक्तेः ।

 एतन्मानं गृह्यकारिकासु--

"हस्तमात्रं चतुष्कोणं बाहुमात्रमथापि वा ।
चतुरङ्गुलमुच्छ्रायं स्थण्डिलं सर्वकर्मसु" इति ।

 अत्रोक्तस्य प्रमाणद्वयस्य होमानुसारेण व्यवस्था ज्ञेया ।

  संग्रहेऽपि--

"चतुरश्रं च[४२] सुश्लक्ष्णं तुल्यं सूत्रेण साधयेत् ।
समं वेदाङ्गुलोच्छ्रायं प्रागुदक्प्रवणं भवेत् ।
अधिकं वेषुमात्रं वा कुर्याद्धोमानुसारतः" इति ।

 परिधित इषुमात्रं न तु सर्वत इति ज्ञेयम् । अष्टादशाङ्गुलाष्टादशाङ्गुलात्मकचतुर्ज्यं कर्तव्यमिति तात्पर्यार्थः ।

 इषुररत्नित्रयात्मकः-- "त्रिररत्निरिषुः स्मृतः"  इत्यापस्तम्बोक्तेः ।

 अरत्निप्रमाणं शुल्बसूत्रे--

"चतुर्विंशत्यङ्गुलयोऽरत्निस्तदर्धं प्रादेश इति क्लृप्तिः" इति ।

 एतत्सूत्रव्याख्याने सार्वत्रिकी चैषा क्लृप्तिरिति सुन्दरकरविन्दाभ्यां व्याख्यातम् । कूर्परमारभ्य कनिष्ठिकापर्यन्त आयामोऽरत्निरिति स्मृत्यन्तरे ।

 शतपथ इषुप्रमाणमन्यथोक्तम्-- "पञ्चप्रादेश इषुर्भवति" इति ।

 अस्मिन्कल्पे पञ्चदशाङ्गुलपञ्चदशाङ्गुलात्मकचतुर्ज्यं भवति ।

 सिकताप्रमाणं वर्णविशेषेणाऽऽकारविशेषश्च बौधायनसूत्रे--

 "पञ्चप्रस्थसिकताः शुचयः शुक्ला अनार्द्रा अरत्निमात्रं[४३] समचतुरश्रं ब्राह्मणस्य रक्तवर्णं त्रिकोणं क्षत्त्रियस्य पीतवर्णं रथचक्रवद्वैश्यस्य प्राक्प्रवणमुदक्प्रवणं वा स्थण्डिलं करोति" इति ।

 सिकता मृत्पांसवः । पञ्चप्रस्थसिकता इति प्रमाणं हस्तमात्राभिप्रायम् । करणप्रकारमप्याह स एव--

"सिकताश्चतुरङ्गुलं प्राचीनमुच्छ्रयति पञ्चाङ्गु[४४]लं पश्चादूर्ध्वाङ्गुलिवि-
शेषं दक्षिणत ऊर्ध्वाङ्गुलि[४५]प्रमाणमुत्तरतः" इति ।

 पश्चादित्यन्तं प्राक्प्रवणत्वपक्षे । ऊर्ध्वाङ्गुलिविशेषमित्याद्युदक्प्रवणत्वपक्षे । ऊर्ध्वाङ्गुलिप्रमाणस्य यावान्विशेषो भवति तावत्परिमितो दक्षिणत उच्छ्रायः । ऊर्ध्वाङ्गुलिप्र[४६]माण उत्तरत उच्छ्राय इत्यर्थः ।  विशेषलक्षणं शूल्बसूत्रे--

"प्रमाणं तृतीयेन वर्धयेत्तच्च चतुर्थेनाऽऽत्मचतुस्त्रिंशोनेन" इति ।

 प्रदेशिन्या मध्यमाया वोर्ध्वाङ्गुलेः प्रमाणं त्रेधा विभज्य तदेकांशपरिमितमंशं वर्धयित्वा तदंशचतुर्थांशं स्वचतुस्त्रिंशांशोनं तत्र संयोज्य तावत्परिमिता दक्षिणत उच्छ्रित्तिः कार्या । उत्तरतस्तूर्ध्वाङ्गु[४७]लिप्रमाणोच्छ्रितिरिति तात्पर्यार्थः ।

 शास्त्रान्तरे तु--

 "प्राक्प्रवणमुदक्प्रवणं वा स्थण्डिलं करोति पञ्चाङ्गुलोच्छ्रायं पश्चाच्चतुरङ्गुलोच्छ्रायं पुरत एवमेवान्यत्र" इति ।

 अन्यत्र, उदक्प्रवणत्वे । यद्यपि प्रागुदक्प्रवणपक्षोऽत्र नोक्तस्तथापि देशे प्रागुदक्प्रवणताया दर्शनादत्र प्राप्तिः ।

 बौधायनेनैतेषां पक्षाणां काम्यत्वमप्युक्तम्--

 "प्राचीनप्रवणं ब्रह्मवर्चसकामस्योदीचीनप्रवणमन्नाद्यकामस्य प्रागुदक्प्रवणं प्रजाकामस्य समं प्रतिष्ठाकामस्य" इति ।

 सिकतादोषानप्याह स एव--

 "अथातः सिकतादोषान्व्याख्यास्यामो भस्मकेशतुषकपालशर्करातृणास्थिपिपीलिकावतीभिरार्द्राभिः सिकताभिर्वजयेद्भस्मना यजमानक्षयः केशेन स्त्रीमरणं तुषैः पुत्रनाशः कपालैरर्थनाशः शर्कराभिर्बन्धुवियोगस्तृणेन कर्मक्षयोऽस्थ्ना ग्रामनाशः पिपीलिकाभी राष्ट्रनाश आर्द्रसिकताभिर्भयं भवतीत्याह भगवान्बौधायनः" इति ।

 वर्जयेदित्यनन्तरं स्थण्डिलकरणमिति शेषः । पिपीलिकाग्रहणं जन्तूपलक्षणम् । विधानपारिजाते स्थण्डिलोच्छ्राये विशेष उक्तः--

"कार्या शतार्धेऽङ्गुलसंमितोच्छ्रितिः शताहुतौ द्व्यङ्गुलसंमितोच्छ्रितिः ।
सहस्रहोमे चतुरङ्गुलोच्छ्रितिर्वस्वङ्गुला स्यादयुते समुच्छ्रितिः ॥
नृपाङ्गुला लक्षहतौ समुच्छ्रितिर्विशाङ्गुला स्यात्प्रयुते समुच्छ्रितिः ।
तत्त्वाङ्गुला कोटिमखे समुच्छ्रितिस्ततोऽधिकं नो विदधीत मानकम्" इति ।

 अथ प्रसङ्गाद्बह्वाहुतिकशान्त्यादिकर्मोपयोगिकुण्डस्थण्डिलयोः परिमाणम् । तत्रैकोनपञ्चाशत्संख्याहुतिपर्यन्तं स्थण्डिलमेव । तच्चाष्टादशाङ्गुलपरिमाणं परितोऽङ्गुष्ठोन्नतम् । अग्रे कुण्डेन सह विकल्पोऽशक्तिशक्तिभ्यां व्यवस्थितः । पञ्चाशदादिनवनवतिसंख्याहुतिपर्यन्तं मुष्टिमात्रम् । मुष्टी रत्निः । शतादिनवनवत्यधिकनवशताहुतिपर्यन्तमरत्निमितम् । निष्कनिष्ठमुष्टिहस्तोऽरत्निः । सहस्रादिहोमे हस्तमात्रम् । अयुतादौ द्विहस्तम् । लक्षादौ चतुर्हस्तम् । दशलक्षादौ षड्ढस्तम् । कोटिहोमादावष्टहस्तं दशहस्तं वा । चतुर्विंशत्यङ्गुलैर्हस्तः । अङ्गुलं तु तिर्यङ्निहिताष्टयवप्रमाणं स्वमध्यमामध्यपर्वमितं वा ज्ञेयम् । मुष्ट्या वा चतुरङ्गुलानि । अर्धयवोनचतुस्त्रिंशदङ्गुलैर्द्विहस्तं सार्धैकचत्वारिंशदङ्गुलैस्त्रिहस्तमष्टचत्वारिंशदङ्गुलैश्चतुर्हस्तं पादोनचतुष्पञ्चाशदङ्गुलैः पञ्चहस्तं पादोनैकान्नषष्ट्यङ्गुलैः षड्ढस्तं सार्धत्रिषष्ट्यङ्गुलैः सप्तहस्तं यवोनाष्टषष्ट्यङ्गुलैरष्टहस्तं द्विसप्तत्यङ्गुलैर्नवहस्तं षट्सप्तत्यङ्गुलैर्दशहस्तं षण्णवत्यङ्गुलैः षोडशहस्तं कुण्डं स्थण्डिलं वा भवति । कुण्डाङ्गानां व्यासखातनाभिकण्ठमेखलायोनीनां सम्यग्ज्ञान एव कुण्डं युक्तं भवति । तत्करणप्रकारस्तु शान्तिप्रकरणे वक्ष्यते । स्थण्डिलं चतुरश्रमङ्गुलोत्सेधं चतुरङगुलोत्सेधं वा । समत्वपक्षे स्थूलद्रव्यहोमे तत्तत्परिमाणस्यापर्याप्तौ स्वोत्तरपरिमाणमपि ग्राह्यम् ।

 यत्तु कारिकाकृतोक्तम्--

"स्थण्डिलात्तण्डुलैरेखा द्व्यङ्गुला द्व्यङ्गुलाधिका ।
एकरेखं द्विरेखं वा अग्निभद्रं तु कारयेत्" इति,

 तत्र मूलं चिन्त्यम् ।

 आयतनस्य गोमयेनोपलेपनादिकमुक्तं संग्रह आयतनसंस्कारं प्रकृत्य--

"तद्गोमयेनोपलिम्पेत्" इति । तदग्न्यायतनम् ।

 एतत्कारणमुक्तं स्मृतिरत्नाकरे पुराणे--

"सर्वत्र वसुधा मेध्या सशैलवनकानना ।
अथ विष्णुपदाक्रान्तोपलेपनमिदं कुतः ॥
पुरा शक्रो हि वज्रेण वृत्रं हत्वा महासुरम् ।
तन्मेदसा हि निर्लिप्ता तदर्थमुपलेपनम्" इति ॥

 उद्धननोत्तरं यदि श्वा स्थण्डिलादावधितिष्ठति तदा प्रायश्चित्तविशेष उक्तो बौधायनेन--

 "स्थण्डिलमुद्ध[४८]तं गौरश्वो वा यदि विकिरेदन्यद्वा श्वापदमधितिष्ठेत्तस्य पदमभ्युक्ष्य जपति पृथिवि देवयजन्योपध्यास्ते मूलं मा हि सिषमिति कृतान्तात्कर्म प्रतिपद्यते" इति ।

 ([४९]विकिरेन्मूत्रादिभिर्विकीर्णं कुर्यात् । अथवा सप्तम्यर्थे द्वितीया । अस्मि पक्षे विकिरेदित्यस्य रेतोमूत्रपुरीषोत्सर्गं कुर्यादित्यर्थः । अधितिष्ठेदित्यत्र द्वितीयान्ते स्थण्डिलोद्धतपदे अनुवर्तनीये । ) स्थण्डिलग्रहणं कुण्डोपलक्षणम् । श्वग्रहणं[५०] निषिद्धद्विपदचतुष्पदपशूपलक्षणम् ।

 रेखालेखनप्रकारोऽवोक्षणादि च धर्मसूत्रे--

"यस्मिन्देशेऽग्निमुपसमाधास्यन्स्यात्तत्र प्राचीरुदीचीश्च तिस्रस्तिस्रो रेखा लिखित्वाऽवोक्ष्योत्सिच्य तदुदकशेषमुत्तरेण पूर्वेण वाऽन्यदुपनिदध्यात्" इति ।

 यत्र कुत्र गार्ह्ये सामयाचारिके वा कर्मणि गृहेऽरण्ये वाऽग्निमुपसमाधास्यन्प्रतिष्ठापयिष्यन्स्यात्तत्र पूर्वं प्राचीः प्रागग्रास्तिस्र उदगपवर्गा रेखा लिखेत् । उदगग्रास्तिस्रः प्रागपवर्गा रेखा लिखित्वाऽद्भिरवोक्षेत् । अवोक्ष्यैतदवोक्षणोदकमग्नेरायतनस्योत्तरतः पूर्वतो वोत्सिञ्चेत् । उत्सिच्यान्यदुदकं पात्रस्थमुपदध्यात् । पाके तु स्त्रिया(यो) न भवति(न्ति) । उपसमाधास्यन्निति लिङ्गस्य विवक्षितत्वात् । आर्याः प्रयता इत्यत्र तु भवतीति व्याख्यातमुज्ज्वलाकृता । अवोक्षणोदकादन्यदुदकं कर्मपर्याप्तमवोक्षणपात्रस्थं कृत्वा स्वसमीपे निदध्यात् । अथवा शुद्धजलपूरितकलशस्थमुदकमवोक्षणोत्सेचनार्थं पात्रान्तरे गृहीत्वा तेनोदकेनावोक्षणोत्सेचने कृत्वाऽन्यदवशिष्टं कलशपात्रस्थमुदकं कर्मार्थं स्वसमीपे निदध्यात् । अर्थत एवं समीप उदकनिधाने सिद्धेऽत्र वचनमुत्सेचनोत्तरमेव यस्मात्कलशादवोक्षणोत्सेचनार्थमुदकं गृहीतं तस्य कलशस्य स्वसमीपे स्थापनार्थम् । तेनोत्सेचनपर्यन्तं गृहमध्य एव कलशो भवेदिति सिद्धं भवति । अथवा तावत्पर्यन्तं भूमौ तत्कलशस्थापनं वारयितुमत्र वचनम् । न चैतस्यादृष्टार्थत्वमेवास्त्विति वाच्यं, प्रणीताद्युदककार्यनिष्पादनरूपे दृष्टे संभवत्यदृष्टकल्पनाया अन्याय्यत्वात् । उत्सेचनाभावेऽप्यावश्यकत्वादेतद्भवत्येव । रेखालेखनावोक्षणोत्सेचननिधानानां धर्मसूत्रे विधानं परिसंख्यानबलादग्निकार्यादिषु परिषेकादिव्यतिरिक्तगृह्यविहिततन्त्रनिवृत्तौ तद्विहितत्वाद्रेखालेखनावोक्षणोत्सेचननिधानानामपि निवृत्तिः स्यात्सा मा भूदित्येतदर्थम् । गृह्योक्ते कर्मण्येतेषामनावश्यकत्वार्थं वा । उदकनिधानं त्वावश्यकत्वाद्भवत्येव । वैश्वदेवे तु नैतदपि भवति । यथोपदेशं कुरुत इति विशेषवचनेन बाधात् । रेखालेखनाद्युदकनिधानान्तमुद्धनना- त्प्रागेव कर्तव्यं न तूद्धननावोक्षणयोर्मध्ये । उद्धत्यावोक्ष्येतिल्यपा बोधितस्योद्धननावोक्षणयोरव्यवधानस्य बाधापत्तेः । उद्धननावोक्षणयोरव्यवधानं बाधित्वा मध्य एव कर्तव्यता तदा वक्तव्या, यदा धर्मसूत्रोक्तोल्लेखनादीनां मध्ये कर्तव्यतायां प्रमाणमुपलभ्येत । तदेवात्र नास्ति । प्रत्युतोद्धननावोक्षणयोरव्यवधानं बहुषु दृष्टमस्ति । न च शिष्टाकोपन्यायेन वेदकरणवेदिकरणयोर्मध्ये क्षुते यथोभयोरव्यवहितत्वबाधस्तथाऽनयोरपि सोऽस्त्विति वाच्यम् । तत्र क्षुतक्रमयोरेकदोषस्थितत्वेनानयोः किं बाध्यमिति विचारे प्राप्ते पदार्थधर्मरूपक्रमापेक्षया पदार्थरूपक्षुतनिमित्ताचमनस्य प्राबल्यादव्यवहितत्वबाधस्य जैमिनिना स्वीकृतत्वात्प्र[५१]कृत उद्धननानन्तरमेवोल्लेखनं कर्तव्यमित्येतादृशेऽर्थे प्रमाणाभावेनैतयोरव्यवहितत्वबाधस्याकल्पनात् । न च मातृदत्तेनोद्धननोत्तरमेवोल्लेखनादीनां प्रदर्शनात्तदनन्तरमेवानुष्ठानमिति वाच्यम् । ([५२]पुनरित्यादिभाष्यग्रन्थस्योल्लेखनावोक्षणोत्सेचनोदकनिधानान्यपि धर्मशास्त्रोक्तत्वात्कर्तव्यानीत्येवंरीत्या संग्रहमात्रपरताया एव ल्यब्बोधिताव्यवहितानन्तर्यबाधापत्त्या कल्पनात् । न चास्त्वव्यवहितानन्तर्यबाधः, तथा च क्रमबोधकत्वमेव पुनरित्यादिग्रन्थस्येति वाच्यम् । अव्यवहितानन्तर्यानुगुण्येनैव निर्वाहे तदितरकल्पनाया अनुचितत्वात् । उद्धत्येत्त्यस्य संस्कार्यपदार्थसाधनपदार्थप्रदर्शनार्थमात्रमुक्तिः । न त्ववोक्षणनिवृत्यर्था । अन्यथा सूत्रविरुद्धत्वेन भाष्यग्रन्थस्याप्रयोजकत्वापत्तेः । अवोक्षणानुक्तिस्तु स्पष्टत्वात् । पुनधर्मशास्त्रे दर्शनादित्यत्र पुनःशब्देन तत्सत्त्वं सूचितम् । कथम् । पुनरित्यस्याऽऽवृत्तिबोधकत्वेनोद्धननस्य धर्मसूत्रोक्तानामुल्लेखनादिनां वाऽऽवृत्त्यभावेनोद्धनन उल्लेखनादिषु वाऽन्वयासंभवेनावोक्षणस्य वारद्वयं संभवाद्धर्मसूत्रोक्तावोक्षणात्पूर्वमेव पुनःशब्दस्यान्वये सत्यर्थादुद्धननोत्तरमन्यदवोक्षणमस्तीति । एतेनोद्धननावोक्षणोत्तरभावित्वमुल्लेखनादीनामिति शङ्काऽपि निरस्ता । ) एकमे(म)वोक्षणमुत्सेचनादिकं चेदानीं नानुतिष्ठन्ति पद्धत्यन्तरे लिखितं च नास्ति तद्भ्रान्तिमूलकमेव । धर्मसूत्रे एतेषां विधानबलादनावश्यकमिति कृत्वा पद्धत्यन्तरे न लिखितमिति यद्युच्यते तदोल्लेखनमपि न लेखनीयम् । उल्लेखनस्येवावोक्षणोत्सेचनयोरप्येकसूत्रप्रणीतत्वेनोल्लेखनकरणाकरणाधीनत्वेनोल्लेखनं लिखितमवोक्षणादिकं न लिखितमित्यत्र भ्रान्तिरेव मूलं पश्यामः ।

 रेखालेखनसाधनानि ([५३]बौधायनगृह्ये--

 "न लोष्टेन न काष्ठेन न शर्करया न नखेन । काष्ठेन वै व्याधितः स्याल्लोष्टेन कुलनाशनम् । शर्करया पुत्रनाशः स्यान्नखेन बन्धुनाशनम् । तस्मात्सुवर्णरजतताम्रशकलेन व्रीहिभिर्यवैर्वा दर्भैरङ्गुष्ठेन च महानाम्न्या चोपसंगृह्य तस्य मध्यमं प्राचीन संततमृजुमुल्लिखेत्" इत्यादि ।

 महानाम्नी, उपकनिष्ठिका । उपसंग्रहणान्तमेवाविरोधादत्रोपयुज्यते । रेखालेखनप्रकारस्तु तिस्रः प्राचीस्तिस्र उदीची रेखाः कृत्वेत्यनेन विरुद्धत्वान्नोपयुज्यते) ।

 गोभिलपरिशिष्टे--

"न नखेन न काष्ठेन नाश्मना मृन्मयेन वा ।
प्रोल्लिखेत्स्थण्डिलं विप्रः सिद्धिकामस्तु यो भवेत् ॥
भवेन्नखेन कुनखी काष्ठेन व्याधिमृच्छति ।
अश्मना धननाशः स्यान्मृन्मयेन कलिर्धुवम् ॥
फलेन सुसमृद्धः स्यात्पुष्पेण श्रियमृच्छति ।
पर्णेन धनलाभः स्याद्दीर्घमायुः कुशेन तु ॥
तस्मात्फलेन पुष्पेण पर्णेनाथ कुशेन वा
ताम्रशल्कयुतेनाऽऽदौ लिखेत्स्थण्डिलमुत्तमम्" इति ।

 अवोक्षणलक्षणं संग्रहे--

"अवाचीनेन हस्तेन कर्तव्यं स्यादवोक्षणम्" इति ।

 गृह्ये--

"अग्निं मथित्वा लौकिकं वाऽऽत्दृत्य न्युष्योपसमादधाति" इति ।

 याज्ञिकात्काष्ठादग्निं मथित्वा श्रोत्रियागाराल्लौकिकं वाऽऽत्दृत्याऽऽयतनमध्ये संस्थाप्य काष्ठान्यभ्याधाय प्रज्वलयतीत्यर्थः ।

 संग्रहे--

"कुण्डे वा स्थण्डिले वाऽलं तत्तन्नाम्ना हविर्भुजम् ।
स्थापयेन्मध्यदेशे तु" इति ।

 स्मृतिसारेऽपि--

"कुण्डे वा स्थण्डिले वाऽपि तत्तन्नाम्ना हविर्भुजम् ।
व्याहृतीभिर्मध्यदेशे योग्यं स्वाभिमुखं क्षिपेत्" इति ।

 हविर्भुजमग्निम् । अलं पर्याप्तम् । अलमित्यत्र होमायेति शेषः । योग्यत्वं च द्वेधा । अरण्यादिजत्वं प्रदीप्तबहुलाङ्गारमयत्वं च ।

 तत्राऽऽद्यमुक्तं सिद्धान्तशेखरे--

"उत्तमोऽरणिजन्योऽग्निरुत्तमः सूर्यकान्तजः ।
मध्यमः श्रोत्रियागारादधमः स्वगृहादिजः" इति ।

 द्वितीयं स्मृत्यर्थसारे--

"कुण्डे वा स्थण्डिले वाऽपि मध्यदेशे हविर्भुजम् ।
दीप्तबह्वङ्गारमयं निर्धूमं स्थापयेद्बुधः" इति ।

 अग्निप्रणयनपात्राण्याहात्रिः--

"सौवर्णं राजतं ताम्रं तदभावे तु मृन्मयम् ।
पात्रान्तरेण पिहितमग्निप्रणयने स्मृतम्" इति ।

 गोभिलोऽपि--

"पात्रान्तरेण पिहिते ताम्रपात्रादिके शुभे ।
अग्निप्रणयनं कुर्याच्छरावे तादृशेऽपि वा" इति ।

 तादृशे पिहिते । शरावो मृन्मयपात्रविशेषः ।

 यस्तु--

"शरावे भिन्नपात्रे वा कपाले त्वायसेऽपि वा ।
नाग्निप्रणयनं कुर्याद्व्याधिहानिभयावहम्"

 इति स्मृतिसारोक्तो निषेधः स पुराणशरावपरः ।

"तैजसे ताम्रपात्रे वा शरावेऽभिनवे तु वा"

 इति नारदपञ्चरात्रवचनेऽभिनवशरावस्य ग्राह्यत्वोक्तेः । तैजसपदं गोबलीवर्दन्यायेन ताम्रेतरपरम् ।

 ([५४]गोभिलीयपरिशिष्टे--

"कपालैर्भिन्नपात्रैर्वा न त्वामैर्गोमयेन वा ।
अग्निप्रणयनं कार्यं यजमानभयावहम्" इति ।

 भिन्नपात्रैर्मृन्मयैर्धातुमयैश्च । आमैरित्यत्र योग्यतया मृन्मयानामेव ग्राह्यम् । गोमयेन गोमयखण्डेन ।

 अन्यदपि तत्रैव--

"अल्पः प्रणीतो विच्छिन्नोऽसमिद्धश्चापरिष्कृतः ।}}
त्वरया पुनरानीतो यजमानभयावहः ॥
तस्माच्छुभेन पात्रेण अविच्छिन्नाकृशं बहु ।
अग्निप्रणयनं कुर्याद्यजमानशुभावहम् ।
शुभं पात्रं तु कर्तव्यं यजमानसुखावहम् ।
शुभं पात्रं तु कांस्यं स्यात्तेनाग्निं प्रणयेद्बुधः ।
तस्याभावे शरावेण नवेनाभिमुखं च तम्" इति ।

 अल्पः कर्मापर्याप्तः । विच्छिन्नः कर्मपर्याप्तः प्रणीतोऽपि शिथिलबह्ववयवः । असमिद्धोऽप्रदीप्तः। अपरिष्कृतः पात्रान्तरपिधानादिधर्मोऽसंस्कृतः । अल्पत्वात्पुनःपुनरानीतः । अविच्छिन्नाकृशमित्यत्र कर्मधारयः । बह्विति क्रियाविशेषणम् । सौवर्णाद्यभावे कांस्यम् ।)

 अग्निस्थापनं वाग्यतेन कर्तव्यम्--

"अग्निसंस्थापनं कुर्याद्वाग्यतः संयतेन्द्रियः" ।

 इति प्रयोगदर्पणे संग्रहोक्तेः ।

 एवं होमकालेऽपि वाग्यमः--

"स्नास्यतो वरुणः कान्तिं जुह्वतोऽग्निः श्रियं हरेत् ।
भुञ्जतो मृत्युरायुष्यं तस्मान्मौनं त्रिषु स्मृतम्" ।

 इति प्रयोगपारिजाते स्मृत्यन्तरोक्तेः ।

 तत्तन्नाम्ना हविर्भुजं स्थापयेदित्युक्तं तत्र कानि नामानीत्याकाङ्क्षायां पारिजाते--

"पावको लौकिको ह्यग्निः प्रथमः [५५]संप्रकीर्तितः ।
अग्निस्तु मारुतो नाम गर्भाधाने विधीयते ।
ततः पुंसवने ज्ञेयः पवमानस्तथैव च ।
सीमन्ते मङ्गलो नाम प्रबलो जातकर्मणि ।
नाम्नि वै पार्थिवो ह्यग्निः प्राशने तु शुचिः स्मृतः ।
सभ्यनामा तु चौले स्याद्व्रतादेशे समुद्भवः ।

गोदाने सूर्यनामाऽग्निर्विवाहे योजकः स्मृतः ।
चतुर्थ्यां तु शिखी[५६] प्रोक्तो धृतिरग्निरथापि वा ।
आवसथ्ये द्विजो ज्ञेयो वैश्वदेवे तु रुक्मकः ।
प्रायश्चित्ते तु विट्चैव पाकयज्ञेषु पावकः ।
देवानां हव्यवाहश्च पितॄणां कव्यवाह[५७]नः ।
शान्तिके वरदः प्रोक्तः पौष्टिके बलवर्धनः ।
पूर्णाहुत्यामिडो नाम क्रोधोऽग्निश्चाऽऽभिचारिके
वश्यार्थे कामदो नाम वनदाहे तु दूषकः ।
कुक्षौ तु जाठरो ज्ञेयः क्रव्यादो मृतदाहने ।
वह्निनामा लक्षहोमे कोटिहोमे हुताशनः ।
समुद्रे वाडवो ह्यग्निः क्षये संवर्तकस्तथा ।
ब्रह्मा वै गार्हपत्यस्तु ईश्वरो दक्षिणस्तथा ।
विष्णुराहवनीयस्तु अग्निहोत्रे त्रयोऽग्नयः ।
ज्ञात्वैवमग्निनामानि गृह्यकर्म समारभेत्" इति ॥

 यद्यप्येतद्वचनस्य नामज्ञानमात्रपरतैवावगम्यते तथाऽपि--

"तत्तन्नाम्ना हविर्भुजं स्थापयेत्" ।

 इति संग्रहादिवचने नामाकाङ्क्षापूरणस्याऽऽवश्यकत्वादाकाङ्क्षापूरकस्य शास्त्रान्तरस्य चाभावादेतस्य तदर्थताऽपि द्रष्टव्या । स्थापनं तु प्रणवान्ताभिर्व्याहृतिभिः कार्यम् ।

 पुनराधेये--"भूर्भुवः सुवरो[५८]मित्यग्निं प्रतिष्ठाप्य" इति दर्शनात् । "भूर्भुवः सुवरो[५९]मित्याग्निं प्रतिष्ठापयति" इति भरद्वाजोक्तेश्च । एतच्च प्रणवान्तत्वमुदाहृतस्मृतिसारवक्ष्यमाणबौधायनवचनोक्तकेवलव्याहृतिविधानेन विकल्प(ल्प्य)ते । उद्धननाद्यग्निप्रतिष्ठापनान्तं यत्र यत्र "अग्निमुपसमाधाय" इति सूत्रकृद्वदति तत्र । यत्र न वदति तत्र[६०] स्वस्थानेऽवस्थिते परिस्तरणादिविधिनैव का[६१]र्यम् । अग्निप्रज्वलनमुपसमाधानं सिद्धानुवादमेके मन्यन्ते तेषामौपास[६२]ने कर्तव्यानां समिन्धनादि, इतरत्रोद्धननादीति द्रष्टव्यम् । एतन्मतमेव युक्तम् "दक्षिणाग्निमुपसमाधाय" इति दर्शनात् । ननु "दक्षिणाग्निमुपसमाधाय" इत्यत्राऽऽहरणासंभवादस्तु प्रज्वलनमुपसमाधानशब्दार्थः, अत्र तु संभवादाहरणमेवोपसमाधानशब्दार्थः, स्थलान्तर आहरणे सिद्धे स्थापनस्यापि सिद्धत्वात्तत्संबन्ध्युद्धननादीनामपि सिद्धिरिति चेन्न । वैरूप्यापत्तेः । नन्वेवं तत्र तत्रानुवादो व्यर्थः, प्रज्वलनस्यार्थत एव सिद्धेरिति चेत् । सत्यम् । तत्र तत्रानुवादस्य स्थाननियमार्थत्वेन वैयर्थ्याभावात् । यत्र "अग्निमुपसमाधाय" इति वचनं तत्रोक्तस्थान एव कार्यम् । अन्यत्र त्वनियमः । उक्तस्थाने तदकरणे सर्वप्रायश्चित्तं नैतदन्यत्रेति द्रष्टव्यम् ।

 अग्निप्रज्वलनं नाप्रोक्षितैः काष्ठैः कर्तव्यम् । तदुक्तं धर्मसूत्रे-- "नाप्रोक्षितमिन्धनमग्नावादध्यात्" इति । श्रौते स्मार्ते लौकिकेऽग्नावप्रोक्षितमिन्धनं नाऽऽदध्यात् । केचिल्लौकिके नेच्छन्तीत्युज्ज्वलाकृता व्याख्यातम् ।

 अग्निप्रबोधने विशेषो धर्मसूत्रे-- "न चैनमुपधमेत्" इति । अप्रयत इत्येव । एनमग्निमप्रयतो नोपधमेत् । प्रयतस्य न दोष इत्येके । अपर आहुर्मुखेन नोपधमेत् । 'नाग्निं मुखेनोपधमेत्' इति मानवे दर्शनात् ।

  स्मृत्यन्तरे तु-- "मुखेनोपधमेदग्निं मुखादग्निरजायत" इति ।}}

 उभयोर्विकल्पः । अपर आह वाजसनेयके श्रौतप्रकरणे-- " मुखादग्निरजायत तस्मान्मुखेनोपसमिध्यते" इति दर्शनाच्छ्रौते मुखेनोपधमनमन्यत्र स्मार्तः प्रतिषेध इति । अन्ये तु वैणवेनाऽऽयसेन वा ससुषिरेणोपधमनमिच्छन्ति । एवमग्नेर्मुखव्यापारस्यान्वयाच्छ्रुतिरप्यनुगृहीता भवति ।आस्यबिन्दूनां पातनशङ्काभयात्प्रतिषेधस्मृतिरपीति व्याख्यातमुज्ज्वलाकृता ।

 संग्रहे--

"धमनीमन्तरा कृत्वा तृणं वा काष्ठमेव वा ।
मुखेनोपधमेदग्निं मुखादग्निरजायत ।
वेणोरग्नि(ग्नेः)प्रसूतत्वाद्वेणुरग्ने[६३]श्च पा[६४]वनः ।
तस्माद्वेणुधमन्यैव धर्मदग्निं विचक्षणः" इति ।

 श्रुतिरपि--

"तेजो वै वेणुः । तेनः प्रवर्ग्यः । तेजसैव तेजः समर्धयति" इति ।

 अग्नेर्वेणुस्पर्श[६५]निषेध उक्तो ग्रन्थान्त[६६]रे--"न वेणुनाऽग्निं[६७] संस्पृशेत्" इति ।  अत्र वार्ज्या[६८]न्याह देवलः--

"वस्त्रेण वाऽथ पर्णेन पाणिशूर्पास्यदारुभिः ।
न कुर्यादग्निधमनं न कुर्याद्व्यजनादिना" इति ।

 संग्रहे--

"पर्णेन धमने व्याधिः शूर्पेण धननाशनम् ।
पाणिना मृत्युमाप्नोति दारुणा कान्तिनाशनम् ।
वस्त्रेण स्त्रीविनाशः स्यादास्येनाऽऽयुष्क्षयो भवेत्" इति ।

 यत्तु "मुखेन धमनक्रिया" इति मुखधमनस्य कलिवर्जनं तत्साक्षान्मुखधमनस्यैव, न तु-- "धमनीमन्तरा कृत्वा" इत्यनेन विहितस्यापीति द्रष्टव्यम् ।

 प्रतिष्ठापिताग्नेरुपस्थानं ततः कर्तव्यम् । "व्याहृतिभिर्न्युष्योपसमाधायोपतिष्ठतेजुष्टो दमूना अतिथिर्दुरोण इति" इति बौधायनवचनात् ।

 ततोऽग्नेर्ध्यानं कर्तव्यम्--

"होष्यन्नग्नेर्विजानीयात्स्वरूपं श्रुतिचोदितम् ।
अजानता कृतं कर्म तदल्पफलमिष्यते" ।

 इति गोभिलवचनात् । श्रुतिचोदितं चत्वारि शृङ्गेतिश्रुतिचोदितम् । इदं च स्मृतिचोदितस्य सप्तहस्तश्चतुःशृङ्ग इत्यस्योपलक्षणम् ।

 ध्याने विशेषः शारदातिलके--

"वैश्वानरं स्थितं ध्यायेत्समिद्धोमेषु देशिकः ।
शयानमाज्यहोमेषु निषण्णं शेषवस्तुषु" इति ।

 एतच्च तान्त्रिके कर्मणि नियतम् ।।

 ततोऽन्वाधानम्[६९] । तच्चाऽऽचारात् । प्रयोगवैजयन्त्यामप्येवम् । अत्राऽऽचारादन्वाधानमिति । तच्च स्थूलसमित्रया[७०]भ्याधानरूपं श्रौते दृष्टत्वात् । तत्र देवतोल्लेखनमपि शिष्टाः कुर्वन्ति, तच्च प्रयोगे वक्ष्यते । यत्त्वत्र यथाऽऽह तदिति परिसमूहनं प्रयोगान्तर उक्तं तत्तुच्छम् । अग्निकार्यप्रकरणोक्तस्य पूर्वत्र प्राप्त्यभावात् ।

 ततः परिस्तरणादि । तदुक्तं गृह्ये--

"प्रागग्रैर्दर्भैरग्निं परिस्तृणात्यपि वोदगग्राः पश्चात्पुरस्ताच्च भवति
दक्षिणानुत्तरान्करोत्युत्तरानधरान्यदि प्रागुदगग्राः" इति ।

 प्रागग्रैर्दर्भैः पुरस्ताद्दक्षिणतः पश्चादुत्तरत इति परिस्तृणाति ह्रस्वा उदगपवर्गाः पश्चात्पुरस्ताच्च भवन्ति । अपि वा पश्चात्पुरस्ताच्च ये दर्भास्त उदगग्रा भवन्ति प्रागग्रा एव दक्षिणा उत्तराश्च । प्रागुदगग्रा इत्यत्र प्रत्येकमग्रशब्दः परिसमाप्यते, प्रागग्रा उदगग्राश्चेति । यदि परिस्तरणदर्भाः प्रागुदगग्रा भवन्तीत्येतस्मिन्पक्ष इत्यर्थः । तत्र दक्षिणान्दर्भान्पूर्वापरेभ्यो दर्भेभ्य उपरिशयान्करोति । उत्तरांश्च दर्भानधरा[७१]नधःशयान्करोतीत्यर्थः । अत्र दर्भैरिति वचनादेकैकस्मिन्भागे चत्वारश्चत्वारो दर्भा आचारात् । न्यायेन तु बहुत्वं त्रित्वे पर्यवस्यतीति वैजयन्त्याम् ।

 परिस्तरणदेशावधिमाह कश्यपः--

"दशाङ्गुलप्रमाणेन परिस्तीर्य कुशान्क्रमात्" इति ।

 स्मृत्यन्तरे तु पञ्चाङ्गुलः परिस्तरणदेशावधिरुक्तः--

"त्रिभिश्चैव चतुर्भिश्च पञ्चभिः षड्भिरङ्गुलैः ।
सेचनं परिधींश्चैव स्तरणं पूजनं तथा" इति ।

 तेनात्र विकल्पः । अ[७२]त्राग्निक्षेत्रं बाह्यमेखला वाऽपादानावधिर्द्रष्टव्यः ।

 ततो ब्रह्मायतने कुशास्तरणादि । तदुक्तं गृह्ये--

 "दक्षिणेनाग्निं ब्रह्मायतने दर्भान्सं स्तीर्य मयि गृह्णामि यो नो अग्निरिति द्वाभ्यामात्मन्नाग्निं गृहीत्वोत्तरेणाग्निं दर्भान्सं स्तीर्य यथार्थं द्रव्याणि प्रयुनक्ति" इति ।

 दक्षिणेन परिस्तीर्णमग्निं ब्रह्मण आयतन उपवेशनदेशे दर्भान्सम्यग्बहुलानस्तीर्त्वा मयि यो नो अग्निरिति द्वाभ्यामात्मीयमग्निमात्मनि गृहीत्वा तथा संकल्प्य जपित्वोत्तरेणाग्निं दर्भान्सम्यग्बहुलान्स्तीर्त्वा यथार्थं यथाप्रयोजनं द्रव्याणि प्रयुनक्तीत्यर्थः । मयि यो न इत्यग्निं हृदि स्थितं द्वाभ्यां दर्भाभ्यां संस्थाप्येत्यात्मन्नग्निं गृहीत्वेत्यस्यार्थो गृह्यकारिकाकृता प्रदर्शितः स भाष्यविरोधादुपेक्ष्यः । आत्मन्यग्निग्रहणसमये सकुशं दक्षिणहस्तं हृदि धृत्वेति प्रयोगान्तरे यदुक्तं तत्र मूलं चिन्त्यम् । यद्यपि गृह्ये बर्हिर्नोक्तं तथाऽपि श्रौते दर्शनाच्छिष्टसमाचाराच्च ग्राह्यम् ।

 तत्प्रमाणे विशेषः स्मृत्यन्तरे--

"यज्ञियानां तृणानां तु अग्रे प्रादेशमात्रतः ।
प्रच्छिद्य प्रतिगृह्णीयान्मुष्टिमात्रं तु बर्हिषि" इति ॥

 मुष्टिमात्रमेकहविष्केषु स्थालीपाकादिकर्मसु । अनेकहविष्केषु तु सर्वेषां हविषामासादनं यथा भवति तथा पर्याप्तं बर्हिर्ग्राह्यम् । "अर्थात्परिमाणम्" इति कात्यायनोक्तेः ।  इध्मकाष्ठसंख्या तत्संनहनं च गृह्ये--

 "एकविं शतिदारुमिध्म संनह्यत्याहुतिपरिमाणं वा तस्मिञ्च्छम्याः परिधीनिध्ममुपसंनह्यति" इति ।

 एकविंशतिदारुमेकविंशतिकाष्ठमिध्मं संनह्यति संनह्य प्रयुनक्तीत्यर्थः । अथवा यथाश्रुत एवार्थः । अस्मिन्कल्पे दर्व्यादनात्प्राक्संनहनमात्रं कार्यम् । आसादनं तु येन चार्थ इतिवचनेनोपवेषासादनोत्तरमेव, श्रौते दृष्टत्वात् । संनहनोत्तरमनधोनिधानमपि कार्यम् । बर्हिषोऽपीध्मात्पूर्वं संनहनं श्रौते दर्शनात् । इध्मेन सह बर्हिषोऽप्यासादनम् । न च प्रोक्षणीपात्रासादनानन्तरमेवेध्माबर्हिषोरासादनमस्त्विति वाच्यम् । स्वसत्तयोपयोगिनां पदार्थानामासादनानन्तरमेव स्वलोपेनोपयोगिनां पदार्थानामासादनस्योचितत्वात् ।

 त्रिविधा[७३] ह्युपयोगिनः पदार्थाः । केचन स्वसत्तया, स्वान्यथाभावेन केचन, स्वलोपेन केचन । तत्र दर्व्याज्यस्थालीप्रणीताप्रणयनप्रोक्षणीपात्रोपवेषाः[७४] स्वसत्तया होमोपयोगिनः । अश्माहतवस्त्रद्वयोत्तरीयार्थाजिनमौञ्जीमेखलादण्डकौपीनतद्बन्धनार्थसूत्रोपवीतभिक्षापात्रकूर्चाः[७५] स्वसत्तया उपनयनोपयोगिनः । स्वान्यथाभावे[७६]नोपयोगिनो व्रीहयः स्थालीपाके । स्वलोपेन साधारणहोमोपयोगिनः संमार्गदर्भबर्हिरिध्मावज्वलनदर्भाज्यात्मकाः । सप्त पलाशसमिधः[७७] स्वलोपेनोपयोगिन इति । एवं तत्र तत्र ज्ञेयम् । स्वसत्ता स्वस्य पात्रादेः सत्ताऽविकारिस्वरूपम् । स्वान्यथाभावः स्वस्य व्रीह्यादेरन्यथाभावस्तण्डुलौदनादिरूपः । स्वलोपः स्वस्य समिदादेर्लोपो नाशः । एवंप्रकारैर्यज्ञसाधनपदार्था[७८]स्त्रिविधा भवन्ति ।

 यथाऽऽहुर्भट्टाचार्याः--

"स्वान्यथाभावमत्ताभ्यां स्वलोपेन च साधकाः ।
त्रिविधाः संप्रयुज्यन्ते कर्मणा विनियोजकाः" इति ॥

 आहुतीनां परिमाणं संख्या । आहुतिपरिमाणमिव परिमाणं यस्य स आहुतिपरिमाणः । उष्ट्रमुखशब्दवन्मध्यमपदलोपी समासः । यावत्य आहुतयस्तावद्दारुको भवेदित्यर्थः । जयादीनुपहोमान्वर्जयित्वाऽङ्गप्रधानाहुतयो गणयितव्या इति केचित् । जयादयोऽपि गणयितव्या इत्यन्ये । तस्मिन्निध्मे शम्याः शम्याकृतिकांस्त्रीन्परिधीनुपसंनह्यति बध्नाति । शम्याशब्द इहाकृतिवचनः । "शम्याभिः परिदधाति" इत्युत्तरत्र विधानादेव परिधीनां शम्याकृतित्वे सिद्ध इह शम्याग्रहणमुपसंनहनकाल एव शम्याकृतित्वसंपादनं यथा स्यादूर्ध्वं मा भूदित्येतदर्थम् । एकविंशतिदारुत्वपक्षे श्रौतविकृतिषु चतुर्विंशतिदारुत्वस्य दृष्टत्वात्परिधीनधिकानिच्छन्त्येके । अपरे तु संख्यायां परिधीनन्तर्भावयन्ति, तथा दर्शपूर्णमासयोर्दृष्टत्वादिति । आहुतिपरिमाणत्वपक्षे तु प्रत्याहुतिसमिधां दर्शनादभ्यधिकत्वमेव परिधीनां न्याय्यम् । शम्याः परिधीनुपसंनह्यतीत्युच्यमाने पृथगभ्यधिकानामुपसंनहनं प्राप्नोति तन्मा भूदिति तस्मिन्निध्म इत्युच्यते । तस्मिन्नित्येव सिद्ध इध्मग्रहणमिध्मसंख्यायां परिधीनामन्तर्भावार्थम् । इध्मेत्येव सिद्धे तस्मिन्निति वचनमाहुतिपरिमाणत्वेऽभ्यधिका एवेतिख्यापनार्थमिति मातृदत्तोऽपि ।

 श्रौतसूत्र इध्मवृक्ष उक्तः--

"पालाशं खादिरं वैकवि शतिदारुमिध्म संनह्यति" इति ।

 परिधिस्वरूपमपि तत्रैवोक्तम्--

 "त्रयः परिधयोऽनियतवृक्षाः सत्वक्का आर्द्रा भवन्ति ते हि सरसा इति विज्ञायते शुष्का भवन्ति मेध्यत्वायेति विज्ञायते स्थविष्ठो मध्यमोऽणीयान्द्राघीयान्दक्षिणार्ध्योऽणिष्ठो ह्रसिष्ठ उत्तरार्ध्यः" इति ।

 अनियतवृक्षा नानाजातीयवृक्षा उपादानं येषां ते । सत्वक्कास्त्वक्सहिताः । एतच्च विशेषणं गार्ह्ये न संभवति । सूत्रकृता परिधीनां शम्याकृतित्वविधानात्तस्य च विना तक्षणमसंभवात् । युक्त्या स्थूलकाष्ठमूलभागस्य सूक्ष्मत्वमग्रभागस्य स्थूलत्वं शम्याकृतित्वार्थं तक्षणेन कर्तव्यमेव । एवं च श्रौतसूत्रदृष्टायाः सत्वक्कतायाः शम्याकृतिविधिना बाधः । ते हि सरसा इति विज्ञायत इत्ययमर्थवादः । आर्द्रा भवन्तीत्यस्मिन्नर्थे शुष्का भवन्तीत्यस्मिन्नर्थे मेध्यत्वायेति विज्ञायत इत्ययमर्थवादः । एतच्चार्थवादद्वयप्रदर्शनं कर्माङ्गत्वज्ञानार्थम् । उक्तं च बौधायनेन-- "अर्थवादैरभ्युदयाय" इति । एवं चाऽऽर्द्राः शुष्का वा परिधयः कर्तव्या इति पक्षद्वयं ज्ञेयम् । अर्थवादाज्ञाने यजुर्भ्रेषप्रायश्चित्तं भुवः स्वाहेत्यौपासनाग्नावेव हुत्वा सर्वप्रायश्चित्तं जुहुयात् । स्थविष्ठत्वं स्थूलतरत्वं तन्मध्यमस्य परिधेः । अणीयस्त्वं सूक्ष्मत्वं मध्यमापेक्षया दक्षिणार्ध्ये । एवं द्राघीयस्त्वं दीर्घत्वमपि । अणिष्ठत्वं सूक्ष्मतरत्वं ह्रसिष्ठत्वं ह्रस्वतरत्वम् । एते मध्यमापेक्षयैवोत्तरार्ध्ये । अर्धशब्दो भागवाची । दक्षिणभागे भवो दक्षिणार्ध्यः । उत्तरभागे भव उत्तरार्ध्यः ।

 इध्मस्य परिधीनां परिमाणं[७९] वैलङ्किकात्यायनावाहतुः-- "द्विप्रादेश इध्मस्त्रिप्रादेशाः परिधयः" इति ।

 बौधायनगृह्ये ([८०]तु परिधीनामरत्निमात्रत्वमुक्तम्-- "अरत्निमात्राः परिधयः शुष्का आर्दा वा सत्वक्काः" इति । एतच्चाऽऽयतनस्याल्पमानत्वेऽत्रोपयुक्तं भवतीति द्रष्टव्यम् । इध्मस्य प्रादेशपरिमितत्वमप्युक्तं तेनैव-- "प्रादेशमात्राण्येकविंशतिमिध्मदारूणि भवन्तीति ब्राह्मणेन व्याख्यातम्" इति ।

 एतस्मात्सूत्रादेकविंशतिसंख्यातः परिधीनां भिन्नत्वम् । इदं च बौधायनीयानामेव नास्माकम् । "तस्मिञ्छम्याः परिधीनिध्म उपसंनह्यति" इत्यत्रत्येध्मग्रहणेन सूत्रकृता भेदाभावस्यैव ज्ञापितत्वेन तद्विरुद्धभेदस्यास्वीकारात् ।) द्विप्रादेश इध्मः प्रादेशमात्रो वेति ।

 परिधीनां बाहुमात्रत्वमप्युक्तं भरद्वाजेन-- "शम्यामात्रा बाहुमात्रा वा परिधयः" इति । शम्या षट्त्रिंशदङ्गुला । द्विचत्वारिंशदगुलो बाहुः ।

 संग्रहे--

"समित्पवित्रं वेदश्च त्रयः प्रादेशसंमिताः
इध्मस्तु द्विगुणः कार्यस्त्रिगुणः परिधिः स्मृतः ।
स्मार्ते प्रादेश इध्मो वा द्विगुणः परिधिः स्मृतः" इति ।

 प्रादेशः प्रादेशप्रमाणः । द्विगुणो द्विप्रादेशः परिधिरित्यर्थः । परिधिरिति जातावेकवचनम् । एतस्माद्वचनाद्गृह्य इध्मस्य पाक्षिकं प्रादेशत्वं परिधीनां पाक्षिकं द्विप्रादेशत्वं च ज्ञेयम् । अयं च पक्षोऽसंभवे ज्ञेयः । परिधीनां न्यूनाधिकभाव उक्तो बौधायनगृह्ये-- "तिस्रः शम्याः परिधीन्करोति[८१] मध्यमाङ्गुलिरनामिका कनिष्ठिका" इति । प्रमाणानीति शेषः । बाहुमूलमारभ्य मध्यमाङ्गुल्यग्रान्तपरिमितो दक्षिणः । बाहुमूलमारभ्यानामिकाग्रान्तपरिमितो मध्यमः । बाहुमूलमारभ्य कनिष्ठिकाग्रान्तपरिमित उत्तर इत्यर्थः । अन्यत्स्प ष्टार्थम् । वस्तुतस्तु शम्याशब्दो यथाऽऽकृतिग्राहकस्तथा षट्त्रिंशदङ्गुलप्रमाणस्यापि । एवं च नात्र श्रौते[८२] उक्ते द्राघीयस्त्वह्वसिष्ठत्वे भवतः । नापि च मध्यमाङ्गुलिरनामिका कनिष्ठिकेति बौधायनोक्तो दक्षिणोत्तरपरिध्योः प्रमाणभेदः । एवं च सर्वेषां षट्त्रिंशदङ्गुलात्मकमेव प्रमाणमिति ज्ञेयम् ।

 इध्म[८३]स्य संनहनं शुल्बेनैव कार्यं श्रौते दर्शनाच्छिष्टाचाराच्च ।

 शुल्बकरणं तु श्रौतसूत्रे--

"समूलानाममूलानां वा दर्भाणामयुग्धातु शुल्बं कृत्वा प्रागग्रमुदगग्रं
वा निदधाति" इति ।

 अयुग्धातु विषमधातु । धातुः संधिः । अवयव इति केचित् । अत्रायुग्धात्वित्यविशेषश्रवणादिध्मबन्धनपर्याप्तं विषमधातुकं शुल्बं कार्यम्, न तु बर्हिबन्धनार्थकशुल्बवत्त्रिधातुत्वपञ्चधातुत्वनियमः ।

 ततः पात्रासादनादि । तदुक्तं गृह्ये--

"दर्वी कूर्चमाज्यस्थालीं प्रणीताप्रणयनं येन चार्थः सकृदेव
सर्वाणि यथोपपादं वा" इति ।

 कूर्चः सावित्रीवाचनार्थमासनम् । येन चार्थ इत्यनुक्तानामपि प्रयोजनवतामुपसंग्रहार्थम् । सकृदेव युगपदेव । सर्वाण्युक्तान्यनुक्तानि च प्रयोजनवन्ति पात्राणि द्रव्याणि च प्रयुनक्ति । यथोपपादं यथासंभवं वेत्यर्थः । "यदेकमेक संभरेत्पितृदेवत्यानि स्युः" इति श्रुत्या पित्र्येष्वेकैकस्यैव पात्रस्य संभरणविधानात्पित्र्येषु मासिकश्राद्धाष्टकादिष्वेकमेकं सादनीयम् । "यत्सह सर्वाणि मानुषाणि" इति श्रुत्या मानुषेषु युगपत्पात्रसंभरणविधानादुपनयनादिषु मानुषेषु युगपत्पात्रसादनम् । "द्वे द्वे संभरति" इतिश्रुत्याऽवशिष्टेषु दैवेषु कर्मसु द्वंद्वं पा[८४]त्रासादनमिति व्यवस्थैव वा यथोपपादशब्दार्थः । कूर्चस्य तूपनयन एवोपयोगः। उत्तरत्र पात्राण्युत्तानानि कृत्वेतिविधानादासादने न्यग्बिलता गम्यते ।

 ततो ब्रह्मोपवेशनादि । तदुक्तं गृह्ये--

 "एतस्मिन्काले ब्रह्मा यज्ञोपवीतं कृत्वाऽप आचम्यापरेणाग्निं दक्षिणाऽतिक्रम्य ब्रह्मसदनात्तृणं निरस्याप उपस्पृश्याग्निमभिमुख उपविशति" इति ।

 एतस्मिन्काले पात्रासादनान्तरकाले ब्रह्मर्त्विग्यज्ञोपवीतं कृत्वाऽप आच म्याग्नेरदूरेणापरभागेण दक्षिणतो दक्षिणेन पदाऽतिक्रम्य ब्रह्मसदनस्य पश्चात्प्राङ्मुखः स्थित्वा स्वसदनात्तृणं निरस्याप उपस्पृश्याग्निमभिमुख उपविशति । एतस्मिन्काल इति वचनं वैदिकेऽपि पात्रासादनानन्तरमेव ब्रह्मणः प्रवेशो नार्वागित्येतदर्थम् । यज्ञोपवीतग्रहणं कर्माङ्गस्याऽऽविकाजिनस्य वाससो वोपादानार्थम् । पित्र्ये वा तस्य प्राचीनावीतित्वनिराकरणार्थम् । अथ वा यज्ञोपवीतस्यापि प्राधान्यख्यापनार्थम् । तेन ब्रह्मालाभे तत्स्थाने यज्ञोपवीतं वा स्यात् । "अथैकेषामुक्तं छत्रं यज्ञोपवीतं कमण्डलुं वा" इति । अथवैतस्मिन्काल इति वचनमनित्यः पुरुषो नित्यः काल इतिज्ञापनार्थम् । तेन च्छत्रादीनामेको वा ब्रह्मणः स्थानेऽवश्यं स्यादिति । अप आचम्येत्यनेन शुद्धस्यापि कर्माङ्गं पुनराचमनं विधीयते । अपरेणेत्यनेन पात्रहोमकर्तुरन्तरङ्गत्वं बाध्यते । ब्रह्मणः सदनमासनं तस्मात्तृणं निरस्येदित्यर्थः । ब्रह्मेति वचनमन्येषामप्यासनानि सन्तीति गमयति । तेन सर्वैरप्यृत्विग्भिः स्वस्वासन उपविश्यैव कर्म कर्तव्यं न तु केवलं भूमिष्ठैरिति । यजमानेन श्रौते दर्शनात्स्वासनात्तृणनिरसनमपि कार्यम् । ब्रह्मसदनात्तृणं निरस्येति दर्शनात्तृणमयमासनमिति गम्यते । स्मृतित एव निरसनोत्तरमुदकस्पर्शे सिद्धे पुनर्वचनं श्रौतप्रायश्चित्तार्थम् । एतच्च यज्ञोपवीतकरणादिकं सर्वं स्वकर्म यजमानेन वृतः सन्नेव कुर्यात् । नावृता याजयेयुरिति वरणरहितस्य कर्मणि प्रवृत्तिनिषेधात् । ऋत्विक्त्वं तु वरणभरणाधीनमित्यृत्विगधिकरणे मीमांसकैर्विस्तरेण प्रपञ्चितमस्ति तत्तत्र द्रष्टव्यम् । श्रौते तु सत्रे वरणभरणाभावेऽपि होत्रादिसंज्ञानिर्वाहार्थं संकल्पविशेषस्यापि निमित्तता मीमांसकैरङ्गीकृता ।

 ततः पवित्रकरणादि । तदुक्तं गृह्ये--

 "समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे कृत्वाऽन्येन नखाच्छित्त्वाऽद्भिरनुमृज्य पवित्रान्तर्हिते पात्रेऽप आनीयोपबिलं पूरयित्वोदगग्राभ्यां पवित्राभ्यां त्रिरुत्पूयोत्तरेणाग्निं दर्भेषु सादयित्वा दर्भैरपिदधाति" इति ।

 समौ वर्णरूपाभ्यां, दैर्घ्येण साम्यस्य तु प्रादेशमात्रावित्यनेनैव सिद्धत्वात् । प्रच्छिन्नाग्रावित्यत्र प्रशब्दो दुर्लक्ष्यसाग्रतानिवृत्त्यर्थः । प्रादेशमात्रौ प्रादेशप्रमाणावेतादृशौ यौ दर्भौ तौ पवित्रौ पवनयोग्यौ संस्कारैः करोति । पवित्रशब्दो यद्यपि विशेष्यलिङ्गोऽस्ति तथाऽपि पवनसाधने नपुंसक एव दृश्यते । द्विवचनं तूद्भूतावयवत्वात् । भूमौ तृणं काष्ठं वाऽन्तर्धाय दर्भावग्रे प्रादेशमात्राववशेषयंस्तदुपरि धृत्वा तच्च नखादन्येनासिदेन काष्ठेन वा छित्त्वा पवनयोग्यौ करोति । कृत्वाऽद्भिरनुमार्ष्टि मूलादारभ्याग्रपर्यन्तं सोदकेन हस्तेन मार्ष्टि । एतच्च धूल्यपसारणार्थम् । तेन धूल्यभावे न कार्यमिति केचित् । अदृष्टार्थं कर्तव्यमेवेत्यन्ये ।

 ततः पात्रं गृहीत्वा पवित्राभ्यामन्तर्हिते तस्मिन्प्रणीताप्रणयनपात्रेऽप आनीयोपबिलं पूरयेत् । यथा न स्कन्दन्त्युत्पवनादिना । तत उदगग्राभ्यां त्रिरुत्पूयोत्तरतोऽग्नेः संनिकृष्टतरे देशे दर्भेषु सादयित्वा दर्भैरपिदधातीत्यर्थः । उदगग्राभ्यां पवित्राभ्यामित्यत्र पवित्रग्रहणं हस्तयोरुदगग्रताव्यावृत्त्यर्थम् ।

"समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे करोति"

 इत्येतस्मिन्कात्यायनसूत्रे देवयाज्ञिकपितृभूतिहरिस्वामिनः पवित्रयोरेव समानत्वोक्तेश्छेदनेन पवित्रे एव समे कार्ये न तु समप्रमाणौ कुशौ छित्त्वेत्यत्राऽऽग्रहः । भिन्नप्रमाणावपि च्छित्त्वा समौ कार्याविति तात्पर्यार्थ इति विशेषमाहुः ।

 ततः प्रोक्षणीसंस्कारादि । तदुक्तं गृह्ये--

"तिरःपवित्रं प्रोक्षणीः सं स्कृत्य यथापूरस्ताद्बिलवन्त्युतानानि
कृत्वा विषायेध्मं त्रिः सर्वाभिः प्रोक्षति" इति ।

 तिरःपवित्रं पवित्रे अन्तर्धाय प्रोक्षणीः संस्कृत्य । यथापुरस्तात्प्रणीतावत् । बिलवन्ति पात्राण्युत्तानानि कृत्वा विषाय विस्रस्येध्मं सर्वाभिः प्रोक्षणीपात्रस्थाभिरद्भिस्त्रिः सपवित्रेण पाणिना पात्राणि प्रोक्षति । प्रोक्षणीः संस्कृत्येत्येव सिद्धे तिरःपवित्रमिति वचनमितरधर्मनिवृत्त्यर्थम् । तेन तूष्णीं पात्रस्य त्रिः प्रक्षालनमपामानयनं करणत्वेन पृथिव्यभिध्यानसमकालं पूरणं प्रणीतास्विवात्र न भवतीति । सर्वाभिरित्यवशेषप्रतिषेधार्थम् ।

 प्रोक्षणलक्षणं संग्रहे--

"उत्तानेन तु हस्तेन कर्तव्यं प्रोक्षणं भवेत्" इति ।

 ततो दर्वीनिष्टपनादि । तदुक्तं गृह्ये--

"दर्वी निष्टप्य संमृज्य पुनर्निष्टप्य निदधाति संमार्गानभ्युक्ष्याग्नावादधाति" इति ।

 दर्वीमग्नौ निष्टप्य संमृज्य पुनरग्नौ निष्टप्य निदधाति । जुहूवत्संमार्ग इत्युपदिशन्ति । चरुहोम उपस्तरणाभिधारणाद्यर्थं स्रुवस्याप्यपेक्षितत्वात्तस्य च संस्कृतस्यैवोपस्तरणाभिधारणादिरूपकर्मनिष्पादने योग्यत्वादासादनप्रोक्षणनिष्टपनसंमार्गादिरूपाः संस्कारा दर्वीवत्स्रुवस्यापि कार्याः । ते च दर्व्या सहैव । संमार्गस्तु श्रौतस्रुवसंमार्गवत्प्रथममेव कर्तव्यः । निधानं दर्भेष्विति केचित् । संमार्गदर्भानद्भिरभ्युक्ष्याग्नौ प्रहरतीत्यर्थः ।  अभ्युक्षणलक्षणं संग्रहे--

"मुष्टी कृत्वा तु तत्तोयमभ्युक्षणमिति स्मृतम्" इति ।

 तत आज्यविलापनादि । तदुक्तं गृह्ये--

 "आज्यं विलाप्य पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरुप्योदीचोऽङ्गारान्निरू(रु)ह्य तेष्वधिश्रित्यावद्योत्य दर्भतरुणाभ्यां प्रत्यस्य त्रिः पर्यग्नि कृत्वोदगुद्वास्याङ्गारान्प्रत्यू[८५](त्यु)ह्योदगग्राभ्यां पवित्राभ्यां पुनराहारमाज्यं त्रिरुत्पूय पवित्रे अग्नावाधाय" इति ।

 आज्यं बहिरेव विलाप्य द्रवीकृत्य पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निर्वपेत् । पुनराज्यग्रहणं प्राधान्यख्यापनार्थम् । तेन गव्यमाज्यं स्यात् । द्रव्यान्तरसंसर्गप्रतिषेधार्थं च । तेन शोधयित्वोपरिपवनेन ग्राह्यम् । तत उदीच उदग्भागस्थानङ्गारान्केनचित्काष्ठेन निरू(रु)ह्य तेषु निरूढेष्वङ्गारेष्वाज्यमधिश्रित्यावद्योत्य दर्भैरवाचीनज्वालैरुपरि ज्वलयित्वा दर्भतरुणाभ्यां दर्भाग्राभ्यां प्रत्यस्य तस्मिंस्ते प्रास्योल्मुकेन त्रिः पर्यग्नि कृत्वोत्तरतस्तदुद्वास्य तानङ्गारांस्तेनैव काष्ठेन प्रत्यू(त्यु)ह्याग्नौ पुनः प्रक्षिप्योदगग्राभ्यां[८६] पवित्राभ्यां पुनराह्र[८७]त्योत्पुनाति । एवमत्र क्रमः । आज्यस्थाल्यां पवित्रे पश्चाद्भागमारभ्य प्राग्भागं नीत्वा पुनः पश्चाद्भागमानीयोत्पुनाति । पुनर्द्विरेवमेव । श्रुत्यैव प्रत्यगपवर्गताऽत्र विहितोत्सर्गस्य बाधिका । ब्राह्मणे-- "पुनराहारमेवमिव हि प्राणापानौ संचरतः" इति पवित्रयोः प्राणापानरूपयोः संचार उक्तः । प्राणो हि प्रागपवर्गं संचरति तस्य मुखनासिकानिरोधेन यतो निरोधः । अपानः प्रत्यगपवर्गं तस्य निरोधोऽपानद्वारलिङ्गनिरोधेन यतो दृश्यते । तस्मात्प्राणापानगतिभ्यां क्रमिकाभ्यां पुनराहारे प्रत्यगपवर्गता न निवार्येति । पुनराहारमिति णमुल्प्रत्ययान्तम् । पुनराहारोऽङ्गमुत्पवनस्य । पुनराज्यग्रहणं नवनीतस्यापि पितृयज्ञ उत्पवने पुनराहारधर्मो मा भूदित्येतदर्थम् । अपरे पूर्वमाज्यग्रहणं तूष्णीकेनाऽऽज्येनेत्यत्रायमेव संस्कारविधिर्नतु मन्त्रवर्जं दर्शपौर्णमासिक इत्येतदर्थमित्याहुः ।

 पवित्रे अग्नावाधायेत्यत्र पुनः पवित्रग्रहणं विस्रस्य पृथग्भूतयोः सहाभ्याधानार्थम् । व्यक्तं च बौधायनीये-- "पवित्रे विस्रस्याद्भिः संस्पृश्याग्नावनुप्रहरति" इति । यस्तु पर्यग्निकरणे दर्भद्वयोल्मुकयोः समुच्चयो गृह्यकारिकाकृतोक्तः स प्रमाणाभावादुपेक्ष्यः ।  आज्यनिर्वपणदेश आपस्तम्बगृह्ये-- "अपरेणाग्निं पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरूप्य" इति ।

 प्रयोगपारिजाते--

"अथाऽऽज्यस्थालीमादाय तस्यामाज्यं निषिच्य च ।
उदगग्नेर्निरूढेषु त्वङ्गारेषु सभस्मसु ॥
विलाप्यैतदधिश्रित्य अवज्वल्य ज्वलत्तृणैः ।
आज्ये प्रत्यस्य दर्भाग्रे अङ्गुष्ठपर्वमात्रके" इति ।

 अत्रोक्तनिरूढशब्दार्थः स्मृतिदीपिकायां व्याख्यातः--

"निरूढः स्याद्विभक्तोऽग्निर्यः परिस्तरणाद्बहिः ।
अनिरूढः स वै वह्निर्यः परिस्तृतिमध्यगः" इति ।

 एतच्च यत्राग्नेः प्रत्यूहनविधानमस्ति तत्परम् । यत्र तु प्रत्यूहनविधानं नास्ति तत्राऽऽयतनमध्य एव पृथक्करणं निरूढशब्दार्थो विद्यारण्यश्रीपादोक्तेः ।

 पर्यग्निकरणे तृणनिरसनविशेषमाह संग्रहकारः--

"पर्यग्निकरणायाग्निमनिरूढाद्यदाऽऽहरेत् ।
बहिर्निरस्य तच्छेषं निरूढाद्यदि योजयेत्" इति ।

 सुदर्शनभाष्येऽपि--

 "आज्यसंस्कारार्थानामङ्गाराणां प्रत्यूहनविधानादपवृत्ते कर्मणि लौकिकः संपद्यत इति न । अवद्योतनपर्यग्निकरणाग्न्योस्तु यदाऽऽयतनस्थादुपादानं तदाऽपवृत्तकर्मत्वेन लौकिकत्वात्त्यागः । यदा तु निरूढात्तदा तस्मिन्नेव प्रक्षेपः" इति ।

 ततः परिधिपरिधानादि । तदुक्तं गृह्ये--

 "शम्याभिः परिदधात्यपरेणाग्निमुदीचीनकुम्बां मध्यमां निदधाति दक्षिणेनाग्नि स स्पृष्टां मध्यमया प्राचीनकुम्बामुत्तरेणाग्नि सस्पृष्टां
मध्यमया प्राचीनकुम्बामपरेणाग्निं प्राङ्मुख उपविशति" इति ।

 शम्याभिः शम्याकृतिभिः परिधिभिः परिदधाति । कथम् । अपरेणाग्निमुदीचीनकुम्बां मध्यमां निदधाति । कुम्बः स्थूलप्रदेशः । दक्षिणेनाग्निं मध्यमया संस्पृष्टां प्राचीनकुम्बां दक्षिणां शम्यां निदधाति । उत्तरेणाग्निं मध्यमया संस्पृष्टां प्राचीनकुम्बामुत्तरां शम्यां निदधाति । अधरोत्तरभावः परिस्तरणवदत्रापि द्रष्टव्यः । इहाधिकारादेव सिद्धे त्रीण्यग्निग्रहणानि केवलस्याग्नेः संप्रत्ययः स्यात्परिस्तरणस्य मा भूदित्येतदर्थम् । तेनोपर्येव परिस्तरणानामग्नेः परिधिभिः परिधानं कार्यं न बाह्यत इति । इतरथा पात्रासादनवद्ब्रह्मसदनवच्च बाह्यतः प्राप्नुयात् । दक्षिणोत्तरयोः पुनर्ग्रहणं संस्पृष्टामिति संशब्दश्चाग्नेर्दक्षिणत उत्तरतश्च तयोर्निधानं सम्यक्स्पर्शनेनाधरोत्तरभावश्च यथा स्यादित्येतदर्थम् । इतरथा मध्यमस्यैव दक्षिणत उत्तरतश्च निधानं स्पर्शमात्रं च प्राप्नुयात् । अपरेणाग्निं प्राङ्मुख उपविशतीत्येतत्सूत्रं दक्षिणतो यज्ञोपवीत्याचान्तः कुमार इत्येतस्मिन्नुत्तरसूत्रेऽन्वेति । तेन कुमारस्य प्राङ्मुखताऽपरेणाग्निं प्राङ्मुख उपविशतीत्येतस्य सूत्रस्य वैयर्थ्यापत्तिपरिहारश्च सिध्यति । एतच्च संस्कार्यमात्रोपलक्षणम् । तेन यत्र संस्कार्या पत्नी तत्र तस्या अपि पत्युर्दक्षिणत उपवेशने प्राङ्मुखत्वं भवति । अग्र उपविश्येतिवचनमुपवेशनान्वारम्भयोः कालाव्यवधानार्थम् । अथवाऽपरेणाग्निं प्राङ्मुख उपविशतीति भिन्नं सूत्रम् । दक्षिणतो यज्ञोपवीत्याचान्तः कुमार उपविश्यान्वारभत इति भिन्नम् । तत्र पूर्वमर्थादाचार्यपरमुत्तरत्र कुमारग्रहणादन्यस्य चासंभवात् । अस्मिन्पक्षे पूर्वसूत्रं कर्मवशेनायं नियम इतिख्यापनार्थं ज्ञेयम् । अग्निग्रहणं त्विह परिस्तीर्णस्याग्नेः संप्रत्ययार्थम् ।

 यत्तु[८८] स्मृत्यन्त[८९]रे उक्तम्--

"त्रिभिश्चैव चतुर्भिश्च पञ्चभिः षड्भिरङ्गुलैः ।
सचनं परिधीश्चैव स्तरणं पूजनं तथा"

 इति चतुरङ्गुलात्मकपरिधिपरिधानदेशावधिकथनम् । यच्च कश्यपोक्तम्--

"नवाङ्गुलप्रमाणेन विधिना परिधीन्न्यसेत्"

 इति नवाङ्गुलात्मकपरिधिपरिधानदेशावधिकथनं तच्छाखान्तरविषयं न सत्याषाढसूत्रानुसारिविषयम् । भाष्यकृता परिस्तरणानामुपर्येव परिधिपरिधानस्योक्तत्वात् । परिधिपरिधानोत्तरमेव बर्हिरास्तरणं कार्यमन्यथा पवित्राभ्याधानपरिधिपरिधानयोर्ल्यपा बोधितस्याव्यवहितानन्तर्यस्य बाधापत्तेः । एतेनोत्पवनात्प्रागेव बर्हिस्तरणं कैश्चिदुक्तं तन्निरस्तं द्रष्टव्यम् ।

 बर्हिरास्तरणोत्तरमाज्यस्थाल्यास्तत्र सादनमुपवेषनिरसनं प्रणीतोद्वासनादनन्तरं ब्रह्मयजमाननिष्क्रमणात्प्रागेव, श्रौते दृष्टत्वात् । प्रणीतोद्वासनस्याक्रियायामुत्तरपरिषेकान्ते ।

 ततः परिषेकादि । तदुक्तं गृह्ये--

 "अथ परिषिञ्चत्यदितेऽनुमन्यस्वेति दक्षिणतः प्राचीनमनुमतेऽनुम

न्यस्वेति पश्चादुदीचीन सरस्वतेऽनुमन्यस्वेत्युत्तरतः प्राचीनं देव सवितः प्रसुवेति सर्वतः प्रदक्षिणं परिषिच्येध्ममङ्क्त्वाऽभ्यादधात्ययं
त इध्म आत्मा जातवेदस्ते० समेधय स्वाहा" इति ।

 अथानन्तरमाचार्यः परिषिञ्चति सर्वतः सिञ्चति । कथम् । अदितेऽनुमन्यस्वेति दक्षिणतोऽग्नेः प्राचीनमुदकं सिञ्चति । सरस्वत इति च्छान्दसे ह्रस्वत्वे संबुद्धिलोपो गुणश्च । देव सवितः प्रसुवेति सर्वतः प्रदक्षिणं तमग्निं सिञ्चति । सावित्रहोममन्त्रस्याऽऽदिग्रहणमेतत् । छन्दोगानां तथा दर्शनादित्येके, तन्नेत्युत्तरत्र प्रतिपादयिष्यामः । अथशब्द: कुमाराधिकारनिवृत्त्यर्थः । सर्वमाचार्यकर्तृकं यावदुक्तमेव कुमारस्यावै[९०]धत्वात् । प्रदक्षिणवचनं प्रत्येकं सर्वत्र मा भूत्सकृदेव परिषेको यथा स्यादित्येतदर्थम् । परिषिच्यैवमग्निमिध्ममाज्येन दर्व्याङ्क्त्वा प्रज्वलिताग्नौ हस्तेनाभ्यादधात्ययं त इध्म इत्यनेन मन्त्रेण । इध्माभ्याधानस्याजुहोतिचोदितत्वेऽपि वचनात्स्वाहाकारः । एवं सर्वसमिदाधाने द्रष्टव्यम् । परिषिच्येति वचनमन्त्रकेऽपि परिषेके दक्षिणतः प्राचीन[९१]मित्यारभ्य सर्वतः प्रदक्षिणमित्यन्तः परिषेको यथा स्यान्न तु सर्वतः प्रदक्षिणमित्येतावानेवेतिख्यापनार्थं परिषेकेध्माभ्यञ्जनयोर्मध्ये कर्मान्तरप्रतिषेधार्थं च । तेन सचरुतन्त्रहोमे परिषेकात्पूर्वमेव चरूद्वासनं सिद्धं भवति ।

 संग्रहे समिद्धोमे विशेषः--

"मूलतः कर्मनाशः स्यान्मध्यतः पुत्रनाशनम् ।
अग्रेण मुञ्चतो व्याधिरेकपाणेर्धनक्षयः ॥
मूलमध्यममध्येन समिद्धोमस्य लक्षणम्" इति ।

 मूलतो मूलेन । मध्यतो मध्येन । मूलतो मध्यत इत्युभयत्रापि मुञ्चत इत्येतस्यान्वयः । मूलमध्यमप्रदेशयोर्मध्यभागे धृत्वा समिधो होतव्याः । एतदेव समिद्धोमस्य समिदभ्याधानस्य लक्षणं ज्ञेयमिति ।

"अत्रैकपाणिना समिद्धोमनिषेधेन सव्यपाण्यन्वारब्धदक्षिणपाणिना
होमविधिर्गम्यते" इति प्रयोगपारिजाते ।

 स्रुवधारणे विशेषो विधानमालायाम्--

"अग्रे धृतो विनाशाय धृतो मध्ये प्रजाक्षयी ।
मूले धृतस्तु होतुस्तु मृतिं दद्यात्स्रुवो ध्रुवम् ॥

अग्रान्मध्याच्च मध्ये तु मूलान्मध्याच्च मध्यतः ।
स्रुवः प्रधार्यो विद्वद्भिः सर्वकामार्थसिद्धये" इति ।

 अयमर्थः--दण्डस्य पञ्च भागान्कृत्वा द्वितीयभागे चतुर्थभागे वा स्रुवधारणं कार्यमिति ।

 प्रयोगार्णवे--

"कठिनद्रव्यहोमे तु मुष्टिना धारणं स्रुचः ।
द्रवद्द्रव्यस्य होमे तु उत्तानाङ्गुलिभिः स्मृतम्" इति ॥

 स्रुवस्याप्युत्तानाङ्गुलिभिरेव धारणम् । एतच्च स्रुक्स्रुवधारणं सौम्यतीर्थेन कार्यम् ।

 "निर्वपणसंस्रवणलाजहोमनित्यहोमान्कायतीर्थेन कुर्याद्दैवेन दैविकं पित्र्येण पैतृकं कमण्डलुस्पर्शनं नवान्नप्राशनं स्रुवग्रहणं दैविकं सौम्येनाऽऽग्नेयेन प्रतिग्रहं कुर्यात्"

 इति बौधायनोक्तेः । स्रुवग्रहणं स्रुगुपलक्षणम् । अत्र दैविकमिति विशेषणात्पित्र्यं स्रुवधारणं पितृतीर्थेनैव ।

 सौम्याग्नेयतीर्थलक्षणं बौधायनोक्तम्--

"अङ्गुलिमूले सौम्यं करमध्य आग्नेयम्" इति ।

 दर्व्यामप्येवं तस्याः स्रुवस्थानीयत्वात् ।

 तत आधारहोमादि । तदुक्तं गृह्ये--

 "अथ दर्व्या जुहोत्युत्तरं परिधिसंधिमन्ववहृत्य दर्वीं प्रजापतये मनवे स्वाहेति मनसा ध्यायन्दक्षिणाप्राञ्चमृजुं दीर्घ संततं दक्षिणं परिधिसंधिमन्ववहृत्येन्द्राय स्वाहेति प्राञ्चमुदञ्चमृजुमाघारावाघार्याऽऽज्यभागौ जुहोत्यग्नये स्वाहेत्युत्तरार्धपूर्वार्धे सोमाय स्वाहेति दक्षिणार्धपूर्वार्धे तावन्तरेणतरा जुहोति युक्तो वह जातवेदः पुरस्तादग्ने विद्धि कर्म क्रियमाणं यथेदम् । त्वं भिषग्भेषजस्यासि कर्ता त्वया गा अश्वान्पुरुषान्सनेम स्वाहा । या तिरश्ची निपद्यसेऽहं विधरणी, इति । तां त्वा घृतस्य धारयाऽग्नौ स राधनीं यजे स्वाहा । स राधन्यै देव्यै स्वाहा प्रसाधन्यै देव्यै स्वाहा" इति ।

 अथेध्माधानानन्तरं होमान्वक्ष्यमाणान्दर्व्या जुहोति । अथशब्द इध्माभ्याधानाघारयोः संबन्धार्थः । तेन यत्र यत्राऽऽघारौ तत्रैवेध्माभ्याधानं नान्यत्र । तेनाऽऽपूर्विक इध्माभ्याधानं नेति सिद्धं भवति । एवमिध्माभ्यञ्जनमपि दर्व्यैव भवतीति च । उत्तरं परिधिसंधिमनु उत्तरं परिधिसंधिमनु लक्षयित्वा तेन यथाऽवहृत्य प्रवेश्य दर्वीं प्रजापतय इत्यनेन मन्त्रेण मनसा ध्यायन्ननुच्चारयन्वाचा दक्षिणाप्रागपवर्गमकुटिलं संततमविच्छिन्नं जुहोत्याघारयतीत्यर्थः । दर्वीग्रहणं स्थाल्या सहान्ववहृत्य पश्चादुपादाय होमप्रतिषेधार्थम् । तेन पूर्वमेवोपादाय प्रवेश्याऽऽघारयितव्यम् । पूर्ववद्दक्षिणं परिधिसंधिमन्ववहृत्य दर्वीमिन्द्राय स्वाहेत्यनेनोत्तराप्रागपवर्गमकुटिलं दीर्घं संततं जुहोत्याघारयति । मनसा ध्यायन्निति निवर्तते । तस्मान्मनसा प्रजापतये जुह्वतीतिश्रुत्या प्राजापत्याघार एव तस्योक्तत्वात् । अतो वाचैवाभिघारयति । आघारावाघार्येतिवचनमनन्तरोक्तयोर्होमयोराघारसंज्ञार्थम् । तेन ज्योतिष्मत्यग्नौ होमः सर्वेषामिध्मकाष्ठानां संस्पर्शनं च सिद्धं भवति । दक्षिणाप्राञ्चमितिवचनं तिर्यक्त्वनिरासार्थम् । ऋजुमितिवचनं जिह्मत्वनिरासार्थम् । दीर्घमितिवचनं शास्त्रान्तरोक्तस्य द्वेष्यस्य ह्रस्वमितिकल्पनिरासार्थम् । संततमिति द्वेष्यस्य न्यञ्चं विच्छिनत्तीत्येतस्य कल्पस्य निरासार्थम् । उत्तराघार ऋजुग्रहणं दीर्घसांतत्ययोरनावश्यकत्वद्योतनार्थम् । आघारे धारायां चाऽऽदिसंयोग इत्यापस्तम्बोक्तविशेषस्वीकारे तु मन्त्रारम्भसमकालमाघारयोरारम्भः । आज्यभागाविति संज्ञा संव्यवहारार्था । आज्यभागान्तं कृत्वेत्यत्राग्नये स्वाहेत्यनेन मन्त्रेणाग्नेरुत्तरार्धस्य पूर्वार्थे सोमाय स्वाहेत्यनेन दक्षिणार्धस्य पूर्वार्धे जुहोतीत्युभयत्र शेषः । तावन्तरेणेतरा जुहोति, तावाज्यभागावन्तरेण तद्धोमदेशयोर्मध्य इतरा आहुतीर्जुहोति । तावन्तरेण जुहोतीत्येतावदुच्यमाने युक्तो वहेत्यादानीमेव देशसंबन्धः प्रसज्येत तन्मा भूत्किंतु सर्वासामेव भवतीत्येवमर्थमितरा इति वचनम् । यातिरश्चीत्येतस्मिन्मन्त्रे स राधनीमित्येव पाठः । यजेः सकर्मकत्वादित्येके । स राधनी यज इत्येव पाठो विभक्तिव्यत्ययादित्यन्ये । निरनुनासिकः पाठोऽपपाठ ए[९२]वेति मातृदत्तः । छान्दसः पाठ इति तु युक्तम् । भूर्भुवः सुवरिति व्याहृतिभिर्जुहोत्येकैकशः समस्ताभिश्चेति । भूर्भुवः सुवरित्येताभिर्व्याहृतिभिर्जुहोति । एकैकश एकैकया व्यस्ताभिरित्यर्थः । यथा भूः स्वाहा । भुवः स्वाहा । सुवः स्वाहेति । भूर्भुवः सुवरिति वचनं व्याहृतिबहुत्वादिष्टपरिग्रहार्थम् । भूर्भुवः सुवरिति सिद्धे व्याहृतिभिरिति वचनमेतासामेवान्यत्र व्याहृतिग्रहणे संप्रत्ययार्थम् । तेन व्याहृतिभिरन्वादधाति व्याहृतिभी राकामहमित्येवमादिषु श्रौतेषु स्मार्तेषु चैतासामेव संप्रत्ययः सिद्धो भवति । ननु भूर्भुवः सुवरिति व्याहृतय इत्येतेनैव सिद्धम् । न सिध्यति । तेनाऽऽधान एवेष्टपरिग्रहः कृतः स्यादिति । कर्षप्रमाणमाज्यं स्यादिति वचनात्सर्वाहुतिषु कर्ममात्रमाज्यं ज्ञेयम् ।

 अथ कर्मसमृद्धिसंपादकमुत्तरं तन्त्रम् । तत्र गृह्यम्--

 इमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयास्य० भेष स्वाहा । प्रजापत इत्येषा । यदस्य कर्मणोऽत्य० समर्धयित्रे स्वाहेत्युत्तरार्धपूर्वार्धेऽस सक्तामितराभिराहुतिभिर्जुहोत्यत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति पुरस्तात्स्विष्टकृतश्चित्तं च स्वाहा चित्तिश्च स्वाहेति जयान्जुहोति चित्ताय स्वाहा चित्तये स्वाहेति वाऽग्निर्भूतानामधिपतिः समावत्वित्यभ्यातानानस्मिन्ब्रह्मन्नस्मिन्क्षत्र इत्यभ्यातानेष्वनुषजति पितरः पितामहा इति प्राचीनावीती जुहोत्युपतिष्ठते वर्ताषाडृतधामेति राष्ट्रभृतः पर्यायमनुद्रुत्य तस्मै स्वाहेति पूर्वामाहुतिं जुहोति ताभ्यः स्वाहेत्युत्तराम्" इति ।

 प्राजापत्यायामेषेति वचनं यत्र यत्र सामान्यतः प्राजापत्या विहिता भवति तत्रैषैव ज्ञेयेत्येतदर्थम् । केचित्तु मनसा होमार्थं मन्यन्ते । तस्मान्मनसा प्रजापतये जुह्वतीति दर्शनात् । तन्न । एतस्य दर्शनस्याऽऽघारविषयत्वात् । तस्माद्वाचैव होतव्यम् । यदस्येत्यनेन स्विष्टकृदाहुतिमग्नेरुत्तरार्धपूर्वार्धे जुहोति । इतराभिराहुतिभिरसंसक्तामिति वचनादतिहायेतरा आहुतीर्होतव्यम् । असंसक्ताऽसं[९३]सृष्टा । अत्रास्मिन्कर्मणि पुरस्तात्स्विष्टकृतः । एक आचार्याः । जयाश्चाभ्यातानाश्च जयाभ्यातानास्तांश्च राष्ट्रभृतश्च । इतिशब्दः समुच्चयार्थः । प्रकारार्थ इत्येके । जयानामभ्यातानानां राष्ट्रभृतामनन्तरमुपहोमत्वेनोपदेशाज्जयादीञ्जुह्वति प्रधानाहुतिसमीपे जुह्वति । अत्रेतिवचनं वेदाध्ययनार्थत्वेन मुख्य उपनयन एव यथा स्यान्न प्रायश्चित्तार्थोपनयन इत्येतदर्थम् । ननु प्रजापत इत्येषेत्यनन्तरमेव ([९४]चित्तं च स्वाहा चित्तिश्च स्वाहेत्यारभ्य ताभ्यः स्वाहेत्युत्तरामित्यन्तं सूत्रं पठित्वा यदस्य कर्मणोऽत्यरी रिचमित्यारभ्य राष्ट्रभृत इत्युपजुह्वतीत्येतदन्तं सूत्रमनन्तरं कर्तव्यम् । एवं च पुरस्तात्स्विष्टकृत इति वचनं न कर्तव्यमित्येतादृशं लाघवं परित्यज्य गौरवाङ्गीकरणं पुरस्तात्स्विष्टकृत एव उपहोमाः स्विष्टकृतमुत्तरं वेतिप्रदेशविकल्पो नात्र किं त्वनुष्ठानविकल्प एवेतिबोधनार्थम् । पुरस्तात्स्विष्टकृत इतिवचनं स्विष्टकृदुत्तरकालताव्यावृत्त्यर्थम् ।) अथ किमर्थं जयाभ्यातानानामेव पृथक्समासः, न राष्ट्रभृद्भिः सहेति, राष्ट्रभृतामपि सन्ति सहचारिण इति ख्यापनार्थम् । के ते । यद्देवा देवहेडनमित्यच्छिद्रकाण्डपठितमन्त्रकरणका होमास्तेषां साक्षादवचनाद्विकल्पः । विदधे च विकल्पेन यद्देवा देवहेडनमित्यनुवाकेन होमं चतुर्थं बौधायनः । जयादीनां प्रत्येकमनुक्रमणं ज्ञानार्थं विशेषविधानार्थं च । चित्तं च स्वाहा चित्तिश्च स्वाहेति यथापाठं त्रयोदश जयाञ्जुहोति । देवासुरा इत्यादि ब्राह्मणम् । चित्ताय स्वाहा चित्तये स्वाहेत्येवं चतुर्थ्यन्तैर्वा द्वादशभिर्जुहुयात् । अविकृतैव त्रयोदशी । एवमपि शाखान्तरेऽस्ति पाठ इत्यवगन्तव्यम् । अग्निरित्यष्टादशाभ्यातानाञ्जुहोति । अस्मिन्ब्रह्मन्नित्यादि देवहूत्यामित्यन्तमभ्यातानेष्वनुषजति । पितर इत्येतामाहुतिं प्राचीनावीती जुहोति उपतिष्ठते वाऽनेन मन्त्रेण प्राचीनावीती पितॄन् । अग्निमित्येके । तन्न, लिङ्गविरोधात् । ऋताषाडिति राष्ट्रभृतो जुहोति । द्वादशैते मन्त्रास्तेषु सप्तमोत्तमौ निरनुषङ्गावेकाहुतिकौ, अवशिष्टाः सानुषङ्गास्तेषु ये सानुषङ्गास्तानुक्त्वा तस्मै स्वाहेति पूर्वामाहुतिं जुहोति ताभ्यः स्वाहेत्युत्तरामाहुतिमित्यर्थः । अत्र त्रिविधेऽपि राष्ट्रभृन्मन्त्राणां विभागे दश पर्यायाः सप्तमोत्तमौ केवलाविति द्वाविंशतिमन्त्राः । तत्र ऋताषाडिति यथापाठमारभ्य तस्मै स्वाहेत्यन्ते पूर्वाहुतिः केवलं ताभ्यः स्वाहेत्यपराहुतिरित्येकः पक्षः । यथा, ऋताषाडृतधामाऽग्निर्गन्धर्वस्तस्यौषधयोऽप्सरस ऊर्जो नाम स इदं ब्रह्म क्षत्त्रं पातु ता इदं ब्रह्म क्षत्त्रं पान्तु तस्मै स्वाहा ताभ्यः स्वाहेति । एवमुत्तरत्र । ऋताषाडिति यथापाठमारभ्य तस्मै स्वाहेत्यन्ते पूर्वाहुतिः पुनर्ऋताषाडिति यथापाठमारभ्य ताभ्यः स्वाहेत्यपराहुतिरिति द्वितीयः पक्षः । यथा, ऋताषाडृतधामा० क्षत्त्रं पान्तु तस्मै स्वाहा । ऋताषाडृतधामा० क्षत्त्रं पान्तु ताभ्यः स्वाहेति । एवमुत्तरत्र । तृतीयः पक्षोऽग्निमुखप्रयोगे वक्ष्यते । सर्वोऽपि होमो यज्ञपुरुषस्य जिह्वायामेव कार्यः । अन्यथाकरणे दोषश्रवणात् ।

 तदाह संग्रहकारः--

"यत्र काष्ठं तत्र कर्णौ हुनेच्चेद्व्याधिकृन्नरः ।

 हुनेदित्यार्षम् ।

धूमस्थानं शिरः प्रोक्तं मनोदुःखं भवेदिह ।
यत्राल्पज्वलनं नेत्रं यजमानस्य नाशनम् ॥
भस्मस्थाने तु क्लेशः स्यात्स्थाननाशो धनक्षयः
अङ्गारे नासिकां विद्यान्मनोदुःखं विदुर्बुधाः ॥
यत्र प्रज्वलनं तत्र जिह्वा चैव प्रकीर्तिता ।
गजवाजिप्रणादी तु वह्निः शुभफलप्रदः" इति ।

 जिह्वानामान्याह स एव--

"काली कराली च मनोजवा च सुलोहिनी या च सुधूम्रवर्णा ।
स्फुल्लिङ्गिनी विश्वरुचिश्च देवी लेलायमाना इति सप्त जिह्वाः" इति ।

 ग्रन्थान्तरे--

"सुवर्णा कनका रक्ता कृष्णा चैव तु सुप्रभा ।
बहुरूपाऽतिरिक्ता च सप्त जिह्वाः प्रकीर्तिताः ॥
सुवर्णा वारुणी जिह्वा मध्यमा कनका स्मृता ।
रक्ता चैवोत्तरा जिह्वा कृष्णा याम्यदिशि स्मृता ॥
सुप्रभा पूर्वदिग्जिह्वा ह्यतिरक्ताऽग्निगोचरे ।
ऐशाने बहुरूपा च जिह्वास्थानान्यनुक्रमात् ॥
विवाहे वारुणी जिह्वा मध्यमा यज्ञकर्मसु ।
उत्तरा चोपनयने दक्षिणा पितृकर्मसु ।
प्राचीना सर्वकार्येषु आग्नेयी शान्तिकर्मसु ।
ऐशानी चोग्रकार्येषु ह्येतद्धोमस्य लक्षणम्" इति ।

 एतच्चाऽऽज्यहोमेष्वेव ज्ञेयम् । तत्राऽऽज्यस्य झटिति भस्मीभूतत्वेन तत्र द्वितीयाहुतिप्रक्षेपे दोषाभावात् । न चैतस्य बह्वाहुतिके कठिनद्रव्यहोमे नियमोऽसंभवात् । एता जिह्वा एकस्यामेवाऽऽज्यभागयोर्मध्यस्थायां ज्वालायां तत्तत्प्रदेशभेदेन ज्ञेयाः ।

 अथोत्तरपरिषेकादि । तदुक्तं गृह्ये--

  "अथ परिषिञ्चति यथा पुरस्तादन्वम स्थाः प्रासावीरितिमन्त्रान्तान्संनमति" इति ।

 अथाग्निं परिषिञ्चति यथा पुरस्तात् । अथशब्दः पूर्वैरतुल्यत्वज्ञाप नार्थः । तेन सर्वदर्विहोमाणामिदमङ्गं नोपनयनस्यैव । यथा पुरस्तादितिवचनं पूर्वधर्मातिदेशार्थम् । मन्त्रान्तश्च मन्त्रान्तश्च मन्त्रान्तश्च मन्त्रान्ताः । तानन्वम स्थाः प्रासावीरिति संनमति । ये त्वनुमन्यस्वेति तानन्वम स्था इति । यस्तु प्रसुवेति तं प्रासावीरिति । यथा--अदितेऽन्वम स्थाः । अनुमतेऽन्वम स्थाः । सरस्वतेऽन्वम स्थाः । देव सवितः प्रासावीरिति । तत्र मन्त्रानित्येव सिद्धेऽन्तग्रहणं देव सवितः प्रसुवेति यावदुक्तमेव समग्रो नाऽऽदिग्रहणमितिख्यापनार्थम् ।

 अत्र प्राक्परिषेचनात्केचन धर्मा उक्ता मातृदत्तेन--

 "परिधीन्दर्व्याऽङ्क्त्वा परिस्तरणेभ्यः किंचिद्बर्हिरादाय तस्य दर्व्यामग्रमाज्यधान्यां मध्यं मूलं चेति प्रस्तरवत्तूष्णीमङ्क्त्वा तृणमपादाय प्रज्ञातं निधाय प्रस्तरवत्तूष्णीमनुप्रत्दृत्य[९५] त्रिरङ्गुल्याऽन्ववदिश्य घ्राणं चक्षुः पृथिवीं च संस्पृश्य परिधीन्क्रमेण प्रहृत्य संस्रावेणाभिजुहोति । अथ परिषेकं कृत्वाऽग्रेणाग्निं प्रणीताः पर्याहृत्यापरेणाग्निं निधाय किंचिदुदकमासिच्य पूर्ववत्तूष्णीं मार्जयेत् । ततो ब्रह्मणे यथाश्रद्धं दक्षिणां ददाति ब्रह्मा प्रतिगृह्य प्रतिनिष्क्रामति" इति ॥

 परिधिप्रहरणोत्तरं प्रयोगवैजयन्त्यां नित्यत्वेन प्रायश्चित्तहोम उक्तः--

अनाज्ञातत्रयं त्वं नो अग्ने स त्वं नो अग्ने यत इन्द्र भयामहे
स्वस्तिदास्त्र्यम्बकमिदं विष्णुव्याहृतिसप्तकम्" इति [९६]

 अत्र मूलं चिन्त्यम् । परिध्यञ्जनादयस्तूष्णींमार्जनान्ताः परिषेकरहिता धर्माः कृताकृताः । एवं प्रायश्चित्तहोमोऽपि । ब्रह्मणे दक्षिणादानं तु नियतमेव ।

"यो ह्यदक्षिणेन यज्ञेन यजेत स यज्ञः प्रक्षामोऽनायुरुर्वरा
समृद्धा देया सा प्रायश्चित्तिः ।"

 इति सूत्रकृतर्त्विग्भ्यो दक्षिणाया अप्रदाने दोषस्योक्तत्वात् । प्रक्षामो दग्धः । अनायुरित्यत्र यजमानो भवेदिति शेषः । उर्वरा भूमिः । समृद्धा सस्यवती । अत्र दक्षिणाविशेषस्यानुक्तत्वाद्यथाश्रद्धं हेम देयं गौर्वा ।

 छान्दोग्यगोभिलगृह्ये तु--

"पूर्णपात्रं दक्षिणां ब्रह्मणे दद्यात्क सं चमसं वाऽन्नस्य पूरयित्वा
कृतस्य वाऽकृतस्य वाऽपि वा फलानामेवैतत्पूर्णपात्रमित्याचक्षते" इत्युक्तम् ।

 कृतमवहतम् । अकृतमनवहतम् ।

 होमान्ते वह्निपूजनमुक्तं स्मृत्यन्तरे--

“गन्धपुष्पादिभिर्वह्निं होमान्ते परिपूजयेत्” इति ।

 गन्धपुष्पादिभिरित्यनेन पूर्वोपचारनिवृत्तिः क्रियते । बहिरग्निमनुलक्षीकृत्य पूजयेत् ।

"त्रिभिश्चैव चतुर्भिश्च पञ्चभिः षड्भिरङ्गुलैः ।
सेचनं परिधींश्चैव स्तरणं पूजनं तथा" ।

 इति स्मृत्यन्तरे देशविशेषनियमोक्त्या पूजनबहिर्भावस्याप्युक्तत्वात् । शिष्टानां संप्रदायोऽप्येवम् । आगमशास्त्रे त्वग्नावेव पूजोक्ता । अयं प्रकारो वैदिकैर्नानुष्ठीयत इदानीम् । अग्निपूजन आरक्तगन्धपुष्पादि वर्जयेदित्यभियुक्ताः । दिव्यप्रकरणस्थाग्निपूजने रक्तगन्धपुष्पविधानात्तत्र न रक्तगन्धपुष्पनिषेधः । एतेन ज्ञायतेऽन्यत्राऽऽरक्तगन्धपुष्पनिषेध इति[९७] । इदं चाऽऽरक्ताक्षताद्युपलक्षणम् ।

 भस्मधारणं ब्रह्माण्डपुराणे--

"स्नात्वा पुण्ड्रं मृदा कुर्याद्धृत्वा चैव तु भस्मना ।
देवानभ्यर्च्य गन्धेन सर्वपापापनुत्तये" इति ।

 अत्राग्नियजमानयोर्मध्ये केनाप्यन्तरागमने कृते तत्प्रायश्चित्तमुच्यते ।
 तत्र पराशरप्रायश्चित्तकाण्डम्--

"द्वौ विप्रौ ब्राह्मणाग्नी वा दंपती गोद्विजोत्तमौ ।
अन्तरेण यदा गच्छेत्कृच्छ्रे सांतपनं चरेत्" इति ॥

 एतदकर्मकालविषयम् ।
 कर्मकाले तु विशेषस्तत्रैव--

"होमकाले तथा दोहे स्वाध्याये दारसंग्रहे ।
अन्तरेण यदा गच्छेद्द्विजश्चान्द्रायणं चरेत्" इति ॥

अग्निमुखप्रयोगः ।

 अथ प्रयोगः--कर्ताऽऽचम्य प्राणानायम्य पञ्चप्रस्थसिकताभिः शर्करास्थ्यादिवर्जिताभिः शुक्लाभिरनार्द्राभिर्होमानुसारेण हस्तमात्रमर्थपरिमाणाभिः सिकताभिर्बाहुमात्रमधिकं वा समचतुरश्रं प्राक्प्रवणमुदक्प्रवणं प्रागुदक्प्रवणं समं वा प्राक्प्रवणाद्यन्यतम एव देशे सुश्लक्ष्णं स्थण्डिलं विदध्यात् । प्राक्प्रवणत्वपक्षे पञ्चाङ्गुलोच्छ्रायः पश्चात्पुरस्ताच्चतुरङ्गुलोच्छ्रायः । उदक्प्रवणत्वपक्षे तर्जनीमध्यमान्यतरोर्ध्वाङ्गुलिप्रमाणं त्रेधा विभज्य तदेकांशपरिमितमंशं वर्धयित्वा तदंशचतुर्थांशं स्वचतुस्त्रिंशांशोनं तत्र संयोज्य तावत्परिमितोच्छ्रायो दक्षिणत ऊर्ध्वाङ्गु[९८]लिप्रमाणोच्छ्राय उत्तरतः । उदक्प्रवणत्वपक्षे प्राक्प्रवण[९९]त्वपक्षवदेव वोच्छ्रायः । प्रागुदक्प्रवणत्वपक्ष उत्तरदिशः प्रागर्धे पूर्वस्या दिश उत्तरार्धे चतुरङ्गुल उच्छ्रायः । इतरप्रदेशे पञ्चाङ्गुल उदक्प्रवणपक्षवद्वा । ततस्तत्स्थण्डिलमक्षतारङ्गवल्ल्यादिभिः परितोऽलंकृत्य गोमयेनोपलिप्य शुद्धोदकेन प्रोक्ष्यैकं फलं पुष्पं पर्णं कुशं वा[१००] ताम्रशकलयुतं गृहीत्वा तेन स्थण्डिलमध्यप्रदेशे प्रादेशमात्रीः षडङ्गुलान्तरालास्तिस्रः प्राचीरुदगपवर्गास्तथैव तिस्रश्चोदीचीः प्रागपवर्गा रेखा लिखित्वा तद्रेखालेखनसाधनमुत्तरतो निरस्याप उपस्पृश्य यस्मिन्कस्मिंश्चिन्महति पात्रे शुद्धोदकं गृहीत्वा तदर्धेन कृत्स्नं स्थण्डिलमवोक्षति । न्युब्जेन विरलमुष्टिना जलसेचनमवोक्षणम् । ततोऽवशिष्टमध जलमग्न्यायतनस्योत्तरतः पुरतो वोत्सिच्योदकस्पर्शप्रणीताप्रोक्षणपरिषेकादिकार्यार्थमन्यच्छुद्धमुदकं तस्मिन्नेव पात्र आनीय तत्पात्रं स्वस्योत्तरतः संस्थापयेत् । उत्सेचनाभावेऽप्यावश्यकत्वात्कार्यमेवेदम् । अवोक्षणपात्र आनयनं नास्ति तस्यैवाभावात् । ततोऽभ्र्याद्यन्यतमेन खनित्रेणोद्धत्यावोक्षति । उद्धननं सकृत्खनित्रप्रहरणमात्रम् । ततो वाग्यतो भूत्वा तैजसेनासंभवे लेपितेन नूतनेन मृन्मयेन वा पात्रयुग्मेन संपुटीकृत्य सुवासिन्या श्रोत्रियागारादभावे स्वगृहाद्वा प्रदीप्तबह्वङ्गारमयं निर्धूममग्निमाहृतं स्थण्डिलादाग्नेय्यां निधाय, समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती, अग्निप्रतिष्ठापने विनियोगः । भूर्भुवः सुवरित्यात्माभिमुखं पाणिभ्यामुल्लिखितदेशे द्वितीयाविभक्त्यन्ततत्तत्कर्मप्रयुक्तनामोच्चारणपूर्वकमग्निं प्रतिष्ठापयामीति प्रतिष्ठापयेत् । प्रणवान्ताभिर्व्याहृतिभिः स्थापनपक्षे प्रजापतिर्बृहतीत्यनन्तरं, प्रणवस्य परब्रह्मर्षिः परमात्माऽग्निर्वा देवता दैवी गायत्री छन्द इत्यधिकम् । ततः प्रोक्षितेन्धनानि प्रक्षिप्य वेणुधमन्या प्रबोध्योत्थाय, जुष्टो दमूना इत्यस्य विश्वे देवा अग्निस्त्रिष्टुप्, प्रतिष्ठापिताग्न्युपस्थाने विनियोगः "ॐ जुष्टो दमूना० भोजनानि" । इत्यग्निमुपस्थायोपविश्य--चत्वारि शृङ्गेति मन्त्रस्य याज्ञिक्यो देवता उपनिषदोऽ ग्निस्त्रिष्टुप्, अग्निध्याने विनियोगः-- "ॐ चत्वारि शृङ्गा० आविवेश । सप्तहस्तश्चतुःशृङ्गः०[१०१]० । तोमरं व्यजनं वामैर्घृतपात्रं च धारयन् । आत्माभिमुखमासीन एवंरूपो हुताशनः" इति ध्यायेत् । यत्राग्निमुपसमाधायेति सूत्रकृद्वदति तत्रोद्धननादिना संस्कृते देशेऽग्निमाहृत्य स्थापयित्वा होमः कार्यः । यत्र न वदति तत्र स्वस्थानेऽवस्थिते परिस्तरणादिविधिनैव कार्यः । अग्निज्वलनमुपसमाधानं सिद्धानुवादमेके मन्यन्ते । तेषामौपासने कर्तव्यानां समिन्धनादीतरत्रोद्धननादीति द्रष्टव्यम् । स्थलान्तरे केनचिन्निमित्तेन नीतस्य प्रत्यक्षस्याग्नेः संस्थापनेऽवरोपविधावग्न्यनुगमनप्रायश्चित्तहोमविधौ चोद्धननादि कर्तव्यमेव ।

अथाऽऽचारप्राप्तमन्वाधानम् ।

 तद्यथा--स्थूलसमित्त्रयमादाय "श्रद्ध एहि सत्येन त्वाऽऽह्वयामि" ।

 इति त्रिरुक्त्वा, "याः पुरस्तात्प्र० श्रद्धां यज्ञमारभे । आकूत्यै त्वा० निविष्टम्" इति पठित्वा हृदयालम्भमुदकस्पर्शं प्राणायामं च विधायामुकहोमे या यक्ष्यमाणा देवतास्ताः सर्वाः परिग्रहीष्यामि जातवेदसमग्निमिध्मेन यक्ष्ये,

 आधारहोमे--प्रजापतिं मनुमिन्द्रं चैकैकयाऽऽज्याहुत्या यक्ष्ये, आज्यभागहोमे, अग्निं सोमं चैकैकयाऽऽज्याहुत्या यक्ष्ये, सामान्यप्रधानहोमे-- जातवेदसमग्निं स राधनीं स राधनीं देवीं प्रसाधनीं देवीमग्निं वायुं सूर्यं प्रजापतिं चैकैकयाऽऽज्याहुत्या यक्ष्य इत्युक्त्वा यथोक्ताः प्रधानदेवता द्वितीयया विभक्त्योल्लिख्य तृतीयया विभक्त्या यथोक्तद्रव्यमुल्लिख्य यक्ष्य इति वदेत् । अङ्गहोमे वरुणं[१०२] द्वाभ्यामाज्याहुतिभ्यां यक्ष्ये, अग्निं वरुणं चैकैकयाऽऽज्याहुत्या यक्ष्ये, अयासमग्निं प्रजापतिं[१०३] चैकैकयाऽऽज्याहुत्या यक्ष्ये ।

 [१०४]योपहोमे--चित्तं चित्तिमाकूतमाकूतिं विज्ञातं विज्ञानं मनः शक्वरीर्दर्शं पूर्णमासं बृहद्रथंतरं प्रजापतिं चैकैकयाऽऽज्याहुत्या यक्ष्ये ।

 अभ्याता[१०५]नोपहोमे--अग्निं भूतानामधिपतिमिन्द्रं ज्येष्ठानामधिपतिं यमं पृथिव्या अधिपतिं वायुमन्तरिक्षस्याधिपतिं सूर्यं दिवोऽधिपतिं चन्द्रमसं नक्षत्राणामधिपतिं बृहस्पतिं ब्रह्मणोऽधिपतिं मित्रं सत्यानामधिपतिं वरुणमपामधिपतिं समुद्रं स्रोत्यानामधिपतिमन्नं साम्राज्यानामधिपतिं सोममोषधीनामधिपतिं सवितारं प्रसवानामधिपतिं रुद्रं पशूनामधिपतिम् । अत्रोदकस्पर्शः । त्वष्टारं रूपाणामधिपतिं विष्णुं पर्वतानामधिपतिं मरुतो गणानामधिपतींश्चैकैकयाऽऽज्याहुत्या यक्ष्य इत्युक्त्वा प्राचीनावीती पितॄन्पितामहान्परानवरांस्ततांस्ततामहा[१०६]ने[१०७]कयाऽऽज्याहुत्या यक्ष्य इत्युक्त्वा यज्ञोपवीत्यप उपस्पृशेत् । उपस्थानपक्षे पितॄन्पितामहानित्येतस्य वाक्यस्य नोल्लेखः ।

 राष्ट्रभृदुपहोमे--ऋतासाहमृतधामानमग्निं गन्धर्वमोषधीरप्सरस ऊर्जः संहितं विश्वसामानं सूर्यं गन्धर्वं मरीचीरप्सरस आ[१०८]यूः सुपुम्नं सूर्यरश्मिं चन्द्रमसं गन्धर्वं नक्षत्राण्यप्सरसो[१०९] बेकुरीः, भुज्युं सुपर्णं यज्ञं गन्धर्वं दक्षिणा अप्सरसः स्त[११०]वाः प्रजापतिं विश्वकर्माणं मनो गन्धर्वमृक्सामान्यप्सरसो [१११]वह्नीः, इषिरं विश्वव्यचसं वातं गन्धर्वमपोऽप्सरसो मुदाः, भुवनस्य पतिं परमेष्ठिनमधिपतिं मृत्युं गन्धर्वं विश्वमप्सरसो भूः सुक्षितिं सुभूतिं भद्रकृतं सुवर्वन्तं पर्जन्यं गन्धर्वं विद्युतोऽप्सरसो रुचः, दूरेहेतिममृडयं मृत्युं गन्धर्वं प्रजा अप्सरसो भीरूश्चारुं कृपणकाशिनं कामं गन्धर्वमाधीरप्सरसः शोचयन्तीः, भुवनस्य पतिं चैकैकयाऽऽज्याहुत्या यक्ष्य इत्युल्लिखेत् । अथवा जयदेवता एकैकयाऽऽज्याहुत्या यक्ष्ये, अभ्यातानदेवता एकैकयाऽऽज्याहुत्या यक्ष्ये, राष्ट्रभृद्देवता एकैकयाऽऽज्याहुत्या यक्ष्य इति समुदितरूपेणोल्लेखः ।

 स्विष्टकृद्धोमे--अग्निं स्विष्टकृतमेकया हुतशेषाहुत्या यक्ष्ये ।

 प्रायश्चित्तहोमे-- [११२]अग्निं तिसृभिराज्याहुतिभिर्यक्ष्ये, अग्निं वरुणं चैकैकयाऽऽज्याहुत्या यक्ष्ये । अग्निं वरुणं चैकैकयाऽऽज्याहुत्या यक्ष्ये । इन्द्रं मघवन्तमिन्द्रं वृत्रहणं त्र्यम्बकं विष्णुमग्निं वायुं सूर्यं बृहस्पतिं वरुणमिन्द्रं विश्वान्देवांश्चैकैकयाऽऽज्याहुत्या यक्ष्ये ।

 संस्रावहोमे--वसून्रुद्रानादित्यान्संस्रावाज्येन यक्ष्ये । एता देवता यक्ष्य इत्युल्लिखेत् । सद्यःपक्षे सद्यो यक्ष्य इति । अनेकदिनसाध्ये कर्मणि त्वेता देवता अद्यतनदिनप्रभृतिषु दिवसेषु यक्ष्ये यष्टाह इति वदेत् । श्वःप्रभृतिषु दिवसेषु केवलं यष्टाह इत्येव । प्रधानं कर्म श्व एव चेत्तदा श्वो यष्टाह इत्येव वदेत् । यक्ष्ये यष्टाह इति प्रयोगो यजमाने कर्तरि । आचार्ये कर्तरि तु यक्ष्यामि यष्टास्मीत्येवं प्रयोगः । सूत्रानुक्तत्वात्प्रायश्चित्तहोमसंस्रावहोमाकरणपक्षे नैतयोरुल्लेखः ।

 ततः समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती, अन्वाधानसमिदाधाने विनियोगः-- "ॐ भूर्भुवः सुवः" इत्यन्वाधानसमिधोऽग्नावादध्यात् । स्वाहाकारमप्यत्रेच्छन्ति केचित् । अस्मिन्पक्षे प्रजापतय इदं न ममेति त्यागः । स्थूलसमित्त्रयमादायेत्यारभ्य समिदाधानान्तं कर्माऽऽचारप्राप्तं शिष्टैः परिगृहीतत्वाल्लिखितम् ।

 ततोऽग्निक्षेत्रात्तद्बाह्यमेखलातो वा बहिः समन्ताद्दशाङ्गुलमितं पञ्चाङ्गुलमितं वा स्थलं त्यक्त्वा प्रागादिदिक्षु प्रागग्रैर्दभैः परिस्तृणाति । ह्रस्वा उदगपवर्गाः पश्चात्पुरस्ताच्च भवन्ति । अथवा पुरस्तात्पश्चाच्चोदगग्रा दर्भाः । दक्षिणत उत्तरतश्च प्रागग्राः । पौरस्त्यपाश्चात्यपरिस्तरणद[११३]र्भमूलानामुपरि दक्षिणपरिस्तरणम् । उत्तरपरिस्तरणं तु तदग्राणामधस्तात् । परिस्तरणे चत्वारश्चत्वारस्त्रयस्त्रयो वा दर्भाः । प्रागग्रपरिस्तरणपक्षे त्वपरिमिता एव । प्रागुदगग्रपक्ष एवायमधरोत्तरभावः ।

 ततो दक्षिणेनाग्निं ब्रह्मायतने दर्भान्बहुलान्प्रागग्रान्स्तृणाति । आचार्यस्य होमकर्तृत्वे यजमानोपवेशनार्थमपि ब्रह्मायतनस्य पश्चादासनं[११४] कल्पयति । ततो मायि गृह्णामि यो नो अग्निरिति द्वयोरग्निरग्निस्त्रिष्टप्, आत्मन्यग्निग्रहणे विनियोगः-- "ॐ मयि गृह्णाम्यग्रे अग्नि ० परागात्" इति द्वाभ्यामात्मन्यग्निं गृह्णीते । आत्मन्यग्निर्गृहीत इति विभाव्य जपतीत्यर्थः ।

 ततोऽग्नेरुत्तरतः समीप एवोदगग्रान्दर्भान्संस्तीर्य तेषु यथाप्रयोजनं साधारणानि वैशेषिकाणि पात्राणि द्रव्याणि च सकृदेव यथोपपादं वाऽऽसादयेत् । तत्र यज्ञियदर्भाणामग्रभागं प्रादेशमात्रं बर्हिरर्थं प्रच्छिद्याप उपस्पृश्य त्रिधातुना पञ्चधातुना वा शुल्बेन तद्बद्ध्वा पात्रेष्वासादयेत् ।

 ततो विषमसंधिमत्समसंधिमद्वा प्रदक्षिणं शुल्बं कृत्वा तदुदगग्रं वितत्य तेन पालाशं खादिरं वैकविंशतिदारुकमिध्मं बद्ध्वाऽऽसादयेत् । अथवा दर्व्यासादनात्प्रागिध्माबर्हिषोः संनहनमनधोनिधानं च कृत्वाऽवज्वलनदर्भासादनात्प्रागेतयोः पात्रेष्वासादनं कुर्यात् । तत्रेध्मस्त्रिभिः परिधिभिः सहैकविंशतिदारुको भिन्नपरिधिक आहुतिसंख्याकदारुको वाऽरत्निमात्रः प्रादेशमात्रो वा । परिधयः शम्पाकृतिकाः शुष्का आर्दा वा यस्य कस्यचिद्यज्ञियस्य वृक्षस्य । अत्रैव परिधीनां शम्याकृतित्वसंपादनम् । तत्र मध्यमः परिधिर्बाहुमूलमारभ्यानामिकाग्रान्तप्रमाणः । बाहुमूलमारभ्य मध्यमाग्रान्तप्रमाणो मध्यमात्सूक्ष्मश्च दक्षिणः । बाहुमूलमारभ्य कनिष्ठाग्रान्तप्रमाणो दक्षिणात्सूक्ष्मश्चोत्तरः । अथवा सर्वेऽपि समप्रमाणाः कार्याः । संस्पर्शस्तूभयपक्षेऽप्यावश्यकः । एतच्च परिमाणमरत्निमात्रायतनविषयम् । अधिके[११५] तु दक्षिणपरिस्तरणानामुपरि मूलमुत्तरपरिस्तरणानामुपर्यग्रं यावता परिमाणेन भवति तावत्परिमितः पश्चिमपरिधिः । इतरौ तु तदनुरोधेन ।

 ततोऽग्न्यायतनादी(दै)शान्याममुकप्रवरान्वितामुकगोत्रोत्पनामुकशाखाध्यायिनममुकशर्माणममुककर्मणि ब्रह्माणं त्वामहं वृण इति कर्मकुशलं ब्रह्मिष्ठं ब्रह्माणं यजमानो वृणुयात् । ब्रह्मा वृतोऽस्मि कर्म करिष्यामीत्युक्त्वा यज्ञोपवीती द्विराचम्योत्तरेण पात्राणि गत्वाऽग्निहोमकर्त्रोर्मध्येन दक्षिणेन[११६] पादेन दक्षिणाऽतिक्रम्योपवेशनार्थमास्तृतेभ्यो दर्भेभ्यस्तृणमुत्तरतो निरस्याप उपस्पृश्याग्निमभिमुख उपविशति । इत आरभ्य कर्मकाले वाग्यतः कर्ममना भवेत् । यदि वाग्यमलोपस्तदा "इदं विष्णुः" इति [११७]वैष्णव्यृग्जपं "भूर्भुवः सुवः" इति समस्तव्याहृतिजपं च कुर्यात् । यस्मिन्कर्मणि होमार्थमन्यो वृतो भवति तत्र यजमानोऽपि ब्रह्मण्युपविष्टे तस्य पश्चाद्भागे होमकर्त्रा कल्पितादासनात्तृणं निरस्याप उपस्पृश्याग्निमभिमुख उपविशेत् । ब्रह्मालाभे तदासने छत्रं कूर्चं यज्ञोपवीतं दण्डं कमण्डलुं वा स्थापयेत् । ततो भूमौ काष्ठं तृणं वाऽन्तर्धाय समौ साग्रावन्तर्गर्भरहितौ दर्भावग्रे प्रादेशमात्राववशेषयन्धृत्वा तत्र काष्ठेनासिदेन वा छिनत्ति न नखेन । अप उपस्पृश्य तयोर्मूलमारभ्याग्रपर्यन्तं सोदकेन हस्तेनानुमार्ष्टि । ततः प्रणीतापात्रं गृहीत्वा त्रिः प्रक्षाल्य प्रागग्रे पवित्रे तस्मिन्निधाय किंचिदुदकमानीय पृथिवी करणत्वेन ध्यायन्पुनरुदकेनोपबिलं पूरयित्वाऽङ्गुष्ठोपकनिष्ठिकाभ्यामुदगग्रे सग्रन्थिके पवित्रे धृत्वोत्तानाभ्यां प्रागग्राभ्यां पाणिभ्यां प्रणीतापात्रस्था अपस्त्रिरुत्पूय सव्यपाणिना प्रणीतापात्रं धृत्वा दक्षिणेन तत्पात्रमपिधाय नासिकासमं धारयन्नस्कन्दयन्नुत्तरेणैव हृत्वोत्तरेणाग्निं दर्भेषु सादयित्वोदगग्रैर्दर्भैरपिदधाति । ततस्ते पवित्रे[११८] अप्रक्षालिते एव प्रोक्षणीपात्र[११९] उदगग्रे निधाय तत्पात्रमद्भिः पूरयेत् । नात्र किंचिदुदकानयनं पृथिव्याः करणत्वेनाभिध्यानं पुनरुदकेनोपबिलपूरणं च प्रणीतावद्भवति । ततस्ता अपः पूर्ववदुत्पूय बिलवन्ति पात्राण्युत्तानानि कृत्वेध्मं विस्त्रस्य प्राक्संस्थं त्रिः सर्वाभिरद्भिः सपवित्रेण हस्तेन सर्वाणि पात्राणि प्रोक्षति । अमुष्टीकृतेनोत्तानेन हस्तेन जलसेचनं प्रोक्षणम् ।

 ततः स्रुवं दर्वीमासादितान्साग्रान्संमार्गदर्भांश्च गृहीत्वाऽग्नौ दक्षिणहस्तेनैव सहैव निष्टप्य दर्वीं दर्भेषु निधाय सव्यहस्ते स्रुवं गृहीत्वा दक्षिणेन हस्तेन दर्भाग्रैरन्तरतोऽभ्याकारं सर्वतो बिलमभिसंमार्ष्टि दर्भमूलैर्दण्डम् । ततः पुनर्निष्टप्य दर्भेषु निधाय दर्वीं तथैव गृहीत्वा दर्भाग्रैः प्राक्संस्थं पुष्करप्रदेशं संमृज्य दर्भमध्यैः प्रत्यक्संस्थं पुष्कराधोभागं दर्भमूलैर्दण्डं च संमृज्य पुनर्निष्टप्य स्रुवस्योत्तरतो दर्भेषु निदधाति । संमृष्टासंमृष्टपात्राणां संसर्जनं न कार्यं कृत्स्नसंमार्जनक्रियासमाप्तिपर्यन्तमिति केचित् । प्रयोगसमाप्तिपर्यन्तमित्यन्ये । तत्र यदि संस्पर्शः "पुनरेव निष्टप्य संमृज्यात्स्वेन मन्त्रेण" इति भारद्वाजोक्तेरसंमृष्टपात्रसंस्पर्शे पुनः संमार्ग एव प्रायश्चित्तम् । ततः संमार्गदर्भानभ्युक्ष्याग्नावनुप्रहरति । मुष्टीकृतेनावाचीनेन हस्तेन जलसेचनमक्ष्युक्षणम् । केवलाज्यहोमतन्त्रे न स्रुवः ।

 ततो गव्यमाज्यं बहिरेव द्रवीकृत्य पवित्रान्तर्हितायामपरेणाग्न्यायतनं दर्भेषु स्थापितायामाज्यस्थाल्यां गालितमाज्यं प्रभूतं निरुप्योपवेषेणोत्तरपरिस्तरणाद्बहिरुदग्दिक्स्थानङ्गारान्निरुह्य व्यन्तान्कृत्वा तेष्वधिश्रित्याऽऽयतनस्थाग्नौ प्रदीपितैर्दर्भैरवाचीनज्वालैरुपरि ज्वलयित्वा तान्सव्ये गृहीत्वा दक्षिणहस्तेनाङ्गुष्ठपर्वमात्रं दर्भाग्रद्वयमाज्ये प्रत्यस्य तैरेव दर्भैरन्यैर्वा प्रज्वालितैस्त्रिः पर्यग्नि कृत्वा तानपि दर्भानुत्तरतो बहिर्निरस्याप उपस्पृशेत् । यदा तु निरूढाग्नौ प्रदीपनं तदा तत्रैव निरसनं न बहिः ।

 तत आज्यं कर्षन्निवोदगुद्वास्योपवेषेणाङ्गारानायतनस्थानौ मेलयित्वोदगग्रे पवित्रे धृत्वा ताभ्यामाज्ये पश्चाद्भागमारभ्य प्राग्भागं नीत्वा पुनः पश्चाद्भागमानीयोत्पुनीयादित्येवं त्रिरुत्पूय पवित्रयोर्ग्रन्थिं विस्रस्य पवित्रे अग्नावभ्याधाय शम्याकृतिभिः परिधिभिरग्निं परिदधाति । अपरेणाग्निमुदीचीनकुम्भं मध्यमं दक्षिणेनाग्निं प्राचीनकुम्बं दक्षिणमुत्तरेणाग्निं प्राचीनकुम्बमुत्तरम् । तत्र दक्षिणस्य परिधेर्मध्यमपरिधिमूलस्योपरि मूलं कर्तव्यम् । उत्तरस्य मध्यमपरिध्यग्रस्याधः[१२०] परिस्तरणानामुपर्येव परिधिपरिधानं का[१२१]र्यम् ।  ततोऽग्नेः पश्चाद्भूमिं प्रोक्ष्योदगग्रं बर्हिःसंनहनशुल्बं तत्राऽऽस्तीर्य तदुपरि प्रागामुदगपवर्गं बर्हिरास्तीर्य तत्र स्रुवदर्व्याज्यस्थालीः क्रमेणोदक्संस्थं निदधाति । चरुहोमश्वेदत्र शृतं चरुमभिघार्योदगुद्वास्याग्नेः पश्चादाज्यस्थाल्या उत्तरतो बर्हिष्यासादयति । ततोऽग्न्यायतनस्य समन्तादङ्गुलत्रयपरिमितं स्थलं त्यक्त्वा परिषिञ्चति । अदितेऽनुमन्यस्वेति चतुर्णां मन्त्राणां वामदेव ऋषिरदितिरनुमतिः सरस्वती देवः सवितेतिक्रमेण चतुर्णां देवताः, यजूंषि, परिषेके विनियोगः--" "अदितेऽनुमन्यस्व" इति दक्षिणतः प्राचीनं परिषिञ्चति । "अनुमतेऽनुमन्यस्व" इति पश्चादुदीचीनम् । "सरस्वतेऽनुमन्यस्व" इत्युत्तरतः प्राचीनम् । "देव सवितः प्रसुव" इत्यैशानीमारभ्य सर्वतः प्रदक्षिणं परिषिञ्चति ।

 ततो दक्षिणेन पाणिना दार्व्याऽऽज्यस्थाल्याज्यमादाय भूमिष्ठमिध्मं मूलमध्याग्रप्रदेशेष्वङ्क्त्वा दर्वीं स्वस्थाने निधाय दक्षिणहस्तेनेध्ममादाय मूलमध्यभागयोर्मध्ये तं धृत्वाऽयं त इध्म इत्यस्य वामदेवो जातवेदा अग्निः स्वराट् त्रिष्टुप्, इध्माभ्याधाने विनियोगः-- "अयं त इध्म आत्मा० मेधय स्वाहा" इति सव्यपाण्यन्वारब्धेन दक्षिणेन हस्तेन प्रदीप्ताग्नौ प्रागग्रमभ्यादधाति । जातवेदसेऽग्नय इदं० । सर्वेषु त्यागेष्वस्यै देवताया इदं पुरोवर्ति द्रव्यमुत्सृजे न ममेत्यर्थमनुसंदध्यात् । अन्यकर्तृकेऽपि होमादौ सर्वे त्यागा यजमानेनैव कार्याः ।

 ततो दर्व्याऽऽज्यं गृहीत्वोत्तरं परिधिसंधिमनुलक्ष्य तेन दर्वीं प्रवेश्य-- प्रजापतये मनवे स्वाहेत्यस्य वामदेवः प्रजापतिर्मनुर्यजुः, पूर्वाघारहोमे विनियोगः--"प्रजापतये मनवे स्वाहा" इति प्रजापतिं मनसा ध्यायन्मनसैव मन्त्रमुच्चारयन्वायव्यकोणमारभ्याऽऽग्नेयकोणपर्यन्तं संततमृजुं दीर्घं जुहोति । प्रजापतये मनव इदं० । पुनर्दर्व्याऽऽज्यं गृहीत्वा दक्षिणं परिधिसंधिमनुलक्ष्य तेन दर्वीं प्रवेश्येन्द्राय स्वाहेत्यस्य वामदेवो विश्वे देवा[१२२] इन्द्रो वा यजुः, उत्तराघारहोमे विवियोगः--" इन्द्राय स्वाहा" इति मन्त्रं पठन्नैर्ऋतकोणमारभ्यैशानकोणपर्यन्तं संततमृर्जुं दीर्घमासीन एव जुहोति । इन्द्रायेदं० । उभयत्र सर्वेषामिध्मकाष्ठानामाघाराज्य[१२३]संस्पर्शः । यदि शीतवशेन कठिनं [१२४]चेदाज्यं तदाऽऽघारसांतत्यार्थं प्रकृतकर्मसंबन्ध्यग्निसमीपस्थापनेन विलीनं कुर्यात् । प्रायौगिकास्तु ताम्रादिनिर्मितेन तदग्निसंतप्तेन दण्डेन विलीनं  कुर्वन्ति तद्बहिरग्न्यायतनतद्दण्डप्रविष्टतदग्न्यवयवनाशादिदूषणापत्तेरन्याय्यम् । इत्यद्या रावाघार्य--

 अग्नये स्वाहा सोमाय स्वाहे[१२५]त्यनयोर्वामदेव ऋषिः, अग्निः सोम इति क्रमेण देवते, यजुषी, आज्य[१२६]भागहोमे विनियोगः-- अग्नये स्वाहा । अग्नावुत्तरार्धपूर्वार्धे जुहोति । अग्नय इदं० । सोमाय स्वाहा । अग्नौ दक्षिणार्धपूर्वा[१२७]र्धे जुहोति । इत्याज्यभागौ हुत्वा तावन्तरेणेतरा आहुतीस्तत्तत्कर्मविहितजिह्वायां ज्वालामध्य एव वा जुहोति । युक्तो वहेत्यस्य वामदेवो जातवेदा अग्निस्त्रिष्टुप्, या तिरश्चीत्यस्य वामदेवः स राधन्यनुष्टुप्, स राधन्यै देव्यै स्वाहा प्रसाधन्यै देव्यै स्वाहेत्यनयोर्वामदेव ऋषिः सा राधनी देवी प्रसाधनी देवीति क्रमेण देवते यजुषी, सामान्यप्रधानाज्यहोमे विनियोगः-- "युक्तो वह जातवेदः० नेम स्वाहा" जातवेदसेऽग्नय इदं० । "या तिरश्ची० नीं यजे स्वाहा" स राधन्या इदं० । "स राधन्यै देव्यै स्वाहा" स राधन्यै देव्या इदं० । "प्रसाधन्यै देव्यै स्वाहा" प्रसाधन्यै देव्या इदं० । व्यस्तानां व्याहृतीनामग्निर्ऋषिः समस्तव्याहृतीनां प्रजापतिर्ऋषिः, अग्निवायुसूर्यप्रजापतयः क्रमेण देवताः, गायत्र्युष्णिगनुष्टुब्बृहत्यश्छन्दांसि, सामान्यप्रधानहोमे विनियोगः-- "ॐ भूः स्वाहा" अग्नय इदं० । "ॐ भुवः स्वाहा" वायव इदं० । "ॐ सुवः स्वाहा" सूर्यायेदं० । "ॐ भूर्भुवः सुवः स्वाहा" प्रजापतय इदं० ।

 ततस्तत्तत्कर्मणो वैशेषिकप्रधानहोमं कुर्यात् ।

 तत उत्तराण्यङ्गानि । इमं मे वरुणेत्यनयोर्विश्वे देवा ऋषयो वरुणो देवता प्रथमस्य गायत्री छन्दः, द्वितीयस्य त्रिष्टुप् । त्वं नो अग्न इति द्वयोर्विश्वे देवा ऋषयः । अग्निर्वरुणश्च देवता त्रिष्टुप्छन्दः । त्वमग्ने अयासीत्यस्य विश्वे देवा अया अग्निरनुष्टुप् । प्रजापत इत्यस्य प्रजापतिर्विश्वे देवा वा प्रजापतिस्त्रिष्टुप् । उत्तराङ्गहोमे विनियोगः-- "ॐ इमं मे वरुण० चक्रे स्वाहा " वरुणायेदं० । "ॐ तत्त्वा यामि० मोषीः स्वाहा" वरुणायेदं० । "ॐ त्वं नो अग्ने० स्मत्स्वाहा" अग्नये वरुणाय चेदं० । "ॐ स त्वं नो० न एधि स्वाहा" अग्नये वरुणाय चेदं० । "ॐ त्वमग्ने अ० षज स्वाहा" अयसेऽग्नय इदं० । प्रजापते० यीणा स्वाहा" प्रजापतय इदं० । इत्यङ्गहोमः ।

 जयोपहोममन्त्राणां विश्वे देवा लिङ्गोक्ता देवता यजूंषि, उत्तराङ्गभूतजयोपहोमे विनियोगः-- "ॐ चित्तं च स्वाहा" चित्तायेदं० । "ॐ चित्तिश्च स्वाहा" चित्तय इदं० । चित्त्या इदमिति वा । "ॐ आकूतं च स्वाहा" आकूतायेदं० । "ॐ आकृतिश्च स्वाहा" आकूतय इदं० । आकूत्या इदमिति वा । "ॐ विज्ञातं च स्वाहा" विज्ञातायेदं० । " "ॐ विज्ञानं च स्वाहा" विज्ञानायेदं० । "ॐ मनश्च स्वाहा" मनस इदं० । "ॐ शक्वरीश्च स्वाहा" "शक्वरीभ्य इदं० । "ॐ दर्शश्च स्वाहा" दर्शायेदं० । "ॐ पूर्णमासश्च स्वाहा" पूर्णमासायेदं० । "ॐ बृहच्च स्वाहा" बृहत इदं० । "ॐ रथंतरं च स्वाहा" रथंतरायेदं० । "ॐ प्रजापतिर्जया० भूव स्वाहा" प्रजापतय इदं० । अथवा चित्ताय स्वाहा, चित्तये स्वाहा, आकूताय स्वाहा, आकूतये स्वाहा, विज्ञाताय स्वाहा, विज्ञानाय स्वाहा, मनसे स्वाहा, शक्वरीभ्यः स्वाहा, दर्शाय स्वाहा, पूर्णमासाय स्वाहा, बृहते स्वाहा, रथंतराय स्वाहा, इति चतुर्थ्यन्तैर्होमः । यथालिङ्गं त्यागः । अविकृत एव त्रयोदशो मन्त्रः ।

 अभ्यातानोपहोममन्त्राणां विश्वे देवा लिङ्गोक्ता देवता यजूंषि, उत्तराङ्गभूताभ्यातानोपहोमे विनियोगः-- "ॐ अग्निर्भूतानामधिपतिः स माऽवत्वस्मि० त्या स्वाहा" अग्नये भूतानामधिपतय इदं० । "ॐ इन्द्रो ज्येष्ठानाम०" इन्द्राय ज्येष्ठानामधिपतय इदं० । "ॐ यमः पृथिव्या अधि०" यमाय पृथिव्या अधिपतय इदं० । "ॐ वायुरन्तरिक्षस्याधि०" वायवेऽन्तरिक्षस्याधिपतय इदं० । "ॐ सूर्यो दिवोऽधि०" सूर्याय दिवोऽधिपतय इ० । "ॐ चन्द्रमा नक्षत्राणामधिपतिः०" चन्द्रमसे नक्षत्राणामधिपतय इदं० । "ॐ बृहस्पतिर्ब्रह्मणोऽधि०" बृहस्पतये ब्रह्मणोऽधिपतय इदं । "ॐ मित्रः सत्यानामधिपतिः०" मित्राय सत्यानामधिपतय इदं० । "ॐ वरुणोऽपामधि०" वरुणायापामधिपतय इदं० । "ॐ समुद्रः स्रोत्यानामधि०" समुद्राय स्रोत्यानामधिपतय इदं० । "ॐ अन्न साम्राज्यानामधिप०" अन्नाय साम्राज्यानामधिपतय इदं० । "ॐ सोम ओषधीनामधि०" सोमायौषधीनामधिपतय इदं० । "ॐ सविता प्रसवानामधि०" सवित्रे प्रसवानामधिपतय इदं० । "ॐ रुद्रः पशूनामधि०" रुद्राय पशूनामधिपतय इदं० । अत्रोदकस्पर्शः । "ॐ त्वष्टा रूपाणामधि०" त्वष्ट्रे रूपाणामधिपतय इदं० । "ॐ विष्णुः पर्वतानामधिपतिः" "विष्णवे पर्वतानामधिपतय इदं० । "ॐ मरुतो गणानामधिपतयस्ते माऽवन्त्व०" मरुद्भ्यो गणानामधिपतिभ्य इदं० । ततः प्राचीनावीती भूत्वा "पितरः पितामहाः परे० माऽवत । अस्मि०" पितृभ्यः पितामहेभ्यः परेभ्योऽवरेभ्यस्ततेभ्यस्ततामहेभ्य इदं० ।

 ततो यज्ञोपवीत्यप उपस्पृशेत् । उपस्थानपक्षेऽपि प्राचीनावीतं न स्वाहाकारत्यागौ । एतच्च जीवत्पित्रादेरपि भवत्यनूहेनैव । अन्वारम्भकर्ताऽपि प्राचीनावीतं कार्यम् । अत्र पत्नी नान्वारभते पितृकर्मत्वात् ।  राष्ट्रभृन्मन्त्राणां विश्वे देवा लिङ्गोक्ता देवता यजूंषि । उत्तराङ्गभूतराष्ट्रभृदुपहोमे विनियोगः--

 "ॐ ऋताषाडृतधामाऽग्निर्गन्धर्वः स इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा" ऋतासाह ऋतधाम्नेऽग्नये गन्धर्वायेदं० । "तस्यौषधयोऽप्सरस ऊर्जो नाम ता इदं ब्रह्म क्षत्त्रं पान्तु ताभ्यः स्वाहा" ओषधीभ्योऽप्सरोभ्य ऊर्ग्भ्य इदं० । "स हितो० वः स० पातु त०" स हिताय विश्वसाम्ने सूर्याय गन्धर्वायेदं० । "तस्य मरीच० मता० पान्तु ता०" मरीचिभ्योऽप्सरोभ्य आयुभ्य इदं० । "ॐ सुषुम्नः र्वः स०" सुषुम्नाय सूर्यरश्मये चन्द्रमसे गन्धर्वायेदं । "तस्य नक्ष० नाम ता इ०" नक्षत्रेभ्योऽप्सरोभ्यो बेकुरिभ्य इदं० । "ॐ भुज्युः सु० र्वः स०" भुज्यवे सुपर्णाय यज्ञाय गन्धर्वायेदं० । "तस्य दक्षिणा० मता इ०" दक्षिणाभ्योऽप्सरोभ्यः स्तवाभ्य इ० । "प्रजापतिर्वि० र्वः स०" प्रजापतये विश्वकर्मणे मनसे गन्धर्वा० । "तस्यर्क्सामा० म ता इ० ऋक्सामेभ्योऽप्सरोभ्यो वह्निभ्य इ० । "ॐ इषिरो विश्व० र्वः स०" इषिराय विश्वव्यचसे वाताय गन्धर्वा० । "तस्यापोऽप्स० म ता इ०" अद्भ्योऽप्सरोभ्यो मुदाभ्य इदं० । "ॐ भुवनस्य० स्ति स्वा०" भुवनस्य पत्य इदं० । "ॐ परमेष्ठ्य० र्वः स०" परमेष्ठिनेऽधिपतये मृत्यवे गन्धः । "तस्य वि० म ता०" विश्वस्मा अप्सरोभ्यो भूभ्य इ० । "ॐ सुक्षितिः० र्वः स०" सुक्षितये सुभूतये भद्रकृते सुवर्वते पर्जन्याय गन्ध० । "तस्य विद्यु० म ता इ०" विद्युद्भ्योऽप्सरोभ्यो रुग्भ्य इ० । "ॐ दूरे हेति० र्वः स०" दूरे हेतयेऽमृडयाय मृत्यवे गन्धर्वायेदं० । "तस्य प्रजा० म ता इ०" प्रजाभ्योऽप्सरोभ्यो भीरुभ्य इदं० । "ॐ चारुः कृपण० र्वः स०" चारवे कृपणकाशिने कामाय गन्धर्वा० । "तस्याऽऽधयो० म ता इ०" आधिभ्योऽप्सरोभ्यः शोचयन्तीभ्य इ० । "ॐ स नो भुव० यच्छ स्वाहा" {{bold|भुवनस्य पत्य इ० । एते च जयाद्युपहोमा वैकल्पिकाः ।

 ततो यदस्येत्यस्य वामदेवोऽग्निः स्विष्टकृदत्यष्टिः, स्विष्टकृद्धोमे विनियोगः-- "यदस्य क० यित्रे स्वाहा" इत्युत्तरार्धपूर्वार्धे पूर्वाहुतितः किंचिद्भूयसीं पूर्वाभिराहुतिभिरसंसृष्टां जुहोति । अग्नये स्विष्टकृत इदं० । संसर्गश्चेत्सर्वप्रायश्चित्तमनाज्ञातादिजपश्च ।

 तत इध्मसंनहनशुल्बं विस्रस्याद्भिरभ्युक्ष्याग्नौ प्रहृत्य दर्व्या परिधीन्परिधानक्रमेणाङ्क्त्वा परिस्तरणेभ्यः कांश्चिद्दर्भान्सर्वान्वा सर्वमा स्तृतं बर्हिश्चाऽऽदाय दर्व्यामग्राण्यनक्ति, मध्यानि मूलानि चाऽऽज्यस्थाल्याम् । एवं द्वितीयम् । तृतीयं तु मूलानि मध्यानि चाऽऽज्यस्थाल्याम्, अग्राणि दर्व्यामिति । एवमङ्क्त्वैकं तृणमक्तेभ्यस्तृणेभ्य उपादाय प्रज्ञातं निधायान्यानि दक्षिणोत्तराभ्यां पाणिभ्यामुत्तरपरिधिसंधिमनुप्रवेश्य नातिक्रान्ताग्न्यग्राण्यनूर्ध्वाग्राण्यङ्गारेष्वभर्जयंस्तदग्राणीषदृजुं हस्तं धारयन्नूर्ध्वमुद्यम्य ततो न्यञ्चमधोऽध आनीयाधरोत्तरावयवभावेनान्तत आयतने पर्यावर्तयति । ततस्त्रिरूर्ध्वमायतन एवाञ्जलिना नीत्वाऽग्नौ क्षिपति । ततः स्थापिततृणं प्रहृत्य त्रिरङ्गुल्याऽन्ववदिश्य घ्राणे युगपत्संस्पृश्याप उपस्पृश्य तथैव चक्षुषी संस्पृश्याप उपस्पृश्य पृथिवीं संस्पृशेत् । ततो मध्यमं परिधिमग्नौ प्रहृत्येतरौ परिधी द्वाभ्यां हस्ताभ्यां सहैव प्रहरति । अवाञ्चमुत्तरस्याग्रमङ्गारेषूपोहति ।

ततः प्रायश्चित्तहोमः ।

 अनाज्ञातमितिमन्त्रत्रयस्य विश्वे देवा ऋषयोऽग्निर्देवताऽऽद्ययोरनुष्टुबन्त्यस्य त्रिष्टुप् । त्वं नो अग्न इति द्वयोर्विश्वे देवा अग्निर्वरुणश्च त्रिष्टुप् । यत इन्द्रेतिद्वयोर्विश्वे देवा ऋषयः । इन्द्रो मघवान्प्रथमस्य देवता । वृत्रहेन्द्रो द्वितीयस्य । आद्यस्य बृहती द्वितीयस्यानुष्टुप् । त्र्यम्बकमित्यस्य विश्वे देवास्त्र्यम्बकोऽनुष्टुप् । इदं विष्णुरित्यस्य सोमो विष्णुर्गायत्री । सप्तानां व्याहृतीनां याज्ञिक्यो देवता उपनिषद ऋषयः । अग्निर्वायुः सूर्यो बृहस्पतिर्वरुण इन्द्रो विश्वे देवा इति क्रमेण देवताः । गायत्र्युष्णिगनुष्टुब्बृहती पङ्क्तित्रिष्टुब्जगतीति क्रमेण च्छदांसि । प्रायश्चित्ताज्यहोमे विनियोगः-- "ॐ अनाज्ञातं० तथ स्वाहा" अग्नय इदं० । "पुरुषसंमितो० थ स्वाहा" अग्नय इ० । "ॐ यत्पाकत्रा म० जाति स्वाहा" अग्नय इदं० । "ॐ त्वं नो अग्ने० स्मत्स्वाहा" अग्नये वरुणाय चेदं० । "ॐ सत्वं नो अ० एधि स्वाहा" अग्नये वरुणाय चेदं० । "ॐ यत इन्द्र भ० जहि स्वाहा" इन्दाय मघवत इदं० । "ॐ स्वस्तिदा वि० करः स्वाहा" इन्द्राय वृत्रघ्न इ० । "ॐ त्र्यम्बकं यजा० तात्स्वाहा" त्र्यम्बकायेदं० । "ॐ इदं विष्णु० सुरे स्वाहा" विष्णव इदं० । "ॐ भूः स्वाहा" अग्नय इ० । "ॐ भुवः स्वाहा" वायव इदं० । ॐ सुवः स्वाहा" सूर्यायेदं० । "ॐ महः स्वाहा" बृहस्पतय इदं० । "ॐ जनः स्वाहा" वरुणायेदं । "ॐ तपः स्वाहा" इन्द्रायेदं० । "ॐ सत्य स्वाहा" विश्वेभ्यो देवेभ्य इदं० ।  यदि नैमित्तिकानि केवलहोमात्मकप्रायश्चित्तान्यापतितानि तानि निमित्तानन्तरमकृतानि स्युस्तान्यत्र कार्याणि । "ॐ वसुभ्यो रुद्रेभ्य आदित्येभ्यः स्वाहा" इति परिधिषु संस्रावाज्यं जुहोति, वसुभ्यो रु० त्येभ्यः स स्रावभागेभ्य इदं० ।

 तत उत्तरपरिषेकः[१२८] पूर्ववत् । "अदितेऽन्वम स्थाः । अनुमतेऽन्वम स्थाः । सरस्वतेऽन्वम स्थाः । देव सवितः प्रासावीः"

 इति परिषेकमन्त्रेषु विशेषः । एतेषां मन्त्राणामृष्यादि पूर्ववत् । विधिना प्रणीतोद्वासनाकरणपक्षेऽत्रोपवेषं निरस्येत् । भङ्क्त्वेति संप्रदायः । तत्रोपवेषस्य समिद्रूपत्वे समिद्भ्रान्त्या समिन्धनादिकार्येषूपयोगः कृतः स्यात्तं निवारयितुं भङ्गो युक्तः । एतस्य स्थूलकाष्ठशकलरूपत्वे तु भङ्गस्य प्रयोजनाभावेन कर्मोपयुक्तव्यतिरिक्तलौकिकाग्नौ प्रक्षेपः । ततोऽग्रेणाग्निं प्रणीताः पर्याहृत्यापरेणाग्निं निधाय प्रागादिक्रमेण दिक्चतुष्टय ऊर्ध्वमधश्च जलमुत्सिच्य भूमाववशिष्टं जलं निनीयाऽऽत्मानं पत्नीं च मार्जयित्वा मुखं संमृजीत । यत्तु गृह्यकारिकाकृतोत्सेचनात्पूर्वं प्रणीतापात्र उदकान्तरानयनमुक्तं तत्प्रमाणाभावादुपेक्ष्यम् । आचार्यकर्तृके होमे यजमानपत्न्योरेव मार्जनं नाऽऽचार्यस्य ।

 ततो ब्रह्मणे हिरण्यं गौर्वा पूर्णपात्रं वा तदभावे चमसपूरितं कांस्यपात्रपूरितं वा सकृदवहतमनवहतं वा धान्यं फलानि वा तत्प्रतिनिधिभूतं हिरण्यं [१२९]वा दक्षिणां दद्यात् । ब्रह्मा सप्तदशकृत्वोऽपान्य, देवस्य त्वेत्यस्य [१३०]प्रजापतिः सविता यजुः, प्रतिग्रहे विनियोगः । "ॐ देवस्य त्वा स० भ्यां प्रति० क्षिणेऽग्नये हिरण्यं तेना० ह्णातु" इति हिरण्यं प्रतिगृह्णाति ।

 गोप्रतिग्रहे--"ॐ अग्नये हिरण्यं तेन" इत्यस्य स्थाने "रुद्राय गां तया" इति मन्त्रे विशेषः । तृणं प्रदाय प्रतिग्रहः । अन्यत्समानम् ।

 धान्यप्रतिग्रहे तु-- "ॐ देवस्य त्वा० दक्षिणे विश्वेभ्यो देवेभ्यो धान्यं तेनामृ० गृह्णातु" इति धान्यं प्रतिगृह्णाति ।

 फलप्रतिग्रहे तु--उत्तानस्त्वेत्यस्य प्रजापतिराङ्गी[१३१]रसो यजुः, प्रतिग्रहे विनियोगः-- "ॐ उत्तानस्त्वाङ्गी० गृह्णातु" इति फलानि प्रतिगृह्णाति । अत्रापि सावित्रान्वाधीस्त इति केचित् । सर्वत्र व्यावृत्य प्रतिग्रहणम् । अधोवायोर्नमनमपाननम् । प्रतिग्रहमन्त्रगतद्रव्यदेवतायै प्रतिग्रहणं नाऽऽत्मन इति संकल्पो व्यावृत्तिः ।

 प्रतिनिधित्वेन हिरण्यदाने तु यदीयप्रतिनिधित्वेन दानं तस्य मन्त्रः । निष्क्रयपक्ष उत्तानस्त्वेति प्रतिग्रहः । सर्वेषां तूष्णीमेव वा प्रतिग्रहः । अस्मिन्कल्पे नापाननम् । गोप्रतिग्रहे तस्यै तृणप्रदानं च नास्ति । व्यावृत्यप्रतिग्रहणमपि न भवति । भवतीति केचित् । सर्वत्र प्रतिग्रह आग्नेयतीर्थेनैव । "आग्नेयेन प्रतिग्रहं कुर्यात्" इति बौधायनोक्तेः । "करमध्य आग्नेयम्" इत्याग्नेयतीर्थलक्षणमुक्तं तेनैव ।

 पूर्णपात्रलक्ष[१३२]णमुक्तं सुदर्शनभाष्ये--

"अष्टमुष्टि भवेत्किंचित्किंचिच्चत्वारि पुष्कलम् ।
पुष्कलानि तु चत्वारि पूर्णपात्रं प्रचक्षते" इति ॥
"अष्टमुष्टि भवेत्किंचित्किंचिदष्टौ तु पुष्कलम् ।
पुष्कलैरष्टभिश्चैकः पूर्णपात्र उदीरितः" ॥

 इत्याधानवैजयन्त्यां पाठः ।

 आगमसारसंग्रहे तु--

"द्वात्रिंशत्पलताम्रेण निर्मितं ताम्रपात्रकम् ।
तण्डुलेन समापूर्य सहिरण्यं सदक्षिणम् ॥
कर्ता वृताय दद्यात्तत्पूर्णपात्रं विदुर्बुधाः" ।

 इत्युक्तं पूर्णपात्रलक्षणम् ।

 छन्दोगपरिशिष्टे तु पुरुषाहारपर्याप्तधान्यस्यापि पूर्णपात्रत्वमुक्तम् । एतेषां शक्त्यपेक्षया योजना द्रष्टव्या । यत्र वैशेषिकी दक्षिणा विहिता तत्रापीदं दक्षिणादानं कार्य[१३३]मिति केचित् । वस्तुतस्तु--सौमिकेष्टिपशुबन्धेषु प्राकृतान्वाहार्यदानलोप इवैतस्यापि लोपो युक्तः । [१३४]अत्र वोपवेषनिरसनम् । ततो ब्रह्मयजमानौ यथेतं प्रतिनिष्क्रामतः। एते च धर्मा आघारवत्सु दर्विहोमेषु गृह्यान्तरे दृष्टाः कृताकृताः । केचिद्वास्तुबलिकर्मानन्तरमेतान्धर्माननुतिष्ठन्ति । ततो यज्ञ नमस्त इत्यस्य विश्वे देवा यज्ञो यजुः । अग्न्युपस्थाने विनियोगः-- "ॐ यज्ञ नमस्ते यज्ञ० उप ते नमः" इति यजमानो ब्रह्मा चोपतिष्ठते । आचार्यर्त्विजामप्युपस्थानम् । अग्ने नय इत्यस्य विश्वे देवा अग्निस्त्रिष्टुप्, अग्निपूजने विनियोगः-- "अग्ने नय० विधेम" इत्यग्न्यायतनात्षडङ्गुलं स्थलं विहायाग्निं तन्त्रानुलक्षीकृत्य पूजयेत् । वायव्यां दिशीति संप्रदायः । अग्निपूजन आरक्तगन्धपुष्पाक्षतान्वर्जयेत् । आरक्तपुष्पेषु जपापुष्पमेव वा वर्जयेत् । धूपदीपौ वर्जयेदिति कैश्चिल्लिखितं तत्र मूलं न विद्मः ।

 मा नस्तोक इत्यस्याग्नी रुद्रो जगती । विभूतिधारणे विनियोगः-- "ॐ मा नस्तोके तन० म ते" इत्यग्नेर्विभूतिं ललाटे धृत्वा--

"श्रद्धां मेधां यशः प्रज्ञां विद्यां बुद्धिं श्रियं बलम् ।
आयुष्यं तेज आरोग्यं देहि मे हव्यवाहन" ।

 इत्यग्निं संप्रार्थ्य नमस्कुर्यात् । कर्मसमाप्तौ कर्मोपयुक्तमुदकमवशिष्टं चेत्परित्यज्यारिक्तत्वार्थं शुद्धमुदकं तत्पात्र आनीय स्थापयेत् ।

इत्यग्निमुखप्रयोगः ।

 अमुमुपनयनोपदिष्टं होमविधिमन्यत्राप्यतिदिशति--

"सर्वदर्विहोमाणामेष कल्पः" इति ।

 अस्यार्थः । जुहोतिचोदितानि कर्माणि दर्विहोमास्तेषु सर्वेष्वेष उद्धननादिः प्रसाधनीदेवीहोमान्तोऽनुक्रान्तः कल्पो विधिर्भवति । अथवैष प्रसाधनीदेवीहोमान्तोऽनुक्रान्तो व्याहृतिहोमवारुणीहोमादिरनुक्रम्यमाणश्च कल्पो विधिर्भवतीत्यर्थः । पूर्वस्मिन्कल्पेऽग्रे तत्र तत्र व्याहृतिपर्यन्तं कृत्वेति वचनमिमं मे वरुण तत्वा यामीत्यादिविधानं चाप्राप्तत्वादपूर्वविधानार्थम् । द्वितीयकल्पे त्वनुवादो भवति । सर्वग्रहणं यत्र यत्र व्याहृतिहोमविधानं वारुण्याद्यनुक्रमणं च न कृतं भवति तादृशेषु सूत्रोक्तेषु शास्त्रान्तरोक्तेष्वपि च कर्मसु प्रसाधनीदेवीहोमान्तविधिप्रापणार्थम् । अस्मिन्व्याख्यान औपासन होमेऽतिप्रसङ्गः, स व्रीहिभिर्यवैर्वा हस्तेनैते आहुती जुहोतीत्यत्राऽऽहुतिग्रहणेन वारणीयः ।

 एतत्कथमिति चेदुच्यते--एते जुहोतीत्येतावतैव सिद्ध आहुतिग्रहणं नियमार्थम् । आहुती एव केवले स्यातां नेतरत्तन्त्रमिति । अस्मिन्कल्पे परिस्तरणपरिषेकयोरपि निवृत्तिः । ([१३५]हस्ताग्रेणापि कदाचिद्धोमः स्यात्स मा भूत्किंतु जुहूबद्धस्तोत्तरपार्श्वेनैव होम इतिज्ञापनार्थं च । ) वैश्वदेवे तूभयतः परिषेचनमिति प्राप्तस्य परिषेकस्य पुनर्वचनबलाद्यथोपदेशं कुरुत इति वचनबलाच्चेतरतन्त्रनिवृत्तिः । द्वितीयकल्पे तत्र तत्र व्याहृतिहोमविधानं वारुण्याद्यनुक्रमणं च परिसंख्यार्थम्, तेनेतरत्र प्रसाधनीदेवीहोमान्त एव विधिर्भवति न सर्वः । आग्नेयस्थालीपाके तूद्वास्येतिल्यप्प्रत्ययेन होमाव्यवधानस्योक्तेरिध्माभ्याधानादि प्रसाधनीदेवीहोमान्तं तन्त्रं निवर्तते । न च श्रपणात्पूर्वमेवेध्माभ्याधानादि प्रसाधनीदेवीहोमान्तमस्त्विति वाच्यम् । तादृशानुष्ठानस्य शास्त्रान्तरविरुद्धत्वेनास्वीकारात् । न च प्रणीताप्रणयनस्याऽऽत्मन्यग्निग्रहणस्य ब्रह्मणश्च निवृत्तिः । "सर्वदर्विहोमाणामेष कल्पः" इत्यनेनेध्माभ्याधानपूर्वतनतन्त्रप्रवर्तने बाधकाभावात् ।

 अथवा--

"आपूर्विकेषु यावदर्थं द्रव्यसंस्कारः परिस्तरणपरिषेकौ
यावदुक्त्वा आहुतयोऽन्यानि च वैशेषिकाणि कर्माणि"

 इति बौधायनवचनसिद्धमापूर्विकत्वमत्र । तेन प्रणीताप्रणयनादीनामपि निवृत्तिः । आपूर्विकेष्वप्राप्तत्वात्स्विष्टकृद्विधानं सौविष्टकृतीं जुहोतीत्येतावदुच्यमाने यदस्येत्यनेन होमः स्यात्स मा भूदित्येतदर्थमग्नये स्विष्टकृते जुहोतीत्येवं वचनम् । आघारतन्त्राभावादेव वारुण्यादिनिवृत्तिः । पूर्वपरिषेकसंबन्धादेवोत्तरपरिषेकप्राप्तिः । परिस्तरणविसर्गस्त्वार्थिकः । अथवैवं सूत्रार्थः । जुहोतिचोदितानि कर्माणि दर्विहोमास्तेषु सर्वेष्वेष यथायोग्यं कल्पो विधिर्भवतीति । सर्वग्रहणं त्रिप्रकारा दर्विहोमा आघारवन्त आपूर्विका आग्निहोत्रिकाश्च तेषु सर्वेष्वनेनातिदेशः स्यादित्येतदर्थम् । यत्राऽऽघारवान्दर्विहोमस्तत्र सर्व एव योग्यो विधिः । यत्राऽऽपूर्विको दर्विहोमस्तत्र यावदर्थं द्रव्यसंस्कारः परिस्तरणपरिषेकौ चेत्येतेषामेव योग्यत्वादेतावानेव विधिः ।

 नन्वापूर्विकशब्दबलात्केवलं यावदुक्तो होमोऽन्यानि वैशेषिकाणि कर्माणि चेत्येतावदेवानुष्ठेयं नान्यान्यङ्गान्यत्रानुष्ठेयानीति चेत् । सत्यम् । नासंस्कृतेन द्रव्येण जुहुयादिति शास्त्रान्तरेऽसंस्कृतद्रव्यहोमनिषेधेन द्रव्यसंस्कारस्याऽऽवश्यकत्वात् । अधिकरणसंबन्धित्वात्परिस्तरणपरिषेकावपि । न चैवमिध्माभ्याधानमप्यग्निसंबन्धित्वात्स्यादिति वाच्यं, बौधायनेनानुक्तत्वेन तदभावस्यैव सिद्धेः । आधाराभावादपीध्माभ्याधानस्याभावः । इध्माभ्याधानस्याऽऽघारसंबन्धित्वेनैकसंबन्धिनिवृत्तावपरसंबन्धिनोऽपि निवृत्ते निर्विवादत्वात् । एतयोः परस्परसंबन्धित्वे ज्ञापकं त्वथ दर्व्या जुहोतीत्यस्मिन्सूत्रे प्रदर्शितम् ।

 सर्वं चैतदाह बौधायनः--

"आपूर्विकेषु यावदर्थं द्रव्यसंस्कारः परिस्तरणपरिषेकौ
यावदुक्त्वा आहुतयोऽन्यानि च वैशेषिकाणि कर्माणि" इति ।

 द्रव्यग्रहणं होमसाधनोपलक्षणम् ।

"नासंस्कृतेन पात्रेण जुहुयात्"

 इति शास्त्रान्तरसंवादात् । एतावन्त्येवाङ्गान्याग्निहोत्रिकेपु संस्कृताज्येन चतुर्गृहीत्वा सर्वान्मन्त्राननुद्रुत्य प्रथमाहुतिः । अग्नये स्विष्टकृते स्वाहेति द्वितीयाहुतिः । ततोऽग्निहोत्रवत्त्रिः प्राशनं स्रुचो दर्भैः प्रक्षालनं यथोक्तानि वैशेषिकाणि कर्माणि ।

 तथा च बौधायनः--

 "आग्निहोत्रिकेषु स्रुक्स्रुवौ प्रयुज्याऽऽज्यं संस्कृत्य चतुर्गृहीत्वा सर्वान्मन्त्राननुन्द्रुत्य प्रथमामाहुतिं जुहोत्यग्नये स्विष्टकृते स्वाहेति द्वितीयामग्निहोत्रवत्त्रिः प्राश्य स्रुचं दर्भैः प्रक्षालयति यथोक्तानि वैशेषिकाणि कर्माणि ततः करोति" इति ।

 दर्विहोमाणामित्यत्र बहुवचनं नानाहविष्कत्वाद्युज्यते । एतच्चोभयकल्पेऽपि समानम् । सर्वत्रैष कल्प इति वक्तव्ये दर्विहोमवचनं जुहोतिचोदितेष्वेव कर्मस्वेष कल्पो यथा स्यात्, जपत्यादिचोदितेषु मा भूदित्येतदर्थम् । एतदप्युभयकल्पे समानम् । यत्रोभयानुवादोऽन्यतरानुवादो वा तत्राऽऽघारवदेव तन्त्रम् । अन्यत्र त्रयाणां द्वयोर्वा विकल्पः कुत्रचिन्नियमो वा । तत्र त्रिवृदन्नहोमे बहिःसंस्कृतान्नप्रापकोपस्थितवचन[१३६]बलादापूर्विकत्वमेव ।

 मासिकश्राद्धे बहिःसंस्कृतान्नहोमेऽप्याघारवत्तन्त्रदर्शनादाघारवत्तन्त्रमपि पक्षे ।

 स्थालीपाके तु व्याख्यानद्वयेऽप्यापूर्विकत्वमेव । भाष्यकृता तु पक्ष आघारवत्तन्त्रमप्यत्रोक्तम् । यत्र केवले चरुहोमे स्थालीपाकशब्देन विधानं नास्ति किंतु चरुशब्देन पक्वाज्जुहोतीत्येवं वा तत्राऽऽपूर्विकतन्त्रमेव । यत्र त्वाज्यादिहोमसहितश्चरुहोमस्तत्राऽऽघारवत्तन्त्रेणैव चरुहोमः । एतद्विषये ज्ञापकमथैनामाग्नेयेन स्थालीपाकेन याजयतीत्यस्मिन्सूत्रे प्रदर्शयिष्यते । एकाहुतिकेषूद्द्रवणादिनिमित्तकेषु होमेषु त्रयाणां द्वयोर्वैच्छिको विकल्पः । द्वित्र्याद्याहुतिकेषु होमेषु सर्वाननुद्रुत्य प्रथमामाहुतिं जुहोतीत्येतस्य विधेः स्वसूत्रविरुद्धत्वान्नाऽऽग्निहोत्रिकविधिः ।  औपासनहोमे त्वापूर्विकमेव तन्त्रम् । अत्र यद्यप्यतिदिष्टो विशेषविहितो वा द्रव्यसंस्कारो नास्ति तथाऽपि नासंस्कृतेन द्रव्येण जुहुयादितिशास्त्रान्तरेऽसंस्कृतद्रव्यहोमनिषेधाच्छ्रौतहोमोपदिष्टो मन्त्रवर्जं यथायोग्यं द्रव्यसंस्कारः कार्य एव । एवं श्रौतहोमोपदिष्टो होमसाधनसंस्कारोऽपि । स च निष्टपनमार्जनात्मकः । हस्तेन होमे सव्यहस्तेन दक्षिणहस्तस्य परिमार्जनम् । आज्येनोपासनहोमपक्ष आज्यसंस्कारो गृह्योक्तो मन्त्रवर्जं श्रौतो वा कार्यः । परिस्तरणपरिषेकावपि कार्यौ । अस्मिन्कल्प आहुतिग्रहणप्रयोजन[१३७]मङ्गुल्युत्तरपार्श्वेन होमसिद्धिरेव । वैश्वदेव इतरतन्त्रनिवृत्तिः पूर्ववदेवात्रापि । शास्त्रान्तरप्रोक्तेषु चर्वतिरिक्तद्रव्यसाध्येषु कर्मसु त्वाघारवत्तन्त्रमापूर्विकं तन्त्रं वेति यथाचारं व्यवस्थितं ज्ञेयमिति दिक् ।

इत्यग्निमुखप्रयोगः ।

इत्योकोपाह्वश्रीमद्गणेशदीक्षिततनूजगोपीनाथदीक्षितविरचि-
तायां सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमा-
लायां प्रथमं प्रकरणम् ॥ १ ॥


  1. क. पाणिपाशिनम् ।
  2. ख. शपद्मिनम् ।
  3. ख. ग. नलति वै ना ।
  4. क. ख. वण्यामा ।
  5. क. ख. युज्यां च ।
  6. क. ख. शीर्ष्यो च ।
  7. धनुश्चिह्नान्तर्गतं ख. पुस्तके नास्ति ।
  8. क.ख.र्तव्यानि श्र ।
  9. क. ख. हणानि । पा ।
  10. क. ख. ति । या ।
  11. इदमर्ध ग. पुस्तके नास्ति ।
  12. इदमर्ध ग. पुस्तके नास्ति ।
  13. क. कर्मत्यागो ।
  14. ग. णे । कुर्यातिलकवान्कर्म वस्त्रद्वययुतस्तथा । नैव नग्नो न ।
  15. क. नियतः सूत्रवाक्यतः ।
  16. एतदर्धस्थाने ग. पुस्तके–-"संनिधौ तिष्ठन्नासीनो वा कुर्वञ्छेषिचिन्तनम्" । इत्यर्धे वर्तते ।
  17. इदमर्धे ख. पुस्तके नास्ति । अस्यार्थो नावबुद्धः ।
  18. ग. ष्ठत्ता श्र ।
  19. ग. त्स्याद्यत्र ।
  20. ग. शज्ञाति ।
  21. ग. जाते ।
  22. ख. ग. दभावेऽन्य ।
  23. ग. त्र स्रववक्त्रप्र ।
  24. क. ञ्चत्रिंशदधि ।
  25. क. न्माषाः सवर्णं भवति । रा ।
  26. क. ख. म् । धे ।
  27. ख. पिपरीति ।
  28. ग. घ. स्याग्निः प्रीयतामापासनस्याग्निसूर्यप्रजापतयः प्रीयन्तां पञ्चमेऽहन्युदुम्बरो दशमेऽहन्यन्ते चित्रियाणि स्था ।
  29. सौशन्यमिति क. पुस्तके बहिर्लिखितपाठः ।
  30. क. ख. गन्धाक्ष ।
  31. क ख. त् । वि ।
  32. ग. अविशि ।
  33. धनुचिह्नान्तर्गतस्थाने ग. घ. पुस्तकयोः "स्मृत्यन्तरे--यत्र यत्र भवेच्छ्राद्धं तत्र तत्र च मातर इति" एव वर्तते ।
  34. ग. ध यत्रेत्यने ।
  35. ग व कु
  36. क. म् । अस्मिन्कल्पे कलदेवतान्ता एव देवता पूज्वा इति युक्तम् । त ।
  37. १ ख. हकस्तथा । ए ।
  38. धनुश्चिह्नान्तर्गतस्थाने ख. पुस्तके-- 'प्रमातामहकादय इति पाठो येषां मातामहीपार्वणाचारस्तत्पर.' इति विद्यते ।
  39. ग. घ. ह्याः । त ।
  40. घ.मणे स्व ।
  41. धनुश्चिह्नान्तर्गत क. ख. पुस्तकयोर्नास्ति ।
  42. ग. चतुःश्ल ।
  43. ग. घ. त्रं चतुरस्रं प्राक्प्रवणं स्थण्डिलं करोतीति । खादिरादिगृह्ये विशेष उक्तः--पञ्चप्रस्थसिकता अनार्द्रा अरत्निमात्रं स ।
  44. ग. घ. ङ्गुलप्रमाणं पश्चिमत उर्ध्वा ।
  45. ग. घ. लिविहीनमु
  46. ग. घ. लिविहीन उ ।
  47. ग. घ. ङ्गुलेर्यावान्विशेषस्तावन्मात्रैवोच्छ्रितिर्न तूर्ध्याङ्गुलिप्रमाणस्याप्यत्र ग्रहणमिति ता ।
  48. ख. त श्वाऽधि ।
  49. धनुश्चिह्नान्तर्गत क. ख. पुस्तकयोर्नास्ति ।
  50. श्वग्रहणमित्यत्र श्वापदग्रहणमित्यपेक्षितम् । अथवा क. ख. पुस्तकस्थसूत्रपाठानुसारि ज्ञेयम् ।
  51. ग. घ. ङः तत्वेन प्रकृ ।
  52. धनुश्चिह्नार्गतस्थाने क. पुस्तके--"उद्धत्येत्यत्राऽऽकाङ्क्षितं संस्कार्यपदार्थं साधनपदार्थं चोक्त्वाऽनन्तरं पुनर्धर्मशास्त्रे दर्शनादित्येतस्य मातृदत्तग्रन्थस्य न्यूनताक्रमप्रदर्शनपरताया एव वक्तुमशक्यत्वेन मध्येऽनुष्ठानासंभवात् । न च क्रमप्रदर्शनपरत्वे किं बाधकमिति वाच्यम् । पुनः शब्दस्य व्यर्थत्वापत्तेर्न्यूनताया अपरिहार्यत्वापत्तेश्च बाधकत्वात्" इति वर्तते ।
  53. धनुश्चिह्नान्तर्गतं क ख. पुस्तकयोर्नास्ति ।
  54. धनुश्चिह्नान्तर्गतो ग्रन्थः क. पुस्तकातिरिक्तपुस्तकेषु नास्ति ।
  55. ख. ग. ङ. परिकीर्तितः ।
  56. ख. खी नाम धृ ।
  57. ड. हकः । शा ।
  58. ड. रोमग्निं ।
  59. ग. ङ. रोमग्निं ।
  60. ग. त्र स्था ।
  61. ङ. कार्यः ।
  62. क. सनक ।
  63. ग. रग्निश्च ।
  64. ङ पावकः ।
  65. ग. र्शने नि ।
  66. ड. न्तरेऽपि-न ।
  67. क. ग्रि स्पृ ।
  68. क. र्ज्यानाह ।
  69. क. म् । एत ।
  70. ङ. याज्यभ्या ।
  71. ग. ङ. रान्क ।
  72. क. अथाग्नि ।
  73. ख. धा हि विनियोजका: प ।
  74. क. वेषा होमोपयोगिनः स्वसत्तया । अ । ख. वेषा होमोपयोगिनः स्वसत्तया विनियोजकाः । अ ।
  75. क. कूर्चा उपनयनोपयोगिनः स्वसत्तया । स्वा । ख. कूर्चा उपनयनोपयोगिनः स्वसत्तया विनियोजकाः । स्वा ।
  76. क. वेन व्री । ख. वेन विनियोजका व्री ।
  77. क. मिध उपनयनोपयोगिनः स्वलोपेनेति । ख. मिध उपनयनोपयोगिनः स्वलोपेन विनियोजका इति ।
  78. ग. घ. ढ. स्त्रिधा ।
  79. घ. ड. ण वैल ।
  80. धनुश्चिान्तर्गतग्रन्थस्थाने क. ख. पुस्तकयो-- "प्रादेशपरिमितत्वमप्युक्तम्" इति ग्रन्थो वर्तते।
  81. क. ख. ति बाहुमूलमारभ्य म ।
  82. क.ख. ग. ङ. ते द्रा ।
  83. ग. घ. ङ. ध्मसं ।
  84. ग. घ. ङ. पात्रसा ।
  85. ग. घ. ङ. त्यूह्य पु ।
  86. ग. घ. ङ. भ्यां पु ।
  87. ग घ. ङ. हृत्याऽऽह्रत्यो ।
  88. ख त्तु गृह्यकारिकासु त्रि ।
  89. ग. घ. ङ. न्तरोक्त ।
  90. ख. घ. ङ. स्यावैद्यत्वा । ग. स्यावेद्यत्वा ।
  91. क. नमार ।
  92. क. ख. एव । भू ।
  93. क. संस्पृष्टा ।
  94. धनुश्चिह्नान्तर्गतस्थाने क. ख. पुस्तकयोः--"अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वतीत्येतावदेव सूत्रं कर्तव्यम् । स्विष्टकृतः पुरस्तादनुष्ठान तु विधानक्रमादेव सिध्यतीति किमर्थं गुरुसूत्रकरणमिति चेन्न । येन कर्मणेर्त्सोदिति वचनात्कर्मसमृद्ध्यर्थं श्रौते गार्ह्ये स्मार्ते च कर्मणि यदि होमः क्रियते तत्र पुरस्तात्स्विष्टकृत एव भवेदितिज्ञापनार्थत्वात्" इति वर्तते ।
  95. क. त्य पुनस्तृणमनुप्रहृत्य त्रि ।
  96. क. ख. ति । प ।
  97. क. ख. ति । भ ।
  98. ग. घ. ङ. ङ्गुलेर्यावान्विशेषस्तावत्प्रमा
  99. क. ख. णप ।
  100. ग. घ. ड. वा लेखनिकारूपसुवर्णरजतताम्रान्यतमशकलेन व्रीहियवान्यतरेण च युतमङ्गुष्ठोपकनिष्ठिकाभ्यां गृ ।
  101. ग. ङ्गः इ ।
  102. ख. णं वरुणं अग्निं वरुणं चाग्निं वरुणं चायास ।
  103. ड. क्ष्ये । ज । ख. तिं चाऽऽज्येन य ।
  104. क. जयहो ।
  105. क. तानहो ।
  106. ख. हानाज्येन य ।
  107. ग. नेकैक ।
  108. ग. आयुः ।
  109. ग. सो वेकु ।
  110. ड. स्तव्याः ।
  111. ग. वह्नि ।
  112. क. ख. ग. ग्निं ३ अग्निं वरुणं च २ इ ।
  113. ग. ध. ङ. दर्भाणामु ।
  114. ग. सने क ।
  115. ग. घ. ङ. के त्वग्न्यायतनानुसारेण परिधिप्रमाणाभिवृद्धिः कार्या । ततोऽ ।
  116. क. क्षिणे पा ।
  117. पुंवद्भाव आवश्यकः । मध्यमपदलोपिसमासेन वा समाधेयम्।
  118. ग. घ. ङ. त्रे उदगग्रे अ ।
  119. ग. घ. ङ. पात्रे नि ।
  120. क. स्याधो मूलम् । प ।
  121. क. कर्तव्यम् ।
  122. ग. घ. ड. वा वेन्द्रो य ।
  123. क. ज्यस्य स ।
  124. चेदित्यनर्थकं निश्चयार्थकं वा ।
  125. ग. ध. ड. हेति द्वयोः ।
  126. क. थ्यहो ।
  127. ग. घ. ड. र्धे । इ ।
  128. क. ख. कः । अ ।
  129. प्रथमान्तान्येव सर्वाणि प्रकल्प्यान्त एतानीति द्वितीयान्तमध्याहृत्य योजनीयम् ।
  130. क. ख. स्वयंभूः ।
  131. ग. ड. राङ्गिर ।
  132. क. ख. क्षणं सु ।
  133. ग. घ. ङ. र्यमेवेति ।
  134. ग. अत्रोप ।
  135. धनुश्चिह्नान्तर्गतो ग्रन्थो ग. घ. ङ. पुस्तकेषु नास्ति ।
  136. क. नलिङ्गादा ।
  137. ग. घ. ङ. जनं हस्ताग्रेणात्र न होमः किंतु हस्तोत्तरपार्श्वेनेवेति द्रष्टव्यम् । वै ।