संस्काररत्नमाला (भागः १)/सप्तदशं प्रकरणम्

               




   

अथ सप्तदशं प्रकरणम् ।

अथ प्रयाणविधिः ।

 तत्रेदं गृह्यम्--

"यदि प्रयायाद्व्याख्यातमात्मन्नरण्योर्वा समारोपण
समिधि वा समारोपयेदरणीकल्पेन खादिरी पालाश्यौ-
दुम्बर्याश्वत्थी वा यत्रावस्येत्तस्मिञ्श्रोत्रियागारादग्नि-
माहृत्याऽऽजुह्वान उद्बुध्यस्वेति द्वाभ्यां यस्या समा-
रूढस्तामादधाति व्याख्यातो होमकल्पः" इति ।

 अस्यार्थः--यदि प्रयायात्प्रयाणं कुर्यात्तदा व्याख्यातम् "ऋते[१] गृहस्य प्रवासं व्याख्यास्यामः" इतिखण्डस्थेनायं ते योनिरित्यारभ्य लौकिकमग्निमाहृत्य तस्मिन्नुपावरोहयत इत्यन्तेन सूत्रेणोक्तम् । आत्मन्नरण्योर्वा समारोपणं कुर्यादित्यर्थः । यदि प्रयायात्तस्य व्याख्यातो विधिरित्येतावदुच्यमाने वास्तोष्पतिहोमावसितहोमावपि प्राप्नुतस्तन्निवृत्त्यर्थमेवं सूत्रकरणम् । अग्निना भार्यया च सह गमनं प्रयाणं ताभ्यां विनाऽन्यत्र ग्रामान्तर एकरात्रावमो वासः प्रवासः । आत्मन्नात्मनीत्यर्थः । सुपां सुलुगिति सप्तम्या लुक् । "अथो खल्वाहुर्यदरण्योः समारूढो नश्येत्" इत्यादिना श्रुतावात्मसमारोपस्यैव संस्तवादात्मसमारोप उक्तः । अरण्योर्यथा समारोपकल्पस्तेन कल्पेनेत्यर्थः ।


कल्पः प्रकारः । समिधि वा समारोपयेदित्युक्तं[२] तत्र समिन्नियममाह--खादिरीति । खदिराद्यन्यतमवृक्षस्येत्यर्थः । यत्र यस्मिन्देशेऽवस्येद्वासं कुर्यात्तस्मिन्देशे श्रोत्रियागाराच्छ्रोत्रियगृहादग्निमाहृत्याऽऽजुह्वान उद्बुध्यस्वेतिद्वाभ्यां मन्त्राभ्यां यस्यां समिधि समारूढोऽग्निस्तां समिधं तस्मिन्नग्नावादधाति । व्याख्यात उक्तः । "नित्यमत ऊर्ध्व सायंप्रातरित्यारभ्य सौरीं पूर्वां प्रातरेके समामनन्ति" इति सूत्रेणेति शेषः । अथवा व्याख्यातः श्रुतौ होमकल्पो वास्तोष्पतिहोमकल्प इत्यर्थः । अस्मिन्पक्षेऽवसितहोमनिवृत्त्यर्थं पूर्वत्र गुरुसूत्रं द्रष्टव्यम् । एतस्य क्षेपकत्वे समित्समारोपो नास्त्येव । आत्मसमारोपारणिसमारोपावाकाङ्क्षितत्वेन श्रौतसूत्रात्प्राप्नुतः । इयं प्राप्तिस्तु श्रौतमध्ये स्मार्ताम्नानात्सिद्धा ।

 कृतात्मसमारोपणस्य धर्मा उक्ता बौधायनेन--

"आत्मनि समारूढेषु न खादेन्न पिबेन्नोपरि शयीत नाप्सु निमज्ज्यान्न
मैथुनं व्रजेदिति कामं खादेत्कामं पिबेत्कामं त्वेवोपरि शयीत न
त्वेवाप्सु निमज्ज्यान्न मैथुनं व्रजेत्" इति ।

 उपरि खट्वादौ । नाप्सु निमज्ज्यादिति निमज्जनस्यैव निषेधो न तु स्नानस्य । द्विविधं हि स्नानम् । निमज्जनरूपमाप्लवनरूपं च । तत्र निमज्जनमप्स्वन्तर्धानरूपम् । आप्लवनं तु शीतोष्णाभिरद्भिः स्नात्वाऽऽचम्याऽऽप्लवन्त इत्यादिना विहितं शरीरप्रक्षालनरूपम् ।

 अत एवावभृथेष्टौ--

"पत्नीयजमानौ स्नातावमज्जन्तावन्योन्यं पृष्ठे प्रधावतः "

 इति सूत्रे मज्जनव्यतिरिक्तप्रकारकस्नानोक्तिः संगच्छते । मज्जने कृते तु पुनराधानम् ।

 तथा च मण्डनः--

"आत्मारूढेषु मज्जेद्वा वदेद्वा पतितादिभिः ।
अथवा योषितं गच्छेदनृतौ काममोहितः ॥
वदन्त्येषु निमित्तेषु केचिदग्निविनाशनम् ।
यद्वा सर्वोपघातेषु पुनस्त्वेति समिन्धनम्" इति ॥

 आत्मारूढेष्विति सर्वत्रानुवर्तते । अस्मिन्वाक्ये निमज्जनपतितादिसंभाषणानृतुकालिकयोषिद्गमनैरग्निविनाशस्य पाक्षिकत्वोक्तेरितरेषु नैवाग्निविनाश इत्यर्थादवगम्यते । मैथुनमज्जने विहायान्यनियमातिक्रमे मनस्वतीमन्त्रजपः प्रायश्चित्तमिति प्रदीपाच्च । अत्र मैथुनमज्जनग्रहणं पतितादिसंभाषणोपलक्षणं मण्डनेनैकवाक्यत्वाय । आत्मसमारोपणकौमुद्यामापस्तम्बः--

"यद्यग्न्यारूढा समिदप्सु निमज्जयेद्यद्यात्मरूढाग्निरप्सु निमज्जेच्छिरो
दक्षिणं पाणिं वा निमज्जयेत्पुनराधानकारणं भवतीत्येके" इति ।

 मुखे समारोपणपक्षे शिरसो निमज्जननिषेधः । हस्ते समारोपणपक्षे हस्तनिमज्जनस्य निषेध इति व्यवस्था द्रष्टव्या ।

 प्रायश्चित्तसार आत्मसमारोपं प्रकृत्य--

"जले निमज्ज्य न स्नायान्नोपेयाच्च स्त्रियं तथा ।
कृत्वा मूत्रपुरीषे तु चिरं नाऽऽसीत चाशुचिः" इति ॥

बौधायनः--

"अथ यद्यात्मसमारूढेष्वव्रत्यं चरेदरणिनाशोक्तदोषो वा भवे-
दग्न्याधेयमरणिविना[३]शेन विनाश उक्तः" इति ।

 अस्यायमभिप्रायः--अरण्योरुपघाते तयोरुत्सर्ग एवोक्तस्तद्द्वाराऽग्नीनां नाशस्तत्र समारूढत्वात् । तथा पाण्योर[४]प्यरणीसाम्यदृष्ट्याऽरणीनाशोक्तदोषो वा भवेदग्न्याधेयमित्युक्तम् । न त्वन्तरात्मनि दोषसंभवः । तत्र तु यदि बुद्धिपूर्वमभक्ष्यभक्षणादिरूपमव्रत्याचरणं कुर्यात्तदाऽऽत्मनो दोषः पुनरुपनयनादिकारणरूपः स्यात् । तत्र समारूढत्वादग्नीनामपि विनाशस्तदैव पुनराधानमिति । शरीरस्य त्वायतनस्थानापन्नत्वाच्छूद्रादिस्पर्शेऽपि स्नानादिनैव शुद्धिः । अन्यथा गायत्र्यादिमन्त्राणामपि नाशः स्यात् । आत्मनः सर्वव्यापित्वे सत्यपि स्था[५]नविशेष एव समारोपितेऽग्नौ सप्तभिः पञ्चभिस्त्रिभिर्वा वेष्टनैररणी समिधं वा संवेष्ट्य गच्छेत् ।

 उक्तं चैतद्यज्ञपार्श्वे--

"सप्तभिः पञ्चभिर्वाऽपि त्रिभिर्वा वेष्टनैर्युते ।
अरणी न प्रदुष्येते पतितादिसमागमे" इति ॥

 अरणीवत्समि[६]धोऽपि ज्ञेयम् । वेष्टनद्रव्याणि तु शौनकेनोक्तानि--

"अजिनं कम्बलं दर्भा गोकेशाः शाणमेव च ।
भूर्जपत्रं तालपत्रं सप्तधा वेष्टनं स्मृतम्" इति[७]

 पञ्चपक्षे भूर्जपत्रतालपत्रयोर्निवृत्तिः । त्रित्वपक्षे गोकेशशाणभूर्जपत्रतालपत्राणां निवृत्तिरिति ज्ञेयम् ।

अथ प्रयोगः ।

 प्रयास्यन्पूर्वं स्वीकृते अरणी गृहीत्वाऽयं त इत्यस्याग्नि[८]र्जा[९]तवेदा अग्निस्त्रिष्टुप् । समारोपणे विनियोगः । 'ॐ अयं ते योनि० रयिम्' इति पत्न्यन्वारब्धस्तयोरग्निं समारोपयति । ततो निवासस्थले शुद्धदेशेऽरणी निधायाग्न्यायतनं संपाद्य, उपावरोहेत्यस्य विश्वे देवा जातवे[१०]दा अनिस्त्रिष्टुप् । उपावरोहणे विनियोगः । 'ॐ उपावरोह जातवे० दुरोणे' इति पत्न्यन्वारब्धः प्रागस्तमयान्मन्थनेनोपावरोह्य पुष्टं कृत्वाऽऽयतनसंस्कारं कृत्वा तमग्निं स्थापयेत् । मन्थनकालेऽन्येन मन्थने क्रियमाणे यावदग्नेर्जन्म तावदरणी संस्पृशन्नास्ते । यद्युत्पादनप्रयत्नो निष्फलस्तदा पुनर्मन्त्रमुक्त्वा यत्नः कार्यः । मन्त्रो यजमानस्यैव ।

 आत्मसमारोपे तु--या ते अग्ने यज्ञियेत्यस्य विश्वे देवा अग्निस्त्रिष्टुप् । आत्मसमारोपे विनियोगः । 'ॐ या ते अग्ने यज्ञिया तनू० क्षय एहि' इत्यात्मनि समारोपयति ।

 ततो निवासस्थले प्रागस्तमयाच्छुद्धे देशेऽरणी संस्थाप्य तयोरुपावरोह जातवेद इत्युपावरोहति । आत्मसमारोपो नाम दक्षिणहस्तस्याग्नौ प्रतपनमिति केचित् । हस्तद्वयप्रतापनमित्यन्ये । तूष्णीमेव प्रताप्य मन्त्रेण तमूष्माणं मुखे गृह्णीयात् । मन्त्रेण प्रताप्य तूष्णीं मुखे गृह्णीयाद्वेत्यपरे । आत्मसमारोप उपावरोहणं नाम नासिकया श्वासमोचनम् । एतच्चोष्मणो मुखे ग्रहणमिति पक्षे । हस्तप्रतपनमात्रपक्षे तु मन्त्रेण संस्पर्शनमिति ज्ञेयम् । अरण्योर्यदि न स्वीकारस्तदा श्रोत्रियगृहाल्लौकिकमग्निमाहृत्य संस्कृतायतने संस्थाप्याऽऽत्मारूढाग्नेस्तेनैव मन्त्रेण तत्रोपावरोहणं कुर्यात् ।

 समित्समारोपे तु खादिरपलाशोदुम्बराश्वत्थान्यतमवृक्षस्य समिधं गृहीत्वाऽयं त इति तस्यां समारोप्य यत्र निवसेत्तत्र शुद्धे देशे श्रोत्रियागारादाहृतं लौकिकाग्निं संस्कृतायतने संस्थाप्य प्रज्वाल्य, आ जुह्वान उद्बुध्यस्वेति द्वाभ्यां समारूढाग्निकां समिधं तस्मिन्नाधाय नित्यहोमं कुर्यात् ।

 व्याधिते प्रोषिते वा यजमाने समारोपार्थमृत्विजं वृत्वा तेन कारणीयः । तदलाभे भार्ययाऽपि । यजमानस्य स्वसंस्कारव्यतिरिक्तकर्मसु भवेदेव प्रतिनिधिरिति स्थापितत्वात् । तस्यामप्ययोग्यायां पुत्रादिना कार्यः । आत्मस मारोपो यजमानेन पत्न्या वा कार्यः, न तु ऋत्विक्पुत्रादिभिः । आपदि प्रयाणप्राप्तावसंनिहिते च यजमान ऋत्विजाऽरणीसमारोपः कार्यः । भार्ययाऽऽत्मसमारोपो वेत्यादि ज्ञेयम् । अरणीसमित्समारोपे--अयं ते योनिरित्ययं मन्त्रो भ्रमान्न पठितोऽन्यथा पठितो वा तदा न समारोपसिद्धिः । समारोपभ्रमेणोपेक्षितस्याग्नेरनुगमनेऽनुगतप्रायश्चित्तविधिनैवाग्निरुत्पाद्यो नावरोपविधिना । अन्यथोत्पादने पुनःसंधानमेव । अग्न्यनुगमनिमित्तकमग्निसंधानं प्रोषिते यजमाने पत्न्यर्त्विजा कारणीयं द्वादशाहात्प्राक् । ऊर्ध्वं तु यजमानागमनोत्तरं पुनः संधानमेव । तत्र संकल्पत्यागौ पत्न्यैव कार्यौ । समिन्नाशादिनिमित्तकमग्निसंधानमपि यजमानागमनोत्तरमेव । यजमाने प्रोषिते पत्न्यामृतुमत्यामप्यनुगतेऽग्नावनुगतप्रायश्चित्तार्थमग्निस्थापनादिप्रायश्चित्तमृत्विजा कार्यमेव । आशौचे समारोपावरोपौ न भवतोऽशुचित्वात् । न चर्त्विजा कारणीयावेताविति वाच्यं, मन्त्रलिङ्गात् । स्वपरसूत्रतद्व्याख्यानेभ्यश्च स्वस्यैव क[११]र्तृतायाः क्लृप्तत्वात् ।

 यदि तु समारूढाग्नेः पर्वण्याशौचं प्राप्नोति तदा पुनःसंधानमेव । यदि भ्रान्त्या तस्याग्नेः पुनःसंधानमकृत्वैव तत्र संस्काराङ्गहोमादि करोति तदा स्मरणोत्तरं सर्वप्रायश्चित्तं जुहुयान्न पुनः प्रधानक्रिया । ग्रामसीमातिक्रमसमये नद्यतिक्रमसमये च दंपती अरण्यन्वारम्भं कुरुतः । अकरणेऽग्निर्लौकिकः । नानासीमास्वपि प्रथमान्त्ययोरिति केचित् ।

 आपदि यजमानासंनिधौ भार्यैवान्वारभते । अनेकासु भार्यासु सतीषु ज्येष्ठाया एवान्वारम्भ आवश्यकः,

"ज्येष्ठाऽन्वारभते वह्निं बहुभार्यस्य नेतराः" इति संग्रहोक्तेः ।

 नान्वारम्भः पत्न्या आत्मसमारोपे । अप्रोषितेऽपि यजमाने होमकाले पत्न्या ग्रामान्तरगमने नद्यतिक्रमे च लौकिकत्वमेवाग्नेरिति ज्ञेयम् ।

इति प्रयाणविधिः ।

अथ प्रवासविधिः ।

 तत्रेदं सूत्रम्--ऋते गृहस्य प्रवासं व्याख्यास्यामोऽग्नीन्समाधेहीत्यादि भार्यां समीक्षत इत्यन्तम् । अत्र यावदुपयुक्तं सूत्रं तावत एव व्याख्या प्रदर्श्यते । मा प्रगामेति मन्त्रद्वयमुक्त्वा विहारदेशमागच्छति । अग्नीनां सकाशे[१२] समीपे वाचं यच्छति । असकाशे यस्मिन्प्रदेशेऽग्नीनां छदींष्यदृश्यानि भवन्ति तत्र गत्वा वाचं विसृजते । व्रतकाले व्रताचरणं कर्तव्यमित्याह--व्रतकालेषु व्रतं चरतीति । प्रादुष्करणप्रभृति नाश्नीयादा होमादित्यादि व्रतम् । एतच्चर्तावृतौ कार्यमित्याह--ऋतुं प्रत्युपतिष्ठत इति । प्रवासविलम्बे प्रत्यृतु प्रवासोपस्थानं कुर्यान्मासद्वये मासद्वय इत्यर्थः । यद्यनुपस्थिताग्निं प्रति प्रवास आपद्येत प्राप्नुयात्तदेहैव सन्नित्यनेन विहाराभिमुखस्तत्रैवोपस्थाय गच्छेत् । प्रोष्य प्रवासं कृत्वाऽऽगतोऽग्नीनामसकाशे यस्मात्प्रदेशादग्रिमे प्रदेशेऽग्नीनां छदींषि दृश्यानि भवन्ति तत्र स्थितो वाचं नियम्याग्निसमीपं गत्वा वाचं विसृजेत् । कः पुरुषः श्रेयांसं महान्तं पूज्यं पुरुषं विषुप्तं विशेषेण स्वपन्तं बोधयतीति लोकप्रसिद्धिः, अतोऽग्नेस्तु सुतरां को बोधयिता । अप्रादुष्कृतस्यैव भस्मच्छन्नस्यैवाग्नेरुपस्थानमित्येकेषामाचार्याणां मतं तच्चाभयंकराभ्यामेव । अप्रादुष्कृतोपस्थानं प्रकृत्यैवोक्तत्वात् । अ[१३]ल्पोपस्थानविधिरेवात्रोपयुज्यते न पूर्वः । तस्य बह्वग्निविषयत्वात् । अप्रादुष्कृतानामिति बहुवचनं श्रौत उपयुज्यते, तत्राग्नीनां बहुत्वात्प्रवासं करिष्यन्नभयंकराभयं मे कुरु स्वस्ति मेऽस्तु प्रवत्स्यामीत्युपस्थानं कुर्यात् । प्रोष्य तु--अभयंकराभयं मे कार्षीः स्वस्ति मेऽस्तु प्रावात्स्यमिति । ततो गृहा मा बिभीतेत्यादि भार्यां समीक्षत इत्यन्तं कुर्यात् ।

 मौनविषये पक्षद्वयमुक्तं मण्डनन--

"अग्न्यन्तिकं समारभ्य तावन्मौनी प्रतिष्ठते ।
यावच्छदींषि दृश्यन्ते हव्यवाहनसद्मनि ॥
चक्षुर्गोचरताऽग्नीनां जायते यावदन्तरा ।
तावत्येव भवेन्मौनमिति सांख्यायनाशयः" इति ॥

 अरण्यारोपितेऽग्नौ प्रवासप्राप्तौ स एव--

"अरण्यारोपितोऽप्यग्निरभयंकरमन्त्रतः ।
उपस्थेयोऽप्रणेयत्वाद्भस्मसंछन्नवह्निवत्" इति ॥

 अस्मिन्विषये पक्षान्तरमप्युक्तं तेनैव--

"यद्वाऽरणिगते वह्नौ प्रवसेदाव्रजेत वा ।
उभयत्राप्युपस्थानं नास्ति कौषीत[१४]किश्रुतेः" इति ॥

 उपस्थाय प्रवासं न करोति चेत्तदाऽप्यागतोपस्थितिः कार्यैव ।

 तथा च स एव--

" प्रवत्स्यामीत्युपस्थाय वह्निं न प्रवसेद्यदि ।
आगतोपस्थितिं चात्राप्याह कौषीतकी श्रुतिः" इति ॥

 प्रवासनिमित्तेन प्रवत्स्यामीति संकल्प्य प्रवासं यदि न करोति तदाऽप्युपस्थानं कार्यमेव ।

तदाह स एव--

"उपस्थानं हि संकल्प्य प्राक्प्रवासान्निवर्तते ।
उपस्थातव्यमेवेति प्रक्रमन्यायिनो विदुः ॥
आगतोपस्थितिस्तत्रापीष्टा कौषीतकिश्रुतेः" इति ।

 यदि राजादिपुरुषा उपस्थानायावसरं न दद्युस्तदेहैवेत्युपस्थानं कृत्वा गन्तव्यम् ।

तथा च स एव--

"बलाद्राजादिपुरुषा यजमानं नयन्ति चेत् ।
न प्रयच्छन्त्युपस्थानावसरं क्रूरचेष्टिताः ॥
तदा कुर्यादुपस्थानं तद्देशगत एव सन् ।
इहैवेत्यादिमन्त्रेण सर्वाग्नीनां च तन्त्रतः" इति ॥

 गृह्ये तु--इहैव सन्तत्र सन्तं त्वेत्ययमेव मन्त्रो ग्राह्यः । न त्विहैव सन्तत्र सतो वो अग्नय इति । अग्नेरेकत्वात् ।

 यदि तु यत्र कुत्रापि स्थितस्य प्रवास आपद्येत तदाऽप्येष एव विधिः ।

तथा च मण्डनः--

"आगमिष्यामि चाद्यैवेत्यनुपस्थाय निर्गतः ।
दैवात्तत्र स्थितः कुर्यादिदमेवेति केचन" इति ।

 यदि तु यत्र कुत्रापि स्थितस्य प्रवासप्राप्तौ विस्मृत्य विधिर्न कृतस्तत्राप्येष एव कार्यो विधिः ।

तथा च मण्डनः--"विस्मृतेऽपि यदा यातस्तत्राप्येष विधिर्भवेत्" इति ।

 बुद्धिपूर्वं दर्पादनुपस्थाय निर्गमे स एवाऽऽह--

"बुद्धिपूर्वं यदा दर्पादनुपस्थाय निर्गतः ।
अनाज्ञातजपं कृत्वा तत्राप्येष विधिर्भवेत्" इति ॥

 एषोऽनन्तरोक्तः, इहैवेत्युपस्थानरूपः ।

 अत्र मनस्वतीहोमोऽपि भरद्वाजसूत्रव्याख्यातृभिरुक्तः--

"यद्युपस्थानमकृत्वा प्रवासं करोति तदा मनस्वतीं जुहोति" इति ।

 आगतोपस्थितेरकरणेऽपीदमेव प्रायश्चित्तं द्रष्टव्यम् । इहेत्युपस्थानपक्षे मा प्रगामेत्यस्य लोपः ।

 वाग्यमस्य विकल्पश्चोक्तो मण्डनेन--

"इहेत्युपस्थानपक्षे मा प्रगामेति लुप्यते ।
वाग्यमस्य न लोपोऽत्र भाष्यकारेण दर्शितः ॥

अन्ये त्वाहुर्मन्त्रलोपो मौनलोपोपलक्षणम् ।
इहेतिपक्षे नास्त्यन्यदिति नारायणोऽब्रवीत्" इति ॥

 इहैवेत्युपस्थाय गत ऋतुनिमित्तकमुपस्थानमभयंकरेणैव कार्यमिति केचित् । इहैवेत्यनेनैवेत्यन्ये । आगतोपस्थितिर्नेहैवेत्यनेन । तथा च मण्डनः--

"इहैवेति गतस्यापि नाऽऽगतस्य तदिष्यते" इति ।

 अत्र प्रत्येत्योपस्थानं त्वभयंकरेणैव ।

 दशरात्राधिकप्रवासे मनस्वतीहोम उक्तः सूत्रे--

"मनोज्योतिर्जुषतामित्यध्वर्युराहुतिं जुहोति यदि दशमीमतिप्रवसति" इति ।

 मण्डनोऽपि--"प्रोष्य भूयो दशरात्राज्जुहोतीत्याश्वलायनः" इति ।

 गृहाभिगमनादिकं मनस्वतीहोमोत्तरमेव कार्यम् ।

तथा च मण्डनः--"हुते मनस्वतीहोमे गृहाभिगमनादिकम्" इति ।

 अयं मनस्वतीहोमः प्रादुष्कृतोपस्थानान्तर्गते(त इ )ति नाभयंकरोपस्थाने नापीहेत्युपस्थान इति भाष्यकृत् । अन्ये तु होमार्थमुद्धृते मनस्वतीमिच्छन्ति । सूत्रक्रमोऽप्येतादृश एव । संवत्सरातिप्रवासे तु पवित्रेष्टिः ।

तथा च मण्डनः--

"संवत्सरमतिप्रोष्य पवित्रेष्ट्या यजेदिति ।
बौधायनादयः प्राहुर्नेच्छन्तीष्टिमथापरे ॥
इष्टिपक्षं यत्र कुर्यात्तत्र हुत्वा मनस्वतीम् ।
पुनर्विहृत्य कृत्वेष्टिं गृहाभिगमनादिकम् ॥
इष्टिपर्याप्तकालश्चेत्तस्मिन्नह्नि न लभ्यते ।
तदैव सर्वं कर्तव्यमिष्टिमात्रं परेऽहनि" इति ॥

 गृह्ये त्विष्टिस्थाने चरुः, ([१५]"य आहिताग्नेः पुरोडाशास्तेऽनाहिताग्नेश्चरवः" इति शास्त्रात् । ) ऋत्वतिप्रवासे व्रातभृती कैश्चिदुक्ता । अत्रापि मनस्वत्याः समुच्चयः । ऋत्वतिप्रवासे व्रातभृती । संवत्सरातिप्रवासे पवित्रेष्टिः ।

तदुक्तं सूत्रान्तरे--

"यद्यृतुमतिप्रवसेद्व्रातभृत्या यजेत यदि संवत्सरमतिप्रवसेत्पवित्रेष्ट्या" इति ।

सूत्रान्तरे तु--"यदि संवत्सरमतिप्रवसेत्पवित्रेष्ट्या वैश्वानर्या वा यजेत" इति ।

 पक्षे वैश्वानर्यप्युक्ता । सर्वत्र मनोज्योतिरिति समुच्चीयत इति व्याख्यातारः । चन्द्रिकायां पैठीनसिः--

"प्रस्खलीकृतधर्मस्य पीड्यमानस्य शक्तिभिः ।
मासद्वयं प्रवासोऽस्ति परतो नाऽऽहिताग्निवत्" इति ॥

 मासद्वयस्योपर्यनाहिताग्नेराहिताग्निवत्प्रवासो नास्तीत्यर्थः ।

 अत्र होमार्थं द्विजं प्रकल्प्य प्रवसेदित्युक्तं कूर्मपुराणे--

"निक्षिप्याग्निं स्वदारेषु परिकल्प्यर्त्विजं तथा ।
प्रवसेत्कार्यवान्विप्रो वृथैव न चिरं वसेत्" इति ॥

 अत्र कार्यवानिति धनार्थी न तु तीर्थाद्यर्थी ।

तथा च मण्डनः--

"धनमर्जयितुं युक्तः प्रवासो ह्यग्निहोत्रिणः ।
धनैर्हि संभवेदिज्या तीर्थाद्यर्थं तु न व्रजेत्" इति ॥

 तीर्थाद्यकरणे कारणमाह स एव--

"ब्रह्मा विष्णुः शिवः सूर्यो गौर्विप्राः पितृदेवताः ।
अग्निहोत्रिगृहे सन्ति तीर्थानि च तपांसि च" इति ॥

 मध्ये तीर्थप्राप्तौ स्नानं कर्तव्यमेव, [१६]

"धनाद्यर्थं व्रजन्मार्गे यदि तीर्थमवाप्नुयात् ।
शालीनो लभते स्नातुं न तदर्थं पृथग्व्रजेत्" इति[१७]

 प्रयाणे मध्ये नौकाधिरोहणप्राप्तौ मृत्पूर्णं शूर्पं निधाय तत्रारणी संनिधं वा संस्थाप्य तपतीं वाऽन्वार[१८]भ्यैश्वपारं (?) गच्छेतामिति विशेषः ।

अथ प्रयोगः ।

 प्रवासं करिष्यन्नाचम्य प्रवासं कर्तुमुपस्थानं करिष्य इति संकल्प्य, अभयंकराभयं मे कुरु स्वस्ति मेऽस्तु प्रवत्स्यामीति भस्मच्छन्नमेवाग्निमुपस्थाय 'मा प्रगाम पथो वयं मा यज्ञादिन्द्र सोमिनः । मां तस्थुर्नो अरातयः । उदस्मा उत्तरां नयाग्ने घृतेनाऽऽहुत । रायस्पोषेण स सृज प्रजया च बहून्कृधि' [इति] तस्माद्देशाद्गच्छति । इत आरभ्य वाचं यच्छति यावच्छदींष्यदृश्यानि भवन्ति, अग्निर्वा भवत्यदृश्यस्तावत्पर्यन्तमनन्तरं वाचं विसृजते ।

 मध्ये वाग्यमलोपे--इदं विष्णुरिति वैष्णव्यृग्ज( वर्ग्ज)पं समस्तव्याहृतिजपं च कृत्वा पुनर्वाचं यच्छति । गृहं प्रत्यागमने यदा छदींषि दृश्यानि भवन्ति, अग्निर्वा भवेद्दृश्यस्तावत्पर्यन्तं वाचं यच्छति ।

 ततो गृहगतो हस्तपादप्रक्षालनं कृत्वाऽऽचम्य वाचं विसृज्य, "अभयंकरा भयं मे कार्षीः स्वस्ति मेऽस्तु प्रावात्स्यम्" इति भस्मच्छन्नमेवाग्निमुपतिष्ठते । एतच्च प्रवासस्थेनर्तावृतौ कर्तव्यम् । अत्र तस्माद्देशाद्गमनाभावेऽपि केवलमुपस्थानमात्रं कर्तव्यं व्रतकाले व्रताचरणं च । यदि तु यत्र कुत्रापि स्थितस्य प्रवास आपद्येत तदा तत्रैव तिष्ठन्स्वाग्न्यभिमुख इहैव सन्तत्र सन्तं त्वेत्यस्य विश्वे देवा अग्निस्त्रिष्टुप् । उपस्थाने विनियोगः । "ॐ इहैव सन्तत्र सन्तं त्वाऽग्ने प्रा० नरेणोपतिष्ठे" इत्युपस्थाय गच्छेत् । यदि राजादिपुरुषा बलान्नयन्ति, उपस्थानावसरं न प्रयच्छन्ति तदा तद्देशगत एवोपस्थानं कुर्यात् । प्रवासादागतं उपस्थानानन्तरं गृहा मा बिभीतेत्यादि कुर्यात्[१९] । तच्च वास्तुशमननिरूपणानन्तरं वक्ष्यते । उपस्थाय निर्गतस्य पुनस्तदहरेव प्रत्यागमने भवेदेवोपस्थानम् ।

 प्रवासादागतस्य गृहप्रवेशोत्तरं यद्याशौचज्ञानं तदाऽप्यागतोपस्थितिर्भवत्येव ।

 यथाऽऽह श्रौतग्रन्थे मण्डनः--

"रजोदोषे समुत्पन्ने सूतके मृतकेऽपि च ।
नित्यं नैमित्तिकं कुर्यात्काम्यं कर्म न किंचन" इति ॥

 अनेनैवागति[२०]कप्रवासगमनेऽपि न दोषः ।

 यत्तु--

"रजोदोषे समुत्पन्ने सूतके मृतकेऽपि वा ।
प्रवसन्नग्निमान्विप्रः पुनराधानमर्हति" ॥

 इति तदग्नि[२१]युक्तस्य गमननिषेधकम् । अन्यथाऽग्निमत्पदवैयर्थ्यापत्तेः । यानि तु सूतकादौ प्रवासनिषेधकानि तानि स्मार्तविषयाणीति प्रायश्चित्तकुतूहले । केचित्तु--आत्मसमारूढाग्निकस्य गमननिषेधकमित्याहुः । वस्तुतस्तु रजोदोषे समुत्पन्न इत्येतद्वचनेऽग्निमानित्यनन्तरमपिशब्दस्यान्वयः कार्यः । तथा च यथाऽग्नियुक्तस्याऽऽत्मसमारूढाग्निकस्य च गमननिषेधकं तथाऽग्निविरहितस्यापीति । एवं च शिष्टाचारोऽप्यनुगृहीतो भवति ।

 आशौच आगतोपस्थानं गृह्याग्नेर्न भवतीति केचित् । एतस्यापि श्रौतत्वाद्भवत्येवेत्यन्ये ।

 अरणिपक्षेऽरण्यारूढस्याप्यग्नेर्भस्मच्छन्नवह्निवदभयंकरमन्त्रेणोपस्थानं भवति । एवं समिदारूढस्याग्नेर्बुद्ध्योपस्थानमकृत्वैव निर्गमने प्रत्यागमनानन्तरं मनस्वतीहोमः सर्वप्रायश्चित्तं च । अमत्या गमनेऽनाज्ञातत्रयजपः सर्वप्रायश्चित्तं च । प्रत्यागमनोपस्थानाकरणेऽपीदमेव प्रायश्चित्तम् । दशरात्राधिकप्रवासे मनस्वती होतव्या । ऋत्वधिकप्रवासेऽग्नये व्रतभृते चरुः । संवत्सरातिप्रवासे पवित्रेष्टिदेवताभ्यो जुहुयात् । तत्राग्नये पवमानाय चरुः सरस्वत्यै प्रियाया आज्यम् । अग्नये पावकाय चरुः । सवित्रे सत्यप्रसवायाऽऽज्यम् । अग्नये शुचये चरुः । वायवे नियुत्वत आज्यम् । अग्नये व्रतपतये चरुः । विष्णवे शिपिविष्टायाऽऽज्यम् । अग्नये वैश्वानराय चरुः । दधिक्राव्ण आज्यम् । स्थालीपाकोक्तरीत्याऽऽघारवत्तन्त्रेणैव यथाक्रमं होमः । अथवा वैश्वानरस्थालीपाक एव कार्यः । उभयत्रापि मनस्वत्याः समुच्चयः । यस्यां दिश्यग्निर्भवति तदभिमुखः स्थित्वा होमसंबन्ध्युपस्थानं कुर्यात् । पत्यौ प्रोषिते पत्न्यौपासनहोमपार्वणस्थालीपाकपिण्डपितृयज्ञनैमित्तिकप्रायश्चित्तान्यृत्विग्द्वारा कारणीयानि । उद्देशत्यागमात्रं स्वकर्तृकम् । स्वयं यदि [२२]रजोवती प्रसूता वा तदा त्याग ऋत्विजैव कारणीयः । आग्रयणं तु--अग्निहोत्रीं वै नानाऽऽदयित्वा तस्याः क्षीरेण जुहुयादित्यनुकल्पेनैव । पुनःसंधानगृहदाहादिनिमित्तकस्थालीपाकास्तु पत्यागमनपर्यन्तं न कार्यः (र्याः)। प्रायश्चित्तार्थस्थालीपाकप्राप्तौ पूर्णाहुतिः । प्रवासस्य निमित्तं तु धनं विद्या च, न तु तीर्थादिकम् । पत्युर्धनार्जनार्थं प्रवासं कर्तुमशक्तौ पत्न्याऽपि प्रवासोपस्थानमकृत्वैव तदर्थं प्रवासः कर्तव्य एव । होमसंबन्ध्युपस्थानं तु तया न का[२३]र्यम् । व्रताचरणं तु भवत्येव । सर्वोऽपि प्रवासविधिर्गार्ह्ये कृताकृतः । तत्र करणे त्वभ्युदयः । अकरणे प्रत्यवायाभाव इति ज्ञेयम् । करणपक्षे सर्वथा कर्तव्य एव । इति प्रवासविधिः ।

अथान्तरितस्थालीपाकप्रयोगः ।

 कर्ता पाथिकृतेन स्थालीपाकेन सहामुकस्थालीपाकेन यक्ष्य इति संकल्प्याग्निं प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा पथिकृत्सहितांन्तरितामुकस्थालीपाककर्मणि या यक्ष्यमाणा देवतास्ताः सर्वाः परिग्रहीष्यामि, अग्निं पथिकृतं चर्वाहुत्या यक्ष्ये, आग्निं चर्वाहुत्या यक्ष्ये, अग्निं स्विष्टकृतं[२४] हुतशेषचर्वाहुत्या यक्ष्ये, एता देवताः सद्यो यक्ष्य इत्युक्त्वाऽन्वाधा[२५]नसमिधोऽग्नावभ्याधायाग्निं परिस्तीर्य, अग्नेरुत्तरतो दर्भान्संस्तीर्य तेषु दर्वीमाज्यस्थालीं प्रोक्षणीपात्रमुपवेषं चरुस्थालीद्वयं मेक्षणद्वयं शूर्पं कृष्णाजिनमुलूखलं मुसलं संमार्गदर्भानवज्वलनदर्भानाज्यं समिधं चाऽऽसादयेत् ।  असंभवेन समोप्यैतं व्युद्धारं जुहुयादित्याश्वलायनोक्तपक्षा[२६]न्तराङ्गीकारे त्वेकैव चरुस्थाली, एकमेव मेक्षणमुद्धरणपात्रद्वयमेकं वेति विशेषः ।

 ततः पवित्रकरणादि चरूद्वासनान्तं समानम् । व्युद्धृत्य जुहुयादित्येतस्मिन्पक्षे--अयमग्नये पथिकृतेऽयमग्नय इति निर्देशः ।

 ततोऽग्निं परिषिच्याऽऽसादितां समिधं तूष्णीमभ्याधायाऽऽसादितेन प्रथमचरुमेक्षणेन प्रथमचरोरुपहत्य, 'ॐ अग्नये पथिकृते स्वाहा' इति जुहोति । अग्नये पथिकृत इदं० ।

 ततो द्वितीयचरुमेक्षणेन द्वितीयचरोरुपहृत्य, 'ॐ अग्नये स्वाहा' इति जुहोति । अग्नय इदं० ।

 ततो द्वयोश्चर्वोरुत्तरार्धात्सकृत्सकृत्तत्तन्मेक्षणेन दर्व्यां गृहीत्वा, 'ॐ अग्नये स्विष्टकृते स्वाहा' इतीशान्यां पूर्वाहुतिभ्यामसंसक्तां जुहोति । अग्नये स्विष्टकृत इदं० ।

 एकत्र श्रपणपक्ष एकमेक्षण[२७]स्यैव सत्त्वात्तेनैव द्वयोश्चर्वोः कौशल्येनोपह्रत्य होमः कार्यः । बहुदैवते कर्मण्यसंभवाद्दर्व्यां मेक्षणेन गृहीत्वा तया होमः कार्यः ।

 ततो मेक्षणमहरणं कृत्वाऽकृत्वा वा परिस्तरणविसर्गव्याहृतिहोमोत्तरपरिषेकाग्निपूजनसंस्थाजपोपस्थानब्राह्मणभोजनभूयसीदानविष्णुस्मरणेश्वरार्पणानि कुर्यात् । अथवा केवलं पाथिकृत एव कर्तव्यः । न त्वतिक्रान्तकाल: प्राकृतोऽपि ।

 यद्ययं स्थालीपाक उत्तरपर्वण्यपि न कृतस्तदा प्रतिपदादिषु पादकृच्छ्रात्मकप्रायश्चित्तपूर्वकं वैश्वानरस्थालीपाकं केवलं वा प्राकृतेन स्थालीपाकेन समानतन्त्रं वा कृत्वाऽनन्तरमेव पाथिकृतः स्थालीपाकोऽन्तरितद्वितीयस्थालीपाकेन समानतन्त्रः केवलो वा कर्तव्यः । अथवा वैश्वानरपाथिकृतावेवासमानतन्त्रौ कर्तव्यौ ।

 यद्वि द्वितीयोऽप्युत्तरपर्वणि न कृतस्तदा प्रतिपदादिष्वर्धकृच्छ्रं चरित्वा वैश्वानरपाथिकृतौ प्राकृताभ्यां स्थालीपाकाभ्यां समानतन्त्रौ केवलौ वा कृत्वैतावेव स्थालीपाकौ तृतीयेन स्थालीपाकेन समानतन्त्रौ केवलौ वा कुर्यात् ।

 यदि तृतीयोऽप्युत्तरपर्वणि न कृतस्तदा पुनःसंधानमेव ।

 उत्तरस्थालीपाकपर्यन्तं पूर्वस्य गौणकालः । एतदतिक्रम एव पाथिकृतादि प्रायश्चित्तं न मुख्यकालातिक्रमे । इत्येकः पक्षः ।  मुख्यकालातिक्रमेऽपीदं प्रायश्चित्तमिति द्वितीयः पक्षः ।

 आशौचादिमत्त्वेन भार्याया रजस्वलात्वेन वाऽप्यन्तरितस्थालीपाको द्वितीयाचतुर्थीपञ्चम्यष्टमीनवमीचतुर्दशीषु न कर्तव्यः ।

 उक्तं चैतत्प्रयोगपारिजात आश्वलायनेन--

"नातीतेष्टिश्चतुर्दश्यां चतुर्थ्यां मध्यपञ्चके ।
नवम्यां च द्वितीयायां कार्या आहुतयस्तथा" इति ॥

 मध्यपञ्चके, मध्ये पक्षमध्येऽष्टम्यामित्यर्थः । पञ्चके पञ्चमदिवसे पञ्चम्यामित्यर्थः । न च मध्यं च तत्पञ्चकं च मध्यपञ्चकं तत्र, तथा च षष्ठ्यादिदशम्यन्तानां निषेध इति वाच्यम् । तथा सति नवम्युपादानवैयर्थ्यापत्तेरिति केचित् ।

 नवम्युपादानस्य दोषातिशयप्रतिपादनार्थत्वेन सार्थक्यसंभवान्न[२८] षष्ठीसप्तम्यष्टमीदशम्यन्यतमतिथिष्वप्यसंभवे क्रियायां न दोषः । नवम्यां तु सर्वथै[२९]वाक्रियेत्यन्ये । आहुतयः स्थालीपाकाहुतय इत्यर्थः ।

सायणीये प्रजापतिः--

"दर्शश्च पूर्णमासश्च लुप्तोऽथ द्वयमेव वा ।
एकस्य पादकृच्छ्रं स्याद्द्वयोरर्धं प्रकीर्तितम्" इति ॥

इत्यन्तरितस्थालीपाकप्रयोगः ।

अथ गृहस्थस्य गृहकरणमर्थप्राप्तं तदुच्यते ।

 तत्रेदं गृह्यसूत्रम्--

"शालां कारयिष्यन्नुदगयन आपूर्यमाणपक्षे रोहिण्यां त्रिषु चोत्तरेषु" इत्यादि ।

 अत्र मासनियमो नारदेनोक्तः--

"सौम्यफाल्गुनवैशाखमाघश्रावणकार्तिकाः ।
मासाः स्यु[३०]र्गृहनिर्माणे पुत्रारोग्यधनप्रदाः" इति । सौम्यो मार्गशीर्षः ।

 वारादिकमप्युक्तं तत्रैव--

"आदित्यभौमवर्जं तु वाराः सर्वे शुभावहाः ।
चन्द्रादित्यबलं लब्ध्वा लग्ने शुभनिरीक्षिते ॥
स्तम्भोच्छ्रायादि कर्तव्यमन्यत्तु परिवर्जयेत्" इति ।

 नक्षत्राणि गर्गेणोक्तानि--

"त्र्युत्तरामृगरोहिण्यः पुष्यमैत्रकरत्रयम् ।
धनिष्ठाद्वितयं पौष्णं गृहारम्भे प्रशस्यते" इति ॥

 करत्रयं हस्तचित्रास्वातयः । धनिष्ठाद्वितयं धनिष्ठाशततारकानक्षत्रे । पौष्णं रेवती । विस्तरस्तु शान्तिरत्नमालायां द्रष्टव्यः ।

अथ प्रयोगः ।

 कर्तोदगयने शुक्लपक्षे रोहिण्युत्तरा(र)फल्गुन्युत्तराषाढोत्तरा(र)प्रोष्ठपदान्यतमे नक्षत्रेऽसंभवेऽन्यस्मिन्नपि ज्योतिःशास्त्रविहिते नक्षत्रे ज्योतिर्विदादिष्टे मुहूर्ते कृतनित्यक्रिय आचम्य प्राणानायम्य देशकालौ संकीर्त्य शालां कारयिष्यन्होमं करिष्य इति संकल्प्य गणेशपूजनादिनान्दीश्राद्धान्तं कुर्यात् ।

 अत्र शालाकरणकर्मणः पुण्याहं भवन्तो ब्रुवन्त्वित्यादिवाक्येषु वास्तोष्पतिः प्रीयतामिति पुण्याहदेवतोल्लेखवाक्ये[३१] च विशेषः ।

 तत औपासनाग्निं प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा शालाकरणाङ्गभूतहोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहृत्यन्तमुक्त्वाऽङ्गहोमे वरुणं द्वाभ्यामित्यादि व्याहृतिहोमान्तं कृत्वाऽङ्गहोमजयाद्युपहोमादिसंस्थाजपान्तं कृत्वा त्रिवृदन्नहोमपुण्याहादिवाचने कुर्यात् ।

 तत्र शालाकरणहोमकर्मणीत्यन्वाधानवाक्ये विशेषः[३२] । अत्रापि वास्तोष्पतिः प्रीयतामित्येव । नास्त्यत्र वैशेषिकहोमः । जयादयस्ते च(स्त्वत्र?) वैकल्पिकाः ।

 ततोऽहतं वासः परिधाय द्विराचम्य देवस्य त्वेत्यस्य सोमोऽग्निर्वा विश्वे देवा वा सविताभ्रिर्यजुः । अभ्र्यादाने विनियोगः । 'ॐ देवस्य त्वा सवि० माददेऽभ्रिरसि नारिरसि' इत्यभ्रिमादाय, परिलिखितमित्यस्य सोमोऽवटो यजुः । परिलेखने विनियोगः । 'ॐ परिलिखित र० अपि कृन्तामि' [इति] त्रिः प्रदक्षिणमवटं परिलिखति सकृन्मन्त्रेण द्विस्तूष्णीम् । एवं प्रत्यवटं यावद्भिरवटैः प्रयोजनं तावतः खात्वा वटसंबन्धिपांसूञ्शालाया अभ्यन्तरं प्रकिरति । उच्छ्रयणक्रमोऽवटानां क्रमः । 'ॐ इहैव ध्रुवां निमिनोमि शालां क्षेमे तिष्ठति घृतमुक्षमाणा । तां त्वा शाले सुवीराः सर्ववीरा अरिष्टवीरा अनुसंचरेम[३३] ।' इति द्वारस्थूणयोर्दक्षि[३४]णां स्थूणामुच्छ्रयति । उच्छ्रि[तां कृ]त्वाऽवटे स्थापयतीत्यर्थः ।

कृत्वाऽग्रतो द्विजवरानथ पूर्णकुम्भं दध्यक्षताम्रदलपुष्पफलोपशोभम् ।
दत्त्वा हिरण्यवसनानि तथा द्विजेभ्यो माङ्गल्यशान्तिनिलयं स्वगृहं विशेच्च" इति ॥

 तथा--

"वास्तुपूजामकृत्वा यः प्रविशेन्नवमन्दिरम् ।
रोगान्नानाविधान्क्लेशानश्नुते सर्वसंकटान्" इति ॥

अथ प्रयोगः ।

"गृहा मा बिभीत मा वेपीढ्वमूर्जं बिभ्रत एमसि ।
ऊर्जं बिभ्रद्वसुवनिः सुमेधा गृहानेमि मनसा मोदमानः ॥
येषामभ्येति प्रवसन्नेति सौमनसो बभुः ।
गृहानुपह्वयामहे ते नो जानन्तु जानतः ॥
उपहूता इह गाव उपहूता अजावयः ।
अथो अन्नस्य कीलाल उपहूतो गृहेषु नः ॥
उपहूता भूरिसखाः सखायः स्वानुसंमुदः ।
अरिष्टाः सर्वपूरुषा गृहा नः सन्तु सर्वदा ॥
ऊर्जस्वन्तः पयस्वन्त इरावन्तो ह सामुदः ।
अनश्या अ[३५]तृष्या गृहा माऽस्मद्बिभीतन" ॥

 इति धृतपूर्णकुम्भसुवासिनीपुरःसरः से[३६]ष्टदेवतः सकुटुम्बो गृहसमीपं गच्छति

"ॐ क्षेमाय वः शान्त्यै प्रपद्ये शिव शग्म शंयोः शंयोः"।

 इति ज्योतिर्विदादिष्टे मु[३७]हूर्ते गृहं प्रविशति । प्रवेशानन्तरमस्मिन्दिने कलहं नैव करोति ।

"ॐ गृहानह सुमनसः प्रपद्येऽवीरघ्नो वी[३८]रवतः सुशेवान् ।
इरां वहन्तः सुमनस्यमानास्तेष्वह सुमनाः संविशामि" ॥

 इति गृहमध्य उपविशति ।

 "ॐ विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विषः" [इति] भार्यां समीक्षते । भार्याद्वित्वे त्वयेत्यत्र युवाभ्यामित्यूहः । भार्याबहुत्वे युष्माभिरिति । नैतदहरागत इत्यत्राऽऽगत इति वचनं ग्रामान्तरादागतस्यानाहिताग्नेरप्येतत्प्रवेशनविधानमिति[३९]ख्यापनार्थम् । तस्मान्नूतनगृहप्रवेशने ग्रामान्तरादागमने चेदं विधानम् । केचिन्नूतनगृहप्रवेश एवेच्छन्ति । तन्न । गृहानीक्षेताप्यनाहिताग्निरित्याश्वलायनसूत्रेऽनाहिताग्नेरपि ग्रामान्तरादागतस्य प्रवेश[४०]नदर्श नात् । अन्ये तु ग्रामान्तरादागमन एवेच्छन्ति । तदपि न । उक्तं गृहप्रपदनमित्याश्वलायनसूत्रविरोधात्, तस्मादुभयार्थतैव युक्तेति ज्ञेयम् । सज्जीकृतगृहप्रवेशेऽपीदं विधानम् । एकस्याः शालाया द्वयोर्वा सज्जीकरणे तु--उक्तविधानेन तमेव देशं शमयित्वा प्रवेशः कर्तव्यः ।

 ततो गणपतिपूजनं पुण्याहवाचनं च कार्यम् । अन्यदपि कुलाचारप्राप्तं चेतदपि कर्तव्यम् ।

इति संस्काररत्नमालायां वास्तुकरणवास्तुशमनवास्तुप्रवेशप्रयोगः ।

इत्योकोपाह्व श्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायां
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमा-
लायां सप्तदशं प्रकरणम् ॥ १७ ॥

समाप्तोऽयं गृह्यसूत्रप्रथमप्रश्नः ॥ १ ॥

। समाप्तिमगमदिदमत्र संस्काररत्नमालायाः पूर्वार्धम् ।



  1. च. तेन गृ ।
  2. क. क्त स ।
  3. च. नाशो न ।
  4. क. रर ।
  5. क. स्थानोपविष्ट । ग. स्नानविशेष ।
  6. ख. क. मिध्येव ज्ञे । ग. मिधेऽपि ।
  7. क.ख. ति । अथ ।
  8. ख. ग्निरनुष्टु । ग. ङ. च. ग्निस्त्रि ।
  9. अत्राग्निपदस्थाने वामदेवपदमपेक्षितम् ।
  10. ख. ग. ड. च. वेदास्त्रि ।
  11. क. कर्तव्यतायाः ।
  12. ग. शे यस्मि ।
  13. च. अन्त्योप ।
  14. क. तकी श्रुतिः " इ ।
  15. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ग. च. पुस्तकयोरन्यथा पाठः स यथा--"येऽमुत्र चरवो यथादेवतं याज्यापुरोनुवाक्यवयोऽमुत्र वषट्कारः स इह स्वाहाकारपुरोडाशास्तरहित इति बौधायनगृह्यात् । अमुत्र श्रौतकर्मणि । इह गृह्ये" इति ।
  16. एतदग्रे किंचित्त्रुटितम् ।
  17. क.ख. ति । अथ ।
  18. ङ. रभ्येश्व ।
  19. च. त् । एत ।
  20. क. ग. तिकाप्र ।
  21. क. ग्निसंयु ।
  22. रजस्वलेति तु युक्ततरम् ।
  23. क. कर्तव्यम् ।
  24. ख. ग. ङ. च. तं च ।
  25. ख. ग. ङ. च. धानं कृत्वाऽग्निं प ।
  26. क. क्षाङ्गी ।
  27. क. णस ।
  28. अयं न दोष इत्यत्रत्यो वा नशब्दोऽधिकः । अयं नशब्दो नाऽऽसीत्कपुस्तके स च शोद्ध्रा पश्चात्केनचिल्लिखितोऽस्ति ।
  29. क. थैव न क्रि ।
  30. क. स्युर्गेहं ।
  31. क. क्येषु च ।
  32. ग. षः । तत्रा ।
  33. क. ख. ङ. म । द्वा ।
  34. क. ख. ङ. क्षिणा स्थ ।
  35. ख. ग. अतृष्पा ।
  36. ग. श्रेष्ठदेवतः । ङ. च. स्वेष्टदेवतः
  37. क. सुमुहूर्ते ।
  38. क. ङ. वीरतमः ।
  39. च. तिव्याख्या ।
  40. क.शद ।