Preethi1830790
भारतीय महाकाव्य
सम्पाद्यताम्
वेद
सम्पाद्यताम्वेदः खलु मानवमात्रस्य प्राचीनतमः शब्दमयो ज्ञानराशिः। वेदशब्दस्य अर्थः ज्ञानमेव । वेदेषु मन्त्राः सन्ति । तेषु मन्त्रेष आध्यात्मिक तथा च जीवनस्य व्यावहारिक ज्ञानं सम्मिलितम। यदि वयं कस्यचित् जनस्य समाजस्य वा कर्तव्यविषये धर्मविषये वा किंचित् ज्ञातुमिच्छामस्तदा तत् सर्वं वेदेषु उपलभ्यते । अतएव भगवता मनुना मनुस्मृतौ साधूक्तं “वेदोऽखिलो धर्ममूलम् । वेदेषु प्राचीनतमं काव्यं दृश्यते । “अस्य विश्वस्य सृष्टिः कदा केन साधनेन केन वा पुरुषेण कृता’ इत्यस्मिन् विषये वेदेषु । विचारितम् । काः शक्तयः संसारे कथं कार्य सम्पादयन्ति इति वेदयति वेदः । वेदेनोच्यते यत् सर्वमेतद् जगत् यज्ञमयं वर्तते । मनुष्यः मनसा कथं विचारयति, कथं परमेश्वरः सर्वेषां जीवानां सञ्चालनं करोति, कथं च सर्वज्ञः सः सर्वं जानाति इत्येतत् सर्वं वेदाः बोधयन्ति । राज्ञां व्यवहारविषये, अध्यापकानां महत्त्वविषये, व्यापारिणामाचरणविषये, सर्वेषां स्वास्थ्यविषये च महत् ज्ञानं वेदेषु लभ्यते ।।
वेदानुसारेण सर्वे जनाः परस्परं स्नेहभावेन मित्ररूपेण वर्तन्तांम् –“सर्वा आशा मम मित्रं भवन्तु ।” वेदाः मनुष्य श्रेष्ठम् आर्य सज्जनं वा कर्तुम् इच्छन्ति । अतएवोच्यते”कृण्वन्तो विश्वमार्यम्” । मनुष्यः सत्यमेव मननशीलः परहितचिन्तकः स्यात्, अतः तत्र कथ्यते–“मनुर्भव’ इति । समाजे सर्वेषां गतिः वर्गभेदं विना समाना भवेत् येन राष्ट्रमुन्नतिं लभेत –“सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् । वेदानामेव ज्ञानम् उपनिषत्सु, गीतायां, दर्शनग्रन्थेषु च विद्यते।
अस्माकं विवाहनामकरणचूडाकर्मादिषु संस्कारेषु समस्तभारतवर्षे वेदमन्त्राणामेवोच्चारणं क्रियते । प्रत्येक हिन्दूधर्मावलम्बिना-बालेनापि वैदिको गायत्रीमन्त्रोऽवश्यमुच्चार्यते ।
वेदाश्चत्वारः सन्ति-ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदश्च । भारतीयपरम्परा वेदान् सृष्टेरादौ परमेश्वरेण ऋषीणां हृदयेषु प्रकटितान् मन्यते ।
रामायण
सम्पाद्यताम्महषिवाल्मीकिना विरचितं रामायणं भारतस्य अतीव महत्त्वपूर्णो ग्रन्थः। रामायणम् आदिकाव्यं वाल्मीकिश्च आदिकविः कथ्यते। अत्र दशरथात्मजस्य रामस्य कथा वणता। रामोऽत्र मर्यादापुरुषोत्तमरूपेण चित्रितः। रामः सर्वगुणसम्पन्नः सर्वप्रियश्च आसीत् । तेन पृथिव्यामधर्मनाशो विहितः, धर्मश्च रक्षितः । दुष्टस्य सर्वदा नाशो भवति, सत्यं च जयति इति रामायणस्य सन्देशः । रामायणे वयमतीव मनोहरं काव्यं लभामहे । अत्र वन-नदी-पर्वत-सूर्योदय-चन्द्रोदय-षड़तु-समुद्रादीनां सुन्दरं प्राकृतिक वर्णनं दृश्यते । सीतासौन्दर्यवर्णनं, तारासौन्दर्यवर्णनं, रामगुणसंकीर्तनं च चित्तावर्जकम् अस्ति । वाल्मीकिना अयोध्याकिष्किन्धालङ्कादिनगराणां सजीव चित्रम् उपस्थापितम् । विविधात युद्धवर्णनानि वाल्मीके: वर्णनकौशलं प्रदर्शयन्ति। रामायणे सर्वेषां वीरादिरसानां सञ्चारः अनुभूयते । उदाहरणार्थ पम्पासरसः शोभावर्णनं दृश्यताम्-
(रामः) प्रहृष्टनानाशकुनां पादपैरुशोभिताम् । पुष्पिनोपवनोपेतां सालचम्पकशोभिताम् ॥
षट्पदौघसमाविष्टां श्रीमतीमतुलप्रभाम् । स्फटिकोपमतोयाढ्यां श्लक्ष्णवालुकसंयुताम् (पम्पां ददर्श) ।
एतदेव कारणं यत् सर्वस्मिन् जगति रामायणस्य भूयान् प्रचारः। भारतस्य सर्वासु भाषासु रामायणस्य अनुवादाः रूपान्तराणि चोपलभ्यन्ते । रामायणमुपजीव्यकाव्यमस्ति, अस्याधारेण कविभिः अनेकानि काव्यानि नाटकानि च विरचितानि । इण्डोनेशिया-कम्बुज-थाइलैण्डादिदेशानां भाषासु रामायणस्य रूपान्तराणि कृतानि । तत्र मन्दिराणां भित्तिषु रामकथादृश्यानि अङ्कितानि, साम्प्रतमपि च काले काले तत्र रामायणनाट्य प्रदर्श्यते ।
रामायणं पठित्वा जनस्य तृप्तिर्न भवति । पुनः पुनरपि रामायणस्य पाठे जनो नवं रसं प्राप्नोति । रामायणस्य अध्ययनेन वयं जानीमो यत् शोकविह्वलः कारुण्यमग्नः एव कविरुत्कृष्टं काव्यं रचयति, यथा व्याधेन कृतं क्रौञ्चवधं दृष्ट्वा वाल्मीके: मुखात् सहसैव इदं काव्यं जातम्-
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम् ।।
अतएव वाल्मीकिः कथयति-शोकः श्लोकत्वमागतः इति । रामायणस्य सार्वभौम सार्वकालिकं च महत्त्वं वीक्ष्यैवोच्यते–
यावत् स्थास्यन्ति गिरयः सरितश्च महीतले ।
तावद्रामायणकथा लोकेषु प्रचरिष्यति ।।
श्रीमद् भगवद्गीता
सम्पाद्यताम्सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः ।।
पार्थो वत्सः सुधीभॊक्ता दुग्धं गीतामृतं महत् ।
श्रीमद्भगवद्गीता समस्तसंसारे विख्याता। संसारस्य अधिकांशभाषासु अस्या अनुवादाः सम्पन्नाः। सप्तशतश्लोकात्मके अस्मिन् लघुग्रन्थे सकलमानवतायै शान्तिसन्देशाः प्रदत्ताः । वस्तुतः गीतायां कृष्णार्जुनसंवादमाध्यमेन वेदानाम् । उपनिषदां च ज्ञानस्य सारः संगृहीतः ।
महाभारते यदा युद्धभूमौ अर्जुनः सम्मुखमेव रणाय समुद्यतानां धृतराष्ट्रपुत्राणां दुर्योधनादीनां सेनां पश्यति तदा तैः भ्रातृभिः अन्यैः सम्बन्धिभिश्च सह असौ योद्धं नेच्छति । तस्य मनसि मोहः जायते । तदा तस्य रथस्य सारथिरूपेण स्थितः महान् नीतिज्ञः योगीश्वरः श्रीकृष्णः तम् उद्बोधयति युद्धाय च प्रेरयति । सः कथयति यत् मनुष्येण फलस्य चिन्तां न कृत्वा कार्यं कर्तव्यम् । सर्वे जनाः एकस्मिन् दिवसे निश्चितम् आयुः यापयित्वा अवश्यमेव मरिष्यन्ति । परन्तु तदा केवलं तेषां शरीर नश्यति, आत्मा तु अजरः, अमरः अस्ति, स न नश्यति । अतः एतेषां बन्धूनां नाशविषये भयं न कर्तव्यम् । यैः शरीरैरेते भान उत्पीडयन्ति कपटाचरणं च कुर्वन्ति तेषां नाशः आवश्यकः अस्ति । अतः अस्मिन् युद्धे युद्ध कर्तव्यमेव । अनेन भगवतः कृष्णस्योपदेशेन अर्जुनः ज्ञानं प्राप्य मोहं त्यक्त्वा युद्धाय कृतनिश्चयः अभवत् ।
श्रीमद्भगवद्गीता निष्कामकर्मणः उपदेशं ददाति, निर्भीकतां च शिक्षयति । आत्मनः अजरत्वम् अमरत्वम्, व्याप्ति, सर्वभूतान्तर्यामित्वं च उपदिश्य मनुष्यं त्यागमार्ग दर्शयति । गीतायां संन्यासस्य, कर्मणः, ज्ञानस्य भक्तेश्चापूर्वः समन्वयः लक्ष्यते । अयं समन्वयः एव भारतीयसंस्कृतेः दर्शनस्य विचारधारायाश्च प्रतीकं वक्तुं शक्यते । गीतायाः सन्देशः विश्वबन्धुत्वस्य, विश्वशान्तेः सन्देशः, आदर्शमानवस्य च सन्देशः ।। गीतायाः ज्ञानेन किंकर्तव्यविमूढो जनो मार्ग लभते मानसिक शान्ति चाधिगच्छति । अतएव सर्वशास्त्राणां सारभूता गीता अमूल्यम् अप्रतिम ग्रन्थरत्नं कथ्यते ।
गीतायाः सारः अस्मिन् श्लोके वर्तते-
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गो ऽस्त्वकर्मणि ।