भरद्वाजमहर्षिः

सुदीर्घकालं जीवन् अपि मानवः इतोऽपि अधिककालं जीवितुम् इच्छति । एषः मानवस्य स्वभावः । परन्तु तदेव जीवनम् उन्नतध्येयसाधननिमित्तं यदि भवति तर्हि तत् नितरां प्रशस्यते । सप्तर्षिषु अन्यतमस्य भरद्वाजस्य कथा अत्र उत्तमम् उदाहरणम् अस्ति । भरद्वाजः अत्रिमुनेः पुत्रः आदिकाव्यस्य रामायणास्य कर्तुं वाल्मीकिमुनेः शिष्यः च । सः वेदाध्ययने, देवध्याने च निरतः आसीत् । यदा मराकालः सन्निहितः तदा पुनः इन्द्रस्य ध्यानं कृत्वा - ‘मम आयुः वर्धयतु’ इति प्रार्थितवान् भरद्वाजः । प्रत्यक्षीभूतः इन्द्रः भरद्वाजम् आत्मना सह किञ्चिद्दूरं नीतवान ।

"https://sa.wikisource.org/w/index.php?title=सदस्यः:Raghunaathan.S1810379&oldid=206381" इत्यस्माद् प्रतिप्राप्तम्