Sima Xess
उपनिषदः
उपनि उपसर्गाभ्या सद्ले धातोः विवप् इति उपनिषद् इति शब्दः निष्पद्यते । सद्लृ धातोः त्रयः अर्थाः सन्ति । यथा-विशरण- गति- अवसादनेषु इति। अतः उपनिषद् इत्यस्याभिप्रायः अविद्यायाः विशरणम् (नाशः), ब्रह्मविद्यायाः प्राप्तिः, तथा दुःखानाम् अवसादनं शिथिलीकरणम् इति । अस्याः अपरं नाम ज्ञानकाण्डम् ब्रह्मविद्या पराविद्या इत्युच्यते । साम्प्रतं प्रसिद्धाः ईश-केन-कठ- वृहदारण्यक-तैतरीयस्य प्रसिद्धान् मन्त्रान् पश्यामः।
आसन् उपनिषदः । यथा- ऋग्वेद-१० शुक्लयजुर्वेदे-१९, कृष्णयजुर्वेदे-३२० (16) मुक्तिकोपनिषदि चतुर्ष वेदेषु १० सामवेदे -१६, अथर्ववेदे ३१ अधुना तु दश उपनिषदः लोके दृश्यन्ते । ताः यथा-ईश-केन-कठ-प्रश्न-मुण्ड-माण्डूक्य- तैत्तिरीय-ऐतरेय-छान्दोग्य-बृहदारण्यकोपनिषदः । तत्र एतासाम् उपनिषदाम् अन्तर्भावः कस्मिन् कस्मिन् वेदे भवति इति सारण्या सूचितोऽस्ति ।
दशोपनिषदों सामान्यपरिचयः-
ईशावास्योपनिषद्- अस्याः उपनिषदः आदिमपदम् ईश अस्तीति कृत्वा अस्याः नाम ईशोपनिषद् । अत्र ईश्वरस्य सर्वव्यापकता वर्तते । अत्र कर्मापासनायाः विस्तृतवर्णना दृश्यते । अत्र विद्या-अविद्या-सम्भुति-असम्भुतिविषये वर्तते । अत्र १८ मन्त्रीः सन्ति । अस्याः उपनिषदः अपरं नाम मन्त्रोपनिषद) इति । ईशावास्यमिदं सर्वमित्यादिपदस्याधारे अस्याः नामकरणमस्ति । अत्र ब्रह्मणः स्वरूपवर्णनान्तरं विद्या-अविद्या सम्भूति-असम्भूत्यादीनां विवेचनं विद्यते । इयमेव उपनिषद् सर्वाग्रगण्या भवति ।
केनोपनिषद्-तवल्कारशाखायाः ९ अध्याये केनोपनिषद् वर्तते । अस्याः अपरं नाम (ब्रह्मोपनिषद्) इति । अत्र चत्वारः खण्डाः सन्ति। यथा ब्रह्मोपनिषद्, ब्रह्मणः रहस्यस्वरूपम्, ब्रह्मणः महिमा, उमाहैमवत्युपाख्यानम् इति । अस्याः प्रथमपावे केन इत्यस्मात् आरब्धः इति कृत्वा अस्याः नाम केनोपनिषद् इति । भगवतः परंब्रह्मणः अपेक्षया देवानां शक्तिः न्यूना वर्तते इति उमाहैमवत्युपाख्याने वर्णितमस्ति ।
कठोपनिषद- इयम् उपनिषद् कठशाखातः आनीता इति कृत्वा अस्याः नाम कठोपनिषद् इति । अत्र अध्यायद्वयम्, प्रत्येकस्मिन् अध्याये (तिस्रः वल्लयः सन्ति । अत्र यमनचिकेता उपाख्यानं वर्तते। झूठ यमनचिकेतसोः परस्परब्रह्मज्ञानविषयकः संवादः प्रचलति। अत्र नेह नानास्ति किञ्चन इति मन्त्रः सर्वदा आयाति । अत्र १८० पद्यानि सन्ति ।
प्रश्नोपनिषद्-अस्याम् उपनिषद् पिप्पल्लादस्य शिष्याः षट् प्रश्नान् पृच्छन्ति इति कृत्वा अस्याः प्रश्नोपनिषद् इति नाम्ना अभिहितम् । इयं पिप्पलादशाखायाः आगता। अत्रषिट् शिष्याः यथा भरद्वाजस्य पुत्रः सुकेशा, शिवस्य पुत्रः सत्यवान्, आश्वलायनः, भार्गवः, कात्यायनः, कवन्धी इति । एते षट्शिष्याः ब्रह्मविद्याविषये प्रश्नान् पृष्टवन्तः तेषां समेषां समाधानं पिप्पलादः ऋषिः उक्तवान् इति । तत्र प्रथमप्रश्नः यथा प्रजायाः उत्पत्तिः कस्मात् स्थानात् भवति द्वितीयः प्रजानां धारणं कः करोति । तृतीयः कथं प्राणानामुत्पत्तिः भवति । चतुर्थः स्वप्नजागरणादीनां विषयाः के । पञ्चमः ओङ्कारस्य उपासना कथं भृवति । षष्ठः षोडशसंख्यकपुरुषस्य विवेचनं कथं भवतीति । अस्य सम्पूर्णस्यापि जगतः कर्ता अक्षरब्रह्मास्ति इति पिप्पलादः ब्रवीति ।
मुण्डकोपनिषद् अस्याः कर्ता ऋषिः मुण्डकः भवति । तदर्थं अस्याः नाम मुण्डकोपनिषद् इति नाम्ना अभिहितम् अस्ति । अस्याः (त्रिय मुण्डकाः (अध्यायाः) सन्ति । तत्र प्रथममुण्डके ब्रह्मविषयः, द्वितीये ब्रह्मस्वभावः, तृतीये ब्रह्मप्राप्तिः इत्यादयः विषयाः आलोचिताः सन्ति । द्वा सुपर्णा सयूजा सखायाः इति वर्तते अस्यामुपनिषदि । इयं उपनिषद् स्वल्पकारिका वर्तते । अस्यामुपनिषदि साङ्ख्यवेदान्तयोः तथ्यानामपि यत्किञ्चित्प्रभावः परिलक्ष्यते ।
माण्डुक्योपनिषद्-अस्यां १२ खण्डाः सन्ति । अत्र आत्मनः चतस्त्रः अवस्थाः जाग्रत, स्वप्न, सुसुप्ति, अद्वैत इत्यादिविषये आलोचिताः । आत्मनः चत्वारः भेदाः प्रदर्शिताः सन्ति अत्र यथा वैश्वानरः तैजसः प्राज्ञः शिवः इति । एतेषु अन्तिमः एव चैतन्यात्मनो विशुद्धरूपमस्तीति ।
तैतरीयोपनिषद्- अस्याः कर्ता तितिरिः भवति । इयमुपनिषद् ऐत्तिरीयारण्यकाद् आयाति । अत्र त्रयः विभागाः, तिस्त्रः वल्लयः यथा- शिक्षावल्ली (वर्णः, स्वरः, मात्रा, वलं, साम, सन्तानः), भूगुवल्ल्त्यां ब्रह्मतत्त्वंम्, ब्रह्मानन्दवल्ल्यां ब्रह्मप्राप्तिः इत्यादयः विषयाः आलोचिताः सन्ति ।