पाणिनीया शिक्षा

सम्पाद्यताम्

अथ शिक्षां प्रवक्ष्यामि पाणिनीयं मतं यथा । शास्त्रानुपूर्वं तं विद्यात् यथोक्तं लोकवेदयोः ॥१॥ प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः । पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम् ॥२॥ त्रिषष्टिश्चतुष्षष्टिर्वा वर्णाः शम्भुमते मताः । प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयम्भुवा ॥३॥ स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः । यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ॥४॥ अनुस्वारॊ विसर्गश्च कपौ चापि परिश्रितौ । दुस्पृष्टश्चेति विज्ञेयो लृकारः प्लुत एव च ॥५॥ आत्मा बुद्ध्या समेत्यार्थान् मनो युङ्ते विवक्षया । मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥६॥ मारुतस्तूरसि चरन् मन्द्रं जनयति स्वरम् । प्रातस्सवनयोगं तं छन्दो गायत्रमाश्रितम् ॥७॥ कण्ठे माध्यन्दिनयुगं मध्यमं त्रैष्टुभानुगम् । तारं तार्तीयसवनं शीर्षण्यं जागतानुगम् ॥८॥ सोदीर्णो मूर्ध्न्यभिहतो वक्त्रमापद्य मारुतः । वर्णान् जन्यते तेषां विभागः पञ्चधा स्मृतः ॥९॥ स्वरतः कालतः स्थानात् प्रयत्नानुप्रदानतः । इति वर्णविदः प्राहुः निपुणं तं निबोधत ॥१०॥ उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः । ह्रस्वो दीर्घः प्लुत इति कालतो नियमा अचि ॥११॥ उदात्ते निषादगान्धारावनुदात्त ऋषभधैवतौ । स्वरितप्रभवा ह्येते षड्जमध्यमपञ्चमाः ॥१२॥ अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥१३॥ ऒभावश्च विवृत्तिश्च शषसा रेफ एव च । जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ॥१४॥ यद्योभावप्रसन्धानमुकारादिपरं पदम् । स्वरान्तं तादृशं विद्याद्यदन्यद् व्यक्तमूष्मणः ॥१५॥ हकारं पञ्चमैर्युक्तमन्तस्थाभिश्च संयुतम् । औरस्यं तं विजानीयात् कण्ठ्यमाहुरसंयुतम् ॥१६॥ कण्ठ्यावहाविचुयशाः तालव्यावोष्ठजावुपू । स्युर्मूर्धन्या ऋटुरषा दन्त्या लृतुलसाः स्मृताः ॥१७॥ जिह्वामूले तु कुः प्रोक्तो दन्त्योष्ठ्यो वः स्मृतो बुधैः । एऐ तु कण्ठतालव्यावोऔ कण्ठोष्ठजौ स्मृतौ ॥१८॥ अर्धमात्रा तु कण्ठ्या स्यादेकारैकारयोर्भवेत् । ओकारौकारयोर्मात्रा तयोर्विवृतसंवृतम् ॥१९॥ संवृतं मात्रिकं ज्ञेयं विवृतं तु द्विमात्रिकम् । घोषा वा संवृताः सर्व अघोषा विवृताः स्मृताः ॥२०॥ स्वराणामूष्मणां चैव विवृतं करणं स्मृतम् । तेभ्योऽपि विवृतावेङौ ताभ्यामैचौ तथैव च ॥२१॥ अनुस्वारयमानां च नासिका स्थानमुच्यते । अयोगवाहा विज्ञेया आश्रयस्थानभागिनः ॥२२॥ अलाबुवीणानिर्घोषो दन्त्यमूल्यस्वरा ननु । अनुस्वारस्तु कर्तव्यो नित्यं ह्रोः शषसेषु च ॥२३॥ अनुस्वारे विवृत्यां तु विरामे चाक्षरद्वये । द्विरोष्ठ्यौ तु विगृह्णीयाद्यत्रौकारवकारयोः ॥२४॥ व्याघ्री यथा हरेत्पुत्रान् दंष्ट्राभ्यां न च पीडयेत् । भीता पतनभॆदाभ्यां तद्वद्वर्णान् प्रयोजयेत् ॥२५॥ यथा सौराष्ट्रिका नारी तक्रा‍

"https://sa.wikisource.org/w/index.php?title=सदस्यः:Vmbgeral&oldid=25050" इत्यस्माद् प्रतिप्राप्तम्