धर्मबुद्धि-पापबुद्धि कथा


धर्मबुद्धिः कुबुद्धिश्च द्वावेतौ विदितौ मम । पुत्रेण व्यर्थपाण्डित्यात् पिता धूमेन घातितः ॥


कस्मिंश्चिदधिष्ठाने धर्मबुद्धिः पापबुद्धिश्चेति द्वे मित्रे प्रतिवसतः स्म । अथ कदाचित्पापबुद्धिना चिन्तितम् -- "अहं तावन्मूर्खो दारिद्रयोपेतश्च । तदेनं धर्मबुद्धिमादाय देशान्तरं गत्वास्याश्रयेणार्थोपार्जनं कृत्वैनमपि वञ्चयित्वा सुखी भवामि ।"

अथान्यस्मिन्नहनि पापबुद्धिधर्मबुद्धि प्राह -- "भो मित्र ! वार्द्धकमावे किं त्वमात्मविचेष्टितं स्मरिष्यसि ? देशान्तरमदृष्ट्वा कां शिशुजनस्य वार्तां कथयिष्यसि ? उक्तञ्च--

     देशान्तरेषु बहुविधभाषावेषादि येन न ज्ञातम् । 
     भ्रमता धरणीपीठे तस्य फल जन्मनो व्यर्थम् ॥ 

तथा च --

     विद्यां वित्तं शिल्पं तावन्नाप्नोति मानवः सम्यक् । 
     यावद् व्रजति न भूमौ देशद्देशान्तरं हृष्टः ॥ 

अथ तस्य तद्वचनमाकर्ण्य प्रहृष्टमनास्तेनैव सह गुरुजनानुज्ञातः शुभेऽनि देशान्तरं प्रस्थितः । तत्र च धर्मबुद्धिप्रभावेण भ्रमता पापबुद्धिना प्रभूततरं वित्तमासादिम् । ततश्च द्वावपि तौ प्रभूतोपार्जितद्रव्यौ प्रहृष्टौ स्वगृहं प्रत्यौत्सुक्येन निवृत्तौ । उक्तञ्च --

     प्राप्तवाद्यार्थशिल्पानां देशान्तरनिवासिनाम् । 
     क्रोशमात्रोऽपि भूभागः शतयोजनवद्भवेत् ॥ 

अथ स्वस्थानवर्तिना पापबुद्धिना धर्मबुद्धिरभिहितः -- "भद्र ! न सर्वमेतद्धनं गृहं प्रति नेतुं युज्यते , यतः कुटुम्बिनो बान्धवाश्च प्रार्थयिष्यन्ते । तदत्रैव वनगहने क्वापि भूमौ निक्षिप्य किञ्चिन्मात्रमादाय गृहं प्रविशावः । भूयोऽपि प्रयोजने सञ्जाते तन्मात्रं समेत्यास्मात्स्थानान्नेष्यावः । उक्तञ्च --


     न वित्तं दर्शयेत्प्राज्ञः कस्यचित्स्वल्पमप्यहो! । 
     मुनेरपि यतस्तस्य दर्शनाञ्चलते मनः ॥ 

तथा च --

     यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि	। 
     आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान्	॥ 

तदाकर्ण्य धर्मबुद्धिराह -- "भद्र ! एवं क्रियताम् ।"

तथानुषठिते द्वावपि तौ स्वगृहं गत्वा सुखेन संस्थितवन्तौ । अथान्यस्मिन्नहनि पापबुद्धिर्निशीथेऽटव्यां गत्वा तत्सर्वं वित्तं समादाय गर्त्तं पूरयित्वा स्वभवनं जगाम । अथाऽन्येद्युर्धर्मबुद्धिं समभ्येत्य प्रोवाच -- " सखे ! बहुकुटुम्वा वयं वित्ताभावात्सीदामः । तद्गत्वा तत्र स्थाने किञ्चिन्मात्रं धनमानयावः ।"

सोऽब्रवीत् -- "भद्र ! एवं क्रियताम् ।"

अथ द्वावपि गत्वा तत्स्थानं यावत्खनतस्तावद्रिक्तं भाण्डं दृष्टवन्तौ । अत्रान्तरे पापबुद्धिः शिरस्ताडयन् प्रोवाच -- "भो धर्मबुद्धे ! त्वया हृतमेतद्वनं नान्येन, यतो भूयोऽपि गर्त्तापूरणं कृतम् । तत्प्रयच्छ मे तस्याधर्म् । अथवाहं राजकुले निवेदिष्यामि । स आह -- " भो दुरात्मन् ! मैवं वद, धर्मबुद्धिः खल्वहम् । नैतच्चौरकर्म करोमि । उक्तञ्च --

     मातृवत्परदाराणि परद्रव्याणि लोष्टवत् । 
     आत्मवत्सर्वभूतानि वीक्ष्यन्ते धर्मबुद्धयः ॥ 

एवं द्वावपि तौ विवदमानौ धर्माधिकरणं गतौ प्रोचतुश्च परस्परं दूषयनतौ ।

अथ धर्माधिकरणाधिष्ठितपुरुषौर्दिव्यार्थे यावन्नियोजितौ, तावत्पापबुद्धिराह -- "अहो ! न सम्यग्दृष्टाऽयं न्यायः । उक्तञ्च --

     विवादेऽन्विष्यते पत्रं तदभावेऽपि साक्षिणः । 
     शाक्ष्यभावात्ततो दिव्यं प्रवदन्ति मनीषिणः ॥ 

तदये विषये मम वृक्षदेवताः साक्षीभूतांस्तिष्ठन्ति । ता अप्यावयोरेकतरं चौरं साधुं वा कथयिष्यन्ति । अथ तैः सर्वैरभिहितम् -- " भोः ! युक्तमुक्त भवता । उक्तञ्च --

     अन्त्यजोऽपि यदा साक्षी विवादे सम्प्रजायते । 
     न तत्र विद्यते दिव्यं किं पुनर्यत्र देवता ॥ 

तदस्माकमप्यत्र विषये महत्कौतूहलं वर्तते । प्रत्यूषसमये युवाभ्यामप्यस्माभिः सह तत्र वनोद्देशे गन्तव्यम् " इति ।

एतस्मिन्नन्तरे पापबुद्धि स्वगृहं गत्वा स्वजनकमुवाच -- " तात ! प्रभूतोऽयं मयार्थो धर्मबुद्धेश्चोरितः । स च त्व वचनेन परिणतिं गच्छति, अन्यथास्माकं प्राणैः सह यास्यति ।"

स आह -- "वत्स ! द्रुतं वद , येन प्रोच्य तद् द्रव्यं स्थिरतां नयामि ।"

पापबुद्धिराह -- "तात ! अस्ति तत्प्रदेशे महाशमी ।तस्यां कोटरमस्ति । तत्र त्वं साम्प्रतमेव प्रविश । ततः प्रभाते यदाहं सत्यश्रावणं करोमि, तदा त्वया वाच्यं यद् धर्मबुद्वश्चौरः " इति ।

तथानुष्ठिते प्रत्यूषे स्नात्वा पापबुद्धिः धर्मबुद्धिपुरःसरो धर्माधिकरणिकैः सह तां शमीमभ्येत्य तारस्वरेण प्रोवाच -- "आदित्यचन्द्रावनिलोऽनलश्च , द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये , धर्मश्च जानाति नरस्य वृत्तम् । भगवति वनदेवते ! आवयोर्मध्ये यश्चौरस्तं कथय " ।

अथ पापबुद्धिपिता शमीकोटरस्थः प्रोवाच -- "भोः श्रृणुत, श्रृणुत धर्मबुद्धिना हृतमेतद् धनम् । "

तदाकर्ण्य सर्वे ते राजपुरुषा विस्मयोत्फुल्ललोचना यावद्धर्मबुद्धेर्वित्तहरणोचितं निग्रह शास्त्रदृष्ट्यावलोकयन्ति तावद्धर्मबुद्धिना तच्छमीकोटरं वह्निभोज्यद्रव्यैः परिवेष्ठ्य वह्निना सन्दीपितम् । अथ ज्वलति तस्मिञ्शमीकोटरेऽर्धदग्धशरीरः स्फुटितेक्षणः करुणं परिदेवयन् पापबुद्धिपिता निश्चक्राम । ततश्च तैः सर्वैः पृष्टः -- " भोः ! किमिदम् ?" इत्युक्ते स पापबुद्धिविचेष्टितं सर्वमिदमिति निवेदयित्वोपरतः । अथ ते राजपुरुषाः पापबुद्धिं शमीशाखायां प्रतिलम्बय, धर्मबुद्धिं प्रशस्येदमूचुः --

    अहो, साध्विदमुच्यते -- उपायं चिन्तयेत्प्राज्ञस्तथापायं च चिन्तयेत् ।
"https://sa.wikisource.org/w/index.php?title=सदस्यसम्भाषणम्:Kashyap.varun97&oldid=40358" इत्यस्माद् प्रतिप्राप्तम्