“संस्कृत भाषाया: महत्वम्”

संस्कृता परिष्कृता व्याकरण सम्बन्धिदोषरहिता भाषा संस्कृतभाषेति निगद्यते।संस्कृत भाषा विश्वस्य सर्वासु भाषासुप्राचीनतमा अस्ति सैव देवभाषा गीर्वाणवाणी, देववाणी, अमरवाणी, गीर्वागित्यादिभिर्नामभिः कथ्यते। इयमेव भाषा सर्वासां भारतीयभाषाणां जननी, भारतीयसंस्कृतेः प्राणस्वरूपा, भारतीयधर्मदर्शनादिकानां प्रसारिका, सर्वास्वपि विश्वभाषासु प्राचीनतमा सर्वमान्या च मन्यते। अस्माकं समस्तमपि प्राचीनं साहित्यं संस्कृतभाषायामेव रचितमस्ति, समस्तमपि वैदिक साहित्यं रामायणं महाभारतं पुराणानि दर्शनग्रन्थाः स्मृतिग्रन्थाः काव्यानि नाटकानि गद्य-नीति-आख्यानग्रन्थाश्च अस्यामेव भाषायां लिखिताः प्राप्यन्ते। गणितं, ज्योतिषं, काव्यशास्त्रमायुर्वेदः,अर्थशास्त्रं राजनीतिशास्त्रं छन्दःशास्त्रं ज्ञान-विज्ञानं तत्वजातमस्यामेव संस्कृतभाषायां समुपलभ्यते। अनेन संस्कृतभाषायाः विपुलं गौरवं स्वमेव सिध्यति। संस्कृतभाषैवभारतस्य प्राणभूता भाषा अस्ति एषा एव समस्तं भारतवर्षम् एकसूत्रे बध्नाति भारतीयगौरवस्य रक्षणाय एतस्या: प्रचार: प्रसारश्च सर्वै: एव कर्तव्य: