अयोग्यपृष्ठनिर्माणम् सम्पाद्यताम्

@Sunil shm: त्वया सुनिल् नामकं पृष्ठं निर्मितं, सम्पादितं च अस्ति । किन्तु इदं पृष्ठम् अयोग्यं वर्तते । संस्कृतविकिस्रोतः-जालस्थानस्य नियमानुसारं कार्यमिदम् अयोग्यम् अस्ति । भविष्यत्काले अपि एतादृशं कार्यं मा भवेत् इति विचिन्त्य सम्पादनं, पृष्ठनिर्माणं इत्यादीनि कार्याणि करणीयानि । तेन संस्कृतविकिस्रोतः-जालस्थानस्य ह्रासः न भवेत् । यदि त्वं पुनः एतादृशं कार्यं करिष्यति, तर्हि तव लेखां (Account) स्थगयिष्यामः (Block) । मार्गदर्शनाय सम्भाषणपृष्ठ-माध्यमेन वि-सन्देश-माध्यमेन वा मे सम्पर्कः साधनीयः । Udit Sharma (सम्भाषणम्) ०६:३१, १३ जनवरी २०१६ (UTC)उत्तर दें

द्विदिवसीयविकिस्रोतःकार्यशाला सम्पाद्यताम्

          
 

द्विदिवसीयविकिस्रोतःकार्यशाला २०१६
नमस्ते Sunil shm !

संस्कृतविकिस्रोतःप्रकल्पः बहुभिः अपेक्ष्यमाणः अन्तर्जालाधारितश्च ग्रन्थालयः। संस्कृतसाहित्यमन्दाकिनी विकिस्रोतसि प्रवाहनीया इत्यतः सर्वैः सम्पादकैः भगीरथप्रयासः करणीयः। विकिस्रोतसः व्यवस्था, अत्रत्या साध्यता च यदि सुष्ठु अवगम्येत तर्हि अल्पेनैव कालेन अधिकं साधयितुं शक्नुयाम । एतदर्थं संस्कृतविकिस्रोतसि अद्यत्वे ये कार्यरताः सन्ति, ये च कार्यरताः भवितुमिच्छन्ति तेभ्यः दिनद्वयात्मिका काचित् कार्यशाला आयोजयिष्यते बेङ्गलूरुनगरस्थेन संस्कृतविकिगणेन । कार्यशाला एप्रिल्-मासस्य ९, १० दिनाङ्कयोः बेङ्गलूरुनगरे भविष्यति । कार्यशालायाः अस्याः उद्देशः - सदस्यानां सम्पादनकौशलवर्धनम् । इमां कार्यशालां प्रति भवतां हार्दं स्वागतम् ।

  • प्रतिभागिनाम् आवासभोजनादिव्यवस्था नि:शुल्कं कल्प्यते व्यवस्थापकगणेन ।

-शुभा (सम्भाषणम्) ०८:१०, १९ मार्च २०१६ (UTC)

"https://sa.wikisource.org/w/index.php?title=सदस्यसम्भाषणम्:Sunil_shm&oldid=61724" इत्यस्माद् प्रतिप्राप्तम्