प्रमुखा विकल्पसूचिः उद्घाट्यताम्

सुभाषितरत्नकोशः/३७ सद्व्रज्या

< सुभाषितरत्नकोशः(सद्व्रज्या (सुभाषितरत्नकोशः) इत्यस्मात् पुनर्निर्दिष्टम्)
← ३६ माहात्म्यव्रज्या सुभाषितरत्नकोशः
३७ सद्व्रज्या
विद्याकरः
३८ असद्व्रज्या →

ततः सद्व्रज्या|| ३७

असन्तो नाभ्यर्थ्याः सुहृद् अपि न याच्यस् तनुधनः प्रिया वृत्तिर् न्याय्या चरितम् असुभङ्गे ऽप्य् अमलिनम् /
विपद्य् उच्चैः स्थेयं पदम् अनुविधेयं च महतां सतां केनोद्दिष्टं विषमम् असिधाराव्रतम् इदम् ३७.१ (१२१३)
धर्मकीर्तेः

प्रियप्राया वृत्तिर् विनयमधुरो वाचि नियमः प्रकृत्या कल्याणी मतिर् अनवगीतः परिचयः /
पुरो वा पश्चाद् वा तद् इदम् अविपर्यासितरसं रहस्यं साधूनाम् अनुपदि विशुद्धं विजयते ३७.२ (१२१४)

निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः परापततु गच्छतु वा यथेष्टम् /
अद्यैव वा मरणम् अस्तु युगान्तरे वा न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ३७.३ (१२१५)
भर्तृहरेः

निर्मलानां कुतो रन्ध्रं कथंचिद् अपविध्यते /
विधीयते गुणैर् एव तच् च मुक्तामणेर् इव ३७.४ (१२१६)
त्र्यम्बकस्य

यदा किंचिज्ज्ञो ऽहं गज इव मदान्धः समभवं तदा सर्वज्ञो ऽस्मीत्य् अभवद् अवलिप्तं मम मनः /
यदा किंचित् किंचिद् बुधजनसकाशाद् अधिगतं तदा मूर्खो ऽस्मीति ज्वर इव मदो मे व्यपगतः ३७.५ (१२१७)
कालिदासस्य

अनुहरतः खलसुजनाव् अग्रिमपाश्चात्यभागयोः सूच्योः /
एकः कुरुते च्छिद्रं गुणवान् अन्यः प्रपूरयति ३७.६ (१२१८)
गोभट्टस्य

पुण्ड्रेक्षुकाण्डसुहृदो मधुराम्बुभावाः सन्तः स्वयं यदि नमन्ति नमन्ति कामम् /
आन्दोलितास् तु नमनस्पृहया परेण भज्यन्त एव शतधा न पुनर् नमन्ति ३७.७ (१२१९)

जतुपङ्कायते दोषः प्रविश्यैवासतां हृदि /
सतां तु न विशत्य् एव यदि वा पारदायते ३७.८ (१२२०)

कुसुमस्तबकस्येव द्वयी वृत्तिर् मनस्विनः /
सर्वलोकस्य वा मूर्ध्नि शीर्यते वन एव वा ३७.९ (१२२१)
व्यासस्य

राजा त्वं वयम् अप्य् उपासितगुरुप्रज्ञाभिमानोन्नताः ख्यातस् त्वं विभवैर् यशांसि कवयो दिक्षु प्रतन्वन्ति नः /
इत्थं मानद नातिदूरम् उभयोर् अप्य् आवयोर् अन्तरं यद्य् अस्मासु पराङ्मुखो ऽसि वयम् अप्य् एकान्ततो निःस्पृहाः ३७.१० (१२२२)
भर्तृहरेः

उदन्वच्छिन्ना भूः स च निधिर् अपां योजनशतं सदा पान्थः पूषा गगनपरिमाणं कलयति /
इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः सतां प्रज्ञोन्मेषः पुनर् अयम् असीमा विजयते ३७.११ (१२२३)
राजशेखरस्य

सत्पक्षा ऋजवः शुद्धाः सफला गुणसेविनः /
तुल्यैर् अपि गुणैश् चित्रं सन्तः सन्तः शराः शराः ३७.१२ (१२२४)

विपदि धैर्यम् अथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः /
यशसि चाभिरतिर् व्यसनं श्रुतौ प्रकृतिसिद्धम् इदं हि महात्मनाम् ३७.१३ (१२२५)

स साधुर् यो विपन्नानां साहाय्यम् अधिगच्छति /
न तु दुर्विहितातीत- वस्तुपालनपण्डितः ३७.१४ (१२२६)

सत्यं गुणा गुणवतां विधिवैपरीत्याद् यत्नार्जिता अपि कलौ विफला भवन्ति /
साफल्यम् अस्ति सुतराम् इदम् एव तेषां यत् तापयन्ति हृदयानि पुनः खलानाम् ३७.१५ (१२२७)

अपूर्वः को ऽपि कोपाग्निः सज्जनस्य खलस्य च /
एकस्य शाम्यति स्नेहाद् वर्धते ऽन्यस्य वारितः ३७.१६ (१२२८)

छायां कुर्वन्ति चान्यस्य तापं तिष्ठन्ति वातपे /
फलन्ति च परार्थाय पादपा इव सज्जनाः ३७.१७ (१२२९)

अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् /
सदा लोकहिते सक्ता रत्नदीपा इवोत्तमाः ३७.१८ (१२३०)

लक्ष्मीं तृणाय मन्त्यन्ते तद्भरेण नमन्ति च /
अहो किम् अपि चित्राणि चरित्राणि महात्मनाम् ३७.१९ (१२३१)

अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयम् /
अहो सुमनसां वृत्तिर् वामदक्षिणयोः समा ३७.२० (१२३२)

परगुणतत्त्वग्रहणं स्वगुणावरणं परव्यसनमौनम् /
मधुरम् अशठं च वाक्यं केनाप्य् उपदिष्टम् आर्याणाम् ३७.२१ (१२३३)

विचिन्त्यमानो हि करोति विस्मयं विसारिणा सच्चरितेन सज्जनः /
यदा तु चक्षुःपथम् एति देहिनां तदामृतेनेव मनांसि सिञ्चति ३७.२२ (१२३४)

सम्पर्केण तमोभिदां जगदघप्रध्वंसिनां धीमतां क्रूरो ऽपि प्रकृतं विहाय मलिनाम् आलम्बते भद्रताम् /
यत् तृष्णाग्लपितो ऽपि नेच्छति जनः पातुं तद् एव क्षणाद् उज्झत्य् अम्बुधरोदरस्थितम् अपांपत्युः पयः क्षारताम् ३७.२३ (१२३५)

क्वाकराणारुषां संख्या संख्याताः कारणक्रुधः /
कारणे ऽपि न कुप्यन्ति ये ते जगति पञ्चषाः ३७.२४ (१२३६)

सुजनाः परुषाभिधायिनो यदि कः स्याद् अपरो ऽपि मञ्जुवाक् /
यदि चन्द्रकराः सवह्नयो ननु जायेत सुधा कृतो ऽन्यतः ३७.२५ (१२३७)
मङ्गलस्य||

ये दीनेषु कृपालवः स्पृशति यान् अल्पो ऽपि न श्रीमदः श्रान्ता ये च परोपकारकरणे हृष्यन्ति ये याचिताः /
स्वस्थाः सत्य् अपि यौवनोदयमहाव्याधिप्रकोपे ऽपि ये ते भूमण्डलमण्डनैकतिलकाः सन्तः कियन्तो जनाः ३७.२६ (१२३८)

यशो रक्षन्ति न प्राणान् पापाद् बिभति न द्विषः /
अन्विष्यन्त्य् अर्थिनो नार्थान् निसर्गो ऽयं महात्मनाम् ३७.२७ (१२३९)

यथा यथा परां कोटिर् गुणः समधिरोहति /
सन्तः कोदण्डधर्माणो विरमन्ति तथा तथा ३७.२८ (१२४०)

अयं निजः परो वेति गणना लघुचेतसाम् /
उदारचरितानां तु वसुधैव कुटुम्बकम् ३७.२९ (१२४१)

ये प्राप्ते व्यसने ऽप्य् अनाकुलधियः सम्पत्सु नैवोन्नताः प्राप्ते नैव पराङ्मुखाः प्रणयिनि प्राणोपयोगैर् अपि /
ह्रीमन्तः स्वगुणप्रशंसनविधाव् अन्यस्तुतौ पण्डिता धिग् धात्रा कृपणेन येन न कृताः कल्पान्तदीर्घायुषः ३७.३० (१२४२)

करे श्लाघ्यस् त्यागः शिरसि गुरुपादप्रणयिता मुखे सत्या वाणी श्रुतम् अनवगीतं श्रवणयोः /
हृदि स्वच्छा वृत्तिर् विजयिभुजयोर् वीर्यम् अतुलं विनाप्य् ऐश्वर्येण स्फुरति महतां मण्डनम् इदम् ३७.३१ (१२४३)

वज्राद् अपि कठोराणि मृदूनि कुसुमाद् अपि /
लोकोत्तराणां चेतांसि को हि विज्ञातुम् अर्हति ३७.३२ (१२४४)
चेः

आ परितोषाद् विदुषां न साधु मन्ये प्रयोगविज्ञानम् /
बलवद् अपि शिक्षितानाम् आत्मन्य् अप्रत्ययं चेतः ३७.३३ (१२४५)

पुराणम् इत्य् एव न साधु सर्वं न चापि काव्यं नवम् इत्य् अवद्यम् /
सन्तः परीक्ष्यान्यतरद् भजन्ते मूढः परप्रत्ययहार्यबुद्धिः ३७.३४ (१२४६)
कालिदासस्यैतौ

गुह्यपिधानैकपरः सुजनो वस्त्रायते सदा पिशुनम् /
भवताम् अयं विडम्बो यद् इदं छिद्रैर् विसूत्रयतु ३७.३५ (१२४७)

ब्रूत नूतनकूष्माण्ड- फलानां के भवन्त्य् अमी /
अङ्गुलीकथनाद् एव यन् न जीवन्ति मानिनः ३७.३६ (१२४८)

यन् नेत्रैस् त्रिभिर् ईक्षते न गिरिशो नाष्टाभिर् अप्य् अब्जभूः स्कन्दो द्वादशभिर् न वा न मघवा चक्षुःसहस्रेण वा /
सम्भूयापि जगत्त्रयस्य नयनैर् द्रष्टुं न तच् छक्यते प्रत्यादिश्य दृशौ समाहितधियः पश्यन्ति यत् पण्डिताः ३७.३७ (१२४९)

नीरसान्य् अपि रोचन्ते कर्पासस्य फलानि नः /
येषां गुणमयं जन्म परेषां गुह्यगुप्तये ३७.३८ (१२५०)

गुणवत्पात्र मात्रैक- हार्यनिर्यासम् आशयन् /
आत्मनावैति ते लोकः स्वबन्धुर् इति धावति ३७.३९ (१२५१)

सततम् असत्याद् बिभ्यति मा भैषीर् इति वदन्ति भीतेषु /
अतिथिजनशेषम् अश्नति सज्जनजिह्वे कृताथासि ३७.४० (१२५२)

यद्य् अपि दैवात् स्नेहो नश्यति साधोस् तथापि सत्त्वेषु /
घण्टाध्वनेर् इवान्तश् चिरम् अनुबध्नाति संस्कारः ३७.४१ (१२५३)
रविगुप्तस्य

इति सद्व्रज्या|| ३७