← चतुर्थः समयः समयमातृका
पञ्चमः समयः
क्षेमेन्द्रः
षष्ठः समयः →

पञ्चमः समयः
रागविभागोपन्यासः
अथ मन्मथमत्तानं करिणामिव कामिनाम् ।
बन्धाय बन्धकीशिक्षामाचचक्षे जरच्छिखा ॥१॥

श्रूयतां पुत्रि सर्वत्र विचित्रोपायवृत्तये ।
मया दुहितृवात्सल्यादर्थ्यं किंचित्तदुच्यते ॥२॥

पूर्वं भावपरीक्षैव कार्या यत्नेन कामिनाम् ।
ज्ञातरागविभागानां कर्तव्यौ त्यागसङ्ग्रहौ ॥३॥

कुसुम्भरागः सिन्दूररागः कुङ्कुमरागवान।
लाक्षारागोऽथ मञ्जिष्ठो रागः काषायरागभृत॥४॥

हारिद्रो नीलरागश्चेत्यष्टौ वर्णानुकारिणः ।
सुवर्णरागस्ताम्राख्यो रीतिरागस्तथापरः ॥५॥

रागः सीसकसंज्ञश्च लौहो मणिसमुद्भवः ।
काचरागस्तथा शैलो ह्यष्टौ धात्वनुकारिणः ॥६॥

सान्ध्यरागस्तथा चान्द्रस्तथेन्द्रायुध एव च ।
वैद्युताङ्गारकेत्वाख्यरविरागस्तथैव च ॥७॥

राहुरागोऽष्टमश्चेति रागा गगनसङ्गिनः ।
श्रोत्ररागोऽक्षिरागश्च रसनासंश्रयस्तथा ॥८॥

त्वग्रागो घ्राणरागश्च मानसो बुद्धिसम्भवः ।
अहङ्काराभिधानश्चेत्यष्टाविन्द्रियसंज्ञकाः ॥९॥

वृषरागोऽश्वरागश्च कृकलासाह्वयस्तथा ।
मेषरागः श्वरागश्च खररागस्तथापरः ॥१०॥

मार्जाररागो हस्त्याख्यश्चेत्यष्टौ प्राणिभेदजाः ।
शुकरागो हंसरागस्तथा पारावताभिधः ॥११॥

मायूरश्चेटकाख्यश्च कृकवाकुसमुद्भवः ।
कोकिलो जीवजीवाख्यश्चेत्यष्टौ पक्षिजातयः ॥१२॥

केशरागोऽस्थिरागश्च नखाख्यः पाणिसङ्गतः ।
दन्तरागस्तथा पादरागस्तिलकरागवान॥१३॥

कर्णपूराभिधानश्चेत्यष्टावङ्गविभाविनः ।
छायारागस्तथा भूतरागोऽपस्मारवानपि ॥१४॥

ग्रहरागोऽथ गान्धर्वो यक्षाख्यः क्षोभरागभृत।
पिशाचराग इत्यष्टौ महारागाः प्रकीर्तिताः ॥१५॥

कौसुमः कुम्भरागश्च नारङ्गाङ्कोऽथ दाडिमः ।
मद्यरागः कुष्ठरागो विसर्पाख्यश्चिताभिधः ॥१६॥

भ्रामरोऽप्यथ पातङ्गो वृश्चिकाख्यो ज्वराभिधः ।
भ्रमाख्यः स्मृतिजन्मा च रतिरागो ग्रहाभिधः ॥१७॥

रागो रुधिरसंज्ञश्च षोडशैते प्रकीर्णकाः ।
संक्षिप्तं लक्षणं तेषां क्रमेण श्रूयतामिदम् ॥१८॥

कौसुम्भो रक्षितः स्थायी क्षणान्नाश्यत्युपेक्षितः ।
स्वभावरूक्षः सैन्दूरः स्नेहश्लेषेण धार्यते ॥१९॥

अल्पलीनः सुखायैव घनो दुःखाय कौङ्कुमः ।
तप्तः श्लिष्यति लाक्षाङ्कः श्लेषं नायाति शीतलः ॥२०॥

तप्तः शीतश्च माञ्जिष्टःअः स्थिरभोगक्षमः समः ।
स्थिरो रौक्ष्येण काषायः स्नेहयोगेन नश्यति ॥२१॥

सुरक्षितोऽपि हारिद्रः क्षणेनैव विरज्यते ।
नीलो देहक्षयस्थायी वार्यमाणोऽपि निश्चलः ॥२२॥

सौवर्णश्छेदनिर्घर्षतापैस्तुल्यरुचिः सदा ।
मृज्यमानस्य वैमल्यं ताम्रसंज्ञस्य नान्यथा ॥२३॥

रीतिनाम्नस्तु मालिन्यं स्नेहेनाप्युपजायते ।
सैसस्यादौ च मध्ये च क्षये च मलिना रुचिः ॥२४॥

तीक्ष्णस्वभावाल्लोहस्य काठिन्याच्च न नम्रता ।
मणिनामा च निर्व्याजः सहजस्वच्छनिश्चलः ॥२५॥

स्वभावभिदुरः काचसंज्ञश्छलनिरीक्षकः ।
शैलोऽपि गौरवस्थायी हृदयाभावनीरसः ॥२६॥

सान्ध्यचलश्च नित्यश्च कल्पदोषो दशाश्रयः ।
चन्द्ररागः प्रशान्तार्तिशीतलः क्षयवृद्धिभाक॥२७॥

ऐन्द्रायुधो बहुरुचिर्वक्रमायाविलासभूः ।
वैद्युतस्तरलारम्भदृष्टनष्टविकारकृत॥२८॥

अङ्गारः स्त्रीजनावज्ञाज्वलितो लोहिताननः ।
केतुसंज्ञः स्फुटानर्थकारी बन्धवधादिभिः ॥२९॥

आर्कस्तीक्ष्णतया नित्यसन्तापः सततोदयः ।
मित्रक्षयैषी विषमो राहुरागो महाग्रहः ॥३०॥

श्रौत्रः कर्णसुखाभ्यासाद्गुणाकर्णनतत्परः ।
अक्षिजन्मा परं रूपमात्रे परिणतस्पृहः ॥३१॥

रासनो विविधास्वादभोज्यसंहारलौल्यवान।
त्वङ्मयः सर्वमुत्सृज्य सर्वाङ्गालिङ्गनोत्सुकः ॥३२॥

घ्राणाख्यः पुष्पधूपादिभूरिसौरभलोभभृत।
मानसः सतताभ्यस्तस्पृहामात्रमनोरथः ॥३३॥

बुद्ध्याख्यो गुणवत्कान्तासक्तिव्यसनवर्जितः ।
अहङ्काराभिधः श्लाघ्यसङ्गमोन्नतिलक्षणः ॥३४॥

वृषसंज्ञश्च तारुण्यात्कायदर्पबलोद्भवः ।
अश्वस्तु रतमात्रार्थी तत्कालोद्यतकातरः ॥३५॥

कृकलासाभिधानश्च स्त्रैणदर्शनचञ्चलः ।
मेषाक्यः शष्पकवलाभ्यासतुल्यरतिस्पृहः ॥३६॥

श्वाख्यो रत्यन्तविमुखः स्त्रीरहस्यप्रकाशकः ।
गार्दभः क्रूरसंमर्दतृप्तिमात्रपरायणः ॥३७॥

मार्जारजन्मा सातत्यादत्यन्तनिकटस्थितिः ।
कौञ्जरः क्लेशबन्धादिनिरपेक्षसमागमः ॥३८॥

शुकाभिधोऽन्तर्निःस्नेहः कामं मुखसुखस्थितिः ।
हंससंज्ञः सुखस्थित्या गुणदोषविभागकृत॥३९॥

पारावताख्यः सस्नेहहरतिसर्वस्वलक्षणः ।
मायूरः स्ववपुःस्फीतरूपप्रमदनृत्तवान॥४०॥

बहुशः सुरतासङ्गमात्रार्थी चटकाभिधः ।
कृकवाकुभवः कान्ताक्लेशलेशविभागवान॥४१॥

कोकिलो मधुरालापः प्रभूतप्रसरत्कथः ।
जीवजीवकसंज्ञश्च परिचुम्बननिश्चलः ॥४२॥

केशाख्यः सप्तदिवसस्थायी कृच्छ्रानुरञ्जकः ।
अस्थिसंस्थोऽन्तरस्थश्च प्रच्छनस्नेहजीवितः ॥४३॥

नखाभिख्यो मासमात्रस्थायी याति शनैः शनैः ।
प्राणिनामा प्रबुद्धोऽपि बद्धमुष्टेर्न लक्ष्यते ॥४४॥

दन्ताभिधो यस्ताम्बूललीलामात्ररुचिः सदा ।
पादाख्यश्चरणालीनः प्रणामैरेव केवलम् ॥४५॥

तिलकप्रतिमो नीचस्योत्तमस्त्रीसमागमः ।
कर्णपूरश्च कौटिल्यात्कर्णलग्नोऽतिकत्थनः ॥४६॥

सर्वत्रानुचरः शोषकारी छायाग्रहाभिधः ।
अज्ञातचित्तः स्तब्धाख्यो भूतसंज्ञो विचेतनः ॥४७॥

अपस्माराभिधः क्रूरकोपाक्षेपः क्षणे क्षणे ।
ग्रहो वस्त्राञ्चलग्राही सजने विजने पथि ॥४८॥

गान्धर्वो गीतनृत्तादिरससंसक्तमानसः ।
यक्षः क्षिप्तो न निर्याति गृहावृत्तिविचक्षणः ॥४९॥

यत्तत्प्रलापमुखरः क्षोभाखस्त्यक्तयन्त्रणः ।
पैशाचश्चाशुचिरतस्तीव्रक्षतविदारणः ॥५०॥

कौसुमः क्षणिकोदाः पूजामात्रपरिग्रहः ।
भग्नोऽपि कौम्भः शकलश्लेषे श्लिष्ट इवेक्ष्यते ॥५१॥

नारङ्गः सरसोऽप्यन्तर्बहिस्तीक्ष्णः कटुः परम् ।
बहुगर्भतया रूढो हृदये दाडिमाभिधः ॥५२॥

क्षणक्षैब्योपमो माद्यः स्वस्थो वैलक्ष्यलक्षणः ।
बीभत्साचारवैरस्यात्कुष्ठाख्योऽतिजुगुप्सितः ॥५३॥

वैरूप्यं च समायाति च्छेदेनेवाङ्गमर्मणाम् ।
चिताभिधानः सर्वाङ्गदाही वश्यप्रयोगजः ॥५४॥

भ्रामरः कौतुकास्वादमात्रो नवनवोन्मुखः ।
पातङ्गः कामिनीदीप्तिरसिकः क्षयनिर्भरः ॥५५॥

वृश्चिकाख्यो व्यथादायी द्वेष्योऽप्यत्यन्तनिश्चलः ।
त्यक्ताहारोऽतिसन्तापनष्टच्छायो ज्वराभिधः ॥५६॥

भ्रमनामा मतिभ्रंशाच्चक्रारूढ इवाकुलः ।
स्मरणाख्यः प्रियस्मृत्या कृतान्यस्त्रीसमागमः ॥५७॥

रतिग्रहः सदा स्वप्ने सम्प्राप्तसुरतोत्सवः ।
रौधिरः कलहे रक्तपातैर्नीचस्य वर्धते ॥५८॥

इत्यशीतिः समासेन रागभेदाः प्रकीर्तिताः ।
विस्तरेण पुनस्तेषां कः सङ्ख्यां कर्तुमर्हति ॥५९॥

सुहृज्जनार्दनं कुर्यात्पूर्वं वारविलासिनी ।
वेश्यानां पद्मिनीनां च मित्रायत्ता विभूतयः ॥६०॥

सुहृद्भिरेव जानाति कामुकानां धनं गुणम् ।
हृदयग्रहणोपायं शीलं रक्तापरक्तताम् ॥६१॥

महाधनस्य सुहृदां कामिनां प्रेमशालिनाम् ।
प्रच्छन्नसुरतेनापि कुर्यादाराधनं सदा ॥६२॥

एको वित्तवतः सूनुः पितृहीनः सुयौवने ।
मुग्धे भूभुजि कायस्थः कामिस्पर्धी वणिक्सुतः ॥६३॥

नित्यातुरामात्यवैद्यप्रसिद्धस्य गुरोः सुतः ।

  1. # # प्रच्छन्नकामो जाड्यः धनः ॥६४॥

नपुंसकप्रवादस्य प्रशमर्थी फलाशनः ।
मत्तो धूर्तसहायश्च राजसूनुर्निरङ्कुशः ॥६५॥

ग्राम्यो धातृद्विजसुतः प्रप्तलाभश्च गायनः ।
सद्यः सार्थपतिः प्राप्तः श्रीमान्दैवपरायणः ॥६६॥

गतानुगतिको मूर्खः शास्त्रोन्मादश्च पण्डितः ।
नित्यक्षीबश्च वेश्यानां जङ्गमाः कल्पपादपाः ॥६७॥

प्रथमं प्रार्थिता वेश्या न क्षणोऽस्तीत्युदाहरेत।
जनस्यायं स्वभावो हि सुलभामवमन्यते ॥६८॥

शिरःशूलादिकं व्याधिमनित्यमजुगुप्सितम् ।
अवहारोपयोगाय पूर्वमेव समादिशेत॥६९॥

पत्नीव कुर्यादनुवृत्तिपूर्वं
पूर्वं महार्थस्य वरोपचारम् ।
द्रव्यैस्त्वया मन्त्रजपादिभिर्वा
वशीकृतास्मीति वदेच्च सर्वम् ॥७०॥

स्वयं प्रदत्तेऽपि नखक्षते च
शङ्केत तद्भक्तिविवादशीलम् ।
निन्देत्प्रकामं जननीं विरुद्धां
गच्छेत्स्वयं वेश्म च कामुकस्य ॥७१॥

विदेशयात्रामपि मन्त्रयेत
तेनैव सार्धं विहितानुबन्धा ।
सुप्तस्य कुर्यात्परिचुम्बनं च
गुणस्तुतिं चार्धविबोधभाजः ॥७२॥

स्वप्ने सदैव प्रलपेत्सरागं
सर्वं च तन्नामनिबद्धमेव ।
न चास्य तृप्तिं सुरतेषु गच्छेद्
व्ययस्य कुर्याच्च मुहुर्निषेधम् ॥७३॥

तस्माच्च पुत्रार्थमनोरथा स्यात्
प्राणात्ययं तद्विरहे वदेच्च ।
इत्यादिभिः स्वीकरणाद्युपायैर्
निबद्धबुद्धेर्द्रविणं लभेत ॥७४॥

तावच्च तूर्णं धनमाहरेत
यावत्स रागेण विनष्टसंज्ञः ।
प्रशान्तरागानलशीतलस्तु
स लोहपिण्डीकठिनत्वमेति ॥७५॥

याचेत सर्वं सुरतार्तिकाले
तमूरुबन्धेन निरुद्धकायम् ।
प्रायेण तृप्ताय न रोचते हि
विनम्रशाखापरिपक्वमाम्रम् ॥७६॥

सन्धारयेत्तं च विशेषवित्तं
यावन्न निःशेषधनत्वमेति ।
पुनः पुनः स्नेहलवार्द्रवक्त्रा
दीपं यथा दीपकदीपवर्तिः ॥७७॥

निष्पीतसारं विरतोपकारं
क्षुण्णेक्षुशुल्कप्रतिमं त्यजेत्तम् ।
लब्धाधिवासक्षयकारिशुष्कं
पुष्पं त्यजत्येव हि केशपाशः ॥७८॥

हेमन्तमार्जार इवातिलीनः
स चेन्न निर्याति निरस्यमानः ।
तदेष कार्यस्तनुमर्मभेदी
प्रवर्धमानः परुषोपचारः ॥७९॥

शय्यावहारैर्वचनप्रहारैः
कोपप्रकारैर्जननीविकारैः ।
कौटिल्यसारैर्विविधप्रसारैर्
विपद्विचारैर्गणितापचारैः ॥८०॥

याच्ञाविवादैरधनापवादैर्
दत्तानुवादैः परसाधुवादैः ।
निन्दाप्रवादैः परुषप्रवादैर्
विटप्रवादैः कथितावसादैः ॥८१॥

मुहुः प्रवासैः कलहोपवासैर्
मायानिवासैः कटुकाधिवासैः ।
सभ्रूविलासैर्व्यसनोपवासैर्
निष्कासनीयः स पृथुप्रवासैः ॥८२॥

स चेत्पुना रागजतुप्रसक्तस्
तीव्रावमानैरपि न प्रयाति ।
तदा तमुत्क्षिप्तभुजान्यवक्त्रा
दासी वदेद्वित्तवियोगदीनम् ॥८३॥

यत्राभवत्कामुकलोकयात्रा
विचित्ररूपा सततं विभूतिः ।
गृहे चतुर्थं दिनमद्य तस्मिन्
दृष्टस्य दृष्टस्य वधूत्सवस्य ॥८४॥

क्लीबस्य यस्यास्ति न भोगसम्पत्
स किं भुजिष्याभवने करोति ।
न यस्य हस्ते तरमूल्यमस्ति
स किं समारोहति नावमग्रे ॥८५॥

प्रक्षीणवित्तेन निरुद्यमेन
किं रूपयुक्तेन करोति वेश्या ।
विच्छिन्नदुग्धा न पुनः सगर्भा
सा कस्य गौश्चारुतयोपयुक्ता ॥८६॥

मिथ्यैव रिक्तः कुरुते जडानाम्
आवर्जनं प्रेममयैर्वचोभिः ।
क्षीरक्षये चुम्बनलालनेन
बालस्य वृद्धिं विदधाति धात्री ॥८७॥

इत्यादिभिस्तद्वचनावमानैस्
तस्मिन्गते ग्रीष्मतुषारतुल्ये ।
क्षिणं निरस्तं पुनराप्तवित्तं
भजेत यत्नाहृतवित्तमन्यत॥८८॥

प्राप्ते कान्ते कथमपि धनादानपात्रे च वित्ते
त्वं मे सर्वं त्वमसि हृदयं जीवितं च त्वमेव ।
इत्युक्त्वा तं क्षपितविभवं कञ्चुकाभं भुजङ्गी
त्यक्त्वा गच्छेत्सधनमपरं वैशिकोऽयं समासः ॥८९॥

उद्देशलेशेन यदेतदुक्तं
तत्कार्यकाले विविधप्रयोगम् ।
तस्मिन्स्वबुद्ध्यैव विचार्य कार्यं
उक्त्वेति तूष्णीं जरती चकार ॥९०॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रनिर्मितायां समयमातृकायां
रागविभागोपन्यासो नाम पञ्चमः समयः ॥५॥