प्रमुखा विकल्पसूचिः उद्घाट्यताम्
समयमातृका
प्रथमः समयः
क्षेमेन्द्रः
द्वितीयः समयः →

प्रथमः समयः
चिन्तापरिप्रश्नः
अनङ्गवातलास्त्रेण जिता येन जगत्त्रयी ।
विचित्रशक्तये तस्मै नमः कुसुमधन्वने ॥१॥

यस्या दुर्धरघोरवक्त्रकुहरे विश्वक्षये लक्ष्यते
क्षुब्धाब्धाविव लोलबालशफरी कुत्रापि लोकत्रयी ।
तामज्ञातविशालकालकलनां तैस्तैः पुराणैरपि
प्रौढां देहिसमूहमोहनमयीं कालीं करालां नुमः ॥२॥

क्षेमेन्द्रेण रहस्यार्थमन्त्रतन्त्रोपयोगिनी ।
क्रियते वाररामाणामियं समयमातृका ॥३॥

अस्ति स्वस्तिमतां विलासवसतिः सम्भोगभङ्गीभुवः
केलिप्राङ्गणमङ्गनाकुलगुरोर्देवस्य शृङ्गारिणः ।
कश्मीरेषु पुरं परं प्रवरतालब्धाभिधाविश्रुतं
सौभाग्याभरणं महीवरतनोः सङ्केतसद्म श्रियः ॥४॥

यत्र त्रिनेत्रनेत्राग्नित्रस्तस्त्यक्त्वा जगत्त्रयीम् ।
पौरस्त्रीत्रिवलीकूले वसत्यसमसायकः ॥५॥

तत्राभूदभिभूतेन्दुद्युतिः कन्दर्पदर्पभूः ।
कान्ता कलावती नाम वेश्या वश्याञ्जनं दृशोः ॥६॥

कुचयोः कठिनत्वेन कुटिलत्वेन या भ्रुवोः ।
नेत्रयोः श्यमलत्वेन वेश्यावृत्तमदर्शयत॥७॥

सा हर्म्यशिखरारूढा कदाचिद्गणिकागुरुम् ।
कामिनां नर्मसुहृदं ददर्श पथि नापितम् ॥८॥

श्मश्रूराशीचितमुखं काचकाचरलोचनम् ।
पीवरं तीरमण्डूकैर्मार्जारमिव शारदम् ॥९॥

विटानां केलिपटहं तप्तताम्रघटोपमम् ।
दधानं रोममालान्तं स्थूलखल्वाट कर्परम् ॥१०॥

ताम्बूलष्ठीवनत्रासादुपरि क्षिप्तचक्षुषम् ।
आनिनाय तमाहूय सा नेत्राञ्चलसंज्ञया ॥११॥

स सम्भ्येत्य तां दृष्ट्वा चिन्तानिश्चललोचनाम् ।
पप्रच्छ विस्मितः कृत्वा नर्मप्रणयसंवृतिम् ॥१२॥

ध्यानालम्बनमाननं करतले व्यालम्बमानालकं
लुप्तव्यञ्जनमञ्जनं नयनयोर्निःश्वासतान्तोऽधरः ।
मौनक्लीबनिलीनकेलिविहगं निद्रायमाणं गृहे
वेषः प्रोषितयोषितां समुचितः कस्मादकस्मात्तव ॥१३॥

किं मेखला मदनवन्दिवधूर्नितम्बे
सुश्रोणि नैव बत गायति मङ्गलानि ।
अङ्गं कृशाङ्गि किमनङ्गयशःप्रभेण
कर्पूरचन्दनरसेन न लिप्तमेतत॥१४॥

प्राप्तं पुरः प्रचुरलाभमसंस्पृशन्ती
भाविप्रभूतविभवाय कृताभियोगा ।
किं केनचित्सुचिरसेवननिष्फलेन
मिथ्योपचारवचनेन न वञ्चितासि ॥१५॥

लोभाद्गृहीतमविभाव्य भयं भवत्या
दर्पात्प्रदर्शितमशङ्कितया सखीभिः ।
दत्तं तवाप्रतिममाभरणं नृपार्हं
चौरेण किं प्रलपितं नगराधिपाग्रे ॥१६॥

दानोद्यतेन धनिकेन विशेषसङ्गात्
सक्तोऽयमित्यथ शनैरवसायितेन ।
लब्धान्तरस्वजनमित्रविरोधितेन
किं त्वन्निकारकुपितेन कृतो विवाहः ॥१७॥

दत्त्वा सकृत्तनुविभूषणमंशुकं वा
यद्वानुबन्धविरलीकृतकामुकेन ।
यक्षेण सर्वजनतासुखभूः प्रपेव
तीक्ष्णेन भीरु किमु केनचिदावृतासि ॥१८॥

वित्तप्रदानविफलेन पलायमाना
कौटिल्यचारुचटुला शफरीव तोये ।
गूढं वशीकरणचूर्णमुचा कचेषु
किं केनचिन्न कुहकेन वशीकृतासि ॥१९॥

निष्कासितुं हृदयस्ञ्चिततीव्रवैरे
सन्दर्शितप्रकटकूटधनोपचारे ।
लोभात्त्वयानपचयैः पुनरावृतेव
प्राप्तः किमु प्रसभयमर्थवशादनर्थः ॥२०॥

कैर्नित्यसम्भवनिजं वणिजं त्यजन्त्या
यान्त्या तृणज्वलनदीप्तिनियोगलक्ष्मीम् ।
नष्टे सुवस्त्रविभवे विरते पुराणे
जातस्तव स्तवकितोभयलाभभङ्गः ॥२१॥

सिद्धः प्रयत्नविभवैः परितोषितस्य
दातुं समुद्यतमतिः स्वयमर्थशास्त्रम् ।
नीतस्तव प्रचुरमत्सरयान्यया किं
गेहान्निधिर्बहुधनः स्वसखीमुखेन ॥२२॥

किं वावसादपदवीमतिवाह्य कष्टां
लब्धाविकारविभवेन विवर्जितासि ।
किं मूर्छितासि विरतासि सुखोज्झितासि
ध्यानावधानवधिरासि निमीलितासि ॥२३॥

अप्युद्दामव्यसनसरणेः सङ्गमे कामुकानां
भद्रं भद्रे भुवनजयिनस्त्वत्कलाकौशलस्य ।
अप्युत्साहप्रचुरसुहृदः कामकेलीनिवासाः
प्रौढोत्साहास्तव सुवदने स्वस्तिमन्तो विलासाः ॥२४॥

इत्यादि तेन हितसंनिहितेन पृष्टा
स्पृष्टा भृशं विभवभङ्गभयोद्भवेन ।
सा तं जगाद सुखदुःखसहायभूतं
चिन्ताविशेषविवशा बहुशः श्वसन्ती ॥२५॥

शृणु कङ्क ममानन्तां चिन्तां सन्तापकारिणीम् ।
ययाहमवसीदामि ग्रीष्मग्लानेव मञ्जरी ॥२६॥

सा सखे करभग्रीवा मातुर्माता स्थिरस्थितिः ।
व्याली गृहनिधानस्य हता वद्याधमेन मे ॥२७॥

योऽसाववद्यविद्याविद्वैद्यः सद्यः क्षयोद्यतः ।
दर्पादातुरवित्तेन वृद्धोऽपि तरुणायते ॥२८॥

तेन रोगधराख्येन दत्ता रसवती मम ।
त्रिभागशेषतां नीता लौल्यलोभोद्भवात्तया ॥२९॥

प्रपञ्चवञ्चनावैरात्सा तेनातुरतां गता ।
काञ्चन्या पञ्चतां नीता पश्यन्ती काञ्चनं जगत॥३०॥

हिरण्यवर्णां वसुधां तस्मिन्नन्तक्षणेऽपि सा ।
दृष्ट्वा मामब्रवीद्वत्से गृह्यतां गृह्यतामिति ॥३१॥

ततस्तस्यामतीतायां गृहं मे शून्यतां गतम् ।
पराभवास्पदीभूतं कामुकैः स्वेच्छया वृतम् ॥३२॥

रिक्तः शक्तो न निर्याति नाप्नोत्यवसरं धनी ।
शून्यशालेव पथिकैर्निरुद्धा कामुकैरहम् ॥३३॥

तस्माद्विदेशं गच्छामि नेच्छाम्युच्छृङ्खलां स्थितिम् ।
कथं रक्तविरक्तानां तुल्यां स्वायत्ततां सहे ॥३४॥

इत्युद्बाष्पसदृशस्तस्याः प्रलापं वृद्धनापितः ।
आकर्ण्य तां समाश्वास्य सोच्छ्वासं प्रत्यभाषत ॥३५॥

भवत्या वित्तलोभेन निर्विचारतया परम् ।
भिषग्दुष्टभुजङ्गोऽसौ स्वयमेव प्रवेशितः ॥३६ ॥

जनन्यो हि हतास्तेन वेश्यानां पथ्ययुक्तिभिः ।
किं कुट्टनीकृतान्तोऽसौ वैद्यो न विदितस्तव ॥३७॥

स रोगिमृगवर्गाणां मृगयानिर्गतः पथि ।
इत्यादिभिः स्तुतिपदैर्विटचेटैः प्रणम्यते ॥३८॥

यमाय धर्मराजाय मृत्यवे चान्तकाय च ।
वैवस्वताय कालाय सर्वप्राणहराय च ॥३९॥

अधुना दुःखमुत्सृज्य मनःस्थित्यै विधीयताम् ।
कृत्रिमः क्रियतां गेहे रक्षायै जननीजनः ॥४०॥

व्याघ्रीव कुट्टनी यत्र रक्तपानामिषैषिणी ।
नास्ते तत्र प्रगल्भन्ते जम्बुका इव कामुकाः ॥४१॥

यत्र तत्र निमग्नानां वेश्यानां जननीं विना ।
सन्ध्ययोर्दिवसस्यापि मुहूर्तार्धस्य न क्षणः ॥४२॥

न भवत्येव धूर्तस्य वेश्यावेश्मन्यमातृके ।
चुल्लीसुप्तस्य हेमन्ते मार्जारस्येव निर्गमः ॥४३॥

प्रविष्टा कुट्टनीहीनगृहं क्षीणपटा विटाः ।
गाथाः पठन्ति गायन्ति व्ययद्रविणमर्थिताः ॥४४॥

अकण्टका पुष्पमही वेशयोषिदमातृका ।
मन्त्रिहीना च राज्यश्रीर्भुज्यते विटचेटकैः ॥४५॥

अयं पीनस्तनाभोगसौभाग्यविभवोचितः ।
द्रविणोपार्जनस्यैव कालः कुवलयेक्षणे ॥४६॥

खला इवातिचपलाः कृतालिङ्गनसङ्गमाः ।
न गताः पुनरायान्ति बाले यौवनवासराः ॥४७॥

प्रथम...
...नां पुष्पवतीनां लतानां च ॥४८॥

तस्मान्मानिनि कापि हेमकुसुमारामोच्चयाय त्वया
माता तावदनेककूटकुटिला काचित्समन्विष्यताम् ।
एताः सुभ्रु भवन्ति यौवनभरारम्भे विजृम्भाभुवो
वेश्यानां हि नियोगिनामिव शरत्काले घनाः सम्पदः ॥४९॥

अस्त्येव सा बहुतराङ्कवती तुलेव
कालस्य सर्वजनपण्यपरिग्रहेषु ।
क्षिप्रप्रकृष्टपलकल्पनया ययासौ
भागी कृतः परिमितत्वमुपैति मेरुः ॥५०॥

यासौ रामा मलयजलतागाढसंरोधलीला
निर्यन्त्राणां नियमजननी भोगिनां मन्त्रमुद्रा ।
विश्वं यस्याः फलकलनया लक्ष्यतामेति पाणौ
तस्या जन्मक्रमपरिगतं श्रूयतां वृत्तमेतत॥५१॥

तद्वृत्तमात्रश्रवणेन कोऽपि
संजायते बुद्धिविशेषलाभः ।
तयोपदेशे स्वयमेव दत्ते
भवत्यसौ हस्तगता त्रिलोकी ॥५२॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रनिर्मितायां समयमातृकायां
चिन्तापरिप्रश्नो नाम प्रथमः समयः ॥१॥