प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← प्रथमः समयः समयमातृका
द्वितीयः समयः
क्षेमेन्द्रः
तृतीयः समयः →

द्वितीयः समयः
चरितोपन्यासः
अथ दत्तावधानायां कलावत्यां यथाविधि ।
कथामकथयत्कङ्कः कुट्टिन्याः कपटाश्रयाम् ॥१॥

सर्वभक्षां नमस्कृत्य तामेव भवभैरवीम् ।
वदामि चरितं तस्याः कुक्षौ यस्या जगत्त्रयी ॥२॥

परिहासपुरे पूर्वं पान्थावसथपालिका ।
बभूव भूमिका नाम ... ॥३ ॥

....
जाता घरट्टमालायामर्घघर्घटिकाभिधा ॥४॥

सा वर्धमाना सुमुखी पौरैः पर्वसु पूजिता ।
तद्गृहेष्वकरोच्चौरी पूजाभाजनसङ्क्षयम् ॥५॥

सप्तवर्षैव सा लोभाद्वाक्प्रौढा हट्टतोरणे ।
जनन्या पण्यतां नीता लोके जालवधाभिधाम् ॥६॥

सुवृत्तशङ्खलतिका सकूटकुचकञ्चुका ।
कामुकाराधनं चक्रे चुम्बनालिङ्गनेन सा ॥७॥

कुङ्कुमार्थी वणिक्सूनुरथ तेनाययौ युवा ।
सुन्दरः पूर्णिको नाम पूर्णवर्णसुवर्णवान॥८ ॥

सभायां नेत्रवलनालोलभ्रूलास्यविभ्रमैः ।
कृष्टः कौतुकवान्भेजे चपलासङ्गमं निशि ॥९॥

सा तस्य क्षैब्यसुप्तस्य निशि कण्ठावलम्बिनी ।
निगीर्य शनकैः सर्वं कर्णाभरणकाञ्चनम् ॥१०॥

अङ्गुलीभ्यः समाकृष्य हेमबालकबालिकाः ।
चौरग्रस्तेव चुक्रोश हा हतास्मीति सस्वनम् ॥११॥

प्रतिबुद्धोऽथ सहसा स तया मुषितो वणिक।
वाससाच्छादितशिरा ययौ स्वजनलज्जितः ॥१२॥

ततः सा यौवनवती रुचिराभरणाम्बरा ।
उवास शङ्करपुरे मह्लणेति कृताभिधा ॥१३॥

भूरिभाग्यभरैः सक्ता सा कामिकुसुमोच्चये ।
लेभे सम्भोगविश्रान्तिं न रजन्यां न वासरे ॥१४॥

निर्गच्छतां प्रविशतां प्रतिपालयतां बहिः ।
बभूव तद्गृहे सङ्ख्या न शुनामिव कामिनाम् ॥१५ ॥

कूपे प्रपायामुद्याने सूदपौष्पिकवेश्मसु ।
सखीगृहे च तुल्याप्तान्सा सिषेवेऽह्नि कामुकान॥१६ ॥

क्षपारम्भे क्षीबं शिशुकमिव निक्षिप्य शयने
जगामान्यं तस्मिन्सुरतघननिद्रापरमपि ।
निशाशेषे शूलाकुलनिजसखीवेश्मगमना
पदेशेनान्यं सा सततमगमत्स्वक्रयभरे ॥१७॥

नानावहारकुपितैः सान्विष्टा सुभगैर्भृशम् ।
पलायमाना गुप्तेषु तस्थौ कामुकवेश्मसु ॥१८॥

ततः प्रासादपालेन नन्दिसोमेन सा निशि ।
गौरीगर्भगृहं रात्रौ रागान्धेन प्रवेशिता ॥१९॥

निःश्वासनिद्रया तस्मिन्प्रयाते काष्ठभूतताम् ।
देवालङ्करणं सर्वं सा गृहीत्वा ययौ जवात॥२०॥

ततः समरसिंहस्य डामरस्यावरुद्धिका ।
भूत्वा नागरिकानाम प्रतापपुरवासिनः ॥२१॥

प्रभूतपिशिताहारसम्भारैः स्थूलतां गता ।
सा तस्य भीमसेनस्य हिडिम्बेवाभवत्प्रिया ॥२२॥

सर्वस्वस्वामिभावं सा सम्प्राप्ता तस्य रागिणः ।
प्रेरणं बन्धुयुद्धेषु विदधे निधनैषिणी ॥२३॥

हते पितृव्रजे तस्मिन्बद्धमूला परं गृहे ।
साभूदपरपुत्रस्य श्रीसिंहस्यावरुद्धिका ॥२४॥

विगलद्यौवना यूनः सा सपत्नीजिगीषया ।
चकार तस्य स्वीकारं वशीकरणमूलकैः ॥२५॥

मत्स्ययूष घृतक्षीरपलाण्डुलशुनादिभिः ।
प्रत्यायनप्रसक्ताभूद्यौवनस्य प्रियस्य सा ॥२६॥

अथ भूपभयात्तस्य प्रत्यासत्तेऽथ भूतपे ।
भूरि द्रविणमादाय साविशन्नगरान्तरम् ॥२७॥

ततस्तनुतरस्वच्छवसना विनतानना ।
रण्डा मृगवती नाम साभूत्स्पर्शस्पृहामही ॥२८॥

सदा सुरेश्वरीं गत्वा शतधारातटे चिरम् ।
तलबालुकदर्भाङ्का सा चक्रे पितृतर्पणम् ॥२९॥

तत्र बन्धुरसाराख्यमश्वारोहं महाधनम् ।
तीर्थस्थिता सा जग्राह मत्स्यं बकवधूरिव ॥३०॥

गृहं मुष्ट्या गृहीत्वेव चित्तग्रहणकोविदा ।
सर्वायव्ययकार्येषु सैव तस्याभवद्विभुः ॥३१॥

मासेन सा गते तस्मिन्पञ्चतां बहुसञ्चये ।
तस्थौ पादाववष्टभ्य तस्यानुगमनोद्यता ॥३२॥

तद्बान्धवैर्वार्यमाणा मिथ्यैवारब्धदुर्ग्रहा ।
धैर्यावष्टम्भगम्भीरमुवाचार्याङ्गनेव सा ॥३३॥

कुले महति वैधव्यं वैधव्ये शीलविप्लवः ।
शीलभ्रंशे वियोगोऽयं वह्निना मम यास्यति ॥३४॥

इत्युक्त्वा तीव्रसङ्कल्पनिश्चलाश्ममयीव सा ।
तद्वित्तावाप्तहर्षेण सत्त्वव्यक्तिमिवावहत॥३५॥

ततस्तद्द्रविणस्वाम्यं राजादेशादवाप्य सा ।
प्रार्थिता राजपुरुषैस्तस्थौ लीलावलम्बिनी ॥३६॥

अथाश्वशालादिविरं स्वीकृत्य रतिबाडवम् ।
सा चक्रे जीवलोकस्य स्वनामपरिवर्तनम् ॥३७॥

तल्लाभसेवया नित्यं सा तस्य स्नानकोष्ठके ।
विलासस्खलितालापैर्दिविरस्याहरन्मनः ॥३८॥

कृत्वा लुण्ठिं दिवसमखिलं भूरिभूर्जप्रयोगैर्
भुक्त्वा पीत्वा निशि बहुतरं कुम्भकर्णायमानः ।
प्रातः स्नानव्यतिकरकलादम्भसम्भावनाभूर्
माद्यं दाहं नयति दिविरः शान्तिमन्तर्जलेन ॥३९॥

प्रवृद्धापरपुत्राथ दिविराराधनव्रता ।
निखिलं जीवलोकं सा विक्रीय धनमाददे ॥४०॥

सा वेश्मविक्रयादाने पुत्रैराकृष्य वारिते ।
गत्वाधिकरणं चक्रे मठिभट्टो पसेवनम् ॥४१॥

उत्कोचारब्धसङ्घट्टैर्भट्टैः कूटरथादिभिः ।
सादिष्टाभीष्टसम्पत्तिर्जग्राह जयपट्टकम् ॥४२॥

गृहं विक्रीय सर्वस्वं गृहीत्वा पुत्रशङ्किनी ।
सा चित्रवेषप्रच्छन्ना ययौ शाक्तमठाश्रयम् ॥४३॥

कृष्णीकृतश्वेतकचा रङ्गाभ्यङ्गेन भूयसा ।

    1. र्जलेव सा तत्र नवपण्याङ्गनाभवत॥४४॥

चलित्वाभ्यागता ... वणिग्वधूः ।
इति तस्याः प्रवादेन बभूवाधिकविक्रयः ॥४५॥

सत्यासत्यकथातत्त्वमविचार्यैव धावति ।
गतानुगतिकत्वेन प्रवादप्रणयी जनः ॥४६॥

क्षीणजिह्वाधरकरा कोष पानेन कामिनाम् ।
छिन्नाङ्गुलिः सा जग्राह रागवेलां पुनः पुनः ॥४७॥

सा चौरद्रविणादानाद्गृहीता शठचेटकैः ।
प्रत्यक्षापह्नववती सुबद्धा बन्धने धृता ॥४८॥

तत्र बन्धनपालेन भुजङ्गाख्येन सङ्गता ।
निर्विकल्पसुखा चक्रे मत्स्यापूपमधुक्षयम् ॥४९॥

साथ बन्धनपालस्य गाढालिङ्गनसङ्गमे ।
क्षीबस्य चुम्बनासक्ता जिह्वां चिच्छेद मुक्तये ॥५०॥

सा जिह्वाच्छेदनिःसंज्ञं तमाक्रन्दविवर्जितम् ।
स्त्रीवेषं स्वांशुकैः कृत्वा जगामोत्क्षिप्तशृङ्खला ॥५१॥

सा भग्ननिगडा प्राप्य रजन्यां विजयेश्वरम् ।
महामात्यसुतास्मीति जगादानुपमाभिधाम् ॥५२॥

सा तत्र भोगमित्रस्य प्रीत्या रत्नैरवाकिरत।
पुराणचित्ररूपस्य यौवनस्याल्पशेषताम् ॥५३॥

यत्नोत्क्षिप्तकुचा कचायततया ... करे
बद्धापाटलपट्टकेन सरलस्थूलाञ्जनव्यञ्जना ।
नासार्धावधि वाससा च वदनं संछाद्य विद्याधरी
केयं नूतननिर्गतेति विदधे सा मुग्धसंमोहनम् ॥५४॥

तामेकवारं दृष्ट्वैव नग्नां प्रथमकौतुकात।
पथापि तेन वैरस्यान्न कश्चित्पुनराययौ ॥५५॥

शीतशालेव शिशिरे दीपमालेव वासरे ।
जीर्णा निर्माल्यमालेव वेश्या कस्योपयुज्यते ॥५६॥

सा तत्र ग्राहकाभावान्मृष्यन्ती पथिकांश्चलान।
सन्ध्यायामञ्चलाकर्षैः स्वल्पभाटीम् अयाचत ॥५७॥

तपस्विनी शिखाख्या सा सङ्गं चक्रे तपस्विना ।
तत्र भैरवसोमेन भिक्षाभक्तार्धदायिना ॥५८॥

भस्मस्मेरशरीरसञ्चितरुचिर्दत्ताक्षिजीवाञ्जना
बिभ्राणा स्फटिकाक्षसूत्रममलं वैचित्र्यमित्रं गले ।
निःसङ्कोचनिलीनकञ्चुककचत्सुस्तब्धबाहुस्तनी
साभूत्क्षोभविधायिनी हतधियां भिक्षाक्षणे निर्गता ॥५९॥

जाते तत्राथ दुर्भिक्षे भिक्षाभक्तेऽतिदुर्लभे ।
सा रात्रौ देवमात्रादि ययौ हृत्वा तपस्विनः ॥६०॥

सा कृत्याश्रमकं गत्वा विहारं हारितस्थितिः ।
भिक्षुकी वज्रघण्टाख्या बभूव ध्याननिश्चला ॥६१॥

पात्रं तत्र गुणोचितं करतले कृत्वाथ भिक्षास्पदं
जीर्णं कामुककूटरागसदृशं काषायमादाय सा ।
चक्रे मुण्डनमण्डनं परिणमत्कूष्माण्डखण्डोपमं
पिण्डाप्त्यै विटटक्कनापरिचयश्रेणीविहारं शिरः ॥६२॥

पट्वी मण्डलशिक्षायै प्रणतानां सदैव सा ।
गृहे गृहे कुलस्त्रीणां ददौ दौःशील्यदेशनाम् ॥६३॥

वश्यप्रयोगैर्वेश्यानां वणिजां ऋद्धिवर्धनैः ।
मन्त्रवादेन मूर्खाणां सा परं पूज्यतां ययौ ॥६४॥

तत्रोपासकदासेन मङ्गलाख्येन सङ्गता ।
सा गर्भं दम्भभोगानां मूर्तं विघ्नमिवादधे ॥६५॥

विच्छिन्ने पिण्डपाते सा लम्बमानमहोदरी ।
प्रसूता धर्ममुत्सृज्य जगाम नगरं पुनः ॥६६॥

कूटकेशवती तत्र चित्रसेनस्य मन्त्रिणः ।
पुत्रजन्मनि सा पुण्यैः पत्न्या धात्री प्रवेशिता ॥६७॥

सार्धक्षीराभिधा धात्री सिंहपादवृसीस्थिता ।
बालोत्सङ्गा गृहं सर्वं ग्रासीकर्तुमिवैक्षत ॥६८॥

क्षीरसङ्क्षयरक्षायै सम्प्राप्तसरसाशना ।
सा मन्त्रिभवने धात्रा धात्री पात्रीकृता श्रियः ॥६९॥

कण्ठे विद्रुममालिका श्रवणयोस्ताडीयुगं राजतं
स्थूलस्थूलविभक्तिसक्तवटकप्राग्भारभाजौ भुजौ ।
गुल्फास्फालविलम्बिकम्बलघनारम्भा नितम्बस्थली
धात्र्याः सम्भृतभोजनैरभिनवीभूतं पुराणं वपुः ॥७०॥

ततस्तदपचारेण शिशौ जातज्वरे व्यधात।
वैद्यदत्तोपवासा सा मत्स्यसूपपरिक्षयम् ॥७१॥

पानीयं विनिवारणीयमहितं भक्तस्य वार्तैव का
द्वित्राण्येव दिनानि धात्रिदयया धात्रीरसः पीयताम् ।
जीवत्वेष शिशुर्भजस्व विविधैरस्योत्सवैः सम्पदं
वैद्येनेति निवेद्यमानमकरोत्सा सर्वमेवाश्रुतम् ॥७२॥

दृष्ट्वा तत्रातुरं बालं तृणवत्सुतरागिणी ।
सा ययौ निर्दया रात्रौ गृहीत्वा हेमसूतिकाम् ॥७३॥

ततः प्रत्यन्तविषये प्रभूतच्छागगोचरा ।
ख्याता धनवती नाम स्फीतां चक्रे गृहस्थितिम् ॥७४॥

साथ मेघापघातेन तस्मिन्पशुधने वने ।
स्वकाय इव सापाये याते चर्मावशेषताम् ॥७५॥

गृहीत्वा पशुपालस्य स्थूलं निक्षेपकम्बलम् ।
गत्वावन्तिपुरं चक्रे ताराख्यापूपविक्रयम् ॥७६ ॥

क्रीत्वा गणेशनैवेद्यमण्डकानां करण्डकम् ।
पुनः पाकोष्मणा नित्यमकरोद्विक्रयं पथि ॥७७॥

साभुङ्क्त गृहनारीणां प्रभूतोज्जाम तण्डुलम् ।
प्रभूतलाभलुब्धानां मूलस्यापि परिक्षयः ॥७८॥

पान्थकन्यां घृताभ्यक्तां कृत्वा कुशलिकाभिधा ।
मिथ्यासन्नविवाहार्थमयाचत गृहे गृहे ॥७९॥

ततः सा पञ्जिका नाम द्यूतशालापुरःस्थिता ।
कपटाक्षशलाकानामकरोद्गूढविक्रयम् ॥८०॥

सा पौष्पिकी मुकुलिका कृत्वा निर्माल्यविक्रयम् ।
देवप्रासादपालानां मूल्यं भुक्त्वा ययौ निशि ॥८१॥

ग्रामयात्रासु सा वारिसत्त्रदात्री हिमाभिधा ।
रङ्गप्रेक्षणबालानां निनाय वलयादिकम् ॥८२॥

सा नक्षत्रपरावृतिं कृत्वा षट्काष्टकेष्वपि ।
विवाहेष्वकरोद्यत्नं वर्णाख्या कूटवर्णनैः ॥८३॥

गणविज्ञानिका मुग्धप्रत्ययैः ख्यातिमाययौ ।
नामाभिज्ञानमात्रज्ञा न तु चौरान्विवेद सा ॥८४॥

भावसिद्ध्यभिधाना सा देवतावेशधारिणी ।
उपहारान्प्रयच्छेति वदन्ती नावदत्परम् ॥८५॥

तत उन्मत्तिका भूत्वा सा नग्नालिङ्गिता श्वभिः ।
कुम्भादेवीति विख्याता प्राप पूजापरम्पराम् ॥८६॥

क्षिप्रोपदेशलुब्धेन कुलदासेन मन्त्रिणा ।
सार्चिता प्रययौ हृत्वा पूजाराजतभाजनम् ॥८७॥

साथ तक्षकयात्रायां चलहण्ठा दिनत्रयम् ।
कल्पपाली कला नाम विदधे मद्यविक्रयम् ॥८८॥

कटिघण्टाभिधानस्य सा क्षीबस्य तपस्विनः ।
रात्रौ तत्र प्रसुप्तस्य घण्टाः सप्त समाददे ॥८९॥

ततः सा भूरिधत्तूरमधुना नष्टचेतसाम् ।
पान्थानां सर्वमादाय निशि शूरपुरं ययौ ॥९०॥

एवं कृत्वा लवणसरणौ भारिकं भर्तृसंज्ञं
तस्मिन्निद्रावशमुपगते रात्रिमन्यैः क्षिपन्ती ।
प्रातर्बद्ध्वा पृथुकटितटं सङ्कटे दीर्घदाम्ना
मूर्ध्ना भारं दिवसमखिलं सा विलासैरुवाह ॥९१॥

निःशुष्कैरतटैर्महाहिमपथैरुल्लङ्घ्य घोरान्गिरीन्
बम्बानाम दिनावसानसमये मान्याङ्गनारूपिणी ।
हेमन्ते वसनावगुण्ठितमुखी पञ्चालधारामठे
शीतार्ता घनलम्बकम्बलवती चक्रे स्पृहां कातरा ॥९२॥

साथ सत्यवती नाम वृद्धा ब्राह्मण्यवादिनी ।
बभ्राम सागरद्वीपरशनाभरणां भुवम् ॥९३॥

क्वचिद्योगकथाभिज्ञा क्वचिन्मासोपवासिनी ।
क्वचित्तीर्थार्थिनी मिथ्या सा परं पूज्यतां ययौ ॥९४॥

वेधधूननधूपेन मूर्खश्रद्धाविधायिनी ।
महतीं प्रतिपत्तिं सा लेभे भूपतिवेश्मसु ॥९५॥

सेनास्तम्भं करिष्यामि राज्ञां कृत्वेति वर्णनम् ।
भुक्त्वा हेम ययौ रात्रौ प्रत्यासन्ने रणोद्यमे ॥९६॥

केदाराम्बुगयाश्राद्धगङ्गास्नानादिवादिनी ।
तत्फलं बन्धमाधाय सार्थेभ्यः साग्रहीद्धनम् ॥९७॥

नष्टच्छायो पदेशार्थं सार्थिता पथि दस्युभिः ।
रूढा शिबिकया वर्षं प्रपलाय्य ययौ ततः ॥९८॥

चीनानकानामण्डानि साथ रुद्राक्षसंज्ञया ।
ददौ मूल्येन शिष्याणां रुद्राक्षाधिक्यवादिनी ॥९९॥

बिलसिद्धिधृतश्रद्धागृहीताभरणाम्बरान।
सा चिक्षेपान्धकूपेषु पातालललनोत्सुकान॥१००॥

अङ्गविद्धविषास्मीति सुस्निग्धविषगण्डकैः ।
सा बबन्ध गले मालां विषजाङ्गुलिकाभिधा ॥१०१॥

शुल्कस्थानेषु सर्वेषु शौल्किकेभ्यः स्वभावतः ।
मुहूर्तमोहनं पुष्पं सा दत्त्वा स्वेच्छया ययौ ॥१०२॥

वर्षाणां मे सहस्रं गतमधिकतरं वेद्म्यहं धातुवादं
सिद्धो मे वाक्प्रपञ्चः करतलकलितं त्रैपुरं कामतत्त्वम् ।
उर्वर्यां गर्वखर्वीकृतसकलगुरुग्रामभक्त्या तयास्याम्
इत्याख्यानेन नीताश्चरणतललिहष्ठक्कुराः कुक्कुरत्वम् ॥१०३॥

पूजासज्जा भजन्ते जयनुतिषु नतिं दिक्षु काम्बोजभोजाः
सेवाशुष्कास्तरुष्काः परिचरणरसे किं च चीनाः प्रलीनाः ।
उत्कण्ठार्तास्त्रिगर्ताः परिचरणविधौ पीडयन्त्येव गौडा
दम्भारम्भेण तस्या विदधति कुसुमोत्सङ्गतामङ्गबङ्गाः ॥१०४॥

भ्रान्त्वा महीं जलनिधिप्रथितामशेषां
मायाविनीतिविदिताविरतोन्नतिः सा ।
प्राप्ता पुनर्निजपदं तनुवीरशेषा
क्षीणोऽपि देहमिव कस्त्यजति स्वदेशम् ॥१०५॥

सा सर्वदेशपरिशीलितवेषभाषा
प्रभ्रष्टभूपतिसुताहमिति ब्रुवाणा ।
छिन्नाङ्गुलिर्दशनखण्डितनासिकाग्रा
लालाटनीलतिलकैर्विदिता ममैव ॥१०६॥

सा चेत्प्रकीर्णधनगेहनिधानसर्पी
गृह्णाति लोभजननी जननीपदं ते ।
तत्कामिलोकसकलार्थसमृद्धिमेतां
यत्नाद्विना सुतनु हस्तगतामवेहि ॥१०७॥

तस्मात्तामहमेव कूटकुटिलां गत्वा स्वयं त्वत्कृते
सर्वज्ञां सकलार्थसार्थसरणेः सिद्ध्यै समभ्यर्थये ।
किं किं वा कथयामि सैव जगतीं जानाति जेतुं धिया
नास्त्यन्या गतिरित्युदीर्य हितकृत्तूर्णं ययौ नापितः ॥१०८॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रनिर्मितायां समयमातृकायां
चरितोपन्यासो नाम द्वितीयः समयः ॥२॥