समराङ्गणसूत्रधार अध्याय १०

समराङ्गणसूत्रधार अध्यायसूची

अथ पुरनिवेशो दशमोऽध्यायः।

पुरस्य त्रिविधस्यापि प्रमाणमथ कथ्यते।

प्राकारपरिखाट्टालद्वाररथ्याध्वभिः सह ॥१


ज्येष्ठं तत्र चतुश्चापसहस्रं पुरमिष्यते।

मध्यं द्वाभ्यां सहस्राभ्यामेकेन व्यासतोऽधमम् ॥२


साष्टमांशं सपादं वा सार्धं वा व्यासमायतम्।

कुर्यादेकैकमायामं चतुरास्रीकृतं शुभम् ॥३


चतुःषष्टिपदाख्येन पुरं सर्वं प्रकल्पयेत्।

द्विरष्टकोष्ठं तत्कुर्यात्षट्पथं नवचत्वरम् ॥४


चतुरश्रीकृते क्षेत्रे प्रागुदीच्यन्तमागताः।

चतुर्भागान्तरा वंशाः कार्यास्तस्य त्रयस्त्रयः ॥५


वंशषट्कविभक्तेऽस्मिन् पदषोडशकान्विते।

राजमार्गः शुभः कार्यो मध्यमं वंशमाश्रितः ॥६


कार्यो ज्यायसि च ज्यायांश्चतुर्विंशतिकः करैः।

विंशत्या मध्यमे मध्योऽधमे षोडशकोऽधमः ॥७


बलस्य चतुरङ्गस्य पौराणां पार्थिवस्य च।

असम्बाधसमश्चैष कार्योऽयं काश्मशर्करः ॥८


महारथ्याद्वयं कार्यं तदुपान्तस्थवंशयोः।

तद्द्वादश दशाष्टौ स्यात्करान् ज्येष्ठादिकं त्रिषु ॥९


पदमध्यगतं कार्यं यानमार्गचतुष्टयम्।

ज्येष्ठादिषु पुरेष्वेषु तत्पद्यं च चतुःकरम् ॥१०


उपरथ्या महामार्गस्यार्धं वा द्विशयाधिकम्।

शेषा रथ्यास्तदर्धेन विधातव्याः प्रमानतः ॥११


यानमार्गचतुष्कस्य कार्यौ पार्श्वद्वयाश्रितौ।

पदाष्टकपदान्तस्थौ द्वौ द्वौ जङ्घापथावपि ॥१२


पुरे ज्येष्ठे त्रिहस्तौ तौ मध्यमेऽर्धकरोज्झितौ।

मध्यमादर्धहस्तेन हीनौ स्यातां कनीयसि ॥१३


पुरस्यान्तर्गतौ कार्यौ घण्टामार्गौ तथापरौ।

राजमार्गगुणोपेतौ प्रमाणेन च तद्विधौ ॥१४


प्राक्प्रत्यगायताः सप्तदश मार्गा इतीरिताः।

याम्योत्तरायतास्तद्वदन्ये स्युस्तत्प्रमाणतः ॥१५


घण्टामार्गप्रमाणेन घण्टामार्गस्य बाह्यतः।

समन्ततो वप्रभुवं स्थापयेत् तद्विधानवित् ॥१६


महारथ्याप्रमाणेन तद्भूमेर्बाह्यतस्ततः।

व्यासखातान्तरैः सार्धं विधेयं परिखात्रयम् ॥१७


खातोत्पादोज्झितं कार्यं सत्र्यंशेनार्धतोऽपि वा।

व्यासतः स्यादशेषेण मूलतस्तद्वदेव तत् ॥१८


कुर्याद्वप्रं स्वभूभागे परिखोत्खातया मृदा।

सोत्सङ्गं गजपृष्ठं वा गोत्रीयपदताडितम् ॥१९


खातोद्वृत्तमृदा वप्रनिर्माणाधिकया ततः।

भूप्रदेशान्पुरा निम्नानापूर्य समतां नयेत् ॥२०


एवं संशोध्य परिखात्रितयं परितोऽश्मभिः।

विधेयमिष्टकाभिर्वा सम्यग्बद्धतलम् स्थिरम् ॥२१


सिरावारिभिरापूर्णं पूर्णं वागागिनाम्भसा।

विचित्राब्जमनोहारि ससंग्राहाम्बुनिर्गमम् ॥२२


सर्वपाश्वेष्वथैतस्य गन्धान्धमधुपाङ्गनान्।

सुमनोविटपारामान् कुर्याद् वासान् समुत्सकान् ॥२३


बाह्यभागं पुनस्तस्य विदध्यात्सर्वतोदिशम्।

द्रुममूलैर्लताजालैः कण्टकैरपि संवृतम् ॥२४


वप्रोर्ध्वभागगं मध्यं स्थूलोपलशिलाचितम्।

कुर्यात्प्राकारमुद्दामं यद्वा पक्वेष्टकामयम् ॥२५


ज्यायान्करैर्द्वादशभिर्दशभिर्मध्यमः स्थितः।

कनीयानष्टभिर्हस्तैर्विस्तारः स्यात् त्रिधेत्यसौ ॥२६


उच्छ्रायः सप्तदशभिः करैर्ज्यायान् प्रशस्यते।

मध्यमः पञ्चदशभिस्त्रयोदशभिरन्तिमः ॥२७


ऊर्ध्वं न सप्तदशकान्न त्रयोदशकादधः।

प्राकारोच्छ्रयमिच्छन्ति नापि युग्मकरोन्मितम् ॥२८


हस्ते हस्तेऽङ्गुलद्वन्द्वमायतः सम्यगुच्छ्रयात्।

यस्य वा द्वादशकरा मूले भवति विस्तृतिः ॥२९


चतुरस्रो च्छ्रितिस्तस्य शिरः स्याद्दशविस्तृतम्।

हस्तोच्चं कपिशीर्षं स्याद्द्विहस्ता काण्डवारिणी ॥३०


कार्याः कर्णाश्रितैर्द्वारकर्णान्तस्थैश्च संयुताः।

प्राकारेऽट्टालकास्तस्मिन् दिक्षु दिक्षु चतुर्दिशम् ॥३१


द्विभौमांश्चरिकोर्ध्वं च प्राकारोच्छ्रायविस्तृतान्।

तदर्धं निर्गमान् कुर्यात्ससालाट्टालकानथ ॥३२


शतं शतं स्याद्धस्तानां मिथश्चाट्टालकान्तरम्।

इत्थं पुरमगम्यं स्यात्पत्त्यश्वरथदन्तिनाम् ॥३३


चरिकां संचरद्वारां सुखारोहां सवेदिकाम्।

ससोपानां सनिर्यूहां कुर्यात्सकपिशीर्षकाम् ॥३४


राजमार्गमहारथ्यासंश्रितानि चतुर्दिशम्।

त्रीणि त्रीणि विधेयानि पुरे द्वाराणि तद्विदा ॥३५


राजमार्गमहाद्वारचतुष्कं विस्तरान्नव।

अष्टौ सप्त करा नोर्व्या द्विगुणं त्रिकरोज्झितम् ॥३६


महारथ्याश्रयं द्वारं तत्षट्पञ्चचतुष्करम्।

उच्छ्रयात्सार्धसार्धैकहस्तोनं विस्तरेण तत् ॥३७


कुर्यात्प्रतोलीः सर्वेषु महाद्वारेष्वथो दृढाः।

दृढार्गलाश्चेन्द्र कीलाः कपाटपरिघान्विताः ॥३८


राजमार्गसमा शाला स्यात्प्रतोलीविनिर्गमा।

तदर्धं कोष्ठकान्तः स्याद्व्यासोऽधर्धं तयोः स्मृतः ॥३९


चतुरश्रामिति न्यस्य प्रतोलीं वदनायताम्।

व्यासतस्त्र्यंशविन्यस्तमार्गां मूषाद्वयान्विताम् ॥४०


अन्तर्भित्तौ चतुर्द्वारं महाद्वारेण सम्मितम्।

विकल्पकोष्ठकान्तेषु दारुभिस्तद्विभूषयेत् ॥४१


द्वारे चोभयतःशाले द्वे द्वे द्वारे च मूषयोः।

ते कार्ये सम्मुखे व्यासाद्द्विकरे द्विगुणोच्छ्रिते ॥४२


तद्दारुमूषयोः पट्टमध्यं पञ्चकरोच्छ्रितम्।

तद्वत्कार्या द्वितीया भूर्द्वारशेषोदयोच्छ्रिता ॥४३


बहिर्द्वारविनिर्मुक्तां पूर्ववत्तां प्रकल्पयेत्।

पुरःसंरोधनसहैर्गवाक्षैरग्रतो युताम् ॥४४


तलं ततो महाद्वारस्योर्ध्वे बद्ध्वा तृतीयकम्।

रोधनद्वारयुग्हर्म्यसंयुक्तं सपरिक्रमम् ॥४५


सन्न्यस्तस्तम्भवेद्यन्यदूर्ध्वं तस्योपकल्पयेत्।

व्यालजालशतघ्न्यस्त्रशस्त्रयस्त्रादिभिर्युतम् ॥४६


वृद्धिशोभाभिगुप्त्यर्थं पुरस्य प्रविकल्पयेत्।

बृहद्द्वाराणि परितस्त्रितलाभिः प्रतोलिभिः ॥४७


प्रतोल्या दक्षिणाद्भागादुच्छ्रितो वामतो गतः।

यावद्द्वितीयं तत्पार्श्वमेकः कार्यो बहिः स्थितः ॥४८


द्वितीयो वामभागात्तु निर्गत्यास्यैव वेष्टकः।

कार्यः स्यादा तदुत्थानात्प्राकारस्तस्य बाह्यतः ॥४९


एतयोरन्तरालं च राजमार्गेण सम्मितम्।

कर्तव्यं स्यादिहैवं तु वक्त्रद्वारकमुत्तमम् ॥५०


दृष्ट्वा दृष्ट्वोपभोगार्हान्सरिद्गिरिजलाशयान्।

पक्षद्वाराणि कुर्वीत स्वेच्छया तत्र तत्र च ॥५१


जलभ्रमान्पुरे कुर्याच्छिलादारुतिरोहितान्।

द्विकरान्करमात्रान्वा साम्भसोऽस्मिन् प्रदक्षिणान् ॥५२


छिन्नकर्णं विकर्णं च वज्रं सूचीमुखं तथा।

वर्तुल व्यजनाकारं चापाकृतिधरं च यत् ॥५३


शकटद्विसमं यच्च विस्ताराद्द्विगुणायतम्।

विदिक्स्थं सर्पचक्रं च तत् पुरं निन्दितं भवेत् ॥५४


छिन्नकर्णे वसंल्लोकः पुरे तस्करतो भयम्।

व्याधिभ्यो वापरेभ्यो वा प्राप्नोतीति विनिर्दिशेत् ॥५५


विद्विष्टस्वामिता सर्वलोकगर्हानपत्यता।

जायते स्वल्पमायुष्यं विकर्णपुरवासिनाम् ॥५६


स्त्रीजयं विषरोगांश्च भेदांश्च विविधांस्तथा।

जनो वसन्नवाप्नोति वज्राकृतिधरे पुरे ॥५७


व्रजन्ति प्राणिनो नाशं क्षुद्व्याधिपरिपीडिताः।

निवसन्तः सदा सूचीमुखाकारधरे पुरे ॥५८


स्वामिना सह हीयन्ते सर्वतः सञ्चयोज्झिताः।

स्वल्पायुषश्च जायन्ते जना वृत्तपुराश्रयाः ॥५९


असत्यवादिनः स्वल्पायुषः पवनपीडिताः।

जनाः स्युश्चलचित्ताश्च नगरे व्यजनाकृतौ ॥६०


दुश्चरित्राङ्गनायुक्तस्तथा बहुनपुंसकः।

चापाकारे पुरे लोको निवसन् भवति ध्रुवम् ॥६१


रोगशोकानलस्तेनभयं तत्र प्रजायते।

शकटद्विसमाकारं पुरं यद्विनिवेश्यते ॥६२


आरम्भासिद्धिदं विप्रभयदं ज्ञातिभेदकृत्।

पौराणां स्वामिनश्च स्याद्गजवाजिक्षयावहम् ॥६३


परैराक्रम्य भुज्येत तत्पुरं बलशालिभिः।

द्विगुणायतसंस्थानं यत्क्वचिद्विनिवेश्यते ॥६४


जनक्षयोऽग्निदाहश्च स्त्रीकृतानि भयानि च।

पुरे भवति दिङ्मूढे न च निर्योगमेति तत् ॥६५


शस्त्रानिलपिशाचाग्निभूतयक्षभयार्दिताः।

रुक्पीडिताश्च नश्यन्ति भुजङ्गकुटिले जनाः ॥६६


पुराणामप्रशस्तानि संस्थानानीदृशानि यत्।

एकस्मिन्नपि तेनैषां न पुरं विनिवेशयेत् ॥६७


संस्थानमेकमप्येषां प्रमादात्क्रियते यदि।

तदा राष्ट्रं निपीड्येत क्षुद्द्विषद्भीतिमृत्युभिः ॥६८


शास्त्रज्ञः स्थपतिस्तस्मात्प्रयत्नपरया धिया।

यथावत्कथितं चारु नगरं विनिवेशयेत् ॥६९


वेदीनिवेशयात्रायां देवागाराभिचारयोः।

नदीकर्मणि मैत्रे च शान्तिं कुर्याच्छ्रमेषु च ॥७०


यज्ञे पुरनिवेशे च स्थापने प्रयतः सुधीः।

कुर्यात्तथाभ्युदयिकं यद्वान्यदपि किञ्चन ॥७१


पुरे भीतिकरं शश्वदनायुष्यमपौष्टिकम्।

कृतमप्रयतैः कर्म नृपतिघ्नं च जायते ॥७२


विहितं यदशास्त्रज्ञैर्यच्च निर्लक्षणैः कृतम्।

कृतमप्रयतैर्यच्च तदशस्तं फलोज्झितम् ॥७३


शास्त्रज्ञः स्थपतिर्ज्योतिर्विदा तद्वत्पुरोधसा।

अधिष्ठितः पुरे कर्म विदध्याच्छान्तिकेषु च ॥७४


पुरोहितोऽग्निं जुहुयाद्दद्यान्मौहूर्त्तिकः स्थिरम्।

स्थपतिश्च बलिं दद्याद्योजयेदिति शान्तिकम् ॥७५


तदा तस्मिन् पुरे शान्तिर्यत्र मर्मस्थिताः सुराः।

पूज्यन्ते सततं पौरैश्चत्वरस्थायिनस्तथा ॥७६


चतुःप्रकारं स्थापत्यमष्टधा च चिकित्सितम्।

धनुर्वेदश्च सप्ताङ्गो ज्योतिषं कमलालयात् ॥७७


सामान्यलक्षणोत्पातनिमित्तानि च सर्वशः।

ब्रह्मा विष्णुश्च रुद्र श्च त्यजन्त्येते न तत् पुरम् ॥७८


नगरस्य विभागोऽयं यथावत्समुदीरितः।

खेटं तदर्धविष्कम्भमाहुर्ग्रामं तदर्धतः ॥७९


योजनेन पुरात्खेटं खेटाद्ग्रामं प्रचक्षते।

गव्यूतिपरिमाणेन ग्रामाद्ग्रामं प्रचक्षते ॥८०


द्विक्रोशाद्विषये सीमा तदर्धेन पुरस्य सा।

खेटके पुरसीमाधं ग्रामे खेटार्धतः स्मृता ॥८१


त्रिंशद्घनूंषि विष्कम्भः पुरे दिग्वर्त्मसु स्मृतः।

विंशतिः खेटके मार्गो ग्रामे दश च दर्शितः ॥८२


नव ग्रामसहस्राणि नवतिश्च प्रचक्षते।

चतुःषष्टिमपि ग्रामान् ज्यायो राष्ट्रं विदुर्बुधाः ॥८३


दशार्धं च सहस्राणि ग्रामाणां त्रिशती तथा।

ग्रामाश्चतुरशीतिश्च मध्यमं राष्ट्रमीरितम् ॥८४


सहस्रमेकं ग्रामाणां तद्वच्च शतपञ्चकम्।

द्व्यूना च ग्रामपञ्चाशत् कनीयो राष्ट्रमुच्यते ॥८५


अध्यर्धसङ्ख्ययैतेषां ज्येष्ठमध्यकनीयसाम्।

विधाय नवधैकैकं विभजेद्विधिवत्सुधीः ॥८६


राष्ट्रेष्वेवं विभक्तेषु यथाभागं विधानवित्।

निवेशयेत्पुराण्येषु सप्त सप्त यथागमम् ॥८७


विभागश्च प्रमाणं च लक्षणं चादिमस्य यत्।

जातिवर्णाधिवासश्च यथावत्तदिहोच्यते ॥८८


सुवर्णकारानाग्नेय्यां तथा वह्न्युपजीविनः।

निवेशयेत् कर्मकरानन्यानपि विधानवित् ॥८९


वैश्यानामक्षधूर्तानां चक्रिकाणां च दक्षिणे।

नटानां नर्त्तकानां च गृहाणि विनिवेशयेत् ॥९०


निवेशयेत् सौकरिकान् मेयीकारान् मृगच्छिदः।

कैवर्तान् नैरृताशायां दमनाधिकृतांस्तथा ॥९१


रथेषु कौशलं येषां येषां स्यादायुधेषु च।

वारुण्यां दिशि तान् सर्वान् पुरस्य विनिवेशयेत् ॥९२


कर्मस्वधिकृता ये च ये चापि परिकर्मिणः।

शौण्डिका ये च तान् सर्वान् वायोर्दिशि निवेशयेत् ॥९३


यतीनामाश्रयान् ब्रह्मवत्सानां च तथा सभाम्।

प्रपाश्च पुण्यशालाश्च कुर्याद्दिशि धनेशितुः ॥९४


घृतविक्रयिणो ये च फलविक्रयिणश्च ये।

निवेशिताः प्रशस्यन्ते पुरस्येशानदिग्गताः ॥९५


पूर्वभागे बलाध्यक्षान् राज्ञो मुख्यांस्तथा बले।

निवेशयेत्तथाग्नेय्यां बलं नानाविधं सुधीः ॥९६


श्रेष्ठिनो दक्षिणाशायां तथा देशमहत्तरान्।

याम्येकहारान् कुर्वीत तथा ककुभि निरृतेः ॥९७


कोशपालमहामात्रादेशिकान् कारुकानपि।

निर्यामकांश्च कुर्वीत सलिलाधिपतेर्दिशि ॥९८


वायोः ककुभि कुर्वीत दण्डनाथान् सनायकान्।

पुरोहितज्योतिषिकानुत्तरस्यां निवेशयेत् ॥९९


विप्राः सौम्य दिशो भागे क्षत्रियाः शक्रदिग्गताः।

वैश्यशूद्रा स्तु कर्तव्या दक्षिणापरयोः क्रमात् ॥१००


निघेया वणिजो वैद्या मुख्याश्चापि चतुर्दिशम्।

चतुर्दिशं विशेषेण स्थापयीत बलानि च ॥१०१


नगरस्य बहिः प्राच्यां लिङ्गस्थान् विनिवेशयेत्।

श्मशानानि तथा तत्स्थान् याम्यायां स्थपतिः सुधीः ॥१०२


सर्वतोदिशमुद्दिष्टो विभागो नगरे यथा।

तथा ग्रामेषु खेटेषु सेनायाश्च निवेशने ॥१०३


नगराभिमुखौ कार्यौ संपूर्णाङ्गमहोदयौ।

द्वारे द्वारे सौम्यमुखौ लक्ष्मीवैश्रवणौ शुभौ ॥१०४


राष्ट्रं खेटमथ ग्रामं पश्यन्तेतपुरं महत्।

तत्रारोग्यार्थसंसिद्धी प्रजाविजयमादिशेत् ॥१०५


क्लेशबन्धवधैर्लोकाः स्युर्मिथः सूत्रहिंसकाः।

ग्रामं खेटं पुरं राष्ट्रं यदेतौ नैव पश्यतः ॥१०६


स्थाप्यन्ते ये यथा देवा नगरे सर्वतोदिशम्।

बाह्यान्तरासु भूमीषु ब्रूमहे तानतःपरम् ॥१०७


चतुर्दिशं समारभ्य प्राकारपरिखान्ततः।

बहिः शते शते सार्धे धनुषां द्विशतेऽपि च ॥१०८


धनुःशतमितैः शुद्धैरनिन्द्यैर्धरणीतलैः।

स्वस्वप्रासादयुक्तानि स्वस्वानुगगृहैः सह ॥१०९


निवेशनानि कुर्वीत त्रिदशानां यथाक्रमम्।

नगराभिमुखं चित्रवनभाञ्जि शुभानि च ॥११०


याम्योत्तरायतं वंशं विकल्पपुरमध्यगम्।

बहिरन्तश्च कुर्वीत देवानां विनिवेशनम् ॥१११


प्राच्यां प्रत्यङ्मुखान्कुर्यात्प्राङ्मुखांश्चाम्बुभृद्दिशि।

याम्योदकपार्श्वयोस्तस्य प्रादक्षिण्येन वंशगान् ॥११२


दक्षिणस्यां न कुर्वीत त्रिदशानप्युदङ्मुखान्।

चैत्यशानित्सभायक्षमातृप्रथमयान्विताः ॥११३


इत्यमी कथिताः सम्यग्ये यथादिङ्मुखाः सुराः।

दिक्षु दिक्षु बहिर्ये स्युस्तानिदानीं प्रचक्ष्महे ॥११४


विष्णोर्दिनाधिनाथस्य सहस्रनयनस्य च।

धर्मस्य च विधातव्यं दिशि प्राच्यां निकेतनम् ॥११५


सनत्कुमारसावित्र्योर्मरुतां मारुतस्य च।

पूर्वदक्षिणदिग्भागे विदधीत निकेतनम् ॥११६


गणेशमातृभूतानां याम्ये प्रेतपतेर्गृहम्।

भद्र काल्याः पितॄणां स्याद्वेश्म चैत्यं च नैरृते ॥११७


सागरस्य नदीनां च शिल्पिभर्तुः प्रजापतेः।

निलयं पश्चिमाशायां विदध्याद्वरुणस्य च ॥११८


फणिनां भवनं कार्यमपरोत्तरदिग्गतम्।

शनैश्चरस्य चात्रैव कात्यायन्याश्च मन्दिरम् ॥११९


विशाखस्कन्दसोमानां तथा यक्षाधिपस्य च।

पृथक्पृथग्विधातव्याः प्रासादाः सौम्यदिग्गताः ॥१२०


जगद्गुरोर्महेशस्य श्रियो वह्नेश्च मन्दिरम्।

पूर्वोत्तरस्यां ककुभि प्रविधेयं मनोरमम् ॥१२१


नदीनामम्बुधीनां च समन्तान्नगरस्य च।

कान्तारेष्वद्रि षु स्थानं सर्वत्रेष्टमुमापतेः ॥१२२


निवेश्यन्ते स्वदिग्भागेष्वेवं यस्मिन् सुरोत्तमाः।

सम्यक्समृद्धिमासाद्य चिरं नन्दति तत्पुरम् ॥१२३


नगरस्य विदूरेऽपि ककुप्सु निखिलाखपि।

बाह्यतोऽभिमुखा देवाः शस्यन्ते न पराङ्मुखाः ॥१२४


क्रियते यदि भूभागे वंशेन स पराङ्मुखः।

विधिमेनं तदा तस्मिंस्तज्ज्ञः शास्त्रोक्तमाचरेत् ॥१२५


तद्वेषवर्णभूषास्त्रवाहनैरन्वितं सुरम्।

तद्भित्तौ प्रकटाकारं नगराभिमुखं लिखेत् ॥१२६


वैकङ्कतशमीबिल्वैः क्षीरकण्टकिभिर्द्रुमैः।

उदपानाग्न्यगारेषु स्यान्न दोषोऽन्तरस्थितैः ॥१२७


अर्चाश्रितेष्वयं प्रोक्तो विधिर्नालेग्व्यवर्तिषु।

कर्तव्याः सर्वतोवक्त्रास्तस्माच्चित्रगताः सुराः ॥१२८


विधानं यद्यथा प्रोक्तं सुरधाम्नां पुराद्बहिः।

तत्तथाभ्यन्तरेऽपि स्यात्कार्यं स्वस्वदिगाश्रयम् ॥१२९


मध्ये पुरस्य कर्तव्यं गृहमम्भोजजन्मनः।

निवेशनं तथेन्द्र स्य तथैव हलिकृष्णयोः ॥१३०


मातृयक्षगणाधीशान् शिवकान् भूतसङ्घकान्।

विनापि वेश्मभिः कुर्यात्पुरे चत्वरमार्गगान् ॥१३१


राज्ञा वर्णाश्रमकलापण्यशिल्पोपजीविनः।

स्वदिक्पदस्थाः कर्तव्यास्ते देवाश्चेच्छता श्रियम् ॥१३२


प्रासादे सति भक्तीच्छाशक्तियुक्तो यदापरम्।

प्रासादं कारयेत्पूर्वं न तदा पीडयेत् सुधीः ॥१३३


प्रतिवेश्म प्रतिग्रामं प्रतिदेवकुलं तथा।

कुर्यात्प्रतिपुरं चापि न प्राङ्मानगुणाधिकम् ॥१३४


पूर्वप्रासादतो रुद्र सोमयोर्ब्रह्मणोऽथवा।

प्रासादे विहितेऽन्यस्मिन् भवेत् पीडाग्रजन्मनाम् ॥१३५


कृते धाम्न्यधिकेऽन्यस्मिन् वह्नेर्वाचस्पतेरुत।

पुरोधसां भयं विद्याद्ध्रुवं ज्योतिर्विदां तथा ॥१३६


धनाधिपामराधीशयमानां वरुणस्य वा।

अधिकेविहिते धाम्नि भयं विद्यान्महीपतेः ॥१३७


स्कन्दधाम्नोऽधिकेऽन्यस्मिन् विहिते तस्य वेश्मनि।

सेनापतेर्बलानां च पीडा सञ्जायते ध्रुवम् ॥१३८


प्रजापतेरभ्यधिकं हरेर्वान्यत् कृतं गृहम्।

कर्तुः कारयितुश्च स्याद्बन्धाय च विनष्टये ॥१३९


गणेशयक्षफणिनामधिकोऽन्यः कृतो यदि।

प्रासादः स्यात्तदा नित्यं सेनाङ्गानां महद्भयम् ॥१४०


स्त्रीनाम्न्यो देवतास्तासां पीड्यन्ते यदि वेश्मभिः।

मुख्यानां पुरनारीणां तदा कुर्वन्त्युपद्र वम् ॥१४१


पूर्वामरेषु सर्वेषु पीडितेष्वमरालयैः।

अन्यैस्तल्लिङ्गिनां पीडा चैत्यैर्वा चैत्यपीडितैः ॥१४२


हीनाधिकप्रमाणेषु दुर्निविष्टेषु धामसु।

कर्तुः कारयितुः पीडा स्यान्न पूजा तथास्य च ॥१४३


नैवातिसंभृतं कुर्यात्स्वल्पमल्पामरालयम्।

पुरं चानाश्रितं कुर्याद् वेधभागाश्रितं न च ॥१४४


ज्येष्ठमध्यकनिष्ठानि नवषट्त्रिपदान्तरे।

सुरवेश्मानि कुर्वीत दोषायापरथा पुनः ॥१४५


कथितोऽयं विधिः स्वैः स्वैस्त्रिदशानां निवेशने।

बहिर्निवेशनात्स्वेच्छं विदध्यादमरालयम् ॥१४६


नगरेषु समग्रेषु ग्रामेषु निखिलेषु च।

खेटकेषु च सर्वेषु सामान्योऽयं विधिः स्मृतः ॥१४७


इत्युक्त एष नगरोपगतः सुराणां।

स्वस्वप्रभागविहितः पदसन्निवेशः।

ब्रूमो विभागमधुनां गृहदेवतानां।

सम्यक्शुभाशुभफलप्रविभागयुक्तम् ॥१४८


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे पुरनिवेशो दशमोऽध्यायः।