समराङ्गणसूत्रधार अध्याय १७

समराङ्गणसूत्रधार अध्यायसूची

अथ इन्द्र ध्वजनिरूपणं नाम सप्तदशोऽध्यायः।

सुराणामर्थसिद्ध्यर्थं वधाय च सुरद्रुहाम्।

यथा शक्रध्वजोत्थानं प्राह ब्रह्मा तथोच्यते ॥१


भगवन्तमथाम्भोजसंभव वचसांपतिः।

प्रोवाच कथमिन्द्रे ण जेतव्यास्त्रिदशद्विषः ॥२


सोऽब्रवीत्सर्वरत्नानां ध्वजं कुरुत सङ्गताः।

तं चाभिचारिकैर्मन्त्रैरुद्वहन्तोऽभिमन्त्रितम् ॥३


स्थितं चोपरि यन्त्रस्य सम्यक् पक्षिशतान्वितम्।

अग्रतो देवसैन्यस्य नयन्तो जेष्यथ द्विषः ॥४


सहस्रधारमप्येकमन्यं रिपुकुलान्तकम्।

दिव्यरूपमयं प्रादाद्ध्वजमिन्द्रा य दुर्धरम् ॥५


वीर्यप्रवर्धनी चेष्टिरेतदर्थं विधीयते।

कर्मणानेन निःशेषाञ्शक्रः शत्रूञ्जयेदिति ॥६


जयैषी तमथ क्षिप्रमसृजच्चेतसा ध्वजम्।

यन्त्रस्थितं स येनाजावमोहयदरीन् हरिः ॥७


आदित्या वसवो रुद्रा विश्वेदेवास्तथाश्विनौ।

अलञ्चक्रुस्तमालोक्य मरुतश्च विभूषणैः ॥८


तेजो वीर्यं वपुश्चेष्टां बलमप्येष पश्यताम्।

अहरच्छत्रुसैन्यानां तेजस्वी तरसा ध्वजः ॥९


तमभ्यर्च्य सुराधीशः शत्रून् बलवतोऽप्यसौ।

त्रिरात्रेणाजयद्युद्धे कुलिशेन बलाद्बली ॥१०


ततः प्रीतस्तमृक्षेऽसौ वैष्णवे द्वादशे तिथौ।

त्रैलोक्यराज्यं प्राप्याभ्यषिञ्चद्बलनिषूदनः ॥११


स सर्वलोकमभ्यर्च्य सर्वलोकाभिपूजितः।

ध्वजमभ्यर्च्य तुष्टाव वाक्यैर्वृत्रनिषूदनः ॥१२


ततस्तमन्तिके वीक्ष्य ध्वजं प्रोवाच वासवः।

इन्द्र ध्वजाक्षया लोकाः करिष्यन्ति तवार्चनम् ॥१३


वीक्षमाणा निमित्तानि भूमिपालाश्च शास्त्रतः।

ततः प्रभृत्यसौ लोके सर्वलक्षणसंभृतः ॥१४


वरप्रदानादिन्द्र स्य नृपैः शक्रध्वजोऽर्च्यते।

दुर्गमायतनं वह्निशरणं वेदिकाः कृताः ॥१५


विचित्राः स्थालिकापाका भक्षपानानि यानि च।

एतान्यायतनात् प्राक्स्युर्यद्वान्यानि प्रकल्पयेत् ॥१६


विजेतुं यदि वाञ्छास्ति दुर्धर्षान् द्वेषिणो रणे।

तेजो बलं यशश्चाप्तुं तदैन्द्रं कारयेद्ध्वजम् ॥१७


सेनायां वा पुरे वापि प्रतिष्ठाप्य पुरन्दरम्।

विजयार्थं महीपालैरभिप्रशमनाय च ॥१८


यथा शक्रध्वजोत्थानविधानं जगतीभुजः।

करिष्यन्ति तथा सम्यक् कार्त्स्न्येन प्रतिपाद्यते ॥१९


वनादुपाहृतं द्र व्यमथ प्राग्विधिना सुधीः।

पाद्यार्घ्यादिभिरभ्यर्च्य गन्धैर्माल्यैरलङ्कृतम् ॥२०


द्विजान् संपूज्य च शुचौ देशे सम्यक्समाहितः।

पूर्वाग्रमुत्तराग्रं वा प्रयत्नादवतारयेत् ॥२१


प्रागुदग्वा पुरस्याथ स्थपतिः कर्मवानपि।

कारयेत् सर्वयन्त्राणि ध्वजपूर्वाणि शिल्पिभिः ॥२२


श्रेष्ठं द्वात्रिंशता हस्तैर्विंशत्या युतयाष्टभिः।

मानं स्यान्मध्यमं तस्य चतुरन्वितयाधमम् ॥२३


मूलविस्तृतिरायामादङ्गुलार्धं करे करे।

विष्कम्भोऽग्रे च मूलार्धात् तत्त्र्यंशाद्वाखिलेष्वपि ॥२४


ध्वजमूलाष्टमांशोनं विस्तारात्कुष्यमिष्यते।

विस्तारार्धेन च स्थूलं स्थूलत्वत्रिगुणायतम् ॥२५


ध्वजविस्तारबहलं साङ्घ्रिबाहल्यविस्तृतम्।

भ्रमपीठं विधातव्यं सार्धायामं शुभावहम् ॥२६


सम्मितो ध्वजकुष्येण वेधः स्याद्भ्रमपीठगः।

कुष्यकोट्यधिकावृत्तावक्षौ कोटिद्वयायतौ ॥२७


कार्यावङ्घ्री भ्रमस्थूलौ भ्रमविस्तृतिविस्तृतौ।

तद्युक्तिवेधे तावेत द्विस्तृतेर्द्विगुणोच्छ्रितौ ॥२८


ध्वजायतिचतुर्भागात्पीठमत्र प्रकल्पयेत्।

मल्लप्रतिष्ठितं मध्ये प्रान्तयोः स्तम्भधारितम् ॥२९


तत्पीठस्तम्भनीयाभ्यां द्वाराभ्यामन्वितं दृढम्।

याम्योत्तरप्रतिक्षोभं प्राङ्मुखं सुदृढार्गलम् ॥३०


केतुव्यासार्धविस्तारं तद्दैर्घ्याष्टांशकोच्छ्रितम्।

विस्तारसदृशायामं मध्ये स्याद्वज्रिणो गृहम् ॥३१


मल्लश्च पीठिकाङ्घ्री च बाहू स्तम्भविनिर्गतौ।

शक्रमाता कुमार्यश्च ध्वजविस्तृतिविस्तृताः ॥३२


निम्नभागाश्च सर्वेषां स्वविस्तृतिचतुर्गुणाः।

कार्या वा पञ्चगुणिताः सप्त मूलदेशतः ॥३३


कन्यानामुदयः प्रोक्तो यः षष्ठांशस्त्रिसंगुणः।

इन्द्र माता तु सर्वाभ्यः स्यात्तदष्टांशतोऽधिका ॥३४


वेधः स्वविस्तरैः सप्तभागे स्यात् कन्यकोदयात्।

निर्वेधश्चतुरश्रः स्याल्लकटस्य समाहितः ॥३५


निर्वेधावस्य चोर्ध्वाधः सप्तांशान्तरवर्तिनौ।

कार्यौ सूचीव्यधावन्यौ सूचीमानप्रमाणतः ॥३६


कन्याव्यासत्रिभागेन सूची विस्तारतो भवेत्।

पादोनबहला चारुदारुजा दृढसंहिता ॥३७


कुमारीव्याससंयुक्ता द्विगुणा कलटायतिः।

एतद्बाह्यान्तरं ज्ञात्वा यन्त्रं संयोजयेत्ततः ॥३८


तयोरधस्तदर्धेन मृगाल्यौ सूचिविस्तृतौ।

क्षेत्रस्य लेखितं कार्यं सम्बन्धे सूचिकन्ययोः ॥३९


साङ्घ्रिकेतनमूलार्धं लकटे विस्तृतायती।

अक्षाभ्यां योजयेत् सम्यग्दृढं बाह्वक्षवेधयोः ॥४०


पञ्चानामपि तुल्यैव कन्यानां स्यात्प्रकल्पना।

कृत्वानुपूर्व्या यन्त्राणि स्थापयेदखिलान्यपि ॥४१


आश्विने मासि पक्षे च धवले प्रतिपत्तिथौ।

स्थिरोदयैर्ग्रहैः सौम्यैर्वीक्षिते त्वाष्ट्रभेऽपि च ॥४२


पौरजानपदैः सर्ववादित्रध्वनितेन च।

यन्त्राण्युत्क्षिप्य यष्टिं च कर्मस्थानान्नयेज्जलम् ॥४३


चित्रप्रतिसराकीर्णां यष्टिं तत्राज्यलेपिताम्।

चूर्णैः सर्वौषधीभिश्च स्थपतिः स्नापयेत् स्वयम् ॥४४


जलाशयात्समुत्तार्य नॄणां कलकलस्वनैः।

प्रागग्रां स्थापयेद्दारुहस्तिन्योः प्राक्समुन्नताम् ॥४५


अहतेप्सितवासोभिराच्छाद्यार्च्य स्रगादिभिः।

विक्षिप्य च बलिं दिक्षु द्विजातीन् स्वस्ति वाचयेत् ॥४६


त्रिसध्यं पूजितां तत्र सर्वप्रकृतिभिस्ततः।

पञ्चाहं वासयेद्यष्टिं गुप्तां चापधरैर्नरैः ॥४७


तस्मिन्नेवाह्नि यन्त्राणि सर्वाण्यपि च यष्टिवत्।

स्नातान्याच्छादितानीन्द्र स्थानदेशं प्रवेशयेत् ॥४८


सूत्रितेऽथ ध्वजस्थाने यष्टेरष्टांशदैर्घ्यतः।

तदर्धविस्तृते दिक्स्थे समे प्रागायते शुभे ॥४९


विभक्तेऽत्र विभागानामेकाशीत्या ततः क्रमात्।

विन्यस्तास्वथ सर्वासु देवतासु यथातथम् ॥५०


प्राचि मध्ये मैत्रपदे तन्मध्यान्मरुतो दिशि।

मल्लं निम्नप्रमाणेन पादकोणे निवेशयेत् ॥५१


भृङ्गमुख्यपदद्वन्द्वमध्ययोर्वायुकोणयोः।

न्यस्येत्स्तम्भौ तयोः पीठीं मल्ले च विनिवेशयेत् ॥५२


पीठिका निर्गता बाहुयुग्मात्तत्राग्रयोगतः।

स्तम्भिन्यौ रोपयेद्ब्राह्मं पृथक्पदयुगं श्रिते ॥५३


प्रतिक्षोभाविह द्वौ द्वौ बाहुद्वितयमाश्रितौ।

बाह्यतः प्रान्तपदयोर्मैत्रयोर्विनिवेशयेत् ॥५४


प्राच्यां मल्लाग्रतो ज्ञात्वा शक्रस्योर्ध्वगतिं क्रमात्।

योजयेद्भ्रमणोपेतौ भ्रमपादावभङ्गुरौ ॥५५


मल्लात्पश्चिमदिग्भागे वरुणस्याश्रितां पदम्।

भद्रां निवेशयेन्निम्नमानतः शक्रमातरम् ॥५६


स्युः पर्जन्यान्तरिक्षद्वार्यक्ष्मणां पदमाश्रिताः।

क्रमान्नन्दोपनन्दाख्यजयाख्यविजयाभिधाः ॥५७


विन्यस्तास्वथ सर्वासु कुमारीषु विभागशः।

त्रयस्त्रयः प्रतिक्षोभा योज्या दार्ढ्याय बाह्यतः ॥५८


निक्षिपन्नखिलं द्र व्यं भावयेत् पददेवताः।

प्राप्नोति तत्तदाख्यां तद्द्रव्यं पूजां च तद्गताम् ॥५९


पीठीपृष्ठसमं कन्यापार्श्वयोरुभयोरपि।

कुर्यादनुसरद्वन्द्वं कीलकैर्बद्धमायसैः ॥६०


संश्रित्यानुसरद्वन्द्वं पीठीं चोपरि सङ्ग्रहात्।

बध्नीयात्कीलकैर्लौहैर्यन्त्रनिश्चलताकृते ॥६१


यन्त्रकर्मणि निर्वृत्त इति शास्त्रविधानतः।

प्रवेशयीत स्वस्थाने त्रिदशाधिपमैन्द्र भे ॥६२


स्नातस्य विधिवद्वस्त्रच्छन्नस्यालेपितस्य च।

श्रीखण्डाद्यैः सुरभिभिः कुसुमैरर्चितस्य च ॥६३


रौहिणादिमुहूर्तेषु त्रिषु मैत्रेऽथ वज्रिणः।

प्रवेशमभिनन्दन्ति करणेष्वर्चितेषु च ॥६४


स्थपतिर्वा पुरोधा वा शुचिः स्नातः समाहितः।

गन्धमाल्यार्चितान् विप्रांस्तर्पयेद्दक्षिणादिभिः ॥६५


ततो मङ्गलघोषेण वादित्रनिनदेन च।

पुण्याहजयशब्दैस्तमुत्क्षिपेयुः समाहिताः ॥६६


अलङ्कारभृतः पौराः प्रहृष्टमनसोऽखिलाः।

नीरुजो बलिनः शक्ताः प्रकृत्यभिमताश्च ये ॥६७


स्तुवीरन् पुण्यमनसः स्तुतिभिः सूतमागधाः।

वन्देरन्वन्दिनश्चैनं सेवेरन् गणिका अपि ॥६८


प्रविशन्तं निजं स्थानमनुगच्छेन्नराधिपः।

सुराधिपं बलामात्यपौरजानपदान्वितः ॥६९


प्रोद्यत्कलकलारावसुस्वराः पुरुषा यदि।

उत्क्षिपेयुः प्रहृष्टा वा वहेयुर्वा सुराधिपम् ॥७०


तदा भवति भूपालो जयी नन्दन्ति च प्रजाः।

राष्ट्रे सुखं पुरे हर्षो भवेन्नश्यन्ति चेतयः ॥७१


मुञ्चत्युत्थापितः कृच्छ्राद्यदि शय्यां स गौरवात्।

तदा नृपतिरभ्येति महतीं विमनस्कताम् ॥७२


स्खलन्तो दुःखिता दीना निःश्वसन्तः पदे पदे।

वैचित्त्यभाजो गच्छेयुर्देशहानिस्तदा ध्रुवम् ॥७३


भूमौ यदैकदेशेन ह्रसितः पतति ध्वजः।

न सुभिक्षं न च क्षेमो न राज्ञो विजयस्तदा ॥७४


दीर्णे भग्नेऽथ पतिते कृत्स्ने चास्मिन् समुद्धृते।

स्यान्नृपस्यावनिच्छेदः सुतध्वंसोऽथवा मृतिः ॥७५


वस्त्रालङ्कृतिमाल्यानां हरणात् पतनादुत।

तादृशद्र व्यविध्वंसः पौराणां भवति ध्रुवम् ॥७६


पुरं भवति निःशब्दं निष्प्रभं वा प्रवेशने।

समुच्छ्रये वा शक्रस्य तदा तन्नाशमृच्छति ॥७७


शक्रं स्वस्थानमानीतं शीघ्रं सुखमविघ्नतः।

प्राग्वत्प्रदक्षिणं न्यस्येत्प्रागग्रं शयने निजे ॥७८


कुर्यात्तत्रैव नक्षत्रे शय्यास्थस्यामरेशितुः।

भ्रमे कुष्ये च संयोगं यथाभागविकल्पितम् ॥७९


कुष्ये संयोज्यमानश्चेद्ध्वजो निपतति क्षितौ।

तदा नरपतेः स्थानभ्रंशो भवति निश्चितः ॥८०


कुष्ययोगे यदा शक्रो वामतः परिवर्तते।

तदा स्यात्स्थपतेर्मृत्युर्भवेद्भङ्गश्च दक्षिणे ॥८१


स्ववेधं प्रतिपद्येत तद्यष्टिर्यदि कृच्छ्रतः।

प्रमादिनस्तदा राज्ञो जायते व्यसनं महत् ॥८२


निष्कुष्य योजितः शक्रध्वजो विघटते यदि।

विश्लिष्यति तदा सन्धिः सामन्तैः सह भूपतेः ॥८३


स्फुटेद्भज्येत वा कुष्ये योज्यमानोऽथ सर्वतः।

तदा भङ्गे नृपव्याधिः स्फुटनादङ्गनावधः ॥८४


अविदीर्णमपर्यस्तमव्यङ्गमविलम्बितम्।

यथावन्न्यासमायाति योगं चेद्वासवध्वजः ॥८५


धनभृत्याङ्गनापत्यैः सामन्तैश्चान्वितोऽनुगैः।

निरातङ्को बलाङ्गश्च वृद्धिमेति तदा नृपः ॥८६


यत्नतो रक्ष्यमाणस्य शय्यास्थस्यैव वज्रिणः।

तस्याङ्गान्यखिलान्येव कुटन्यादीनि योजयेत् ॥८७


ऐन्द्रं बलाकं यक्षेशं सर्पमादं दिगाह्वयम्।

मयूरं चेन्द्र शीर्षं च पिटकाष्टकमित्यदः ॥८८


स्वप्रमाणेन कर्तव्यं स्पष्टरूपसमन्वितम्।

तदाख्याश्चान्तरेष्वेषां सन्धयो वस्त्रनिर्मिताः ॥८९


मूलादन्वग्रमायातैः स्ववंशैर्विदलैर्दृढैः।

गुणैश्च वेष्टयेदेनं घनैरशिथिलैर्ध्वजम् ॥९०


साङ्घ्रिणा ध्वजनाहेन सत्र्यंशेनाथ विस्तृतिः।

विधेया शक्रपिटकस्योच्छ्रयस्तु तदर्धतः ॥९१


अस्मिन्नष्टौ दिशः कृत्वा वंशव्यवहिते ततः।

न्यस्येद्दिगीशांश्चतुरस्तस्योपरि यथादिशम् ॥९२


पञ्चमांशगते कुष्याद्वज्रिणः पिटके कृते।

शेषाण्यप्यष्टभागोनान्यस्मिन्न्यस्येद्यथाक्रमम् ॥९३


बलाकादीनि विस्तृत्या चरणोनानि चोच्छ्रितौ।

स्ववर्णवन्ति वृत्तानि रामणीयकवन्ति च ॥९४


भङ्गपातविपर्या ससिद्धयः पिटकोद्भवाः।

पीडार्त्तिमृत्यवेऽत्यर्थमेकैकस्य प्रकीर्तिताः ॥९५


शुद्धान्तामात्यचित्तानां बलस्य यशसोऽपि च।

वसुमत्याश्च धाम्नां च नृपते राष्ट्रस्य च ॥९६


केतुषड्भागविस्तारा रज्जवोऽष्टौ सुवर्तिताः।

विधेयाः स्युर्ध्वजायामत्रिगुणायतयो दृढाः ॥९७


छादितं छदिभिः पूर्वं कुट्टनीसहितं शुभम्।

यत्नेनासन्नदिवसे विदध्यादमरध्वजम् ॥९८


अर्केन्दुग्रहताराङ्कं वेणुगुल्मेन्द्र शीर्षकम्।

साष्टकण्ठगुणं दण्डसूत्रादर्शान्वितं शुभम् ॥९९


ससस्यफलपुष्पाढ्यं शुभवस्त्रमलङ्कृतम्।

दृढमन्वितमष्टाभिः सन्तताभिश्च रज्जुभिः ॥१००


ध्वजपट्टं विदध्याच्च चित्रं सुरचितं तथा।

निमित्तार्थं च लोकानां शोभाहेतोर्ध्वजस्य च ॥१०१


सपत्तनपुरारामगन्धर्वत्रिदशासुरम्।

निखिलं जगदालेख्यमस्मिन्नद्रि द्रुमाकुलम् ॥१०२


ध्वजाग्रे रश्मिभिर्नद्धं सुविन्यस्तं च भूतले।

विन्यसेत्तमसम्मूढमधोभागसमाश्रितम् ॥१०३


प्रमोदगीतवादित्रनटनर्तकसंयुतः।

तदग्रे जागरः कार्यः समस्तामेव तां निशाम् ॥१०४


पुरोहितस्ततो भास्वत्युदिते प्रयतेन्द्रि यः।

अग्नेः परिग्रहं कुर्यान्मूलस्य प्रागुदग्दिशि ॥१०५


कृत्वोपलेपनं तस्मिन्नुल्लेखाभ्युक्षनैस्ततः।

संस्कृत्यास्तीर्य दर्भांश्च ज्वालयेत्तत्र पावकम् ॥१०६


तत्राज्यपात्राण्याज्यं च गन्धांश्च कुसुमानि च।

द्र व्याणि वाचनीयानि समिधश्च पलाशजाः ॥१०७


सौवर्णौ स्रक्स्रुवाविन्द्र भक्तं च बलयोऽपि च।

इत्येतत्सर्वमाहृत्य जुहुयात् पावकं ततः ॥१०८


पुत्रदारपशुद्र व्यसैन्ययुक्तस्य भूपतेः।

विजयावाप्तिजनकैर्मन्त्रैः शान्तिविधायिभिः ॥१०९


सुस्वनःसुमहार्चिश्च स्निग्धश्चेद्धोऽपि च स्वयम्।

कान्तिमान् सुरभिर्जिघ्नन् होतारं शस्यतेऽनलः ॥११०


तप्तकाञ्चनसच्छायो लाक्षाभः किंशुकच्छविः।

प्रवालविद्रुमाशोकसुरगोपसमद्युतिः ॥१११


ध्वजाङ्कुशगृहच्छत्रयूपप्राकारतोरणैः।

सदृशार्चिः प्रशस्तोऽग्निर्माङ्गल्यैरपरैस्तथा ॥११२


स्निग्धः प्रदक्षिणशिखो विधूमो विपुलोऽनलः।

सुभिक्षक्षेमदः प्रोक्तो दीप्यमानश्चिरं तथा ॥११३


धूम्रो विवर्णः परुषः पीतो वा नीलकोऽथवा।

विच्छिन्नो भैरवरवो वामावर्त्तशिखोऽल्पकः ॥११४


मन्दार्चिर्द्युतिमुक्तोऽसृग्वसागन्धः स्फुलिङ्गवान्।

धूमावृतः सफेनश्च हुतभुग्न जयावहः ॥११५


दर्भाणां संस्तरं वह्निर्होमाङ्गान्यपराणि वा।

हूयमानो दहति चेद्धानिस्तदभिनिर्दिशेत् ॥११६


होमे वोत्सर्पयेत्पीठं दह्यमानो यदाग्निना।

भूम्येकदेशनाशः स्याल्लाभः स्यादुपकर्षणात् ॥११७


सर्वतो वाप्यगाधो यः स वर्धयति पार्थिवान्।

यां दिशं यान्ति च ज्वालास्तस्यां विजयमादिशेत् ॥११८


दुर्वर्णाशुचि दुर्गन्धि मक्षिकाखुविडम्बितम्।

आज्यं राज्यच्छिदे प्राहुर्हूयते यच्च भस्मनि ॥११९


हीनाधिकप्रमाणाश्च विदीर्णा घुणभक्षिताः।

वातरुग्णद्रुमोत्थाश्च समिधोऽर्थक्षयावहाः ॥१२०


सगर्भाश्च सपुष्पाश्च विच्छिन्नाग्रास्तृणान्विताः।

कुर्वन्त्युपद्र वं दर्भा दुष्प्रलूनाश्च ये तथा ॥१२१


दुष्टानि पांसुकीर्णानि कीटजर्जरितानि च।

बीजानि बीजनाशाय स्युरपुष्टानि यानि च ॥१२२


माल्यं विगन्धि प्रम्लानं न पीतं न सितं च यत्।

कीटैः खण्डितपीतं च न जयाय न वृद्धये ॥१२३


विस्रावीण्युद्धतान्युग्रखण्डितस्फुटितानि च।

दुर्भिक्षरोगकारीणि प्राहुः पात्राणि सर्पिषः ॥१२४


अशुचौ पतिते च स्यान्मक्षिकाकीटदूषिते।

बलौ च शक्रभक्ते च क्षुन्मारः केशभाजि च ॥१२५


यथोदितान्यरूपाणि सर्पिरादीन्यनुक्रमात्।

भवन्ति राष्ट्रपुरयोर्भयाय निखिलान्यपि ॥१२६


वितीर्य गन्धमाल्यादीन् देवताभ्यो यथादिशम्।

पुरोधाः स्थपतिर्वाथ प्रीतचित्तः क्षिपेद्बलिम् ॥१२७


ध्वजनैरृतदिग्भागे द्विजमुख्यानुपस्थितान्।

शीलवृत्तयुतान् भूरिगन्धमाल्यैः स्वलङ्कृतान् ॥१२८


वृद्धान् षट्कर्मनिरतान् सुहृदो वेदपारगान्।

मनःप्रियान् पूर्णगात्रान् समर्थान् सर्वतः शुचीन् ॥१२९


शुक्लाम्बरान्दर्शनीयान् गौरप्रायान् बलान्वितान्।

अमुण्डाजटिलाक्लीबादीक्षितान् व्याधिताकृशान् ॥१३०


यथेष्टं दक्षिणाभिस्तान् संयोज्याष्टशतेन वा।

साक्षतैः प्रीतमनसः कुसुमैः स्वस्ति वाचयेत् ॥१३१


शक्रं ते चाष्टभिः कुम्भैः सुदृढैर्वारिपूरितैः।

स्वर्चितैरभिषिञ्चेयुर्मूले चाकृष्टमण्डलैः ॥१३२


स्तुतैर्वैजयिकैर्मन्त्रैः स्तुतिभिश्च द्विजोत्तमैः।

राज्यमाघोषयेदेतैरात्मना च महीपतिः ॥१३३


कुर्वीत सर्वबन्धानां मोक्षं हिंसां समुत्सृजेत्।

दोषान् जनपदस्यापि दशाहं विषहेत वै ॥१३४


सुवासा भूषितः स्नातः सदाचारप्रयत्नवान्।

ध्वजोच्छ्रायं शुचिर्भूपः सबलः प्रतिपालयेत् ॥१३५


सोपवासः शुचिः स्नातः प्रयतो विजितेन्द्रि यः।

कृताञ्जलिपुटश्चेमं मन्त्रं स्थपतिरुच्चरेत् ॥१३६


ॐ नमो भगवति वागुले सर्वविटप्रमर्दनि स्वाहा।

सुरासुराणां सङ्ग्रामे प्रवृत्ते त्वं यथोत्थितः।

तथा नृपस्य देवेन्द्र जयायोत्तिष्ठ पूजितः ॥१३७


स्तुत्वेति स्थपतिस्तस्य कृत्वा चानुप्रदक्षिणम्।

कारयेद्देवराजस्य ध्वजदण्डसमुच्छ्रयम् ॥१३८


स्वलङ्कृतैः सितस्वच्छमाल्याम्बरविलेपनैः।

पौरैर्जानपदैस्तद्वत् प्रयतैः परिचारकैः ॥१३९


सालिङ्गझल्लरीशङ्खनन्दिडिण्डिमगोमुखैः।

हृष्टैरन्यैश्च वादित्रैर्वाद्यमानैर्महास्वनैः ॥१४०


गायद्भिश्च नटद्भिश्च गायनैर्नटनर्तकैः।

हृष्टोत्कृष्टोद्गतध्वानैर्गजस्यन्दनवाजिभिः ॥१४१


तैश्च वादित्रनिनदैस्तैश्च पुण्याहनिस्वनैः।

दृढरज्जुभिराकृष्टं श्रवणे ध्वजमुच्छयेत् ॥१४२


यत्नेनोत्थाप्यमानस्य तस्योच्छ्रायगतस्य च।

नृपक्षिवाहनादीनां निमित्तान्यवलोकयत् ॥१४३


कुटनीनिहिताभोगं पताकादर्पणोज्ज्वलम्।

चित्रपट्टस्फुटाटोपमर्केन्दुगुणभूषणम् ॥१४४


अस्रस्तमाल्यालङ्कारमशीर्णच्छत्रमस्तकम्।

अकम्पितमदीर्णाङ्गमदिग्भ्रष्टं सुरेश्वरम् ॥१४५


सममूर्ध्वसमश्लिष्टमनवक्षतमद्रुतम्।

अविलम्बितविभ्रान्तमृजुमार्गसमुद्गतम् ॥१४६


इत्थं शक्रवजोत्थानं कृं राज्ञो जयावहम्।

पौरजानपदानां च क्षेमारोग्यसुभिक्षकृत् ॥१४७


यदा शक्रध्वजः प्राचीमुच्छ्रितः प्रतिपद्यते।

तदामन्त्रिगणक्षत्रनृपप्राग्वासिवृद्धिदः ॥१४८


आग्नेयीं ककुभं याते वर्धन्ते वह्निजीविनः।

प्रारब्धकार्यनिष्पत्तिरयत्नाच्चोपजायते ॥१४९


दक्षिणां दिशमायाते केतने नमुचिद्विषः ।

तदा स्युर्वैश्यलोकस्य पूजाधान्यधनर्द्धयः ॥१५०


सर्वाशासंपदः श्रेष्ठा जायन्ते नैरृताश्रिते।

न स्याद्गर्भो वृथा तद्वद्वधबन्धभयं न च ॥१५१


श्रिते प्राचेतसीमाशामस्मिञ्शूद्र जयो भवेत्।

क्षुत्तृष्णाग्निभयं न स्याद्वृष्टिरिष्टा च जायते ॥१५२


द्रुमसस्यफलर्द्धिः स्यात्केतौ वायोः श्रिते दिशम्।

चतुष्पदविवृद्धिश्च रोगोच्छित्तिश्च जायते ॥१५३


चतुर्णामपि वर्णानां सम्पत्स्यात्सौम्यदिग्गते।

विशेषात्सा द्विजेन्द्रा णां तथा सिध्यन्ति चाध्वराः ॥१५४


ऐशीमाशां श्रिते धर्मपरो भवति पार्थिवः।

वृद्धिर्जनपदस्य स्यात्तथा पाषण्डिनामपि ॥१५५


यदि किञ्चिद्व्रजेत्पूर्वं रज्ज्वाकृष्टः शतक्रतुः।

विजिगीषोर्नरेन्द्र स्य तदा यात्रा प्रसिध्यति ॥१५६


प्रतिष्ठां लभते भूमौ भ्रमं भित्त्वा यदि ध्वजः।

सशैलकाननामुर्वीं तदा जयति पार्थिवः ॥१५७


दिक्सर्पणे फलं प्रोक्तमित्यव्यङ्गस्य वज्रिणः।

विपरीतं तदेवोक्तं व्यङ्गस्य निखिलं पुनः ॥१५८


यदि स्वलङ्कृतः पूर्वं योज्यमानः शतक्रतुः।

उत्क्षिप्तो रज्जुयन्त्रेण स्तोकमर्धे स्थितोऽपि वा ॥१५९


शय्यायां यदि वा भूमावुत्सङ्गे वा पतत्यसौ।

तदा नृपं राजदारान् कुमारं वा विनाशयेत् ॥१६०


उत्थितोऽर्धोत्थितो वापि यदि क्षुभ्यति कम्पते।

स्थानान्तरं व्रजेद्वापि सञ्चरेद्वा कथञ्चन ॥१६१


विगृह्यते तदा भूपो भ्रश्यति स्थानतोऽपि वा।

भयाज्जनपदो वास्य चलत्येव न संशयः ॥१६२


आकृष्टासु यदाष्टासु च्छिद्यते कापि रज्जुषु।

अमात्यमरणं तत्स्यादेकैकांशेन निश्चितम् ॥१६३


मूलमध्याग्रभागे वा प्रोच्छ्रितो यदि भज्यते।

पौरसेनापतिनृपान् क्रमशो हन्त्यसौ तदा ॥१६४


छत्रार्कवेणुगुल्मेन्द्र शीर्षकण्ठगुणा यदि।

पतन्ति भूमाविन्द्रो वा तदा हन्ति महीपतिम् ॥१६५


नृपो वधमवाप्नोति तैर्भग्नैः पततैर्धुतैः।

अभग्नैर्विधुतैरेतैः क्षयं व्रजति साधनम् ॥१६६


क्रमशो हन्युरादर्शवैजयन्तीन्दुतारकाः।

पतन्त्यो दृक्चमूनाथपुरोधःस्त्रीर्महीपतेः ॥१६७


माल्यैर्विभूषणैर्यानैः शस्त्रवस्त्रफलाशनैः।

यान्ति केतुच्युतैरेतै राज्ञस्तान्येव संक्षयम् ॥१६८


शीर्यते शक्रपिटकं कूटेभ्यः शक्रवेश्म वा।

यस्यां ककुभि तत्राहुर्हानिं पूर्वे विपश्चितः ॥१६९


भङ्गे मृगालीलकटाक्षार्गलानामनुक्रमात्।

पीडा सञ्जायते वेश्यानृपतिश्रेष्ठिरक्षिणाम् ॥१७०


भग्ना भ्रमाक्षपादैर्वा मल्लमातृकुमारिकाः।

राष्ट्रं हन्युर्नरेन्द्र स्य प्रियामातृसुतान् क्रमात् ॥१७१


निर्घातोऽशनिरुल्का वा ध्वजे यदि पतेत् तदा।

अनावृष्टिभयं राज्ञः पराजयमथादिशेत् ॥१७२


कुर्वन्ति मक्षिकाः शक्रे मधुच्छत्रं समुच्छ्रिते।

यस्मिंस्तत्र द्विषद्रो धं षण्मासाच्चादिशेत्पुरे ॥१७३


मक्षिका वा खगा वा चेद्भ्रमेयुः पार्श्वतो हरेः।

प्रदक्षिणा बहिष्थानमासाद्याहुस्तदा मृतिम् ॥१७४


गृध्रश्येनकपोताश्चेल्लीयन्ते शक्रमूर्धनि।

तदा कुर्वन्ति दुर्भिक्षविग्रहक्षितिपक्षयान् ॥१७५


यदि केतौ निलीयन्ते कुररोलूकवायसाः।

राज्ञः क्रमात्तदा हन्युर्मन्त्रिपुत्रपुरोधसः ॥१७६


मयूरो यदि वा हंसः समाश्रयति वासवम्।

समस्तलक्षणोपेतस्तदा स्यान्नृपतेः सुतः ॥१७७


चक्री बलाका हंसी वा यदि केतौ निलीयते।

तदा नरपतिर्भार्यामवाप्नोत्यतिसुन्दरीम् ॥१७८


खगैः सुवृष्ठिर्जलजैः सुभिक्षं स्यात्फलाशिभिः।

विष्ठाशिभिश्च दुर्भिक्षं भीतिः स्यात्पिशिताशिभिः ॥१७९


यदि चित्रपटन्यस्ताः सुरयक्षोरगोत्तमाः।

विचित्राकृतिभिर्युक्ता वाहनायुधभूषणैः ॥१८०


अष्टौ च ककुभो मूर्ताः प्रनृत्ताश्चाप्सरोगणाः।

सग्रहास्तारका मेघाः स्फीता नद्यस्तथाब्धयः ॥१८१


वाप्यः पङ्केरुहच्छन्ना हंसवन्ति सरांसि च।

फलपुष्पावतंसानि वनान्युपवनानि च ॥१८२


देवतायतनान्याद्यगोपुराणि पुराणि च।

भवनान्यतिशुभ्राणि शयनासनवन्ति च ॥१८३


प्रहृष्टाः पार्थिवा भृत्या बलवाहनशालिनः।

पौरा जानपदा लोकाः क्रीडाभाजः कुमारकाः ॥१८४


चत्वारो मुदिता वर्णा नटनर्तकशिल्पिनः।

सगोव्रजलतागुल्मद्रुमौषधिभृतो नगाः ॥१८५


मृगपक्षिगणाः शस्ता मङ्गलान्यखिलानि च।

विचित्रापानवसुधाः फलभक्षाश्च पक्षिणः ॥१८६


यथानिवेशं शोभन्ते तदा देशे पुरेऽपि च।

क्षेमारोग्यसुभिक्षाणि जयं राज्ञश्च निर्दिशेत् ॥१८७


एतेषां कुट्टने पाते छेदे नाशेऽथवा हृतौ।

प्लोषे वाप्यशुभं वाच्यं यथायोनि यथादिशम् ॥१८८


स्थिते वा पतिते वापि चित्रपट्टे भुवस्तले।

उपप्लवो नरेन्द्र स्य भवेज्जनपदस्य च ॥१८९


राजते यद्यलङ्कारः सकलो यावदुत्सवम्।

अनस्तोऽविप्लुतश्चोर्वीं तदा कृत्स्नां जयेन्नृपः ॥१९०


नटनर्तकसङ्घेषु प्रनृत्यत्सु पठत्सु च।

शुभे शुभं समादेश्यमितरस्मिन्नशोभनम् ॥१९१


ये वर्गाः सम्प्रहृष्यन्ति मङ्गल्या गजवाजिनः।

सुवेषचेष्टालङ्काराः शुभं तेष्वादिशेद्ध्रुवम् ॥१९२


अमङ्गलैषिणो ये स्युर्विकृता दीनचेतसः।

पुरुषा योषितो वापि निर्दिशेत् तेषु वैशसम् ॥१९३


प्रभिन्नकरटा नागा बृहन्तस्तोयदा इव।

अदीनाश्च स्वतन्त्राश्च नृपतेर्विजयावहाः ॥१९४


आलिखन्तः खुरैः क्षोणीं दक्षिणैर्हृष्टचेतसः।

हेषमाणा हयाश्चापि शंसन्ति नृपतेर्जयम् ॥१९५


सतडिद्गर्जिताम्भोदा वृष्टिश्चेज्जायते तदा।

महीपतेर्जयं विद्यात्सुभिक्षं क्षेममेव च ॥१९६


अथार्धरात्रे सम्प्राप्ते रोहिण्यां दशमेऽहनि।

शक्रस्य पातमिच्छन्ति मुनयः प्रतिवत्सरम् ॥१९७


ततः समाजे निर्वृत्ते शक्रकेतौ प्रतिष्ठिते।

गन्धतोयैश्च पुष्पैश्च विदधीताम्बुसेवनम् ॥१९८


अमेध्यैर्वस्त्रखण्डैर्वा भस्मकेशास्थिकर्दमैः।

यदा क्रीडन्ति मनुजा दुर्भिक्षं जायते तदा ॥१९९


विप्राः प्राच्यां विलम्बेयुः पतन्तं वासवध्वजम्।

सुभिक्षं क्षेममारोग्यमन्यथा स्याद्विपर्ययः ॥२००


अष्टाङ्गोक्तो ध्वजाङ्गे यो विशेषः सोऽथ कथ्यते।

पुरे ब्रह्मपुरात् प्राच्यामिन्द्र स्थानं विधीयते ॥२०१


मात्राशयेन हस्तेन प्रमाणं तस्य कीर्तितम्।

चतुःषष्टिसमायामं चतुरश्रं समन्ततः ॥२०२


एकाशीतिपदेनैव भजेत्क्षेत्रं विभागतः।

क्षेत्रस्यार्धेन कुर्वीत ध्वजायामं प्रमाणतः ॥२०३


ततो वृद्धिर्विधातव्या हस्ते हस्तेऽङ्गुलं बुधैः।

अर्धाङ्गुलं वा वृद्धिः स्याद्ध्वजस्येन्द्र स्य कुत्रचित् ॥२०४


तावद्वृद्धिर्विधातव्या यावत्क्षेत्रसमोऽङ्गुलैः।

ततः प्रमाणमाद्यं यत्तत्पुनर्विनियोजयेत् ॥२०५


प्रमाणमङ्गुलैः केतोः स्याच्चत्वारिंशता मितम्।

तस्य संवत्सरे वृद्धिः कर्तव्या द्व्यङ्गुलैर्बुधैः ॥२०६


ब्रह्मस्थाने च कुर्वीत ब्रह्मावर्त्तं विचक्षणः।

ब्रह्मणोऽनन्तरं प्राच्यां भवेद्दैवतमर्यमा ॥२०७


तत्र यन्त्रस्य पादौ स्तः समुच्छ्रायेण षट्पदौ।

तस्यैव पश्चिमे भागे मित्रो भवति देवता ॥२०८


ततः प्रभृति यन्त्रस्य वामवेधो नतो भवेत्।

पूर्वापरं च निम्नं स्यादेष यन्त्रविधिः स्मृतः ॥२०९


यन्त्रस्य पश्चिमे भागे वरुणो दैवतं भवेत्।

वरुणस्य पदान्ते च वंशस्थे द्वे कुमारिके ॥२१०


खानिले चतुरो हस्तान् दशहस्तोच्छ्रिते च ते।

रुद्र स्थाने च कर्तव्या कुमारी सुप्रतिष्ठिता ॥२११


सोमयोगे चतुर्थी स्यादापभागे च पञ्चमी।

षष्ठी च सवितुर्भागे यमभागे च सप्तमी ॥२१२


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे इन्द्र ध्वजनिरूपणं नाम सप्तदशोऽध्यायः।