प्रमुखा विकल्पसूचिः उद्घाट्यताम्

समराङ्गणसूत्रधार अध्यायसूची

अथ चतुःशालविधानं नामैकोनविंशोऽध्यायः।

ब्रूमो नृपचमूनाथवर्णिनां भवनान्यथ।

प्रशस्तान्यप्रशस्तानि कृत्स्नान्यपि यथाक्रमम् ॥१


वेश्मनामेकशालानां शतमष्टाधिकं स्मृतम्।

द्वापञ्चाशद्द्विशालानां त्रिशालानां द्विसप्ततिः ॥२


चतुःशालानि वेश्मानि यानि तेषां शतद्वयम्।

पञ्चाशच्चाधिका षड्भिर्विज्ञातव्या मनीषिभिः ॥३


सहस्रं पञ्चशालानां स्यात्तथा पञ्चविंशतिः।

षट्शालानां षण्णवतिः स्यात्सहस्रचतुष्टयम् ॥४


अष्टाङ्गे त्वेकशालस्य भेदाः पञ्चाशदीरिताः।

द्विशालानां तु सर्वेषां प्रभेदाः शतपञ्चकम् ॥५


शतं शतं च प्रत्येकं त्रिशालानामुदाहृतम्।

द्विचत्वारिंशदधिकं चतुःशालशताष्टकम् ॥६


द्विनवत्युत्तराण्येवं शतानि दश सप्त च।

षोडशैव सहस्राणि षोडशोना चतुःशती ॥७


वेश्मानि सप्तशालानि भवन्ति परिसङ्ख्यया।

पञ्चषष्टिसहस्राणि तथा पञ्चशतानि च ॥८


गृहाणामष्टशालानां षट्त्रिंशदपरा भवेत्।

लक्षद्वयं सहस्राणि द्विषष्टिः शतमेव च ॥९


गृहाणां नवशालानां चत्वारिंशच्चतुर्युता।

दशलक्षसहस्राणि चत्वारिंशत्तथाष्ट च ॥१०


शतानि दशशालानां पञ्च षट्सप्ततिस्तथा।

गृहद्वितययोगेन संयुक्ताख्यानि विंशतिः ॥११


गृहद्वितययोगेन द्वात्रिंशदिह वेश्मनाम्।

दशपञ्च तथान्यानि भवन्ति हलकान्यपि ॥१२


गृहमालाथ सङ्घट्टो गृहनाभिर्गृहाङ्गणम्।

उद्भिन्नं भिन्नकक्षं च निलीनं प्रतिपादितम् ॥१३


अन्यानि चाष्टभेदानि भवन्त्युत्तमवर्णिनाम्।

लक्षणं नाम संस्थानं चैतेषां प्रतिपाद्यते ॥१४


वर्णिनां स्याच्चतुःशालं मितं द्वात्रिंशता करैः।

सेनापतेश्चतुःषष्टिस्तद्वदेव पुरोधसः ॥१५


श्रेष्ठमष्टशतं राज्ञामेतानि तु यथाक्रमम्।

चतुःषडष्टहान्या स्युः पञ्चमं च पृथक्पृथक् ॥१६


विशोधयेत्कनीयोभिर्मध्यमानि यथाक्रमम्।

नरेन्द्र पुरुषाणां स्युर्वेश्मान्येतानि वृद्धये ॥१७


गृहाणि शोधयेत्प्राग्वज्ज्यायांस्यपि च मध्यमैः।

भवन्त्येतानि भूपानां रतिकोशप्रतिश्रयाः ॥१८


दशांशयुक्तो विस्तारादायामो विप्रवेश्मनाम्।

अष्टषट्चतुरंशाढ्यः क्षत्रादित्रयवेश्मनाम् ॥१९


यो विस्तारः स एव स्यादायामोऽस्मिन् यथाक्रमम्।

विट्शूद्र योः स्यादाधिक्यं मध्ये ज्येष्टे च सद्मनि ॥२०


कर्णसूत्राद्बहिः स्तम्भान्न्यसेत् सर्वान्प्रयत्नतः।

धाम्नां षोडशहस्तानां पञ्चानां चतुरुत्तरा ॥२१


वृद्धिः शालास्तु तेषां स्युश्चतुरंशेन विस्तृताः।

शालाव्यासार्धतोऽलिन्दः सर्वेषामपि वेश्मनाम् ॥२२


तस्याः षोडशहस्ते स्यात् पञ्चमांशद्वयेन वा।

सप्तमांशत्रयेण स्याद्द्वयोरपरवेश्मनोः ॥२३


अन्त्ययोर्हस्तयोः स स्याच्चतुर्भिर्नवमांशकैः।

पञ्चभिः षड्भिरेभिश्च सार्धैः साङ्घ्रिनगैः करैः ॥२४


दैर्घ्यं स्याद्दशभिः सार्धैः शालायाः षोडशादिषु।

निवेशदशमांशो यः स युतः सप्तभिः करैः ॥२५


शालाया विस्तरः प्रोक्तः श्रेष्ठानामिह वेश्मनाम्।

अलिन्दमानं प्रागेव प्रोक्तं निखिलवेश्मनाम् ॥२६


यच्छालालिन्दयोः शेषं भवेद्गर्भगृहं हि तत्।

मूषावच्छिन्नमिच्छन्ति शालादैर्ध्यं विपश्चितः ॥२७


शालाव्यासप्रमाणा स्यात्सर्वेषामवकोसिमा।

दिशासु भवने शाला विदिशाकर्णसामयः ॥२८


कर्णशाला तु या प्रोक्ता सा च ज्ञेयावकोसिमा।

अलिन्दशालयोर्मध्ये या स्यान्मूषेति सा स्मृता ॥२९


पूर्वद्वारं नियम्यादावादिमूषा तदुत्तरा।

मूषा भद्रा इति प्राहुस्तत्संख्यामवधारयेत् ॥३०


यावन्मूषं भवेद्वेश्म तावद्भद्रं तदुच्यते।

भद्रा भद्रे शक्रदिक्स्थे सौम्यासौम्ये यमाश्रिते ॥३१


शान्ताशान्ते प्रतीचीस्थे सौम्यदिक्स्थे शिवाशिवे।

अलिन्दा इति केऽप्याहुर्मूषा इत्यपरे विदुः ॥३२


भद्रा इति जगुः केचिदन्ये परिसरा इति।

एकद्वित्रिचतुःपञ्चषट्सप्ताष्टक्रमेण याः ॥३३


मूषास्तासां प्रवहणासंज्ञाः स्युर्वेश्मनामिह।

तासामाद्याः प्रशस्ताः स्युरप्रशस्तास्ततः पराः ॥३४


नामतो गुणतश्चैव शुभाशुभफलोदयात्।

अष्टावादौ गुरून्न्यस्येत्ततश्चाद्यगुरोरधः ॥३५


लघुं न्यस्येत्ततः शेषान् विदधीत यथोपरि।

गुरुभिः पूरयेदादिं यावत्स्युर्लघवोऽखिलाः ॥३६


आद्यपङ्क्तौ गुरुश्चैको लघुश्चैको यथाक्रमम्।

अतः परं तु द्विगुणाः प्रतिपङ्क्ति भवन्त्यमी ॥३७


मूषाभेदाश्चतुःशाले षट्पञ्चाशच्छतद्वयम्।

अलिन्दवीथीप्रग्रीवनिर्यूहकगवाक्षकैः ॥३८


तमङ्गभद्र विन्यासरचनाभिरनेकधा।

अपरस्परसंबाधात्संवृतैर्विवृतैरपि ॥३९


गृहभेदाः प्रसूयन्ते येषां संख्या न विद्यते।

यत्संबद्धचतुश्शालममूषालिन्दकं हि तत् ॥४०


एकभद्रा दिगेहानां ब्रूमो नामान्यतः परम्।

यान्येकलघुलक्षाणि प्रस्तारे तानि तद्विदः ॥४१


कथयन्त्येकभद्रा णि क्रमसंख्याविभागतः।

प्रागायतं प्राग्विलग्नं जयं संयमनप्रियम् ॥४२


प्रतीच्यं प्रासविन्यासं सुभद्रं कलहोत्तरम्।

अष्टौ तान्येकभद्रा णि द्विभद्रा ण्यभिदध्महे ॥४३


पूर्वोत्तरोत्तरं पूर्वाद्भद्रा दिह विधानतः।

स्यातां प्राग्मेलकाद्यद्वत्पूर्वाद्या दक्षिणा परे ॥४४


ईरं सुनीथमाग्नेयं द्वीपमाप्यं सुसंयमम्।

अर्धर्चमैभं व्याकोशं नैरृतं वृषभं विनम् ॥४५


काव्यं विपासमानीरं कान्तं सौभं विपश्चिमम्।

गवयं श्रीवहं श्लिष्टं गणं भीममयोगमम् ॥४६


वर्तं चलं शठं क्रान्तमित्यष्टाविंशको गणः।

द्विभद्रा णां समाख्यातस्त्रिभद्रा णामतः परम् ॥४७


ऐन्द्रं विलोममायामं वधमेकाक्षमन्तिकम्।

प्रकाशं पैत्रमायस्तं भद्रं प्रान्तं प्रसाधकम् ॥४८


क्षमं विघातमायातं कान्तं चित्रं द्विमन्दिरम्।

सुदक्षिणं भयं श्लिष्टं प्रमोदं व्यायतं वियत् ॥४९


आप्यं सुनागं नागेन्द्र मीरितं शोभनं घनम्।

शस्तोत्तरं कफं कर्णं क्रुष्टं क्रान्तं क्रमागतम् ॥५०


द्विशस्तं द्विभयं प्रोक्तं चक्रं मलयमायतम्।

वनं भारं सुगाराख्यमागारं वीरमेव च ॥५१


व्यायाममायुतं तद्वद्व्याहृतं च ततः परम्।

दुर्गमं क्षोभसंज्ञं च कृत्रिमं क्षोभणं तथा ॥५२


चारुरुच्याभिधानं च ध्रुवं कथमिति क्रमात्।

षट्पञ्चाशत्त्रिभद्रा णि चतुर्भद्रा ण्यतः परम् ॥५३


कृतमर्चायनं पौष्णमुद्गतं मिश्रमुत्सुकम्।

विघ्नं विपक्षमाहूतं रुचकं वर्धनं पृथु ॥५४


कलहं छलमायास्यं त्रिनाभं स्वस्तिकं स्थिरम् ॥५५


शरलं द्विगुणं नाद्यं चित्रं भ्रान्तं विधारणम्।

साधारणं नतं त्र्यंशमृषं रोगं विशेषणम् ॥५६


प्रतीच्यं त्रिसमं स्वैरं सुप्रतीकं नलं क्षपम्।

व्याप्तमाक्रीडनं व्यर्थमीशानं सुखमव्ययम् ॥५७


मगधं क्षिप्रमागस्त्यमेकोजं द्विर्गतं लिहम्।

पर्कं विलोममुद्दण्डं मुण्डं मातङ्गमाखिलम् ॥५८


खर्वं पिनाकमुद्यन्तं विशिखं प्रसभं रजम्।

चुरुकं सफलं वामं वर्धनं धावनं सहम् ॥५९


चयं सेव्यं कलं तीर्णं चतुर्भद्रा णि सप्ततिः।

पञ्चभद्रा ण्यथोच्यन्ते षट्पञ्चाशदनुक्रमात् ॥६०


कानलं लोलुपं जिह्मं प्रगालं सालिनं जिनम्।

सुजयं विजयं यामं जयं ज्ञातं जपं तपम् ॥६१


जमं वरं चरं वैरं विशिषं सुप्रभं प्रभम्।

प्रतीक्षं क्षमिणं युक्तं शान्तं त्रैतं विनोदनम् ॥६२


सन्दोहं विप्रदोहं च विद्रुतं सततं ततम्।

व्याकुलं लीनमालीनं विचित्रं लम्बनं खरम् ॥६३


शेखरं विबुधं चैत्रं व्यासक्तं संपदं पदम्।

त्रिशिखं चतुरं प्रातं सुस्थितं दुःस्थितं स्थितम् ॥६४


चक्रं वक्रं लघं लाभं संपर्कं मूलमव्ययम्।

अष्टाविंशतिरन्यानि षड्भद्रा णि निबोधत ॥६५


किन्नरं कौस्तुभं हर्म्यं धार्मिकं निषधं वसु।

साटिकं वामनं गौरमस्थिरं क्रमिणं खलम् ॥६६


विवरं वालिशं धौमं त्रिपुष्टं मन्दिरं भवम्।

अशोकं भास्वरं चौष्यं लातव्यं सुस्वनं मखम् ॥६७


वाजि नेत्रं भ्रमं घोषं सप्तभद्रा ण्यतः परम्।

भाण्डीरं वैसहं प्रस्थं प्रतानं वासुलं कटम् ॥६८


लक्ष्मीवासं सुगन्धान्तमष्टधैतानि नामतः ।

अन्यच्च सर्वतोभद्र मेकं भद्रा भिरष्टभिः ॥६९


संप्रकल्प्यं चतुःशालं ब्रूमश्चैषां शुभाशुभम्।

प्रदक्षिणा शुभा मूषा विपरीता विपर्यये ॥७०


समवाये यथा भूयो जानीयात्साध्वसाधु च।

तथाष्टावेकभद्रा णि सप्तभद्रा णि च क्रमात् ॥७१


द्विभद्रा ण्यष्टभिर्युक्ता षड्भद्रा णि च विंशतिः।

षट्पञ्चाशत्त्रिभद्रा णि पञ्चभद्रा णि चोन्नयेत् ॥७२


सप्ततिश्च चतुर्भद्रा ण्येकं भद्रा भिरष्टभिः।

एवं शतद्वयं पिण्डः षट्पञ्चाशच्च वेश्मनाम् ॥७३


भद्रैः पूर्वविधानेन चतुःशालाक्रियादिषु।

मूषा स्यात्कुड्यजैस्तेषु चतुश्शालेषु वेश्मसु ॥७४


अनुवंशाश्रिते मूषे स्वस्तिके स्तःपराङ्मुखे।

मुखायते च पुरतो द्वे स्यातामवकोसिमे ॥७५


नोदङ्मुखः स कर्तव्यः कार्यः प्राग्जीवसंयुतः।

वर्धमाने तथा कार्ये यथा प्राग्ग्रीवसंयुतः ॥७६


वर्धमाने तथा कार्ये द्वारमूषे मुखायते।

मूषाया दक्षिणे स्यातां दीर्घवामेऽवकोसिमे ॥७७


नन्द्यावर्तगृहे सर्वा नन्द्यावर्ता भवन्ति ताः।

द्वे स्तरु मूषे रुचके स्यातामायते त्ववकोसिमे ॥७८


सर्वद्वारवहा मूषाः सर्वतोभद्र वेश्मनि।

आदिमूषा भवेदेका गृहं प्रागायतं हि तत् ॥७९


द्वितीयया प्राग्विलग्नमेकया तदनन्तरम्।

प्रदक्षिणेन वेश्मानि जयादीन्येकयैकया ॥८०


मूषया स्युः क्रमादेवं कथ्यन्ते तत्फलान्यथ।

धनमर्थविनाशश्च जयश्चैवाशुभं सदा ॥८१


प्रीतिरुद्धेगकल्याणकलहाश्चाप्यनुक्रमात्।

यत्र पूर्वे उभे मूषे तदीरं परिकीर्तितम् ॥८२


यत्र पूर्वा तृतीया च तत्सुनीतं गृहं विदुः।

आग्नेये द्वितृतीये स्तो द्वीपे चाद्यचतुर्थिके ॥८३


द्विचतुर्थ्यौ तथा चाप्ये त्रिचतुर्थ्यौ सुसंयमे।

अर्धर्चे त्वाद्यपञ्चम्यौ द्वितीयैभे सपञ्चमी ॥८४


व्याकोशे च त्रिपञ्चम्यौ नैरृते द्विशराभिधे।

वृषभे प्रथमाषष्ठ्यौ द्विषष्ठ्यौ च तथा विने ॥८५


काव्ये तृतीया षष्ठी च विपासेऽब्धिरसाभिधे।

आनीरे पञ्चमीषष्ठ्यौ साद्या कान्ते च सप्तमी ॥८६


सौभे द्वितीयासप्तम्यौ त्रिसप्तम्यौ विपश्चिमे।

गवये सप्तमीतुर्ये श्रीवहे पञ्चसप्तमी ॥८७


सषष्ठी सप्तमी श्लिष्टे गणे पूर्वाष्टमी तथा।

भीमेऽष्टमी द्वितीया च त्र्यष्टम्यौ चाप्ययोगमे ॥८८


वर्ते चतुर्थ्यष्टमी च पञ्चमी चाष्टमी चले।

षष्ठ्यष्टम्यौ शठे क्रान्ते सप्तमी चाष्टमीति च ॥८९


इत्यष्टाविंशतिः प्रोक्ता द्विभद्रा णामिहौकसाम्।

अथ ब्रूमस्त्रिभद्रा णि तत्रैन्द्रं पुष्टिवर्धनम् ॥९०


स्याद्याम्यपश्चिमद्वारमाद्यमूषात्रयान्वितम्।

आद्या द्वितीया तुर्या च यस्य द्वारं विपश्चिमम् ॥९१


विलोमं नाम तद्वेश्म शूद्रा णां पुष्टिवर्धनम्।

आद्या तृतीया तुर्या स्यादायामे सर्वतोमुखे ॥९२


वधे द्वित्रिचतुर्थ्यः स्युर्द्वारं च स्यादुदग्दिशि।

यत्र साद्ये द्विपञ्चम्यावेकाक्षं तदुदाहृतम् ॥९३


साद्ये यत्र द्विपञ्चम्यौ तत्प्रोक्तं गृहमन्तिकम्।

यत्र स्युर्द्वित्रिपञ्चम्यः प्रकाशं सर्ववृद्धिकृत् ॥९४


पूर्वा चतुर्थीपञ्चम्यौ यत्र तत्पैत्रमुच्यते।

पञ्चमी द्विचतुर्थ्यौ च यत्रायस्तं तदीरितम् ॥९५


त्रिचतुःपञ्चमीयुक्तं भद्र माहुर्मनीषिणः।

आद्या द्वितीया षष्ठी च यत्र तत्प्रान्तशब्दितम् ॥९६


आद्या तृतीया षष्ठी च स्यात्प्रसाधकवेश्मनि।

तद्भवेत्सर्वतोद्वारं तथा सर्वार्थसाधकम् ॥९७


द्वितीया च तृतीया च षष्ठी च क्षमनामनि।

तस्य प्रत्यग्दिशि द्वारं शूद्र वर्गस्य चेष्टदम् ॥९८


षष्ठी चतुर्थी चाद्या च स्युर्विघाताख्यवेश्मनि।

षष्ठी द्वितुर्ये यस्मिंस्तदायातं दक्षिणामुखम् ॥९९


षट्चतुस्त्रियुतं कान्तं तत्स्यात्सर्वार्थसाधकम्।

षट्पञ्चाद्यान्वितं चित्रं तच्च स्याद्याम्यदिङ्मुखम् ॥१००


द्वितीयापञ्चमीषष्ठ्यो यस्मिन् स्युस्तद्द्विमन्दिरम्।

यत्र त्रिपञ्चमीषष्ठ्यस्तद्वदन्ति सुदक्षिणम् ॥१०१


चतुर्थीपञ्चमीषष्ठ्यो भये स्युस्तन्न वृद्धिकृत्।

पूर्वाद्वितीयासप्तम्यो यत्र तच्छ्लिष्टसंज्ञितम् ॥१०२


याम्यास्यमिदमिच्छन्ति शुभं सर्वार्थदं नृणाम्।

साद्ये तृतीयासप्तम्यौ प्रमोदे परिकीर्तिते ॥१०३


यत्र स्युर्द्वित्रिसप्तम्यस्तद्वेश्म व्यायतं स्मृतम्।

यत्राद्या च चतुर्थी च सप्तम्यपि च तद्वियत् ॥१०४


द्विचतुःसप्तमीमूषमाप्यं स्याद्दक्षिणामुखम्।

त्रिचतुस्सप्तमीभिस्तु सुनागं वेश्म कीर्त्यते ॥१०५


तच्च याम्यापरमुखं धनधान्यसुखप्रदम्।

सप्तमी पञ्चमी पूर्वा मूषा नागेन्द्र संज्ञिते ॥१०६


मूषा द्विपञ्चसप्तम्यो याम्यं च मुखमीरिते।

त्रिपञ्चसप्तमीमूषाशोभितं शोभनं भवेत् ॥१०७


चतुर्थी पञ्चमी यत्र सप्तम्यपि च तद्घनम्।

पूर्वा षष्ठी सप्तमी च स्मृता शस्तोत्तरे गृहे ॥१०८


द्वितीयासप्तमीषष्ठ्यो यमिंस्तत्कफसंज्ञितम्।

द्वारं वारुणमेतस्य हितं च स्याद्द्विजन्मनाम् ॥१०९


कर्णं स्यात्पश्चिमद्वारं त्रिषष्ठीसप्तमीयुतम्।

चतुर्थीसप्तमीषष्ठ्यो मूषाः स्युः क्रुष्टसंज्ञिते ॥११०


सप्तमीपञ्चमीषष्ठीयुक्तं क्रान्तं यशस्करम्।

आद्याष्टमी द्वितीया च मूषा प्रोक्ता क्रमागते ॥१११


आद्याष्टमी तृतीया च द्विशस्ते भवने स्मृताः।

यत्राष्टमी त्रिद्वितीये द्विभयं तदुदाहृतम् ॥११२


आद्याष्टमी चतुर्थी च यत्र तच्चक्रसंज्ञितं।

तुर्याष्टमी द्वितीया च यत्र तन्मलयं विदुः ॥११३


तुर्याष्टमी तृतीया च यत्र तत्प्रोक्तमायतम्।

आद्याष्टमी पञ्चमी च स्याद्यस्मिंस्तद्वनं स्मृतम् ॥११४


द्वितीया पञ्चमी मूषा यत्र स्यादष्टमी तथा।

तद्भाराख्यमुदग्वक्त्रं शुभं विघ्नकृदन्यथा ॥११५


त्रिपञ्चम्यष्टमीभिस्तु सुगारं परिकीर्तितम्।

यत्राष्ठमी तदागारं चतुर्थी पञ्चमी तथा ॥११६


यस्मिन्नाद्याष्टमीषष्ठ्यो वीरं तदिह कीर्तितम्।

षष्ठ्यष्टमी द्वितीया च गृहे व्यायामनामनि ॥११७


षष्ठ्यष्टमीतृतीयाभिर्मूषाभिः प्रोक्तमायुतम्।

षष्ठ्यष्टमीचतुर्थ्यः स्युर्यत्र तद्व्याहृतं विदुः ॥११८


षष्ठ्यष्टमीपञ्चमीभिर्दुर्गमं व्याधिकृन्मतम्।

आद्याष्टमीसप्तमीभिः संयुक्तं क्षोभमुच्यते ॥११९


द्विसप्तम्यष्टमीयुक्तं गृहं कृत्रिमसंज्ञितम्।

त्रिसप्तम्यष्टमीभिस्तु मूषाभिः क्षोभणं भवेत् ॥१२०


चारुरुच्यं चतुःसप्तम्यष्टमीभिः समन्वितम्।

सप्तपञ्चम्यष्टमीभिर्युक्तं ध्रुवमिति स्मृतम् ॥१२१


षट्सप्तम्यष्टमीयुक्तं कथं सर्वार्थसिद्धिदम्।

इत्युक्तानि त्रिभद्रा णि शस्तान्येतेषु यानि च ॥१२२


तानि नित्यं प्रयोज्यानि वर्णानां च मनीषिभिः।

आद्याश्चतस्रो मूषाः स्युर्यत्र तत्कृतसंज्ञितम् ॥१२३


सर्वद्विगुणकृत्पूर्वप्रत्यग्द्वारं नचान्यथा।

आद्यास्तिस्रः पञ्चमी च यस्मिन्नर्चायनं हि तत् ॥१२४


तद्भवेत्पश्चिमद्वारं गृहं सर्वगुणान्वितम्।

यस्मिन्नाद्या द्वितीया च चतुर्थी पञ्चमी तथा ॥१२५


तत्पौष्णं दक्षिणद्वारं सर्ववृद्धिकरं नृणाम्।

आद्यास्तिस्रस्तथाद्या च यस्मिंस्तद्गृहमुद्गतम् ॥१२६


द्वारेण पश्चिमेनैतच्छस्यते दक्षिणेन वा।

द्व्याद्याश्चतस्रो यत्र स्युस्तन्मिश्रं प्रीतिवर्धनम् ॥१२७


प्रशस्तं क्षत्रियादीनामस्य द्वाः प्राच्यपाचि वा।

आद्यास्तिस्रस्तथा पष्ठी यस्मिन् मूषास्तदुत्सुकम् ॥१२८


तच्छस्तं पश्चिमद्वारं विप्रादीनां जयावहम्।

आद्या द्वितीया तुर्या च मूषा षष्ठी च यत्र तत् ॥१२९


याम्याप्रत्यङ्मुखं शस्तं विघ्नं नाम कुलर्द्धितम्।

आद्या तृतीया तुर्या च यस्मिन् षष्ठी च तच्छुभम् ॥१३०


विपक्षं नाम धाम स्याद्द्वारमस्य च पश्चिमम्।

द्व्याद्यास्तिस्रो गृहे यस्मिन् मूषा षष्ठी च तच्छुभम् ॥१३१


स्याद्याम्यपश्चिमद्वारमाहूतं नाम तद्गृहम्।

आयाद्वितीयापञ्चम्यो यत्र षष्ठी च तद्भवेत् ॥१३२


रुचकं नाम याम्यप्रागद्वारं सकलकामदम्।

एकत्रिपञ्चषष्ठ्यः स्युर्यत्र तद्वर्धमानकम् ॥१३३


प्राक्पश्चिमोत्तरद्वारं चातुवर्ण्यस्य वृद्धिदम्।

यत्र स्युर्द्वित्रिपञ्चम्यो मूषाः षष्ठी च तद्गृहम् ॥१३४


स्यात्पूर्वदक्षिणद्वारं प्रथितं पृथुसंज्ञया।

यस्मिन्नाद्याचतुःपञ्चषष्ठ्यस्तत् कलभं विदुः ॥१३५


गुणैरुपेतं सकलैरुदग्द्वारं निकेतनम्।

द्विचतुःपञ्चमीषष्ठ्यो यस्मिंस्तच्छलमुच्यते ॥१३६


दक्षिणं मुखमेतस्य पश्चिमं वा प्रशस्यते।

चतसरस्त्र्यादयो यस्मिन्नायास्यं तदुदीरितम् ॥१३७


अप्रशस्तं वदन्त्येतत् तद्विदो भवनाधमम्।

आद्यास्तिस्रः सप्तमी च मूषाः स्युर्यत्र तद्गृहम् ॥१३८


त्रिनाभमुत्तरद्वारं शस्तं सर्वगुणान्वितम्।

आद्याद्वितुर्यासप्तम्यो यत्र तत्स्वस्तिकं स्मृतम् ॥१३९


प्राक्पश्चिमोत्तरद्वारं चातुर्वर्ण्येऽपि शस्यते।

आद्याचतुर्थीसप्तम्यो मूषाः स्युर्यत्र वेश्मनि ॥१४०


तदिह स्थिरमित्युक्तं द्वारं चैतस्य दक्षिणम्।

द्व्याद्यास्तिस्रः सप्तमी च यत्र तत्सरलं विदुः ॥१४१


तद्भवेत्पश्चिमद्वारं सर्वदोषोज्झितं गृहम्।

यत्राद्या च द्वितीया च पञ्चमी सप्तमी तथा ॥१४२


द्विगुणं नाम तद्वेश्म द्वारं चास्य यथेप्सितम्।

आद्यातृतीयापञ्चम्यः सप्तम्यपि च यत्र तत् ॥१४३


नाद्यं नामातिशीलाद्यं प्रशस्तं सर्वदेहिनाम्।

द्वितीया च तृतीया च पञ्चमी सप्तमी गृहे ॥१४४


यत्र तच्चित्रनामेष्टद्वारं चित्रगुणैर्वृतम्।

आद्यावतुर्थीपञ्चम्यो यत्र स्युः सप्तमी तथा ॥१४५


तद्भ्रान्तं नाम पूर्वोदग्द्वारं भवनमृद्धिकृत्।

यत्र द्वितीया तुर्या च पञ्चमी सप्तमी तथा ॥१४६


विधारणं गृहं तत्स्यात्सर्वकामविवर्धनम्।

तृतीया यत्र तुर्या च पञ्चमी सप्तमी तथा ॥१४७


तत्साधारणमित्याहुः सर्वद्वारं सुखावहम्।

आद्या द्वितीया षष्ठी च सप्तमी यत्र तन्नतम् ॥१४८


आद्या द्वितीया षष्ठी च त्र्यंशे स्यात्सप्तमी तथा।

द्वितीया च तृतीया च ऋषे षष्ठी च सप्तमी ॥१४९


आद्या तुर्या च षष्ठी च रोगे स्यात्सप्तमी तथा।

यत्र द्वितीया तुर्या च स्यात् षष्ठी सप्तमी च तत् ॥१५०


विशोषणं नाम गृहं दक्षिणोत्तरदिङ्मुखम्।

तृतीया यत्र तुर्या च स्यात् षष्ठी सप्तमी गृहे ॥१५१


प्रतीच्यमीप्सितद्वारं तद्गृहं सर्वकामदम्।

यत्राद्यापञ्चमीषष्ठीसप्तम्यस्त्रिसमं हि तत् ॥१५२


प्रभूतवृद्धिदं वेश्म समस्तैरन्वितं गुणैः।

द्वितीयापञ्चमीषष्ठीसप्तम्यो यत्र वेश्मनि ॥१५३


तदिह स्वैरमित्याहुर्धनधान्यसुखावहम्।

तृतीयापञ्चमीषष्ठीसप्तम्यो द्वारमुत्तरम् ॥१५४


पश्चिमं वा भवेद्यत्र सुप्रतीकं च वृद्धिकृत्।

तुर्याद्याभिश्चतसृभिर्नलमुत्तरदिङ्मुखम् ॥१५५


आद्याद्वित्र्यष्टमीभिः स्यात्सर्वरुग्भीतिकृत् क्षयम्।

व्याप्ते पूर्वा द्वितीया च स्याच्चतुर्थी तथाष्टमी ॥१५६


आद्यातृतीयातुर्याः स्युराक्रीडे तद्वदष्टमी।

द्व्याद्यास्तिस्रः क्रमाद्व्यर्थे मूषाः स्यादष्टमी तथा ॥१५७


ईशानाख्ये स्युराद्याद्वित्रिपञ्चम्योऽष्टमी तथा।

पूर्वाष्टमीत्रिपञ्चम्यो यस्मिंस्तत् सुखसंज्ञितम् ॥१५८


तत्पूर्वोदङ्मुखं वृद्ध्यै जायते हानयेऽन्यथा।

यत्र स्युरष्टमीद्वित्रिपञ्चम्यस्तदिहाव्ययम् ॥१५९


द्वारं यथेष्टमेतस्य वास्तुविद्याविदो जगुः।

यस्मिन् पूर्वाष्टमीतुर्यापञ्चम्यो मगधं हि तत् ॥१६०


प्रागुदक्पश्चिमद्वारमिदं शंसन्ति सूरयः।

यत्र द्वितुर्यापञ्चम्यो मूषाः स्युस्तद्वदष्टमी ॥१६१


तत्क्षिप्तं नाम सुखकृद्यथेष्टं द्वारमिष्यते।

त्रिपञ्चम्यष्टमीतुर्या आगस्त्ये पश्चिमामुखे ॥१६२


द्वितीयाद्याष्टमीषष्ठ्यो यत्रैकोजं तदुच्यते।

तृतीयाद्याष्टमीषष्ठ्यो यत्र तद्द्विर्गतं गृहम् ॥१६३


द्वित्रिषष्ठ्योऽष्टमी चापि यस्मिंस्तल्लिहमुच्यते।

आद्यातुर्याष्टमीषष्ठ्यो यत्र तत्पर्कमुच्यते ॥१६४


षष्ठ्यष्टमीद्वितुर्याभिः स्याद्विलोमाभिधं गृहम्।

षष्ठ्यष्टमीद्वितुर्याभिरुद्दण्डमिति कीर्तितम् ॥१६५


यस्मिन्नाद्याष्टमीषष्ठीपञ्चम्यो मुण्डमेव तत्।

द्विपञ्चम्यष्टमीषष्ठ्यो मूषा मातङ्गसंज्ञिते ॥१६६


त्रिपञ्चम्यष्टमीषष्ठ्यो भवन्त्यस्खलनामनि।

तत्खर्वनाम तुर्याद्यास्तिस्रो यस्मिंस्तथाष्टमी ॥१६७


आद्याद्वितीयासप्तम्यः पिनाके स्युस्तथाष्टमी।

त्रिसप्तम्यष्टमीपूर्वा यत्रोद्यन्तं तदुच्यते ॥१६८


अष्टमीद्वित्रिपञ्चम्यो यस्मिंस्तद्विशिखं गृहम्।

आद्या चतुर्थीसप्तम्यः प्रसभे स्युस्तथाष्टमी ॥१६९


रजे द्वितुर्यासप्तम्यो मूषाः स्युस्तद्वदष्टमी।

त्रिसप्तम्यष्टमीतुर्या यत्र तद्रुचकं विदुः ॥१७०


प्राक्प्रत्यग्द्वारमेतस्य शूद्रा णामतिवृद्धिदम्।

सप्तम्याद्याष्टमी मूषा पञ्चम्यपि च सैफले ॥१७१


वामे द्विपञ्चसप्तम्यो मूषा ज्ञेयास्तथाष्टमी।

त्रिपञ्चसप्तम्यष्टम्यो यस्मिंस्तद्वर्धमानकम् ॥१७२


विशेषतो वृद्धिकरं वैश्यानामिति तद्विदः।

चतुःपञ्चाष्टसप्तम्यो यस्मिंस्तद्धावनं भवेत् ॥१७३


सप्तम्याद्याष्टमीषष्ठ्यो यत्र तत्सहमुच्यते।

द्विसप्तषष्ठ्यष्टमीभिर्मूषाभिश्चयनं भवेत् ॥१७४


षष्ठ्यष्टमीद्विसप्तम्यो यस्मिंस्तत् सेव्यमीरितम्।

यत्र तुर्याष्टमी षष्ठी सप्तमी चेति तत्कलम् ॥१७५


तीर्णे षष्ठ्यष्टमीपञ्चसप्तम्यः सर्वकामदे।

यत्राद्याः पञ्च तत् प्रोक्तं कानलं सर्वकामदम् ॥१७६


एकद्वित्रिचतुःषष्ठ्यो यत्र तल्लोलुपं स्मृतम्।

आद्यास्तिस्रः पञ्चषष्ठ्यौ यस्मिंस्तज्जिह्ममुच्यते ॥१७७


प्रगाले पञ्चमीषष्ठीतुर्यापूर्वाद्वितीयकाः।

त्रितुर्यापञ्चमीषष्ठ्यः साद्याः स्युः सालिनाभिधे ॥१७८


यत्र द्वित्रिचतुःपञ्चषष्ठ्यस्तज्जिनमुच्यते।

एकद्वित्रिचतुर्थ्यः स्युः सुजये सप्तमीयुताः ॥१७९


पञ्चमीसप्तमीद्वित्रिपूर्वाः स्युर्विजयाभिधे।

यत्रैकद्विचतुःपञ्चसप्तम्यो यामनाम तत् ॥१८०


यत्रैकत्रिचतुःपञ्चसप्तम्यस्तज्जयं विदुः।

मूषा द्वित्रिचतुःपञ्चसप्तम्यो ज्ञातसंज्ञिते ॥१८१


आद्यास्तिस्रस्तथा षष्ठीसप्तम्यौ यत्र तज्जपम्।

आद्याद्वितुर्याषष्ठीभिः सप्तम्या च तपं विदुः ॥१८२


षष्ठीत्रितुर्यासप्तम्यो जये मे पूर्वान्विता मताः।

द्वित्रितुर्यास्तथा षष्ठीसप्तम्यौ वरसंज्ञिते ॥१८३


चरं तद्यत्र पूर्वे द्वे पञ्चषट्सप्तमीयुते।

चैत्ये स्यात्सप्तमी षष्ठी पञ्चम्याद्या तृतीयका ॥१८४


विशिरवे द्वित्रिपञ्चम्यः स्यात् षष्ठी सप्तमी तथा।

चतुर्थी पञ्चमी षष्ठी सप्तम्याद्या च सुप्रभे ॥१८५


प्रभाख्ये द्विचतुःपञ्चषष्ठ्यः स्युः सप्तमी तथा।

त्रिचतुःपञ्चसप्तम्यः षष्ठी च स्यात्प्रतीक्षके ॥१८६


आद्याश्चतस्रो यत्र स्युः साष्टम्यः क्षमिणं हि तत्।

सप्त पूर्वा द्वित्रिपञ्चम्यो युक्तनाम्नि तथाष्टमी ॥१८७


शान्ते द्वितुर्यापञ्चम्यः पूर्वा स्यादष्टमी तथा।

पूर्वात्रितुर्यापञ्चम्यः साष्टम्यस्त्रैतसंज्ञिते ॥१८८


विनोदे द्वित्रिपञ्चम्यश्चतुर्थी चाष्टमी तथा।

सन्दोहे त्वष्टमिषष्ठ्यौ तिस्रः पूर्वादिकास्तथा ॥१८९


आद्याद्वितुर्याषष्ठीभिरष्टम्या विप्रदोहकम्।

षष्ठ्यष्टमीत्रितुर्याद्या यस्मिंस्तद्विद्रुतं विदुः ॥१९०


द्वित्रितुर्याष्टमीषष्ठ्यो यत्र तत्सततं मतम्।

आद्याद्विपञ्चमीषष्ठ्यस्ततनाम्नि तथाष्टमी ॥१९१


आद्यात्रिपञ्चमीषष्ठ्यो व्याकुले स्युस्तथाष्टमी।

द्वित्रिपञ्चचतुष्षष्ठ्यो विज्ञेया लीनसंज्ञके ॥१९२


तुर्याद्यापञ्चमीषष्ठ्य आलीने स्युस्तथाष्टमी।

द्वितुर्यापञ्चमीषष्ठ्यो विचित्रे तद्वदष्टमी ॥१९३


आद्याश्चतस्रो मूषाः स्युः साष्टम्यो लम्बनाह्वये।

आद्यास्तिस्रोऽष्टमी तद्वत्सप्तम्यपि भवेत् खरे ॥१९४


शेखरे सप्तमीतुर्याद्वितीयाद्यास्तथाष्टमी।

विबुधे त्वष्टमी तुर्या तृतीयाद्याथ सप्तमी ॥१९५


चैत्राख्ये द्व्यष्टमीतुर्यासप्तम्यः सतृतीयकाः।

आद्याद्विपञ्चसप्तम्यो व्यासक्ताख्ये तथाष्टमी ॥१९६


आद्यात्रिपञ्चसप्तम्यः साष्टम्यः सम्पदाभिधे।

यत्र द्वित्र्यष्टमीपञ्चसप्तम्यस्तत्पदं विदुः ॥१९७


तुर्याद्यापञ्चमी षष्ठी सप्तम्यस्त्रिशिखे तथा।

द्विपञ्चम्यष्टमीतुर्यासप्तम्यश्चतुराभिधे ॥१९८


त्रिसप्तम्यष्टमीतुर्यापञ्चम्यः प्रान्तनामनि।

आद्याद्वितीयासप्तम्यः षष्ठ्यष्टम्यौ च सुस्थिते ॥१९९


दुःस्थितं यत्र षष्ठ्याद्या चतुर्थी सप्तमी तथा।

स्थितेऽष्टमीद्विसप्तम्यस्त्रिषष्ठ्यावपि च स्मृते ॥२००


चक्रे षष्ठ्यष्टमीतुर्यासप्तम्याद्याः प्रकीर्तिताः।

वक्रे द्वितीयासप्तम्यौ षष्ठ्यष्टम्यौ चतुर्थिका ॥२०१


लधेऽष्टमीत्रिसप्तम्यस्तुर्याषष्ठ्यौ च कीर्तिते।

पञ्चमीसप्तमीषष्ठ्यो लाभे पूर्वाष्टमी तथा ॥२०२


द्विपञ्चसप्तम्यष्टम्यः षष्ठी संपर्कसंज्ञिते।

त्रिपञ्चषष्ठीसप्तम्यो मूलनाम्नि तथाष्टमी ॥२०३


स्युरष्टसप्तषट्पञ्चचतुर्थ्यस्त्वव्ययाभिधे।

पूर्वाद्या यत्र षण्मूषाः किन्नरं नाम तद्गृहम् ॥२०४


यत्राद्यापञ्चसप्तम्यो सह तत्कौस्तुभं विदुः।

पूर्वाद्वित्रिचतुःषष्ठीसप्तम्यो हर्म्यसंज्ञिते ॥२०५


सप्तमी पञ्चमी षष्ठी द्वित्रिपूर्वाश्च धार्मिके।

निषधे द्विचतुःपञ्चषष्ठ्याद्याः सप्तमी तथा ॥२०६


त्रिचतुःपञ्चषट्सप्तम्याद्याः स्युर्यत्र तद्वसु।

साटीके त्रिचतुःपञ्चद्विषष्ठ्यः स्युस्तथाष्टमी ॥२०७


यत्राद्यापञ्चसप्तम्यो वामनं नाम तद्विदुः।

आद्याद्वित्रिचतुःषष्ठ्यः साष्टम्यो गौरनामनि ॥२०८


आद्याद्वित्र्यष्टमीषष्ठ्यः पञ्चमी चास्थिराभिधे।

क्रमिणे त्रिचतुःपञ्चपूर्वाः षष्ठ्यष्टमी तथा ॥२०९


खले पूर्वाष्टमीषष्ठीत्रितुर्याः पञ्चमीयुता।

विवरे त्रिचतुःपञ्चद्विषष्ठ्यः स्युस्तथाष्टमी ॥२१०


आद्याद्वित्रिचतुःसप्तम्यष्टम्यो बालिशाभिधे।

पूर्वाष्टमीद्वित्रिसप्तपञ्चम्यो धौमनामनि ॥२११


त्रिपुष्टे द्विचतुःपञ्चसप्तम्याद्यास्तथाष्टमी।

मन्दिरे त्रिचतुःपञ्चसप्तम्याद्यासथाष्टमी ॥२१२


भवे द्वित्रिचतुःपञ्चम्यष्टम्यः सप्तमी तथा।

अशोके द्वित्रिषट्सप्तम्यष्टम्यः पूर्वया सहि ॥२१३


भास्वरे द्विचतुःषष्ठ्यः सप्तम्याद्याष्टमीयुता।

त्रिसप्तम्यष्टमीषष्ठीतुर्याद्याश्चौष्यसंज्ञिते ॥२१४


द्वित्रितुर्याष्टमिषष्ठ्यो लातव्ये सप्तमी तथा।

द्विसप्तम्यष्टमीषष्ठीपञ्चम्याद्याश्च सुस्वने ॥२१५


त्रिपञ्चम्यष्टमीषष्ठीसप्तम्याद्यास्तथा मखे।

द्वित्रिसप्ताष्टमीषष्ठीपञ्चम्यो वाजिसंज्ञिते ॥२१६


नेत्रे पूर्वाचतुःपञ्चषट्सप्तम्योऽष्टमी तथा।

भ्रमे स्युर्द्विचतुःपञ्चषट्सप्तम्योऽष्टमी तथा ॥२१७


घोषे च त्रिचतुःपञ्चषट्सप्तम्योऽष्टमी तथा।

एकद्वित्रिचतुःपञ्चषट्सप्तम्यो भवन्ति चेत् ॥२१८


मूषास्तदानीं भाण्डीरमिति प्राहुर्निवेशनम्।

एकद्वित्रिचतुःपञ्चषष्ठ्यो यत्र तथाष्टमी ॥२१९


तद्वैसनमिति प्राहुर्वास्तुविद्याविदो गृहम्।

एकद्वित्रिचतुःपञ्चसप्ताष्टम्यो गृहे यदि ॥२२०


मूषा भवन्ति तद्विद्यात्प्रस्थमित्यभिधानतः।

एकद्वित्रिचतुर्थ्यः स्युः षष्ठी सप्तम्यथाष्टमी ॥२२१


यस्मिन् मूषास्तदत्राहुः प्रतानमिति मन्दिरम्।

चतुर्थीवर्जिताभिः स्यान्मूषाभिर्वेश्म वासुलम् ॥२२२


कटं तृतीयाहीनाभिर्विज्ञातव्यं निवेशनम्।

मूषाभिरद्वितीयाभिर्लक्ष्मीवासुमुदाहृतम् ॥२२३


सुगन्धान्तमनाद्याभिरष्टाभिः सर्वभद्र कम्।

इत्येकभद्र प्रभृतीनि वेश्मान्युक्तानि यावद्गृहमष्टभद्र म्।

एतांश्चतुश्शालगृहप्रभेदान् यो वेत्ति पूजां स लभेत लोके ॥२२४


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे चतुश्शालविधानं नाम एकोनविंशोऽध्यायः।