समराङ्गणसूत्रधार अध्याय २३
अथ एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः।
गृहाणामेकशालानां वक्ष्यामो लक्षणान्यथ।
शस्तानां निन्दितानां च यथावदनुपूर्वशः ॥१
विन्यसेच्चतुरः पूर्वं गुरून् वर्णान् यथाविधि।
एभ्य एव प्रसूयन्ते भेदाः षोडश वेश्मनाम् ॥२
गुरोरधो लघुं न्यस्येत्पूर्वं शेषं यथोपरि।
गुरुभिः पूरयेत्पश्चाद्यावत्स्युर्लघवोऽखिलाः ॥३
विद्यादलिन्दान्सर्वेषु लघुस्थानेषु पण्डितः।
सव्यावर्तं गृहमुखादेतांश्च विनियोजयेत् ॥४
एषामलिन्दसंयोगाद्भवनानां पृथक्पृथक्।
नामानि गुणदोषाश्च वक्ष्यन्तेऽनुक्रमादतः ॥५
ध्रुवं धन्यं जयं नन्दं खरं कान्तं मनोरमम्।
सुमुखं दुर्मुखं क्रूरं सुपक्षं धनदं क्षयम् ॥६
आक्रन्दं विपुलं चैव विजयं गृहमुत्तमम्।
ध्रुवे जयमवाप्नोति धन्ये धान्यागमो भवेत् ॥७
जये सपत्नाञ्जयति नन्दे सर्वाः समृद्धयः।
खरमायासदं वेश्म कान्ते च लभते श्रियम् ॥८
आयुरारोग्यमैश्वर्यं तथा वित्तस्य सम्पदः।
मनोरमे मनस्तुष्टिर्गृहभर्तुः प्रकीर्तिता ॥९
सुमुखे राज्यसन्मानं दुर्मुखे कलहः सदा।
क्रूरव्याधिभयं क्रूरे सुपक्षं गोत्रवृद्धिकृत् ॥१०
धनदे हेमरत्नादि गाश्चैव लभते पुमान्।
क्षयं सर्वक्षयं गेहमाक्रन्दं ज्ञातिमृत्युदम् ॥११
आरोग्यं विपुले ख्यातिर्विजये सर्वसम्पदः।
यदि धन्ये द्वितीयोऽपि मुखालिन्दः प्रयुज्यते ॥१२
तद्गृहं रम्यनामेह भर्तुः सौभाग्यकारकम्।
मुखालिन्देन नन्दाख्यं द्वितीयेन सुयोजितम् ॥१३
तच्छ्रीधरमिति ख्यातं तस्मिन् श्रीर्नित्यमाविशेत्।
अलिन्दश्चेद्द्वितीयोऽपि कान्तस्यास्ये निवेश्यते ॥१४
मुदितं तद्भवेद्भर्तुर्भूतिकृद्भवनोत्तमम्।
सुमुखस्य यदालिन्दो वक्त्रेऽन्यो विनिवेश्यते ॥१५
वर्धमानं तदा तत्स्यात्स्वामिलक्ष्मीविवर्धनम्।
क्रूरं युक्तं द्वितीयेन मुखालिन्देन मन्दिरम् ॥१६
करालं तद्विजानीयाद्भर्ता तस्य विनश्यति।
अलिन्देन द्वितीयेन धनदं योजितं पुनः ॥१७
सुनाभं तद्भवेत् तस्मिन् पशून् पुत्रानवाप्नुयात्।
आक्रन्दस्य पुरोभागे यद्यलिन्दः कृतोऽपरः ॥१८
ध्वाङ्क्षसंज्ञं गृहं तज्ज्ञा निन्दितं प्रवदन्ति तत् ।
द्वितीयालिन्दघटना विजयस्य मुखे यदि ॥१९
तत्समृद्धमिति ख्यातं गृहं स्यात्पुण्यकर्मणाम्।
यान्युक्तानि ध्रुवादीनि पूर्ववेश्मानि षोडश ॥२०
शालाविभागं ज्ञात्वैषां तिर्यक्षड्दारु विन्यसेत्।
षोडशान्ये च भेदाः स्युः संज्ञाश्चैषामनुक्रमात् ॥२१
सुन्दरं वरदं भद्रं प्रमोदं विमुखं शिवम्।
सर्वलाभं विशालं च विलक्षमशुभं ध्वजम् ॥२२
उद्द्योतं भीषणं शून्यमजितं कुलनन्दनम्।
नामभिर्वेश्मनामेषां गुणदोषान्प्रकल्पयेत् ॥२३
यथार्थनामान्येतानि यस्मात्प्रोक्तान्यविस्तरात्।
एभ्य एवापराणि स्युर्वेश्मान्यन्यानि षोडश ॥२४
शालापुरोविनिर्युक्ततिर्यक्षड्दारुकारणात्।
हंसं सुलक्षणं सौम्यं जयन्तं भव्यमुत्तमम् ॥२५
रुचिरं सम्भृतं क्षेममाक्षेमं सुकृतं वृषम्।
उच्छन्नं व्ययमानन्दं सुनन्दं चेति कीर्तितम् ॥२६
एषामपि यथार्थत्वाद्गुणदोषान् निरूपयेत्।
शालामध्ये च तिर्यक्स्थं षड्दारु विनिवेशयेत् ॥२७
विहाय मर्मणां वेधानमीषामेव वेश्मनाम्।
षोडशैव परेऽपि स्युर्भेदास्तांश्च यथाक्रमम् ॥२८
कथयामः समासेन यथार्थैरेव नामभिः।
अलङ्कृतमलङ्कारं रमणं पूर्णमम्बरम् ॥२९
पुण्यं सुगर्भं कलशं दुर्गतं रिक्तमीप्सितम्।
सुभद्रं वन्दितं दीनं विभवं सर्वकामदम् ॥३०
शालान्तः स्थितषड्दारुपश्चादपवरैः कृतैः।
एभ्योऽपरेऽपि निर्दिष्टा भेदाः षोडश वेश्मनाम् ॥३१
प्रभवं भाविकं क्रीडं तिलकं क्रीडनं सुखम्।
यशोदं कुमुदं कालं भासुरं सर्वभूषणम् ॥३२
वसुधारं धनहरं कुपितं वित्तवृद्धिदम्।
कुलोदयं च विज्ञेयं गुणदोषास्तु पूर्ववत् ॥३३
अनन्तरमिहोक्तानि यानि वेश्मानि षोडश।
प्रत्येकं तान्यलिन्देन परिकुर्याच्चतुर्दिशम् ॥३४
तद्भेदेभ्यः प्रसूतानि कथयामो विधानतः।
चूडामणिं प्रभद्रं च क्षेमं शेखरमद्भुतम् ॥३५
विकाशं भूतिदं हृष्टं विरोधं कालपाशकम्।
निरामयं सुशालं च रौद्रं मोघं मनोरथम् ॥३६
सुभद्रं चेति सदनं संज्ञाभिरुपलक्षयेत्।
वेश्मनामेकशालानां शतं स्याच्चतुरुत्तरम् ॥३७
कथितं तच्च संस्थानैर्नामभिश्च यथाक्रमम्।
हस्तिनी महिषी गावी छागली च यथाक्रमम् ॥३८
तद्द्वयेन द्विपूर्वाणि ब्रूमो नामानि वेश्मनाम्।
द्विहंसकं द्विचक्राह्वं द्विसारसमथापरम् ॥३९
द्विकोकिलं बुधैः ख्यातं हस्तिन्यादेः क्रमाद्गृहम्।
त्रीण्यायुः पशुधान्यानां क्रमादाद्यानि वृद्धये ॥४०
एतेषामेव नाशाय भवेद्वेश्म द्विकोकिलम्।
इत्येकशालभवनान्युदितान्यलिन्द।
षड्दारुकापवरकावरणादिभेदैः।
संज्ञा च लक्षणफलैः करिणीमुखाभिः।
शालाभिरेवमपराणि च युग्मजानि ॥४१
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे एकशाललक्षणफलद्विहंसकादिलक्षणफलानि नाम त्रयोविंशोऽध्यायः।