प्रमुखा विकल्पसूचिः उद्घाट्यताम्

समराङ्गणसूत्रधार अध्यायसूची

अथ समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः।

वेश्मनां पञ्चशालानां कथ्यन्ते लक्षणान्यथ।

चतुर्विंशतिसंयुक्तं सहस्रं तानि सङ्ख्यया ॥१


गुरूणां दशसङ्ख्यानां प्रस्तारस्य च कल्पनात्।

गृहाणां पञ्चशालानां भेदा लघुविभागतः ॥२


पञ्चशालं भवेद्योगाद्गृहयोर्द्वित्रिशालयोः।

यद्वा योगाद् भवेदेतच्चतुःशालैकशालयोः ॥३


चतुर्णामपि वर्णानामिदं सद्म प्रशस्यते।

हिरण्यनाभप्रभृति वर्णानामिह वेश्मनाम् ॥४


सिद्धार्थादिसमायोगान्निष्पद्येत गृहाष्टकम्।

योगाद्धिरण्यनाभस्य सिद्धार्थेन गृहं भवेत् ॥५


हेमकूटाख्यमस्यैव वातेन स्वर्णशेखरम्।

सुक्षेत्रस्य च सिद्धार्थसंयोगेन श्रियावहम् ॥६


तस्यैव यमसूर्येण भवेद्वेश्म महानिधिः।

चुल्ल्यास्तु यमसूर्येण सदादीप्तं प्रजायते ॥७


दण्डसंयोगतस्तस्य चित्रभान्बभिधं भवेत्।

पक्षघ्नस्य तु दण्डेन सदादोषं विनिर्दिशेत् ॥८


पक्षघ्नस्यैव वातेन योगान्निर्विघ्नमुच्यते।

न काचचुल्लीसंयोगस्त्रिशालादिषु शस्यते ॥९


अन्योन्यवीक्ष्यमाणानां भेदास्तेनेहे नोदिताः।

एकशालयुतैर्भेदाः स्युश्चतुश्शालवेश्मनि ॥१०


चत्वारः पञ्चशालानां ब्रूमस्तेषां च विंशतिः।

यदा भवत्यजा शाला सर्वतोभद्र वेश्मना ॥११


सुदर्शनमिति प्राहुः पञ्चशालं तदा गृहम्।

तदेव करिणीयोगात्सुरूपमिति कथ्यते ॥१२


सुन्दरं महिषीयोगाद्गावीयोगात्तु शोभनम्।

वर्धमानस्य चैतासां शालानां योगतः क्रमात् ॥१३


सुनाभं सुप्रभं योग्यं विनोदं च भवेद्गृहम्।

नन्द्यावर्तेऽप्येवमेव शालायोगेन जायते ॥१४


सुखदं नन्दनं नन्दं पुण्डरीकं च मन्दिरम्।

रुचकस्याप्यजादीनां योगेन स्युरनुक्रमात् ॥१५


नामतो भद्र रुचिररोचिष्णूनि प्रहर्षणम्।

स्वस्तिकेऽप्यनया युक्त्या भवेद्गृहचतुष्टयम् ॥१६


घोषं सुघोषणं नन्दिघोषं श्रीपद्ममेव च।

विंशतिः सर्वतोभद्र प्रभृत्यालययोगतः ॥१७


जातानि पञ्चशालानि योग्यानि पृथिवीभुजाम्।

पूर्वोक्तैरष्टभिः सार्धं स्यादष्टाविंशतिर्गृहैः ॥१८


कथ्यते पञ्चशालानां मूषाभेदक्रमोऽधुना।

विभद्र मेकं तत्रैकभद्रा णि दशसङ्ख्क्यया ॥१९


द्विभद्रा णि पुनः पञ्चचत्वारिंशत्प्रचक्षते।

त्रिभद्रा णां शतं विंशत्युत्तरं द्वे दशोत्तरे ॥२०


चतुर्भद्र गृहाणां तु द्विपञ्चाशच्छतद्वयम्।

गृहाणां पञ्चभद्रा णां षड्भद्रा णां दशोत्तरे ॥२१


द्वे शते सप्तभद्रा णां स्याद्विंशत्युत्तरं शतम्।

गृहाणामष्टभद्रा णां चत्वारिंशच्च पञ्च च ॥२२


दश स्युर्नवभद्रा णि तथैकं दशभद्र कम्।

एवं सहस्रमेकं स्याद्विंशतिश्च चतुर्युता ॥२३


गृहाणां पञ्चशालानां मूषावहमसङ्ख्यया।

अथ लक्ष्म च संख्यां च ब्रूमः षट्शालवेश्मनाम् ॥२४


एकद्वित्रिचतुश्शालगृहाणां योजनान्मिथः।

द्विशालस्यैकशालस्य त्रिशालस्य च योगतः ॥२५


षट्शालं जायते वेश्म भेदास्तस्य तु षोडश।

पक्षघ्नवातयोर्योगादेकशालगृहस्य च ॥२६


स्यात्पङ्कजाङ्कुरं नाम गृहं षट्शालमुत्तमम्।

हिरण्यनाभं सिद्धार्थं चैकशालेन वेश्मना ॥२७


संयोज्यं तु यदा गेहं तदा स्याच्छ्रीगृहं शुभम्।

संयोगादेकशालेन सुक्षेत्रयमसूर्ययोः ॥२८


धनेश्वरं नाम गृहं जायते धनवृद्धये।

दण्डाख्यचुल्ल्योः संयोगादेकशालगृहस्य च ॥२९


प्रभूतकाञ्चनकरं गृहं स्यात्काञ्चनप्रभम्।

द्वादशान्यानि जानीयाद्भवनान्यनया दिशा ॥३०


एतेषामेव भेदेषु शुभान्यखिलवर्णिनाम्।

तुल्यात्त्रिशालद्वितयात्षट्शालकचतुष्टयम् ॥३१


स्याद्द्विशालचतुःशालयोगादन्यच्चतुष्टयम्।

सिद्धार्थेन चतुःशालं वेश्मनां संयुतिर्यदा ॥३२


गृहं तदा स्यात् षट्शालं त्रैलोक्यानन्दकं शुभम्।

यमसूर्येण संयुक्तं विलासचयमुच्यते ॥३३


दण्डयुक्तं चतुःशालं सुखदं नामतो भवेत्।

वातेन च चतुःशालं संयुक्तं श्रीपदं भवेत् ॥३४


चतुर्विंशतिरन्यानि षट्शालान्यन्ययोगतः।

पञ्च यानि चतुश्शालान्युचितानि महीभृताम् ॥३५


तेषां द्विशालयोगेन षट्शालान्यभिदध्महे।

सिद्धार्थे सर्वतोभद्र युक्ते स्याच्छ्रीपुरं गृहम् ॥३६


श्रीवासं सर्वतो भद्रे यमसूर्यान्विते भवेत्।

दण्डाख्ये भद्र युक्ते श्रीभूषणं जायते गृहम् ॥३७


वाताख्यं सर्वतोभद्र योगाच्छ्रीभाजनं विदुः।

सिद्धार्थे वर्धमानेन युक्ते स्याद्भूतिमण्डनम् ॥३८


यमसूर्ये तु तेनैव संयुक्ते भूतिभाजनम्।

भूतिमानं तु दण्डाख्ये वाताख्ये भूतिभूषणम् ॥३९


नन्द्यावर्तस्य योगेन सिद्धार्थादि चतुष्टयम्।

श्रीमुखं श्रीधरं श्रीमृच्छ्रीधरं चेति जायते ॥४०


सिद्धार्थादिचतुष्कस्य भवेद्रुचकयोगतः।

श्रियाकारं श्रियोवासं श्रीयानं श्रीमुखं तथा ॥४१


सिद्धार्थादिचतुष्कस्य भवेत्स्वस्तिकयोगतः।

धनपालधनानन्तधनप्रदधनाह्वयम् ॥४२


भवन्त्येवं राजवेश्मयोगतो विंशतिर्गृहाः।

प्राक्चतुर्विंशतिश्चेति चत्वारिंशच्चतुर्युता ॥४३


मूषाव्यूढिवशादेकभद्रा दीन्यभिदध्महे।

भिदाभिरेकं मूषाभिरभद्रं द्वादशैकया ॥४४


द्वाभ्यां षट्षष्टिरुद्दिष्टा विंशे द्वे तिसृभिः शते।

स्याद्व्यूढाभिश्चतसृभिः पञ्चोनं शतपञ्चकम् ॥४५


शतानि पञ्चभद्रा णां सप्त द्वानवतिस्तथा।

चतुर्विंशा नवशती षड्भद्रा णामुदाहृता ॥४६


जानीयात्सप्तभद्रा णि संख्यया पञ्चभद्र वत्।

गृहाणामष्टभद्रा णां पञ्चोनं शतपञ्चकम् ॥४७


द्वे विंशे नवभद्रा णां भवनानां शते विदुः।

षट्षष्टिर्दशभद्रा णि तथा द्वादशसङ्ख्यया ॥४८


स्युरेकादशभद्रा ख्यान्येकं द्वादशभद्र कम्।

एवं षट्शालगेहानां स्यात्साहस्रचतुष्टयम् ॥४९


षण्णवत्यधिकं ब्रूमः सप्तशालानि साम्प्रतम्।

तुल्यं त्रिशालद्वितयमेकशालेन युज्यते ॥५०


यदा स्युः सप्तशालानि तदा द्वादशसङ्ख्यया।

एकशालं द्विशालं च चतुःशालेन युज्यते ॥५१


यदा तदा सप्तशालमपरं वेश्म जायते।

सैकशालं चतुःशालं यमसूर्येण संयुतम् ॥५२


तदा भवेद्विभेदः स्यात्तद्गृहं श्रीप्रदायकम्।

वातेन श्रीपदं तद्वद्दण्डेन श्रीप्रदं भवेत् ॥५३


सिद्धार्थकेन श्रीमालं तद्वदेव प्रजायते।

पञ्चानां राजयोग्यानां स्युश्चतुश्शालवेश्मनाम् ॥५४


सप्तशालानि संयोगादेकशालद्विशालयोः।

युज्यते सर्वतोभद्रं सिद्धाथं च यदा गृहम् ॥५५


एकशालेन जायेत श्रीपदं श्रीपदं तथा।

सर्वतोभद्र गेहस्य यमसूर्यैकशालयोः ॥५६


योगेन श्रीफलं नाम स्याद्गृहं श्रीफलावहम्।

सर्वतोभद्र दण्डाभ्यामेकशालं युतं यदा ॥५७


श्रीस्थलं नाम भवनं तदा स्यादास्पदं श्रियः।

स्यादेकशाले मिलिते सर्वतोभद्र वातयोः ॥५८


लक्ष्मीनिवासभवनं गृहं श्रीतनुसंज्ञितम्।

यदैकशालं सिद्धार्थं वर्धमानं च युज्यते ॥५९


श्रीपर्वताभिधानं स्यात्तदानीं भवनोत्तमम्।

यमसूर्यस्य योगेन वर्धमानैकशालयोः ॥६०


श्रीवर्धनं नाम गृहं श्रियो वृद्धिकरं भवेत्।

दण्डं च वर्धमानं च सैकशालं यदा भवेत् ॥६१


तदा श्रीसङ्गमं नाम भवेद्भवनमुत्तमम्।

यदैकशालं वाताख्यं वर्धमानं च युज्यते ॥६२


भवनं श्रीप्र्सङ्गाख्यं नृपयोग्यं तदा भवेत्।

सिद्धार्थमेकशालेन नन्द्यावर्तेन चान्वितम् ॥६३


श्रीभारं नाम भवनं भवेद्भूपालसेवितम्।

नन्द्यावर्तस्य योगेन यमसूर्यैकशालयोः ॥६४


राज्ञां सुखावहं वेश्म श्रीभारमिति च स्मृतम्।

श्रीशैलमेकशालेन स्यान्नन्द्यावर्तदण्डयोः ॥६५


योगाद्भोगावहं राज्ञां सप्तशालं गृहोत्तमम्।

एकशालस्य योगेन स्यान्नन्द्यावर्तवातयोः ॥६६


श्रीखण्डं नाम भवनं भूभृतां भूतिकृद्भवेत्।

सिद्धार्थस्यैकशालेन संयोगाद्रुचकस्य च ॥६७


श्रीषण्डं नामतो वेश्म भवेद्योग्यं महीभृताम्।

रुचकस्यैव योगेन यमसूर्यैकशालयोः ॥६८


स्याच्छ्रीनिधानं श्रीकुण्डं तस्य दण्डैकशालयोः।

वातैकशालरुचकैर्युक्तैः श्रीनाभमुच्यते ॥६९


भवनं भूमिपालानां तद्भवेद्भूतिदायकम्।

एकशालेन युज्येते सिद्धार्थस्वस्तिके यदा ॥७०


श्रीप्रियं स्यात्तदा वेश्म सन्ततं वल्लभं श्रियः।

यमसूर्यैकशालाभ्यां स्वस्तिकं युज्यते यदा ॥७१


तदा श्रीकान्तमित्याहुर्भवनं भूभृतां हितम्।

एकशालेन संयोगो दण्डस्वस्तिकयोर्यदा ॥७२


श्रीमतं नामतो वेश्म तदा स्याद्विजयावहम्।

वातस्वस्तिकसंयोगमेकशालं यदा व्रजेत् ॥७३


श्रीप्रदत्तमिति प्राहुस्तदा वेश्म महीभृताम्।

एकैकस्य द्विभेदत्वाच्चत्वारिंशदियं भवेत् ॥७४


एवमत्र प्रकाराः स्युश्चत्वारिंशद्युताष्टभिः।

यदा त्रिशालं भवनं चतुश्शालेन युज्यते ॥७५


तदापि सप्तशालं स्याच्चतुर्धेदं समासतः।

पञ्चानां राजगेहानां मिलत्येकतमस्य चेत् ॥७६


त्रिशालं स्यात्तदा सप्तशालं विंशतिभेदवत्।

हिरण्यनाभभोगेन सर्वतोभद्र मन्दिरम् ॥७७


श्रीवत्सं जनयेद्वेश्म नरेन्द्रा णां हितावहम्।

श्रीवृक्षं सर्वतोभद्रे सुक्षेत्रे मिलिते भवेत् ॥७८


चुल्लीयुक्ते पुनस्तस्मिन् श्रीपालं नाम जायते।

पक्षघ्ने सर्वतोभद्र युक्ते श्रीकण्ठमुच्यते ॥७९


हिरण्यनाभे श्रीवासं वर्धमानयुते भवेत्।

श्रीनिवासं तु सुक्षेत्रे वर्धमानेन मिश्रिते ॥८०


वर्धमानेन चुल्ल्या च गृहं श्रीभूषणं विदुः।

पक्षघ्नं वर्धमानेन यदा संयोगमृच्छति ॥८१


तदा श्रीमण्डनं नाम जायते भवनोत्तमम्।

जाते हिरण्यनाभस्य नन्द्यावर्तेन सङ्गमे ॥८२


स्याद्वेश्म श्रीकुलं नाम श्रियः कुलनिकेतनम्।

नन्द्यावर्तेन सुक्षेत्रे युक्ते श्रीगोकुलं भवेत् ॥८३


नन्द्यावर्तस्य चुल्ल्याश्च योगे श्रीस्थावरं गृहम्।

नन्द्यावर्तस्य पक्षघ्नयोगे कुम्भं प्रजायते ॥८४


हिरण्यनाभरुचकयोगे स्याच्छ्रीसमुद्गकम्।

श्रीनन्दं नाम सुक्षेत्रे रुचकाख्येन संयुते ॥८५


चुल्ल्यां रुचकयुक्तायां श्रीह्रदं नाम जायते।

श्रीधरं नाम पक्षघ्ने भवेद्रुचकसंयुते ॥८६


हिरण्यनाभेन युते स्वस्तिके श्रीकरण्डकम्।

सुक्षेत्रेण युते तस्मिन् श्रीभाण्डागारसंज्ञितम् ॥८७


चुल्लीयुते श्रीनिलयं भवेन्नरपतिप्रियम्।

स्वस्तिकस्य यदा योगः पक्षघ्नेन प्रजायते ॥८८


श्रीनिकेतनसंज्ञं स्यात्तदा नृपतिमन्दिरम्।

उक्तानि सप्तशालानि नामलक्षणयोगतः ॥८९


सर्वाणि सार्वभौमानां नृपाणां मन्त्रिणामपि।

भवन्ति च सतां वित्तयशोविजयवृद्धये ॥९०


एकादिमूषावहनप्रभेदादथ वेश्मनाम्।

एतेषां सप्तशालानां ब्रूमः संख्यामनुक्रमात् ॥९१


वहत्येकापि नो यत्र मूषैकं तद्भवेद्गृहम्।

विभद्र मेकभद्रा णि विजानीयाच्चतुर्दश ॥९२


द्विभद्र वेश्मनां सैका नवतिः परिकीर्तिता।

भवनानां त्रिभद्रा णां चतुःषष्टिः शतत्रयम् ॥९३


सहस्रमेकाभ्यधिकं स्याच्चतुर्भद्र वेश्मनाम्।

भवतः पञ्चभद्रा णां द्वे सहस्रे द्विसंयुते ॥९४


षड्भद्रा णां सहस्राणि त्रीणि त्रीणि गृहाणि च।

द्वात्रिंशता चतुस्त्रिंशत्सप्तभद्र शतानि च ॥९५


अष्टभद्रा णि षड्भद्र सङ्ख्यातुल्यानि जायते।

गृहाणां नवभद्रा णां द्वे सहस्रे तथा द्वयम् ॥९६


सहस्रं दशभद्रा णामेकोत्तरमुदाहृतम्।

तथैकादशभद्रा णां चतुष्षष्ट्या शतत्रयम् ॥९७


सैका द्वादशभद्रा णां नवतिर्वेश्मनां भवेत्।

स्युस्त्रयोदशभद्रा णि गृहाणीह चतुर्दश ॥९८


यच्चतुर्दशभिर्भद्रै रेकमेव हि वेश्म तत्।

इत्येषां सप्तशालानां सहस्राण्यत्र षोडश ॥९९


एकोनत्रिंशती तद्वदशीतिश्चतुरुत्तरा।

इदानीमष्टशालानि भवनान्यभिदध्महे ॥१००


बहिरन्तश्चतुःशालद्वयादेकं समासतः।

अन्यानि सर्वभद्रा दिद्वयसंयोगतो दश ॥१०१


एकोनत्रिंशता क्षेत्रं चतुरश्रं विभाजयेत्।

भागद्वयेन मूषा स्याच्छाला भागचतुष्टयात् ॥१०२


कुर्वीत पञ्चभिर्भागैस्तन्मध्येऽङ्गणवापिकाम्।

चतस्रश्च प्रतिदिशं मूषाः स्युस्तत्र वास्तुनि ॥१०३


शालयोनं सप्तशालं षट्शालं द्वितयोज्झितम्।

त्रिहीनं पञ्चशालं स्यादष्टशालमिदं क्वचित् ॥१०४


तुल्यत्रिशालद्वितयं द्विशालेन युतं यदा।

अष्टौ तदाष्टशालानि गृहाण्यन्यानि निर्दिशेत् ॥१०५


मूषाव्यूढिवशादष्टशालानामथ कथ्यते।

सङ्ख्या तत्र विभद्रं स्यादवहन्मूषसंज्ञितम् ॥१०६


षोडशैवैकभद्रा णि द्विभद्रा णां शतं विदुः।

विंशं षष्ट्या त्रिभद्रा णां विज्ञेयं शतपञ्चकम् ॥१०७


अष्टादशाहुर्विंशानि चतुर्भद्र शतानि च।

पञ्चभद्र सहस्राणि चत्वारि स्युः शतत्रयम् ॥१०८


अष्टषष्टिश्च गेहानि तानि सम्यग्विभावयेत्।

सहस्राष्टकमष्टौ च षड्भद्रा णि प्रचक्षते ॥१०९


एकादशसहस्राणि तथा शतचतुष्टयम्।

जानीयात्सप्तभद्रा णि चत्वारिंशद्गृहाणि च ॥११०


द्वादशैवाष्टभद्रा णां सहस्राणि शताष्टकम्।

सप्तत्याभ्यधिकं प्राहुर्वास्तुविद्याविशारदाः ॥१११


एकादशसहस्राणि तथा शतचतुष्टयम्।

चत्वारिंशच्च गेहानि नवभद्रा णि सङ्ख्यया ॥११२


अष्टौ स्युर्दशभद्रा णां सहस्राण्यष्टभिः सह।

तथैकादशभद्रा णां सङ्ख्या स्यात्पञ्चभद्र वत् ॥११३


अष्टादशशतानि स्युर्विंशतिर्भवनानि च।

इति द्वादशभद्रा णां सङ्ख्या भवति वेश्मनाम् ॥११४


स्यात्त्रयोदशभद्रा णां षष्ट्यग्रं शतपञ्चकम्।

स्याच्चतुर्दशभद्रा णां विंशत्यभ्यधिकं शतम् ॥११५


वेश्मानि स्युस्तथा पञ्चदशभद्रा णि षोडश।

एकमेव हि विज्ञेयं गृहं षोडशभद्र कम् ॥११६


पञ्चषष्टिसहस्राणि षट्त्रिंशं शतपञ्चकम्।

गृहाणामष्टशालानां भवत्येकत्र सङ्ख्यया ॥११७


स्यात्समानचतुश्शालद्वययोगात्समासतः।

एकैकशालयोग्गाच्च नवशालचतुष्टयम् ॥११८


सर्वतोभद्र मुख्यानां मिथो द्वितययोगतः।

एकैकशालयोगाच्च चत्वारिंशत्तथापरा ॥११९


तुल्यत्रिशालत्रितयोगेन च चतुष्टयम्।

गृहाणां नवशालानामन्यदुक्तं पुरातनैः ॥१२०


संस्थानमुक्तं गेहानां नवशालात्मनामिदम्।

मूषावहनभेदेन तत्सङ्ख्या कथ्यतेऽधुना ॥१२१


अवहन्मूषमेकं स्याद्वहन्त्याष्टादशैकया।

द्वाभ्यां शतं त्रिपञ्चाशदधिकं वेश्मनां भवेत् ॥१२२


तिसृभिः स्युः शतान्यष्टौ सह षोडशभिर्गृहैः।

षष्ट्या सहस्रत्रितयं ताभिश्चतसृभिर्भवेत् ॥१२३


पञ्चाशीतिशतान्यष्टषष्टियुक्तानि पञ्चभिः।

वहन्तीभिः प्रजायन्ते मूषाभिरिह वेश्मनाम् ॥१२४


अष्टादशसहस्राणि तथा पञ्चशतानि च।

चतुःषष्टिं च गेहानि मूषाभिः षड्भिरादिशेत् ॥१२५


एकत्रिंशत्सहस्राणि सहितान्यष्टभिः शतैः।

चतुर्विंशतियुक्तानि मूषाभिः सप्तभिर्विदुः ॥१२६


चत्वारिंशत्सहस्राणि त्रिसहस्री च वेश्मनाम्।

शतानि चाष्टपञ्चाशत्सप्त मूषाभिरष्टभिः ॥१२७


चत्वारिंशत्सहस्राणि सहस्राण्यष्ट षट्शती।

विंशतिं चैव मूषाभिर्गृहाणां नवभिर्विदुः ॥१२८


चत्वारिंशत्सहस्राणि सहस्रत्रयमोकसाम्।

मूषाभिर्दशभिः साष्टपञ्चाशच्छतसप्तकम् ॥१२९


एकत्रिंशत्सहस्राणि चतुर्विंशच्छताष्टकम्।

मूषाभिरेकादशभिर्गृहाणां मुनयो जगुः ॥१३०


अष्टादशसहस्राणि तथा पञ्चशतानि च।

धाम्नां द्वादशमूषाणां चतुःषष्टिश्च जायते ॥१३१


भवन्त्यष्टौ सहस्राणि तथा पञ्चशतानि च।

स्यात्त्रयोदशमूषाणामष्टषष्टिश्च वेश्मनाम् ॥१३२


स्याच्चतुर्दशमूषाणां त्रिसहस्री सषष्टिका।

मूषाभिः पञ्चदशभिः षोडशाष्टशती तथा ॥१३३


धाम्नां षोडशमूषाणां त्रिपञ्चाशच्छतं भवेत्।

स्युः सप्तदशमूषाणि वेश्मान्यष्टादश स्फुटम् ॥१३४


मूषाभिरष्टादशभिर्वेश्मैकं तद्विदो विदुः।

लक्षद्वयं सहस्राणि द्वाषष्टिश्च शतान्विता ॥१३५


वेश्मनां नवशालानां चत्वारिंशच्चतुर्युता।

स्यात्समानचतुःशालद्वययोगात्समासतः ॥१३६


एकेन च द्विशालेन दशशालचतुष्टयम्।

सर्वतोभद्र मुख्यानां मिथो द्वितययोगतः ॥१३७


एकद्विशालयोगाच्च चत्वारिंशत्तथापरा।

तुल्यत्रिशालत्रितयमेकशालयुतं यदा ॥१३८


साधारणं तदान्यत्स्याद्दशशालचतुष्टयम्।

तुल्ये त्रिशाले युज्येते सर्वभद्रा दिभिर्यदा ॥१३९


तदान्या दशशालानां समुत्पद्येत विंशतिः।

तेष्वेकमवहन्मूषं विंशतिर्मूषयैकया ॥१४०


वहन्त्या स्यादुभाभ्यां तु नवत्यभ्यधिकं शतम्।

चत्वारिंशानि तिसृभिः शतान्येकादश ध्रुवम् ॥१४१


चत्वारि स्युश्चतसृभिः सहस्राणि शताष्टकम्।

चत्वारिंशच्च गेहानि जायन्ते पञ्चभिः सह ॥१४२


पञ्चभिस्तु सहस्राणि मूषाभिर्दशपञ्च च।

जायन्ते सचतुष्काणि तथा पञ्चशतानि च ॥१४३


अष्टात्रिंशत्सहस्राणि षड्भिः सप्त शतानि च।

षष्ट्युत्तराणि जायन्ते वेश्मनां परिसङ्ख्यया ॥१४४


गृहाणां स्युः सहस्राणि सप्तभिः सप्तसप्ततिः।

शतपञ्चकमन्यच्च भवेद्विंशतिसंयुतम् ॥१४५


लक्षमेकं सहस्राणि पञ्चविंशतिरष्टभिः।

शतानि नव जायन्ते सप्तत्यभ्यधिकानि च ॥१४६


लक्षमेकं सहस्राणि सप्तषष्टिः शतानि च।

नव स्युः षष्टियुक्तानि नवमूषाप्रचारतः ॥१४७


लक्षं चतुरशीतिश्च सहस्राणि शतानि च।

सप्त स्युर्दशभिस्तद्वद्पञ्चाशच्च षडुत्तरा ॥१४८


लक्षमेकं सहस्राणि सप्तषष्टिश्च वेश्मनाम्।

शतानि चैकादशभिः षष्ट्यानि नव निर्दिशेत् ॥१४९


लक्षं तथा सहस्राणि जायन्ते पञ्चविंशतिः।

शतानि च द्वादशभिर्नव तद्वच्च सप्ततिः ॥१५०


सहस्राणि निकेतानां सङ्ख्यया सप्तसप्ततिः।

सविंशतिः पञ्चशती त्रयोदशभिरीरिता ॥१५१


अष्टात्रिंशत्सहस्राणि तथा सप्तशतानि च।

स्युश्चतुर्दशभिः षष्ट्या वेश्मनामन्वितानि च ॥१५२


स्यात्पञ्चदशसाहस्री शतैः पञ्चभिरन्विता।

मूषाभिः पञ्चदशभिश्चत्वारि भवनानि च ॥१५३


स्युः सहस्राणि चत्वारि तद्वदष्टौ शतानि च।

तथा षोडशमूषाणां चत्वारिंशच्च पञ्च च ॥१५४


सहस्रं सप्तदशभिः शतमेकं च वेश्मनाम्।

चत्वारिंशच्च वेश्मानि भवन्ति परिसङ्ख्यया ॥१५५


शतं नवत्यभ्यधिकमष्टादशभिरुच्यते।

भवत्येकोनविंशत्या मूषाणां वेश्मविंशतिः ॥१५६


एकमेव गृहं मूषाविंशतेर्वहनाद्भवेत्।

सङ्ख्येयं दशशालानां मूषाभेदप्रचारतः ॥१५७


प्रयुतं चत्वार्ययुतान्यष्टसहस्राणि पञ्च शतानि च।

षट्सप्ततिर्गृहाणि च दशशालेष्वेकसङ्ख्येयम् ॥१५८


चतुःशालादिगेहानि यावन्त्यादशशालतः।

चतुर्गुणानि प्रत्याशं तान्यलिन्देन निर्दिशेत् ॥१५९


एकद्वित्रिचतुःशालवेश्मनां सङ्गमान्मिथः।

गृहाणि दशशालान्तान्येवमुक्तानि विस्तरात् ॥१६०


समारभ्य चतुःशालं दशशालान्तवेश्मनाम्।

सङ्ख्यामिदानीमैक्येन सर्वेषामभिदध्महे ॥१६१


मूषाभेदेन लक्षाणि स्युस्त्रयोदश वेश्मनाम्।

सहस्राण्यष्टनवतिस्तथा वेश्मानि षोडश ॥१६२


मूषासंस्थानभेदेन भिन्नानां वेश्मनां पुनः।

जायन्ते कोटिशो भेदा यस्मान्नोक्तानि तान्यतः ॥१६३


इत्थं चतुःशालमुखानि वेश्मान्युक्तानि यावद्दशशालमत्र।

शालाप्रभेदेन मिथोऽभिषङ्गात्सङ्ख्या च तेषामुदिता यथावत् ॥१६४


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः।