प्रमुखा विकल्पसूचिः उद्घाट्यताम्

समराङ्गणसूत्रधार अध्यायसूची

अथ आयादिनिर्णयो नाम षड्विंशोऽध्यायः।

इदानीमभिधास्यामः सूत्रपातविधेः क्रमम्।

शस्ते मासि सिते पक्षे विदध्यात्तं शुभेऽहनि ॥१


चैत्रे शोकाकुलो भर्ता वैशाखे च धनान्वितः।

ज्येष्ठे गृही विपद्येत नश्यन्ति पशवः शुचौ ॥२


श्रावणे धनवृद्धिः स्यान्नभस्ये न वसेद्गृहे।

कलहश्चाश्विने मासि भृत्या नश्यन्ति कार्त्तिके ॥३


मार्गशीर्षे धनप्राप्तिः सहस्ये कामसम्पदः।

माघे वह्निभयं चैव फाल्गुने श्रीरनुत्तमा ॥४


द्वितीया पञ्चमी मुख्या सप्तमी नवमी तथा।

एकादशीत्रयोदश्यस्तिथयः स्युः शुभावहाः ॥५


चन्द्र ताराबलं भर्तुरनुकूलं च शस्यते।

इयं हि सूत्रपाताख्या क्रिया प्रासादकर्मणि ॥६


कार्या पुरनिवेशे च प्रारम्भे भवनस्य च।

शिलानिवेशने द्वारस्तम्भोच्छ्रायादिकेषु च ॥७


आद्रि येत सिते पक्षे शोभने लग्न एव हि।

रवौ कन्यातुलालिस्थे गृहं वरुणदिङ्मुखम् ॥८


न कुर्यात्तद्धि शून्यं स्यान्न च वृद्धिर्भवेत्प्रभोः।

न दक्षिणमुखं कुम्भमृगधन्विस्थिते रवौ ॥९


कुर्वीत निष्फलं तत्स्यान्नृपदण्डवधादिकृत्।

न मीनवृषमेषस्थे कुर्वीत प्राङ्मुखं रवौ ॥१०


तद्धनघ्नं कलिक्षुद्र राजचौरार्तिकृद्यतः।

रवौ मिथुनसिंहस्थे न कर्किस्थेऽप्युदङ्मुखम् ॥११


कुर्यात्तद्धि दरिद्र त्वं दद्याच्चरणदासताम्।

आयव्ययांशकर्क्षाणि प्रवक्ष्यामोऽथ वेश्मनाम् ॥१२


गृहमानवशात्सम्यक्कर्तुः स्थानबलाबलम्।

नगरे वा पुरादौ वा दण्डैर्मानं विधीयते ॥१३


तदलाभे करैः कार्यं सम्यगायविशुद्धये।

यत्र हस्तैर्मितिः क्षेत्रे तत्रायो हस्तसंश्रितः ॥१४


क्षेत्रालाभे तु तत्रैव ग्राह्यः स स्यादिहाङ्गुलैः।

अङ्गुलैस्तु मिते क्षेत्रे सोऽङ्गुलैस्तदलाभतः ॥१५


पादैर्वाथ यवैर्वापि ग्राह्यः क्षेत्रानुसारतः।

गृहेषु कर्महस्तेन मानं स्वामिकरेण वा ॥१६


देवतानां तु धिष्ण्येषु कर्महस्तेन केवलम्।

दैर्घ्यं हन्यात्पृथुत्वेन हरेद्भागं ततोऽष्टभिः ॥१७


यच्छेषमायं तं विद्याच्छास्त्रदृष्टं ध्वजादिकम्।

ध्वजो धूमोऽथ सिंहश्च श्वा वृषः खरकुञ्जरौ ॥१८


ध्वाङ्क्षश्चेति त उद्दिष्टाः प्राच्याद्यासु प्रदक्षिणम्।

अन्योन्याभ्हिमुखास्ते च कामं स्वच्छन्दचारिणः ॥१९


पूर्वाचार्यैः समुद्दिष्टा आयवृद्धिविधायकाः।

वृषसिंहगजाः शस्ताः प्रासादपुरवेश्मसु ॥२०


ध्वजेऽर्थलाभः सन्तापो धूमे भोगो मृगाधिपे।

कलिः शुनि धनं धान्यं वृषे स्त्रीदूषणं खरे ॥२१


गजे भद्रा णि दृश्यन्ते ध्वाङ्क्षे तु मरणं ध्रुवम्।

वृषस्थाने गजं कुर्यात्सिंहं वृषभहस्तिनोः ॥२२


न कुर्याद्वृषमन्यत्र शस्यते सर्वतो ध्वजः।

कल्याणं कुरुते सिंहो ब्राह्मणस्य विशेषतः ॥२३


क्षत्त्रियस्य गजः शस्तो वृषभः शस्यते विशः।

शूद्र स्य ध्वज एवैकः शस्यतेऽर्थप्रदः सदा ॥२४


एवमेते गृहादीनामायाः सर्वे प्रकीर्तिताः।

प्रदद्यादासने सिंहमातपत्रेषु तु ध्वजम् ॥२५


चिह्नेष्वपि च सर्वेषु चामरव्यजनादिषु।

सिंहं गजं वा शस्त्रेषु रथेषु कवचेषु च ॥२६


सार्यश्वगजपर्याणेष्विभं वृषभमेव च।

अर्थधारणपात्रेषु शयनेषु मतङ्गजम् ॥२७


याने च वाहने चैव मतिमान् योजयेद्गजम्।

प्रासादप्रतिमालिङ्गपीठमण्डपवेदिषु ॥२८


कुण्डेषु च ध्वजं दद्याद्देवोपकरणेषु च।

आयो गृहवदुद्वाहवेदीमण्डपयोर्भवेत् ॥२९


महानसे वृषं दद्याज्जलाधारे जलाशये।

स्थाल्यां भोजनपात्रे च कोष्ठागारेऽन्नधारणे ॥३०


एतद्गृहे तथा दद्याद्गृहोपकरणेषु च।

वृषभं गजशालायां प्रदद्याद्गजमेव वा ॥३१


वृषं तुरगशालासु गोशालागोकुलेषु च।

गजाश्ववृषशालासु सिंहं यत्नेन वर्जयेत् ॥३२


अधमानां खरध्वाङ्क्षधूमश्वानः शुभावहाः।

धूमोऽग्निजीविनां शस्तो ध्वाङ्क्षः सन्न्यासिनां हितः ॥३३


स्वगणानां श्वपाकानां स्ववेश्मानां खरः शुभः।

नटनर्तकवेश्मेषु पण्यस्त्रीणां खरः शुभः ॥३४


कुलालरजकादीनां तथा गर्दभजीविनाम्।

गृहादिषु क्षेत्रफलं गणयेदष्टभिर्भजेत् ॥३५


त्रिघनेन भजेच्छेषं नक्षत्रेऽष्टहृते व्ययः।

पिशाचो राक्षसो यक्ष इति त्रेधा व्ययो मतः ॥३६


साम्याधिक्यन्यूनताभिरायतः स्याद्यथाक्रमम्।

व्ययं क्षेत्रफले क्षिप्त्वा गृहनामाक्षराणि च ॥३७


भागं त्रिभिर्हरेत्तत्र यच्छेषं सॐऽशको भवेत्।

चतुरङ्गो यथा मन्त्रो मुख्यो लग्ने नवांशकः ॥३८


तथा गृहादिषु प्रोक्तं मुख्यत्वेनांशकत्रयम्।

इन्द्रो यमश्च राजा च त्रयो नामाभिरंशकाः ॥३९


स्वनामतुल्यफलदा विज्ञातव्यास्त्रयोऽपि च।

गणयेत्स्वामिनक्षत्राद्यावत्स्याद्भवनस्य भम् ॥४०


नवभिर्भाजिते तस्मिञ्शेषं तारा प्रकीर्तिता।

जन्मसम्पद्विपत्क्षेमपापसाधकनैधनीः ॥४१


मैत्रीपरममैत्र्यौ च प्राहुः संज्ञाः समाः फले।

त्रिसप्तपञ्चमीर्भर्तुर्गृहतारा विवर्जयेत् ॥४२


आद्याद्वितीयाष्टम्यस्तु ताराः स्युरिह मध्यमाः।

तथा ऋक्षेऽपि चानिष्टे चन्द्रे ऽष्टमगतेऽपि च ॥४३


नयते दुरितं तारा चतुःषण्णवती नृणाम्।

सुरराक्षसमर्त्याख्या ऋक्षाणां स्युर्गणास्त्रयः ॥४४


यद्गणर्क्षो भवेद्भर्ता तद्गणर्क्षं गृहं शुभम्।

मृगाश्विरेवतीस्वात्यो मैत्रं पुष्यपुनर्वसू ॥४५


हस्तः श्रवण इत्येष देवाख्यो नवको गणः।

विशाखा कृत्तिकाश्लेषा नैऋतं वारुणं मघा ॥४६


चित्रा ज्येष्ठा धनिष्ठेति नवको राक्षसो गणः।

आर्द्राभरण्यौ रोहिण्यौ तिस्रः पूर्वास्तथोत्तराः ॥४७


इति नक्षत्रनवकं विज्ञेयं मानुषे गणे।

गणसाम्यं शुभा तारा यस्यायातृ व्ययोऽल्पकः ॥४८


हितॐऽशकश्च तद्वेश्म भर्तुः शुभफलप्रदम्।

आयो व्ययश्च योनित्वं ताराश्च भवनांशकाः ॥४९


गृहनामेति चिन्त्यानि करणानि गृहस्य षट्।

त्रिभिः शुभैः शुभं वेश्म द्वाभ्यामेकेन चाशुभम् ॥५०


करणैश्चतुराद्यैस्तु शुभैरतिशुभं भवेत्।

न समायव्ययं वेश्म नाव्ययं नाधिकव्ययम् ॥५१


न द्वितीयांशमसदृग्योनिभं च न कारयेत्।

भर्तृतुल्याभिधानं च गृहं दूरात्परित्यजेत् ॥५२


समसप्तकमेकर्क्षं तृतीयैकादशं तथा।

चतुर्थदशकं चेति कर्तव्यं मन्द्रि रं सदा ॥५३


षट्कोष्ठकं त्रिकोणं च वर्ज्यं द्विर्द्वादशं तथा।

षट्कोष्ठके मृतिर्दैन्यं वियोगश्च भवेद्गृहे ॥५४


त्रिकोणे वसतां दुःखं वैधव्यं च प्रजायते।

द्विर्द्वादशे पुत्रपौत्रगुरुबन्धुधनक्षयः ॥५५


हृतेऽष्टभिः क्षेत्रफले खनेत्रशशिभाजिते।

शेषं जीवितमेतस्मिन् पञ्चभक्ते भवेन्मृतिः ॥५६


सभुजं सहषड्दारु मुखमण्डपसंयुतम्।

आयामतः पृथुत्वाच्च मानं कृत्वा विभाजयेत् ॥५७


सर्वतः शोधितं वास्तु यच्च सम्यङ्मितं भवेत्।

स्वामिनस्तद्भवेद्धन्यं स्थपतेश्च यशस्करम् ॥५८


अर्चितं वर्धते वास्तु नारीभिः पशुभिर्नरैः।

कीर्त्त्यायुर्धनधान्यैश्च प्रमोदैस्तु महोत्सवैः ॥५९


मेरुश्च खण्डमेरुश्च पताका सूचिका तथा।

उद्दिष्टं नष्टमिति षट् छन्दांसीह प्रचक्षते ॥६०


एकाद्येकोत्तरान् कोष्ठान् विन्यसेदिच्छयात्मनः।

आद्यादारभ्य तद्वृद्धिर्यथा स्यात्पार्श्वयोः समम् ॥६१


मेरोरेकाधिका सङ्खया शरावस्येव चाकृतिः।

प्रथमे कोष्ठके रूपमन्तं यावच्च पार्श्वयोः ॥६२


आसनोर्ध्वस्थयोर्न्यस्येन्मध्ये सङ्कलितं पृथक्।

तस्मिन्निष्टविकल्पानां सङ्ख्या स्यादन्त्यपङ्क्तिगा ॥६३


खण्डमेरुं तु विन्यस्येत्तद्वदेवैकपार्श्वतः।

प्रवृद्धैः कोष्टकैस्तत्राप्यङ्काः प्राग्वत्फलं तथा ॥६४


अथापरः खण्डमेरुः कोष्ठांस्तत्रेष्टसङ्ख्यया।

कृत्वैकापचितान् वामविभागापचितानधः ॥६५


एकाद्येकोत्तरानङ्कानाद्यपङ्क्तौ निवेशयेत्।

अन्यासु पङ्क्तिष्वाप्रान्तं शून्यान्याद्येषु कल्पयेत् ॥६६


द्वितीयेषु च कोष्ठेषु तासामेकैकमावयेत्।

द्वितीयायां तृतीयादिकोष्ठकेषु यथाक्रमम् ॥६७


विकर्णयोगजानन्यानूर्ध्वाधोयोगसंभवान्।

फलं विकर्णयोगोत्थमेकस्मिन् परिकल्पयेत् ॥६८


एकाधिकानभीष्टायाः सङ्ख्यायास्तिर्यगालिखेत्।

कोष्ठानेकांच रूपादींस्तन्मध्ये द्विगुणोत्तरान् ॥६९


एकोनं पृष्ठतस्तेषामेकं द्विगुणमग्रतः।

नातिक्रामेत्परां सङ्ख्यां पताकाछन्द उच्यते ॥७०


तद्विनेष्टाद्यगा सङ्ख्येत्येकाद्यैस्तैस्ततो गृहे।

न्यस्ताङ्कसङ्ख्याः सङ्ख्याः स्युरलिन्दाद्यैः प्रकल्पिताः ॥७१


एकैकमिष्टस्थानेषु लिखेत्सैकेश्वतः परम्।

अन्त्यादृते पूर्वपूर्वयुक्तेनायोजयेत्परम् ॥७२


अन्त्यादारभ्य तद्वनावेकाद्येषु च पर्ययात्।

अलिन्दादिषु यत्र स्यात्सङ्ख्या सूचीं तु तां विदुः ॥७३


उद्दिष्टे स्थापयेत्सङ्ख्यामुद्दिष्टां सम्भवेच्च ताम्।

दलयेद्रू पयुक्तां तु दलयेन्नाम सम्भवेत् ॥७४


लघुस्वरूपदलने सैकार्धे करणे गुरुः।

यावदिष्टपदापितः स्याल्लघवोऽलिन्दकोदयः ॥७५


कृत्वा छन्दः समुद्दिष्टं तदन्ते लघुनि द्विकम्।

न्यसेदेकं गुरूणां च द्विगुणं द्विगुणं ततः ॥७६


व्यत्ययाल्लघुनः स्थाने द्विगुणादेककं गुरोः।

कुर्यात्तमाद्यस्थानाङ्कसङ्ख्यं नष्टे गृहं भवेत् ॥७७


प्राप्तस्यैकं कोष्ठमेकैकवृद्ध्या न्यस्येदूर्ध्वं पङ्क्तयो यावदिष्टाः।

इष्टानेकादील्लिखेदानुपूर्व्या कर्णेनाधः शून्यरूपे च दद्यात् ॥७८


कर्णस्थाङ्कश्लेषतोऽङ्के भवेद्यस्तं विन्यस्येत्कोष्ठकेषु क्रमेण।

उद्दिष्टाङ्को भद्र सङ्ख्यानि मध्ये याभ्यः कर्णश्लेषतो मूषिकास्ताः ॥७९


एकादिषु द्विगुणितेष्विह यावदिष्टमूषाक्रमव्युपहितेष्वथ तेषु विद्यात्।

उद्दिष्टवेश्मकृतनिर्गममार्गमूषासत्काङ्कसैकयुतिनिर्मितसङ्ख्यमोकः ॥८०


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे आयव्ययनक्षत्रराशिफलतद्योगताराङ्कयोनितच्छन्दोगनिर्णयो नाम षड्विंशोऽध्यायः।