प्रमुखा विकल्पसूचिः उद्घाट्यताम्

समराङ्गणसूत्रधार अध्यायसूची

अथ शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः।

इदानीमभिधास्यामः शयनासनलक्षणम्।

शुभाशुभपरिज्ञानं येन सम्यक्प्रजायते ॥१


मूत्रे मुहूर्ते पुष्यस्थे शीतरश्मौ शुभेऽहनि।

सम्पूज्य देवताः सम्यक्कर्मारम्भं समाचरेत् ॥२


वृक्षास्तत्र प्रशस्यन्ते चन्दनस्तिनिशोऽर्जुनः।

तिन्दुकः सालशाकौ च शिरीषासनधन्वनाः ॥३


हरिद्रुर्देवदारुश्च स्यन्दनोकौ सपद्मकौ।

श्रीपर्णी दधिपर्णश्च शिंशपान्येऽपि ये शुभाः ॥४


गृहकर्मणि ये नेष्टा वृक्षास्तेऽत्रापि निन्दिताः।

हेम्ना रूयेण चानद्धा गजदन्तेन वा शुभा ॥५


आरकूटेन वा नद्धा शय्या कार्या विचक्षणैः।

पूर्वच्छिन्नं यदा दारु शयनासनहेतवे ॥६


आदीयते तदारम्भे निमित्तान्युपलक्षयेत्।

दध्यक्षतान् पूर्णकुम्भं रत्नानि कुसुमानि वा ॥७


सुगन्धद्र व्यवस्त्राद्यान् मत्स्याश्वयुगलं तथा।

मत्तवारणमन्यांश्च शुभान् वीक्ष्यादिशेच्छुभम् ॥८


कर्माङ्गुलं समुद्दिष्टं वितुषैरष्टभिर्यवैः।

अष्टोत्तरशतं तेषां शय्या ज्येष्ठा महीभुजाम् ॥९


मध्या महीभुजां शय्या शतं स्याच्चतुरुत्तरम्।

शतं कनीयसी प्रोक्ता नृपाणां विजयावहा ॥१०


नवतिर्नृपपुत्रस्य मन्त्रिणः सा षडुज्झिता।

द्वादशोना बलपतेस्त्रिषट्कोना पुरोधसः ॥११


आयामार्धेन विस्तारं सर्वं शय्यासु कल्पयेत्।

यद्वा निजाष्टभागेन षड्भागेनाथवाधिकम् ॥१२


विप्राणां शस्यते शय्या दैर्घ्येणाङ्गुलसप्ततिः।

द्वाभ्यां द्वाभ्यामङ्गुलाभ्यां हीना स्याच्छेषवर्णिनाम् ॥१३


बाहल्यमुत्पलस्य स्यादुत्तमस्याङ्गुलत्रयम्।

अङ्गुलद्वितयं साधं मध्यस्य द्वे कनीयसः ॥१४


बाहल्यमीशादण्डस्य कुर्यादुत्पलसम्मितम्।

सार्धं सपादं सत्र्यंशं तस्य विस्तारमुत्पलात् ॥१५


विस्तारार्धेन शय्यायाः सकुष्यस्य विधीयते।

तत्पादस्योदयो मध्यहीनौ द्विचतुरुज्झितौ ॥१६


अर्धेन मध्यविस्तारान्मध्ये बाहल्यमिष्यते।

त्रिभागहीनमिच्छन्ति पादोनमपि केचन ॥१७


स्थौल्येन पादोऽधः शीर्षादुत्पलेन समो भवेत्।

मध्ये सपादः सार्धश्च तले वृद्धिः क्रमेण सा ॥१८


षड्भागोऽस्याधिको यद्वा मध्ये त्र्यंशाधिकस्तले।

तत्कुष्यमुत्पलत्र्यंशो मूले तस्यार्धमग्रतः ॥१९


उत्सेधतुल्यो विस्तारः कार्यो वा द्व्यङ्गुलाधिकः।

सपत्रकलिकापत्रपुटग्रासविभूषितः ॥२०


कुर्यात्प्रदक्षिणाग्राणि शय्याङ्गानि समन्ततः।

ऊर्ध्वाग्रा निखिलाः पादाः स्वामिनो वृद्धिहेतवे ॥२१


श्रेष्ठैकद्र व्यजा शय्या मिश्रद्र व्या न शस्यते।

एकदारुं प्रशंसन्ति द्विदारुर्भयमावहेत् ॥२२


त्रिदारुघटितायां तु स्वामिनो नियतो वधः।

शय्यायां जायते यस्मात् तस्मात्तां परिवर्जयेत् ॥२३


मूलमग्रेण संयुक्तमपसव्यं विगर्हितम्।

मूलं मूलेन वा विद्धमेकाग्रे द्वे च दारुणी ॥२४


मध्ये व्रणो मृत्युकरस्त्रिभागे व्याधिकारकः।

क्लेशावहश्चतुर्भागे शिरस्थो द्र व्यहानिकृत् ॥२५


निर्दोषगात्रे पर्यङ्के पापस्वप्नो न दृश्यते।

ग्रन्थिकोटरवत्कुर्यात्तस्मान्न शयनासनम् ॥२६


आसनं शयनीयं च ग्रन्थिकोटरवर्जितम्।

बहुपुत्रकरं प्राहुर्धर्मकामार्थसाधनम् ॥२७


आरोहणे प्रचलति शयने कम्पते तथा।

विदेशयानकलहौ ते क्रमेण प्रयच्छतः ॥२८


सुश्लिष्टां तामतः कुर्यान्निर्दोषां वर्णशालिनीम्।

दृढां स्थिरां च स्थपतिः पत्युः कामविवृद्धये ॥२९


निष्कुटं कोलदृक् क्रोडनयनं वत्सनाभकम्।

कालकं बन्धकं चेति छिद्र संक्षेप ईरितः ॥३०


घटवत् सुषिरं मध्ये सङ्कटास्यं च निष्कुटम्।

कोलाक्षं नीडमिच्छन्ति माषनिष्पावमात्रकम् ॥३१


अध्यर्धपर्वदीर्घं च विवर्णं विषमं तथा।

तदिह क्रोडनयनं छिद्र माहुर्महर्षयः ॥३२


भिन्नं पर्वमितं वामावर्तं स्याद्वत्सनाभकम्।

कालकं कृष्णकान्ति स्याद्विनिर्भिन्नं तु बन्धकम् ॥३३


छिद्रं दारुसवर्णं यत्तन्नो शुभकरं तथा।

निष्कुटेऽर्थक्षयः कोललोचने कुलविद्र वः ॥३४


शस्त्राद्भीः क्रोडनयने वत्सनाभे रुजो भयम्।

कालके बन्धकाख्ये च कीटविद्धे च नो शुभम् ॥३५


सर्वत्र प्रचुरग्रन्थि दारु सर्वमनिष्टदम्।

शय्यार्थे कथितैः कॢप्तं दारुभिः शस्तमासनम् ॥३६


उपवेशसुखं मानं प्रशस्ताय प्रकल्पितम्।

पुष्करः सूदहस्तश्च वृत्तोऽङ्गुलचतुष्टयात् ॥३७


आरभ्य विस्तरात्कार्यस्तावद्यावन्नवाङ्गुलम्।

पुष्करव्यासतो दण्डस्तस्य कार्यश्चतुर्गुणः ॥३८


फलकः पुष्करार्धेन तत्तुल्यश्चास्य भूलकः।

स्थूलः स्याच्चतुरंशेन दण्डपुष्करविस्तरात् ॥३९


खातं च पुष्करस्यान्तस्तावद्गाम्भीर्यमिष्यते।

प्रशस्तसारदारूत्थः कर्तव्योऽस्य प्रयोजनम् ॥४०


परिवेषणमन्यच्च पच्यमानानघट्टकम्।

कार्यः कङ्कतकः श्लक्ष्णः प्रशस्तमृदुदारुजः ॥४१


आरभ्य दैर्घ्येणाष्टभ्यः स्याद्यावद्द्वादशाङ्गुलम्।

सार्धाङ्गुलं चतुर्भागं विस्तारेण च दैर्घ्यतः ॥४२


मध्ये च तस्य बाहल्यं विस्ताराष्टांशतो भवेत्।

एकतः स्थूलविस्तारा भवेयुस्तस्य दन्तकाः ॥४३


अन्यतस्तु घनाः सूक्ष्मास्तीक्ष्णाः कार्यास्तथाग्रतः।

मध्ये त्रिभागमुत्सुज्य दन्तका भागयोर्द्वयोः ॥४४


त्रिभिर्भागे हृते तेषां शेषस्तान् विवर्जयेत्।

गजदन्तमयः श्रेष्ठस्तथा शाखोटवृक्षजः ॥४५


मध्यमो दारुभिः शेषैर्जघन्योऽसारदारुजः।

रूपकैः स्वस्तिकाद्यैर्वा स मध्ये स्यादलङ्कृतः ॥४६


यूकाद्यपनये केशविवेके चोपयुज्यते।

अङ्गुलेनाधिके पादात्कार्ये दैर्घ्येण पादुके ॥४७


कृतायां पञ्चधा तस्यां कुर्याद्भागत्रयं पुरः।

पञ्चाद्भागद्वयं तत्र सङ्ग्रहोऽस्या विधीयते ॥४८


अङ्गुलत्रयमुत्सेधो विस्तारोऽङ्घ्रयनुसारतः।

अङ्गुल्यङ्गुष्ठयोर्मध्यभागे मत्स्याद्यलङ्कृतौ ॥४९


कर्तव्यौ कीलकौ काष्ठदन्तशृङ्गादिसम्भवौ।

गजेन्द्र दन्तः श्रीखण्डश्रीपर्ण्यौ मेषशृङ्गिका ॥५०


शस्ताः पादुकयोः शाकक्षीरिणीचिरबिल्विकाः।

इदमिह शयनानामासनानां च लक्ष्म।

प्रकटितमनु दर्व्याः कङ्कतस्यापि सम्यक्।

शुभमथ विपरीतं पादुकानां च विद्वान्।

सकलमिति विदित्वा पूज्यतामेति लोके ॥५१


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे शयनासनलक्षाणं नाम एकोनत्रिंशोऽध्यायः।