प्रमुखा विकल्पसूचिः उद्घाट्यताम्

समराङ्गणसूत्रधार अध्यायसूची

अथ यन्त्रविधानं नामैकत्रिंशोऽध्यायः।

भ्राम्यद्दिनेशशशिमण्डलचक्रशत्सं।

मेतज्जगत्त्रितययन्त्रमलक्ष्यमध्यम् ।।

भूतानि बीजमखिलान्यपि सम्प्रकल्प्य।

यः सन्ततं भ्रमयति स्मरजित्स वोऽव्यात् ॥१


यन्त्राध्यायमथ ब्रूमो यथावत्प्रक्रमागतम्।

धर्मार्थकाममोक्षाणां यदेकमिह कारणम् ॥२


यदृच्छया प्रवृत्तानि भूतानि स्वेन वर्त्मना।

नियम्यास्मिन् नयति यत्तद्यन्त्रमिति कीर्तितम् ॥३


स्वरसेन प्रवृत्तानि भूतानि स्वमनीषया।

कृतं यस्माद्यमयति तद्वा यन्त्रमिति स्मृतम् ॥४


तस्य बीजं चतुर्धा स्यात् क्षितिरापोऽनलोऽनिलः।

आश्रयत्वेन चैतेषां विजयदप्युपयुज्यते ॥५


भिन्नः सूतश्चकैरुक्तस्ते च सम्यङ् न जानते।

प्रकृत्या पार्थिवः सूतस्नायात् तत्र क्रिया भवेत् ॥६


पार्थिवत्वादयमतो न कदाचिद्विभिद्यते।

द्र व्यत्वादग्निजत्वं हि यद्यस्य परिकल्प्यते ॥७


तदा विरोधो नैवास्य पावकेनोपपद्यते।

गन्धाद् वह्नेर्विरोधाच्च स्थिता पार्थिवता बलात् ॥८


आत्मैव बीजं सर्वेषां प्रत्येकमपराण्यपि।

एवं भेदा भवन्त्येषां भूयांसः सङ्करान्मिथः ॥९


स्वयंवाहकमेकं स्यात्सकृत्प्रेर्यं तथापरम्।

अन्यदन्तरित वाह्यं वाह्यमन्यत् त्वदूरतः ॥१०


स्वयंबाह्यमिहोत्कृष्टं हीनं स्यादितरत्त्रयम्।

तेषु शंसन्ति दूरस्थमलक्ष्यं निकटस्थितम् ॥११


यद्युत्पन्नमलक्ष्यं यदेकं बहुषु साधकम्।

तदन्यदपि शंसन्ति यस्माद्विस्मयकृन्नृणाम् ॥१२


एका स्वीया गतिश्चित्रे वाह्येऽन्या वाहकाश्रिता।

अरघट्टाश्रिते कीटे दृश्यते द्वयमप्यदः ॥१३


इत्थं गतिद्वयवशाद्वैचित्र्यं कल्पयेत्स्वयम्।

अलक्षता विचित्रत्वं यस्माद्यन्त्रेषु शस्यते ॥१४


अन्यत्स्यादन्तरात्प्रेर्यं द्वितीयं मध्यमं त्विदम्।

द्वयत्रयादियोगेन चतुर्णामपि योगतः ॥१५


अंशांशिभावाद्भूतानां सङ्ख्यैषामतिरिच्यते।

यः सम्यगेतज्जानाति स पुमान्भवति प्रियः ॥१६


प्रमदानां नृपाणां च प्रज्ञानां च मतस्य च।

लाभं ख्यातिं च पूजां च यशो मानं धनानि च ॥१७


प्राप्नोति किं किं न पुमान् य इदं वेत्ति तत्त्वतः।

गृहमेकं विलासानामाश्चर्यस्य परं पदम् ॥१८


रतेरावासभवनं विस्मयस्यैकमास्पदम्।

यथावद्देवतादीनां रूपचेष्टादिदर्शनात् ॥१९


तास्तुष्यन्त्यथ तत्तुष्टिः पूर्वैर्धर्मः प्रकीर्तितः।

नृपादितोषादर्थः स्यादर्थे कामः प्रतिष्ठितः ॥२०


वित्तैक्यादस्य निष्पत्तिर्मोक्षश्चास्मान्न दुर्लभः।

पार्थिवं पार्थिवैर्बीजैः पार्थिवं जलजन्मभिः ॥२१


तदेव तेजोजनितैस्तदेव मरुदुद्भवैः।

आप्यमाप्यैस्तथा बीजैरानलैरानिलैरपि ॥२२


वह्निजैश्च मरुज्जातैः पार्थिवैर्वारुणैरपि।

मारुतं मारुतैराप्यैः पार्थिवैरानलैस्तथा ॥२३


वह्निजातेऽपि बीजं स्यात्सूतः सोऽपि च वानले।

पार्थिवानां भवेद्बीजमाप्यानामपि वारणे ॥२४


इति बीजानि सर्वेषां कीर्तितान्यखिलान्यपि।

कुड्यंकरणसूत्राणि भारगोलकपीडनम् ॥२५


लम्बनं लम्बकारे च चक्राणि विविधान्यपि।

अयस्ताम्रं च तारं च त्रपु संवित्प्रमर्दने ॥२६


काष्ठं च चर्म वस्त्रं च स्वबीजेषु प्रयुज्यते।

उर्दकः कर्तरो यष्टिश्चक्रं भ्रमरकस्तथा ॥२७


शृङ्गावली च नाराचः स्वबीजान्यौर्वरे विदुः।

ताप उत्तेजनं स्तोभः क्षोभश्च जलसङ्गजः ॥२८


एवमाद्यग्निबीजानि पार्थिवस्य प्रचक्षते।

धारा च जलभारश्च पयसो भ्रमणं तथा ॥२९


एवमादीनि भूजस्य जलजानि प्रचक्षते।

यथोच्छ्रायो यथाधिक्यं यथा नीरन्ध्रतापि च ॥३०


अत्यन्तमूर्ध्वगामित्वं स्वबीजान्ययसस्तथा।

मरुत्स्वभावजो गाढैर्ग्राहकैश्च प्रतीप्सितः ॥३१


दृत्याद्यैर्वीजनाद्यैश्च गजकर्णादिभिः कृतः।

चाणितो गालितश्चायं बीजं भवति भूभवे ॥३२


काष्टंभृत्तिश्च लोहं च जलजे पार्थिवं भवेत्।

अन्यदम्भस्तदप्यस्तु तिर्यगूर्ध्वमधस्तथा ॥३३


बीजं स्वकीयं भवति यन्त्रेषु जलजन्मसु।

तापाद्यं पूर्वकथितं वह्निजं जलजे भवेत् ॥३४


सङ्गृहीतश्च दत्तश्च पूरितः प्रतिनोदितः।

मरुद्बीजत्वमायाति यन्त्रेषु जलजन्मसु ॥३५


वह्निजातेषु मृत्ताम्रलोहरुक्मादि तद्ग्रहे।

पार्थिवं कथयन्तीह बीजं बीजविचक्षणाः ॥३६


वह्नेर्वह्निर्भवेद्बीजमाप आपस्तथा भवेत्।

आद्यैर्दृत्यादिभिः प्रोक्तैर्मरुद् गच्छति बीजताम् ॥३७


प्रत्येषकं च जनकं प्रेरकं ग्राहकं तथा।

सङ्ग्राहकं च भूजातं बीजं स्यादनिलोद्भवैः ॥३८


प्रेरणं चाभिघाटश्च विवर्तो भ्रमणं तथा।

जलजं मारुतोत्थेषु बीजं स्यादिति सम्मतम् ॥३९


सङ्गृहीतस्य तापाद्यैर्यानि पावकजन्मनि।

प्रकीर्तितानि तान्येव भवन्ति पवनोद्भवैः ॥४०


प्रेरितः सङ्गृहीतश्च जनितश्च समीरणः।

आत्मनो बीजतां गच्छत्येवमन्यत् प्रकल्पयेत् ॥४१


भूतमेकमिहोद्रि क्तमन्यद्धीनं ततोऽधिकम्।

अन्यद्धीनतरं चान्यदेवंप्रायैर्विकल्पितैः ॥४२


नाना भेदा भवन्त्येषां कस्तान् कार्त्स्न्येन वक्ष्यति।

निष्क्रिया भूः क्रिया त्वंशे शेषेषु सहजा त्रिषु ॥४३


अतः प्रायेण सा जन्या क्षितावेव जयत्नतः।

साध्यस्य रूपवशतः सन्निवेशो यत्क्षे भवेत् ॥४४


यन्त्राणामाकृतिस्तेन निर्णेतुं नैव शक्यते।

यथावद्बीजसंयोगः सौश्लिष्ट्यं श्लक्ष्णतापि च ॥४५


अलक्षाता निर्वहणं लघुत्वं शब्दहीनता।

शब्दे साध्ये तदाधिक्यमशैथिल्यमगाढता ॥४६


वहनीषु समस्तासु सौश्लिष्ट्यं चास्खलद्गति।

यथाभीष्टार्थकारित्वं लयतालानुगामिता ॥४७


इष्टकालेऽर्धदर्शित्वं पुनः सम्यक्त्वसंवृतिः।

अनुल्बणत्वं ताद्रू प्यं दार्ढ्ये मसृणता तथा ॥४८


चिरकालसहत्वं च यन्त्रस्यैते गुणः स्मृताः।

एकं बहूनि चलयेद्बहुभिश्चाल्यतेऽपरम् ॥४९


सुश्लिष्टत्वमलक्षत्वं यन्त्राणां परमो गुणः।

अथ कर्माणि यन्त्राणां विचित्राणि यथाविधि ॥५०


न विस्तरान्न सङ्क्षेपात्साम्प्रतं संप्रचक्ष्महे।

कस्यचित्सा क्रिया साध्या कालः कस्यापि कस्यचित् ॥५१


शब्दः कस्यापि चोच्छ्रायो रूपस्पर्शौ च कस्यचित्।

क्रियास्तु कार्यस्य वशादनन्ताः परिकीर्तिताः ॥५२


तीर्यंगूर्ध्वमधः पृष्ठे पुरतः पार्श्वयोरपि।

गमनं सरणं पात इति भेदाः क्रियोद्भवाः ॥५३


कालो मुहूर्तकाष्ठाद्यैर्भिन्नो भेदैरनेकधा।

शब्दो विचित्रः सुखदो रतिकृद्भीषणस्तथा ॥५४


उच्छ्रायस्तु जलस्य स्यात्क्वचिद्भूजेऽपि शस्यते।

गीतं नृत्यं च वाद्यं च पटहो वंश एव च ॥५५


वीणा च कांस्यतालश्च तृमिला करटापि च।

यत्किञ्चिदन्यदप्यत्र वादित्रादि विभाव्यते ॥५६


समस्तमपि तद्यन्त्राज्जायते कल्प्लनावशात्।

नृत्ये तु नाटकं चोक्षस्ताण्डवं लास्यमेव च ॥५७


राजमार्गश्च देशी च यन्त्रात् सर्वं प्रसिध्यति।

तथा जात्यनुगाश्चेष्टा विरुद्धा यास्तु जातितः ॥५८


ताः सर्वा अपि सिध्यन्ति सम्यग्यन्त्रस्य साधनात्।

भूचराणां गतिर्व्योम्नि भूमौ व्योमचरागमः ॥५९


चेष्टितान्यपि मर्त्यानां तथा भूमिस्पृशामिव।

जायन्ते यन्त्रनिर्माणाद्विविधानीप्सितानि च ॥६०


यथासुरा जिता देवैर्यथा निर्मथितोऽम्बुधिः।

हिरण्यकशिपुर्दैत्यो नृसिंहेन हतो यथा ॥६१


धावनं हस्तियुद्धं च गजानामगडोऽपि च।

नानाप्रकार या चेष्टा नानाधारागृहाणि च ॥६२


दोलाकेल्यो विचित्राश्च तथा रतिगृहाणि च।

चित्रा सेन च कुट्यश्च स्वयंवाहकसेवकाः ॥६३


सभाश्च विविधाकाराः सत्या मायाः प्रकल्पिताः।

एवंप्रायाणि चान्यानि यन्त्रात्सिध्यन्ति कल्पनात् ॥६४


विधाय भूमिकाः पञ्च शय्या त्वादिभुवि स्थिता।

प्रतिप्रहरमन्यासु सर्पन्ती याति पञ्चमीम् ॥६५


एवंप्रायाणि चित्राणि सम्यक् सिध्यन्ति यन्त्रतः।

क्रमेण त्रिशतावर्तं स्थाले दन्ता भ्रमन्त्यसौ ॥६६


तन्मध्ये पुत्रिका कॢप्ता प्रति नाडिं प्रबोधयेत्।

वह्नेश्च दर्शनं तोये वह्निमध्याज्जलोद्गतिः ॥६७


अवस्तुतोऽपि वस्तुत्वं वस्तुतोऽपि तथान्यथा।

निःश्वासेन वियद् याति श्वासेनायाति मेदिनीम् ॥६८


क्षीरोदमध्यगा शय्या प्रतीष्टाधः फणाभृता।

गोलश्च सूतिविहितः सूर्यादीनां प्रदक्षिणम् ॥६९


परिभ्राम्यत्यहोरात्रं ग्रहाणां दर्शयन् गतिम्।

गजादिरूपे रथिकरूपतां गमितः पुमान् ॥७०


भ्रान्त्वा नादिकया तस्याः पर्यन्ते हन्ति भोजनम्।

दीपिकापुत्रिका कॢप्ता क्षीणं क्षीणं प्रयच्छति ॥७१


दीपे तैलं प्रनृत्यन्ती तालगत्या प्रदक्षिणम्।

यावत्प्रदीयते वारि तावत्पिबति सन्ततम् ॥७२


यन्त्रेण कल्पितो हस्ती न तद्गच्छत्प्रतीयते।

शुकाद्याः पक्षिणः कॢप्तास्तालस्यानुगमान्मुहुः ॥७३


जनस्य विस्मयकृतो नृत्यन्ति च पठन्ति च।

पुत्रिका वा गजेन्द्रो वा तुरगो मर्कटोऽपि वा ॥७४


वलनैर्वर्तनैर्नृत्यंस्तालेन हरते मनः।

येनैव वर्त्मना क्षेत्रं ध्रियते तेन तत्पयः ॥७५


यात्यायाति पुनस्तद्वद्गर्तात्पुष्करिणीष्वपि।

फलके कानि तिष्ठन्ति धावन्त्यनुमतानि च ॥७६


धातां ददति युध्यन्ते निर्यान्त्यश्रमनावृतम्।

नृत्यन्ति गायन्ति तथा वंशादीन् वादयन्ति च ॥७७


निरुद्धमुक्तस्य वशान्मरुतो यन्त्रभङ्गिभिः।

याश्चेष्टा दिव्यमानुष्यस्ता एवात्र न केवलम् ॥७८


दुष्करं यद्यदन्यच्च तत्तद्यन्त्रात्प्रसिध्यति।

यन्त्राणां घटना नोक्ता गुप्त्यर्थं नाज्ञतावशात् ॥७९


तत्र हेतुरयं ज्ञेयो व्यक्ता नैते फलप्रदाः।

कथितान्यत्र बीजानि यन्त्राणां घटना न यत् ॥८०


तस्माद्व्यक्तीकृतेष्वेषु न स्यात्स्वार्थो न कौतुकम्।

वस्तुतः कथितं सर्वं बीजानामिह कीर्तनात् ॥८१


अभ्यूह्यं स्वधिया प्राज्ञैर्यन्त्राणां कर्म यद्यथा।

यन्त्राणि यानि दृष्टानि कीर्तितान्यत्र तान्यपि ॥८२


नन्द्यानि यस्मात्तान्यातो विज्ञेयान्युपदेशतः।

एतत्स्वबुद्ध्यैवास्माभिः समग्रमपि कल्पितम् ॥८३


अग्रतश्च पुनर्ब्रूमः कथितं यत्पुरातनैः।

बीजं चतुर्विधमिह प्रवदन्ति यन्त्रे-।

ष्वम्भोग्निभूमिपवनैर्निहितैर्यथावत् ।।

प्रत्येकतो बहुविधं हि विभागतः स्या-।

न्मिश्रैर्गुणैः पुनरिदं गणनामपास्येत् ॥८४


किमेतस्मादन्यद्भवति भुवने चित्रमपरं।

किमन्यद्वा तुष्ठ्यै भवति किमु वा कौतुककरम् ।।

किमन्यद् वा कीर्त्तेर्भवनमपरं कामसदनं।

किमस्मात्पुण्यं वा किमिव च परीतापशमनम् ॥८५


एतेऽत्यर्थं प्रीतिदा बीजयोगाः संजायन्ते योजिताः सूत्रधारैः।

भ्रान्त्या नान्यश्चित्रकृद्दारुकॢप्तं चक्रं दोलाद्यं पुनः पञ्चमं तत् ॥८६


पारम्पर्यं कौशलं सोपदेशं शास्त्राभ्यासो वास्तुकर्मोद्यमो धीः।

सामग्रीयं निर्मला यस्य सोऽस्मिंश्चित्राण्येवं वेत्ति यन्त्राणि कर्तुम् ॥८७


चित्रैर्युक्तं ये गुणैः पञ्चरूपं जानन्त्येनं यन्त्रशास्त्राधिकारम्।

ये वा कृत्स्नं योजयन्तेऽत्र सम्यक्तेषां कीर्त्तिर्द्यां भुवं चावृणोति ॥८८


अङ्गुलेन मितमङ्गुलपादेनोच्छ्रितं द्विपुटकं तनुवृत्तम्।

संविधेयमृजु मध्यगरन्ध्रं श्लिष्टसन्धि दृढताम्रमयं तत् ॥८९


दारवेषु विहगेषु तदन्तः क्षिप्तमुद्गतसमीरवशेन।

आतनोति विचलन्मृदुशब्दं शृण्वतां भवति चित्रकरं च ॥९०


सुश्लिष्टखण्डद्वितयेन कृत्वा सरन्ध्रमन्तर्मुरजानुकारम्।

ग्रस्तं तथा कुण्डलयोर्युगेन मध्ये पुटं तस्य मृदु प्रदेयम् ॥९१


पूर्वोक्तयन्त्रे विधिनोदरेऽस्य क्षिप्तेऽथ शय्यातलसंस्थमेतत्।

ध्वनिं ततः सञ्चलनादनङ्गक्रीडारसोल्लासकरं करोति ॥९२


अस्मिञ् शय्यातलविनिहिते मुञ्चति व्यक्तरागं।

चित्राञ्शब्दान् मृगशिशुदृशां यान्ति भीत्येव मानः ।।

किञ्चैतासां दयितमभितो निर्भरप्रेमभाजां।

प्रौढिं गच्छन्त्यधिकमधिकं मन्मथक्रीडितानि ॥९३


पटहमुरजे वेणुः शङ्खो विपञ्च्यथ काहला।

डमरुटिविले वाद्यातोद्यान्यमून्यखिलान्यपि।

मधुरमधिकं यच्चित्रं च ध्वनिं विदधात्यलं।

तदिह विधिना रुद्धोन्मुक्तानिलस्य विजृम्भितम् ॥९४


लघुदारुमयं महाविहङ्गं दृढसुश्लिष्टतनुं विधाय तस्य।

उदरे रसयन्त्रमादधीत ज्वलनाधारमधोऽस्य चातिपूर्णम् ॥९५


तत्रारूढः पूरुषस्तस्य पक्षद्वन्द्वोच्चालप्रोज्झितेनानिलेन।

सुप्तस्वान्तः पारदस्यास्य शक्त्या चित्रं कुर्वन्नम्बरे याति दूरम् ॥९६


इत्थमेव सुरमन्दिरतुल्यं सञ्चलत्यलघु दारुविमानम्।

आदधीत विधिना चतुरोऽन्तस्तस्य पारदभृतान् दृढकुम्भान् ॥९७


अयःकपालाहितमन्दवह्निप्रतप्ततत्कुम्भभुवा गुणेन।

व्योम्नो झगित्याभरणत्वमेति सन्तप्तगर्जद्र सराजशक्त्या ॥९८


वृत्तसन्धितमथायसयन्त्रं तद्विधाय रसपूरितमन्तः।

उच्चदेशविनिधापिततप्तं सिंहनादमुरजं विदधाति ॥९९


स कोऽप्यस्य स्फारः स्फुरति नरसिंहस्य महिमा।

पुरस्ताद्यस्यैता मदजलमुचोऽपि द्विपघटाः।

मुहुः श्रुत्वा श्रुत्वा निनदमपि गम्भीरविषमं।

पलायन्ते भीतास्त्वरितमवधूयाङ्कुशमपि ॥१००


दृग्ग्रीवातलहस्तप्रकोष्ठबाहूरुहस्तशाखादि।

सच्छिद्रं वपुरखिलं तत्सन्धिषु खण्डशो घटयेत् ॥१०१


श्लिष्टं कीलकविधिना दारुमयं सृष्टचर्मणा गुप्तम्।

पुंसोऽथवा युवत्या रूपं कृत्वातिरमणीयम् ॥१०२


रन्ध्रगतैः प्रत्यङ्गं विधिना नाराचसङ्गतैः सूत्रैः।

ग्रीवाचलनप्रसरणविकुञ्चनादीनि विदधाति ॥१०३


करग्रहणताम्बूलप्रदानजलसेचनप्रमाणादि।

आदर्शप्रतिलोकनवीणावाद्यादि च करोति ॥१०४


एवमन्यदपि चेदृशमेतत्कर्म विस्मयविधायि विधत्ते।

जृम्भितेन विधिना निजबुद्धेः कृष्टमुक्तगुणचक्रवशेन ॥१०५


पुंसो दारुजमूर्ध्वं रूपं कृत्वा निकेतनद्वारि।

तत्करयोजितदण्डं निरुणद्धि प्रविशतां वर्त्म ॥१०६


खड्गहस्तमथ मुद्गरहस्तं कुन्तहस्तमथवा यदि तत्स्यात्।

तन्निहन्ति विशतो निशि चौरान् द्वारि संवृतमुखं प्रसभेन ॥१०७


ये चापाद्या ये शतघ्न्यादयोऽस्मिन्नुष्ट्रग्रीवाद्याश्च दुर्गस्य गुप्त्यै।

ये क्रीडाद्याः क्रीडनार्थं च राज्ञां सर्वेऽपि स्युर्योगतस्ते गुणानाम् ॥१०८


इदानीं प्रक्रमायातं वारियन्त्रं प्रचक्ष्महे।

क्रीडार्थं कार्यसिद्ध्यै च चतुर्धा तद्गतिं विदुः ॥१०९


निम्नगं भवति द्रो णीदेशादूर्ध्वस्थिताज्जलम्।

यत्र तत्पातयन्त्रः स्याद्वाटिकादिप्रयोजनम् ॥११०


उच्छ्रायसमपाताख्यं यत्रोर्ध्वा नाडिका पयः।

जलाधारगुणान्मुञ्चेदधस्तात्समनाडिका ॥१११


यत्र पातसमुच्छ्रायं पतित्वोच्छ्रायतो जलम्।

तिर्यग्गत्वा प्रयात्यूर्ध्वं सच्छिद्र स्तम्भयोगतः ॥११२


पतित्वोच्छ्रायतस्तोयं तिर्यगूर्ध्वोर्ध्वमेत्यथ।

सच्छिद्र स्तम्भयोगेन तत्स्यात्पातसमोच्छ्रयम् ॥११३


वाप्यां वापि च कूपे विधानतो दीर्घिकादिका विहिता।

यत्रोर्ध्वमम्बु गमयति तदिहोच्छ्रयसंज्ञितं कथितम् ॥११४


दारुजमिभस्य रूपं यत्सलिलं पात्रसंस्थितं पिबति।

तन्माहात्म्यं निगदितमेतस्योच्छ्रायतुल्यस्य ॥११५


सलिलं सुरङ्गदेशानीतं निम्नेन वर्त्मना दूरे।

अद्भुतमम्भस्थानं तदिह समोच्छ्रायतः कुरुते ॥११६


धारागृहमेकं स्यात्प्रवर्षणाख्यं ततो द्वितीयं च।

प्राणालं जलमग्नं नन्द्यावर्तं तथान्यदपि ॥११७


प्राकृतजनार्थमेतन्न विधेयं योग्यमेतदवनिभुजाम्।

मङ्गल्यानां सदनं दिव्यमिदं तुष्टिपुष्टिकरम् ॥११८


सलिलाशयस्य सविधे कस्याप्याश्रित्य शोभनं देशम्।

यन्त्रोत्सेधाद्द्विगुणा त्रिगुणा वा नाडिका कार्या ॥११९


जलनिर्वाहसहासावन्तर्मसृणा बहिश्च नीरन्ध्रा।

निर्व्यूढाम्भसि तस्यां शुभे मुहूर्ते गृहं कार्यम् ॥१२०


सर्वाभिरोषधीभिर्युक्तं सहिरण्यपूर्णकुम्भैश्च।

सुविचित्रगन्धमाल्यं विनादितं भ्रमघोषेण ॥१२१


रत्नोद्भवैर्विचित्रैः स्तम्भैर्युक्तं हिरण्यघटितैर्वा।

रजतोद्भवैः कदाचित्सुरदारुसमुद्भवैरथवा ॥१२२


श्रीखण्डोत्थैरथवा सालकमुख्यप्रशस्तवृक्षोत्थैः।

शतसङ्ख्यैर्द्वात्रिंशत्सङ्ख्यैर्यदि वापि षोडशभिः ॥१२३


अथवा चतुस्समन्वितविंशतिसङ्ख्यैर्दिनेशसङ्ख्यैर्वा।

भूषितमतिरमणीयैश्चतुर्भिरपि वा विधातव्यम् ॥१२४


प्राग्ग्रीवैरतिचित्रैः शालैर्जालैर्विभूषितं विविधैः।

वेदीभिः परिकरितं कपोतपालीभिरभिरामम् ॥१२५


रमणीयसालभञ्जिकमनेकविधयन्त्रशकुनिकृतशोभम्।

मिथुनैश्च वानराणां जम्भकनिवहैश्च नैकविधैः ॥१२६


विद्याधरसिद्धभुजङ्गकिन्नरैश्चारणैश्च रमणीयम्।

नृत्यद्भिः परमगुणैः शिखण्डिभिर्मण्डितोद्देशम् ॥१२७


कल्पतरुभिर्विचित्रैश्चित्रलतावल्लिगुल्मसंछन्नम्।

परपुष्टषट्पदालीमरालमालामनोहारि ॥१२८


प्रवहत्सकलस्रोतःसुश्लिष्टनिविष्टनाडिकं मध्ये।

सच्छिद्र नाडिकयुतं नानाविधरूपरमणीयम् ॥१२९


सुश्लिष्टनाडिकाग्रे स्तम्भतुलाभित्तिसंश्रिते परितः।

सम्यक्कृत्वा दृढतरविलेपनं वज्रलेपाद्यैः ॥१३०


लाक्षासर्जरसदृषन्मेषविषाणोत्थचूर्णसंमिश्रम्।

अतसीकरञ्जतैलप्रविगाढो वज्रलेपः स्यात् ॥१३१


दृढसन्धिबन्धहेतोः स तत्र देयो द्विशः कदाचिद्वा।

शणवल्कश्लेष्मातकसिक्थकतैलैः प्रलेपश्च ॥१३२


उच्छ्रययन्त्रेणैतद् भ्रान्तजलेनाथ तदभितः कृत्वा।

चित्रानुपातयुक्तं प्रदर्शयेन्नृपतये स्थपतिः ॥१३३


कार्याण्यस्मिन् करिणां मिथुनान्यभितोऽम्बुकेलियुक्तानि।

अन्योन्यपुष्करोञ्झितसीकरभयपिहितनयनानि ॥१३४


वर्षानुकृतं चास्मिन् प्रीतिमति प्रतिमङ्गजो वीक्ष्य।

दृक्कटमेहनहस्तैर्मदमिव मुञ्चञ्जलं कार्यः ॥१३५


स्तनयोर्युगेन सृजती जलधारे तत्र कापि कार्या स्त्री।

आनन्दाश्रुलवानिव सलिलकणान् पक्ष्मभिः काचित् ॥१३६


नाभिह्रदनदिकामिव विनिर्गतां कापि बिभ्रती धाराम्।

काप्यङ्गुलीनखांशुभिरिव योषित्सिञ्चती कार्या ॥१३७


एवम्प्रायांश्चित्रान् स्वभावचेष्टान् बहूंश्च रमणीयान्।

क्षोभान् विधाय कुर्यादाश्चर्यं नरपतेः स्थपतिः ॥१३८


मध्ये तस्य विधेयं सिंहासनममलहेममणिघटितम्।

तत्रासीदेन्नरपतिरवनिपतिः श्रीपतिर्देवः ॥१३९


स्नायात्कदाचिदस्मिन् मङ्गलगीतैर्विवर्धितानन्दः।

वादित्रनाट्यनिपुणैर्निषेव्यमाणः सुरेन्द्र इव ॥१४०


य एतस्मिन् गाढग्लपितघनघर्मव्यतिकरे।

शुचौ धाराधाम्नि स्फुटसलिलधारे नरपतिः ।।

सुखेनास्ते पश्यन् विविधजलशिल्पानि स भवे-।

न्न मर्त्यः कन्त्वेष क्षितिकृतनिवासः सुरपतिः ॥१४१


जलदकुलाष्टकयुक्तं पूर्ववदन्यद्गृहं समारचयेत्।

वर्षद्धारानिकरैः प्रवर्षणाख्यां तदाप्नोति ॥१४२


प्रतिकुलमस्मिन् कार्या दिव्यालङ्कारधारिणः पुरुषाः।

विधिना त्रयः सुरूपाश्चत्वारः सप्त वा सुदृढाः ॥१४३


यन्त्रेण समोच्छ्रायेण तांश्चतुर्थेन वा ततः पुरुषान्।

कृत्वा सवक्रनालानम्भोभिः पूरयेद् विमलैः ॥१४४


सलिलप्रवेशरन्ध्राण्यखिलानि पिधाय तत्र पुरुषाणाम्।

अङ्गानि वारिमोक्षाण्यखिलान्यथ मोचयेत् तेषाम् ॥१४५


सलिलं सवक्रनालं द्वारप्रतिरोधमोचनैः पुरुषाः।

मुञ्चन्ति स्वेच्छममी विचित्रपातेन चित्रकरम् ॥१४६


इत्थमिमान् वारिधरान् सामस्याद् द्व्यन्तरेण वा सलिलम्।

त्र्यन्तरतो वा स्वेच्छं प्रवर्षयेदतिमहच्चित्रम् ॥१४७


इदं नानाकारं कुलभवनमाद्यं रतिपते-।

र्निवासश्चित्राणामनुकरणमेकं जलमुचाम् ।।

पयःपातैर्ग्रीष्मे रविकरपरीतापशमनं।

न केषामत्यर्थं भवति नयनानन्दजननम् ॥१४८


एकेनाथ चतुर्भिः स्तम्भैरष्टभिरथार्कसङ्ख्यैर्वा।

षोडशभिर्वा कुर्यान्मनोहरं गृहमिह द्वितलम् ॥१४९


भद्रै र्युतं चतुर्भिश्चतुरश्रं सर्वभित्तिसंयुक्तम्।

ईलीतोरणयुक्तं कर्तव्यं पुष्पकाकारम् ॥१५०


तस्योपरि मध्यगता प्राङ्गणवापी दृढा विधातव्या।

शतपत्रविहितभूषा तन्मध्ये कर्णिका कार्या ॥१५१


तत्कोणेषु चतुर्ष्वपि रमणीया दारुदारिकाः कार्याः।

मध्याम्बुजनिहितदृशः सालङ्काराः सशृङ्गाराः ॥१५२


पूर्वोक्तयन्त्रयोगात्पद्मासीने वसुन्धराधिपतौ।

भृङ्गारामलवारिभिरङ्गणवापीं भ्रियाच्च ततः ॥१५३


तामिति भृत्वा वापीं तत्सलिलं तदनुपट्टगर्भगतम्।

छाद्यस्तु गन्धरोध्रेष्वति रोहति सर्वतो नियतम् ॥१५४


मुखपट्टसमुत्कीर्णै रूपैश्चित्रैर्मनोरमैरखिलैः।

अङ्गैर्वारि विमुञ्चति नासास्यश्रवणनेत्राद्यैः ॥१५५


प्रणालाख्यं धाराभवनमिदमत्यद्भुततरं ।

स्थितिं धत्ते यस्य क्षितिपतिलकस्याङ्गणभुवि ।

करोत्येतद्वेत्थं स्थपतिरपि बुद्ध्या चतुरया।

जगत्येतौ द्वावप्यधिकमहनीयौ कृतधियाम् ॥१५६


चतुरश्रातिगभीरा वापी कार्या मनोरमा सुदृढा।

गर्भगतं गृहमस्याः कर्तव्यं लिप्तसन्धि ततः ॥१५७


विहितप्रवेशनिर्गति सुरङ्गयाधो निवेशितद्वारम्।

विदधीत चारुरूपैः प्रवर्षकैर्व्याप्तमुपरिष्टात् ॥१५८


चित्राध्यायोदितवर्त्मना ततोऽलङ्कृतं च चित्रेण।

तस्य विधेयं मध्यं सलिलाधिपवाससङ्काशम् ॥१५९


ऊर्ध्वविनिर्गमिताब्जैर्नालैस्तत्पट्टकन्दकोद्भूतैः।

सच्छिद्र कर्णिकागतदिनकरकरनिर्मितोद्द्योतम् ॥१६०


आपूरयेत्ततोऽनु च पाताम्बुभिरमलकमलपर्यन्तम्।

विधिनामुनैव सम्यक् प्रविधाय मनोरमं भवनम् ॥१६१


नानारूपकयुक्त्याउपरचिततमङ्गतोरणद्वारम्।

शालाभिरायताभिश्चतसृष्वपि दिक्षु कृतशोभम् ॥१६२


कृत्रिमशफरीमकरीपक्षिभिरपि चाम्बुसम्भवैर्युक्ताम्।

कुर्यादम्भोजवतीं वापीमाहार्ययोगेन ॥१६३


सामन्तमुख्यपुरुषा राजाज्ञालब्धसंश्रयास्तत्र।

परराष्ट्रागतदूतास्तिष्टेयुर्निहितमिह निभृताः ॥१६४


अथ स यथाविधि सलिलक्रीडां पूर्वोक्तमार्गरूपाणाम्।

दृष्ट्वा मुदितः कुर्यात्पर्यङ्कारोहणं नृपतिः ॥१६५


तत्र स्थितस्य नृपतेः परिवारितस्य।

वाराङ्गनाभिरभितो जलमग्नधाम्नि ।।

पातालसद्मनि यथा भुजगेश्वरस्य।

निस्सीमसम्भृतरतिर्भवति प्रमोदः ॥१६६


पूर्वोक्तवापिकायां मध्ये स्तम्भैश्चतुर्भिरूपरचितम्।

मुक्ताप्रवालयुक्तं पुष्पकमथ कारयेल्लटभम् ॥१६७


वापीं परितः पुष्पकमापूर्य सुनिर्गमाभिरथ सुदृढम्।

गर्भस्वस्तिकभित्तिभिरूपहितशोभं समन्ततः कुर्यात् ॥१६८


पूर्वोक्तवारियोगात्पूर्णामाकर्णतो विधायैताम्।

जलकलिषु सोत्कण्ठो महीपतिः पुष्पकं यायात् ॥१६९


कुर्वीत नर्मसचिवैर्विलासिनीभिश्च सार्धमवनिपतिः।

तद्भित्त्यन्तरवर्ती निमज्जनोन्मज्जनैः क्रीडाम् ॥१७०


एकत्र मग्नैरपत्र दृष्टैरन्यत्र हत्वा सलिलेन नष्टैः।

क्रीडत्यलं केलिकरैः सहायैनृपः सुखं मज्जनपुष्करिण्याम् ॥१७१


वापीतलस्थितमथ त्रपयावनम्र-।

माच्छादितस्तनभरं करपल्लवेन ।।

गाढावसक्तवसनं जलरोधमुक्ता-।

वालोकते प्रणयिनीजनमत्र धन्यः ॥१७२


रथदोलादिविधानं दारवमभिदध्महे वयं सम्यक्।

यन्त्रभ्रमणककर्म प्रकीर्तितं पञ्चमं यत्तत् ॥१७३


तत्र वसन्तः प्रथमो मदननिवासो वसन्ततिलकश्च।

विभ्रमकस्त्रिपुराख्यः पञ्चैते दोलकाः कथिताः ॥१७४


निखनेच्चतुरः स्तम्भान् समैकसूत्रोपगान् ऋजून् सुदृढान्।

सदृशान्तरान् धरित्रीवशतः सुश्लिक्ष्णपीठगतान् ॥१७५


प्रासादस्योक्तदिशि प्रविदध्याद्विरचिताष्टकरदैर्घ्यम्।

भूमिगृहं रमणीयं तदर्धतो विहितगाम्भीर्यम् ॥१७६


तद्गर्भतले स्तम्भो लोहमयाधारसंस्थितः कार्यः।

भ्रमसहितः पीठयुतो ग्रस्तश्चच्छादकतुलाभिः ॥१७७


संस्थाप्योपरि पीठस्य कुम्भिकामतिदृढां विभक्तां च।

धनुरुच्छ्रितैस्ततोऽमूमष्टभिरावृष्टयेद् भद्रैः ॥१७८


स्वेच्छमथ भूमिकोच्छ्रयमस्योर्ध्वे कल्प्लयेन्नितान्तमृजुम्।

निदधीत वेष्टनोर्ध्वे पट्टयुतं स्तम्भशीर्षं च ॥१७९


हीरग्रहपर्यन्तं मदला गजशीर्षिका विधातव्या।

सुदृढा प्रयत्नरचिता मनोभिरामा यथाशोभम् ॥१८०


पट्टस्योपरि काया चतुष्किका क्षेत्रमानतोऽभीष्टात्।

तस्यामुपरि विधेयस्तलबन्धो दृढतरन्यासः ॥१८१


स्तम्भैर्द्वाडशभिरथ क्षेत्रे युक्त्या समुच्छ्रितैर्भव्यैः।

रूपवतीकोणस्थितिरधिका भूः प्रथमिका कार्या ॥१८२


मध्ये भ्रमश्च तस्या गर्भस्तम्भप्रतिष्ठितः कार्यः।

क्षेत्रप्रमाणवशतस्तां पश्चाच्छादयेत्पट्टैः ॥१८३


रथिकाशिखाग्रकेषु च फलकामरणस्य तद्वदुपरिष्टात्।

भ्रमचक्राणि न्यस्येन्मध्ये स्तम्भे च पञ्चैव ॥१८४


अत उपरि यथाशोभं हि भूमिका पुष्पकाकृतिः कार्या।

मध्यस्तम्भाधारा कृतकलशविभूषणा शिरसि ॥१८५


स्तम्भेऽवस्ताद् भ्रमि ते भृशं भ्रमत्यर्थभूमिका तत्र।

रथिकाभ्रमरकयुक्ता परस्परं चक्रयन्त्रेण ॥१८६


वसन्तरथिकाभ्रमे समधिरूढवाराङ्गना-।

परिभ्रमणसम्भृताभ्यधिकविभ्रमं भूपतिः।

करोति नयनोत्सवस्त्रिदशधाम्नि यत्कीर्तनं।

वसन्तसमये भवत्यमलकीर्त्तिधामैव सः ॥१८७


आरोप्य स्थिरमेकं स्तम्भं भूमीगृहादिरहितमथ।

हस्तचतुष्कोच्छ्राया कार्योपरि भूमिका चास्य ॥१८८


मध्ये भ्रमरकयुक्तं शेषं पूर्ववदिहाचरेदखिलम्।

पुष्पकमपि च स्तम्भे शिथिलं कलशोच्छ्रितं कुर्यात् ॥१८९


तस्योपरि च ग्रीवा चतुरासनसंयुता विधातव्या।

घण्टास्तम्भौ कार्यौ स्तम्भेन महाबलौ तत्र ॥१९०


एवं पुष्पकभूमिकान्तरलस्थायी निगूढो जनो।

यावद् भ्रामकयन्त्रचक्रनिकरं सम्यक् क्रमाचालयेत्।

तावत्ता रथिकासना मृगदृशस्तत्र स्थिताः पुष्पके।

कामावासकुतूहलार्पितदृशो भ्राम्यन्ति सर्वा अपि ॥१९१


अथ कोणगतान् स्तम्भांश्चतुरो विनिवेशयद् क्रजून् सुदृढान्।

सुश्लिष्टपीठसंस्थान् समान्तरान् मेदिनीवशतः ॥१९२


तेषामुपरि लतान्तरसंयुक्ता भूमिका विधातव्या।

रथिकास्तत्र चतस्रो जायन्ते पूर्ववद्दिक्स्थाः ॥१९३


तदुपरि तथार्धभूमिः कार्या सुश्लिष्टदारुसन्धाना।

मध्यभ्रमरकयुक्ता सरूपका मत्तवारणयुता च ॥१९४


नानाविधकर्मवती वसन्ततो बाह्यरेखा स्यात्।

अन्योन्ययन्त्रपरिघट्टनदोल्यमान-।

निश्शेषचक्ररथिकाभ्रमणाभिरामम्।

दृष्ट्वा वसन्ततिलकं सुरमन्दिराणां।

भूषायमाणमुपयाति न विस्मयत्वं ॥१९५


प्रविधाय रङ्गभूमिं प्रथमां शास्त्रान्तराधरस्यार्थे।

चतुरश्रा रूपवती सचतुर्भद्रा विधेया भूः ॥१९६


प्रतिकोणमागतस्या भद्रे षु भवन्ति संयता भ्रमराः।

अत उपरिष्टाद्भूम्या भ्रमराश्चाष्टासनाः कार्याः ॥१९७


रेखाः शुद्धाः कार्या बहिरन्तश्चित्रिताश्चान्याः।

पीठेषु मध्यगस्थास्ततोऽपरा भूमिकाः कार्याः ॥१९८


पीठस्य मध्यसंस्थैरन्योन्यारालियोजितैश्चक्रैः।

सर्वे वेगाद् भ्राम्यन्ति सान्तना विभ्रमे भ्रमराः ॥१९९


दोलासनो विहितवारवधूकृताति-।

चित्रेण यस्त्रिदशधामसु विभ्रमेण ।।

पृथ्वीपतिमुदमुपैति समुल्लसन्ती।

कीर्त्तिर्न माति भुवनत्रितयेऽपि तस्य ॥२००


चतुरश्रमथ क्षेत्रं कृत्वांशैर्भाजितं ततोऽष्टाभिः।

काणैः शेषैस्तस्मिंश्चतुरश्रं कल्पयेद्भद्र म् ॥२०१


तद्द्विगुणमूर्ध्वमेतस्य भूमिकाभागसङ्ख्यया कार्यम्।

तत्राद्यंशचतुष्केण भूमिका स्यात्समुच्छ्रयतः ॥२०२


तत्राष्टषट्चतुर्भागवर्जिता भूमिका उपर्युपरि।

क्रमशो भवन्त्यथैवं ताः स्युस्तिस्रोऽर्धसंयुक्ताः ॥२०३


शेषांशोच्छ्रययुक्ता घण्टा चतुरश्रकायता कार्या।

त्रिचतुर्भूम्यौ कार्ये सषट्चतुर्भागविस्तारे ॥२०४


रङ्गः स्यादाद्यभुवि द्वितीयभुवि कोणगास्तथा रथिकाः।

स्युर्भद्रा कृतियुक्ता दोला अपि तत्र रमणीयाः ॥२०५


रथिकास्तृतीयभूमौ कार्या भद्रे षु चातिरमणीयाः।

कोणेष्वथासनान्यर्धवास्तुकेऽपि भ्रमः कार्यः ॥२०६


दोलारथिके चतुरासने भ्रमोऽष्टासनो भवेत् तत्र।

आसनमिह तत्कथितं युवतेः स्थानं यदेकं स्यात् ॥२०७


निखिलान्यपि भ्रमणसंमुखं तानि बिभ्रति भ्रमणम्।

यत्रासनानि स इह भ्रम इत्युक्तोऽपराधिका ॥२०८


यष्टेरूर्ध्वमधस्ताद् भ्रमस्य चक्रं योजयेदेकम्।

लघुचक्राणि च तद्वन्नियोजयेदासनेष्वत्र ॥२०९


लघुचक्रारकवृत्ते संलग्नाः कीलका दृढाः कार्याः।

तुल्यान्तराः समस्ताः प्रलघुचक्रारवृन्तगताः ॥२१०


रथिकाशिखाग्रचक्रं भ्रमचक्रारकनियोजितं कार्यम्।

यष्टिचतुष्टयमसिंस्तिर्यक् चक्रद्वयोपेतम् ॥२११


ऊर्ध्वं द्वितीयभूमेस्तृतीयभूमेरथान्तरे कुर्यात्।

नियतं रथिकायष्टिभ्रमसंलग्नानि यन्त्राणि ॥२१२


आसनाधारयष्टीनां रथिकाचक्रयोजितान्।

अधः समान्तरान्कुर्याच्चतुरः परिवर्तकान् ॥२१३


तद् द्वितीयभूमीदोलागर्भे समान्तरे यष्टी।

लग्ने तथैकचक्रे याम्योत्तरचक्रयोर्न्यस्येत् ॥२१४


तद्वदधो भूकोणगरथिकाचूडाग्रचक्रसंसक्ताः।

यष्टीस्ततश्चतस्रो द्विचक्रका इतरचक्रयोर्न्यस्येत् ॥२१५


प्रान्तचक्रद्वये कोणरथिकाचक्रयोजिता।

दोलागर्भगता यष्टिस्तिर्यक् कार्यापरापरा ॥२१६


पूर्वे भद्रे द्वारं कुर्यात्सोपानराजितमधस्तात्।

गर्भात्पश्चिमभागे निवेशयेद्देवतादोलाम् ॥२१७


अन्योन्यं चक्रभ्रममिच्छामुक्तिं विधानतः सम्यक्।

ज्ञात्वा प्रयोजनीयं शीघ्रवहं मन्दवहनं वा ॥२१८


एष समासेन यथा भ्रममागः कीर्तितः स्फुटोऽस्माभिः।

अन्येष्वपि कर्तव्यः सम्यग् भ्रमहेतवे तद्वत् ॥२१९


स्तम्भादिद्र व्याणां विन्यासैः कल्पितं दृढैः श्लक्ष्णैः।

सुश्लिष्टसन्धिबन्धं धृतं तथा दीर्घमुख्यधरैः ॥२२०


परिवारितमथ तिलकैः समन्ततः सिंहकर्णसम्युक्तम्।

त्रिपुरं सम्यक् कुर्याद् विचित्ररूपं कैश्चित्रैः ॥२२१


बुद्ध्या कॢप्तैः पूर्वयन्त्रैश्च युक्तं यन्त्राध्यायं वेत्ति यः सम्यगेतम्।

प्राप्नोत्यर्थान् वाञ्छितान् कीर्त्तियुक्तान् स क्ष्मापालैरन्वहं पूज्यते च ॥२२२


एतद्द्वाडशराजचक्रमखिलं क्ष्मापालचूडामणे-।

र्दोःस्तम्भप्रतिबद्धवृत्ति परितो यस्येच्छया भ्राम्यति ।।

स श्रीमान् भुवनैकरामनृपतिर्देवो व्यधत्त द्रुतं।

यन्त्राध्यायमिमं स्वबुद्धिरचितैर्यन्त्रप्रपञ्चैः सह ॥२२३


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वासुशास्त्रे यन्त्रधिघानं नामैकत्रिंशोऽध्यायः।