समराङ्गणसूत्रधार अध्याय ४१
अथ चयविधिर्नामैकचत्वारिंशोऽध्यायः।
इदानीमभिधीयन्ते चयस्येह गुणागुणाः।
सुविभक्तः समश्चारुश्चतुरश्रश्चयः शुभः ॥१
असंभ्रान्तमसन्दिग्धमविनाश्यन्यबर्हितम्।
अनुत्तममनुद्वृत्तमकुब्जं न च पीडितम् ॥२
समानखण्डमृज्वन्तमन्तरङ्गं तथैव च।
सुपार्श्वं सन्धिसुश्लिष्टं सुप्रतिष्ठं सुसन्धि च ॥३
अजिह्मं चेति चेयस्य गुणा विंशतिरित्यमी।
एतेषां वैपरीत्येन दोषाणामपि विंशतिः ॥४
दक्षिणां तु यदा कुड्यं विचिनोति बहिर्मुखम्।
तदा व्याधिभयं विद्यान्मृत्युदण्डं च निर्दिशेत् ॥५
पश्चिमं तु यदा कुड्यं विचिन्वन्ति बहिर्मुखम्।
धनहानिं तदा विद्याद्दस्युभ्यश्च भयं भवेत् ॥६
उत्तरं तु यदा कुड्यं विचिनोति बहिर्मुखम्।
कर्तारं स्वामिनं वापि व्यसनं प्रापयेत्तदा ॥७
प्राच्यं बहिर्मुखं कुड्यं चिनोति स्थपतिर्यदा।
राजदण्डभयं तत्र निर्देष्टव्यं विचक्षणैः ॥८
एतदेव फलं ब्रूयात्पतिते दलिते तथा।
यस्य प्राग्दक्षिणः कर्णः प्रवर्तेत बहिर्मुखः ॥९
स्यात्तत्राग्निभयं घोरं गृहभर्तुश्च संशयः।
गच्छेद्बहिर्मुखः कर्णो यदा दक्षिणपश्चिमः ॥१०
कलहोपद्र वस्तत्र स्याद्भार्यायाश्च संशयः।
पश्चिमोत्तरकर्णे तु सम्प्रयाते बहिर्मुखे ॥११
पशुवाहनपुत्राणां संशयस्तत्र जायते।
प्रागुत्तरो यदा कर्णः प्रचीयेत बहिर्मुखः ॥१२
गुरूणां संशयस्तत्र गोवृषादेश्च जायते।
विशालं यदि जायेत सर्वबाहुषु चिन्वतः ॥१३
कर्णिकासमसंस्थानं तद्भवेन्मल्लिकाकृति।
न तादृशो भवेदायस्तत्र यादृग्व्ययो भवेत् ॥१४
चयस्य तस्य दोषेण गृहक्षीणः पलायते।
चिन्वतो यदि संक्षिप्तमत्यर्थं तत्र जायते ॥१५
ब्रह्मसंज्ञं तदुद्दिष्टं तत्र राजभयं भवेत्।
विस्तृतं यदि बाह्येषु संक्षिप्तं चैव मध्यतः ॥१६
तनुमध्यं तदुद्दिष्टं तत्र विद्यात्क्षुधो भयम्।
उच्छ्रितं यदि कर्णेषु परिहीणं च मध्यतः ॥१७
निर्णतं नाम तद्विद्यात्तत्र चौरभयं भवेत्।
कर्णेषु परिहीणं चेदुच्छ्रितं चापि मध्यतः ॥१८
कूर्मोन्नतमिति ज्ञेयं सर्वदोषभयावहम्।
विषमोन्नतकर्णेषु निर्दिशेद् द्र विणक्षयम् ॥१९
प्राज्यान्नपानं तद्विद्यात्समेषु विहितेषु च।
इत्येते चीयमानस्य गुणदोषाः प्रकीर्तिताः ॥२०
तस्मात्सर्वप्रयत्नेन चयकर्म प्रयोजयेत्।
उदकेन समं नीत्वा सम्यङ्निश्चयकारणम् ॥२१
तत्रा दृते न चान्यत् स्यान्निश्चयार्थं चयस्य च।
तस्माज्जलेन वलयं गृह्णीयात्पूर्वमादृतः ॥२२
ततः सुताडिते सूत्रे चयं कुर्याद्विचक्षणः।
द्विगुणां क्षेत्रमानस्य रज्जुं कृत्वा तदन्तयोः ॥२३
योऽसौ कार्यौ ततस्तस्यां पादोनक्षेत्रमानतः।
दद्यान्निञ्छिनं कीलौ क्षेत्रगर्भान्तगामिनौ ॥२४
निधायायाः सकौ तस्याः प्रान्तस्थौ योजयेत्तयोः।
निरञ्छनाभिकृष्टायां पादोनक्षेत्रसंमितम् ॥२५
भुजगत्या भवेद्र ज्जुस्तस्यामिष्टानुमानतः।
चिह्नं दद्यात्स कर्णः स्यादेवं दोषान्प्रसाधयेत् ॥२६
भूरि नाच्छादनं दद्यान्न भिन्द्यात्तत्र चेष्टकाः।
विषमस्थाः कुठारेण च्छित्त्वा ताः कल्पयेत्समाः ॥२७
यथा न च स्पृशेत्सूत्रं विचिन्वीत तथा बुधः।
कुड्ये च सादिमध्यान्ते दृष्टिमेकां निपातयेत् ॥२८
यदा सर्वपरिक्रान्तं तलं चोद्घाटितं भवेत्।
तदा नैकत्र कुर्वीत पर्यायेण विचक्षणः ॥२९
उद्घाटनं स्तराणां तु यदीच्छेत्सिद्धिमात्मनः।
तत्र तत्र चयं कुर्याद्यदि संविद्धकं हितम् ॥३०
दुर्वहं हि भवेत्तेन तस्मात्तत्परिवर्जयेत्।
उपरिष्टात्समं पार्श्वे भुजं कुर्याद्विचक्षणः ॥३१
समन्ताद्रुचकच्छिन्नश्चयो भित्तिषु पूजितः।
तस्मात्प्रयत्नः कर्तव्यश्चयकर्मणि नित्यशः ॥३२
इति भाषितरूपितमाचरतश्चयकर्म यथाविधि शिल्पिकृतम्।
भवतीह यशो भुवने विततं गृहभर्तृरपि प्रचुरो विभवः ॥३३
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे चयविधिर्नामैकचत्वारिंशोऽध्यायः।