प्रमुखा विकल्पसूचिः उद्घाट्यताम्

समराङ्गणसूत्रधार अध्यायसूची


अथ शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः।

इदानीमभिधास्यामो विधानं शान्तिकर्मणः।

यथावदिष्ट्वा दिक्पालान् हुत्वा शान्तीर्यथाक्रमम् ॥१


स्नपयेत्कर्णिकां कुम्भैः सहिरण्यैर्विचक्षणः।

सर्वगन्धानुलिप्तां च माल्यदामविभूषिताम् ॥२


कृतमाल्यानिवसितां मूले च मधुलेपिताम्।

दोषप्रशमनार्थाय तां मूलेषु निखातयेत् ॥३


मधुकुम्भमरिष्टं च शेवालं च विधानवित्।

वाचयित्वा तु विप्रेन्द्रा न् कृतपुण्याहमङ्गलान् ॥४


स्थापयेत् कर्णिकाः सर्वाः स्थपतिः प्रयतः शुचिः।

एतेन विधिना कर्म चातुर्वर्ण्यस्य कारयेत् ॥५


कर्णिका रोपिता यत्र पुनरुत्पाट्य रोप्यते।

न तन्निष्पद्यते वेश्म स्वामी चात्र विनश्यति ॥६


निखातं तु यदा दारु च्छिद्यते ताड्यते पुनः।

तन्नाशो धनधान्यस्य स्वामिनश्चात्र सर्वथा ॥७


वल्लीनिपीडितं दारु प्रवेशे चेन्निखन्यते।

आशीविषभयं घोरं तस्मिन्नुत्पातलक्षणम् ॥८


उत्थाने कर्णिका रक्ष्या सर्वसत्त्वाभिधर्षणात्।

नवे कर्मण्यशकुना मृगव्यालसरीसृपाः ॥९


कर्णिकामधिरोहन्ति दोषांस्तत्र वदेदमून्।

कृतापीडां परिहृतां यद्यारोहन्ति वायसाः ॥१०


गृहिणस्तत्प्रवासः स्यादन्नं पानं च हीयते।

मयूरे तद्गृहं राजा हरेत्पञ्चाब्दतः परम् ॥११


वराङ्गे जायते व्याधिः कोकिलैर्द्व्यब्दतः परम्।

काकोलैस्त्रीणि वर्षाणि जायते सुमहद्भयम् ॥१२


शुके स्युः कलहाद्यानि न च निष्पद्यते गृहम्।

कुक्कुटेऽग्निभयं विद्याद्रा जतो वा महद्भयम् ॥१३


सारिकायां तु दौःशील्यं स्त्रीणां गृहपतेस्तथा।

सर्परूपेत विघ्नेन गृहं निष्ठां न गच्छति ॥१४


स्त्रीपुंसयोः कुलिङ्गे तु जायते पापकारिता।

पारावते तु जायेते स्त्रीपुंसौ गुरुतल्पगौ ॥१५


विडाले तु कुलं दासैः सह रोगैर्निपीड्यते।

ज्वलनो वा जलं वापि हस्ती वा हन्ति तद्गृहम् ॥१६


आरण्यैः शकुनैरेतत्स्याद्वर्षाद्धर्षणे फलम्।

यूनां च जायते मृत्युर्मध्वासङ्गे धनक्षयः ॥१७


दुःखप्नदर्शनं घूके बालानां मरणं तथा।

त्रस्तभीते निलीने तु राजा शून्यं हरेद्गृहम् ॥१८


यदा त्वग्रे प्रदृश्येत धूम्रः कर्णगतोऽपि वा।

अग्निर्दहति तत्क्षिप्रं विद्युद्वा हन्ति मन्दिरम् ॥१९


यत्रारोहति गृध्रस्तद्द्विजाङ्घ्रिस्पृष्टमाचरेत्।

कृत्वा हलशतैः कृष्टं ततो बीजानि वापयेत् ॥२०


गावश्चात्र प्रदुह्येरञ्शान्तिकानि च कारयेत्।

मेघेऽभिवृष्टे भूयोऽपि तत्र कुर्वीत् मन्दिरम् ॥२१


येषु येषु गृहाङ्गेषु मधुनः सञ्चयो भवेत्।

तस्याङ्गस्य वधं ब्रूयात्प्रेषिण्यां चाप्युपद्र वम् ॥२२


तस्माद्धेतोः शिखाग्रेषु मुकुटान् प्रणिधापयेत्।

यावन्न रोपयेत्सौम्यं तावद्र क्षेत्समन्ततः ॥२३


अभिलीनं तु शकुनैर्नहि किञ्चित्प्रशस्यते।

तस्मात्प्रयत्नतो रक्षेदुत्पातात्प्रागुदीरितात् ॥२४


भङ्गे गृहाणां दारूणां शान्तिहोमोऽथ कथ्यते।

इन्द्र कीलो महाकूटः पृष्ठवंशोत्तरौ धरौ ॥२५


प्रग्रहोऽलिन्दपादौ वा स्वामिनं घ्नन्त्युपद्र वाः।

तुलास्थपत्यः कूटं वा वेदिका कर्णपालिका ॥२६


नेत्रं कपोतपालिश्च हनप्रविष्टं कुटुम्बिनी।

अम्वग्राः पक्षिवंशाश्च मल्लकाः सकुमारकाः ॥२७


गोपानस्यो मृगाल्यश्च स्थपिताः स्वकुमारिकाः।

परिघा द्वारपक्षाश्च भ्रातरं घ्नन्त्युपद्र वाः ॥२८


संयुक्तं सङ्ग्रहो हन्ति निकृष्टांश्चाधरो धरः।

स्थौण्यानि प्रतिमोको वा हन्युरिष्टान् परिच्छदान् ॥२९


उदधिर्भगिनीं हन्यादथवा परिचारकान्।

पुंसां पुन्नामभिर्द्र व्यैः स्त्रीणां स्त्रीनभिर्भवेत् ॥३०


उपघातो हतैर्नित्यं द्र व्याणां तु नपुंसकैः।

भूलिका स्त्रीविनाशाय गृहनाशाय वेधनम् ॥३१


कीला वा सन्धिपालिर्वा मित्रनाशाय दुष्यति।

नवे गृहे नवं दारु क्रियमाणमथो कृतम् ॥३२


आयोज्यमानं युक्तं वा न्यूनसंवत्सरं स्थितम्।

भज्यते देहनाशाय स्फुटत्यथ विभज्यते ॥३३


गृहं ब्राह्मणसात्कृत्वा रत्नैरालिख्य चापरम्।

नवैर्वस्त्रैः परिच्छाद्य पुनर्भिद्यानि कारयेत् ॥३४


दग्धे भिन्ने प्रचलिते विनते विद्युता हते।

विरूढे दलिते सन्ने सर्वत्रौषधिभिः स्मृताः ॥३५


शान्तयो विविधं हुत्वा ब्राह्मणान्स्वस्ति वाच्य वा।

स्थूणिका भज्यते यस्य कीर्त्तिस्तस्योपहन्यते ॥३६


चन्द्र सूर्यौ यजेत्तत्र ततः शाम्यति पातकम्।

तद्विधं वृक्षमानीय पुनस्तां प्रति कारयेत् ॥३७


एवं कृते सुखी स स्यात्कीर्त्तिश्चायुर्ध्रुवा भवेत्।

मल्लको भज्यते यस्य पौरुषं तस्य हन्यते ॥३८


इष्टानभसनक्षत्रं प्रायश्चित्तं समाचरेत्।

तद्विधं वृक्षामानीय प्रति कुर्वीत मल्लकम् ॥३९


एवं कृत्वा सुखी स स्याद्बलं चास्याभिवर्धते।

पृष्ठवंशस्य भङ्गेन गृही बन्धमवाप्नुयात् ॥४०


राजराजं यजेत्तत्र प्रायश्चित्तं तथाचरेत्।

सुखी भवति तत्कृत्वा सर्वतश्चाभिवर्धते ॥४१


सर्वेषु स्वस्ति वाच्याश्च ब्राह्मणा दक्षिणाक्षतैः।

वारणो भज्यते यस्तु ज्येष्ठं पुत्रं स वाज्यते ॥४२


पृथ्वीधरं यजेत्तत्र प्रायश्चित्तं तथाचरेत्।

तद्विधं वृक्षमानीय पुनस्तं प्रति कारयेत् ॥४३


सुखी भवति कृत्वैवं पुत्रैश्चापि विवर्धते।

संग्रहो भज्यते यस्तु कुलज्येष्ठं स वार्धते ॥४४


पितॄन्देवान्यजेत्तत्र प्रायश्चित्तं तथाचरेत्।

सुखी भवति कृत्वैवं प्रीयन्ते पितरस्तथा ॥४५


स्थूण्यं तु भज्यते यस्य तनयस्तस्य बाध्यते।

देवानेव यजेत्तत्र प्रायश्चित्तं तथाचरेत् ॥४६


तद्विधं वृक्षमानीय तत्स्थौण्यं प्रति कारयेत्।

सुखी भवति कृत्वैवं पुत्रैश्चापि विवर्धने ॥४७


उपधी व्यथते यत्र तत्रामात्यो विनश्यति।

यजेत वासवं तत्र प्रायश्चित्तं तथाचरेत् ॥४८


आनीय तद्विधं वृक्षमुपधिं प्रति कारयेत्।

एवं कृते भवेत्सौख्यममात्यैश्च विवर्धते ॥४९


कायस्तु व्यथते यस्य प्रेष्यस्तस्योपहन्यते।

यक्षं तत्र यजेद्देवं प्रायश्चित्तं तथाचरेत् ॥५०


तद्विधं काष्ठमानीय कायं तं प्रति कारयेत्।

एवं कृते सुखी स स्यात्प्रेष्यैरपि विवर्धते ॥५१


तुला तु व्यथते यस्य व्यथतेऽस्य कुटुम्बिनी।

यजेत मेदिनीं तत्र प्रायश्चित्तं तथाचरेत् ॥५२


तद्विधं वृक्षमानीय स्थापयेत् तां स्वलङ्कृताम्।

ततस्त्वन्याः क्रियाः पश्यन् कारयेन्मतिमान्नरः ॥५३


वधूमिव नवैर्वस्त्रैः प्रतिच्छाद्य स्वलङ्कृताम्।

ब्राह्मणान्वाचयेत्स्वस्ति ततस्तां प्रति कारयेत् ॥५४


सुखी भवति कृत्वैवं धनैर्नित्यं विवर्धते।

कर्णिकास्वान्तरस्थूणामालापादोऽथ भज्यते ॥५५


तद्गृही दुःखमाप्नोति तस्मिन्नुत्पातलक्षणे।

आनीय स्थपतिं तत्र प्रज्ञावन्तं बहुश्रुतम् ॥५६


तत्र वास्तुविभागेन यो देवः स्याद्विनिश्चितः।

तस्मै देवाय जुहुयात्प्रायश्चित्तं च कारयेत् ॥५७


सुखी भवति कृत्वैवं सर्वतश्चाभिवर्धते।

युगं तु व्यथते यत्र तत्र स्यात्पशुपीडनम् ॥५८


यजेत तस्मिन्नीशानं प्रायश्चित्तं च कारयेत्।

तद्विधं वृक्षमानीय युगं तत्प्रति कारयेत् ॥५९


एवं कृते सुखं तस्य पशुवृद्धिश्च जायते।

तुलयो अगयोर्वापि पादो यस्य प्रभज्यते ॥६०


आयुर्हानिर्भवेत्तत्र बलदेवं प्रपूजयेत्।

प्रायश्चित्तं ततः कृत्वा पुनस्तं प्रति कारयेत् ॥६१


सुखी भवति कृत्वैवं कुटुम्बी शान्तिकं च तत्।

द्वाराङ्गं यस्य माहेन्द्रं हिंस्यते नवकर्मणि ॥६२


इन्द्रं तत्र यजेद्देवं प्रायश्चित्तं तथाचरेत्।

गृहक्षतस्य द्वाराङ्गे पूजयेद्यममेव तत् ॥६३


पुष्पदन्तस्य द्वाराङ्गे वरुणं तत्र पूजयेत्।

द्वाराङ्गं यस्य भल्लाटं हिंस्यते नवकर्मणि ॥६४


सोमं तत्र यजेद्देवं प्रायश्चित्तं समाचरेत्।

सुखी भवति कृत्वैवं कुटुम्बी शान्तिकं च तत् ॥६५


स्थूणाराजस्य यस्याग्रं वक्रं दक्षिणतो भवेत्।

शरीरं व्यथते तत्र प्रतिसंवत्सरं स्थिरम् ॥६६


पृष्ठतो दीर्घशोकः स्यादुत्तरेण धनक्षयः।

पूर्वतो राजदण्डः स्यात्तस्मात्तद् ऋजु शस्यते ॥६७


चत्वार्यङ्ग हिंस्यन्ते शरीरा ये च वेश्मनः।

तुला वा पृष्ठवंशो वा धारण्यां चोत्तराम्बरः ॥६८


उक्तांस्तत्र बलीन्कुर्यात्प्रायश्चित्तं तथाचरेत्।

एवं धन्यं शिवं पुष्टिप्रजावृद्धिकरं भवेत् ॥६९


इत्थं निमित्तानि गृहाश्रितानि।

ज्ञात्वा प्रदृष्टाञ्शकुनांश्च सर्वान्।

शान्तिं प्रकुर्वन्पृथगुक्तरूपां।

प्राप्नोति कीर्त्तिं सुखमर्थमायुः ॥७०


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः।