प्रमुखा विकल्पसूचिः उद्घाट्यताम्

समराङ्गणसूत्रधार अध्यायसूची

अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः।


प्रोक्तं चतुर्धा स्थापत्यं वास्तुतत्त्वस्य सिद्धये।

ब्रूमस्तदेव चेदानीमङ्गैः संयुक्तमष्टभिः ॥१


तेष्वङ्गं प्रथमं प्रोक्तं वास्तुपुंसो विकल्पना।

पुरस्य विनिवेशस्तु द्वितीयं द्वारकर्म च ॥२


रथ्याविभागः प्राकारनिवेशोऽट्टालकस्य च।

विनिवेशः प्रतोलीनां विभागस्थानकानि च ॥३


प्रासादश्च तृतीयं स्याच्चतुर्थं तु ध्वजोच्छ्रितिः।

पञ्चमं नृपतेर्वेश्म स्थानान्तरविभक्ति च ॥४


चातुर्वर्ण्यविभागश्च गृहभागश्च षष्ठकम्।

सप्तमं यजमानस्य शालायां मानमीरितम् ॥५


यज्ञवेदीप्रमाणं च कोटिहोमविधिस्तथा।

अष्टमं राजशिबिरनिवेशो दुर्गकर्म च ॥६


यो वेत्त्यङ्गान्यमून्यष्टौ सोऽत्र स्थपतिसत्तमः।

यशो मानं स लभते पूज्यते च नराधिपैः ॥७


अशास्त्रज्ञमकर्मजं स्थपतिं यः प्रयोजयेत्।

न तस्य वास्तु सिध्येत सिद्धमप्यसुखावहम् ॥८


तस्मात्कर्म च शास्त्रं च यो वेत्ति द्वितयं नरः।

अष्टाङ्गमपि यो वेत्ति स राज्ञः स्थपतिर्भवेत् ॥९


अङ्गानि पूर्वमुक्तानि वास्तुशास्त्रोक्तविस्तरात्।

तेषु प्रासादिकं यत्तद्वक्ष्यामोऽग्रे सविस्तरम् ॥१०


अथाङ्गं सप्तमं ब्रूमो यत्तद्यज्ञेषु युज्यते।

विनिविष्ठे पुरे पूर्वं कॢप्तेषु सुरधामसु ॥११


दिशि दक्षिणपूर्वस्यां यज्ञार्थं मापयेद्भुवम्।

निवेशं तत्र कुर्वीत चतुरश्रं समन्ततः ॥१२


आयामेन विधातव्यो हस्ताष्टादशविस्तृतः ।

पूर्वद्वारं विधातव्यमादित्यस्य पदे बुधैः ॥१३


तस्य पश्चिमभागे तु यजमानकुटी भवेत्।

षोडशायामविस्तारा प्राङ्मुखी सा प्रशस्यते ॥१४


यजमानकुटीद्वारे देवता या च कीर्तिता।

ततः प्रभृति पूर्वेण प्राग्वंशं परिकल्पयेत् ॥१५


वेदिमध्ये स्थितं तत्स्यान्मानं वेद्याश्च शस्यते।

पूर्वापरेण षट्त्रिंशत्कर्तव्याः प्रक्रमा बुधैः ॥१६


एकत्रिंशत्कुटीभागे मध्येऽष्टादश कल्पयेत्।

प्रक्रमाः स्युः शिरस्थाने विंशतिश्चतुरुत्तरा ॥१७


पुरुषस्य शिरस्तत्र प्राग्वंशे तु प्रतिष्ठितम्।

तस्मात्पूर्वोत्तरं ज्ञेयं सर्वयज्ञेषु पूजितम् ॥१८


वेद्यन्तरं तु कर्तव्यं शकटं येन गच्छति।

तस्मादुत्तरवेदी या कार्या प्रत्युत्तरेण तु ॥१९


द्विहस्तायामविस्तारो होमचेष्टः कृतोऽत्र हि।

प्राग्दक्षिणेन संस्थानं यजमानस्य शस्यते ॥२०


कटिमात्रं सदा कार्यं नाभिमात्रमथापि वा।

ततोऽधिकेन दुर्भिक्षमनावृष्टिश्च जायते ॥२१


एषा यज्ञक्रिया प्रोक्ता कोटिहोमोऽथ वक्ष्यते।

पुरस्याभ्यन्तरे भागे हुताशस्य पदे तथा ॥२२


तस्मिन्स्थाने विधातव्यः कोटिहोमः सदा पुरे।

लक्षहोमश्च कर्तव्यो नित्यो नैमित्तिकोऽपि वा ॥२३


अथ भूमिवशात्स्थानं कदाचिन्नैव लभ्यते।

सर्वतो ब्रह्मणः स्थानाद्धोमस्थानं निवेशयेत् ॥२४


ऐशानीं दिशमाश्रित्य ब्राह्मणैर्वेदपारगैः।

पुरश्चरणतत्त्वज्ञैः षट्कर्मनिरतैः सदा ॥२५


नित्यं शान्तिपरैर्विप्रै राजा तु विजयी भवेत्।

नोपसर्गास्तु जायन्ते न च लक्ष्मीः पुरं त्यजेत् ॥२६


अनावृष्टिभयं नास्ति सुभिक्षं जायते सदा।

उक्तं याज्ञिकमङ्गं तु सर्वाङ्गेभ्यः प्रशस्यते ॥२७


सर्वं स्थपतिना ज्ञेयं तत्त्वज्ञैर्ब्राह्मणैः सह।

एकाशीतिपदेनैव यज्ञभूमिं तु मापयेत् ॥२८


निवेशं शिबिरस्याथ कथयामोऽङ्गमष्टमम्।

यदा तु नृपतिः स्थानात्स्वाद्यात्राभिमुखो भवेत् ॥२९


शिबिरस्य निवेशं च तत्त्ववेत्ता परीक्षयेत्।

अर्थशास्त्रविधिज्ञो वा स्थपतिर्वा प्रकल्पयेत् ॥३०


शिबिरं चतुरश्रं स्याद्वृत्तं वृत्तायतं क्वचित्।

चतुरश्रायतं वापि विषमं वा क्वचिद्भवेत् ॥३१


भूमिभागवशात्कल्पं महारथ्योभयान्वितम्।

शिबिरस्य तु चत्वारि कुर्याद्द्वाराणि यत्नतः ॥३२


रथ्या सार्धा तु सेनायाः पुररथ्याप्रमाणतः।

मित्रे स्थानं नरपतेः कार्यं पृथ्वीधरेऽपि वा ॥३३


आर्यम्णे वा विधातव्यं पदे वैवस्वतोऽथवा।

निवेशो मन्त्रिणां कार्यः पश्चिमो राजवेश्मनः ॥३४


पुरोहितस्योत्तरतो बलाध्यक्षस्य पूर्वतः।

अन्तःपुरं दक्षिणतो भाण्डागारं तथैव च ॥३५


गृहं प्रविशतो राज्ञो न्यस्येद्दक्षिणतो हयान्।

वामे च दन्तिनो न्यस्येदेवं सैन्यं निवेशयेत् ॥३६


बाह्यतः परिखां तस्य कारयेद्रा जवेश्मनः।

हस्तांस्त्रींश्चतुरो वापि पञ्चहस्तानथापि वा ॥३७


चतुष्षष्टिपदाख्येन विभाज्यं शिबिरं बुधैः।

निवेशः शिबिरस्योक्तो दुर्गकर्माथ कथ्यते ॥३८


दुर्गं तु षड्विधं प्रोक्तं राज्ञां तु विजिगीषताम्।

अब्दुर्गं पङ्कदुर्गं वा वनदुर्गैरिणे तथा ॥३९


पार्वतीयं महादुर्गमिति कल्प्यानि पार्थिवैः।

सर्वेषामेव दुर्गाणां पार्वतीयं प्रशस्यते ॥४०


दुर्गस्थानविभागोऽडो!शाख्येन कीर्तितः।

मध्ये तु ब्रह्मणः स्थानमसम्बाधं विधीयते ॥४१


ब्रह्मस्थानं समारभ्य हर्म्यं पञ्चशयाः स्मृताः।

उपरथ्या त्रिहस्ता तु शेषास्तु द्विशयाः स्मृताः ॥४२


सन्निकृष्टा विधातव्या दुर्गारथ्या समन्ततः।

द्वारं रथ्याप्रमाणेन कार्यं नात्यन्तमुच्छ्रितम् ॥४३


परचक्रसमं बाधं सुरक्षं तत्सदा भवेत्।

दुर्गेश्वरगृहस्थानं ब्रह्मणः परितो भवेत् ॥४४


वैवस्वतेऽथवार्यम्णे मैत्रे पृथ्वीधरेऽपि वा।

यथा पुरे पुरा प्रोक्तं स्थानं दुर्गेऽपि तत्तथा ॥४५


वीराः शुभा ह्यदोषाश्च भूमिपालस्य संमताः।

धनुर्वेदविधिज्ञाश्च कृतास्त्राः शास्त्रपारगाः ॥४६


दुर्गे स्थाप्याः सुरूपाश्च बहवश्च वरस्त्रियः।

अन्तःपुरं च कोशं च कुमारांश्चात्र वासयेत् ॥४७


एवं दुर्गविधानस्य समासोऽयमुदाहृतः।

इत्यष्टाङ्गो वास्तुशास्त्रस्य सारः संक्षेपेण स्पष्टमस्माभिरुक्तः।

यत्र ज्ञाते शिल्पिवद्वास्तुविद्यापाथोनाथं सन्तरन्त्यप्रयासात् ॥४८


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे अष्टाङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः।