समराङ्गणसूत्रधार अध्याय ४७

समराङ्गणसूत्रधार अध्यायसूची

अथ वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः।


वेद्यश्चतस्रो विज्ञेया या पुरा ब्रह्मणोदिताः।

वयं ताः संप्रवक्ष्यामो नामसंस्थानमानतः ॥१


प्रथमा चतुरश्रा स्यात्सभद्रा च द्वितीयका।

तृतीया श्रीधरी नाम चतुर्थी पद्मिनी स्मृता ॥२


यज्ञकाले तथोद्वाहे देवतास्थापनेषु च।

नीराजनेषु सर्वेषु वह्निहोमे च नित्यशः ॥३


नृपाभिषेचने चैव शक्रध्वजनिवेशने।

नृपयोग्या भवन्त्येता वर्णानामनुपूर्वशः ॥४


चतुरश्रा तु या वेदि नवहस्ता समन्ततः।

अष्टहस्ता प्रमाणेन सर्वभद्रा प्रकीर्तिता ॥५


श्रीधरी सप्त विज्ञेया हस्तान् मानेन वेदिका।

षड्ढस्ता चैव शास्त्रज्ञैर्नलिनीह विधीयते ॥६


चतुरश्रा तु कर्तव्या चतुरश्रा समन्ततः।

भद्रै स्तु सर्वतोभद्रा भूषणीया चतुर्दिशम् ॥७


श्रीधरी चापि विज्ञेया कोणविंशतिसंयुता।

नलिनीति च विज्ञेया पद्मसंस्थानधारिणी ॥८


कर्तव्याः स्वस्वविस्तारादुच्छ्रयेण त्रिभागिकाः।

कुर्यान्मन्त्रवतीभिस्ता इष्टकाभिस्तु चायताः ॥९


चतुरश्रा यज्ञकाले विवाहे श्रीधरी स्मृता।

देवतास्थापने वेदीं सर्वभद्रां निवेशयेत् ॥१०


नीराजने साग्निकार्ये तथा राजाभिषेचने।

वेदी पद्मावती या च तथा शक्रध्वजोच्छ्रये ॥११


चतुर्मुखा तु कर्तव्या सोपानैश्च चतुर्दिशम्।

प्रतीहारसमायुक्ता चार्धचन्द्रो पशोभिता ॥१२


चतुःस्तम्भसमायुक्ता चतुष्कुम्भविराजिता।

काञ्चनै राजतैस्ताम्रैर्मृन्मयैः कलशैस्तथा ॥१३


कोणे कोणे तु विन्यस्तैर्वल्गुवानरभूषितैः।

स्तम्भप्रमाणं वेदीनां कार्यं छाद्यवशेन च ॥१४


एकेन द्वित्रिभिर्वापि च्छाद्यैः सामलसारिकैः ।

स्तम्भमूलानि चाभ्यज्य गुडेन मधुसर्पिषा ॥१५


परमान्नेन वाभ्यज्य तान्विन्यस्येद्यथातथम्।

देवताः पूजयित्वा तु ब्राह्मणान्स्वस्ति वाचयेत् ॥१६


चतुर्विधमितीरितं यदिह वेदिकालक्षणं।

समग्रमपि वर्तते मनसि यस्य तच्छिल्पिनः।

स याति भुवि पूज्यतामवनिभोक्तुराप्नोति च।

श्रियं स्थपतिसंसदि स्फुरति चास्य शुभ्रं यशः ॥१७


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः।