प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

समराङ्गणसूत्रधार अध्याय ४८

समराङ्गणसूत्रधार अध्यायसूची

अथ गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः।


अतः परं गृहादीनामप्रशस्तसमुच्छ्रितम्।

क्रियते कथितं यस्मादेकत्र सुसमं भवेत् ॥१


रक्षोम्बुनाथकीनाशमरुद्दहनदिक्प्लवा।

मध्यप्लवा च भूर्व्याधिदारिद्र य्मरकावहा ॥२


वह्निप्लवा वह्निभिये मृतये दक्षिणप्लवा।

रुजे रक्षःप्लवा प्रत्यक्प्लवा धान्यधनच्छिदे ॥३


कलहाय प्रवासाय रोगाय च मरुत्प्लवा।

मध्यप्लवा तु भूमिर्या सर्वनाशाय सा भवेत् ॥४


तुषास्थिकेशकीटत्वशङ्खभस्मोषरान्विताम्।

कर्पराङ्गारिणीं दुष्टसत्त्वानार्यजनां त्यजेत् ॥५


चैत्रे शोककरं वेश्म ज्येष्ठे मृत्युप्रदायकम्।

पशुनाशनमाषाढे शून्यं भाद्र पदे कृतम् ॥६


आश्विने कलहाय स्यात्कार्त्तिके भृत्यनाशनम्।

माघे चाग्निभयाय स्यान्मासेष्वेषु न कारयेत् ॥७


पावकस्य पदे पृष्ठवंशस्यापि च पश्चिमे।

पुरप्रासादकर्णे च कीलादि प्राक् प्रयोजयेत् ॥८


पूर्वपश्चिमदिङ्मूढं वास्तु स्त्रीनाशकृद्भवेत्।

उदङ्मूढं न निष्पत्तिं याति सर्वं च नाशयेत् ॥९


यत्तु दक्षिणदिङ्मूढं जायते मरणाय तत्।

प्राग्वास्तुनि कुर्वीत प्रासादं मन्दिरं पुरे ॥१०


वलितं चलितं भ्रान्तं विसूत्रं च समुत्सृजेत्।

यत्स्यान्मुखविनिष्क्रान्तं वलितं तत्प्रकीर्तितम् ॥११


चलितं पृष्ठनिष्क्रान्तं दिङ्मूढं भ्रान्तमुच्यते।

विसूत्रं कर्णहीनं स्यात्फलमेषां प्रचक्ष्महे ॥१२


वलिते चलति स्थानं चलिते विग्रहो भवेत्।

भ्रान्तं योषिद्विनाशाय विसूत्रं भूरिशत्रुकृत् ॥१३


मूषकोत्करवल्मीकप्रान्ता वक्रा भुजङ्गवत्।

छिन्ना भिन्ना विकर्णा च न वास्तुनि शुभा क्षितिः ॥१४


मूषकोत्करवत्यर्थं हन्ति वल्मीकिनी सुतम्।

विकर्णा कुरुते कर्णरोगं छिन्ना विनाशिनी।

भिन्ना भेदं करोत्युर्वी कुटिला मतिवक्रताम् ॥१५


सपादं सत्रिभागं वा सार्धं द्विगुणमेव च।

यत्स्यान्मुखायतं वेश्म तदनिष्टफलप्रदम् ॥१६


यद् द्विशालं त्रिशालं वा चतुःशालमथापि वा।

मूषया रहितं वेश्म तदनिष्ठफलप्रदम् ॥१७


पुरतः पृष्ठतः पार्श्वे यदि वालिन्दवर्जिता।

गृहे न शस्यते शाला देवागारे तु शस्यते ॥१८


अन्यपृष्ठस्थितद्वारं वेश्म खादकमुच्यते।

परस्परविरोधाय तद्वेश्म गृहिणोस्तयोः ॥१९


सशल्यं पादहीनं च समसन्धि शिरोगुरु।

वेश्मनामिदमुद्दिष्टं मर्मदोषचतुष्टयम् ॥२०


वास्तुक्षेत्रस्य यत्राङ्गे यस्य वर्त्म प्रवर्तते।

तदङ्गं वास्तुनस्तस्य च्छिन्नं तेनेति निर्दिशेत् ॥२१


छिन्नाङ्गं विकलं तत्स्याद्भीतिदं सर्वदोषकृत्।

तद्भर्तुर्भज्यतेऽङ्गं तद्वेधस्तस्याफलोऽन्यथा ॥२२


स्वगृहद्वयमध्येन निर्वाहो यदि वर्त्मनः।

द्वारवेधोदितान्दोषांस्तदा प्राप्नोति निश्चितम् ॥२३


मार्गश्चैको यदा गच्छेदुभयोर्गृहपार्श्वयोः।

मार्गवेधस्तदा स स्याच्छोकसन्तापकारकः ॥२४


उत्सङ्गः पूर्णबाहुश्च हीनबाहुस्तथापरः।

प्रत्यक्षाय इति प्रोक्तं प्रवेशानां चतुष्टयम् ॥२५


गृहस्य सम्मुखं यत्र द्वारं भवति वास्तुनः।

उतसङ्ग इति स प्रोक्तः पूर्णबाहुः प्रदक्षिणः ॥२६


वामतो हीनबाहुः स्यात्प्रत्यक्षो वास्तु पृष्ठतः।

चतुर्थोऽयं समुद्दिष्टः प्रवेशो वास्तुनो बुधैः ॥२७


उत्सङ्गाख्ये प्रवेशे स्यात्प्रजाहानिः कुटुम्बिनः।

धनधान्यक्षयो वास्य मरणं ध्रुवं भवेत् ॥२८


पूर्णबाहौ पुत्रपौत्रा धनधान्यसुखानि च।

भवन्ति वसतो नित्यं गृहिणस्तत्र वास्तुनि ॥२९


अल्पमित्रो गृही हीनबाहावत्यल्पबान्धवः।

स्याद्वाल्पवित्तो जीयेत स्त्रीभिः पीड्येत वामयैः ॥३०


प्रत्यक्षाय प्रवेशस्तु विहितो यत्र वेश्मनि।

तस्मिन्निवसतां पुंसां निश्चितः स्याद्धनक्षयः ॥३१


मूषास्वस्थानयुक्तासु शालाभेद इति स्मृतः।

प्राप्नोति तत्र निवसन्मृत्युं दुःखं सरोगताम् ॥३२


उदग्दक्षिणशालासु पूर्वापरगतासु च।

अन्यथा वा स्थितं द्वारं वधबन्धनकारकम् ॥३३


मूषागतान् भ्रमान्कुर्यान्न शालां प्रतिभेदयेत्।

भ्रमभग्नासु शालासु विपद्यन्ते कुटुम्बिनः ॥३४


शालाभेदो भवेद्यत्र पृष्ठतः पार्श्वतोऽपि वा।

धनधान्यक्षयस्तत्र गृहिणो जायते ध्रुवम् ॥३५


यत्र प्रत्यङ्मुखे शाले गृहं तत्स्याद्विकोकिलम्।

आयुश्चतुष्पदं धान्यं वसतां तत्र नश्यति ॥३६


सीमाशालाप्रभिन्नस्य प्रासादस्य गृहस्य च।

अस्थिरा जायते ऋद्धिः स्थितिश्च न भवेच्चिरम् ॥३७


सर्वदोषकरि ज्ञेया गर्भे चन्द्रा वलोकिता।

मूषां विना विनाशाय कामोच्छित्त्यै गवाक्षकः ॥३८


यदा गण्डोऽथवा कुक्षिः पृष्ठं कक्षाथ भिद्यते।

दायद्रयं जायते भर्तुस्तदानीमदुस्सहम् ॥३९


गर्भादुभयतो गण्डौ कक्षे स्तः कर्णभित्तिगे।

दक्षिणोत्तरयोः कुक्षी पृष्ठतः पृष्ठमादिशेत् ॥४०


स्थापितद्वारसंरोधे गृहिणो जायतेऽश्मरी।

द्वारे तु विहिते तस्मिन्ननर्थस्तस्य जायते ॥४१


पूर्वद्वारनिरोधं तु नवमागं कदाचन।

श्रोत्ररोधेऽश्मरीदोषः कृत्तश्रोत्रेह्यनम्यता ॥४२


कृत्तानि यत्र चीयन्ते गवाक्षालोकनानि च।

तत्र प्रसूतिर्न भवेन्निष्पन्नापि विनश्यति ॥४३


चीयमाना यदा भित्तिर्दक्षिणा स्याद्बहिर्मुखी।

तदा व्याधिभयं विद्यान्नृपदण्डभयं तथा ॥४४


यदा तु पश्चिमं कुड्यं प्रयाति बहिरग्रतः।

धनहानिं विजानीयाच्चौरेभ्यश्च भयं तदा ॥४५


उत्तरं तु यदा कुड्यं चीयमानं बहिर्व्रजेत्।

गृहभर्तुश्च कर्तुश्च व्यसनं स्यात्तदा महत् ॥४६


यदाग्रं चीयमानायाः पूर्वभित्तेर्बहिर्व्रजेत्।

तदा गृहपतेस्तीव्रं राजदण्डभयं भवेत् ॥४७


प्राग्दक्षिणो यदा कर्णश्चीयमानो बहिर्व्रजेत्।

तत्राग्निभीतिरतुला संशयश्च प्रभोर्भवेत् ॥४८


बहिर्मुखो यदा गच्छेत्कर्णौ दक्षिणपश्चिमः।

कलहोपद्र वस्तत्र स्याद् भार्यायाश्च संशयः ॥४९


यत्रोत्तरापरः कर्णश्चीयमानो व्रजेद्बहिः।

पुत्रवाहनभृत्यानां भवेत्तस्मिन्नुपद्र वः ॥५०


यदा प्रागुत्तरः कर्णो बहिर्गच्छति वेश्मनः।

तदा गवां वृषाणां च गुरूणां च क्षयो भवेत् ॥५१


चतस्रो भित्तयो यस्य बहिर्निर्यान्ति वेश्मनः।

चीयमानास्तदत्रोक्तं मन्दिरं मल्लिकाकृति ॥५२


तादृग् गृहे न तत्रायो व्ययो भवति यादृशः।

कर्शितोऽस्यैव दोषेण तस्य भर्त्ता पलायते ॥५३


संक्षिप्यते तु यद्वेश्म चीयमानं समन्ततः।

संक्षिप्तमिति तज्ज्ञेयं तत्र राजभयं भवेत् ॥५४


यत्स्यादन्तेषु संक्षिप्तं विस्तृतं चापि मध्यतः।

मृदङ्गाकृतिसंस्थानं तत्र व्याधिभयं भवेत् ॥५५


आद्यन्तविस्तृतं यत्स्यात्संक्षिप्तं चापि मध्यतः।

मृदुमध्यं तदुद्दिष्टं क्षुद्भयं तत्र जायते ॥५६


विषमैरुन्नतैः कर्णैर्धनक्षयकरं गृहम्।

भित्तिवच्चापि कर्णेषु प्रागुक्तं फलमादिशेत् ॥५७


मध्ये द्वारं न कर्तव्यं मनुजानां कथञ्चन।

मध्ये द्वारे कृते तत्र कुलनाशः प्रजायते ॥५८


द्वारं द्वारेण वा विद्धमशुभायोपपद्यते।

अनिष्टद्र व्यसंयुक्तं धनधान्यबिनाशनम् ॥५९


नवं पुराणसंयुक्तमन्यं स्वामिनमिच्छति।

अधोग्रं राजदण्डाय विद्धं द्वारं विगर्हितम् ॥६०


नवं पुराणसंयुक्तं द्र व्यं तु कलिकारकम्।

न मिश्रजातिद्र व्योत्थं द्वारं वा वेश्म वा शुभम् ॥६१


गृहस्थानेषु यद्द्रव्यमधिवास्य प्रतिष्ठितम्।

तच्चालनेन चलनं गृहभर्तुः प्रजायते ॥६२


अन्यवास्तुच्युतं द्र व्यमन्यवास्तौ न योजयेत्।

प्रासादे न भवेत्पूजा गृहे च न वसेद्गृही ॥६३


द्र व्येण देवदग्धेन भवनं यद्विधीयते।

न तत्र वसति स्वामी वसन्नपि विनश्यति ॥६४


सूर्योद्भवा द्रुमच्छाया ध्वजच्छाया च गर्हिता।

द्वारातिक्रमणादेताः क्षुद्व्याधिकलिकारकाः ॥६५


प्रासादशिखरच्छाया ध्वजच्छायेति कीर्तिता।

त्रिपञ्चसप्तमी भर्तुर्गृहतारा न शोभना ॥६६


निम्नोन्नतं करालं च सम्मुखं पृष्ठदेशगम्।

वामावर्तं च न शुभं द्वारमग्रतरं गृहे ॥६७


निम्ने स्यात्स्त्रीजितो भर्ता दुर्जनस्थितिरुन्नते।

सम्मुखे सुतपीडा स्यात्पृष्ठगे चपलाः स्त्रियः ॥६८


वामे वित्तक्षयो द्वारि भवत्यग्रतरे प्रभोः।

द्वारं तस्मान्न कर्तव्यमीदृग्रूपं विचक्षणैः ॥६९


नागदन्ततुलास्तम्भभित्तिमूषागवाक्षकाः।

द्वारमध्ये न दातव्या न चैते विषमस्थिताः ॥७०


इतिहासपुराणोक्तं वृत्तान्तप्रतिरूपकम्।

निन्दितं च गृहे नेष्टं शस्तं देवकुलेषु तत् ॥७१


यानीन्द्र जालतुल्यानि यानि मिथ्याकृतानि च।

भीषणानी च यानि स्युर्न कुर्यात्तानि वेश्मसु ॥७२


स्वयमुद्धाटितं द्वारमुच्चाटनकरं भवेत्।

धनहृद् बन्धुवैरं स्यादथवा कलिकारकम् ॥७३


स्वयं यत्पिहितं द्वारं तद्भवेद्बहुदुःखदम्।

सशब्दं भयकृत्पादशीतलं गर्भपातनम् ॥७४


द्र व्यं नाधोमुखं कार्यं प्रत्यग्याम्याननं न च।

पश्चिमाग्रे परिक्लेशो दक्षिणाग्रे तु शून्यता ॥७५


स्तम्भद्वारं च भित्तिं च विपरीतं न कारयेत्।

अमीषां वैपरीत्येन दोषाः स्युर्बहवो नृणाम् ॥७६


मूलसूत्रानुसारेण कर्तव्या भूमिकोपरि।

उपर्युपरि यद्वेश्मसमं संतापकारकम् ॥७७


अधोभूमौ क्षणा ये स्युस्तत्समांश्चोर्ध्वभूमिषु।

परित्यजन्नपहिता न कुर्वीत यथोत्तरम् ॥७८


शाला निम्ना भवेद्यस्मिन्नलिन्दस्त्वधिको भवेत्।

निधनं जायते तत्र सदा शोकभयानि च ॥७९


मूलद्वारानुसारेण द्वाराण्युपरिभूमिषु।

कुर्याद्भयप्रदानि स्युर्विहितान्यन्यथा पुनः ॥८०


क्षुद्भयप्रदमाध्मानं कुब्जं कुलविनाशनम्।

अत्यर्थं पीडितं पीडां करोत्यन्तनतं क्षयम् ॥८१


प्रवासो बाह्यविनते दिग्भ्रान्ते दस्युतो भयम्।

मूलद्वारं क्षयं कुर्याद्विद्धं द्वारान्तरेण यत् ॥८२


प्रवासो भृत्यजो द्वेषो विद्धे चत्वररथ्यया।

नाशं द्र व्यं ध्वजाविद्धं वृक्षेण शिशुदूषकम् ॥८३


पङ्कविद्धे भवेच्छोकः सलिलस्राविणि व्ययः।

कूपेन विद्धेऽपस्मारो विनाशो दैवतेन च ॥८४


स्तम्भेन दूषणं स्त्रीणां ब्रह्मणा तु कुलक्षयः।

मानादभ्यधिके द्वारे राजतो जायते भयम् ॥८५


व्यसनं मानतो हीने चौरेभ्यश्च भयं भवेत्।

व्याधयः श्वभ्रविद्धेन धनस्य च परिक्षयः ॥८६


देवध्वजेन बन्धः स्यात्सभयैश्वर्यसंक्षयः।

सन्निपातभयं वाप्या तुल्या दृष्टत्वमाकृते ॥८७


हृद्रुक्कुलालचक्रेण दारिद्रयं वारिणा भवेत्।

व्याधिरुक्कचकूटेन आपाकेन सुतक्षयः ॥८८


निश्चतोदूखलेन स्याच्छिलया चाश्मरी भवेत्।

तोयभाण्डेन दुर्मन्त्री भस्मना चार्शसो गृही ॥८९


दारिद्रयं छायया विद्धे भवेद्द्वारे कुटुम्बिनः।

स्थलस्यन्दनवल्मीकैर्विदेशगमनं भवेत् ॥९०


कृशं विकृतमत्युच्चं करालं शिथिलं पृथु।

वक्रं विशालमुत्तानं शूलाग्रं ह्रस्वकुक्षिकम् ॥९१


स्वपादचलितं ह्रस्वं हीनकर्णं मुखानतम्।

पार्श्वगं सूत्रमार्गाच्च भ्रष्टं द्वारं न शोभनम् ॥९२


तत्करोति क्षयं घोरं विनाशं स्वामिसम्पदः।

वसतां कलहं नित्यमतस्तत्परिवर्जयेत् ॥९३


अन्तर्द्वाराद्बहिर्द्वारं नोच्चं कुर्यान्न सङ्कटम्।

उच्चं विसङ्कटं वापि तच्छिवाय न जायते ॥९४


पट्टसन्धिर्यदा मध्ये द्वारस्य स्यात्कथञ्चन।

कर्तुस्तदा विनाशः स्यात्कुलस्य च परिक्षयः ॥९५


तुला उपतुला वा स्युर्द्वारि तिर्यग्यदा कृताः।

दारिद्र य्व्याधिसन्तापा भवन्ति स्वामिनस्तदा ॥९६


अनुवंशमनुप्राप्ता जयन्त्यो यदि मन्दिरे।

वित्तायुषोस्तदाल्पत्वमनारोग्यं च जायते ॥९७


उदुम्बरे निहिताललाटी नाम सा तुला।

दूषणं मरणं वापि कन्यानां विदधाति सा ॥९८


उत्तराङ्गोदरे न्यस्ता ललाटेन समा यदि।

तुला ललाटिका सापि कुलक्षयकरी भवेत् ॥९९


तुलापिण्डेन विन्यस्ता ज्ञेया यज्ञोपवीतिनी।

वसतो व्यसनं कुर्यात्कुटुम्बस्यासुखं च सा ॥१००


यदि भारतुलैकापि मध्ये विद्धा कथञ्चन।

तदा वराङ्गं भज्येत धनं च परिहीयते ॥१०१


भित्तिभेदो न कर्तव्यस्तुलाग्रैरखिलैरपि।

कुर्याद् ब्रह्मपदन्यस्तो भारपट्टः कुलक्षयम् ॥१०२


अयुक्तयोर्युक्तयोर्वा सन्धिश्चेद्भारपट्टगे।

सन्धौ स्यात्तत्सुतो ज्येष्ठः कर्तुश्चापि विनश्यति ॥१०३


अनुवंशं न भुञ्जीत न शयीत कदाचन।

भुञ्जानस्यार्थनाशः स्याच्छयानस्य महारुजः ॥१०४


नाशोऽनुवंशं रोगाः स्युस्तिर्यक्स्थे रक्षसो भयम्।

शयनागारविन्यस्ते मरणं नागदन्तके ॥१०५


कर्णावात्पक्षिराङ्घण्टाध्वजच्छत्रकुमारकान्।

सिंहकर्णकपोतालिं गृहेषु परिवर्जयेत् ॥१०६


इन्द्र कीलं शुक्रं तुम्बीमर्धवंशं च वेश्मनि।

न कुर्यात्तत्र विहिताः सर्वदोषावहा यतः ॥१०७


अतिक्षिप्रचिरोत्पन्नं कृशद्र व्यमपाहितम्।

अप्रतिष्ठितसंस्थानं गृहं नमति पञ्चधा ॥१०८


अतिस्थूलेन हस्वेन शरीरेण यथा नरः।

विरूपो दुवलश्चव तथा द्र व्येण मन्दिरम् ॥१०९


जीर्णं घुणकृतं मिश्रं हीनं वक्रं विधिच्युतम्।

चण्डं तुण्डं वक्रकोणं सन्धिविद्धाल्पमूलके ॥११०


वज्रमध्यं स्थूलमूलं कुक्षिभिन्नं च दारु यत्।

भिन्नमूलं कूर्मपृष्ठं पक्षहीनं च वर्जयेत् ॥१११


पातितान्वर्जयेद्वृक्षान् द्विपाश्वाग्निजलानिलैः।

प्रभूतपक्षिनिलयान् काककौशिकसेवितान् ॥११२


मधुग्रहपिशाचाहिदुष्टांश्चैत्यश्मशानजान्।

चतुष्पथत्रिकमहानदीसङ्गममार्गजान् ॥११३


देवतायतनेजातानूर्ध्वशुष्कान् क्षतच्छदान्।

वल्लीपिनद्धान्सुषिरकोटरग्रन्थिसङ्कुलान् ॥११४


याम्यापराशापतितांस्त्यजेत्कण्टकिनोऽपि च।

कपित्थोदुम्बराश्वत्थशिरीषवटचम्पकान् ॥११५


कोविदारधवारिष्टश्लेष्मातकविभीतकान्।

किञ्च सप्तच्छदक्षीरिफलदांश्च द्रुमांस्त्यजेत् ॥११६


मर्माणि यत्र पीड्यन्ते द्वारैर्भित्तिमिरेव वा।

दारिद्रयं कुलहानिं वा गृहिणस्तत्र निर्दिशेत् ॥११७


स्तम्भैर्विनश्यति स्वामी तुलाभिः स्त्रीवधो ध्रुवम्।

सङ्ग्रहैर्बन्धुनाशः स्याज्जयन्तीभिः स्नुषावधः ॥११८


मर्मस्थानस्थितैः कायैर्भर्तुः कायो निपीड्यते।

मर्मस्थैः सन्धिपालैस्तु सुहृद्विश्लेषमादिशेत् ॥११९


गृहपीडा नागदन्तैर्नागपाशैर्धनक्षयः।

कापिच्छकैस्तु प्रेष्याणां क्षयं मर्मस्थितैर्वदेत् ॥१२०


षड्दारुकान्यनुसरागवाक्षालोकनानि च।

मर्मस्थाननिविष्टानि जनयन्ति महाभयम् ॥१२१


स्तम्भैर्वा द्वारमध्यैर्वा तुलाभिर्नागपाशकैः।

वातायनैर्नागदन्तैर्द्वारमध्ये निपीडिते ॥१२२


व्याधयः संप्रवर्धन्ते धननाशः कुलक्षयः।

राजदण्डभयं च स्यादपत्यानां च पीडनम् ॥१२३


षड्दारुकाणां मध्येषु द्वारमध्येषु वा पुनः।

कर्णद्र व्यादिभिर्विद्धेष्वेतदेवादिशेत् फलम् ॥१२४


संविद्धा नागदन्तैर्या स्तम्भैर्वातायनैस्तथा।

शय्या शस्त्राद्भयं भर्तुः कुर्यात्तस्करतोऽपि वा ॥१२५


गृहमध्ये कृत द्वारं द्र व्यकोशविनाशनम्।

आवहेत्कलहं भर्तुर्भार्यां वास्य प्रदूषयेत् ॥१२६


द्र व्येणैकोत्तरेणापि महामर्मणि पीडिते।

सर्वस्वनाशो गृहिणो मरणं वा ध्रुवं भवेत् ॥१२७


द्वारराम्भतुलालिन्दश्च यदोषैः समीरितैः।

विसूत्रे नागदन्तेऽपि तच्छून्यं जायते गृहम् ॥१२८


विभागपदहीनेषु रूपस्थानेषु वास्तुषु।

यक्षमातृक्रियाद्येषु रोगान्मृत्युर्न संशयः ॥१२९


कटुकण्टकिदुर्गन्धिगुह्यकाद्याश्रयान् द्रुमान्।

न धारयेत् समीपस्थान् पुरप्रासादवेश्मनाम् ॥१३०


बदरी कदली चैव दाडिमी बीजपूरिका।

प्ररोहन्ति गृहे यत्र तद्गृहं न प्ररोहति ॥१३१


द्र व्यं द्र व्याधिकं हन्ति कुलमायामतोऽधिकम्।

उच्छ्रयाभ्यधिकं पूजां सन्ततिं विस्तराधिकम् ॥१३२


स्तम्भाङ्गैर्भित्तिभिः पट्टैः शीर्षकैर्भवनैस्तथा।

आलोकनातोरणाद्यैश्छाद्यकैः कन्दकूटकैः ॥१३३


हीरशाखोत्तमाङ्गैश्च तुलाभिः सन्धिपालकैः।

अर्गलाग्रैर्वेदिकाभिर्व्यालैर्जालैश्च नूतनैः ॥१३४


घातितैः पातितैर्नष्टैर्जायते गृहिणो ध्रुवम्।

व्याधिदारिद्र य्दुःखार्तिर्निर्धनत्वं च जायते ॥१३५


उच्चच्छाद्यं छिद्र गर्भं भ्रमितं वमितं मुखे।

हीनमध्यं नष्टसूत्रं शल्यविद्धं शिरोगुरु ॥१३६


भ्रष्टालिन्दकशोभं च विषमस्थं तुलातलम्।

अन्योन्यद्र व्यविद्धं च कुपदप्रविभाजितम् ॥१३७


हीनभित्त्युत्तमाङ्गं च विनष्टं स्तम्भभित्तिकम्।

भिन्नशालं त्यक्तकण्ठं निष्कन्दं मानवर्जितम् ॥१३८


विकृतं च गृहं भर्तुरनिष्टफलदायकम्।

तस्माद्दोषानिमांस्त्यक्त्वा गृहं कुर्याच्छुभावहम् ॥१३९


एवंविधं दोषकरं गृहं स्याद्भर्तुश्च कर्तुश्च यतस्तदेते।

ज्ञेयाः सदा शिल्पिभिरप्रमत्तैस्त्याज्याश्च दोषाः शुभकीर्तिकामैः ॥१४०


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः।