प्रमुखा विकल्पसूचिः उद्घाट्यताम्

समराङ्गणसूत्रधार अध्यायसूची

अथ रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः।


त्रिदशानां नृपाणां च वर्णिनां च विशेषतः।

उत्पत्तिप्रसृतिं ब्रूमः प्रासादा यस्य ये मताः ॥१


पुरा ब्रह्मासृजत्पञ्च विमानान्यसुरद्विषाम्।

वियद्वर्त्मविचारीणि श्रीमन्ति च महान्ति च ॥२


तानि वैराजकैलासे पुष्पकं मणिकाभिधम्।

हैमानि मणिचित्राणि पञ्चमं च त्रिविष्टपम् ॥३


आत्मनः शूलहस्तस्य धनाध्यक्षस्य पाशिनः।

सुरेशिने च विश्वेशो विमानानि यथाक्रमम् ॥४


बहून्यन्यानि चैवं स सूर्यादीनामकल्पयत्।

विशेषाय यथोक्तैस्तान्याकारैः प्रतिदैवतम् ॥५


प्रासादांश्च तदाकाराञ्शिलापक्वेष्टकादिभिः।

नगराणामलङ्कारहेतवे समकल्पयत् ॥६


वैराजं चतुरश्रं स्याद्वृत्तं कैलाससंज्ञितम्।

चतुरश्रायताकारं विमानं पुष्पकं भवेत् ॥७


वृत्तायतं च मणिकमष्टाश्रि स्यात्त्रिविष्टपम्।

तद्भेदाञ्श्रीमतोऽन्यांश्च विविधानसृजत्प्रभुः ॥८


ये यत्र विहिता भेदाः पूर्वं कमलयोनिना।

सर्वांस्तानभिधास्यामो नामसंस्थानमानतः ॥९


रुचकश्चित्रकूटश्च तृतीयः सिंहपञ्जरः।

भद्रः श्रीकूट उष्णीषः शालाक्षो गजयूथपः ॥१०


नन्द्यावर्तोऽवतंसाह्वः स्वस्तिकः क्षितिभूषणः।

भूजयो विजयो नन्दी श्रीतरुः प्रमदाप्रियः ॥११


व्यामिश्रो हस्तिजातीयः कुबेरो वसुधाधरः।

सर्वभद्रो विमानाख्यो मुक्तकोणश्च नामतः ॥१२


चतुर्विंशतिरुद्दिष्टा चतुरश्राः समासतः।

वृत्तांस्तथाभिधास्यामः प्रासादानपरानपि ॥१३


वलयो दुन्दुभिः प्रान्तः पद्मः कान्तश्चतुर्मुखः।

माण्डूकाख्योऽथ कूर्मश्च तालीगृह उलूपिकः ॥१४


इति वृत्ताः समासेन प्रासादा दश कीर्तिताः।

चतुरश्रायता ये स्युः कथ्यन्ते तेऽपि नामतः ॥१५


भवो विशालः साम्मुख्यः प्रभवः शिबिरागृहः।

मुखशालो द्विशालश्च गृहराजोऽमलो विभुः ॥१६


एवमेते समुद्दिष्टाश्चतुरश्रायता दश।

अथ वृत्तायतान्ब्रूमः प्रासादानभिधानतः ॥१७


आमोदो रैतिकस्तुङ्गश्चारुर्भूतिर्निषेवकः।

सदा निषेधः सिंहाख्यः सुप्रभो लोचनोत्सवः ॥१८


एते वृत्तायताः प्रोक्ताः प्रासादा नामतो दश।

अष्टाश्रीणां च नामानि कथयामि समासतः ॥१९


वज्रको नन्दनः शङ्कुर्मेखलो वामनो लयः।

महापद्मश्च हंसश्च व्योमचन्द्रो दयाविति ॥२०


अष्टाश्रय इमे प्रोक्ताः प्रासादा दश संख्यया।

भवन्त्येवं चतुष्षष्टिर्लक्ष्मैषामधुनोच्यते ॥२१


संस्थानमानविन्यासैर्भद्र स्तम्भादिसङ्ख्यया।

एषां विशेषा वक्ष्यन्ते पृथक्पृथगनुक्रमात् ॥२२


ज्येष्ठो भागश्चतुर्हस्तः सार्धहस्तत्रयोऽपरः।

कल्पनीयः कनीयांस्तु हस्तत्रितयसम्मितः ॥२३


ज्येष्ठमध्यकनीयोभिरेवं भागैर्विभाजिताः।

भवन्ति सर्वप्रासादा ज्येष्ठमध्याधमक्रमात् ॥२४


चतुरश्रीकृते क्षेत्रे चतुर्भागविभाजिते।

कुर्यात्स्वारोहकाश्वासं पीठमंशसमुद्धृतम् ॥२५


तथा तस्योपरि स्थाप्या हंसपृष्ठी समन्ततः।

हस्तमात्रोच्छ्रिता वृत्ता जलनिर्गमभूषिता ॥२६


ततः पीठस्य तस्यान्तर्द्विभागायमविस्तृतिः।

प्रासादो रुचकः कार्यो भागत्रितयमुच्छ्रितः ॥२७


सार्धभागेन संछा स्यात्सार्धभागस्तु योऽपरः।

छायत्रयं सकण्ठं स्यात्तेन सामलसारकम् ॥२८


द्वारं भागोच्छ्रितं तस्य कार्यं भागार्धविस्तृतम्।

सप्राग्रीवः स कर्तव्यश्चतुर्दशधरावृतः ॥२९


ससौधालिन्दकश्चारुरूर्ध्वच्छाद्योपकर्षवान्।

क्रियतेऽत्र यदा स्तम्भाद्वाविंशत्या समावृतः ॥३०


सप्राग्रीवपरिष्कारो भागिकालिन्दशोभितः।

मध्यप्रदेशे रुचकः प्रासादः परिकीर्तितः ॥३१


रुचकः।

कर्णप्राग्रीवकैश्चित्रैः सप्राग्रीवश्च यो वृतः।

द्वाभ्यां द्वाभ्यां गवाक्षाभ्यां चतुर्दिशमलङ्कृतः ॥३२


कपोतालीपरिक्षिप्तः शोभितो द्वारसम्पदा।

तदानीं चित्रकुटाख्यः प्रासादः सोऽभिधीयते ॥३३


चित्रकूटः।

अयमेव पुनः षड्भिः स्तम्भैरपि चितो यदा।

प्राग्रीवकविहीनश्च स भवेज्जालरूपकः ॥३४


सिंहपञ्जर इत्युक्तः प्रासादः स तदा शुभः।

सिंहपञ्जरः।

कर्णप्राग्रीवकौ द्वौद्वावस्यैव भवतो यदा ॥३५


अलिन्दकगतिस्थित्या तदा भद्रः प्रकीर्तितः।

भद्रः।

स्याच्चित्रकूट प्राग्रीवैश्चतुर्भिर्दिक्चतुष्टये ॥३६


बहिरन्तश्चतुर्द्वारः श्रीकूट इति नामतः।

श्रीकूटः।

षड्दारुकसमायुक्तप्राग्द्वारस्त्वयमेव चेत् ॥३७


प्रासादस्तम्भगर्भः स्यात्तदोष्णीषोऽभिधीयते।

उष्णीषः।

चतुरंशकविस्तीर्णं षडंशविहितायति ॥३८


पीठं शालागृहस्योक्तं सशालानिर्गमं शुभम्।

मध्यादपरतस्तस्य द्विभागायतविस्तृतम् ॥३९


विधेयं गर्भभवनमलिन्दकपरिष्कृतम्।

कार्या तस्याग्रतः सीमा भागद्वितयमायता ॥४०


भागमेकं च विस्तीर्णा चतुःस्तम्भोपशोभिता।

तदग्रतोऽपरा सीमा कार्या भागान्षडायता ॥४१


तिर्यक्स्था भागविस्तीर्णा प्रवेशद्वयशोभिता।

एष शालागृहः स्तम्भैर्द्वाविंशत्या समावृतः ॥४२


प्राग्रीववेदिकाजालपक्षसोपानकैः शुभैः।

शालाख्यः।

पञ्चभागोन्मितव्यासे क्षेत्रभागाष्टकायते ॥४३


पीठं कुर्यादुभयतः ससोपानं शिलाचितम्।

मध्यादपरभागेऽस्य देवागारं निवेशयेत् ॥४४


विभागायामविस्तारं चतुरश्रं सुसंहितम्।

पादोनभागविस्तारमध्यर्धं भागमुच्छ्रितम् ॥४५


तस्य कार्यं मुखं मध्ये पार्श्वतश्चयशोभितम्।

सचया निर्गता सीमा द्वौ भागौ त्रींस्तथायथा ॥४६


चतुरश्रा चतुःस्तम्भा तदग्रे भागविस्तृता।

पञ्चभागायता तिर्यक्कार्या सीमा तथापरा ॥४७


द्वात्रिंशदत्र कर्तव्याः स्तम्भाः सर्वैक्यसङ्ख्यया।

बहिःपरिसरो गर्भात्ससीम्नो भागविस्तृतः ॥४८


एवं स्याद्वेदिकाजालरूपादिभिरलङ्कृतः।

बहिर्वयोच्छ्रितश्चैष प्रासादो गजयूथपः ॥४९


गजयूथपः।

षड्भागभाजिते क्षेत्रे चतुरश्रे समन्ततः।

गर्भो द्विभागिकः कार्यो द्वारं भागसमुच्छ्रितम् ॥५०


भागार्धं द्वारविस्तारः प्रासादस्योच्छ्रितिं पुनः।

कुर्वीत चतुरो भागाञ्छादयेच्चित्रकूटवत् ॥५१


कार्या द्विभागिकाः शालाः सालिन्दास्तस्य बाह्यतः।

बहिर्भित्तिपरिक्षिप्ताश्चतुर्भागायताः शुभाः ॥५२


द्वौ द्वौ गवाक्षकौ स्तम्भाः प्रतिशालं भवन्ति षट्।

चतुःस्तम्भधृतैर्युक्ताः कार्या वा धार्मिकालयैः ॥५३


नन्द्यावर्तोऽयमेवं स्यात्सप्राग्रीवचतुष्टयः।

प्रागु द्वारक्षणोपेतः प्रासादः शुभलक्षणः ॥५४


नन्द्यावर्तः।

क्षेत्रषड्भागविस्तारे दशभागकृतायतौ।

मध्यादपरभागेऽस्य देवकोष्ठं निवेशयेत् ॥५५


चतुरंशप्रतिन्यासं चतुरश्रं समन्ततः।

द्वारं तस्य विधातव्यं भागमध्यर्धमुच्छ्रितम् ॥५६


पादोनं भागविस्तारं सिंहवक्त्रविभूषितम्।

सीमा तस्याग्रतः कार्या देवकोष्ठेन सम्मिता ॥५७


स्तम्भैः षोडशभिर्युक्ता भागद्वितयमुच्छ्रितैः।

ससीम्नो देवकोष्ठस्य समन्ताद्भित्तिवेष्टितः ॥५८


अलिन्दो भागिकः कार्यो गवाक्षैरुपशोभितः।

सीम्नोश्चाग्रतः पार्श्वे षड्दारुकयुता बहिः ॥५९


कार्या द्विरंशाः प्राग्रीवा भागिकालिन्दवेष्टिताः।

द्विद्विस्तम्भधृताः सर्वे पार्श्वतश्चयशोभिताः ॥६०


अलिन्दास्तु चतुःस्तम्भाः कार्याः प्राग्रीवकाग्रतः।

अवतंसक इत्येष सर्वलक्षणसंयुतः ॥६१


प्रासादः कथितः सम्यक् ।।

अवतंसः ।।

स्वस्तिकः प्रोच्यतेऽधुना।

चतुरश्रीकृते क्षेत्रे षड्भागप्रविभाजिते ॥६२


प्रासादं कल्पयेन्मध्ये द्विभागायामविस्तृतम्।

द्वारपाशोऽस्य भागार्धविस्तृतो भागिकोदयः ॥६३


गर्भवेश्म चतुःस्तम्भमलिन्दो भागिदो बहिः।

तस्य स्युर्द्वादश स्तम्भा भागिकोऽलिन्दकोऽपरः ॥६४


विंशतिस्तम्भसंयुक्तो विधातव्यः समन्ततः।

चयावृतश्च पुरतो भागो वाष्टधरान्वितः ॥६५


भागमेकैकमुत्सृज्य कर्णाभ्यां भागविस्तृतौ।

भागिकोच्छ्रायनिष्कासौ त्रिदिशं सगवाक्षकौ।

स्वस्तिकोऽयं समाख्यातः प्रासादश्चित्रलक्षणः ॥६७


स्वस्तिकः ।।

अथाभिधीयतेऽधुना प्रासादः शुभलक्षणः।

षड्भागभाजिते क्षेत्रे चतुरश्रे समन्ततः ॥६८


द्विभागायामविस्तारं मध्ये गर्भगृहं भवेत्।

भागद्वयोच्छ्रितैः स्तम्भैर्युतं व्यक्तैः सलक्षणैः ॥६९


निष्क्रान्तेषु बहिर्भागे गर्भपादेषु योजयेत्।

तोरणानि मनोज्ञानि ककुप्सु चतसृष्वपि ॥७०


गर्भस्तम्भप्रमाणेन तानि स्तम्भद्वयेन वा।

समुत्क्षप्तानि युक्तानि कलशै रविमण्डलैः ॥७१


पल्लवैः पत्रजात्यादिविन्यासैश्चाप्यनेकशः।

भूषितास्ये पुनर्मूर्ध्नि मकराणां मुखैरपि ॥७२


स्तम्भयोरन्तरे दद्यादुभौ मकरपूरिमौ।

अन्योन्याभिमुखे श्लिष्टे कुर्यान्मकरयोर्मुखे ॥७३


चतुर्णामपि निरिद्ष्टस्तोरणानां मया विधिः।

अलिन्दो भागिकश्चा न्यो बहिर्भागे प्रकीर्तितः ॥७४


स्युर्भागिकान्यलिन्दान्ते धार्मिकायतनानि च।

वेष्टितानि बहिर्भित्त्या सम्मुखानि परस्परम् ॥७५


धार्मिकालयभित्तीनां भूमिर्या बाह्यतो भवेत्।

तस्याः षड्दारुकाणि स्युर्भागमात्रोच्छ्रितानि च ॥७६


प्राग्रीवकैः ससोपानैर्दिक्चक्रैस्तानि भूषयेत्।

अपरस्याः पुनर्भित्तेर्भागद्वयविनिस्सृतम् ॥७७


मध्ये द्विभागविस्तीर्णं देवकोष्ठं निवेशयेत्।

द्वारपाशं च कुर्वीत तस्योकुं भागमुच्छ्रितम् ॥७८


तथा भागार्धविस्तारमित्येष क्षितिभूषणः।

प्रासादः कीर्तितः सम्यक् सर्वलक्षणलक्षितः ॥७९


क्षेत्रस्य चतुरश्रस्य भागान् द्वादश कल्पयेत्।

मध्ये गर्भं चतुःस्तम्भं तस्य कुर्याद् द्विभागिकम् ॥८०


तद्बहिर्भागिकोऽलिन्दो द्वादशस्तम्भवान् भवेत्।

मध्येऽपरस्यां यौ स्तम्भौ ताभ्यां कुर्वीत तोरणम् ॥८१


अलिन्दो भागिकः कार्यो भित्त्या भागिकया वृतः।

प्राच्यां षड्दारुकं मध्ये गर्भव्यासोन्मितायति ॥८२


तृतीयो भागिकोऽलिन्दः स्याद्भित्त्या परिवेष्टितः।

चतुर्भागायतं भूयस्तत्र षड्दारुकं भवेत् ॥८३


प्राग्रीवं भागविष्कम्भं कुर्याद्भागद्वयायतम्।

अग्रतः स्तोभितं स्तम्भैर्भागान्तस्थचयावृतम् ॥८४


यथा प्राच्यां तथोदीच्यां याम्यायामपि कीर्तितम्।

दिशि प्रतीच्यां तु पुनर्द्वितीयालिन्दकाद्बहिः ॥८५


द्विभागायामविष्कम्भं देवकोष्ठं निवेशयेत्।

सपक्षद्वारकं श्रीमद् द्वारपाशोपशोभितम् ॥८६


भागिकोऽलिन्दकस्तस्माद् बहिर्भित्त्याभिवेष्टितः।

बहिश्चयावृतो वा स्याद् गवाक्षैर्वा विभूषितः ॥८७


पृथ्वी विजयते यस्मात्तेनासौ पृथिवीजयः।

भूजयः ।।

यदा पृथ्वीजयस्यैव कर्णप्राग्रीवकावुभौ ॥८८


कोणेषु भागिकौ स्यातां विज्ञेयो विजयस्तदा।

विजयः ।।

अयं समन्तादुत्क्षिप्तो बाह्यालिन्दं विना यदा ॥८९


मध्यमालिन्दसौधस्थं कर्णप्रासादकैश्चितः।

प्रथमालिन्दगर्भौ च समुत्क्षिप्ततरौ ततः ॥९०


स्यातां छाद्यद्वयच्छन्नौ तदा नन्दोऽभिधीयते।

नन्दः ।।

चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ॥९१


चतुरश्रो भवेन्मध्ये देवकोष्ठो द्विभागिकः।

द्वारबन्धोऽस्य भागोच्चः कार्यो भागार्धविस्तृतः ॥९२


स्याद् बहिर्द्वादशधरोऽलिन्दको देवकोष्ठतः।

भागिकः स च विज्ञेयो भित्तियुक्तस्ततोऽपरः ॥९३


अयं द्विभागिकैर्युक्तः प्राग्रीवैर्भागनिर्गमैः।

तथा तृतीयोऽलिन्दः स्यात्समन्ताद्भित्तिवेष्टितः ॥९४


प्राग्रीवकैश्चतुःस्तम्भैः सप्रवेशैर्विभूषितः।

भागिकी स्याद्बहिर्भित्तिरितरा तु धरैः समा ॥९५


इत्येष श्रीतरुर्नाम प्रासादः परिकीर्तितः।

श्रीतरुः ।।

अस्यैव स्तम्भगर्भस्य द्वितीयालिन्दभित्तिषु ॥९६


षड्दारूणि विधेयानि पूर्वरूपव्यवस्थितेः।

द्वौ द्वौ प्राग्रीवकौ कार्यौ तृतीयालिन्दकाद्बहिः ॥९७


तौ च द्विन्तरितौ सर्वतो भागनिर्गतौ।

एवं पञ्चांशता स्तम्भैर्द्वाभ्यां च परिवेष्टितः ॥९८


चतुःस्तम्भैः सप्रवेशैः समन्तादुपनिर्गमैः।

प्रासादोऽयं समाख्यातो नामतः प्रमदाप्रियः ॥९९


प्रमदाप्रियः ।।

भागविस्तारविष्कम्भमस्य प्राग्रीवकं यदा।

भिन्नालिन्दाग्रतस्तिर्यग्द्वे शाले तन्मुखं शुभम् ॥१००


द्वितीयालिन्दकस्थाने कर्णप्रासादकैर्युतः।

एवं व्यामिश्रसंज्ञोऽयं प्रासादः परिकीर्तितः ॥१०१


व्यामिश्रः ।।

विजयस्यास्य च यदा कर्णलाङ्गलकैर्युता।

भवेद्भित्तिस्तदा हस्तिजातीय इति कथ्यते ॥१०२


हस्तिजातीयः ।।

सीमाप्राग्रीवभूमीषु यदा स्युः पृथिवीजये।

द्विभागाश्चाभितोऽलिन्दास्तिर्यक्शालामुखेषु च ॥१०३


अलिन्दे पश्चिमा शाला सर्वशालोकना शुभा।

षड्दारुकं तथैवात्र चतुर्भागायतं भवेत् ॥१०४


पूर्ववत्सर्वमन्यच्च कुबेरः स तदा भवेत्।

कुबेरः ।।

प्रासादः कथ्यतेऽन्यश्च सम्प्रतीह धराधरः ॥१०५


कुबेरोपत्तरोक्षिप्तः कर्णप्रासादभूषितः।

मध्यद्वारान्वितः श्रीमान् धराधर इति स्मृतः ॥१०६


वसुधाधरः ।।

यत्राग्रतश्चित्रकूटस्तस्माद्यः सर्वतोदिशम्।

धराधरतदम्भासः सर्वतोभद्र उच्यते ॥१०७


सर्वतोभद्रः ।।

कर्णप्राग्रीवकौ द्वौ द्वौ शालाप्राग्रीवकाअपि।

स्यातां यदास्य प्रोक्तोऽसौ विमानाख्यस्तदा शुभः ॥१०८


विमानाख्यः ।।

विमानपीठे निर्मुक्तः शालाभिः सर्वतो वृतः।

अन्योन्यशालासम्बन्धे विमानो न्यस्यते यदा ॥१०९


कर्णप्रासादकोपेतः कोणैः शालोज्झितैर्युतः।

स विमुककोणः स्यात्प्रासादोऽत्यर्थशोभितः ॥११०


मुक्तकोणः ।।

प्रासादाश्चतुरश्राः स्वैर्विशेषैर्वर्णिनाः पृथक्।

इदानीमभिधीयन्ते वृत्ताः स्वैः स्वैर्विशेषणैः ॥१११


तत्रादौ वलयाकारो वलयः स च कथ्यते।

समन्ताद्वर्तिते क्षेत्रे चतुर्भागविभाजिते ॥११२


कुर्यात्सारोहणं पीठं सार्धभागोच्छ्रितं शुभम्।

परिक्षिप्तं गजमुखैर्मकरस्याम्बुनिर्गतम् ॥११३


बहिर्भागसमोपेतस्तस्मिन्कार्यः सुरालयः।

पादोनविस्तृतिर्द्विघ्नद्वारोच्छ्रायविभूषितः ॥११४


तस्याष्टस्तम्भकोऽलिन्दो बहिर्वलय इत्यसौ।

वृत्तच्छाद्यः सिंहकर्णस्तथा जालकरूपवान् ॥११५


भूलवयः ।।

प्राग्रीवका स स्याद यद्वा स्तम्भोच्छ्रयानतः।

तदैष दुन्दुभिः प्रोक्तस्त्रिभिस्तैः प्रान्त उच्यते ॥११६


अयमेव चतुर्भिः स्यात्पद्मः प्राग्रीवकैः शुभैः।

स्तम्भैश्चतुर्भिस्तस्यैव यदा पश्चान्निवेश्यते ॥११७


मध्यवृत्तो गर्भकोष्ठो भित्तिश्चोभयतः स्थिता।

स कान्त इति विख्यातः प्रासादो वर्तुलाकृतिः ॥११८


चत्वारि वलयस्यैव यत्र द्वाराण्यलिन्दकः।

स्याच्चतुर्विंशतिस्तम्भैर्द्वितीयो भागसम्मितः ॥११९


प्राग्रीवकाश्च स्तम्भाभ्यां द्वाभ्यां द्वाभ्यां समन्विताः।

चत्वारो यत्र स प्रोक्तः प्रासादोऽत्र चतुर्मुखः ॥१२०


अस्यैवैकं यदा द्वारं प्राग्रीवोऽलिन्दवेष्टितः।

एक एव तथाचान्यः प्राग्रीवस्तस्य चाग्रतः ॥१२१


ख्यातो माण्डूक इत्येष वृत्तप्रासादसत्तमः ।

दिक्कोणेषु यदास्यैव भवेत्प्राग्रीवकल्पना ॥१२२


प्रासादोऽयं तदा कूर्मसंज्ञः स्यादपराजितः।

कूर्मस्यैव यदा दिक्षु स्तम्भैरष्टाभिरष्टभिः ॥१२३


प्राग्रीवकाः प्रकल्प्यन्ते चत्वारोऽलिन्दवेष्टिताः।

प्र ग्रीवकास्तिर्यगग्रे भवन्त्यन्ये तदग्रतः ॥१२४


षोडशस्तम्भयुक्तस्य मध्यभागे यदा भवेत्।

जानीयाद्दोषविज्ञेयाः प्राग्रीवहरितोत्तमः ॥१२५


इति वृत्ताः समाख्याताः प्रासादा नामलक्षणैः।

चतुरश्रायतान् ब्रूमः प्रासादानिह साम्प्रतम् ॥१२६


अष्टभागायते क्षेत्रे चतुरंशकविस्तृते।

द्विभागसार्धभागैकभागोऽयं पीठ इष्यते ॥१२७


पश्चिमं भागमुत्सृज्य देवकोष्ठं द्विभागिकम्।

तस्मिन् निवेशयेत्सीमा स्यादस्याग्रेऽष्टभिर्धरैः ॥१२८


ससीम्नो देवकोष्ठस्य भागिकालिन्दको बहिः।

युक्तो धराणां विंशत्या वेदिकाजालवेष्टितः ॥१२९


प्राग्रीवकस्य तस्याग्रे स्तम्भद्वितयभूषितः।

द्विच्छाद्यच्छादितः श्रीमान् सिंहकर्णैरलङ्कृतः ॥१३०


प्रासादोऽयं भवो नाम विशालः कथ्यतेऽधुना।

यदास्यैव सनिष्क्रान्ते सीमायामे च वर्धते ॥१३१


वलभ्यौ पार्श्वयोः स्यातां विशालाख्यस्तदा भवेत्।

विशालस्य यदा गर्भे भित्तिर्भवति दिक्त्रये ॥१३२


द्वौ द्वौ गवाक्षकौ चापि साम्मुख्यः स भवेत्तदा।

प्राग्रीवास्त्रिदिशं तस्य गर्भकोष्ठायता यदा ॥१३३


हित्वा वलभ्यौ प्राग्रीवौ विधीयेते तथापरौ।

कर्णेषु भागमेकैकं त्यक्त्वा स्यात्प्रभवस्तदा ॥१३४


एतस्यैव मुखे स्यातां यदा प्राग्रीवकावुभौ।

पार्श्वयोरपरौ द्वौ द्वौ प्राग्रीवौ भवतो यदा ॥१३५


कर्णेषु भित्तयश्च स्युस्तदा स्याच्छिबिरागृहः ।

यदास्यैव मुखे शाला भागद्वितयविस्तृता ॥१३६


आयामेन च षड्भागा प्राग्रीवौ द्वौ तदग्रतः।

द्वौ द्वौ गवाक्षकौ स्यातां तद्भित्त्योरुभयोरपि ॥१३७


सीमायां द्वादश स्तम्भा मुखशालस्तदा भवेत्।

अलिन्दो भागिकः कार्यो विशालस्यैव बाह्यतः ॥१३८


प्राग्रीवभूमिषु वृतो भित्त्या च सगवाक्षकः।

अग्रतः सहितः स्तम्भैः षड्भिश्च क्रियते यदा ॥१३९


द्विशाल इति विख्यातः प्रासादो जायते तदा।

यदास्यैव विधीयन्ते स्तम्भाः सर्वे समन्ततः ॥१४०


प्राग्रीवकौ चोभयतो गृहराजस्तदा भवेत्।

सर्वस्यैव यदालिन्दः स्यादन्यो भागविस्तृतः ॥१४१


सीमान्तविस्तृते स्यातां वलभ्यौ भागनिस्सृते।

भित्तिर्विधीयते शेषा गवाक्षैरुपशोभिता ॥१४२


मुखे षड्दारुकं च स्यात्तदा स्यादमलाभिधः।

एकादशायते क्षेत्रे तथा षड्भागविस्तृते ॥१४३


मुक्त्वा भागद्वयं पश्चाद्देवकोष्ठं निवेशयेत्।

भागं मुक्त्वाग्रतः कुर्यात्सीमां भागचतुष्टयम् ॥१४४


अष्टस्तम्भास्ततोऽलिन्दविंशतिस्तम्भभागिकाः।

भागिकः परितोऽलिन्दोऽष्टाविंशतिधरोऽपरः ॥१४५


द्विद्विस्तम्भयुताः कार्याः प्राग्रीवाः कोष्ठजास्त्रयः।

सीमासमे वलभ्यौ च प्राग्रीवौ मध्यतस्तयोः ॥१४६


द्विद्विस्तम्भौ पुरश्चान्यौ वेदिकाजालशोभितौ।

वेदिकाजालरूपाढ्यः सिंहकर्णोपशोभितः ॥१४७


प्रासादोऽयं विभुर्नाम कथितो भर्तृनन्दनः।

एवमेते समाख्याताश्चतुरश्रायता दश ॥१४८


चतुरश्रायतांस्तिर्यगायत्याथापरानपि।

प्रासादानभिधास्यामो नवसंस्थानलक्षणैः ॥१४९


द्वौ भानौ विस्तृतिर्गर्भे द्विगुणा तिर्यगायतिः।

मध्ये भागोच्छ्रितं द्वारं तदर्धेन तु विस्तृतम् ॥१५०


स्तम्भश्चतुर्भिः संयुक्ता सीमा द्वारस्य चाग्रतः।

द्विभागायामविस्तारा तावन्मात्रसमुच्छ्रितिः ॥१५१


तां सीमां गर्भसहितां भागेनान्येन वेष्टयेत्।

भित्तिस्तत्र विधातव्या सगवाक्षा चतुर्दिशम् ॥१५२


षड्दारुकयुतो ह्येष प्रासादो भव उच्यते।

अस्यैव भागनिष्कासा शाला मुखचतुष्टये ॥१५३


यदा षड्दारुकोपेता विशालः स तदोच्यते।

स्तम्भैर्मुखैमुखे षड्भिर्बहिः साम्मुख्य इत्यसौ ॥१५४


अस्यैव स मा कर्णस्था द्विद्विस्तम्भयुता यदा।

प्राग्रीवैर्भागनिष्क्रान्ता बहिस्था प्रभवस्तदा ॥१५५


सीम्नोऽग्रतो यदास्यैव स्तम्भद्वययुतो भवेत्।

प्राग्रीवो भागनिष्क्रान्तस्तदा स्याच्छिबिरागृहः ॥१५६


विशालसन्निवेशस्य मुखे शाला भवेद्यदा।

पार्श्वयोश्चोभयोः शाले प्राग्रीवाश्च त्रयो यदा ॥१५७


निष्क्रान्तभाग एकैकः स्तम्भद्वितयसंयुतः।

प्रासादः स तदा ज्ञेयो मुखशालोऽभिधानतः ॥१५८


मुखशालाग्रशालाया यदा स्तम्भाश्चतुर्दश।

प्राग्रीवो द्विविधश्चाग्रे द्विशालः स तदा भवेत् ॥१५९


भित्तिस्तदानीं प्रासादो गृहराजः प्रजायते।

गर्भायामसमावग्रपृष्ठयोर्भागविस्तृतौ ॥१६०


चतुश्चतुर्धरौ यत्र प्राग्रीवौ द्वौ च पार्श्वयोः।

तौ तु द्विद्विधरौ गर्भविस्तारेण तु सम्मितौ ॥१६१


अमलो नाम स प्रोक्तः प्रासादः शुभलक्षणः।

अस्यैव चाग्रे पृष्ठे च द्विद्विस्तम्भयुतौ यदा ॥१६२


प्राग्रीवौ स तदा प्रोक्तः प्रासादो दशमो विभुः।

प्रासादान् कथयामोऽन्यान् दश वृत्तायतान् पुनः ॥१६३


अष्टभागमुखायत्या विस्तृत्या चतुरश्रकम्।

वृत्तायतं प्रकुर्वीत सबाह्याभ्यन्तरं ततः ॥१६४


गर्भं पश्चिमभागेऽस्य चतुर्भागं समन्ततः।

कुर्यात्तस्याग्रतः सीमां भागद्वितयविस्तृताम् ॥१६५


भागत्रयमितां भागेनैकेनान्तरितां च ताम्।

संयुक्तामष्टभिः स्तम्भैः सुदृढैश्चारुदर्शनैः ॥१६६


अलिन्देन परिक्षिप्तां ससीमां देवकोष्ठकम्।

षोडशस्तम्भयुक्तेन कुर्यात् प्राग्रीवमग्रतः ॥१६७


छन्नाश्छाद्यद्वयेनायमामोद इति कीर्तितः।

वृत्तायतेषु प्रथमः प्रासादः स्वामिनो हितः ॥१६८


समाहितौ यदास्यैव प्राग्रीवौ भागमिश्रितौ।

चतुःस्तम्भै रैतिकस्तु वृत्ताभ्यां तुङ्ग उच्यते ॥१६९


यदा सीमावधिर्भित्तिर्गवाक्षैरुपशोभिता।

वृत्तप्राग्रीव एकोऽन्ये तदा चारुरुदाहृतः ॥१७०


सीमामध्ये विधातव्यौ प्राग्रीवौ भागविस्तृतौ।

विस्तारसदृशायामौ दक्षिणेति त्रिषु त्रयः ॥१७१


कार्याः प्राग्रीवकास्ते च गर्मकोष्ठेन सम्मिताः।

भूतिरित्येष प्रोक्तः प्रासादः शुभलक्षणः ॥१७२


मुखायता स्याच्चतुरो भागान्यत्तिर्यगायतान्।

क्षेत्रवृत्तं ततः कुर्यात्तन्मध्ये गर्भवेश्म च ॥१७३


चतुर्भागायतं तत् स्याद्भागद्वितयविस्तृतम्।

अलिन्दो बाह्यतस्तस्य द्वादशस्तम्भसंयुतः ॥१७४


भागद्वितयविस्तारः प्राग्रीवश्चांशनिर्गतः।

निषेध इति विख्यातः प्रासादोऽयं पुरातनैः ॥१७५


यदा निषेधः स्यादस्य पुरः प्राग्रीवको यदि।

चतुर्द्वारपरिक्षिप्तोऽलिन्देनाष्टधरेण वा ॥१७६


अयमेवांशकेन स्याद्यदालिन्देन वेष्टितः।

मुखभागत्रयं मुक्त्वा भित्त्या च परिवेष्टितः ॥१७७


यदा च कर्णप्राग्रीवौ प्राग्रीवश्चाग्रतो भवेत्।

विशेषरचना या च द्वाविंशतिधरान्वितौ ॥१७८


गवाक्षैः शोभनैर्युक्तस्तदा सिंहः प्रकीर्तितः।

द्वादशांशायते क्षेत्रे तथा षड्भागविस्तृते ॥१७९


पश्चादंशद्वयं त्यक्त्वा द्विभागायामविस्तृतः।

देवकोष्ठो विधातव्यस्तद्द्वारं भागमुच्छ्रितम् ॥१८०


सीमाग्रे सान्तरा द्व्यंशविस्तृता चतुरायता।

अष्टस्तम्भोऽस्य गर्भो वै षोडशस्तम्भको बहिः ॥१८१


अलिन्दस्तस्य पुरतो वृत्तप्राग्रीवकोऽपि च।

सीमाप्राग्रीवकालिन्दकोष्ठान् वृत्तान् प्रकल्पयेत् ॥१८२


प्राग्रीवौ पार्श्वयोः सीमासमौ भागविनिर्गतौ।

द्वाभ्यां द्वाभ्यां युतौ ज्ञेयौ स्तम्भाभ्यां वर्तुलाकृती ॥१८३


एतत्सर्वं विधातव्यमलिन्देनाभिवेष्टितम्।

चतुर्विंशधरोऽय च भागिकोस्य प्रशस्यते ॥१८४


द्विस्तम्भयुक्तान् प्राग्रीवान् कुर्याद्गर्भस्य दिक्त्रये।

एवमेष समाख्यातः प्रासादः सुप्रभः शुभः ॥१८५


भागद्वितयविस्ताराः प्राग्रीवा येऽस्य कीर्त्तिताः।

चतुरश्रास्त एव स्युर्द्विद्विस्तम्भयुता यदि ॥१८६


शेषा भवति भित्तिश्च गवाक्षैरुपशोभिता।

प्रासादोयं तदा ज्ञेयो दशमो लोचनोत्सवः ॥१८७


अष्टाश्रानथ वक्ष्यामः प्रासादां ल्लक्षणैः सह।

चतुर्भागान्विते क्षेत्रे तथाष्टश्रीकृते पुनः ॥१८८


द्वौ भागौ गर्भकोष्ठः स्यादलिन्दो भागिकस्तदा।

स्तम्भाष्टकमलिन्दे स्यात्प्राग्रीवस्तस्य चाग्रतः ॥१८९


द्विच्छाद्यश्छादितः श्रीमान् प्रासादो वज्रको भवेत्।

अस्यैवाग्रे यदा सीमा चतुरश्रा चतुर्धरा ॥१९०


स्याच्चतुर्विंशतिस्तम्भश्चालिन्दो भागिकोऽपरः।

नन्दनोऽयं समाख्यातः शङ्कुः प्राग्रीवकैस्त्रिभिः ॥१९१


तस्य भित्तिर्विधातव्या क्षेत्रेऽष्टाश्रियुते बुधैः।

वामनश्च पुनर्द्वौद्वौ गवाक्षौ दिक्त्रये मतौ ॥१९२


अस्यैवाग्रे यदा सीमाभागाद्भागत्रयायता।

द्विभागं विस्तृता द्व्यंशसमुच्छेदाष्टभिर्धरैः ॥१९३


अलिन्दावेष्टिता युक्ता प्राग्रीवैमखला तदा।

भित्तिक्षेत्रे यदास्यैव प्राग्रीवाः परिवेष्टिताः ॥१९४


अलिन्देन धरैः षड्भिः षड्भिर्युक्तास्तदा लयः।

अष्टभागमिते क्षेत्रे कृतेऽष्टाश्रिणि सर्वतः ॥१९५


भागद्वयमितं कुर्याद्देवकोष्ठं मनोरमम्।

चतुर्भिः शोभितं द्वारैर्भागिका लिन्दवेष्टितम् ॥१९६


अलिन्दस्य विधाटव्याः स्तम्भाश्चाष्टौ ततोऽपरः।

स्याच्चतुर्विंशतिस्तम्भो भागिकोऽलिन्दकः पुनः ॥१९७


तथाविधस्तृतीयोऽपि प्राग्रीवाश्च चतुर्दिशम्।

प्रासादोऽयं महापद्मो ब्रह्मणः शङ्करस्य च ॥१९८


द्वितीयोऽलिन्दकेऽस्यैव प्राग्रीवाः स्युश्चतुर्दिशम्।

अलिन्देन परिक्षिप्तो हंस एष प्रकीर्तितः ॥१९९


प्राग्रीवोऽस्य महापद्मस्यालिन्देनावृतो यदा।

कर्णप्राग्रीवकौ द्वौ द्वौ व्योमसंज्ञस्तदा भवेत् ॥२००


हंसस्यैव वलभ्यः स्युः प्राग्रीवाणां पदे यदा।

चतुःस्तम्भाः परिक्षिप्ता अलिन्देन चतुर्दिशम् ॥२०१


तदा चन्द्रो दयो नाम प्रासादो जायते शुभः।

एवमेषां चतुष्षष्टिः प्रासादानामुदाहृता ॥२०२


इति सुरभवनानां सप्ततिर्दारवाणा-।

मिह सदनचतुष्केणान्वितेयं प्रदिष्टा ।।

जनमयमवकोशानन्दशुभ्रांशुलेखा।

भवति सुविदितैषा शिल्पिनां कामधेनुः ॥२०३


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे रुचकादिचतुष्षष्टिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः।