प्रमुखा विकल्पसूचिः उद्घाट्यताम्

समराङ्गणसूत्रधार अध्यायसूची

अथ प्रासादद्वारमानादि नाम चतुष्पञ्चाशोऽध्यायः।


इदानीमभिधास्यामः प्रासादानां यथाक्रमम्।

द्र व्येषूदयविस्तारं बाहल्यं परिधिं तथा ॥१


प्रासादभागिकोत्सेधं प्रासादद्वारमिष्यते।

सत्र्यं शोच्छ्रितं वापि सार्धांशोच्छ्रयमेव वा ॥२


स्वीयस्वीयोदयादर्धविस्तारं च तदिष्यते।

विस्तृतिर्भागतुर्यांशात् पेद्यायाः स्थौल्यमर्धतः ॥३


पेद्याबाहल्यविस्तीर्णा शाखा भवति मानतः।

उत्तराङ्गानि कुर्वीत पेद्याशाखासमानि तु ॥४


सपादपेद्याविस्तारा रूपशाखा विधीयते।

रूपशाखान्वितः कार्यः पीठबन्धस्तथोपरि ॥५


वृत्तं कार्यमधोवृत्ते पत्रकैश्च निरन्तरम्।

स्तम्भाच्च द्विगुणव्यासं भरणं भूषणान्वितम् ॥६


रूपशाखासमं तच्च कर्तव्यमतिसुन्दरम्।

ऊर्ध्वे समन्ताच्चाष्टांशमात्रे तच्चतुरश्रकम् ॥७


तदूर्ध्वं भरणोच्छ्रायः स्यात्पादोनसमुच्छ्रितिः।

कपोतश्चाप्यधश्शीर्षगर्भः स च विधीयते ॥८


सरथालयपत्रो वा स्वोदयार्धविनिर्गमः।

तस्योपरिष्टात्कर्तव्यं स्यादुच्छालयपत्रकम् ॥९


रथिका विधातव्या द्वयोरप्युच्छ्रितिस्तयोः।

सार्धप्रमाणभरणाद्भूषा स्यात्पुष्पकादिभिः ॥१०


रूपकैर्वा यथाशोभं स्तभिकाभिश्च सर्वतः।

कण्टकोयत्रिभागोन कूटाकारं भवेदतः ॥११


विभूषितं सिंहचक्रैर्हस्तितुण्डैरथापि वा।

कपोतादि विधातव्यमन्तरे रूपशाखयोः ॥१२


कार्यं विषमसंख्यं च सर्वमेतद्विचक्षणैः।

तस्माद्बहिर्विधातव्या सर्वतः परिमण्डली ॥१३


अन्त्यशाखासमा सा च प्रमाणेन विधीयते।

तस्यां सअद्वारशाखायां यशः पद्मपत्रिकाः ॥१४


कार्यात्रा वाचशाखायास्तद्विस्तारसमुच्छ्रिताः।

भवेदधस्तादर्धेन ग्रीवाया रसना तथा ॥१५


ग्रीवया सार्धया तुल्यमन्तरं पत्रकाण्यधः।

भागद्वयं प्रकुर्वीत जङ्घा त्र्यंशा ततोऽप्यधः ॥१६


पेद्यापिण्डप्रमाणेन खल्वशाखा विधीयते।

पेद्यापिण्डसमो बाह्यशाखान्यासः प्रकीर्तितः ॥१७


क्रमेणानेन कर्तव्याः शाखाः स्वल्पा यदृच्छया।

न नवभ्यः परं कार्या द्वारशाखाः कथञ्चन ॥१८


निर्गमो वा प्रवेशो वा विस्तारेण समन्वितः।

पेद्याया यदि वार्धेन शाखानां स विधीयते ॥१९


सार्धपेद्यापिण्डसमः पिण्डस्योदुम्बरो भवेत्।

तलन्यासस्तदर्धेन भूमिरङ्गा च तत्समाः ॥२०


उदुम्बरकपिण्डस्य मानात्सिंहमुखानि च।

उदुम्बरात्पादहीनस्तुल्यो वाभ्यधिकोऽथवा ॥२१


पट्टस्य पिण्डस्त्रिविधो विस्तारात्स्तम्भतोऽधिकः।

भागपादसमस्तम्भो द्वादशांशं प्रपीडितः ॥२२


भागद्वये च कर्तव्यो रूपलक्षणसंयुतः।

चतुष्षष्टिप्रकारोऽयं नानारूपप्रपञ्चतः ॥२३


स्तम्भविस्तारविस्तीर्णं पिण्डे तत्पादवर्जितम्।

विस्तारात्त्रिगुणं दैर्घ्याद्धीरग्रहणमिष्यते ॥२४


प्रविष्टौ स्तम्भमाने स्तः कुम्भिकोत्कालकौ सदा।

तलपट्टसमं पट्टमुत्तरं परिकल्पयेत् ॥२५


तीरं तस्य त्रिभागेन समुत्सेधाद्विधीयते।

किञ्चिद्विनिर्गतं पट्टाद्यथाशोभं प्रकल्पयेत् ॥२६


अत ऊर्ध्वं यथाशोभं कण्ठकेनासनेन च।

रथकैश्चित्ररूपैश्च कूटागारैः सतोरणैः ॥२७


अलिन्दे मण्डपे वापि चतुष्के वलभीषु वा।

वितानानि विचित्राणि समुत्क्षिप्ततलानि च ॥२८


लक्षणेन च युक्तानि विदधीत यथोचितम्।

लुमाः फलकवर्तीभिः कृताः समभिदध्महे ॥२९


उत्क्षिप्तानां च ये भेदा जायन्ते सर्ववास्तुषु।

तुम्बिनी लम्बिनी हेला शान्ता कोला मनोरमा ॥३०


आध्माता चेति सप्तैता नामतः कथिता लुमाः।

चतुरश्रीकृते क्षेत्रे कान्ते भूमितले शुभे ॥३१


सूत्रं क्षेत्रसमं कृत्वा कर्णात्कर्णं विभाजयेत्।

विन्यस्येद्गर्भसूत्राणि तयोर्मध्यगतानि च ॥३२


भूयश्चान्यानि मध्येषु सूत्राणि विनिवेशयेत्।

मध्ये वृत्तं समालिख्य तुम्बिका कमलोपमा ॥३३


कार्या भागीकृतं तत्र वृत्तं क्षेत्रे प्रवर्तयेत्।

सूत्रे सूत्रे तु पिण्डस्थां लुमां सूत्रेण वालिखेत् ॥३४


लुमान्तरेषु सर्वेषु वैकट्येन घुषीकृतम्।

तयोरन्तरयोर्मध्ये लुमामूले विकर्करम् ॥३५


द्विगुणं त्रिगुणं वा स्यात्ततश्च वलिनीं लिखेत्।

व्यासार्धेनोदयश्चेह कर्तव्यस्तत्र मण्डले ॥३६


सम्पातात्तलसूत्राणां तुम्बिका च्चोर्ध्वसूत्रिता।

उदयस्तलसूत्रस्य तुम्बिकायास्तथान्तरम् ॥३७


पूर्वसूत्रे लुमाग्रेषु कण्टकान् कल्पयेद् ऋजून्।

बहिस्थानेषु चान्तेषु लक्षं कुर्यात्सुनिश्चितम् ॥३८


लक्षं गृहीत्वाधःसूत्र ऊर्ध्वसूत्राणि लक्षयेत्।

उदये कण्टकस्यान्ते तद्वदेवानुसन्ततम् ॥३९


दापयेदुत्तरं सूत्रं लुमानां खल्वकानि च।

पिण्डव्यासं वलीनां चाप्येषु क्षोभणविस्तृती ॥४०


लुमा कर्णगता या स्यादाध्माता सा प्रकीर्तिता।

छेदे प्रवर्तितान्या स्यात्किञ्चिदूना मनोरमा ॥४१


कोला तृतीया शान्तेति चतुर्थी परिकीर्तिता।

हेलाख्या पञ्चमी षष्ठी लम्बिनी नामतो लुमा ॥४२


सप्तमी तुम्बिनीत्येता मागसूत्रविनिर्गताः।

एताभिः कारयेत्कोलं वितानं नयनोत्सवम् ॥४३


कोलाविलं हस्तितालु चाष्टपत्रं शरावकम्।

नागवीथीवितानं च पुष्पकं भ्रमरावली ॥४४


हंसपक्षं करालं च विकटं शङ्खकुट्टिमम्।

शङ्खनाभिः सपुष्पं च शुक्तिवृत्तकमेव च ॥४५


मन्दारं कुमुदं पद्मं विकासं गरुडप्रभम्।

पुरोहतं पुरारोहं विद्युन्मन्दारकं तथा ॥४६


एतान्येवं वितानानि सङ्ख्यया पञ्चविंशतिः।

एतेषां रूपनिर्माणमधुना संप्रचक्ष्महे ॥४७


समन्ताच्चतुरश्रे च चतुरश्रायतेऽथवा।

क्षेत्रे वृत्तीकृते नाभ्यैकया तत्कोलमुच्यते ॥४८


चतुरश्रे यदा क्षेत्रे कर्णस्थानेषु कृत्स्नशः।

चतुरश्रनिबन्धेन चतुरश्रनिबन्धने ॥४९


वलिनी विकटाकारा पूर्वं वृत्तान्यधस्तथा।

भ्रमवृत्तं च यन्मध्ये परं तत्रापरा लुमाः ॥५०


क्रियन्ते तुम्बिकाः पञ्च यत्र सुस्थाः सुसंवृताः।

मार्ग्र स्तलेऽधःसूत्रस्य तद्भवेन्नयनोत्सवम् ॥५१


कोलाविलं समे क्षेत्र भागाष्टकविभाजिते।

मध्ये द्विभागे विलिखेद्वृत्तं तुम्बिकयान्विते ॥५२


तत्र भ्रमान्ते च सूत्रे भ्रमान् षोडश कारयेत्।

ऋजूनि यानि सूत्राणि लुमास्ताः परिकल्पयेत् ॥५३


यानि शेषाणि सूत्राणि वलिनीस्ताः प्रकल्पयेत्।

तुम्बिन्यां कारयेद्वृत्तं गजतालुकमुच्यते ॥५४


अष्टपत्रे चतुष्षष्टिभागं क्षेत्रं प्रकल्पयेत्।

लुमास्थानेषु पत्राणि खण्डितान्यन्तरैस्तथा ॥५५


सम्पाटेषु समस्तेषु तुम्बिकाः सन्निवेशयेत्।

वृत्ताकारं शरावं स्याद्विन्यासं च धरैश्च तत् ॥५६


चतुरश्रेऽथवा वृत्ते भागत्रयविभाजिते।

निवेशयेन्नागबन्धं सम्पाते वलिसूत्रयोः ॥५७


वितानमेतत्कथितं यश्चिकीर्षति मानवः।

ऊर्ध्वतिर्यग्गतैर्नालैः क्रियते यन्निरन्तरम् ॥५८


पुष्पमालाकुलं श्रीमत्पुष्पकं तदुदाहृतम्।

अशोकपल्लवाकीर्णलुमाभ्रमनिबन्धनम् ॥५९


चतुरश्रक्रियायुक्तं सा प्रोक्ता भ्रमरावली।

आध्माता कर्णमायाता तुम्बिकास्थानसंश्रया ॥६०


तुम्बिनी यत्र मध्ये तु हंसपक्षं तदुच्यते।

अस्यैव पक्षे तु यदा सम्बध्येत मनोरमा ॥६१


तुम्बिनी च विपक्षेषु करालं तदुदाहृतम्।

कोला लुमा स्याद्विकटे शङ्खे शान्ता प्रकीर्तिता ॥६२


शङ्खनाभिसमं सूत्रं तुम्बिकायाः प्रवर्तते।

सर्वेष्वपि लुमास्थानेष्वेकरेखान्वितं भवेत् ॥६३


शङ्खनाभिरिति प्रोक्तं वितानमिदमुत्तमम्।

एतस्यैव लुमास्थाने तुम्बिका पद्मकावृता ॥६४


वलयैर्भूषिता यत्स्यात्सपुष्पमिति तद्विदुः।

क्षेत्रे वृत्तायताकारे कारयेच्छुक्तिसंज्ञकम् ॥६५


वृत्ताकारे भवेत्क्षेत्रे वृत्तं वलयकर्मणा।

चतुरश्रे समे क्षेत्रे यल्लुमार्धलुमर्धते ॥६६


वृत्तक्षोभणभङ्गानि तन्मन्दारकमुच्यते।

कुमुदं कुमुदस्येव लुमाक्षेपादिहार्धतः ॥६७


पद्मके स्यादधःक्षिप्ता विकासे मध्यमा लुमा।

गरुडे गरुडो मध्ये नागाभरणशोभितः ॥६८


पुरोगतं तद्यदधो गत्वा स्यादूर्ध्वगं पुनः।

अधो गत्वा पुरारोहमूर्ध्वमूर्ध्वं ततोप्यधः ॥६९


विचित्रक्षोभणाकीर्णमन्ते वृत्तं मुहुर्मुहुः।

अष्टभिश्चाश्रिभिर्मध्ये विद्युन्मन्दारकं भवेत् ॥७०


मानोन्मानमथ ब्रूमः प्रासादच्छाद्यसंश्रयम्।

अर्धेनच्छाद्यविस्तारस्योर्ध्वे वंशं प्रकल्पयेत् ॥७१


अयमर्धोदयः प्रोक्त आवन्त्यो नामतः परः।

त्र्यंशेनच्छाद्यविस्तारस्योदयो वामनो भवेत् ॥७२


वामनावन्त्ययोर्मध्ये नवधा प्रविभाजयेत्।

भागोत्तरोदयात्तेऽष्टौ वामनादुदयाः स्मृताः ॥७३


वातपत्रोऽथ कौबेरः शमनाख्यस्तथावली।

हंसपृष्ठो महाभोगी नारदः शम्बुकस्तथा ॥७४


वामनः प्रथमस्तेषामावन्त्योते दशेत्यमी।

छाद्यानामथ वृत्तानामुदयः प्रोच्यतेऽधुना ॥७५


तलसूत्रसमं कृत्वा कुर्याद्द्वादशधोदयम्।

षष्ठादारभ्य भागात्स्युः सप्त भागोत्तरोदयाः ॥७६


कुबेरशेखरी चन्द्री नागश्चातु गणाधिपः।

मुख्यश्चाच्छः सुभद्र श्च वृत्ते सप्तोदयाः स्मृताः ॥७७


कृत्वा त्रिकर्करपदं लुमापृष्ठं लिखेत्ततः।

भागार्धमधिकं ज्ञेत्रे भवेच्छाद्यकवर्तना ॥७८


भागार्धवर्धिते क्षेत्रे तलसूत्रक्रमान्विते।

लुमामाद्यां लिखेद्भूयः षट्क्रमेणातुसन्ततम् ॥७९


रिक्षा यथाद्विहस्ताय लुमायाः स्यादनन्तरम्।

लुमा त्रिभागहीनेन परिवृद्धाङ्गुलेन सा ॥८०


तस्याश्चानन्तरा लक्ष्म्या साधं वृद्धाङ्गुलत्रयम्।

त्र्यंशोनैः षड्भिरपरा त्र्यंशोनैर्दशभिः परा ॥८१


चतुर्दशभिरन्या स्यात्सार्धैर्वृद्धा ततोऽङ्गुलैः।

विंशत्यङ्गुलवृद्धा तु सप्तमी कोणसंश्रिता ॥८२


क्रमेणानेन मानानि लुमानां वृद्धिह्रासयोः।

अनुपातेन कार्याणि च्छाद्यक्षेत्रानुसारतः ॥८३


कुबेरवल्लरीचन्द्री पन्नगा गणनायकः।

मुग्धा सुभद्रे त्येताः स्युर्लुमाकर्मार्धमादितः ॥८४


एतासां गण्डिकाछेदाश्चत्वारः परिकीर्तिताः।

ऊर्ध्वस्तिर्यग्गतिस्त्र्यंशस्तथार्धत्र्यंश एव च ॥८५


छाद्यकोदयविस्तारं तन्निर्गमसमायति।

कृत्वा षोढा भजेत्क्षेत्रं विस्तारायामतः समम् ॥८६


तत्रोर्ध्वद्र व्यमानेनच्छिन्द्यात्प्रागेव गण्डिकाम्।

तस्यां छेदानुसारेण दापयेदेव लम्बकम् ॥८७


अधस्ताद्गण्डिकायाश्च कण्टकानि प्रकल्पयेत्।

अवपातोच्छ्रयौ ज्ञात्वा त्रीणि स्थानानि चिह्नयेत् ॥८८


गर्भे तथोर्ध्वे प्रान्ते च तृतीयं मध्यतस्तयोः।

यत्र स्थाने स्थितं सूत्रं स्पृशति स्थानकत्रये ॥८९


तस्मात्प्रसार्य तत्सूत्रं भ्रमयेत्कर्कटं ततः।

लुमार्धस्यैवमुपरि संस्थानमुपजायते ॥९०


उपरि स्थितेन सूत्रेण तत्तुल्येनैव कर्कटम्।

प्रान्तावलम्बकस्थाने भ्रमयेत्खल्वसिद्धये ॥९१


प्रागक्षे भागयुगलावच्छिन्नं फलके पुनः।

कल्पयेत्सममेवैषा लुमापार्ष्णिर्निगद्यते ॥९२


शेषां लुमां तु दीर्घांशैश्चतुर्भिः प्रविभाजयेत्।

चतुर्धातः परं तस्याः कर्तव्यं वृत्तवर्तनम् ॥९३


अर्धोदये लुमोच्छ्रायो विस्तारांशद्वयोन्मितः।

मूलेऽग्रतश्च भागार्धमुदयोऽस्या विधीयते ॥९४


अधःक्षेत्रे स विस्तारात्सूत्रमालम्ब्य तद्यथा।

विस्तारात्सदृशे क्षेत्रे सार्धतद्भागमाश्रितः ॥९५


लुमाग्रभागत्र्यंशं च तयोर्मध्यं च यत्स्थितम्।

सूत्रं स्पृशेत्तत्र धृत्वा कर्कटं भ्रमयेद्बुधः ॥९६


भागभागोत्तरक्षेत्रापेक्षया चतसृष्वपि।

गण्डिकासु विधातव्यं विधिवद्वृत्तवर्तनम् ॥९७


मूलाल्लुमायाः क्षेत्रस्य पञ्चमांशत्रयेऽथवा।

पृथुत्वार्धे लुमापृष्ठलेखावृत्तद्वयं यथा ॥९८


संपतत्येवमालिख्य शेषं पूर्ववदाचरेत्।

लुमाया मूलतः क्षेत्रसप्तमांशचतुष्टये ॥९९


पृथुत्वार्धे लुमापृष्ठलेखावृत्तद्वयं यथा।

संपतत्येवमालिख्य षड्भागैः शेषमाचरेत् ॥१००


नवांशपञ्चके यद्वा क्षेत्रस्यैव लुमादितः।

पृथुत्वार्धे लुमापृष्ठद्वयलेखां निवेशयेत् ॥१०१


शेषैः षड्भिस्ततो भागैरन्यत्तु प्राग्वदाचरेत्।

भागार्धं निर्गमः कार्यः प्रासादानां कनीयसाम् ॥१०२


छाद्यकस्यैव भागैस्तु ज्यायसां निर्गमो यतः।

तदन्तरे ये प्रासादास्तेषां क्षेत्रानुसारतः ॥१०३


छाद्यस्य निर्गमः कार्यो विद्वद्भिरनुपाततः।

निर्गमस्य त्रिभागेन कनीयाञ्छाद्यकोदयः ॥१०४


अर्धभागेन परमो भाज्यं षड्भिस्तदन्तरम्।

अन्ये भागोत्तराः पञ्च सप्तैव मुदया मताः ॥१०५


इदानीमभिधास्यामः सिंहकर्णस्य लक्षणम्।

छाद्योदयोदयः स स्याद्दशभिस्तं विभाजयेत् ॥१०६


तैः स्यात् षोडशभिर्भागैस्तस्यैव तलविस्तृतिः।

ऊर्ध्वतश्चतुरो भागांस्त्यक्त्वा शङ्कुं निवेशयेत् ॥१०७


चतुरश्रीकृते क्षेत्रे कर्णेनारभ्य शङ्कुतः।

ततो वृत्तं लिखेत्पश्चाच्छङ्कुं समधिरोपयेत् ॥१०८


ऊर्ध्वदेशात्तु भागेन स स्याद्भागचतुष्टये।

लिखेद्वृत्तं त्रिभागोनद्व्यंशकर्कटकोद्भवम् ॥१०९


तस्योपरिष्टात्तदनु ग्रीवा कार्यैकभागिनी।

गर्भे शृङ्गाग्रयोर्मध्ये तिर्यग्भागद्वयं भवेत् ॥११०


मध्ये कर्णाग्रयोस्तिर्यक्कार्यं भागत्रयं बुधैः।

ग्रीवाया उपरिष्टाच्च भागमेकं शिखा भवेत् ॥१११


शिखाग्रमुपरिष्टाच्च कर्तव्यं गर्भसङ्गतम्।

शिखाग्रमूर्ध्वतस्तद्वदर्धभागावलम्बितम् ॥११२


भागावलम्बि कर्णाग्रं स्कन्धाग्रं तावदेव तु।

स्यात्कर्णखण्डयोर्मूलं स्कन्धदेशस्य सङ्गतम् ॥११३


स्वस्तिको द्व्यंशविस्तारायामः प्राग्वृत्तमध्यतः।

एवं शङ्कुमधःसूत्रादूर्ध्वं भागो निवेशयेत् ॥११४


भागे निवेशितं कुर्यात्पूर्ववृत्ताद्यशेषतः।

स्वस्तिकान्तं च पूर्वोक्तं पूर्ववत्सर्वमाचरेत् ॥११५


तलसूत्रादुपर्यंशैश्चतुर्भिर्गर्भतः समः।

द्वाभ्यां द्वाभ्यामुभयतो भागाभ्यां तिर्यगेव च ॥११६


भागेन तद्वदेवाधःसूत्रादुपरि गर्भतः।

चतुर्भिश्च चतुर्भिश्च भागैरुभयतः समम् ॥११७


वृत्तार्धानि लिखेदेककर्णयुक्तानि पूर्ववत्।

एकशृङ्गाणि च ग्रीवास्वस्तिकार्धयुतानि च ॥११८


तलसूत्रबहिर्देशाद्बाह्यवृत्तसमुद्भवः।

पदत्रयप्रविष्टः स्यात्पार्ष्णिरत्र परिस्फुटः ॥११९


त्रिवलीललितो नाम सिंहकर्णोऽयमीरितः।

दशभागीकृते प्राग्वदुदये तत्प्रमाणतः ॥१२०


चतुर्दशांशविस्तीर्णे कर्णे सार्धे वलिर्भवेत्।

दशभागोच्छ्रिते प्राग्वत्स्यात्त्रयोदशविस्तृतः ॥१२१


क्षेत्र एकवलिर्नाम सिंहकर्णस्तथापरः।

एते शोभान्विताः कार्यास्त्र्यश्रसंवरणास्त्रयः ॥१२२


प्रासादानामिति निगदितं द्वारमानं निवेशः।

स्तम्भानां च स्फुटमिह वितानानि तेषां लुमाश्च।

वृत्तच्छाद्योच्छ्रितिरभिहिता छाद्यसंस्था लुमाश्च।

प्रोक्ताः सप्त प्रथितमपरं सिंहकर्णप्रमाणम् ॥१२३


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे प्रासादद्वारस्तम्भनिवेशवितानलुमालक्षणवृत्तच्छाद्यलुमा-सिंहंकर्णप्रमाणं नाम चतुष्पञ्चाशोऽध्यायः।