प्रमुखा विकल्पसूचिः उद्घाट्यताम्

समराङ्गणसूत्रधार अध्यायसूची

अथ मेर्वादिषोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः।


प्रामादानामतो लक्ष्म षोडशानां विशेषतः।

ज्येष्ठमध्यकनिष्ठानां यथावदभिदध्महे ॥१


विभज्यते यथा येन प्रागश्चोर्ध्व विधीयते।

यावद्यस्य प्रमाणं तु तथा तत्तस्य कथ्यते ॥२


मेरुः प्रासादराजश्च कैलासश्च हरप्रियः।

सर्वतोभद्र कश्चैव विमानच्छदनन्दनौ ॥३


स्वस्तिको मुक्तकोणश्च श्रीवत्सो हंससंज्ञितः।

रुचक्रो वर्धमानश्च गरुडश्च गजस्तथा ॥४


मृगराजश्च पद्मश्च वलभी चेति ते स्मृताः।

न त्रयस्त्रिंशतोऽधस्तान्नापि पञ्चाशतः परा ॥५


सङ्ख्या भवति हस्तानां मेरोरिति पुराविदः।

विभज्य दशधा क्षेत्रं शृङ्गं कुर्याद् द्विभागिकम् ॥६


कृत्वा षड्भागिकं मध्यं निर्गमस्तत्र दीयते।

भागस्य षोडशांशेन विधेयं सलिलान्तरम् ॥७


पदैः षोडशभिर्गर्भे विधेया चास्य विस्तृतिः।

प्रासादभित्ति पदिका पदविस्तृतमन्तरम् ॥८


पदिका बाह्यभित्तिः स्यादित्येष स तदा स्मृतः।

द्विपदो वेदिकाबन्धो जङ्घा पञ्चपदोदया ॥९


पदार्धेन पदार्धेन मेखलान्तरपत्रके।

शृङ्गोच्छ्रितिस्त्रिभिर्भागैर्नवभिः शिखरोच्छ्रितिः ॥१०


शिखरस्यास्य कर्तव्यास्तज्ज्ञैः षोडश भूमिकाः।

स्कन्धॐऽशैर्विस्तृतः षड्भिरंशेनोच्छ्रितमण्डकम् ॥११


ग्रीवा वंशोच्छ्रिता कार्या शिखरस्यादिविस्तृतौ।

षड्गुणेनैव सूत्रेण वेणुकोशं समालिखेत् ॥१२


विस्तृतेरपि भद्रा याः कुर्याद्द्विगुणमुच्छ्रयम्।

कुम्भं भागेन कुर्वीत प्रासादेष्वखिलेष्वपि ॥१३


एवमेष चतुःशृङ्गश्चतुर्द्वारोपशोभितः।

मेरुर्मेरूपमः कार्यो वाञ्छता शुभमात्मनः ॥१४


सर्वस्वर्णमयं मेरुं यद्दत्त्वा पुण्यमाप्नुयात्।

तमिष्टकाशैलमयं कृत्वा तदधिकं भजेत् ॥१५


मेरुः।

चतुरश्रीकृते क्षेत्रे सप्तविंशतिपाणिकम्।

दशधा विभजेत्स स्यात्कैलासः पुण्यवर्धनः ॥१६


ब्रह्मकोष्ठगतो गर्भः शेषं भित्त्यन्धकारिका।

चतुर्भागं भवेद्भद्रं मूलकर्णौ त्रिभागिकौ ॥१७


सप्तभागोच्छ्रिता जङ्घा मेखला चार्धभागिका।

भागेनान्तरपत्रं स्याद्भागेनाण्डकमुच्छ्रितम् ॥१८


ग्रीवाग्रभागमुत्सेधाच्छिखरं दशकोच्छ्रितम्।

अर्धषष्ठांशविस्तारः स्कन्धः कैलाससंज्ञिते ॥१९


अस्मिन्नन्तरपत्रे तु सूत्रं दत्त्वा सुताडितम्।

त्रिगुणेन लिखेत्तेन वेणुकोशं मनोरमम् ॥२०


अष्टभूम्युच्छ्रयः श्रीमान् मञ्जर्या च विराजितः।

उच्छ्रयश्चास्य कर्तव्यो द्विगुणः श्रियमिच्छता ॥२१


कार्यं षड्भूमिकं चास्य भद्रं भागार्धनिर्गतम्।

पाकः सिंहकर्णस्युः समाप्तिर्नायकेन च ॥२२


कैलास एष कथितो विशेषेण हरप्रियः।

कैलासः।

इदानीं सर्वतोभद्रः प्रासादः परिकीर्त्यते ॥२३


स स्यात् षड्विंशतिं हस्तान् परमः परिमाणतः।

जठरं बाह्यसीमा च भित्तयो ह्यन्धकारिकाः ॥२४


जङ्घोत्सेधश्च कर्णौ च यथा मेरोस्तथा स्मृताः।

तथैव भद्र विस्तारैः कार्यो भागार्धनिर्गतः ॥२५


रथिकैका चतुर्भागा ततः सार्धद्विभागिका।

तासां परस्परं ज्ञेयो भागभागं विधीयते ॥२६


षड्भागात् विस्तृतं कार्यं शिखरं सप्तमोच्छ्रितम्।

षड्भिर्दशभिर्भागैः स्यान्मूलजा स्कन्धविस्तृतिः ॥२७


ग्रीवार्धभागमुत्सेधादण्डकं भागमुच्छ्रितम्।

मूलसूत्रानुसारेण च्छेदः संयुज्यते यथा ॥२८


अस्य रेखा तथा कार्या सर्वश्रेयःप्रसाधनी।

मेरोरस्य च शृङ्गाणि सिंहकर्णैर्विभूषयेत् ॥२९


मञ्जरीं पद्मकोशाग्रतुल्यां सर्वत्र कारयेत्।

जयं लक्ष्मीं यशः कीर्त्तिं सर्वाणीष्टफलानि च ॥३०


करोति सर्वतो भद्रं सर्वतोभद्र कः कृतः।

सर्वतोभद्रः।

चतुरश्रीकृते क्षेत्रे विभागशतभाजिते ॥३१


विमानं विभजेत् प्राज्ञः श्रेयःपुष्टिसुखावहम्।

भद्रै श्चतुर्भिस्तत्कुर्यात्कर्णप्राग्ग्रीवकैस्तथा ॥३२


पञ्चभूमिर्भवत्येष यदि वा त्रिविधा भवेत्।

हस्तास्त्रिंशद्भवेज्ज्येष्ठो मध्यमः पञ्चविंशतिः ॥३३


स्याडेकविंशतिर्हस्तात्कनीयान् षोडशाथवा।

जातिशुद्धो भवेदेको मञ्जर्या वै परो भवेत् ॥३४


मिश्रकोऽन्यो विमानानामिति संख्या त्रिधोदिता।

ज्येष्ठो मिश्रकनिर्माणः स च कौलाशभद्र कृत् ॥३५


मध्यमो जातिशुद्धः स्यात्कनीयान् मञ्जरीयुतः।

पञ्चभागयुतं भद्रं विस्तरेण प्रकीर्तितम् ॥३६


कर्णप्राग्ग्रीवविस्तारः कर्तव्यो भागसंमितः।

भागार्धं क्षोभणे कार्यं तलिपं तझलान्तरं ॥३७


गुप्तकर्णं तु कर्तव्यं यदिच्छेल्लक्षणान्वितम्।

तस्माद्भद्र स्य निष्कंशं भागेनैकेन कारयेत् ॥३८


मिश्रकस्य चतुर्भागं भद्रं कुर्याद्विचक्षणः।

पञ्चभागोच्छ्रिता जङ्घा खुरपिण्डकया सह ॥३९


द्विभा रथिका कार्या भूमिः स्याच्चतुरंशका।

द्वितीयार्धांशहीना च तृतीया भूमिरिष्यते ॥४०


चतुर्थे तु त्रिभिर्भागैरर्धहीना तु पञ्चमी।

उदयो भूमिकाया यः कूटं कुर्यात्तदर्धतः ॥४१


अर्धेन कुम्भिकां कुर्यादुच्छालकसमन्विताम्।

ऊर्ध्वभवस्तु पञ्चम्या वेदिका भागमुच्छ्रिता ॥४२


घण्टा षड्भागविस्तारा कार्या भागद्वयोच्छ्रिता।

घण्टोत्सेधं त्रिभिर्भागैर्विभजेत्तदनन्तरम् ॥४३


भागिकानि प्रकुर्वीत कण्ठग्रीवाण्डकानि च।

भागं कण्ठप्रदेशः स्याद्दण्डिकायाः समुच्छ्रितिः ॥४४


घण्टार्धेन विधातव्या द्विभागा कलशोच्छ्रितिः।

सूरसेनादिकं सर्वं कर्तव्यं पूर्ववत्तथा ॥४५


भद्रं मनोरमैश्चेह सिंहकर्णैर्विभूषयेत्।

पञ्चव्यासेन सूत्रेण पद्मकोशं समालिखेत् ॥४६


लतातयो भवेदेषां लताभिस्तं प्रकल्पयेत्।

मिश्रको मिश्रितैरङ्गैः शुद्ध स्याद्भूमिकान्वितः ॥४७


विमानः।

नन्दनस्य भवेत्सीमा द्वात्रिंशद्धस्तनिर्मितः।

अष्टाष्टकविभागेन चतुःषष्टिपदो हि सः ॥४८


भागैश्चतुर्भिर्गर्भोऽस्य शेषं भित्त्यन्धकारिका।

भद्रं गर्भसमं कार्यं तदूर्ध्वेनास्य निर्गमः ॥४९


द्वौ रथौ पार्श्वतो भूयः सर्वतः कर्णसूत्रतः।

पञ्चभागोच्छ्रिता जङ्घा मेखला भागसंमिता ॥५०


षड्भमिरेष भूमिः स्यादेकैका द्वादशांशका।

रेखास्कन्धाण्डकादीनां कैलासे समाकृतिः ॥५१


नन्दनो नन्दयत्येष समृद्धा हन्ति चापदः।

नन्दनः।

चतुरश्रीकृते क्षेत्रे पञ्चविंशति हस्तके ॥५२


सूत्रपातं ततः कुर्यात्कर्मायतमुखायतम्।

ततः सीमार्धसूत्रेण सम्यग्वृत्तं समालिखेत् ॥५३


ततस्तदष्टाविंशत्या भजेद्भागैर्यथापदम्।

निर्मापये शालार्धेन दिक्सूत्रसंश्रिताः ॥५४


तासां तु मध्यगाः कार्या एकैकस्य रथास्त्रयः।

अन्ये चार्धरथाः कार्याः शालाकर्णसमाश्रिताः ॥५५


भागषट्कोच्छ्रिता जङ्घा भागार्धेन तु मेखलाः।

भागेनान्तरपत्रं स्याद्भागं चोद्वृत्तमण्डकम् ॥५६


अर्धभागोच्छ्रिता जीवा विष्कम्भेन चतुष्पदाम्।

शिखरस्योच्छ्रयो भागैरेकादशभिरिष्यते ॥५७


सर्वेषामेव लतिना मात्रिधा द्विगुणो हि सः।

विस्ताराद्द्विगुणं सूत्रं स्कन्धाद्यं चापि षड्गुणम् ॥५८


सुत्तानितं समाकृष्य पद्मकोशं समालिखेत्।

स पञ्चविंशतिर्हस्ता ज्येष्ठः षोडश मध्यमः ॥५९


कनीयान् द्वादशकरच्छस्यो विजानता।

ज्येष्ठस्य भागसंख्येयमेतदर्धेन मध्यमः ॥६०


मध्यमस्य तथार्धेन कनीयान् भागसंख्यया।

भागषट्कमिता जङ्घा ज्येष्ठस्य परिकीर्तिता ॥६१


सप्तभागोच्छ्रिता सा स्यान्मध्यमे सकनीयसि।

सर्वेषां लतिनामेष क्षेत्रेण विधिरीरितः ॥६२


स्वस्तिकोऽयं समाख्यातः स्वस्तिश्रेयस्करो नृणाम्।

स्वस्तिकः।

इदानीं मुक्ताकोणस्य सूक्ष्म ब्रूमः स तु त्रिधा ॥६३


षोडश द्वादशाष्टौ च हस्तसंख्या परस्य च।

ज्येष्ठः षोडशभिर्भागैर्मध्यो द्वादशभिर्भवेत् ॥६४


कनीयानष्टभिः प्रोक्तः प्रासादो मुक्तकोणकः।

मुक्तकोणस्वस्तिकयोरिदमेवान्तरं भवेत् ॥६५


स्वस्तिको वर्तुलस्तत्र चतुरश्रोऽपरः स्मृतः।

पञ्चभागोन्नता जङ्घा द्वौ भागौ रथिका भवेत् ॥६६


भागैश्चतुर्भिः कर्तव्या द्वितीया तस्य भूमिका।

येषास्त्वर्धार्धभागेन विधेयास्तस्य भूमिकाः ॥६७


विधाय नवधा गर्भेस्तैस्त्र्योदशभिर्भवेत्।

जङ्घापादोनपञ्चाशैराद्यैकःष्पणिका भवेत् ॥६८


मुक्तकोणः।

विस्तारं दशधा कृत्वा षड्भागं मध्यमालिखेत्।

कर्णा द्विर्भागिको मध्यं चतुर्धा विभजेत्पुनः ॥६९


तद्वन्मध्ये कृतौ द्व्यंशौ भागिकौ वामदक्षिणौ।

अङ्गुलीकरसंख्यातैर्विधेयो रथनिर्गमः ॥७०


प्राग्ग्रीवैर्विकटैः स्वष्टैः स्तम्भैः सद्भूपकर्मभिः।

एवं गुणसमायुक्तः श्रीवत्सः सुखदो भवेत् ॥७१


द्व्यङ्गुलं त्र्यङ्गुलं वापि चतुरङ्गुलमेव च।

उदकान्तरकं कार्यं श्रीवत्सो नन्दनोपि च ॥७२


श्रीवत्सः।

विस्तारैर्दशधा भक्तैः षड्भामञ्जरी भवेत्।

सर्वतोभद्र वन्मूलकर्णावस्य द्विभागिकौ ॥७३


उदकान्तरमन्यस्य श्रीवत्सस्येव कल्पयेत्।

हंसोऽयं कीर्तितः सम्यक् शुभदो लक्षणान्वितः ॥७४


हंसः।

रुचकोऽप्येवमेव स्यादुदकान्तरवर्जिताम्।

भित्तयश्चतुरंशेन गर्भो व्यासार्धसंमतः ॥७५


रुचकः।

चतुरश्रीकृते क्षेत्रे विभजेद्दशभिः पदैः ।

विदध्यादर्धमानाख्यं तत्र भ्रान्तमनुक्रमात् ॥७६


भद्र स्य च भवेद्भागैश्चतुर्भिः परिविस्तृतम्।

एकेनैकेन भागेन द्वौ रथौ वामदक्षिणौ ॥७७


द्विभागविस्तृतौ कर्णौ निर्गमः स्यात्कराङ्गुलैः।

वर्धमानः क्रियायुक्तो यशोलक्ष्मीं विवर्धयेत् ॥७८


रचको वर्धमानो वा श्रीवत्सो हंस एव च।

य एको रोचते तेषु न्यसेत्तं गरुडे सुधीः ॥७९


पक्षावेतस्य कर्तव्यौ प्रासादार्धविनिर्गमौ।

नासिकां वैनतेयस्य त्रिगर्भां कारयेदपि ॥८०


गरुडः।

चतुःषष्टिपदे क्षेत्रे प्रासादं विभजेच्छुभम्।

क्षेत्रार्धेन च सूत्रेण पृष्ठतो वृत्तमालिखेत् ॥८१


भागैश्चतुर्भिर्जंङ्घास्य मेखलाचार्धभागिका।

पुरतः सूरसोयं पृष्ठतश्च गजाकृतिः ॥८२


गजः।

चतुःषष्टिपदः सिंहो भद्रं भागचतुष्टयम्।

द्व्यंशकौ मूलकर्णौ च गर्भः षोडशभिः पदैः ॥८३


विस्तारार्धे भवेज्जङ्घा मेखला पदिका भवेत्।

एकैका रथिका चास्य भवेद्भागत्रयोच्छ्रिता ॥८४


सर्वतोभद्र वच्चास्या रेखाग्रीवाण्डकादिकम्।

सिंहाक्रान्तैस्तथा भद्रैः प्रासादः सिंह उच्यते ॥८५


विक्रमार्जवशीलानां प्रासादोऽयं शुभावहः।

सिंहः।

पद्मस्य हस्तसंख्या स्यात् षोडश द्वादशाथवा ॥८६


वर्तुलः स च कर्तव्यः सूत्रं तु स्वस्तिके यथा।

सर्वे रथाः स्मृताः पद्मपत्राकृतिमनोरमाः ॥८७


उदकान्तरकं कुर्याच्छ्रेयसे नन्दने यथा।

पद्मकः।

स्वस्तिकस्य यथा पूर्वं कथितं मानलक्षणम् ॥८८


तेनैव लक्षलितः सर्वो विदधीत विचक्षणः।

यथामूलविभक्तस्तु लतिषु स्वस्तिकादिषु ॥८९


यथास्कन्धविभागोऽपि रेखामध्यविभागतः।

स्वस्तिकाङ्को विधातव्यः शुकनाशोच्छयाच्छुभः ॥९०


प्रासादानां स भागैः स्यात्सप्तभिर्विहितः श्रिये।

विमाने स धरात्र्यंशन्यूनः कार्यो विपश्चिता ॥९१


कैलासो च तुरंशोना विधेना शुकनासिका।

सर्वतोभद्र सिंहाख्यौ मेरूणां तु विशेषतः ॥९२


षड्भिर्भागैर्विना कार्या शुकनासा विजानता।

प्रासादोच्चेन सन्धारो विमानाद्याः प्रकीर्तिताः ॥९३


विस्तारार्धेन तद्गर्भो यच्छेषं तेन भित्तयः।

प्रासादजङ्घोच्छ्रेयेण तुल्यो गर्भतुलोदयः ॥९४


सभित्तिर्गर्भतुल्यः स्यात्सन्धारेषु तुलोदयः।

स विधेयः पुनर्व्यासाद्यदि वा किञ्चिदुन्नतः ॥९५


मूलसूत्रं तु दशधा --- समालिखेत्।

गर्भसूत्रं प्रतिष्टाप्य सिंहकर्णं प्रकल्पयेत् ॥९६


सार्धभागेन सूत्रेण मध्यमस्य समालिखेत्।

उरो द्विभागतुल्यं तु मस्तकं भागमुच्छ्रितम् ॥९७


अर्धेन वोच्छ्रयस्तस्याः पक्षोच्छ्राया द्विभागिकाः।

उरो च सीमान्ते सूत्रेणच्छन्दमादिशेत् ॥९८


नवधा दशधा चैव सिंहकर्मावुभौ स्मृतौ।

एकषड्विस्तृतो भागा उदयात् पञ्चभागिकः ॥९९


सूरसेनो द्वितीयस्तु स्वात्समोदयविस्तृतिः।

उदयात्सार्धविस्तीर्णं सिंहकर्णस्त्रिसंकुला ॥१००


कामलान् मल्लकांश्चान्यान् सिंहकर्णात् प्रलोपयेत्।

प्रासादानां हि सर्वेषां सर्वमेतद्विभूषणम् ॥१०१


यस्य यत्रोचितं स्थानं तत्तत्र विनिवेशयेत्।

निर्मितौ वलभेस्तिर्यक्सूत्रं कुर्वीत सप्तधा ॥१०२


पञ्चभागांश्च मुखतस्तेनैवांशेन कल्पयेत्।

मेखलान्तरपत्रे च जम्भाकुम्भकमेव च ॥१०३


पञ्चभागोच्छ्रितं कुर्यात्तद्वच्छिखरमुच्छ्रितम्।

कीर्तितानि विमानानियान्येव सुरवर्त्मनि ॥१०४


तान्येव स्थावरत्वेन प्रासादा इति विश्रुताः।

महेश्वरस्य कैलासो विष्णोस्तु गरुडाभिधः ॥१०५


कार्यः प्रजापतेः पद्मो गणनाथस्य च द्विपः।

न खल्वेतेऽन्यदेवानां विधातुमुचिताः स्मृताः ॥१०६


यस्तु त्रिविष्टपः स स्यात्सर्वदेवनिकेतनः।

अस्मात्तु येऽन्ये प्रासादाः स्मृतास्तेऽनेकरूपिणः ॥१०७


सर्वेषामेव देवानामभेदेन भवन्ति ते।

जगत्यां विस्तरः कार्यः प्रासादोच्छ्रयसंमितः ॥१०८


गर्भोर्धेनोच्छ्रयस्तस्याः शुभदः परिकीर्तितः।

मण्डपस्य षडंशार्धो पञ्चमांशादथ स्मृतः ॥१०९


कर्णप्रासादकाः कार्याः प्रासादस्य त्रिभागतः।

पूर्वापरमुखाः कार्या एते याम्योत्तराननाः ॥११०


ऐन्द्रे याम्ये वारुणे च कौबेरे च यथाक्रमम्।

दिग्भागेषु चतुर्ष्वेषु वलभीं विनिवेशयेत् ॥१११


गर्भविस्तारविस्तीर्णां द्वौ त्रिभागौ मुखायताम्।

इति बाह्यपरीवारे जङ्घा प्रासादमानतः ॥११२


तीर्यंगायतमारोप्य सूत्रं गर्भेण मण्डपे।

गुरुकक्षोऽथ कर्तव्या गवाक्षस्तम्भसंयुताः ॥११३


प्रासादविस्तरात्कार्यो द्विगुणो मण्डपः सदा।

मण्डपस्यसविस्ताराजगती द्विगुणा बहिः ॥११४


कर्णप्रासादकाः कार्याः प्रासादस्यार्धतोऽपि वा।

तेषामध्यर्धतः कुर्याद्वलभीनां निवेशनम् ॥११५


अनेन क्रमयोगेन बाह्याद्बाह्यं सुसंवृतम्।

यदा हि शोभते राजा केयूराङ्गदकुण्डलैः ॥११६


तथा प्रासादराजोऽयं शोभते भूषणैर्निजैः।

ध्वास्यार्हास्यातिसौम्यस्य श्रीकीर्तिविजयावहः ॥११७


अनेन विधिना न्यस्तः प्रासादः स्यात्सदा नृणाम्।

आदित्यं पूर्वतो न्यस्येत्कुमारं पूर्वदक्षिणे ॥११८


दक्षिणे मातृदेवैस्तु गजास्यं दक्षिणोपरि।

विन्यसेद्वारुणे गौरी वायव्येऽपि च चण्डिकाम् ॥११९


विष्णुं कुबेरदिग्भागे तथैशान्यां महेश्वरम्।

अन्येषामपि देवानां कथ्यते तु क्रमोऽधुना ॥१२०


तत्रैशान्यां दिशि न्यस्येदीशानं लोकनायकम्।

दानवानां निहन्तारं पूर्वस्यामपि वासवम् ॥१२१


वैश्वानरं तथाग्नेय्यां धर्मराजं च दक्षिणे।

नैरृत्यां निरृतिं न्यस्येत्प्रतीच्यां तु प्रचेतसम् ॥१२२


वायुं वायव्यदिग्भागे कुबेरमपि चोत्तरे।

अष्ठौ ह्येते महात्मानो लोकपालाः प्रकीर्तिताः ॥१२३


पालयन्ति जगत्सर्वं स्वस्वस्थाने प्रतिष्ठिताः।

पुरकर्कटदुर्गेषु ग्रामेषु नगरेषु च ॥१२४


क्रमेणानेन विन्यस्ताः स्युः प्रजानां सुखावहाः।

न यत्र देवताबाधस्तत्र द्वारं प्रकल्पयेत् ॥१२५


प्रासादस्यानुसारेण भवेद् द्वारं शुभावहम्।

अथातः प्रोच्यते सम्यग्द्वारमानमनुक्रमात् ॥१२६


ज्येष्ठमध्यकनिष्ठानां द्र व्यं स्तम्भानुसङ्गतम्।

भवेद्द्वारां प्रासादे षोडशाङ्गुलम् ॥१२७


द्विकरे द्विगुणं तत् स्यात्त्रिकरे द्विकरं शुभम्।

चतुष्करे चतुःषष्टिरङ्गुलानि प्रशस्यते ॥१२८


अत ऊर्ध्वं प्रतिकरं त्र्यङ्गुला वृद्धिरिष्यते।

द्वारोदयकरैस्तुल्यान्यङ्गुलानि नियोजयेत् ॥१२९


षोह्याजयवान्यालर्ध ध्रुवके चतुरङ्गुले।

विस्तारो द्विगुणस्तस्य स्तम्भपिण्डं स एव हि ॥१३०


एकद्वित्रिचतुष्पञ्चषट्सप्तककरावधि।

द्वारविस्तारभागेन स्तम्भः सम्यग्विधीयते ॥१३१


चतुर्भागेन कर्तव्या सीमास्तम्भः प्रमाणतः।

तथा स्तम्भस्य बाहुल्याच्चतुर्भागविर्भागविना ॥१३२


भागौ तत्र कर्तव्यौ हीरग्रहणमुच्छ्रितम्।

भागत्रयेण कर्तव्यः पट्टस्य च समुच्छ्रयः ॥१३३


भागेनैकेन नीस्यातव्यविस्तारं भत्रिभागरच्यकिम्।

पट्टहस्ते विधातव्यमङ्गुलद्वयनिर्गमम् ॥१३४


---ड---स्तारः स्तम्भतुल्यः प्रशस्यते।

एकैकमङ्गुलं पट्टपार्श्वयोरधिकस्ततः ॥१३५


पट्टदस्य विस्तारः कार्यञ्चतुर्भागविभाजितः।

भागेनैह्केन चोत्सेधस्तुलाधारणमिष्यते ॥१३६


तुलाधारणकोत्सेधाच्चतुर्भागविभाजितात्।

भागमेकं परित्यज्य पिण्डस्तस्य विधीयते ॥१३७


मात्राहीना भवेन्मेढ्यां तावन्न्यस्येच्छलान्तले।

द्वौ भागौ मूलभागेन जयन्तीपिण्डविस्तरौ ॥१३८


इति हीरग्रहादीनां समासाल्लक्ष्मकीर्तनम्।

पञ्चांशाभ्यधिकं स्तम्भविस्तारस्थेन कुम्भिका ॥१३९


कुर्वीत स्तम्भतः सार्धा गर्ग कुम्भस्य विस्तृतीः।

अथवा स्तम्भकर्णेन स्तम्भाग्रद्विगुणा क्वचित् ॥१४०


पादोनस्तम्भविस्तारादग्रकुम्भे समुच्छ्रितिः।

स्तम्भविस्तारकर्णाद्वा यद्वा पिण्डोऽग्रकुम्भके ॥१४१


तस्य भागान् प्रवक्ष्यामो यथाकुम्भं स युज्यते।

विभक्तोऽत्र त्रिधा पिण्डो भागेनैकेन पुत्तली ॥१४२


चतुर्भिस्तस्य मध्यस्य पद्मं समालिखेत्।

उच्छाले पञ्चधा भक्ते त्रिभिरावर्तनं --- ॥१४३


वर्तनं योषव्येत्किञ्चिन्न च खल्वं समाचरेत्।

वर्तने कुम्भकुम्भौ तु सूत्रं दत्त्वा सुतानितम् ॥१४४


पद्मानालासमा स स्यान्न भवेत्पङ्किवर्जिता।

नवाधोच्चाहा लके भक्ते वीरगण्डस्तु भागिकः ॥१४५


एकेनैकेन भागेन विधेया पट्टिकट्टिका।

ध्वसंछाकाल कर्तव्यं भागद्वितयसंमितम् ॥१४६


तलकुम्भकपिण्डं तु पञ्चधा प्रविभाजयेत्।

भागेनैकेन पद्मं स्याद्भागेन कलशं लिखेत् ॥१४७


द्वाभ्यां समालिखेत् कुम्भं भागेनैकेन पट्टिकाम्।

वर्तमाना चत्रा कार्या शोभा स्यादस्य यावतः ॥१४८


एष कुम्भक्रमः प्रोक्तः स्तम्भपादे व्यवस्थितः।

तलपट्टस्य पिण्डस्तु भागपट्टसमो भवेत् ॥१४९


द्र व्येष्वत्र हि सर्वेषु सम्यक्शोभा विवक्षिता।

न्यूनातिरिक्तमप्यस्मान्मानेष्वङ्गुलमाचरेत् ॥१५०


द्वारामुदयविस्तारो द्र व्यसंस्थानमेव च।

पूर्वमेव यथोद्दिष्टं तथा सर्वमनुस्मरेत् ॥१५१


पिण्डेन त मूलशाखाया द्वितीया प विधीयते।

सपायते सपादन प्रत्ययदेनाथ सार्धनरूपशाखा प्रशस्यते ॥१५२


अर्धेन मूलशाखाः समा चैव बाह्यशाखा शाखां प्रकल्पयेत्।

ऊर्ध्वपञ्चमशाखाया सप्तमी नवमी च सा ॥१५३


रूपशा --- स्यान्न न्यूना नाधिकापि च।

विस्तरार्धं तु कर्तव्यः सर्वासामेव निर्गमः ॥१५४


शाखाविस्तारविस्तीर्णात्तरङ्गानि कारयेत्।

सार्धेन ध्रुवशाखानां पिण्डेनोदुम्बरोदयः ॥१५५


उदुम्बरस्य पिण्डेन सिंहवक्राणि कारयेत्।

तदर्धं विलसन्धिः स्यात्तत्समा भूमिरङ्गिका ॥१५६


तलन्याससमः पट्टः पिण्डपूर्वव्यवस्थितः।

कूटाकारैर्विचित्रैश्च शोभनै रूपकर्मभिः ॥१५७


पत्रजातैरनेकैश्च कण्ठं कुर्याद्यथेप्सितम्।

पाचकः कटुतीक्ष्णाद्यैरनुसाररसैर्यथा ॥१५८


अन्वीक्ष्य विपचेत्तद्वत्स्थपतिः सर्वमाचरेत्।

यदुक्तं यदनुक्तं च तत्समग्रमपि स्फुटम् ॥१५९


युक्तं समालोच्य यथाशोभं समाचरेत्।

आरभ्य मेरोरिति षोडशैते प्रासादमुख्याः कथिता यथावत्।

संक्षेपतो लक्ष्म तथा जगत्यां द्वारादिसम्बन्धि च दारुमानम् ॥१६०


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे मेर्वादिषोडशप्रासादलक्षण जगतीलक्षण द्वारादिकला नाम पञ्चपञ्चाशोऽध्यायः।