प्रमुखा विकल्पसूचिः उद्घाट्यताम्

समराङ्गणसूत्रधार अध्यायसूची

अथ रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः।


अथातः सम्प्रवक्ष्यामि प्रासादाञ्शिखरान्वितान्।

रुचकादींश्चतुःषष्टिं नामलक्षणतः क्रमात् ॥१


पूर्वं यानि विमानानि पञ्चोक्तान्यभवंस्ततः।

तदाकारभृतः सर्वे प्रासादाः पञ्चविंशतिः ॥२


शिखरैर्विविधाकारैरेकेनाण्डेन भूषिताः।

केचिदण्डत्रयोपेताः केचित्पञ्चाण्डकान्विताः ॥३


ईषद्भेदेन ते ज्ञेयाः प्रासादाः सर्वकामदाः।

सौवर्णा राजताश्चै व देवानां सततं प्रियाः ॥४


मणिमुक्ताप्रवालाद्यैर्भूषणैः सुविभूषिताः।

रीतिकाताम्रभोषाद्यैः पिशाचोरगरक्षसाम् ॥५


देवलोका भवन्त्येते कामस्वच्छन्दचारिणः।

पाताले चापि निर्दिष्टाः पाषाणैः स्फटिकैस्तथा ॥६


इष्टकाकाष्ठपाषाणैर्मर्त्यलोकेऽपि नन्दकाः।

सुखदाश्च भवन्त्येते कर्तुः कारयितुस्तथा ॥७


लक्षणेनान्वितानेतान् कथयामो यथाविधि।

पुराणां भूषणार्थाय भुक्तिमुक्तिप्रदा नृणाम् ॥८


रुचको भद्र कश्चैव हंसो हंसोद्भवस्तथा।

प्रतिहंसस्तथा नन्दो नन्द्यावर्तो धराधरः ॥९


वर्धमानोऽद्रि कूटश्च श्रीवत्सोऽथ त्रिकूटकः।

मुक्तकोणो गजश्चैव गरुडः सिंह एव च ॥१०


भवश्च विभवश्चैव पद्मो मालाधरस्तथा।

वज्रकः स्वस्तिकः शङ्कुर्मलयो मकरध्वजः ॥११


इत्येते नामतः प्रोक्ताः प्रासादाः पञ्चविंशतिः।

एतेषां रूपनिर्माणं कथयामो यथाविधि ॥१२


रुचकाष्टादशैषां चतुरश्राः प्रकीर्तिताः।

भवश्च विभवश्चैव चतुरश्रायतोऽथवा ॥१३


पद्मो मालाधरश्चैव वृत्तावेतावुदाहृतौ।

मलयो मकराख्योऽथ द्वौ तु वृत्तायताविमौ ॥१४


वज्रकः स्वस्तिकः शङ्कुरित्थमष्टाश्रयस्त्रयः।

ललिताः कथिता ह्येते ब्रूमोऽन्यान्मिश्रकानथ ॥१५


सुभद्रो योकिटश्च सर्वतोभद्र एव च।

सिंहकेसरिसंज्ञोऽन्यश्चित्रकूटो धराधरः ॥१६


तिलकाख्यः स्वतिलकस्तथा सर्वाङ्गसुन्दरः।

नवामी मिश्रकाः प्रोक्ताः कथ्यन्ते साधकारिकाः ॥१७


केसरी सर्वतोभद्रो नन्दनो नन्दिशालकः।

नन्दीशो मन्दिराख्यश्च श्रीवृक्षश्चामृतोद्भवः ॥१८


हिमवान् हेमकूटश्च कैलासः पृथिवीजयः।

इन्द्र नीलो महानीलो भूधरो रत्नकूटकः ॥१९


वैडूर्यः पद्मरागश्च वज्रको मुकुटोत्कटः।

ऐरावतो राजहंसो गरुडो वृषभस्तथा ॥२०


मेरुः प्रासादराजश्च देवानामालयो हि सः।

संयोगे तु संधारान् कथयामो यथाविधि ॥२१


लतात्रिपुष्कराख्यौ च पञ्चवक्त्रश्चतुर्मुखः।

नवात्मकश्च निर्गूढः प्रासादाः पञ्च संज्ञिताः ॥२२


आद्यः पञ्चाण्डकः कार्यः प्रासादः केसरीति यः।

सर्वतोभद्र को यस्तु विधेयः स नवाण्डकः ॥२३


त्रयोदशाण्डकस्तु स्यान्नन्दनो नाम यो भवेत्।

नन्दिशालस्तु यः प्रोक्तः स स्यात्सप्तदशाण्डकः ॥२४


अण्डकैरेकविंशत्या नन्दीशः परिवारितः।

पञ्चविंशाण्डकोपेतं मन्दरं कारयेद्बुधः ॥२५


श्रीवृक्षः शस्यते चैतेष्वेकोनत्रिंशताण्डकैः।

स्यात्त्रयस्त्रिंशताण्डैस्तु प्रासादो ह्यमृतोद्भवः ॥२६


अण्डकैः क्रियते सप्तत्रिंशता हिमवानपि।

सैकया हेमकूटस्तु स्याच्चत्वारिंशताण्डकैः ॥२७


पञ्चचत्वारिंशताण्डैः कैलासो नाम नामतः।

भवत्येकोनपञ्चाशदण्डकः पृथिवीजयः ॥२८


इन्द्र नीलश्च यः प्रोकारः पञ्चशताण्डकैः।

सप्तपञ्चाशता युक्तो महानीलस्तथाण्डकैः ॥२९


एकषष्ट्यण्डकोपेतः प्रासादो भूधरो भवेत्।

पञ्चषष्ट्यण्डकैर्युक्तो रत्नकूटः प्रशस्यते ॥३०


नवषष्ट्यण्डकः कार्यो वैदूर्यः शुभलक्षणः।

त्रिसप्तत्यण्डकयुतः पद्मरागो विधीयते ॥३१


अण्डकैः सप्तसप्तत्या प्रासादो विजयाभिधः।

एकाशीत्यण्डकोपेतो विधेयो मुकुटोत्कटः ॥३२


ऐरावतस्तु पञ्चाशीत्यण्डकः परिकीर्तितः।

नवाशीत्यण्डकैर्युक्तो राजहंसः प्रशस्यते ॥३३


नवत्या सप्तयुतया प्रासादो वृषभोऽण्डकैः।

शतेनैकोत्तरेणाण्डैर्मेरुः प्रासादराट्स्मृतः ॥३४


हरेर्हिरण्यगर्भस्य --- भास्करस्य च।

मेरुरेष विधातव्यो नान्यस्य त्रिदिवौकसः ॥३५


मेरोः प्रासादराजस्य देवानामालयस्य च।

कर्ता क्षत्रिय एवास्य वैश्यस्य स्थपतिर्भवेत् ॥३६


एवं विधीयमानेऽस्मिन् मेरौ द्वावपि नन्दतः।

वास्तुशास्त्रविधिज्ञोऽपि क्षत्रियः स्थपतिर्यदि ॥३७


तदास्य सत्यं शौचं च विक्रमश्च विनश्यति।

ईश्वरोऽपि यदा विप्रो मेरुप्रासादकृद्भवत् ॥३८


कर्तुः कारयितुः पीडा पूजा चास्य न तादृशी।

ब्राह्मणः स्थपतिश्चास्य वास्तुशास्त्रे विशारदः ॥३९


वणिक्कर्मणि वर्तेत धनवानपि यद्यसौ।

सर्वविप्रेषु निर्दिष्टः कर्ता स्थपतिरेव सः ॥४०


तत्रस्था देवताः सर्वास्तस्य वृद्धिः कथञ्चन।

वास्तुशास्त्रविधिज्ञोऽपि तत्तत्कारयिता यदि ॥४१


राजापि क्षत्रियः कर्ता मेरुर्भवेत् तदा।

राष्ट्रभङ्गो भवेत्तस्य प्रजा यान्ति दिशो दश ॥४२


क्षत्रियेण नरेन्द्रे ण कर्ता स्थपतिना यदि।

मेरोः पूजा भवेत्तत्र क्षत्रियोऽप्यक्षयं पदम् ॥४३


एकैकस्य च यन्मानं सकर्णस्य च यद्वशम्।

प्रासादानां च सर्वेषां तत्सम्यगभिधीयते ॥४४


चतुरश्रीकृते क्षेत्रे चतुर्भागविवर्जिते।

भागिका सर्वतो भित्तिः शेषं गर्भगृहं भवेत् ॥४५


तस्याग्रतः पुनः कार्यो भागद्वयविनिर्गतः।

विस्तारेण त्रिभागश्च प्राग्ग्रीवः स्तम्भभूषितः ॥४६


पीठोत्सेधस्य भागेन भवेज्जङ्घा द्विभागिका।

भागार्ध---तरं पत्रं पादेन स्याद्वरण्डिका ॥४७


सपादांश्चतुरो भागान् शिखरस्योच्छ्रयः स्मृतः।

त्रिगुणेन च सूत्रेण पद्मकोशं समालिखेत् ॥४८


स्कन्धकोशान्तरं चास्य भागैः प्रविभजेत्त्रिभिः।

भवेद्ग्रीवार्धभागेन भागेनामलसारकम् ॥४९


पद्मशीर्षं च भागार्धाद्भागेन स्मृतः।

इत्युक्तो रुचकाख्योऽयं।

रुचकः ।।

भद्र काख्योऽथ कथ्यते ॥५०


---॥५१


भद्र क ।।

भद्रं तु कर्णयोर्मध्ये कारयेदुदकान्तरम्।

तदा हंसो विजानीयात्प्रासादो देवतालयः ॥५२


हंसः।

हंसस्येव यदा कुर्याद्भद्र स्यान्ते जलान्तरम्।

तदा हंसोद्भवो नाम प्रासादः परिकीर्तितः ॥५३


हंसोद्भवः।

रथान्तकर्णयोश्चैवं यदा स्यादुदकान्तरम्।

प्रतिहंसस्तदा प्रोक्तः प्रासादोऽयं मनोरमः ॥५४


प्रतिहंसः।

प्राग्ग्रीवा रुचकस्यैव सीमाविस्तारविस्तृताः।

निर्गता भद्र मानेन तदा नन्दः स उच्यते ॥५५


नन्दः।

प्राग्ग्रीवैर्भद्र मानेन नन्दो यदि विभूष्यते।

निर्गतैर्भागमानेन चतुरश्रैः समन्ततः ॥५६


प्राग्ग्रीवः पुरतः कार्यः स्तम्भद्वयविभूषितः।

नन्द्यावर्तस्तदा प्रोक्तः प्रासादो विजयावहः ॥५७


नन्द्यावर्तः।

नन्द्यावर्ते यदा कुर्याद्भद्रा न्ते जलनिर्गमम्।

धराधरस्तदा ज्ञेयः प्रासादो भुवनोत्तमः ॥५८


धराधरः।

दशधा भाजिते क्षेत्रे चतुरश्रे समन्ततः।

भागद्वयेन कर्णः स्याद्भजेच्छेषं च सप्तधा ॥५९


भागत्रयेण रथको मध्यमोऽस्य विधीयते।

द्वाभ्यां द्वाभ्यां तु भागाभ्यां रथकौ वामदक्षिणौ ॥६०


भागस्यैव त्रिभागेन भवेदस्य विनिर्गमः।

कथितो वर्धमानोऽयं ।

वर्धमानः।

गिरिकूटोऽथ कथ्यते ॥६१


वर्धमानस्य भद्र स्थमध्यसूत्रेण योजयेत्।

कर्णिसूत्रं तदग्राभ्यां न्यस्येत्सूत्रचतुष्टयम् ॥६२


तदुत्पन्नैस्तु भद्र स्थकर्णैः स्याच्चित्रकूटकः ।

गिरिकूटः ।।

कर्णान्ते च रथान्ते च यदि स्यात्सलिलान्तरम् ॥६३


वर्धमानस्य भवति श्रीवत्सः स्यात्तदा शुभः।

श्रीवत्सः ।।

गिरिकूटस्य संस्थाने तद्रू पे विनिवेशिते ॥६४


कर्णा प्रतिरथेष्वस्य निखिलेष्वपि योजयेत्।

प्राग्वत्प्रतिरथोद्भूतसूत्राभ्यां कर्णवर्त्मना ॥६५


त्रिकूटाख्यस्तदैव स्यात्प्रासादो देवतालयः।

त्रिकूटः।

त्रिकूटस्यैव संस्थाने भद्र कर्णपरिच्युते ॥६६


स्वरूपभद्र संस्थाने मुक्तकोणः प्रजायते ।

मुक्तकोणः।

चतुर्भिस्तृतैर्भागैः क्षेत्रे पञ्चभिरायते ॥६७


भागेन भित्तिः कर्तव्या शेषं गर्भगृहं भवेत्।

अस्य क्षेत्रार्धसूत्रेण पृष्ठतो वृत्तमालिखेत् ॥६८


पुरतः शूरसेनोऽस्य पृष्ठतोऽपि गजाकृतिः।

प्रासादोऽयं गजो नाम गणेशस्य विधीयते ॥६९


गजः।

वर्धमानस्य संस्थाने गरुडं विनिवेशयेत्।

तस्य पक्षौ विधातव्यौ प्रासादार्धेन निर्गतौ ॥७०


पक्षयोस्तु दशस्तस्य वर्धमानं विभाजयेत्।

जातिशुद्धा रथाः कार्याः पार्श्वयोर्गरुडो भवेत् ॥७१


गरुडः।

वर्धमानस्य संस्थाने प्राग्वत्कर्णौ नियोजयेत्।

द्विभागा रथिका कार्या शेषं भद्रं प्रकल्पयेत् ॥७२


जङ्घास्य पञ्चभिर्भागैः पीठं चास्य तदर्धतः।

विरण्ड्यर्धांशिकाद्भिश्च भागश्चान्तरपत्रयोः ॥७३


तथोत्सेधत्रिभागैश्च नवभिः शिखरोच्छ्रितः।

कुम्भश्चामलसारश्च सिंहेऽस्मिद्रा गमागतः ॥७४


सिंहः ।।

चतुरश्रीकृते क्षेत्रे चतुर्भिर्भाजितैः पदैः।

सीमाविस्तारमानेन रथांस्तस्य प्रकल्पयेत् ॥७५


पादेनैकेन निर्यातान् दिक्षु सर्वास्वनुक्रमात्।

प्राग्ग्रीवान् पुनरस्यैव भागद्वितयविस्तृतान् ॥७६


पदषड्भागनिर्यातान्विदधीत चतुर्दिशम्।

चतुर्भागायतो गर्भः कार्योऽस्य द्व्यंशविस्तृतः ॥७७


जङ्घोत्सेधश्च पीठं च यथा भद्रे तथा भवेत्।

प्रासादो भवसंज्ञोऽयं देवतात्रितयाश्रयः ॥७८


भवः ।।

भवस्यैव यदा कुर्याद्र थान् सजलनिर्गमान्।

द्विभङ्गं संश्रयोऽन्यः सा प्रासादो विभवाभिधः ॥७९


त्रिलिङ्गः ।।

अष्टधा भाजिते क्षेत्रे चतुरश्रे समन्ततः।

विदध्याद्गर्भसूत्राणि कर्णसूत्राणि च क्रमात् ॥८०


दिक्सूत्रेष्वखिलेष्वस्य सीमार्धं पदमेव च।

पदस्याष्टादशो भागस्तद्योगाद्वृत्तमालिखेत् ॥८१


विस्तारार्धं भवेद् गर्भो गर्भार्धास्तस्य भित्तयः।

तद्वृत्तबाह्यसूत्रेण भागान् षोडश कारयेत् ॥८२


दिक्सूत्रकर्णसूत्रेषु रथकान् सम्प्रकल्पयेत्।

द्विभागा रथिका कार्या सलिलान्तरभूषिता ॥८३


सलिलान्तरमेतस्य श्रीवत्सस्येव कल्पयेत्।

जङ्घोत्सेधे च पीठे च शिखर च तथा भवेत् ॥८४


भालाधारः स विज्ञेयः सबःह्यभ्यन्तरः समः।

मालाधरः ।।

मालाधरस्य संस्थाने यत्क्षेत्रं पूर्ववत्स्थितम् ॥८५


उदकान्तरविच्छिन्नं पद्मं तत्र निवेशयेत्।

तथाग्रे कारयेत्कर्णव्यासार्धेन विनिर्गमान् ॥८६


पद्मपत्रनिभाकाराञ्जातिशुद्धान्सलक्षणान्।

पद्मः ।।

षड्भागानायते क्षेत्रे विस्तारे चतुरश्रके ॥८७


द्विभागाद्विपुलो गर्भश्चतुर्भागायतो भवेत्।

गर्भव्यासमितं सूत्रं पदपादसमन्वितम् ॥८८


वृत्तार्धं भ्रमयेत्तेन दक्षिणेनोत्तरेण च।

सीमाविस्तारसूत्रेण पदपादयुतेन च ॥८९


पुरतः पृष्ठतश्चापि तद्वृत्तमनुवर्तयेत्।

वृत्तक्षेत्रमिदं तस्य भागैर्द्वादशभिर्भवेत् ॥९०


द्विभागो भद्र विस्तारो भागिकी भागविस्तृतिः।

भद्रा णां च रथान्मध्ये भागेनैकेन विस्तृता ॥९१


उदकान्तरकं चात्र मालाधरवदाचरेत्।

वृत्तायतस्तु कर्तव्यः प्रासादो मलयाभिधः ॥९२


मलयः।

मलयस्यैव कर्णेषु रथिकान् यदि कल्पयेत्।

उदकान्तरविच्छिन्नान् पदषड्भागनिर्गतान् ॥९३


पीठोत्सेधश्च जङ्घा च शिखरं चात्र यद्भवेत्।

एकमात्रासमायुक्तं लतिना ते प्रतीयते ॥९४


त्र्यंमाशाणां चतुरश्राणां कोणेष्वर्धपरिक्षयात्।

अष्टाश्रं जायते यत्र वाजाग्रमपि तां नरम् ॥९५


अष्टाश्रं चतुरो भागान् विदध्यात्तत्र भागिकी।

भित्तिर्विधेया भागाभ्यां भवेद्गर्भगृहं ततः ॥९६


रथिकासु विधेयोऽस्य परितो जलनिर्गमः।

वज्रको नाम कथितः प्रासादः शुभलक्षणः ॥९७


वज्रकः ।।

वज्रकस्यैव संस्थाने सलिलान्तरवर्जिते।

चत्वारिंशद्भागभक्ते रथिकाः स्युस्त्रिभागिकाः ॥९८


अष्टासु दिक्षु कर्णाश्च भवन्त्यस्य द्विभागिकाः।

कर्णैः पद्मकतुल्योऽयं स्वस्तिकः समुदाहृतः ॥९९


स्वस्तिकः ।।

वज्रकस्यैव संस्थाने ये रथाः प्राक्प्रदर्शिताः।

एकैकस्तेषु कर्तव्यश्चतुरश्चतुरॐऽशकान् ॥१००


भागद्वयेन मध्यः स्याद्र थकोशाद्विनिर्गतः।

शङ्कुर्नामायमुद्दिष्टः प्रासादोऽष्टाभिरश्रिभिः ॥१०१


शङ्कुः ।।

चतुरश्राः षोडश प्रोक्ताश्चतुरश्रायतद्वयम्।

वृत्तवृत्तायतौ द्वौ द्वावुक्ताश्चाष्टाश्रयस्त्रयः ॥१०२


पञ्चविंशतिरित्येते प्रासादा ललिताः स्मृताः।

मिश्रकाणामथ ब्रूमो लक्षणानि यथाक्रमम् ॥१०३


भद्र कस्यैव संस्थाने भद्रे शृङ्गं यदा भवेत्।

सुभद्रो नाम संज्ञोऽयं कर्णकूटैः करीद्यसौ ॥१०४


पूर्वोक्तस्य यदा शृङ्गं भद्रं केसरिणो भवेत्।

लताख्योक्तं तदा स स्यात् सर्वतोभद्र संज्ञितः ॥१०५


भद्रे शृङ्गं परित्यज्य सिंहं तत्रैव कारयेत्।

मिश्रयोगे तयोर्मिश्रः स भवेत्सिंहकेसरी ॥१०६


श्रीवत्सस्यैव संस्थाने भद्रे कूटं निवेशयेत्।

कर्णे तनैव योगेन प्रतिशृङ्गोपशोभितम् ॥१०७


कलशैः सप्तदशभिः पद्मघण्टामलैः सह।

स च त्रिकूट इत्युक्तो विचित्रशिखरान्वितः ॥१०८


कर्णे भद्रे प्रतिस्थाने पूर्णे शृङ्गे यदा भवेत्।

अण्डकैः सप्तदशभिस्तदा स्यात्स धराधरः ॥१०९


श्रीवत्सस्यैव संस्थाने कर्णे कूटं निवेशयेत्।

शृङ्गं भद्रो भद्रे च तदा तिलक उच्यते ॥११०


यथा कर्णे तथा भद्रे यो भवेच्चित्रकूटवत्।

उत्तमाङ्गे च यस्तद्वत्स स्यात्सर्वाङ्गसुन्दरः ॥१११


प्रतिशृङ्गेषु सर्वेषु यदा कूटं निवेश्यते।

मिश्रकः स तु विज्ञेयः श्रीनाम्ना चान्तिकोऽन्तिकः ॥११२


सर्वे कूटावृताः कार्याः सर्वे कार्याश्चतुर्मुखाः।

मिश्रका बहुशृङ्गाश्च कुटीसंज्ञास्ततोऽपरे ॥११३


इदं नवानां मिश्राणामिह लक्षणमीरितम्।

साधारणमतः स्पष्टं ब्रूमः सम्प्रति लक्षणम् ॥११४


चतुरश्रीकृते क्षेत्रे भागाष्टकविभाजिते।

तस्य मध्ये भवेद्गर्भो द्विभागो देवतालयः ॥११५


भागे निवेशयेद्भित्तिं कुर्याद्भागेन कारिकाम्।

बाह्यभित्तिं पुनर्भागे विधेयास्तस्य सिद्धये ॥११६


तस्य कर्णेषु कर्तव्या रथिकाश्च द्विभागिकाः।

शेषं भद्रं प्रकर्तव्यमुदकान्तरभूषितम् ॥११७


भागेन निर्गतं दिक्षु सर्वास्वेष भवेद्विधिः।

चतुर्भागोच्छ्रिता जङ्घा करकश्च तदर्धंकः ॥११८


वरण्ड्यन्तरपत्रं च भागेनैकेन कल्पयेत्।

रथिकैकान्तरं तस्य सार्धभागत्रयोच्छ्रिताः ॥११९


षड्भागे शिखरं मूले शेषांशकसमुच्छ्रितम्।

तस्योच्छ्रयं त्रिधा कृत्वा वेणुकोशं समालिखेत् ॥१२०


स्कन्धकोशान्तरं तस्य चतुर्धा विभजेत्ततः।

पद्मशीर्षं तथा ग्रीवां सार्धेनांशेन कारयेत् ॥१२१


कुर्याद्भागेन भागेन कुम्भं चामलसारकम्।

भागार्धेन प्रकुर्वीत तदूर्ध्वं बीजपूरकम् ॥१२२


प्रासादः कैसरी नाम सर्वतः सन्ततिप्रियः।

कैसरी ।।

चतुरश्रं समं कृत्वा भूमिभागं विचक्षणः ॥१२३


प्रासादो व्यासतः कुर्याज्जगतीं द्विगुणामिह।

विदध्याज्जागतीपीठं प्रासादार्धसमुच्छ्रितम् ॥१२४


पीठस्योपरि संस्थाप्य प्रासादं विभजेत्ततः।

सर्वतोभद्र संस्थानं हस्तसंख्या यदा भवेत् ॥१२५


हस्तैः सप्तत्रिंशता तु ज्येष्ठः सार्धे उदाहृतः।

मध्यमः सप्तविंशत्या प्रासादः स्यात्कलाधिकैः ॥१२६


कनीयान्पञ्चदशभिः प्रासादः समुदीरितः।

तलच्छन्दो यदा ह्येषां तथा चैवोर्ध्वतो गतिम् ॥१२७


ज्येष्ठमध्यकनिष्ठानां तथा सम्यङ्निगद्यते।

चतुरश्रीकृते क्षेत्रे शतमूलविभाजिते ॥१२८


न्यसेत्तन्मध्यतो गर्भं चतुर्वर्गपदान्वितम्।

गर्भपादेन भित्तिः स्यात्तद्वदेवान्धकारिका ॥१२९


बाह्यभित्तिस्तथवा थैव स्याद्दशशास्युर्द्विभागिका।

प्रतिवर्णपदांशेन षोडशेन जलान्तरम् ॥१३०


शेषं भद्रं प्रकर्तव्यं गर्भार्धेन विनिर्गतम्।

भागार्धं क्षोभयेत्पार्श्वे निर्गमं च तथाचरेत् ॥१३१


शेषः स्याद्भद्र विस्तारः पञ्चभागायतस्तथा।

पीठं तस्यैव कर्तव्यं साधद्वयसमुच्छ्रितम् ॥१३२


द्विगुणां च तथा जङ्घामुच्छ्रायेणास्य कल्पयेत्।

मेखलामर्धभागेन भागेनान्तपत्रकम् ॥१३३


प्रथमा रथिका तत्र कार्या भागत्रयोच्छ्रिता।

द्वितीया रथिका या सा सार्धभागेन चोच्छ्रिता ॥१३४


भागे भागेऽन्तरं कार्यमुपर्युपरि चोभयोः।

षड्भागान्विस्तृतं कुर्याच्छिखरं सप्तमोच्छ्रितम् ॥१३५


एवं भूमिभिरष्टाभिः कुर्यादेनं विचक्षणः।

जलनिर्गमविच्छिन्ना रथाः प्रतिरथास्तथा ॥१३६


चतुर्गुणैः पृथक्सूत्रं पद्मकोशं समालिखेत्।

मञ्जरी ललिता कार्या नीलोत्पलदलाकृतिः ॥१३७


ग्रीवा चैकार्धभागेन मलसारकम्।

पद्मशीर्षं च कर्तव्यं ग्रीवामानेन धीमता ॥१३८


सार्धभागेन सोष्णीषः पद्यस्योपरिकुम्भकः।

सर्वतोभद्र इत्युक्तो रेषानानामेष शेखरः ॥१३९


विधाय सर्वतोभद्रं देवानामालयं शुभम्।

लभते परमं लोकं दिवि स्वच्छन्दभाषितम् ॥१४०


सर्वतोभद्रः ।।

चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते।

व्यासपादेन गर्भस्तदर्धादन्धकारिका ॥१४१


जङ्घा स्कन्धश्च तं कर्णं भद्रं चाप्यस्य यद्भवेत्।

सर्वतोभद्र वत्सर्वं तद्विधेयं चतुर्दिशम् ॥१४२


तस्य भद्रा णि सर्वाणि भित्तिभिः परिवेष्टयेत्।

भद्रे भद्रे पुनश्चास्य वर्धमानं निवेशयेत् ॥१४३


पञ्चभागास्तथा सार्धाः शिखरस्योदयो भवेत्।

सर्वतोभद्र काकारा रथिकाश्चात्र कारयेत् ॥१४४


कुर्यात्षडंशा विस्तीर्णशिखरं प्रधोच्छ्रितम्।

सर्वतोभद्र संस्थानादेषां चास्वत्र योजयेत् ॥१४५


ग्रीवा चामलसारं च कुम्भश्चापि तथा भवेत्।

प्रासादो नन्दनो नाम कर्तव्यो देवतालयः ॥१४६


कृतेऽस्मिन् नन्दति स्वामी दुरितानि च निर्दहेत्।

नन्दनः ।।

भक्ते द्वादशधा क्षेत्रे चतुरश्रीकृते ततः ॥१४७


सप्तवर्गपदो गर्भो भित्त्या सह विधीयते।

सपादपादिका भित्तिगर्भे कुर्याद्विचक्षणः ॥१४८


बाह्यभित्तिश्च तद्वत्स्यात्तद्वच्चाप्यन्धकारिका।

पीठोच्छ्रयस्तथा जङ्घा कर्णेषु रथिकाश्च याः ॥१४९


सर्वतोभद्र काकारान्मूलकर्णांश्च योजयेत्।

एकैकां रथिकां चान्यां विन्यसेत्पक्षयोर्द्वयोः ॥१५०


चतस्रो रथिकाश्चैवं कर्णे कर्णे निवेशयेत्।

शेषो भद्र स्य विस्तारः स्वविस्तारार्धनिर्गतः ॥१५१


भूषयेत्सिंहकर्णैश्च भद्र व्यासार्धमुन्नतैः।

विन्यसेच्छिखरं तत्र भागैर्विस्तृतमष्टभिः ॥१५२


चतुर्गुणेन सूत्रेण वेणुकोशं समालिखेत्।

स्कन्धकोशान्तरं चास्य त्रिभिभागैर्विभाजयेत् ॥१५३


ग्रीवार्धभागिकोत्सेधाभागेनामलसारकः।

पद्मशीर्षं तथार्धेन भागेन कलशः स्मृतः ॥१५४


त्रिपादा रथिकास्तिस्र उच्छ्रायेण प्रकीर्तिताः।

सर्वतोभद्र काकारो नन्दिशालः प्रकीर्तितः ॥१५५


नन्दिशालः।

नन्दिशालस्य संस्थाने तद्रू पे समवस्थिते।

तस्य भद्रा णि सर्वाणि भित्तिभिः परिवेष्टयेत् ॥१५६


भद्रे भद्रे तस्य तस्य वर्धमानं निवेशयेत्।

अर्धषष्ठांस्तथा भागान्स्याद्भद्र शिखरोच्छ्रयः ॥१५७


पीठोच्छ्रायं च जङ्घां च तथास्य शिखरोच्छ्रयम्।

नन्दिशालसमाकारं सममेव प्रकल्पयेत् ॥१५८


कार्योऽयं सर्वदेवानां प्रासादो नन्दिवर्धनः।

नन्दिवर्धनः ।।

नन्दिवर्धनसंस्थानं पूर्ववत्परिकल्पयेत् ॥१५९


उभयोः कर्णयोर्मध्ये ये तत्र रथिके स्थिते।

तयोश्चोपरि कर्तव्यं शिखरं लक्षणान्वितम् ॥१६०


षडंशविस्तृतं चैतत्साधषट्कसमुच्छ्रितम्।

चतुर्गुणेन सूत्रेण वेणुकोशं समालिखेत् ॥१६१


ग्रीवा चामलसारं च कुम्भकस्याश्रयो भवेत्।

कार्यः स सर्वतोभद्र संस्थान इति निश्चयः ॥१६२


मन्दिरोऽयमिति ख्यातः प्रासादः क्षितिभूषणः।

मन्दिरः ।।

नन्दिवर्धनसंस्थाने तद्रू पसमवस्थिते ॥१६३


दिक्सूत्रे कर्णसूत्रे च रथिकाष्टकम्।

रथिका अपि चैताः स्युर्द्विभागायतविस्तृताः ॥१६४


षड्भागविस्तृतिश्चास्य शेषं शिखरमाचरेत्।

उच्छ्रयश्चास्य कर्तव्यो भागानां सार्धसप्तकम् ॥१६५


षड्भागः स्कन्धविस्तारो ग्रीवा चास्य द्विभागिका।

रेखा चामलसारं च कलशश्चात्र यो भवेत् ॥१६६


सर्वतोभद्र वत्स स्याच्छ्रीवृक्षोऽयमुदाहृतः।

श्रीवृक्षः ।।

चतुरश्रीकृते क्षेत्रे चतुर्दशविभाजिते ॥१६७


द्विभागविस्तृताः कर्णा रथिकास्तेषु कारयेत्।

उदकान्तरविच्छिन्ना मूलकर्णेषु योजयेत् ॥१६८


शेषं भद्र स्य विस्तारस्तदर्धमपि निर्गमः।

सर्वतोभद्र मप्यस्य भद्रे भद्रे विभज्य च ॥१६९


पूर्वैर्गुणैस्तु संयुक्ते चतुर्दिक्षु निवेशयेत्।

तस्य गर्भस्तु कर्तव्यः विस्तृतः ॥१७०


सार्धभागप्रमाणः स्याद्भित्तिर्गर्भस्य मध्यतः।

बाह्यभित्तिस्तथैवास्य शेषं भ्रमणमाचरेत् ॥१७१


जङ्घाषड्भागमुत्सेधात्पीठं तस्य तदर्धतः।

वरण्डीनान्तरं पत्रं भागेनैकेन कारयेत् ॥१७२


रथिकाद्वादशविस्तारानुपर्युपरि योजिता।

तिस्रस्तिस्रो निवेशाः स्युः कर्णे कर्णेतथाक्रमम् ॥१७३


प्रथमा रथिकास्तस्य कुर्याद्भागत्रयोच्छ्रिताः।

कुर्यादुपर्यन्याः पादपादविवर्जिताः ॥१७४


अष्टभिर्विस्तृतं भागैः सार्धैर्नवभिरुच्छ्रितम्।

सर्वतोभद्र काकारं शिखरं तस्य कारयेत् ॥१७५


प्रासादोऽयं विमानाख्यः प्रख्यातश्चामृतोद्भवः।

विमानः।

द्विसप्तायामविस्तारं हिमवन्तं विभाजयेत् ॥१७६


चतुर्धा रथिकास्तत्र कर्णे कर्णे निवेशयेत्।

द्विभागविस्तृताः सर्वा उपर्युपरि कारयेत् ॥१७७


प्रथमा भूमिका तस्य स्याच्च भागत्रयोच्छ्रिता।

पादपादविहीनास्तु क्रमणोपरिभूमयः ॥१७८


नन्दिशालगुणैर्युक्तं शिखरं चात्र कारयेत्।

सर्वतोभद्र वन्मध्ये भूमिकाश्च समाचरेत् ॥१७९


द्विभागा रथिकास्तस्य सर्व भागत्रयोच्छ्रिताः।

द्वितीयभूमिरथिका भूम्युशयेण कारयेत् ॥१८०


शिखरस्योच्छ्रयः कार्यः सपादव्याससंमितः।

अमृतोद्भववज्जङ्घा पीठं चात्र तथा भवेत् ॥१८१


जातिशुद्धो भवत्येष हिमवान् भुवनोत्तमः।

हिमवान् ।।

हिमाचलस्य संस्थाने तद्रू पे समवस्थिते ॥१८२


तस्य भद्रे षु सर्वेषु वर्धमानं च योजयेत्।

भागषट्कप्रविस्तारं तदर्धेन विनिर्गतम् ॥१८३


भागैः सप्तभिरप्यस्य सार्धैः स्याच्छिखरोच्छ्रयः।

शिखरस्याग्रतः स्तम्भः सिंहकर्णे विभूषयेत् ॥१८४


दिक्सूत्रैरस्य सर्वेषु क्रियां प्राग्वत्प्रकल्पयेत्।

जङ्घोत्सेधश्च कर्णश्च शिखरं चास्य यद्भवेत् ॥१८५


हिमवत्सदृशं सर्वं विधेयं तद्विजानता।

हेमकूट इति ख्यातः प्रासादोऽयं जगत्त्रये ॥१८६


एष त्रिमूर्तिनिलयः कार्यो नान्यस्य कस्यचित्।

हेमकूटः ।।

हिमवत्तुल्यसंस्थानं प्रासादं परिकल्पयेत् ॥१८७


तस्य मध्ये विधातव्यः सर्वतोभद्र संज्ञितः।

वर्जनीयं तु तन्मध्ये वर्धमाननिवेशनम् ॥१८८


ततः स्थानेषु सर्वेषु खण्डरेखा निवेशयेत्।

व्यासोच्छ्रितैस्ततः सिंहकर्णैर्भद्रं विभूषयेत् ॥१८९


ऊर्ध्वं च शिखरं तस्य वर्जनीयं विचक्षणैः।

द्वे द्वे च रथिके कार्ये सपादद्व्यंशकोच्छ्रिती ॥१९०


तयोश्चोपरि विस्ताराच्छिखरं चतुरश्रकम्।

उच्छ्रयः पञ्चभिः सार्धैर्विधेयः शिखरस्य च ॥१९१


दिक्सूत्रेषु च सर्वेषु क्रियामेवं प्रकल्पयेत्।

बाह्यरेखा तु जङ्घा च हिमवत्सदृशी स्मृता ॥१९२


कैलासोऽयमिति ख्यातः कर्तव्यः शूलपाणये।

कैलासः ।।

एतस्यैव यदा भद्र मुच्छ्रितं सिंहकर्णकैः ॥१९३


द्वे द्वे च रथिके तत्र दीयते सुमनोरमे।

शेषः शिखरविस्तारः पञ्चभागसमुच्छ्रितः ॥१९४


प्राग्ग्रीवकाश्च भद्रे षु भागभागविनिर्गताः।

विस्तारेण चतुर्भागा दिक्षु सर्वास्वयं विधिः ॥१९५


विमानसदृशी चास्य बाह्यलेखा विधीयते।

गुणैरेभिस्तदा युक्तः प्रासादः पृथिवीजयः ॥१९६


पृथिवीजयः।

भक्ते षोडशभिः क्षेत्रे चतुरश्रे समन्ततः।

गर्भोऽष्टवर्गः स्यात्तस्य मध्ये भित्तिर्द्विभागिका ॥१९७


भ्रमणं बाह्यभित्तिश्च तत्समे एव कीर्तिते।

कर्णेषु रथिका कार्या सलिलान्तरभूषिता ॥१९८


तत्तुल्यायामविस्तारा रथिकाः स्युस्तथापराः।

तद्वत्तृतीयरथिका भद्रं चतुष्पदायतम् ॥१९९


विस्तारार्धेन निष्क्रान्तं क्षोभयेद्वर्धमानतः।

वरण्ड्यन्तरपत्रे च सार्धे भागेन कारयेत् ॥२००


उपर्युपरि भागान् हि हीनाः स्युः क्रमशोभवः।

भद्रे रथिकयोर्मध्ये सिंहकर्णो विधीयते ॥२०१


एतस्य चोच्छ्रयो भागैः पञ्चभिः परिकीर्तितः।

पार्श्वस्थे सिंहकर्णस्थरथिके ये निवेशते ॥२०२


तयोरुपरि षड्भागं विस्तृतं शिखरं भवेत्।

विधेयमुच्छ्रयेणैतत्त्रिभागान् सप्ताथवाधिकान् ॥२०३


पक्षयोरुभयोस्तस्य रथिके तदूर्ध्वतः।

सिंहं निवेशयेद्दिक्षु निखिलास्वप्ययं विधिः ॥२०४


मूलकर्णे ततश्चार्धं शिखरं दशविस्तृतम्।

एकादशोच्छ्रितं कार्यं क्रमवृत्त्या मनोरमम् ॥२०५


चतुर्गुणेन सूत्रेण वेणुकोशं ततो लिखेत्।

पूर्वोक्ता सातरंभागेरमुष्या विभजेत्त्रिभिः ॥२०६


ग्रीवार्धभागमुत्सेधादण्डकं भागमुच्छ्रितम्।

पद्मशीर्षं तथार्धेन कलशश्चांशकोदयः ॥२०७


देवानामालयः स स्यादिन्द्र नीलोऽयमीरितः।

इन्द्र नीलः।

एतस्यैव यदोर्ध्वस्थं शिखरं क्रियतेऽन्यथा ॥२०८


चतुर्थी रथिका चास्य दीयतेऽतिमनोरमा।

पूर्वोक्तेन विधानेन पादं वि---वर्जिता ॥२०९


शिखरस्याष्टविस्तारो नव भागास्तथोच्छ्रयः।

इन्द्र नीलस्य सदृशं शेषमन्यद्विधीयते ॥२१०


महानीलोऽयमाख्यातः प्रासादस्त्रिदशालयः।

महानीलः ।।

इन्द्र नीलस्य संस्थाने दिक्सूत्रेषु समन्ततः ॥२११


सर्वतोभद्र शिखरं हित्वानिवेशयेत्।

विधिरेष समस्तासु ककुप्सु प्रविधीयते ॥२१२


भद्रे षु वर्धमानस्य विन्यासं परिवर्जयेत्।

व्यासोच्छ्रितैः सिंहकर्णैर्भद्र मस्य विभूषयेत् ॥२१३


महानीलस्य सदृशं सर्वमस्य प्रकल्पयेत्।

इन्द्र गोपनिभाकारः प्रासादो भूधरः स्मृतः ॥२१४


सुरेश्वरस्य कर्तव्यो नान्येषां कथमप्यसौ।

भूधरः।

भूधरस्य तु संस्थाने तद्रू पे समवस्थिते ॥२१५


भद्रे भद्रे पुनः प्राज्ञो वर्धमानं निवेशयेत्।

चतुर्भागमितव्यासं सार्धचतुःसमुच्छ्रितम् ॥२१६


रत्नकूटः समाख्यातः प्रासादः श्रीपतेरयम्।

रत्नकूटः।

चतुरश्रीकृते क्षेत्रे विंशत्या भाजितेंऽशकैः ॥२१७


कुर्याद्विभागविस्तारा रथिकाः पञ्च कर्णगाः।

पञ्चोपरि पुनः पञ्च दद्यादेकां तदूर्ध्वतः ॥२१८


प्रथमा भूमिका चास्य कार्या भागत्रयोच्छ्रिता।

पादपादविहीनास्तु क्रमेणापरभूमयः ॥२१९


भद्र कर्णान्तरस्थे द्वे रथिके ये तदूर्ध्वतः।

शिखरं दशविस्तारं कुर्यात्सार्धदशोच्छ्रितम् ॥२२०


मूलकर्णानुसारेण शिखरं तत्र यद्भवेत्।

तस्य द्वादशविस्तारं त्रयोदशसमुच्छ्रितम् ॥२२१


भद्रं विभूषयेत्पत्रैः सिंहकर्णैर्मनोरमैः।

पञ्चव्यासेन सूत्रेण वेत्रकोशं समालिखेत् ॥२२२


स्कन्धकोशान्तरं चास्य त्रिभिर्भागैर्विभाजयेत्।

पद्मशीर्षं तथा ग्रीवां सार्धभागेन कारयेत् ॥२२३


कुर्याद्भागेन भागेन कुम्भं चामलसारकम्।

नवभागोच्छ्रितां जङ्घां तदर्धखरपिण्डकाम् ॥२२४


वरण्ड्यन्तरपत्रं च कुर्याद्भागद्वयेन च।

वैदूर्योऽयं समाख्यातः प्रासादो दानवद्विषः ॥२२५


वैडूर्यः।

एतस्यैव यदा भद्रे भद्रे स्याद्वर्धमानकः।

पद्मरागस्तथैव स्याद्कार्योऽयं पद्मरागतः ॥२२६


पद्मरागः ।।

पद्मरागस्य भद्रे षु वर्धमानं विवर्जयेत्।

भद्र स्य पार्श्वद्वितये प्रदद्याद्र थिकाद्वयम् ॥२२७


व्यासोच्छ्रायैश्च भद्रा णि सिंहकर्णैर्विभूषयेत्।

यदन्यदस्य तत्सर्वं पद्मरागसमं भवेत् ॥२२८


वज्रकोऽयं समाखातो विधेयस्त्रिपुरद्विषः।

वज्रकः ।।

वज्रकस्यैव भद्रे षु पूर्ववद्र थिकास्थितौ ॥२२९


षड्भागविस्तृतं तत्र शिखरं विनिवेशयेत्।

सप्तभागसमुत्सेधं दिक्षु सर्वास्वयं विधिः ॥२३०


मुकुटोज्ज्वल इत्युक्तः प्रासादोऽयं सुरालयः।

मुकुटोज्ज्वलः ।।

अस्यैव तु यदा स्थाने भद्रे भद्रे चतुर्दिशम् ॥२३१


सिंहकर्णं परित्यज्य वर्धमानो विधीयते।

ऊर्ध्वाभवतृतीयायाः सप्तोच्छ्रायषडायताः ॥२३२


ऐरावतोऽयं कर्तव्यः प्रासादस्त्रिदशेसतिः।

ऐरावतः ।।

ऐरावतस्य संस्थाने प्रासादे पूर्ववत्स्थिते ॥२३३


वर्धमानं विहायोर्ध्वे यदा सिंहो निवेश्यते।

शिखराणि च चत्वारि दिक्षु सर्वासु वर्जयेत् ॥२३४


क्षेत्रायार्विस्तारं गर्भवेश्म निवेशयेत्।

चतुर्भागायतं भद्रं निर्गमेण विभाजितम् ॥२३५


भद्र त्रयं प्रयुञ्जीत भित्तिभागेन वेष्टितम्।

द्वारोच्छ्रयं सविस्ताराद्वरार्धेन समुच्छ्रयः ॥२३६


गवाक्षास्तत्र कर्तव्यो यथा द्वारं लङ्घ्यते।

मध्ये चतुष्किका कार्या द्विभागायामविस्तृता ॥२३७


प्रासादो राजसंसोऽयं ब्रह्मादीनां प्रशस्यते ।

राजहंसः ।।

राजहंसस्य संस्थाने तृतीये रथिकोपरि ॥२३८


यदारशिखरं सप्तसमुच्छ्रायं षडायतम्।

स्यात्तदा गरुडो नाम गरुडध्वजवल्लभः ॥२३९


प्रासादः सर्व --- कारयितुस्तथा।

गरुडः ।।

अस्यैव मूलशिखरं त्यक्त्वा भागद्वयोन्मितम् ॥२४०


क्रियन्ते रथिकाः पूर्णे तदूर्ध्वं मूलमञ्जरी।

क्रियते द्वादशोच्छ्राये दशभागायता यदा ॥२४१


तदा स्याद्वृषभौ नाम वृषभध्वजवल्लभः ।

वृषभः ।।

सतार्धहस्तविस्तारं ज्येष्ठं मेरुं प्रकल्पयेत् ॥२४२


मध्यमे हस्तसंख्या स्यात् षट्द्विकालाधिकः।

दशत्रिगुतिआ! संख्या प्रोक्ता कनीयसि ॥२४३


चतुरश्रीकृते क्षेत्रे भागविंशति भाजिते।

विस्तारार्धं भवेद्गर्भंगृहं भित्त्या समन्वितम् ॥२४४


भागप्रमितविस्तारा गर्भभित्तिर्विधीयते।

सार्धद्विभागान्या भित्तिस्तद्वदेवान्धकारिका ॥२४५


द्विभागा रथिका कार्या कर्णे कर्णे विजानता।

चतुर्भागा रथा भद्रे ष्वेतदर्धेन निर्गता ॥२४६


भद्र कर्णान्तयोः कार्या यदाष्टांशजलान्तरम्।

भद्रा णां रथिकाः कार्याः पार्श्वयोरुभयोस्तथा ॥२४७


रथिकानां च सर्वासां स्वभद्रं विस्तरार्धतः।

शृङ्गं भद्रं यथैवैकं तथा सर्वाणि कारयेत् ॥२४८


दिक्सूत्रेषु सर्वेषु वर्धमानं निवेशयेत्।

अष्टभागोच्छ्रिता जङ्घा खुरपिण्डं तदर्धतः ॥२४९


ये खलान्तरपत्रे च स्यातां भागद्वयोद्गते।

प्रथमा रथिकास्तत्र त्रयोच्छ्रिताः ॥२५०


पदपादविहीनाः स्युः क्रमेणोपरिभूमयः।

दिक्सूत्रेषु सकर्णेषु क्रिया प्राग्वद्विधीयते ॥२५१


शिखरं दशविस्तारं भागैर्द्वा दशकोच्छ्रितम्।

चतुर्गुणेन सूत्रेण वेणुकोशं समालिखेत् ॥२५२


स्कन्धकोशान्तरं चास्य त्रिभिर्भागैर्विभाजयेत्।

ग्रीवा च पद्मशीर्षं च तावद्भागार्धमुच्छ्रयात् ॥२५३


भागमामालसारं स्यात् कलशो भागमेव च।

सातशृङ्गावृतो मेरुरयं प्रासाद ईरितः ॥२५४


प्रदक्षिणीकृते तस्या तत्पुण्यं कनकाद्रि णा।

शैलेष्टकामये तत्स्यात्कृतेऽस्मिन्नधिकं ततः ॥२५५


मेरुः ।।

नन्दिशालस्य संस्थाने तद्रू पे समवस्थिते।

द्वितीया रथिका कार्या भागद्वयविनिर्गता ॥२५६


शेषो भद्र स्य विस्तारः स्वविस्तारोऽर्धनिर्गतः।

अष्टांशायामविस्तारः स्वविस्तारोर्धनिर्गतः ॥२५७


अष्टांशायामविस्तारः शाला स्यात्पुरतः पुनः।

तस्या मध्ये भवेद्गर्भो द्विभागायामविस्तरः ॥२५८


गर्भभित्तिर्भवेच्चास्य भागेनैकेन निर्गता।

बाह्यभित्तिस्तथैव स्यात्तत्समा चान्धकारिका ॥२५९


द्विभागा रथिकास्तस्य सलिलान्तरभूषिताः।

शेषो भद्र स्य विस्तारो भागेनैकेन निर्गमः ॥२६०


गङ्घोत्सेधं पीठं च विदध्यान्नन्दिसारवत्।

रथिकास्तत्र कर्तव्याः कर्ण भागत्रयोच्छ्रिताः ॥२६१


षडंशान् विस्तृतः कुर्याच्छिखरं सप्तचोच्छ्रितम्।

कार्या केसरिवच्चास्य रेखा सामलसारिका ॥२६२


एभिर्गुणैर्युतं चैनं पार्श्वयोरपि योजयेत्।

प्रासादोऽयं लताख्यः स्यात्कर्तव्यो दानवद्विषः ॥२६३


लताख्यः ।।

अग्रेतनं यदा पश्चान्न्यस्येत सरिणं तदा।

भवेत्त्रिपुष्कराख्योऽयं प्रासादस्त्रिदशालयः ॥२६४


त्रिपुष्कराख्यः ।।

नन्दिशालस्य सर्वासु दिक्षुयं केसरी यदा।

स्यात्तदा पञ्चवक्त्रोऽसौ विधेयः पद्मजन्मनः ॥२६५


पञ्चवक्त्रः ।।

यदा च पञ्चवक्त्रस्य मध्ये गर्भा न दीयते।

बाह्यलेखादिकं प्राग्वद्दिक्षु सर्वासु कल्पते ॥२६६


चतुःस्तम्भसमा कार्या मध्ये चास्य चतुष्किका।

वितानं चोपरि न्यस्येन्मध्यतस्तस्य भूषणम् ॥२६७


हरो हिरण्यगर्भश्च हरिर्दिनकरस्तथा।

एते चतुर्मुखे स्थाप्या नापरेषां भवत्ययम् ॥२६८


चतुर्मुखः ।।

चतुःषष्टिकरे कुर्यात्क्षेत्रे मानैकविंशतिः।

सप्तवर्गपदो गर्भो भित्त्या सह विधीयते ॥२६९


स्याद्गर्भभित्तिर्भागेन भागेनैवान्धकारिका।

षड्भागं कर्णविस्तारं दशधा प्रविभाजयेत् ॥२७०


षड्भिर्भागैर्भवेदस्य गर्भो भित्त्या समन्वितः।

बाह्या भित्तिर्भवेद्भागाद्भागश्चैवान्धकारिका ॥२७१


द्विभागं कर्णवैपुल्यमुदकान्तरभूषितम्।

शेषो भद्र स्य विस्तारश्चतुर्थांशविनिर्गतः ॥२७२


क्षोभयेदर्धभागे तु तदर्धेन जलान्तरम्।

मत्तवारणकैर्विद्यात्स्तम्भैरुपरि शोभिताः ॥२७३


रथिकैका त्रिभागेन पुनः सार्धद्विभागिका।

तासां परस्परक्षेपो भागो भागो विधीयते ॥२७४


शेषं शिखरविस्तारः सार्धषट्कं तदुच्छ्रयः।

पृथक्सूत्रैस्त्रिगुणितैर्वेणुकोशं समालिखेत् ॥२७५


स्कन्धकोशान्तरं भागैश्चतुर्भिस्तस्य भाजयेत्।

ग्रीवार्धभागमुत्सेधो भागेनामलसारकम् ॥२७६


पद्मशीर्षस्तथा भागं कलशो भागसंमितः।

अर्धभागसमोत्सेधं कारयेद्बीजपूरकम् ॥२७७


सर्वकर्णेषु कर्तव्याः क्रियाश्चैवं विचक्षणैः।

दिक्सूत्रबाह्यभागेषु वलभीं संन्निवेशयेत् ॥२७८


निर्गमे पञ्चभागः स्यात्तिर्यक्प्रक्षिप्तभागिकाः।

अस्या द्विभागिको गर्भो मध्ये भागत्रयोच्छ्रितः ॥२७९


भगार्धभागं भित्तिः स्यात्तत्समा चान्धकारिका।

तस्याश्चाग्रे विधातव्यः षड्दारुकसमन्वितम् ॥२८०


एकैकां रथिकां सार्धभागां कर्णेषु योजयेत्।

शेषं भद्र स्य विस्तारो भागः स्यादस्य निर्गमः ॥२८१


एवं भद्रं विभागं स्यात्स्तम्भद्वयसमन्वितम्।

वलभावर्तयोर्मध्ये भागमेकं च विस्तृतम् ॥२८२


तत्रोदकान्तरं कुर्याद्गणद्वरविभूषितम्।

नवभागोच्छ्रिता जङ्घा पीठमस्य तदर्धतः ॥२८३


मेखलान्तरपत्रे च कुर्याद्भागद्वयोन्मिते।

रथिका स्याद्द्विभागा च ततः सार्धैकभागिका ॥२८४


शेषं शिखरविस्तारः पञ्चांशं शिखरोच्छ्रयः।

उपर्युपरि कर्तव्यं सर्वतोभद्र कद्वयम् ॥२८५


द्वे द्वे च सर्वतोभद्रे कर्णे कर्णे निवेशयेत्।

दिकसूत्रेषु समस्तेषु क्रियामेवं प्रकल्पयेत् ॥२८६


विस्तार शिखरस्याष्टौ भागात्स्यार्धसमुच्छ्रयः।

पञ्चव्यासेन सूत्रेण --- ॥२८७


वेणुकोशान्तरं चास्य त्रिभिर्भागैर्विभाजयेत्।

ग्रीवा च पद्मशीर्षं च भागेन स्यादिदं द्वयम् ॥२८८


प्रत्येकं भागिकौ कार्यौ कलशामलसारकौ।

तवात्मकोऽयं कथितः प्रासादस्त्रिदशालयः ॥२८९


नवात्मकः ।।

विन्यसेद्दीशमैशान्यामाग्नेय्यां पुरुषोत्तमम्।

ब्रह्माणं वायुदिग्भागे नैरृते च दिवाकरम् ॥२९०


मध्यगर्भे शिवः स्थाप्यः प्राच्यामपि पुरन्दरः।

धर्मोयमां प्रतीच्यां च वरुणः सोम उत्तरे ॥२९१


शक्तिसम्पन्नः पूर्वायतनसन्निधौ।

प्रासादं कारयेद्यत्नात्तदाद्यं नैव पीडयेत् ॥२९२


उत्कृष्टमपकृष्टं वा यत्र स्थाने निवेशयेत्।

प्रासादं तत्र कर्माणि यानि तान्यभिदध्महे ॥२९३


सम्मुखं नैव कुर्वीत हीनं वा यदि वाधिकम्।

वेदभागास्तं तव सश्रितस्तंस्या स्यात्प्रासादोऽतिविगर्हितः ॥२९४


अन्योन्यं दक्षिणे वेधो हीन इत्यभिधीयते।

वेधभागामृते मृत्युं हीने हानिं विनिर्दिशेत् ॥२९५


हरो हिरण्यगर्भश्च हरिर्दिनकरस्तथा।

एते देवाः समाख्याताः परस्परविरोधिनः ॥२९६


एता न दक्षिणापार्श्वे स्थापयेत्पुरमाश्रितान्।

वामतो नान्यदेवानां नापि हीनालयेषु च ॥२९७


नैतेषां दक्षिणे कुर्यादन्येषामपि चालयम्।

हीनं वा यदि वाहीनं यदीच्छेच्छ्रिय आत्मनः ॥२९८


तेषामुत्तरतो नूनं यदि च्छेद्देवतालयम्।

प्रासादपदमानेन नवषट्त्रिंशदान्तरे ॥२९९


प्रासादं कारयेदन्यं मर्मवेधविवर्जितान्।

पुरतः पृष्ठतो वापि पार्श्वयोरुभयोरपि ॥३००


महामर्माणि चत्वारि कुर्याद्यत्ताघतोत्तरे।

क्षणमध्येषु सर्वेषु द्र व्यमेकं न दापयेत् ॥३०१


तदा युग्म --- वेधमर्म विवर्जयेत्।

क्षणमध्ये यदा द्र व्यमेकं मोहात्प्रदीयते ॥३०२


कर्तृकारकयोः पीडा भवेत्पूजा न तादृशी।

तस्मात्सर्वप्रयत्नेन स्थपतिः कारकोऽपि च ॥३०३


मर्माणि वर्जयेद्यत्नात्प्रासादस्य समीपतः।

अथ मर्मवियुक्तो यः प्रासादं कर्तुमिच्छति ॥३०४


प्रासादतः सदा तेन विधेयं महदन्तरम्।

प्रासादां तुत्तरं कवः कार्यं फलपुष्पैर्विभूषितम् ॥३०५


य एतैर्लक्षणैर्युक्तं कारयेद्देवतालयम्।

धनधान्यमवाप्नोति मोदते सुखमेव च ॥३०६


हरो हिरण्यगर्भश्च हरिर्दिनकरोऽपि च।

एते देवाः समाख्याता देवनामपि पूजिताः ॥३०७


पृथक्त्वेन च कर्तव्या एकरूपसमन्विताः।

अष्टबाहुश्चतुर्वक्त्रः कुण्डली मुकुटोज्ज्वलः ॥३०८


हारकेयूरसंयुक्तो रत्नमालोपशोभितः।

ऋष्यागतपुरः कार्यः पद्महस्तो दिवाकरः ॥३०९


शङ्खचक्रधरो देवो वामे च मधुसूदनः।

कण्ठाभरणसंयुक्तो मूर्धा च मुकुटोज्ज्वलः ॥३१०


ब्रह्मा पश्चिमतः कार्यो बृहज्जठरमण्डलः।

कुण्डिकामक्षसूत्रं च दधत्कूर्चविभूषितः ॥३११


प्रासादा रुचकादयोऽत्र ललिताः प्राग्विंशतिः पञ्चयुक्।

तावन्तश्च ततोऽनु केसरिमुखाः सन्धारकाः कीर्तिताः।

मिश्राख्या नव पञ्च चानुकथितास्तद्वन्निगूढाख्यया।

षष्टिः स्याच्चतुरन्वितेति विदिता सैषा भवेत्सम्पदे ॥३१२


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे रुचकादिचतुःषष्टिप्रासादको नाम षट्पञ्चाशोऽध्यायः।