प्रमुखा विकल्पसूचिः उद्घाट्यताम्

समराङ्गणसूत्रधार अध्यायसूची

विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः।


विमानमथ वक्ष्यामः प्रासादं शम्भुवल्लभम्।

स्वर्गपातालमर्त्यानां त्रयाणामपि भूषणम् ॥१


सर्वेषां गृहवास्तूनां प्रासादानां च सर्वतः।

प्रासादो मूलभूतोऽयं तथा च परिकर्मणाम् ॥२


एकाशीतिपदे वास्तु विमाने पञ्चभूमिके।

कर्णान्तयोः शतपदं प्रासादेष्वपरेषु तु ॥३


ब्रह्मासृजत्पञ्चभौमविमानानि पुरा रवेः।

मूलकर्णानुगैर्भद्रै र्द्विगुणोच्छ्रायवन्ति च ॥४


शेषभद्र स्य निष्कासो भद्र देवचतुष्टयम्।

आकाशदेवताधारचत्र्यथा विदिक्षु च ॥५


दशधा कृतविस्तारो विमाने सम्प्रकीर्तितः।

पञ्चभाग्यप्रमाणश्च गर्भे भित्तिस्तदर्धतः ॥६


प्राग्ग्रीवं भित्तिविस्तारं गर्भायामत्तथाग्रतः।

ततः प्राग्ग्रीवविस्तारः क्षोभणीयः कराङ्गुलैः ॥७


भागिको रथविस्तारः कर्णिका चार्धभागिकी।

भागपञ्चकविस्तारं भद्रं यत्तत्प्रकीर्तितम् ॥८


भूणस्तोवहेस्तस्य निर्गमो भागिकः स्मृतः।

भागार्धेन विधातव्यः क्षोभणो जलवर्त्मनः ॥९


कर्णिकां जलमागं च समसूत्रेण मापयेत्।

अथोच्यते भूमिकानां स्तम्भानां चेह लक्षणम् ॥१०


विस्ताराद्द्विगुणः स्कन्धः सर्वस्मिन् बुद्धनागरे।

---पञ्चभागा स्याज्जङ्घास्वसमुच्छ्रितिः ॥११


तिलकानां तथोच्छ्रायो विधातव्यो द्विभागिकः।

तिलकस्य शिरोघण्टां चैकसूत्रेण मापयेत् ॥१२


जङ्घामानत्रिभागेन खुरपिण्डीं प्रकल्पयेत्।

खुरकं वेदिबन्धं च समसूत्रेण मापयेत् ॥१३


जङ्घामानत्रिभागेन खुरपिण्डीं प्रकल्पयेत्।

खुरकं वेदिबन्धं च समसूत्रेण सूत्रयेत् ॥१४


द्वितीयभूमिकोत्सेधं सिंहकर्णं विभूषयेत्।

मस्तके घण्टया युक्ता चतुर्भागोच्छ्रिता च सा ॥१५


ततस्तृतीयभूत्सेधः पदतुल्यांशवर्जितः।

चतुर्थी भूमिका कार्या सार्धभागत्रयोच्छ्रिता ॥१६


मञ्जरीस्तम्भयोर्मध्ये सवातायनमेखला।

द्वितीया भूमिका या सा सिंहकर्णैरलङ्कृता ॥१७


तस्या द्वारं विधातव्यं कपाटद्वयसंयुतम्।

स्यावर्द्धात्पाटितं द्वारं तृतीयायां सदा भुवि ॥१८


पादेन द्विपदोत्सेधा तदूर्ध्वं वेदिमेखला।

कैरवाणां दलेर्युक्ता कर्तव्या दृष्टिहारिभिः ॥१९


वेदिका पञ्चविस्तारा कार्या भागसमुच्छ्रिता।

ग्रीवार्धभागिकोत्सेधा घण्टैकं भागमुच्छ्रिता ॥२०


पञ्चभाग---विस्तारा घण्टाकोटिर्विधीयते।

कुमान्दं वेदिबन्धं च घण्टाग्रं मस्तकोदयम् ॥२१


मापयेत्समसूत्रेण समन्ताद्भूमिपञ्चके।

व्यासार्धहस्तसङ्खयानि प्रवेशा प्रथमं क्षितेः ॥२२


अङ्गुलानि तदा द्व्यर्धो द्वितीयायाः प्रकीर्तिताः।

संयोगादनयोर्यः स्यात्तृतीयायास्तमादिशेत् ॥२३


तदर्ध्यर्धश्चतुर्थ्यास्तु पञ्चम्याः शेष ईरितः।

स्वमूलविस्तृतेर्भागस्तृतीयो वेदिकोर्ध्वतः ॥२४


लतया विस्तृतिर्भद्रे युक्ताया जालवर्तमनः।

वेदिदोग्रविधातव्यो सार्धसविस्तृतौ ॥२५


मञ्जर्याः स्तम्भसीमानां क्षोभयेत्पुष्टिमानतः।

वेद्यां भागे शालायां निष्क्रामो मूलकोणतः ॥२६


स्थानैर्विचित्ररूपैः स्यात्सिंहकर्णैश्च भूषितः।

पञ्चव्यासेन सूत्रेण रेखामस्य समालिखेत् ॥२७


एतद्विमानं ललितं देवदेवस्य कारयेत्।

विमानम् ।।

संस्थानं सर्वतोभद्र स्येदानीमभिधीयते ॥२८


जठरं बाह्यसीमा च तथा भित्त्यन्धकारिका।

जङ्घोत्सेधश्च कर्णौ च यथा मेरोस्तथा भवेत् ॥२९


तथैव भद्र विस्तारः षड्भागेन समन्ततः।

रथिके च द्विभागे स्तः कोणसंज्ञे च पार्श्वयोः ॥३०


मुष्टिप्रमाणं विस्तारं कर्तव्यमुदकान्तरम्।

विस्ताराद्द्विगुणः स्कन्धस्योच्छ्रायो भागविंशतिः ॥३१


पञ्चभागसमुत्सेधा जङ्घा कार्या सदा बुधैः।

मेखलान्तरपत्रं च सार्धभागसमुच्छ्रितम् ॥३२


शृङ्गं भागत्रयोत्सेधं सग्रीवामलसारकम्।

मूलशृङ्गस्य गर्भेण न्यस्येदुपरिभूमिकाम् ॥३३


द्वितीयभूमिविस्तारं दशधा प्रविभाजयेत्।

द्वौ भागौ शृङ्गविस्तारौ विधेयः पार्श्वयोर्द्वयोः ॥३४


सग्रीवामलसारस्य तैः शृङ्गस्योदयस्थितिः।

तस्य शृङ्गस्य गर्भेण कर्तव्योपरिभूमिका ॥३५


तस्या भूमेस्तु विस्तारं दशधा भाजयेत्पुनः।

यः शेषः शिखरायामो तद्विंतिनंते विनिर्दिशेत् ॥३६


विभजेद्वर्धमानं वा रुचकं वास्तुशोभनम्।

कर्णान्तरे भद्र मध्ये वल्लभालभीं तत्र कारयेत् ॥३७


भूमिकाशिखरेणोर्ध्वं नवभूमिं विभेदयेत्।

वेदिकामध्यसूत्रस्य कर्णतोर्ध्वभुवस्तथा ॥३८


भूमिकोर्ध्वभुवश्चैव विस्तारं दशधा भवेत्।

मूलसीमानुसारेण स्याच्छेदावधि संहृतिः ॥३९


ग्रीवा मूलार्धभागे --- नामलसारकम्।

चन्द्रि का चार्धभागेन --- कलशो भवेत् ॥४०


सर्वतोभद्रः ।।

गजस्य संस्थानमथ प्रासादस्याभिधीयते।

चतुःषष्टिपदं वास्तु प्रासादस्य विभाजयेत् ॥४१


ततः सीमार्धसूत्रेण पृष्ठतो वृत्तमालिखेत्।

पञ्चभागमिता जङ्घा मेखला सार्धभागिकी ॥४२


अग्रतः सूरसेनः स्यात्पृष्ठतः कुञ्जराकृतिः।

सीमानमष्टधा कृत्वा विभजेन्नन्दने यथा ॥४३


द्वौ द्वौ च कर्णयोर्भागौ भद्रे षु चतुरो विदुः।

विस्तारार्धेन जङ्घा स्याद्र थिकायाः पृथक्पृथक् ॥४४


भागत्रयोच्छ्रितं शृङ्गं कर्णदेशे विधीयते।

सप्तभागसमुत्सेधा वलभी मध्यसंश्रिता ॥४५


समन्ताद्भद्र संस्थाना रेखाग्रीवाण्डकादिभिः।

सिंहकर्णैश्च भद्रे षु प्रासादो गर्भ उच्यते ॥४६


वित्तसाध्यविहीनेन कर्तव्यः स्वस्तिके यथा।

सर्ववत्तस्य स्युः पत्रनिभाः ॥४७


विस्तारोऽ ---थ जङ्घा च लतिनि स्वस्तिके यथा।

उदकान्तर --- श्रीवत्से नन्दने यथा ॥४८


पद्मः ।।

ब्रूमोऽथ वृषभं स स्यात्पूर्वोकै रूपकर्मभिः।

चतुर्भद्र श्चतुर्द्वारो विमानो सत्रिसाकृति ॥४९


तेवृद्धिस्तत्प्रमाणाश्च सीमाशिखरकोदयैः।

कर्णवेदकपोताली जङ्घाग्रे मस्तकेन च ॥५०


सार्धद्विभागविस्तारौरकैर्वामदक्षिणौ।

कार्यौ भद्रं चतुर्भागं भागार्धं सलिलान्तरम् ॥५१


स्तम्भद्वयं भवेत्तस्य सर्वभूम्यन्तरेषु च।

एकः स्तम्भो विमाने स्याद्द्वौ स्तम्भौ वृषभे पुनः ॥५२


एष भेदः समाख्यातो विमानस्य वृषस्य च।

वृषभः ।।

मुक्तकोणमथ ब्रूमस्तं भागैरष्टभिर्भजेत् ॥५३


मूलकर्णावुभौ भागौ भवतो वामदक्षिणौ।

मध्यशृङ्गं चतुर्भागं प्रमाणं जठरस्य च ॥५४


कर्णशृङ्गान्तयोर्मध्ये कुर्वीत सलिलान्तरम्।

रथकौ पार्श्वयोः पूर्णौ भद्र देशे जलान्तरम् ॥५५


विस्तारोत्सेधजङ्घाश्च सग्रीवामलसारकः।

लतिनामिव कर्तव्याः प्रमाणेन समन्ततः ॥५६


मुक्तकोणः ।।

ब्रूमोऽथ नलिनीं तस्याः प्रमाणं लक्षणान्वितम्।

तस्यां तु मार्गस्यश्च देवगर्भः सुरालयः ॥५७


भित्तिविस्तृतिरायामो मुक्तकोणे यथा तथा।

मध्यदेशे तु यच्छृङ्गं --- कर्णान्तरे च यत् ॥५८


मुक्तकोणे यथा तच्च भेदः कर्मविभेदनात्।

चतुरश्रे स्मृतो मध्ये कर्णशृङ्गे विचक्षणैः ॥५९


नलिनः।

ब्रमोऽथ मणिकं तस्य शालालिङ्गसमुद्गता।

अलिन्दकार्धसीमायां सर्वतः स्याच्चतुष्किका ॥६०


श्रेयः पुष्टिसुखार्थोऽयं मणिकोऽत्र विमानवत्।

दशधा क्षेत्रसीम्नः स्याद्विभागः सर्वतोदिशम् ॥६१


रथ --- कर्णिकार्धं च जलवर्त्माथ भद्र कम्।

मूलगर्भस्तथोत्सेधो घण्टा स्तम्भान्तविस्तृता ॥६२


भूमिजङ्घासमुत्सेधः कपोताद्द्वारनिर्गमः।

सिंहकर्णा विमानानि स्तम्भचित्रादिकास्तथा ॥६३


तोरणान्यथ माल्यानि तस्यालङ्करणानि च।

नीलोत्पलदलाकारा मञ्जर्यः सर्वशोभनाः ॥६४


विमानमपरं ह्येतद्योनिरेकस्तयोर्द्वयोः।

केवलं भद्र भेदेन मणिको द्रा विडोऽप्ययम् ॥६५


मणिकः ।।

प्रासादमथ वक्ष्यामो गरुडं सर्वसुन्दरम्।

दशधा क्षेत्रविस्तारं तस्य पूर्वं विभाजयेत् ॥६६


द्वौ भागौ रथिकाः कार्या मूलकर्णाद्विनिस्सृताः।

भद्रं षड्भागविस्तारं पक्षवंशादिभेदितम् ॥६७


अलिन्दनिर्गमः कार्यः सीमार्धेन चतुर्दिशम्।

मूलसीमा तु कर्तव्या सलिलान्तरवर्जिता ॥६८


स्यान्मूलसीमविस्तारात्स्कन्धः स्याद्द्विगुणोच्छ्रितिः।

प्रासादस्य समुच्छ्रायात्त्रिभागेन समेखलाम् ॥६९


जङ्घामन्तरपत्रेण कुं युक्तं कुर्वस्तसा।

जीरकं वेदिबन्धं च भागत्रयसमुच्छ्रितम् ॥७०


अलिम्बानां समुत्सेधं शेखरार्धेन कारयेत्।

षड्भागं स्कन्धविस्तारं विदधीत विचक्षणः ॥७१


ग्रीवार्धभागमुत्सेधाद्भागमामलसारकम्।

कुमुदं चार्धभागेन कुम्भः स्यादेकभागिकः ॥७२


गरुडः ।।

अथोच्यते वर्धमानो दशधा तं विभाजयेत्।

पादोनांशद्वयं कुर्यात्पार्श्वयोः कर्णविस्तृतिम् ॥७३


सपादपदविस्तारौ रथकौ वामदक्षिणौ।

चतुर्भागोन्मितं भद्रं विस्तारेण प्रकीर्तितम् ॥७४


विस्तारो द्विगुणोच्छ्रायं स्कन्धं यावत्प्रकल्पयेत्।

खुरकस्याथ जङ्घाया मञ्जरीस्कन्धयोरपि ॥७५


ग्रीवामलसारकादेः प्रमाणं गरुडे यथा।

वर्धमानः ।।

द्वाविंशतिकरायामः शङ्खावर्तोऽथ कथ्यते ॥७६


मूलसीमावृत्तनाहस्तस्य स्यात्पद्मके यथा।

भित्तिगर्भस्य विस्तारः पादेनार्धनवकमात् ॥७७


अलिन्दमग्रतः कुर्यात्सिंहकर्णविभूषितम्।

उत्सेधत्र्यंशतो जङ्घा वेद्यं तत्र विभागतः ॥७८


आस्कन्धं वेदिकाबन्धाद्विस्तृतेर्द्विगुणोच्छ्रितिः।

मेखलान्तरपत्रं च जङ्घामध्ये विधीयते ॥७९


भ्रमयेत्कर्णसूत्रेण बहिर्वृत्तं समन्ततः।

कर्णदिक्पालयोर्मध्यं वृत्तसूत्रेण वर्तयन् ॥८०


अवशिष्टं तलच्छन्दं स्वस्तिकस्येव कारयेत्।

ग्रीवाममलसारं च कलशं वारिनिर्गमम् ॥८१


कुर्वीत स्वस्तिकस्येव विस्तारोत्सेधमानतः।

शूलसीमानुसारेण च्छेदे संवरणं भवेत् ॥८२


तद्रू पमेव लतिनं वर्तयेद्वलनाकृतिम्।

शङ्खावर्तः ।।

ब्रूमोऽथ पुष्पकं स स्याद्विमानसदृशाकृतिः ॥८३


तावत्प्रमाणस्तद्वृद्धिः पञ्चभूश्चतुरश्रकः।

विमानेन मानयुक्त यन्मञ्जर्या यच्च लक्षणम् ॥८४


तत्कार्यमत्र मञ्जर्या नतु कार्यं जलानतरम्।

पुष्पकः ।।

गृहराजमथ ब्रूमः स स्यात्कैलाससन्निभः ॥८५


विटङ्कनिर्गमाधारनिर्यूहैः सर्वतो वृतः।

वलभ्या भूषितो मध्ये गवाक्षद्वारसंयुतः ॥८६


कपोतस्तम्भपर्यन्तः शालाभञ्जीविराजितः।

वेदिकाखण्डशालाद्यं क---परितो भवेत् ॥८७


कुवीत्य मल्लकच्छाद्यैः सिंहकर्णैश्च भूषितः।

अलिन्दभेदतः प्राहुर्गृहराजमितं बुधाः ॥८८


कैलासस्येव संस्थानं स्यादस्योर्ध्वमधोऽपि च।

गृहराजः ।।

ब्रूमोऽथ स्वस्तिकं तस्य पूर्ववन्मानलक्षणम् ॥८९


तेनैव लतिनं सर्वं कुर्वीतैनं विचक्षणः।

यथा मूले विभक्ताः स्युर्लतिनस्वस्तिकादयः ॥९०


तथैषां स्कन्धभक्तानां मध्ये रेखां प्रकल्पयेत्।

प्रासादः स्वस्तिको नाम स्यादेवं लक्षणान्वितः ॥९१


सुधानासोदयः स्वस्य कर्तव्यः स---भागिकः।

स्कन्धं यावत्समुत्सेधो विस्ताराद्द्विगुणो भवेत् ॥९२


त्यवृद्भागोच्छ्रिता जङ्घा मेखला चा---भागिकी।

मध्यशाला द्विभागाश्च मूलसूत्रविभागतः ॥९३


कर्णा द्विभागिकाश्चैवं जलमार्गस्तु षोडश।

अष्टौ शाला भवन्त्यस्मिन् कर्णाश्चाष्टौ समन्ततः ॥९४


प्राग्ग्रीवं बाह्यतः कुर्यात्सुखभागविचक्षणः।

कलशश्चण्डिका ग्रीवा तद्वदामलसारकः ॥९५


ऊर्ध्व ऊर्ध्वप्रमाणं च यथैवाद्य तथा भवेत्।

स्वस्तिकः ।।

रुचकं ब्रूमहे तस्य विभागो दशधा भवेत् ॥९६


भागद्वयमितौ कर्णौ भद्रं षड्भागसम्मितम्।

तेषां विनिर्गमं विद्याद्धस्तामात्रा प्रमाणतः ॥९७


कुर्यादुदकमार्गांश्च प्रासादे रुचके क्वचित्।

स्कन्धावशिष्टमुत्सेधो विस्ताराद्द्विगुणो भवेत् ॥९८


वेदिकायास्तु विस्तारः स्कन्धे षड्भागिकः स्मृतः।

तृतीयांशेन कुर्वीत जङ्घामूर्ध्वं सुरोदयान् ॥९९


जङ्घायाश्च त्रिभागेन कार्या खुरखरण्डिका।

मेखलान्तरपत्रं च कुर्यादध्यर्धभागिकम् ॥१००


सार्धत्रिगुणसूत्रेण पूर्वा कर्कटना भवेत्।

चतुर्गुणं मूलसूत्रेण मध्ये कर्कटना स्मृतौ ॥१०१


विभज्य दशधा स्कन्धविस्तारं तैः प्रकल्पयेत्।

भद्रं चतुर्भिः कर्णाशुर्णांस्तु कुर्याद्भस्त्रिभिस्त्रिभिः ॥१०२


स्वच्छाया भूमिकाः कार्या या वा मूलार्धभागिकीः।

भागेनामलसारं च कुमुदं चार्धभागिकम् ॥१०३


कुम्भं भागेन कुर्वीत प्रासादे रुचके बुधः।

साधारणोऽयं सर्वेषां प्रासादस्तु दिवौकसाम् ॥१०४


रुचकः ।।

पुण्ड्रवर्धनकं ब्रूमः प्रासादं वल्लभं हरेः।

भ्रमयेन्मूलसीमास्पृग्वृत्तमादौ समन्ततः ॥१०५


तच्छालाकर्णसंयुक्तं कर्तव्यं सर्वतोदिशम्।

यश्छन्दः स्वस्तिकेऽस्य स्याद्द्विगुणः पुण्ड्रवर्धने ॥१०६


जङ्घोदकान्तभद्रा णामुच्छ्रायो विस्तृतिश्च या।

स्वस्तिके कथिता सैव विज्ञेया पुण्ड्रवर्धने ॥१०७


पुण्ड्रवर्धनः ।।

अथाभिधीयते मेरुर्दशधा तत्र भाजयेत्।

सीमानं तस्य कुर्वीत शृङ्गं चापि विभागिकम् ॥१०८


शेषं भागिकं भद्र मायमाने विधीयते।

पदस्य षोडशौसेनं कर्तव्यमुदकान्तरम् ॥१०९


पदैः षोडशभिर्गर्भो विधातव्यः पदं पदम्।

भित्तिरन्धारिका बाह्यभित्तिश्चास्य विधीयते ॥११०


भागषट्कोच्छ्रिता जङ्घा मेखला चैकभागिकी।

शृङ्गं च त्रिपदोत्सेधं शिखरं स्याद्दशोच्छ्रितम् ॥१११


कर्तव्यं वास्तुशास्त्रज्ञैस्तस्यैकादशभूमिकम्।

अर्धपञ्चमविस्तारः स्कन्धो ग्रीवार्धभागिका ॥११२


उच्छ्रायेण विधातव्या भागिकोत्सेधमण्डकम्।

भागाधिकं च कुमुदं भागिका कलशोच्छ्रितिः ॥११३


षड्गुणेनैव सूत्रेण रेखा तस्य प्रकीर्तिता।

मेरुं मेरुगिरिप्रख्यमेवं यः कारयेदिमम् ॥११४


शिलाभिरिष्टकाभिर्वा स महत्पुण्यमाप्नुयात्।

मेरुः ।।

लक्षणं मन्दरस्याथ प्रासादस्याभिधीयते ॥११५


गर्भस्यार्धेन निष्क्रान्तं भद्रं कुर्वीत मन्दरे।

--- मेरुसङ्काशं विन्यस्येत् सर्वतोदिशम् ॥११६


वलभी मध्यदेशे तु शिखरोर्ध्वसमुद्धृता।

सर्वमन्यत्प्रमाणं तु मेरोरिव भवेदिह ॥११७


मन्दरः ।।

कैलासमथ वक्ष्यामो दशधा तं विभाजयेत्।

भद्रं षड्भागविस्तारं मध्यदेशे विनिःसृतम् ॥११८


कर्णद्विभागविस्ताराः सलिलान्तरवर्जिताः।

गर्भस्यार्धेन विष्कासः कार्यो भद्र स्य सर्वतः ॥११९


लतिस्याखरं मध्ये शिखरार्धसमोदयम्।

भित्तिगर्भभ्रमन्तीमां जङ्घामेखलयोरपि ॥१२०


विस्तारमुदयं चास्मिन् विदध्यात्स्कन्धशृङ्गयोः।

मेरोरिवास्मिन् प्रासादे ववचद्व ग्रीवाण्डकस्य च ॥१२१


कैलासः ।।

ब्रूमोऽथ हंसकमस्य स्याद्विभागो रुचके यथा।

जलान्तरं विशेषोऽत्र शेषं भरुचकवद्भवेत् ॥१२२


हंसः ।।

भद्र स्य लक्षणं ब्रूमो दशधा तं विभाजयेत्।

गर्भविस्तारमानेन स्यादस्मिन् भद्र विस्तृतिः ॥१२३


सार्धद्विभागविस्तारौ रथकौ वामदक्षिणौ।

गर्भार्धा तुल्यमायामात्प्राग्ग्रीवं चेहलं कारयेत् ॥१२४


प्राग्ग्रीवस्य समुत्सेधं शिखरार्धेन कारयेत्।

वलभीं मध्यदेशेऽस्य सिंहकर्णसमन्विताम् ॥१२५


लताजलेगवाक्षाद्याश्चतुष्काभिश्चतुर्दिशम्।

भद्रो भवति शेषं तु स्यादत्र रुचके यथा ॥१२६


भद्र म् ।।

अथ तुङ्गं प्रवक्ष्यामो द्वितीयो ह्येष मन्दरः।

भूषयेत्सिंहकर्णैस्तं लतामूर्ध्वं च कारयेत् ॥१२७


भूमिभूमिसमुत्सेधः स्तम्भचित्रादिकं तथा।

मेरोरिवात्र मध्ये तु मञ्जर्यः सर्वतोदिशम् ॥१२८


तुङ्गः ।।

ब्रूमोऽथ मिश्रकं स स्यान्मानसंस्थानलक्षणैः।

भौमो विमानवन्मध्ये शृङ्गं कैलासवद्भवेत् ॥१२९


मिश्रकः ।।

अथ मालामाकारं तु तं कृत्वा गवाक्षैरुपशोभयेत्।

यत्किञ्चिन्मानमध्यं तु तदाद्यस्येव प्रकल्पयेत् ॥१३०


गवयः ।।

चित्रकूटमथ ब्रूमो दशधा तं विभाजयेत्।

प्राग्ग्रीवा निर्गता तस्य गर्भमानेन कारयेत् ॥१३१


सार्धद्वयाधोविस्तारांस्तत्कर्णान् वामदक्षिणान्।

उत्सेधस्य त्रिभागेन जङ्घोत्सेधं प्रकल्पयेत् ॥१३२


जङ्घोत्सेधत्रिभागेन विन्यस्येत्खुरपिण्डिकाम्।

कपोतान्तरपत्रं च तत्र स्यादर्धभागिकम् ॥१३३


शिखरोत्सेधमानं यत्तत्त्रयोदशभिः पदैः।

तत्र भूमास्तदुत्सेधं कल्पयेदनुसारतः ॥१३४


स्तास्तम्भसो भित्तिः कुर्यान्मुक्ताश्च परिकर्मणा।

कूटच्छेदेन तत्कर्म विन्यस्येत् सर्वतोदिशम् ॥१३५


भक्तमन्तरपत्रेण तलच्छन्दं तदूर्ध्वतः।

द्वे द्वे कूटे ततो न्यस्येद्वामदक्षिणकर्णयोः ॥१३६


शालामध्ये तु चत्वारि नामे कूटानि सर्वतः।

भूमिकाः सिंहकर्णाश्च कपाटद्वारघट्टनाः ॥१३७


शिखराणां समुत्सेधो यथैवाद्ये तथा भवेत्।

चित्रकूटः ।।

किरणः कथ्यते स स्यात्पद्मतुल्यः प्रमाणतः ॥१३८


द्वात्रिंशदनारा नस्मिन् विदध्यात्षोडशाथवा।

शालासु भेदः कर्णैः स्याच्छेषं मालाधरे यथा ॥१३९


किरणः ।।

सर्वाङ्गसुन्दरं ब्रूमः कर्मभेदैरनेकधा।

नानाशिल्पलताधारं प्रासादैर्बहुभिर्युतम् ॥१४०


तलच्छन्दतुल्यन्यासविरुक्तं बहुलक्षणम्।

ना --- प्रासादे सर्वसुन्दरे ॥१४१


तोरणैः सिंहकर्णैश्च संयुक्तं परिकर्मभिः।

प्रमाणमिह यत्किञ्चित्सर्व विद्यात्तदाद्यवत् ॥१४२


सर्वसुन्दरः ।।

श्रीवत्समथ वक्ष्यामो दशधा तं विभाजयेत्।

भागत्रयेण कुर्वीत शालां तत्र विचक्षणः ॥१४३


सार्धभागप्रविस्तारौ रथकौ वामदक्षिणौ।

मूलकर्णा भवन्त्यत्र भागद्वितयविस्तृताः ॥१४४


प्रासादहस्तमात्राभिः प्रत्येकं भद्र निर्गमः।

द्व्यङ्गुलं त्र्यङ्गुलं वापि चतुरङ्गुलमेव वा ॥१४५


भली मध्ये तु मञ्जर्यः कार्याः पद्मदलोपमाः।

सर्वतः परिकर्म स्याद्र थिका कर्णसंश्रया ॥१४६


आमलिश्चन्द्र शालाभिः स्कन्धान्तं परिपूरयेत्।

खुरपिण्डा च जङ्घा च कुम्भाग्रं शिखरादि च ॥१४७


यत्किञ्चित्तत्प्रमाणेन वर्धमानसमं भवेत्।

नन्द्यावर्तः ।।

ब्रूमो वलभ्यं स भवेद्गृहराजस्य सन्निभः ॥१४८


आयतश्चतुरश्रो वा प्रमाणेनैकतः समः।

चतुरश्रस्तु विस्तारादुदयो द्विगुणो भवेत् ॥१४९


आध्यतन्त्रस्य पुनः सार्धः स्कन्धोच्छ्रायो विधीयते।

विस्तारं दशधा समक्ष---तुरश्र समन्तः ॥१५०


विभजे स्यात् ततो मानं पूर्वप्रासादसन्निभम्।

स्वरूपं तस्य वक्ष्यामः श्रीवत्समिव तं भवेत् ॥१५१


यद्वा विमानरुचकवर्धमानादिसद्मना।

छन्देनैकस्य कस्यापि प्रासादस्य विभाजयेत् ॥१५२


भूस्तम्भपरिकर्माणि विस्तारोसेधमेखलाः।

सिंहकर्णरथा घण्टा तथा कुम्भाग्रषण्डकम् ॥१५३


यत्किञ्चित्तत्प्रमाणेन यथैवाद्यं तथा भवेत्।

वलभ्यः ।।

सुपर्णस्य स्वरूपं च प्रमाणं चाभिधीयते ॥१५४


विभक्तं सिंहरूपेण सर्वभद्रं निवेशयेत्।

भागैश्चतुर्भिर्निष्क्रान्तं भद्रं गभयितः समम् ॥१५५


द्वौ भागौ मूलकर्णौ तो षड्भागा भद्र विस्तृतिः।

पञ्चभागोच्छ्रिता जङ्घा मेखला तस्य भागिका ॥१५६


मूलजङ्घात्रिभागेन कुरवेदिसमुच्छ्रितिः।

सच मध्ये तु शृङ्गे द्वे कर्तव्ये वामदक्षिणे ॥१५७


उच्छ्रायाद्द्विपदे स्यातां विभक्ते सर्वतोदिशम्।

मूलकर्णेषु शृङ्गाणां त्रिपदा स्यात्समुच्छ्रितिः ॥१५८


--- सेवापि चतुरङ्गुलमेव वा।

कुर्याज्जाला विस्तारं श्रीवत्से नन्दने यथा ॥१५९


विस्ताराद्द्विगुणोत्सेधः स्कन्धः षड्भागविस्तृतः।

उत्सेधस्य त्रिभागेन जङ्घोत्सेधो विधीयते ॥१६०


तृतीयांशेन जङ्घायाः कुर्वीत खुरपिण्डिकाम्।

मेखलान्तरपत्रं च विदध्यात्सार्धभागिकम् ॥१६१


विभाज्या दशभिर्भागैः पूर्ववत्स्कन्धविस्तृतिः।

सार्धद्विगुणविस्तृत्या पूर्वा कर्कटना भवेत् ॥१६२


चतुर्गुणेन सूत्रेण मध्या कर्कटना भवेत्।

श्रीवार्धभागमुत्सेधात्कुमुदं कुम्भकं पुनः ॥१६३


अस्मिन्नामलसारं च यथा चाद्ये तथा भवेत्।

श्रीवत्सः ।।

पद्मनाभमथ ब्रूमः पद्मशालाभिरन्वितम् ॥१६४


द्वितीयः पद्मको ह्येष पद्ममालाधरः शुभः।

सर्वमन्यत्प्रमाणं तु पद्मस्वस्तिकयोर्यथा ॥१६५


पद्मनाभः ।।

वैराजमथ वक्ष्यामि स विज्ञेयो विमानवत्।

रूपशिख---मुत्सेधस्तम्भग्रीव---रूपकम् ॥१६६


सभातोरणनिर्यूहसिंहकर्णाश्च तादृशैः।

साधारं चतुरश्रं च तं कुर्यात्पञ्चभूमिकम् ॥१६७


विमानसदृशाकारो वैराजोऽयमुदाहृतः।

वैराजः ।।

ब्रूमोऽथ वृत्तकं मूले चतुरश्रः प्रकीर्तितः ॥१६८


जङ्घामूले ततोऽष्टाभिस्त्रिर्वृत्तो भागतृतीयके।

मूलमध्याग्रतः पूर्णं तं कुर्यात्सर्वतोदिशम् ॥१६९


भद्रा कारं च भद्रे षु विभागे चतुरश्रके।

अष्टाश्रिवज्जकाकारा वृत्ते स्वस्तिकसन्निभम् ॥१७०


यथा मूलविभागेन लतिनः स्वस्तिकोदयः।

तथा वृद्धिप्रमाणाभ्यामयमप्याद्यवद्भवेत् ॥१७१


वृत्तकः ।।

नन्द्यावर्तमथ ब्रूमो दशधा तं विभाजयेत्।

पादोमध्यंशविस्तारो कर्णौ कुर्वीत पार्श्वयोः ॥१७२


चतुर्भागप्रविस्तारं भद्र मस्य प्रकल्पयेत्।

सपादपदिकं कुर्याच्छालाकर्णान्तरे रथम् ॥१७३


जलाधाररथं कर्णतः शालान्तेषु यथेष्टतः।

ष---सु शिखरायामास्तन्मध्ये वलभी भवेत् ॥१७४


जलमार्गं च कुर्वीत शालाकर्णान्तमूलयोः।

प्रमाणमन्यथा किञ्चिद्भूसिंहस्येव कारयेत् ॥१७५


सुपर्णः ।।

प्रमाणमथ सिंहस्य लक्षणं चाभिधीयते।

दशधा क्षेत्रविस्तारं विभजेत् सर्वतः समम् ॥१७६


द्विभागौ मूलकर्णौ तु कर्तव्यौ वामदक्षिणौ।

मूलभद्र स्य विस्तारः षड्भिर्भागैर्विधीयते ॥१७७


विस्तारो द्विगुणः कार्यः स्कन्धोत्सेधप्रमाणतः।

पञ्चभागोच्छ्रिता जङ्घा मेखला सार्धभागिकी ॥१७८


खुरकं वेदिबन्धं च तत्त्रिभागेन कल्पयेत्।

भागत्रयोच्छ्रितानि स्युः शृङ्गाणि च चतुर्दिशम् ॥१७९


सिंहस्य कर्णवन्मध्ये वलभ्या भूषयेद्बुधः।

सर्वमन्यत्प्रमाणं च सर्वतोभद्र वद्भवेत् ॥१८०


सिंहः।

विचित्रकूटं वक्ष्यामो दशधा तं विभाजयेत्।

द्विभागिको मूलभद्र स्य हस्ततुल्याङ्गुलो भवेत् ॥१८१


शालामध्यप्रदेशे तु वलभीं सन्निवेशयेत्।

कूटे द्वे सर्वतो न्यस्येच्छ्लिष्टे---मूलक---योः ॥१८२


एष भेदः समुद्दिष्टः शाला स्यात्कूटवर्जिता।

प्रमाणमन्यत्सर्वं तु विज्ञेयं चित्रकूटवत् ॥१८३


चित्रकूटः ।।

योगपीठमथ ब्रूमस्त्रिविष्टपमिवोत्तमम्।

विभजेद्भागविंशत्या चतुरश्रं समन्ततः ॥१८४


कोष्ठान्यद्भागविस्तारा कुर्याद्दिक्षु विदिक्षु च।

भागिकौ जलमार्गौ च विदध्याद्वामदक्षिणौ ॥१८५


विस्तारात्तेषु गर्भः स्याद्भागत्रितयसंमितः।

पञ्चभागोच्छ्रिता जङ्घा कपोतान्तरवर्जिता ॥१८६


खुरकं वेदिबन्धं च कुर्याद्भागत्रयोच्छ्रितम्।

विस्तारात्कुर्याद्दिक्षु द्विगुणोच्छ्रायः कार्योऽयं पञ्चभूमिकः।

सिंहकर्णै रथैर्घण्टाभ्रमिकास्तम्भतोरणैः।

रचनास्य विधातव्या कथिता पुष्पके तथा ॥१८८


सान्धारः केवलं कार्यः प्रासादोऽयं विचक्षणैः।

योगपीठः ।।

घण्टानादमथ ब्रूमः स भवेत्पञ्चभूमिकः ॥१८९


अष्टाश्रिकोणः कर्तव्यः संस्थानात्पुष्पकोऽपरः।

भैरवो भद्र काली च स्थाप्य चात्र पाठको ॥१९०


घण्टानादः ।।

पताकिनमथ ब्रूमो वातोद्भूतमिवार---।

लतिनं लतिनाकारं विभक्तं सर्वतोदिशम् ॥१९१


तं चण्डिकायाः कुर्वीत रुचकं वर्धमानकम्।

वृक्षपताकिनं वक्ष्यामि --- भृतं शाखिनं यथा ॥१९२


पताकिनः ।।

गुहाधरमथ ब्रूमः श्रीपुष्टिसौखदायिनम्।

विभक्ते दशधा क्षेत्रे भद्रं स्याद्गर्भमानतः ॥१९३


अर्धेन मूलगर्भस्य कार्यो भद्र स्य निर्गमः।

सार्धभागप्रविष्टारौ कर्णौ द्वौ द्वौ च पार्श्वयोः ॥१९४


जलाधा मूलकर्णान्ते कर्तव्यः पार्श्वयोर्द्वयोः।

तद्द्वारमध्यदेशे तु विन्यस्येत्स्तम्भतोरणम् ॥१९५


विस्तारद्विगुणोत्सेधश्चतुःशृङ्गश्चतुर्मुखः।

भूग्रीवामेखलाजङ्घाः कुम्भकामलसारके ॥१९६


सिंहस्येव प्रकुर्वीत गुहाधारस्ततो भवेत्।

द्वारभेदेन नामास्य प्रासादस्य विनिर्मितम् ॥१९७


गुहाधरः ।।

कथयामोऽथ शालाकं दशधा तं विभाजयेत्।

द्विभागिकौ मूलकर्णौ षड्भागा भद्र विस्तृतिः ॥१९८


द्वाराणि भद्र मध्ये स्युर्मूलद्वारसमानि तु।

चतुर्बाहुश्चतुर्द्वारो द्वितीयो रुचको ह्यसौ ॥१९९


द्वारमानेन नामास्य शालाक इति कीरितम्।

प्रमाणमन्यद्यत्किञ्चिद्भद्र कस्येव तद्भवेत् ॥२००


शालाकः।

इदानीं वेणुकं ब्रूमश्चतुरश्रं समं शुभम्।

न कुर्याद्भद्र निष्क्राममात्रच्छत्रात्मनः शुभम् ॥२०१


विस्तारद्विगुणोच्छ्रायः कुम्भाग्रं यचेदिष्यत्।

शिखाद्विगुणमानस्य जङ्घा त्र्यंशेन कल्पते ॥२०२


जङ्घात्रिभागमुत्सेधात्कार्या खुरवरण्डिका।

कपोतान्तरपत्रं च कर्तव्यं साधभागिकम् ॥२०३


चतुर्भागोन सूत्रेण वेणुकोशं समालिखेत्।

सर्वतः शोभनं कुर्यात्तं कपोतविनिर्गमे ॥२०४


मुखेऽस्य सिंहकर्णाः स्युश्चन्द्र शालाविवर्जिताः।

प्रमाणमस्य यत्किञ्चिद्वेणुकं च विधीयते ॥२०५


वेणुकम् । ।

इदानीं कुञ्जरं ब्रूमो गजलक्षणलक्षितम्।

अर्धसूत्रेण तत्साम्नः पृष्ठतो वृत्तमालिखेत् ॥२०६


चतुर्भागा भवेज्जङ्घा मेखला सार्धभागिका।

वृत्ताकारं पृष्ठदेशे तं कुर्वीत विचक्षणः ॥२०७


शालासु सिंहकर्णाः स्युः पार्श्वतः पृष्ठतोऽग्रतः।

कर्णाश्च तस्य कर्तव्याः शृङ्गैः सर्वेऽपि पूरिताः ॥२०८


मध्यप्रदेशे वलभी कर्तव्या चातिशोभना।

यत्किञ्चित्तत्प्रमाणं तु यथैवाद्ये तथा भवेत् ॥२०९


कुञ्जरः ।।

अथ हर्षं प्रवक्ष्यामश्चतुरश्रं मनोरमम्।

विस्तारात्सार्ध उत्सेधः स्याद्ध्यटां मस्तकावधेः ॥२१०


छाद्यरूपं च कुर्वीत चतुरश्रं चतुर्दिशम्।

शुकनासं सुखातेन शोभितं परिकर्मणा ॥२११


जङ्घामेखलयोश्च---सुरपिण्डस्य चोच्छ्रितिः।

घण्टाग्रं चन्द्र शाला च च्छाद्यकं च यदृच्छया ॥२१२


कुर्यात्प्रमाणमन्यच्च यथैव मनसः प्रियम्।

हर्षणः ।।

इदानीं विजयं ब्रूमः प्रासादं सार्धशोभनम् ॥२१३


लतिनो वर्धमानेन --- विभाजयेत्।

शुकनासोदयं न्यस्येदंशोनशिखरोदयम् ॥२१४


अग्रप्राग्ग्रीवकौ कार्यौ रथकौ वामदक्षिणौ।

कर्तव्योर्ध्वलतश्चापं पूर्णः सर्वतोदिशम् ॥२१५


विजयो वर्धमानश्च प्रमाणेन समावुभौ।

अलिन्दभेदान्नामास्य कृतं विजय इत्यदः ॥२१६


महापद्मः।

ब्रूमोऽथ हर्म्यं प्रासादं तं कुर्यादेकभूमिकम्।

दारुजं चतुरश्रं च पट्टतुलाभित्तिभिः ॥२१७


दण्डच्छाद्यं च कुर्वीत समन्ताच्च चतुष्किकाम्।

ऊर्ध्वतस्तुम्बिकाक्रान्तं पद्मखण्डविभूषितम् ॥२१८


मुखैः पत्रैर्गवाक्षैश्च वेदिकास्तम्भतोरणैः।

वलभीशालभञ्जीभिः सिंहकर्णैश्च भूषयेत् ॥२१९


विस्तारमस्य हर्म्यस्य कुर्यादुच्छ्रयसंमितम्।

हर्म्यः ।।

इदानीमुज्जयन्तस्य लक्षणं सम्प्रचक्ष्महे ॥२२०


कुर्याद्भूहर्म्यमानेऽत्र द्वारि मण्डपभूषितम्।

चतुर्द्वारं च कुर्वीत सर्वतो मण्डपान्वितम् ॥२२१


प्रमाणमन्यदप्यस्य हर्म्यस्येवाखिलं भवेत्।

उज्जयन्तः ।।

इदानीमभिधास्यामो गन्धमादनलक्षणम् ॥२२२


हर्म्यमानेन कर्तव्यः प्रासादो गन्धमादनः।

अग्रतः पृष्ठदेशे च मण्डपं तस्य कारयेत् ॥२२३


चतुष्कीजालपक्ष्माद्या वामदक्षिणभागयोः।

प्रमाणमस्य कर्तव्यं यथा हर्म्यस्य कीर्तितम् ॥२२४


गन्धमादनः।

ब्रूमोऽथ शतशृङ्गं स त्रिविष्टपसमो भवेत्।

विभजेद्भागविंशत्या पञ्च भौमं च कारयेत् ॥२२५


---द्विभागानि कूटानि सैकमण्डशतं भवेत्।

भूमौ भूमौ च शृङ्गाणि भूविस्तारदशांशतः ॥२२६


प्रमाणमस्य यत्किञ्चित्तत्त्रिविष्टपवद्भवेत्।

निरवद्यः ।।

विभ्रान्तमथ वक्ष्यामः सर्वतोभद्र सन्निभम् ॥२२७


सान्धारं तं प्रकुर्वीत सर्वतो मण्डपैर्युतम्।

गवाक्षा वेदिजालाद्याः कुर्याद्दिक्षु चतुष्किकाः ॥२२८


विभ्रान्तः ।।

मनोहरमथ ब्रूमः स भवेन्मण्डपो यथा।

साच्छाद्यतोरणैर्दिक्षु चतुर्द्वारः समण्डपः ॥२२९


वेदिषण्डाम्बुमार्गाद्यैः प्रतोलीद्वारजालिकैः।

सिंहपीठतलन्यासैः कलशैः परिपूरितः ॥२३०


वृत्तस्तम्भस्तुलाच्छन्नो बहिश्छाद्येन भूषितः।

सिंहव्यालगजैः पत्रैर्मुखे सस्तम्भतोरणैः ॥२३१


पुनः कार्यं प्रमाणं तु यथाशोभं विधीयते।

मनोहरः ।।

वृत्तवृत्तायतौ ब्रूमस्तयोः कम्बुसमाकृतिः ॥२३२


वृत्तस्तत्र तलन्यासचतुरस्रॐशपञ्चकम्।

वृत्ताद्यमूर्ध्वतो वृत्तं यथाशोभं समुत्थितम् ॥२३३


कुर्यान्मुखायतं चान्यं सिंहकर्णान्वितं मुखे।

वृत्तवृत्तायतौ ।।

चैत्यस्य लक्षणं ब्रूमः स स्याच्छात्रयान्वितः ॥२३४


अस्याकारः प्रमाणं च यथा वृत्ते तथा भवेत् ।

चैत्यः ।।

किङ्किणीकमथ ब्रूमः पञ्चाण्डं नवभूमिकम् ॥२३५


वृत्तकूटाः शुभाः कार्याः सर्वेऽमी शुभलक्षणाः।

किङ्किणीकः ।।

इदानीं लयनं ब्रूमः स शैलखननाद्भवेत् ॥२३६


निःश्रेण्यारोहसोपाननिर्यूहकगवाक्षकान्।

वेदीभ्रमविटङ्कांश्च प्रतोलीद्वारसंयुतान् ॥२३७


उत्कीर्णानाचरे तरप्राग्रीवन्मानं च ।

लयनम् ।।

इदानीं पट्टिसं ब्रूमः प्रासादं वस्त्रसम्भवम् ॥२३८


बोहातो जालपादैश्च वेदीषण्डैश्च मण्डितम्।

कूर्मपृष्ठं प्रदातव्यमिच्छता शुभलक्षणम् ॥२३९


पट्टिसः ।।

विभवः कथ्यते स स्यात् सुर्यामन्यसमाश्रयः।

दारवे दारवो योज्यः शैलजे शैलसम्भवः ॥२४०


मृन्मये मृन्मयः कार्यश्चयने चयनोद्भवः।

प्रत्यन्तग्रामखेटेषु दारुस्तम्भैर्विधीयते ॥२४१


विभवस्यानुसारेण स कार्यो धार्मिकैस्त्रिभिः।

विभवः ।।

तारागणमथ ब्रूमः स भवेन्मण्डपाकृतिः ॥२४२


वस्त्रचीरतुलाशाण्डो डोलाक्रीडाभ्रमैर्गृहैः।

वस्त्रजैश्चित्ररूपाद्यैर्घण्टादर्पणतोरणैः ॥२४३


ध्वजच्छत्रविमानाद्यैः किङ्किणीभिर्विराजितम्।

यत्किञ्चित्सुन्दरं सर्वं तदत्र विनिवेशयेत् ॥२४४


तारागणः।

अष्टाष्टकैर्द्वे च विशेषयोगात्।

प्रासादषष्टिश्चतुरन्वितैषा ।

विमानमुख्याः कथिता य एतान्।

जातायस्यैस शिल्पिगणाग्रणीः स्यात् ॥२४५


इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे विमानादिचतुःषष्टिर्नामैकोनषष्टितमोऽध्यायः।